तत्त्वमुक्ताकलापः जडद्रव्यसरः

श्रीमन्निगमान्तमहादेशिकविरचितः

तत्त्वमुक्ताकलापः

जडद्रव्यसरः

श्रीमान्वेङ्कटनाथार्यः कवितार्किककेसरी । वेदान्ताचार्यवर्यो मे संनिधत्तां सदा हृदि ॥

लक्ष्मीनेत्रोत्पलश्रीसततपरिचयादेष संवर्धमानो नाभीनालीकरि(ङ्ग)ङ्खन्मधुकरपटलीदत्तहस्तावलम्बः । अस्माकं संपदोघानविरलतुलसीदामसंजातभूमा कालिन्दीकान्तिहारी कलयतु वपुषः कालिमा कैटभारेः ॥ १ ॥
नानासिद्धान्तनीतिश्रमविमलधियोऽनन्तसूरेस्तनूजो वैश्वामित्रस्य पौत्रो विततमखविधेः पुण्डरीकाक्षसूरेः । श्रुत्वा रामानुजार्यात्सदसदपि ततस्तत्त्वमुक्ताकलापं व्यातानीद्वेङ्कटेशो वरदगुरुकृपालम्भितोद्दामभूमा ॥ २ ॥
प्रज्ञासूच्याऽनुविद्धः क्षतिमनधिगतः कर्कशात्तर्कशाणाच्छुद्धो नानापरीक्षास्वशिथिलविहिते मानसूत्रे निबद्धः । आतन्वानः प्रकाशं बहुमुखमखिलत्रासवैधुर्यधुर्यो धार्यो हेतुर्जयादेः स्वहृदि सहृदयैस्तत्त्वमुक्ताकलापः ॥ ३ ॥
शिष्टा जीवेशतत्त्वप्रमितियुतपरोपासना मुक्तिहेतुः शक्यस्तत्तत्प्रकारावगतिविरहिभिर्नैव याथात्म्यबोधः । ते ते चार्था विदध्युः कुमतिविरचितास्तत्त्वबोधोपरोधं तस्मान्निर्धूतसर्वप्रतिमतविमतिं साधये सर्वमर्थम् ॥ ४ ॥
आवापोद्वापतस्स्युः कतिकति कविधीचित्रवत्तत्तदर्थेष्वानन्त्यादस्तिनास्त्योरनवधिकुहनायुक्तिकान्ताः कृतान्ताः । तत्त्वालोकस्तु लोप्तुं प्रभवति सहसा निस्समस्तान्समस्तान् पुंस्त्वे तत्त्वेन दृष्टे पुनरपि न खलु प्राणिता स्थाणुतादिः ॥ ५ ॥
द्रव्याद्रव्यप्रभेदान्मितमुभयविधं तद्विदस्तत्त्वमाहुर्द्रव्यं द्वेधा विभक्तं जडमजडमिति प्राच्यमव्यक्तकालौ । अन्त्यं प्रत्यक् पराक् च प्रथममुभयधा तत्र जीवेशभेदान्नित्या भूतिर्मतिश्चेत्यपरमिह जडामादिमां केचिदाहुः ॥ ६ ॥
तत्र द्रव्यं दशावत्प्रकृतिरिह गुणैस्सत्त्वपूर्वैरुपेता कालोऽब्दाद्याकृतिस्स्यादणुरवगतिमान् जीव ईशोऽन्य आत्मा । संप्रोक्ता नित्यभूतिस्त्रिगुणसमधिका सत्त्वयुक्ता तथैव ज्ञातुर्ज्ञेयावभासो मतिरिति कथितं संग्रहाद् द्रव्यलक्ष्म ॥ ७ ॥
एकार्थप्रत्यभिज्ञा भवति दृढतरा दर्शनस्पर्शनाभ्यां संघातादेरयोगादवगमयति सा वस्तु रूपादतोऽन्यत् । एकस्मिन् दूरतादेरविशदविशदप्रत्यभिज्ञादि तद्वत् नैकत्वेऽप्यक्षभेदाद्भिदुरमिव मिथस्संश्रयादिप्रसङ्गात् ॥ ८ ॥
धर्मो निर्धर्मकश्चेत्कथमिव भविता सोऽभिलापादियोग्यो धर्मेणान्येन योगे स च भवति तथेत्यव्यवस्थेति चेन्न । कश्चिद्धर्मोऽपि धर्मी स्फुटमतिमथने स्वान्यनिर्वाहकत्वं तन्निष्कर्षप्रयोगेष्वपि भवति पुनस्तस्य धर्मी विशेषः ॥ ९ ॥
तच्छून्ये तस्य वृत्तिः कथमिव घटते तद्विशिष्टे तु वृत्तौ स्वाधारत्वप्रसङ्गस्तत इह न गुणो नापि धर्मीत्ययुक्तम् । तद्वृत्तिर्धर्मिमात्रे न भवति तत एवास्य तच्छून्यताऽतो नोक्तौ दोषौ स्वधीवाग्विहतिरितरथा तद्वदन्येऽपि जल्पाः ॥ १० ॥
स्वच्छन्देनागमेन प्रकृतिमहदहङ्कारमात्राक्षसिद्धिर्नाध्यक्षेणाप्रतीतेर्न पुनरनुमया व्याप्तिलिङ्गाद्यसिद्धेः । सत्त्वाद्युन्मेषभिन्नान्महत इह तथा स्यादहङ्कारभेदः प्राच्यादक्षाणि मात्राः प्रजनयति परो मध्यमस्तूभयार्थः ॥ ११ ॥
तत्राहङ्कारजन्यं भजति परिणतैः शब्दमात्रं नभस्त्वं तद्वत्तन्मात्रपूर्वास्तदुपरि मरुदग्न्यम्बुभूम्यः क्रमात्स्युः । सूक्ष्मस्थूलस्वभावस्वगुणसमुदयप्रक्रियातारतम्यात् तन्मात्राभूतभेदः कललदधिनयात् कल्पितस्तत्त्वविद्भिः ॥ १२ ॥
अद्भ्योऽग्निस्तेजसस्ता इति न हि वचसोर्बाधितुं युक्तमेकं निर्वाहः कल्पभेदाद्यदि न दृढमितात्तत्त्वसृष्ट्यैकरूप्यात् । व्यष्टौ ताभ्यः कदाचित्तदुपजनिरतो व्यत्ययस्तत्समष्टौ आदावप्सृष्टिवादश्श्रुतिमितमितरन्न प्रतिक्षेप्तुमीष्टे ॥ १३ ॥
पृथ्व्यास्स्पर्शादिभेदो द्रवमृदुकठिनीभावभेदश्च दृष्टस्तद्वत्पृथ्वीजलाग्निश्वसनपरिणतिर्लाघवायेति जैनाः । तत्र द्रव्यैक्यमिष्टं क्रमजनिविलयौ त्वागमादप्रकम्प्यौ तर्कैकालम्बिगोष्ठ्यां भजतु बहुमतिं तादृशी लाघवोक्तिः ॥ १४ ॥
तत्त्वेष्वाथर्वणेऽष्टौ प्रकृतय उदिताः षोडशान्ये विकारा निष्कर्षेदंपरेऽस्मिन् वचसि तदितरत्सर्वमावर्जनीयम् । दृष्ट्वा सांख्यं पुराणादिकमपि बहुधा निर्वहन्त्येतदेके चिन्तासाफल्यमान्द्याच्छ्रमबहुलतयाऽप्यत्र तज्ज्ञैरुदासि ॥ १५ ॥
निश्शेषं कार्यतत्त्वं जनयति स परो हेतुतत्त्वैश्शरीरी तत्तत्कार्यान्तरात्मा भवति च तदसौ विश्रुतो विश्वरूपः । तेजोऽबन्नाभिधेये बहुभवनमभिध्यानलिङ्गं च दृष्टं तस्मादीशाननिघ्नाः प्रकृतिविकृतयस्स्वस्वकार्यप्रसूतौ ॥ १६ ॥
द्वेधा भूतानि भित्त्वा पुनरपि च भिनत्त्यर्धमेकं चतुर्धा तैरेकैकस्य भागैः परमनुकलयत्यर्धमर्धं चतुर्भिः । इत्थं पञ्चीकृतैस्तैर्जनयति स जगद्धेतुरण्डादिकार्याण्यैदंपर्यं त्रिवृत्त्वश्रुतिरधिकगिरामक्षमैका निरोद्धुम् ॥ १७ ॥
कार्यं नैवारभेरन्समधिकमणवस्सर्वतस्संप्रयुक्ता दिक्संयोगैकदेश्यान्न घटत इह ते दिक्कृतोऽप्यंशभेदः । बुद्धेस्त्वंशानपेक्षा स्फुरति विषयिता विश्रमस्त्वस्तु दृष्टे नो चेदारम्भकांशप्रभृतिषु नियता दुर्निवाराः प्रसङ्गाः ॥ १८ ॥
स्याद्भागानन्त्यसाम्ये परिमितिसमता सर्षपक्ष्माभृतोश्चेन्मैवं भागेष्वनन्तेष्वपि समधिकता स्थौल्यहेतुर्गिरेः स्यात् । व्यक्त्यानन्त्येऽपि जात्योः परतदितरता पक्षमासाद्यनन्तं श्रौतोपादानसौक्ष्म्यं न भवदभिमतं तत्प्रथिम्नश्श्रुतत्वात् ॥ १९ ॥
कार्योपादानभेदे न कथमधिकतो(ता) गौरवादेस्स्वकार्यं नान्यत्वं नामसंख्याव्यवहृतिधिषणाकारकालादिभेदैः । द्रव्याभेदेऽप्यवस्थान्तरत इह तु ते पत्रताटङ्कवत्स्युः नो चेदंशांशिनोस्स्यात्प्रतिहतिरुभयोः स्पर्शवत्त्वाविशेषात् ॥ २० ॥
इत्थं वृत्त्यादिखेदो न भवति न च नः कल्पनागौरवं स्याद्वस्त्रे दीर्घैकतन्तुभ्रमणविरचिते वस्त्रधीर्नापि बाध्या । देशाधिक्यं समेतेष्वणुषु न हि ततः स्थूलधीबाधशङ्का संसर्गादेर्विशेषादवयविपरिषद्राशिवन्यादिवादः ॥ २१ ॥
द्रव्यैक्यं प्रत्यभिज्ञा प्रथयति परिमित्यन्तरेऽन्याप्रतीतेरंशूत्कर्षक्षयादिक्षममपि च ततो राशिवत्स्थूलमेकम् । नो चेदश्रान्तचण्डानिलजलधिधुनीदन्तिदावानलाद्यैः क्षोणीयं क्षुद्यमाना क्षणमपि चरमामण्ववस्थां न जह्यात् ॥ २२ ॥
संघातोऽनेकभूतैरपि भवति यथा ह्येकभूतस्य भागैर्देहादिः पञ्चभूतात्मक इति निगमाद्युक्तिभिश्च प्रसिद्धम् । न त्वेवं संकरः स्याद्व्यवहृतिनियमस्सूत्रितस्तारतम्याद्देहादौ येन भूतान्तरयुजि भवतो भौमतादिव्यवस्था ॥ २३ ॥
सन्ति प्रागप्यवस्थास्सदितरकरणाप्राप्तनिष्पत्त्यदृष्टेः शक्ताशक्तप्रभेदादिभिरपि यादि न स्वोचितात्कार्यदृष्टेः । तस्मिन्सत्येव तस्माज्जनिरपि नियता तन्निमित्तादिनीतेर्व्यक्तिर्व्यक्ताऽनवस्थां भजति न च कृतामात्थ नैवं क्रतौ नः ॥ २४ ॥
वस्तुस्थैर्यं विरुद्धानुपहितविषया साधयेत् प्रत्यभिज्ञा नैकस्मिन् शक्त्यशक्ती कृतितदितरयोः साह्यभेदेन सिद्धेः । एकस्मिन् कालभेदाद्भवति च सहकार्यन्वयानन्वयादिर्नो चेन्नो देशभेदादपि सुपरिहरस्तेन नैकं क्वचित्स्यात् ॥ २५ ॥
तत्त्वेदंत्वे हि कालान्तरघटनमये नैककाले घटेतां कालद्वैतेऽनवस्थाद्यत इह न मितिः प्रत्यभिज्ञेति चेन्न । स्वस्य स्वाभावकाले विहतिनियमनात्स्वेन चात्रैककाल्यात् काले कालानपेक्षे कथमपि सुवचौ नानवस्थाविरोधौ ॥ २६ ॥
प्रत्यक्षं वर्तमानं प्रथयति यदिहावर्तमानाद्विभक्तं तस्मात्तेनैव सिद्धं क्षणिकमिति न सत्तावदित्यप्रतीतेः । तत्कालासत्त्वमेव ह्यपनयति सतो वर्तमानत्वबोधः कालेऽन्यत्रापि सत्त्वं प्रमितमिति कथं तद्विरोधप्रसङ्गः ॥ २७ ॥
उत्पन्नानां विनाशे ध्रुवभवितृतया हेत्वपेक्षाविहीने जन्मन्येवोपरोधात्क्षणिकमिह जगत्सर्वमित्यप्यसारम् । लिङ्गं ह्येष्यत्त्वमात्रं जननविधरता तत्क्षणानुक्षणत्वे तत्त्वं तज्जन्यता वा तदिदमनियमासिद्धिबाधादिदूष्यम् ॥ २८ ॥
कालानन्तर्यसाम्ये क्षणिकवपुषि ते देशकालाद्युपाधौ सर्वे पूर्वे भवेयुस्तदुपरि भवतां कारणानि क्षणानाम् । सन्तानैक्यव्यवस्था निजफलनियतिर्वासनानां च न स्यात् कार्पासे रक्ततादिक्रमविपरिणमत्संस्कृतद्रव्यतस्स्यात् ॥ २९ ॥
मेयत्वाद्यैर्विगीतं क्षणिकमिह जगत्स्यात्क्षणोपाधिवच्चेत् बाधो दृष्टान्तहानिः स्थिर इति विदितो यत्क्षणस्याप्युपाधिः । सामग्री कार्यशून्या क्षण इयमपि तद्धेतुसंघो न चासौ हेतुर्नान्यः स्थिरास्ते क्रमवदुपधिवत्स्यात्क्षणत्वं स्थिरेऽपि ॥ ३० ॥
दीपादीनां कदाचित्सदृशविसदृशाशेषसन्तत्यपेते ध्वंसे दृष्टेऽप्यशक्या तदितरविषयेऽनन्वयध्वंसकॢप्तिः । बाधादेर्दर्शितत्वादपि च दृढमिते सान्वयेऽस्मिन्घटादौ दुर्दर्शावस्थया स्युः पयसि लवणवल्लीनदीपादिभागाः ॥ ३१ ॥
सत्त्वेऽसत्त्वेऽपि पूर्वं किमपि गगनतत्पुष्पवन्नैव साध्यं हेतुप्राप्तिर्न पश्चाद्भवितुरघटितोत्पादनेऽतिप्रसङ्गः । जन्यं जन्मान्यथा वा द्वयमसदनवस्थानकार्यक्षतिभ्यामित्याद्यैर्हेतुसाध्यं न किमपि यदि न स्वक्रियादेर्विरोधात् ॥ ३२ ॥
कादाचित्कस्य कालावधिनियतिकरं पूर्वसत्कारणं स्यात् भावोपष्टम्भशून्यो न खलु तदवधिं प्रागभावोऽपि कुर्यात् । कार्यं निर्हेतुकं चेत्कथमिव न भवेन्नित्यता तुच्छता वा कादाचित्कस्वभावाद्यदि न नियमनादन्यथाऽतिप्रसङ्गात् ॥ ३३ ॥
नेत्रादेर्दीपिकादेरिव नियमयुतं तैजसत्वादिसाध्ये रूपादिग्राहकत्वं यदि करणतया स्यादसाधारणत्वम् । तत्साहाय्यं त्वसिद्धं भवति गमकतामात्रमप्यञ्जनादावक्षाहङ्कारिकत्वं श्रुतिपथनिपुणैर्घोषितं नैव बाध्यम् ॥ ३४ ॥
तन्मात्रेष्विन्द्रियाणां श्रुतिरिह न लयं वक्ति किंतु प्रवेशं नो चेत्पृथ्व्यादिवाक्येष्विव हि लयपदं व्योम्नि चाक्षेषु च स्यात् । भूतैराप्यायितत्वात्क्वचिदुपचरिता भौतिकत्वोक्तिरेषामन्नाप्तेजोमयत्वं श्रुतिरपि हि मनःप्राणवाचामुवाच ॥ ३५ ॥
रूपादिज्ञानसिद्धौ यदि करणतया कल्पनं धीन्द्रियाणां तद्वद्गत्यादिकर्मस्वपि करणतया सन्तु कर्मेन्द्रियाणि । कर्मज्ञानाक्षहेत्वोस्समपरिहरणा ह्यन्यथासिद्धिशङ्का तस्मादेकादशाक्षाण्यपि निगमविदो मन्वते न्यायपूर्यम् ॥ ३६ ॥
सांख्यैस्त्रेधोक्तमन्तःकरणमिह मनोबुद्ध्यहङ्कारभेदाच्चित्तं चान्ये चतुर्थं विदुरुभयमसत्तादृशश्रुत्यभावात् । तत्तत्तत्त्वोक्तिमात्रं न हि करणभिदामाह कॢप्तिस्तु गुर्वी बुद्ध्याद्याख्या निरूढा क्वचिदिह मनसो वृत्तिवैचित्र्य(मात्रा)योगात् ॥ ३७ ॥
एकं तत्तत्प्रदेशप्रतिनियततया शक्तिभेदं प्रपन्नं देहव्यापीन्द्रियं चेत्प्रथममिह भवेदागमेनैव बाधः । नो चेत्स्याद्देहभेदप्रतिनियततया सर्वजन्तोस्तदेकं भेदाम्नानादकॢप्तेरपि न च भजते देह एवेन्द्रियत्वम् ॥ ३८ ॥
सूक्ष्माण्येकादशाक्षाण्यपि न यदि कथं देहतो निष्क्रमादिश्चित्ताणुत्वे तु सर्वेन्द्रियसमुदयने धीक्रमोऽप्यस्तु मानम् । वृत्त्याऽक्ष्यादेर्दवीयः प्रमितिजनकता वृत्तिराप्यायनार्थैः भूतैर्जातः प्रसर्पः श्रुतिमितमपि चानन्त्यमेषां स्वकार्यैः ॥ ३९ ॥
प्राप्यग्राहीन्द्रियत्वाद्विमतमितरवत्प्राप्तिरुक्तप्रकारा वृत्तिं दृष्टेर्निरुन्धे विरलपटनयादम्बुकाचादिरच्छः । नो चेद्गृह्येत योग्यं सममिह निखिलं निष्फले छादकादौ स्थैर्ये तद्योग्यभावो न हि गलति समा सन्ततिस्त्वन्मतेऽपि ॥ ४० ॥
शब्दं गृह्णाति दूराभ्युदितमपि बहिस्सन्तता श्रोत्रवृत्तिर्दिग्भेदासन्नतादिग्रहणमपि तदा तत्र तत्सन्निधानात् । इत्येकेऽन्ये तु दूरान्तिकगतजनताशब्दधीकालभेदात् श्रोत्रायातस्य तस्य ग्रहमनुमितिमप्याहुरस्मिन्दिगादेः ॥ ४१ ॥
प्रत्यक्षं व्योम नीलं नभ इति हि मतिश्चक्षुषैवास्मदादेः कूपोऽसौ रन्ध्रमेतत्पतति खग इहेत्यादिधीश्चात्र मानम् । आधारोऽत्रातपादिर्यदि भवति कथं तस्य चेहेति बोधस्तस्यांशैश्चेत् त्र्यणौ तच्छिथिलगति न च व्योमवागातपादौ ॥ ४२ ॥
रूपस्पर्शोज्झितत्वान्न भवति गगनं दर्शनस्पर्शनार्हं घ्राणश्रोत्रे रसज्ञाऽप्यवगमयति न द्रव्यमन्यत्त्वबाह्यम् । तस्मान्नाध्यक्षवेद्यं वियदिति यदि न प्रत्ययस्यापरोक्ष्यात् पञ्चीकारेण नैल्यं पटमलिनिमवद्भाषितं वोपकुर्यात् ॥ ४३ ॥
शब्दस्याधारभूतं कथमपि गगनं शक्यते नानुमातुं स्वेच्छातः पारिशेष्यक्रम इह कथितोऽतिप्रसङ्गादिदुःस्थः । निष्क्रान्त्यादेर्न तद्धीस्सति नभसि यतो नास्ति कुड्यादिकेऽसौ रोधस्त्वावारकैश्चेत्तदभवनवशान्निष्क्रमादिश्च सिध्येत् ॥ ४४ ॥
यत्त्वाकाशोऽवकाशप्रद इति कथितं शास्त्रतस्तत्र याऽसावन्योन्यं(न्य) स्पर्शभाजां विहतिरिह न सा प्राच्यतत्त्वेष्विव स्यात् । इत्यैदंपर्यमूह्यं न यदि कथमिवान्येषु लभ्योऽवकाशः सिद्धादेः स्वप्रभावाज्जल इव कथितो युज्यते मज्जनादिः ॥ ४५ ॥
सद्रूपेणैव भानान्न भवति वरणाभावमात्रं विहायः संसर्गाभावमात्रं न च भवति यतो नास्ति संसर्गिबोधः । अत्यन्ताभावनाशावजननिरपि वा सत्सु तेष्वेव न स्युस्तादात्म्याभावसिद्धिः कथ(मिव)मपि च भवेत्तंतमर्थं विहाय ॥ ४६ ॥
नित्यत्वाद्यम्बरादेर्यदि निरवयवद्रव्यताद्यैः प्रसाध्यं कः स्याद्बाधो विपक्षे कथमिव निगमे वाधकेऽत्रानुमा स्यात् । बाधस्सामान्यदृष्ट्या श्रुतिसमधिगते नैव कुत्रापि शक्यस्तेनामूर्तत्वलिङ्गान्न सृजति विमतो मूर्तमित्याद्यपास्तम् ॥ ४७ ॥
प्राक्प्रत्यक्त्वादिभेदं भजतु वियदिदं भानुयोगादिभेदादस्यैवोपाधिभेदादधिकदिश इव स्तां परत्वापरत्वे । व्योमोत्तीर्णेऽपि देशे प्रभवतु तदुपाध्यन्वितैस्तत्तदर्थैर्दूरत्वादिव्यवस्था स्वयमुत विभुना ब्रह्मणा किं परैर्नः ॥ ४८ ॥
अन्यस्मिन्नन्यधर्मान् घटयतु वियदाद्यत्र नातिप्रसक्तिः सिध्यत्कार्योपयुक्तोपनयननियमोपेततच्छक्तिकॢप्तेः । एवं ह्येवाधिकायामपि दिशि भवतोऽतिप्रसङ्गो निषेध्यो धर्मी धर्मश्च कल्प्यौ तव तदितरता स्यात्तु काले स्वमानात् ॥ ४९ ॥
संख्यानं तत्त्वपङ्क्तौ क्वचिदपि न दिशः कालवद्वा न भेदः कण्ठोक्तो व्याक्रियादिव्यवहरणमपि ह्यन्यथैवोपपन्नम् । श्रोत्रादुक्तस्तु लोकप्रभृतिवदुदयस्तस्य तत्राप्ययो वा नैतावत्तत्त्वभेदं गमयति न च तच्छ्रौत्रतामान्यपर्यात् ॥ ५० ॥
वातो वातीति साक्षान्मतिरितरसमा स्पर्शतो नानुमाऽसावन्धेऽन्येषु प्रसङ्गान्न पुनरगमकं स्पर्शनं रूपशून्ये । अन्याक्षग्राह्यतादृग्विधगुणविरहो ह्यन्यदक्षं न रुन्धे निर्गन्धो नीरसोऽपि स्फुरति यदनलो दर्शनस्पर्शनाभ्याम् ॥ ५१ ॥
संख्याद्यास्स्पर्शनास्स्युस्तदधिकरणकास्स्पर्शने गन्धवाहे तेषां द्रव्योपलम्भप्रतिनियतनिजाध्यक्षयोग्यत्वतश्चेत् । इ(ष्टंत्वं)ष्टस्त्वंशेन चात्मप्रभृतिषु सहते तैः प्रसिद्ध्यन्ति सर्वे तद्बाह्ये व्याप्तिरिष्टा यदि सततगतेरप्यसावस्तु बाह्ये ॥ ५२ ॥
न प्राणो वायुमात्रं सह परिपठनान्न क्रिया द्रव्यतोक्तेस्तेजोवद्वा न तत्त्वान्तरमगणनतो वायुतानुज्झनाच्च । तस्माद्वातो विशेषं घनजलकरकान्यायतः प्राप्य कंचिद्देहान्तर्दाशविध्यं भजति बहुविधोपक्रियो वृत्तिभेदैः ॥ ५३ ॥
प्राणोऽक्षं प्राणशब्दादुपकरणतया क्षेत्रिणश्चेत्ययुक्तं शब्दैक्यं ह्यैकजात्यं व्यभिचरति न च प्राणताऽक्षेषु मुख्या । देहस्यानक्षभावेऽप्युपकृतिरधिका तत्समाक्षोक्त्यदृष्टिर्न प्राणे सात्त्विकाहंकरणविकृतितालक्षणं तद्धि तेषाम् ॥ ५४ ॥
प्राणापानाख्यभस्त्रारभसविसृमरः प्राप्य वैश्वानराख्यां मध्येदेहं हुताशो वसति जलनिधावौर्ववत्सर्वभक्षः । तत्तद्विद्यासु वे(द्यस्त्वन)द्यं त्वन इव हि परज्योतिषः सोऽपि रूपं नात्मानौ तौ जडत्वाज्जनिविलयमुखैर्भेदकण्ठोक्तिभिश्च ॥ ५५ ॥
धर्मो भाति प्रभैका बहलविरलताद्यत्र दृष्टानुसारात् सा दीपांशा विशीर्णा इति यदि बहुधा कल्पनागौरवादिः । रत्नादीनां स्थिराणां विशरणविहतेर्निष्प्रभत्वादि च स्यात् तेजस्तत्सप्रभाकं तिमिरहरतया साऽपि तेजोविशेषः ॥ ५६ ॥
भाष्ये भास्वत्प्रभादौ प्रतिहतिबह(हु)लीभावपूर्वं यदुक्तं तेन स्रोतस्समाधिं परमतनयतः प्राहुरेके प्रभायाम् । वस्तुन्यस्ते विकल्पे स्फुटविघटनयोर्वेक्तुराप्तस्य वाचोस्तात्पर्यं तर्कमानानुगुणमधिगुणैश्चिन्त्यमन्तेवसद्भिः ॥ ५७ ॥
प्राच्ये स्नेहादिनाशे चरम इव दृढोऽनन्तरं दीपनाशः सामग्र्यन्यान्यकार्यं जनयति च न चानेकदीपप्रतीतिः । साम्यादेः स्यात्तु तद्धीः प्रवहणभिदुरास्सप्रभास्तत्प्रदीपा निर्बाधा भास्करादौ प्रथयति नियतं प्रत्यभिज्ञा स्थिरत्वम् ॥ ५८ ॥
वर्णानां तादृशत्वादतिकठिनतया गौरवस्यापि भूम्ना धात्रीभागैः प्रभूतैस्स्फुटमिह घटिता धातवो हाटकाद्याः । तादृक्त्वेऽपि स्फुरत्ताद्यनितरसुलभं किञ्चिदन्वीक्ष्य तज्ज्ञैः व्याख्यातं तैजसत्वं विधितदितरयोस्तन्त्रसौकर्यसिद्ध्यै ॥ ५९ ॥
नैल्याद्भौमं तमिस्रं चटुलबहलताद्यन्वयात्तन्न नैल्यं छायावत्पारतन्त्र्यं त्वयस इव मणौ दृष्टिसिद्धात्स्वभावात् । स्पर्शाख्यातिर्न रूपं हरति हरिशिलाऽऽलोकवत्तत्र चाक्ष्णोर्नालोकोऽर्थ्यस्ससिद्धाञ्जननयनदिवाभीतदृष्ट्यादिनीतेः ॥ ६० ॥
नालोकाभावमात्रं तिमिरमविरतं नीलमित्येव दृष्टेर्नैल्यं त्वारोपितं चेत्कथमिव न भवेत्क्वापि कस्यापि बाधः । आरोपे चात्र नैल्यं न भवति नियतं भास्वरान्यत्वसाम्यान्नात्रादृष्टं नियन्तृ प्रतिनियतगुणारोपकॢप्तेर्गुरुत्वात् ॥ ६१ ॥
ध्वान्तं तेजश्च नासीदिति मुनिभिरुपाख्यायि संवर्तवार्ता भावाभावौ निषेद्धुं तदुभयविधिवद्व्याहतत्वादशक्यम् । अन्तर्यन्तुश्च तेजस्सहपठिततमो देह इत्यामनन्ति स्याच्चाभावोऽपि भावान्तरमतिमथने वक्ष्यमाणक्रमेण ॥ ६२ ॥
तिष्ठत्युर्वी भचक्रं पवनरयवशाद्भ्राम्यतीत्युक्तमाप्तैर्भ्रान्तैः कॢप्तं त्रिलोकीभ्रमणमिह तथा मेदिनीभ्रान्तिपातौ । तद्भ्रान्तौ प्राक्प्रतीचोः प्रसजति पतने पत्रिणोस्तारतम्यं पाते गुर्व्यास्तु तस्याः प्रलघु दिवि समुत्क्षिप्तमेनां न यायात् ॥ ६३ ॥
ज्योतिश्शास्त्रं पुराणाद्यपि न हि निगमग्राह्यमन्योन्यबाध्यं विद्यास्थाने तु सर्वं प्रतिनियतनिजोपक्रियांशे प्रमाणम् । तात्पर्यं तर्कणीयं तदिह बहुविदा भूपरिध्यादिभे(दे)दैः दुर्ज्ञानं सर्वथा यन्मुनिभिरपि परैस्तत्र तूदासितव्यम् ॥ ६४ ॥
सूर्यावृत्त्याद्युपाधिव्यतिकरवशतः कालताऽस्त्वम्बरादेरन्यस्मिन्नन्यधर्मोपनयननियमः प्राग्वदत्रेति चेन्न । कल्पान्तेऽप्येककालः प्रकृतिपुरुषवद्ब्रह्मणो रूपमन्यन्निर्दिष्टोऽनाद्यनन्तो मुनिभिरिति ततः कार्यता चास्य भग्ना ॥ ६५ ॥
कालोऽस्मीति स्वगीता कथयति भगवान्काल इत्याप्तवर्यो हेतुः सर्वस्य नित्यो विभुरपि च परः किं परेणेति चेन्न । कालान्तर्यामितादेः न खलु समुदितः संप्रतीते तु भेदे साधर्म्यं नैक्यहेतुः स हि तदितरवद्घोषितस्तद्विभूतिः ॥ ६६ ॥
कालस्योत्पत्तितः प्राक् परमपि च लयात् कालनास्तित्ववादी स्वोक्तिव्याघातभग्नो न वदति यदि तत्को वदेत्कालसृष्टिम् । आप्तस्तत्सृष्टिवादस्तदुपधिपरिणत्यादिभिस्सार्थकस्स्यान्नोचेत्तत्रापि पूर्वापरवचनहतिर्दुर्निवारप्रसङ्गा ॥ ६७ ॥
कालोऽध्यक्षावसेयः क्षणलवदिवसाद्यंशतोऽर्थान्विशिंषन् साक्षाद्धीस्तत्तदर्थेष्विव भवति हि नः कापि कालान्वयेऽपि । तत्संयोगाः परत्वादय इति च ततोऽप्येष नैवानुमेयो नो चेन्न क्वापि लोकव्यवहृतिविषयोऽव्यक्तवत्स्यादनेहा ॥ ६८ ॥
कालस्योपाधिभेदात्कतिचिदभिदधत्यब्दमासादिभेदं तत्तद्रूपेण कालः परिणमत इति प्राहुरेके तदा तु । ये तत्रोपाधयः स्युस्त इह परिणतिं प्राप्नुयुस्सानुबन्धाः नित्यो व्यापी च तादृक्परिणतिभिरसौ सर्वकार्ये निमित्तम् ॥ ६९ ॥
वायुर्दोधूयते यद्यदयमुडुगणो बम्भ्रमीति द्रुतं खे तेजो जाज्वल्यते यद्यदपि (जलनिधि)न जलधिर्माधवीं दोधवीति । भूर्यद्वा बोभवीति स्थिरचरधृतये तच्च तादृक्च सर्वं स्वायत्ताशेषसत्तास्थितियतनपरब्रह्मलीलोर्मिचक्रम् ॥ ७० ॥ ॥

इति तत्त्वमुक्ताकलापे जडद्रव्यसरः प्रथमः ॥ १ ॥

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.