श्रीमन्निगमान्तमहादेशिकविरचितः
तत्त्वमुक्ताकलापः
॥ अथ अद्रव्यसरः पञ्चमः ॥ ५ ॥)
तत्तद्द्रव्येषु दृष्टं नियतिमदपृथक्सिद्धमद्रव्यजातं तद्वद्विश्वं परस्य व्यवधिनियमनान्न स्वरूपेऽस्य दोषः । इत्थं निर्धार्य भाव्ये भगवति विविधोदाहृतिव्यक्तिसिद्ध्यै निर्बाधान् द्रव्यधर्मान्निरनुगतिगलद्दुर्नयान्निर्णयामः ॥ १ ॥
व्याख्यातं द्रव्यषट्कं व्यतिभिदुरमथाद्रव्यचिन्ताऽस्य सत्ताधीभेदादेः पुरोक्ता निजगदुरनुपादानतां तस्य लक्ष्म । द्रव्यादत्यन्तभिन्नं त्विदमनुपधिकं तद्विशिंष्यात् स्वभावात् दृष्टे न ह्यस्त्ययुक्तं न कथमितरथा विश्वतत्त्वापलापः ॥ २ ॥
अद्रव्यं द्रव्यसिद्धौ तदुपहिततया तच्च लक्ष्येत तस्मादेकासिद्धौ द्वयं नेत्यपि न सदुभयान्योन्यवैशिष्ट्यदृष्टेः । आधारे द्रव्यशब्दस्तदधिकरणकेनाश्रये त्वन्यदित्थं व्युत्पत्तिर्विश्वहृद्या न तदपलपति स्वर्गकर्णीसुतोऽपि ॥ ३ ॥
सामान्यात्मा विशेषाकृतिरपि यदि न स्वीकृतो धर्मवर्गः स्यातां न भ्रान्तिबाधौ न किमपि कथकास्साधयेयुः स्वसाध्यम् । यस्मिन् बाधानवस्थे क्वचन न खलु तं नीतिरन्यत्र दृष्टे नो चेन्निश्शेषकुक्षिम्भरिरुपनिपतन् दुस्तरश्शून्यपक्षः ॥ ४ ॥
चादीनां वृत्तियोग्यं यदुत पदविदोऽसत्त्वमद्रव्यमाहुर्नैतावत्तन्मृषात्वं गमयति न च तद्बाधकं किंचिदस्ति । तात्पर्यं चान्यदत्र स्फुटविदितमतस्तत्र सत्त्वेतरत्वादन्यः कश्चिन्नञर्थः परमिह निपुणैर्द्योतकत्वादि चिन्त्यम् ॥ ५ ॥
आहुर्द्रव्येषु धर्मान् कतिचन गुणपर्यायवैषम्यभिन्नान् पर्यायाणां गुणत्वे स्थितवति सहजागन्तुतामात्रमेतत् । मिथ्याभूतान् विकारानभिदधति परे सत्यरूपान् स्वभावान् तानेकद्व्यादिरूपानभिदधतु कथं निर्गुणानां क्षणानाम् ॥ ६ ॥
बाह्येऽर्थे बौद्धतोकाः किल जननजराभङ्गरूपान् विकारानाद्यन्तौ चित्तचैत्तेष्वपि जगदुरमी तत्स्वरूपं न वा स्युः । पूर्वस्मिन्नक्रमः स्यादुपरि तु न कथं तस्य धर्मास्त एते तन्मिथ्यात्वे तु नित्यं निखिलमपि भवेत्तुच्छमेवान्यदा स्यात् ॥ ७ ॥
आदावैक्येन बुद्धिर्द्वयमपि मिलितं गृह्णती व्यक्तिजात्योर्भेदाभेदाविरोधं दिशति यदि न तत्तद्विशिष्टैक्यबुद्धेः । इत्थंत्वेदंत्वशून्यं न हि किमपि कदाऽप्यर्भकोऽपि प्रतीयात्तद्वैशिष्ट्यप्रतीतिर्निरुपधिरपृथक्सिद्धिमात्रेण सिध्येत् ॥ ८ ॥
व्यक्त्या जातेरभेदं यदि वदसि पृथक्सिद्ध्यभावादिलिङ्गैर्भेदाभावोऽक्षबाध्यस्तव च न हि मतो नान्यथाऽत्रास्य युक्तिः । धर्म्यैक्यादेकवाक्स्यान्न तु भवति ततो धर्मधर्म्यैक्यबुद्धिस्तद्बोधश्चाप्युपाधिर्न स इह भवता दृश्य इत्यभ्युपेते ॥ ९ ॥
सत्त्वान्नैकान्तमाहुर्विमतमितरवत् केऽपि तद्धीविरुद्धं न ह्यत्राकारभेदात् परिहृतिरनवस्थानदोषप्रसङ्गात् । स्वव्यापारोक्तिचर्यासमयनियतयोऽप्येवमेवाकुलाः स्युर्दृष्टान्तेऽपि ह्युपाधिद्वयवति नियतस्थौल्यसौक्ष्म्यादियोगः ॥ १० ॥
सिद्धे वस्तुन्यशेषैः स्वमतमुभयधा वर्ण्यते तत्रतत्र स्यादर्थस्यैकरूप्ये कथमिदमिति चेत्तन्न भिन्नाशयोक्तेः । मन्तव्या वैभवोक्तिः क्वचिदनभिमते संशयोक्तिः क्वचिद्वा भाग(द्वन्द्वा)द्वैतान्नृसिंहप्रभृतिषु घटते चित्रसंस्थानयोगः ॥ ११ ॥
स्यादस्ति स्याच्च नास्ति द्वितयमनुभयं स्यात्त्रिभिश्चान्तिमं त्रिस्सैषोक्ता सप्तभङ्गी जिनसमयजडैर्द्रव्यपर्यायवर्गे । इष्टां सार्वत्रिकीं तां स्वपरमतकथातत्फलादौ विवक्षन् कक्षीकुर्वीत धूतः कथकपरिषदा कां दिशं कान्दिशीकः ॥ १२ ॥
भेदे वस्तुस्वरूपे भ्रम इह न भवेद्धर्मपक्षेऽनवस्था स्याद्वाऽन्योन्याश्रयादिस्तदयमनृत इत्युक्तिबाधादिदुःस्थम् । धर्मः क्वापि स्वरूपं क्वचिदिति च यथादृष्टि नोक्तप्रसङ्गौ यद्दृष्ट्या यत्र यस्याध्यसनपरिहृतिस्सोऽस्य तस्मात्तु भेदः ॥ १३ ॥
भेदो गृह्येत बुद्ध्वाऽधिकरणमवधिं चेति न ह्यक्रमोऽस्मिन् प्रत्यक्षस्य क्रमोऽपि क्षणभिदुरतया नेति तुल्यं भ्रमेऽपि । अक्षान्धादिव्यवस्थाक्षतिरपि युगपद्योग्यधर्मैर्ग्रहोऽतस्तद्युक्ते भिन्नशब्दः कथिततदुपधिज्ञप्त्यपेक्षः क्रमात्स्यात् ॥ १४ ॥
अद्रव्ये नैकरूपे ह्यगणिषत गुणाः सत्त्वमुख्या द्विधाऽऽद्यं शुद्धं तन्नित्यभूतौ त्रितयमिह चतुर्विंशतौ व्याप्तितः स्यात् । पञ्चान्ये शब्दपूर्वा अपि परिगणिता भूतवर्गेष्वथान्यस्संख्यानादिश्च भेदः परिणमति यथासंभवं द्रव्यवर्गे ॥ १५ ॥
स्थित्युत्पत्त्यन्तलीलाविधिषु भगवताऽधिष्ठिताः शास्त्रवेद्यास्सत्त्वाद्याः स्थूलसूक्ष्मप्रकृतिगतगुणा हेतुभूतास्सुखादेः । साम्ये तेषां त्रयाणां सदृशपरिणतिः स्यादिहान्यान्यथात्वे कॢप्ताऽन्यैर्द्रव्यतैषां श्रुतिपथविहता कुत्रचित्तूपचारः ॥ १६ ॥
बुद्धित्वादिः प्रधाने समपरिणतिरित्येवमागन्तुधर्माः द्रव्येष्वन्येषु चान्ये कतिचन कथिताः केचिदध्यक्षसिद्धाः । आनन्त्यादर्थमान्द्याद् दुरवगमतया सूक्ष्मवैषम्यभेदैरैकैकश्येन चिन्तामिह जहति बुधा निश्चितापेक्षितार्थाः ॥ १७ ॥
शब्दाद्यास्तत्तदक्षप्रतिनियतिजुषस्सर्वतन्त्रप्रसिद्धास्तैरेकद्व्यादिसंख्यैर्द्युपवनहुतभुग्वारिभूम्यस्समेताः । पञ्चीकारादिनैषां विनिमितगुणता व्योमनैल्यादिबोधे तद्योगात्तत्र तत्तद्गुणजनिरिति चेन्नान्यथाऽत्रोपपत्तेः ॥ १८ ॥
कस्तूरीचम्पकादौ समविषमतया सम्मतस्सौरभादिस्तद्वच्छब्दादयोऽमी त्रिगुणतदधिकद्रव्यनिष्ठा गुणाः स्युः । निष्कृष्टे शास्त्रदृष्ट्या न कथमपि मिथस्संकरश्शङ्कनीयः स्वाच्छन्द्याच्छङ्कमानः स्वमिव सुरगुरुं किं न शङ्केत मुग्धम् ॥ १९ ॥
शब्दो नैकेषु युक्त्याऽप्युचित इह पुनः पारिशेष्यं तु मन्दं वायुश्शब्दस्वभावश्श्रुतिशिरसि यतः स्मर्यते च स्वरात्मा । गन्धालोकादिनीतिं यदिह निजगदुर्यामुनाद्यास्ततोऽपि स्पष्टो भेर्यादिनिष्ठोऽयमिति गतिवचो गन्धवत्तद्वि(शेषे)शिष्टे ॥ २० ॥
सत्यान् सत्यापयन्तः कतिचन चतुरः स्पर्शरूपादिधातून् शब्दं स्वार्हाक्षसिद्धं चतुरधिकरणं प्राहुरेभ्यो न भिन्नम् । किं तद्भेदाप्रतीतेः प्रबलविहतितस्संमतैक्यप्रमातः स्वाच्छन्द्याद्देशनाया विभवत इति वा वीक्ष्य शिष्टा विजह्युः ॥ २१ ॥
शब्दोऽवस्थाविशेषः श्रुतिभिरभिहितस्तेन नैष स्वनिष्ठो व्योमादेश्चाविभुत्वात् क्वचिदपि न तु तत्सन्निधिस्तद्विदूरे । साक्षादक्षाप्तिसाक्षात्कृत इति घटवद् द्रव्यमित्यप्यसारं साध्यात् प्राग्घेत्वसिद्धेर्न हि परमतवन्नाभसं श्रोत्रमत्र ॥ २२ ॥
वर्णानां सध्वनीनामभिदधति हरिद्वाससः पुद्गलत्वं नाक्षादेस्सिद्धमेतन्न च तदभिमते शब्दितः शब्दशब्दः । सूक्ष्मद्रव्ये हि धर्मः श्रुतिविषयदशालक्षणो दुस्त्यजस्तैस्तस्मान्नास्मत्समीक्षामतिपतितुममी शक्नुयुस्तद्वदन्ये ॥ २३ ॥
वर्णे स्थैर्यं विरुद्धान्वयविरहवति प्रत्यभिज्ञा नियच्छेत्तैव्र्यादिव्यञ्जकस्थं भ्रमवशघटितं तत्र कल्प्येत दिग्वत् । एकाक्षग्राह्यसंवित्प्रतिनियतिरपि ह्यञ्जनादाविव स्याद्व्यक्त्या स्यात् कार्यताधीर्यदि न निगदितो नैगमैरस्य नाशः ॥ २४ ॥
ध्वन्यात्मा वायुभेदः श्रुतिविषयतयाऽपाठि तौतातिताद्यैः तद्वत् पञ्चाशदेते समकरणतया वर्णिताः किं न वर्णाः । तैव्र्यादिर्वर्णधर्मो नियत इति यथादर्शनं स्थापनीयं स्पर्शादौ चैवमिष्टं तदिह न सुलभा द्रव्यता नित्यता च ॥ २५ ॥
शब्दानित्यत्वतोऽपि श्रुतिषु न विलयः स्यात् क्रमव्यक्तिनीत्या तन्नित्यत्वे च काव्यादिकमपि न कथं नित्यमित्यभ्युपैषि । तस्मान्नित्यैकरूपक्रमनियमवशान्नित्यभावः श्रुतीनामीशोऽप्यध्यापको नः पर(मि)मतिचकितैर्वर्णनित्यत्वमुक्तम् ॥ २६ ॥
नैवोष्णौ नापि शीतौ क्षितिसततगती तत्र तोयादियोगात् शीतत्वादिप्रतीतिस्तदुपधिकतया तत्रतत्रैव दृष्टेः । आयुर्वेदे तुषारो मरुदिति कथनं त्वद्भिराप्यायिकाभिर्वृद्धिह्रासौ समाद्यैर्भवत इति परं तच्चिकित्सानियत्यै ॥ २७ ॥
स्यादुष्णः कृष्णवर्त्मा सलिलमपि तथा शोतमस्तु प्रकृत्या स्पर्शोऽन्योऽप्यत्र दृष्टस्स तु भवतु रुमाक्षिप्तलावण्यवच्चेत् । मैवं संसृष्टवस्तूपधिनियततया तद्विवेकस्य युक्तेः प्रायश्शीतो भवेतिप्रभृतिकमपि तद्दाहकत्वादिरोधात् ॥ २८ ॥
पीता भूः श्वेतमम्भो हुतवहपवनौ रक्तधूम्रौ तथा द्यौर्नीलेति क्वापि शिष्टं तदिह न नियतां वर्णसत्तां ब्रवीति । ध्यानार्थं मन्त्रवर्णेष्विव कथितमिदं व्योमवातौ ह्यरूपौ पीतैकान्त्यं भुवोऽक्षश्रुतिहतमथ तत्प्राचुरी साऽस्तु मा वा ॥ २९ ॥
कृष्णामाम्नासिषुः क्ष्मां तदिह न विरहं वक्ति रूपान्तराणां प्रत्यक्षादेर्विरोधात्पचनविषमितं स्पर्शगन्धादि चास्याः । पाथस्तेजोविशेषे स्फुरति वसुमती भागतो वर्णभेदो न ह्यम्भः क्वापि दृष्टं विपरिणतगुणं पाकसंस्कारतोऽपि ॥ ३० ॥
आरब्धं रूपभेदैरवयवनियतैश्चित्रमन्यत्तु रूपं काणादाः कल्पयन्तः क्व तदिति कथयन्त्वंशतस्तद्विकल्पे । नांशेष्वेतत्तदिष्टं न च तदभिहितः कश्चिदंशीति तूक्तं स्वाधारव्यापकत्वं सुगममिह तथा स्पर्शगन्धादिचैत्र्यम् ॥ ३१ ॥
स्नेहः प्रत्यक्षसिद्धो यदुपधिरुदके स्निग्धधीस्सद्रवत्वात्तोयत्वाच्चातिरिक्तः क्वचिदिह यदसौ भाति ताभ्यां विनाऽपि । सौवर्णादिद्रवाणां न च भवति यतः पांसुसंग्राहकत्वं पर्यायानुक्तिरस्मिन् भवति विषमता चेति केचिद् गृणन्ति ॥ ३२ ॥
अन्ये स्नेहं तु रूपं किमपि निजगदुः स्निग्धवर्णोक्त्यबाधात् दृष्टत्वात् दुस्त्यजं तद्भवति खलु भिदा काऽपि गन्धादिकेऽपि । अप्त्वादेः पांसुसङ्गस्सुगममिदमयस्कान्तजात्यादिनीत्या न ह्यन्यत्तत्र कॢप्तं न च न दृढमितं पार्थिवे पिच्छिलत्वम् ॥ ३३ ॥
मासृण्यादिप्रभेदोपहितगुरुतयाऽबादिनिम्नाभिमुख्यं माषव्रीह्यादिराशौ भवति च पतने तादृशं तारतम्यम् । किंचादृष्टान्यकॢप्तिर्ज्वलनपवनयोर्न क्रियायां तथाऽस्मिन्नित्येकेऽन्ये तु दृष्ट्वा गुणमधिकमुशन्त्यादिमस्यन्दहेतुम् ॥ ३४ ॥
तोये दृष्टं स्वभावाद् घृतकनकमुखे पाकजन्यं द्रवत्वं तैलादौ नैव पाकानुगम इति भवेत्तादृशाबंशकॢप्तिः । भस्मीभावाद्यनर्हे यदुत कणभुजा सूत्रितं तैजसत्वं हैमादिश्लिष्टभौमावयवनयविदामित्थमेतन्न हृद्यम् ॥ ३५ ॥
पातस्तुल्योऽम्बुभूम्योः पवनदहनयोस्तिर्यगूर्ध्वप्रवृत्त्या पाते भेदात् पलादिप्रतिनियतिरपि ह्यंशवैषम्यतः स्यात् । भागानां तारतम्याज्जलशिखिमरुतां स्यन्दनादे(र्भिदेष्टा)र्विशेषस्तस्मात् सर्वोऽप्यदृष्टादिह भवतु न चेत् स्याद् गुणोऽन्योऽनलादौ ॥ ३६ ॥
त्वक्संवेद्यं गुरुत्वं कतिचिदभिदधुस्तत्तु तेषां गुरुत्वं नोर्ध्वं स्पृष्ट्वा प्रतीमस्तदिह परधृते नाप्यधस्तात्स्पृशन्तः । न ह्यन्यालम्बितोऽर्थो भवति लघुतरः स्पर्शनं नोपरुद्धं तेनाक्रान्तौ प्रणुत्तिक्रम इति गुरुणा तर्कितस्तोलनाद्यैः ॥ ३७ ॥
क्षित्यादौ सांख्यदृष्ट्या यदि किमपि तम(मः)स्कार्यमिष्टं गुरुत्वं तद्वत् कल्प्येत वह्निप्रभृतिषु न कथं सत्त्वकार्यं लघुत्वम् । यादृग्भूताद् गुणात्तद्वदसि च पतनं तादृशादस्तु तस्मात् कॢप्तिस्त्वन्यस्य गुर्वी भवतु तदधिकं काममाप्तोपदेशात् ॥ ३८ ॥
एकद्व्यादिप्रतीतिव्यवहृतिविषयो यो गुणस्सा तु संख्या क्वाप्यैक्यं नित्यसिद्धं क्वचिदवयवगैर्जन्यते तत्तदैक्यैः । द्वित्रित्वाद्यं त्वनेकावगतिसहकृतैकैकनिष्ठैक्यजन्यं तत्तत्पुंमात्रदृश्यं क्षणिकमिति कथा काऽपि कौतस्कुतानाम् ॥ ३९ ॥
तत्र द्वित्वाद्यपेक्षामतिविषयभिदामात्रमेवास्त्वभीष्टं द्वित्वाद्युत्पत्तिमूलं यदभिलपसि तद्व्याहृतेरस्तु मूलम् । द्वित्वादिप्रागभावैर्ध्रुवमिह हि विना धीविशेषोऽभ्युपेयः तन्मूलं निर्गुणानां विगणनमपि च स्थापनीयं गुणानाम् ॥ ४० ॥
कैवल्यं नैकसंख्यापरविरहतया नापि मुख्यान्यभावौ सङ्घातैक्यं तु राशिक्रममवयवि तु प्राङ्निरस्तं ततोऽन्यत् । तेनासङ्घातरूपे क्वचन निरुपधिः स्यादसावेकसंख्या स्वाधारैकायुरेषा परमुपचरिता सेयमद्रव्यवर्गे ॥ ४१ ॥
ऐक्यं स्वाभेदमाहुः कतिचन न भिदाऽस्त्येकमेवेति दृष्टेर्भेदादृष्ट्यैक्यमोहस्तदिति च वचनं तत्रतत्राभ्युपेतम् । अन्ये त्वेतत्स्वसत्त्वं विदुरितरसमुच्चित्यवस्थानुवृत्तं तत्पक्षेऽपि स्वरूपादधिकमिदमिह द्वित्वमोहादिसिद्धेः ॥ ४२ ॥
अन्यत् गृह्णात्यभिज्ञा तदिदमिति पुनः प्रत्यभिज्ञाऽन्यदैक्यं कालक्षेत्रादिभेदग्रहजनितभिदाभ्रान्तिशान्तिस्ततः स्यात् । मोहस्तत्रैकताधीर्ज्वलन इव भवेत् प्रत्यभिज्ञा त्वतश्चेत् स्वव्याघातोऽनुमाया भ्रम इह निखिला स्यादभिज्ञाऽपि तद्वत् ॥ ४३ ॥
अद्रव्येऽप्यस्ति संख्याव्यवहृतिबलतस्सा ततोऽन्या गुणादेर्मैवं संख्यासु संख्याव्यवहृतिवदियं स्यात्त्विहोपाधिसाम्यात् । नो चेत्प्राप्ताऽनवस्थाव्यवहृतिनियतिस्थापनं तुल्यचर्चं तस्मात् काणादकॢप्तिर्गुरुमतकथकैर्युक्तमत्रापि सोढुम् ॥ ४४ ॥
देशाधिक्यादिसिद्धावुपधिभिरिह तद्युक्तसंयोगभेदात् देशव्याप्तिप्रभेदः परिमितिरिति चेन्नोपधीनां मितत्वात् । देशैस्तन्न्यूनतादौ प्रसजति हि मिथस्संश्रयस्तत्स्वतस्सा मन्तव्या क्वापि राशिप्रभृतिषु तु परं देशसंबन्धभेदः ॥ ४५ ॥
बौद्धास्तुच्छामणूनामभिदधति परिच्छित्तिमाकाशधातुं वस्तुस्थित्या परिच्छित्त्यभवनवशतस्स्यादमीशां विभुत्वम् । अन्यत्रासत्त्वरूपा परिमितिरिति हि स्थापितं सा मृषा चेत् प्राप्तं सर्वत्र सत्त्वं प्रथमसरगता स्मर्यतां व्योम्नि युक्तिः ॥ ४६ ॥
स्थूलाणुह्रस्वदीर्घेतरदुपनिषदि स्थापितं ब्रह्म तस्मिन् सर्वोत्कृष्टं महत्वं श्रुतमपि तदिह स्थूलतान्या निषिद्धा । अन्ये त्वाहुर्विभूनामपरिमितवचःप्रत्ययान्मित्यभावं भावैकात्मन्यभावे परिमितिविरहोऽप्यत्र भावान्तरं स्यात् ॥ ४७ ॥
नात्यन्ताणोर्महत्ताऽस्त्यवयविनि हते मध्यमं क्वास्तु मानं तद्धेतुष्वेव तद्धीरपि तव घटते लाघवोत्कण्ठितस्य । एवं त्यक्ते महत्त्वे परममहदपि त्याज्यमेवेति चेन्न त्यागाभावात्तदिष्टादधिकमनधिकं वाऽस्तु न क्वापि दोषः ॥ ४८ ॥
द्रव्यं कृत्स्नं स्वभावात् परिमितिरहितं व्यापकैकत्वयुक्तेरौपाधिक्यंशकॢप्तिर्घटगगननयात्स्यादवस्था ह्युपाधिः । स्वाभावैर्वेष्टितत्वं घटत इह घटाद्याकृतौ द्रव्यधर्मे पार्श्वोक्तिस्तावता स्यादिति न सदवधेरन्यथाऽप्यत्र सिद्धेः ॥ ४९ ॥
अव्यक्ते स्यादणुत्वप्रभृतिपरिणतिः स्तम्भकुम्भादिनीत्या नाणुत्वं पूर्वसिद्धं नरमृगरचनाद्यप्यवस्थाक्रमेण । इत्युक्तं सांख्यशैवप्रभृतिसमयिभिस्तत्तथैवास्तु मा वा नित्याणौ जीवतत्त्वे न कथमपि भवेदण्ववस्थाप्रसूतिः ॥ ५० ॥
चर्चा तुल्यैव भिन्नं पृथगितरदिति प्रत्यये तत्पृथक्त्वं भेदाख्यो नीलपीतप्रभृतिरभिमतः किं मुधाऽन्यस्य कॢप्तिः । नाप्यज्ञातावधीनां पृथगिदमिति धीर्नापि भिन्नादिवाचां साकं क्वापि प्रयोगो न च पृथगिति धीर्द्रव्य एवेति सिद्धम् ॥ ५१ ॥
तन्त्वादीनां पटादिव्यवहृतिनियता दृश्यते काऽप्यवस्था सा चेद् द्रव्यस्वरूपं भवति विफलता कारकव्यापृतीनाम् । तत्रासंयुक्तबुद्धिः कथमिव च भवेत् स्थैर्यवादस्थितानां नैरन्तर्यं च भावो मम तदघटितं मध्यमेवान्तरं च ॥ ५२ ॥
सर्वं द्रव्यं सभागं न यदि कथमुपाध्यन्वयो भागतः स्थात् कार्त्स्न्येनोपाधियोगे कथमणुविभुनोस्सूक्ष्मतादीति जैनाः । सामग्रीशक्तिभेदप्रजनितविविधोपाधियोगस्वभावादौपाधिक्यंशकॢप्तिः कथमिव न भवेद् द्विष्ठसंबन्धदृष्टेः ॥ ५३ ॥
नैरन्तर्यं विभूनामपि भवति ततोऽन्योन्ययोगोऽपि योग्यः केचित्तं हेत्वभावाज्जहति विहतिकृन्नित्यधीकल्पने तत् । स्याद्वा तत्सिद्ध्यसिद्ध्योरनुमितिरपटुर्बाधहानेर्विपक्षे शास्त्रैरन्यद्विभुः स्यात् परधृतमपृथक्सिद्धिरेवं ततोऽस्य ॥ ५४ ॥
संयोगाद्विश्वसृष्टिः प्रकृतिपुरुषयोस्तादृशैस्तद्विशेषैः ब्रह्मादिस्तम्बनिष्ठा जगति विषमता यन्त्रभेदादयश्च । अक्षाणामर्थयोगाद्विविधमतिरबाद्यन्वयादङ्कुरादिः शुद्धाशुद्धादियोगान्नियतमपि फलं न्यायतत्त्वेऽन्यघोषः ॥ ५५ ॥
संयुक्ते द्रव्ययुग्मे सति समुपनतो यस्तु संयोगनाशः संग्राह्योऽयं विभागव्यवहृतिविषयस्सोऽपि तद्धेतुतस्स्यात् । त्वन्निर्दिष्टे विभागे गतवति च सतोः स्याद्विभक्तप्रतीतिः भूयस्संयोगसिद्धौ कथमिति तु यथा त्वद्विभागान्तरादौ ॥ ५६ ॥
कोऽसौ संयोगनाशस्तव मत इति चेत् सोऽयमन्यत्र योगस्तस्य प्राचा विरोधात् स तु मिषति तथाऽऽलोचितस्त(स्य)द्विनाशः । अज्ञातप्राच्ययोगः परमभिमनुते स्वेन रूपेण चैनं सर्वोऽप्येवं ह्यभावः स्फुटमिह न पुनः कश्चिदन्योऽस्ति दृष्टः ॥ ५७ ॥
स्पन्दावृत्त्यादिभेदात् परमपरमिति प्रत्ययौ तत्तदर्थे कालाधिक्यादिमात्रान्न खलु समधिकं शक्नुयातां विधातुम् । दृष्टिर्नान्यस्य कॢप्तिर्भवति गुरुतरातिप्रसङ्गोऽन्यथा स्यात् किं न स्यातां गुणाद्यैः परतदितरते पूर्वभावादि चान्यत् ॥ ५८ ॥
द्रव्यं प्राग् बुद्धिरुक्ता परमिह विषयैस्सङ्गमादिर्निरूप्यस्संयोगं भाष्यकाराः प्रथममकथयन्न्यायतत्त्वानुसारात् । तत्संयोगे समेऽपि स्फुरति न निखिलं तेन योग्यत्वमन्यत् ग्राह्यं संबन्धसाम्ये नियतविषयता दृश्यते हीन्द्रियेषु ॥ ५९ ॥
नित्यं नित्यादिबुद्धिर्निखिलविषयिणी तद्वदेव स्वभावः शास्त्रैः क्षेत्रज्ञबुद्धेरपि समधिगतः कर्मभिस्तन्निरोधः । संकोचोल्लासयोश्च प्रतिनियतिरिह स्यादुपाधिप्रभेदान्निश्शेषोपाधिमोक्षे निखिलविषयतामश्नुवीत स्वभावात् ॥ ६० ॥
मुक्तानां धीः क्रमाच्चेत् प्रसरति न कदाऽप्यन्तमेषाऽधिगच्छेत् संक्षिप्तायाश्च दूरान्तिकपरिपतने यौगपद्यं न शक्यम् । संयोगो भूतभा(वि)व्येष्वपि न हि घटते तद्धि यस्सांप्रतिक्या इत्याद्यैर्न क्षतिः स्यात् श्रुतिमुखविदिते योग्यतावैभवेऽस्याः ॥ ६१ ॥
वेगस्याचिन्त्यरूपो रविशशिनयनाद्यंशुवर्गेषु भूमा भागानन्त्येऽप्यणूनामतिपतनमतो ह्याहुरन्योन्यमेके । इत्थं सर्वैरबाध्यां गतिमनुवदतां मुक्तबुद्धेर्विकासे युज्यन्ते यौगपद्यप्रभृतय इति तु श्रद्दधीध्वं श्रुतार्थाः ॥ ६२ ॥
यत्सूक्ष्मं विप्रकृष्टं व्यवहितमपि तद् गृह्णती योगिबुद्धिर्भूयिष्ठादृष्टलब्धातिशयकरणवृत्त्यानुगुण्येन सिद्धा । नष्टादिष्वक्षतो धीः कथमिति यदि न प्रत्यभिज्ञादिनीतेश्चित्रास्संबन्धभेदाः करणविषययोस्तत्रतत्राभ्युपेताः ॥ ६३ ॥
नित्याया एव बुद्धेस्स्वयमभिदधतः केचिदद्रव्यभावं संबन्धं धर्मतोऽस्याः कृतकमकथयन् भूषणन्यायसक्ताः । स्वाभीष्टद्रव्यलक्ष्मस्मृतिविरहकृतं नूनमेषां तदेतत् सौत्रं तल्लक्षणं तैरनुमतमिह च स्याद्धि कार्याश्रयत्वम् ॥ ६४ ॥
प्राकट्यं नाम धर्मं कतिचन विषये बुद्धिसंबन्धजन्यं मन्यन्ते तन्न दृष्टं व्यवहरणविधावानुगुण्यं तु भानम् । क्वापि स्वाभाविकं स्यात् क्वचन भवति धीगोचरत्वात्मकं तत् भातीत्यादिप्रयोगः स्वदत इति नयात्तत्र कर्मत्वगर्भः ॥ ६५ ॥
इष्टद्विष्टप्रनष्टादिषु च परगतैः कथ्यतेऽन्यद्विशिष्टं ज्ञातत्वोक्तावपीत्थं व्यवहृतिनियमास्तावतैवोपपन्नाः । प्राकट्येऽस्मिन् गुणादिष्वपि कथमधिकं भूतभव्येषु च स्यात् कर्मत्वं तु क्रियार्थे सति फल इति च प्रायिकव्याप्तिहानेः ॥ ६६ ॥
आधत्ते धीः क्रियात्वात् किमपि गमनवत् कर्मणीत्यप्य(सारं)युक्तं दत्तानेकोत्तरत्वान्न च फलमधिकं भाति हानादिमात्रात् । हेतुर्धात्वर्थता चेदतिचरणमथ स्पन्दता स्यादसिद्धिर्धीस्वारस्यानृशंस्यादनुमतमधिकं कैश्चिदस्मत्सयूथ्यैः ॥ ६७ ॥
इच्छाद्वेषप्रयत्नाः सुखमितरदपि ज्ञानतो नातिरिक्ता या धीस्तद्धेतुरिष्टा न तदधिकतया कल्पने कोऽपि लाभः । पर्यायत्वं विशेषे न तु भवति यथा प्रत्यभिज्ञादिभेदे नो चेदीर्ष्याभ्यसूयाभयधृतिकरुणाद्यन्यदन्यच्च कल्प्यम् ॥ ६८ ॥
चेतःस्रोतस्स्रुतीनां चिदवधिकतया चैत्तसङ्केतभाजां रागद्वेषादिकानामभिदधतु कथंभावमस्थेमभावाः । एतेषां हेतुसाध्यक्रमनियतिमतां सर्वचित्साक्षिकाणां कथ्येतातथ्यभावे कथमिव कथकद्वन्द्वयुद्धावतारः ॥ ६९ ॥
तत्रेच्छैव द्विधोक्ता विषयनियमतो रागविद्वेषनाम्ना पूर्वस्तीव्रस्तु कामः पर इह भजते तादृशः क्रोधसंज्ञाम् । एकैवेच्छा सिसृक्षा भगवत उदिता संजिहीर्षेति चान्यैस्तद्वल्लोके न किं स्यादधिकमिह तु चेत्कल्प्यतेऽतिप्रसक्तिः ॥ ७० ॥
इच्छातः कार्यसिद्धौ किमिह यतनमित्यन्तरा कल्प्यतेऽन्यत्तन्मोघत्वोपलब्धेरिति यदि यतने कल्पितेऽप्येतदेवम् । मैवं व्यावर्तमानादनुगतमधिकं वर्ण्यते मानविद्भिर्वाञ्छन्तोऽपि ह्ययत्ना वयमिह पवनस्पन्दनेन्दूदयादौ ॥ ७१ ॥
प्राणस्पन्दस्सुषुप्तिप्रभृतिषु घटते तादृशादृष्टमात्रात् यत्त्वं यत्ने निदानं वदसि भव(तु)ति तल्लाघवात् प्राणवृत्तौ । धीवृत्तिश्चैव यत्नः स्थित इति स कथं काष्ठकल्पे सुषुप्ते नो चेद् बाह्यानलादेर्ज्वलनमपि ततः कल्प्यतां न त्वदृष्टात् ॥ ७२ ॥
स्याद् दुःखाभावमात्रं सुखमभिदधतो वैपरीत्यप्रसक्तिः स्वापादौ दुःखसिद्धिर्न यदि सुखमपि ह्यत्र नैवास्ति तादृक् । शीतोष्णातीतनीतेर्द्वितयसमधिकावस्थितिर्दुस्त्यजाऽतस्तत्तच्छब्दप्रयोगेष्वनियतिरुचितैस्संघटेतोपचारैः ॥ ७३ ॥
भेदस्त्रेधा मतीनां ह्युपधिनियमितैरानुकूल्यादिधर्मैस्तस्यैवात्यन्तहानेर्निरुपधिकसुखस्तादृशो धीविकासः । निस्सीमब्रह्मतत्त्वानुभवभवमहाह्लाददुग्धार्णवेऽस्मिन् निश्शेषैश्वर्यजीवानुभवरसभरो बिन्दुभावोपलभ्यः ॥ ७४ ॥
संसारे नास्ति किञ्चित् सुखमिति कतिचित्तद्घटेतोपचारान्नो चेद्व्युत्पत्तिहीनं सुखपदमधिकं तत्सुखं नाभिदध्यात् । तस्माद् दुःखोत्तरत्वप्रभृतिभिरिह तद्दुःखमित्युक्तमाप्तैः क्ष्वेलोपश्लेषदुष्टे मधुनि विषमिति व्याहृतिः किं न दृष्टा ॥ ७५ ॥
धर्मोऽधर्मश्च तत्तत्फलकरणतया शास्त्रसिद्धं क्रियादिद्वारं त्वेतस्य कालान्तरनियतफले स्यादिहादृष्टमन्यत् । आहुस्तत् केचिदन्तःकरणपरिणतिं वासनां चेतसोऽन्ये पुंधर्मं केचिदेके विभु किमपि परे पुद्गलांस्तत्सयूथ्याः ॥ ७६ ॥
तुल्ये सेवादिहेतौ फलभिदुरतया साध्यते चेददृष्टं हेतोस्सूक्ष्मोऽस्तु भेदो न खलु समुचिता धर्मिणोऽन्यस्य कॢप्तिः । व्याख्यातं यत्तु बाह्यैर्विषयसमफलप्रापकत्वं क्रियाणां तत्सूतेऽतिप्रसक्तिं तदिह न निगमादन्यतोऽदृष्टसिद्धिः ॥ ७७ ॥
निस्संकोचान्निषेधात् क्वचन फलतयाऽनूदितांहस्तु हिंसा रुन्धे सामान्यभङ्गे विधिरनुमितिरप्यत्र बाधादिदुःस्था । स्वल्पो दोषो विमृष्टे सुपरिहर इह क्रत्वनुग्राहके स्यादित्युक्तं सांख्यसक्तैः पशुहितवचनान्नेति शारीरकोक्तम् ॥ ७८ ॥
सिध्येद्वा विश्ववृत्तेरनितरफलतास्थापनाद्यैरदृष्टं तत्सत्ताज्ञप्तिमात्रात्तदुचितनियतानुष्ठितिर्नैव सिध्येत् । तस्माच्चर्याविशेषे श्रुतिरिह शरणं स्वर्गमोक्षादिहेतौ सैवादृष्टस्वरूपं प्रथयतु बहुधा तत्तदुक्ताद्विविक्तम् ॥ ७९ ॥
शक्तिर्यागादिकस्य स्वफलवितरणे संभवे वा फलस्य स्थाप्या मध्ये तयोरित्यबहुमतिपदं सत्सु तौतातिती वाक् । शक्ताभावे हि शक्तिर्न भवति शमितो धर्मधर्म्यैक्यजल्पस्तद्द्वारे शक्तिशब्दो यदि भवतु परं कॢप्तिमस्य क्षिपामः ॥ ८० ॥
द्वारं तत्तत्फलाप्तेः श्रुतिभिरवधृतौ देवताप्रीतिकोपौ व्याचक्रे देवपूजा यजनमिति न तन्न श्रुतं वाक्यविद्भिः । आम्नातेऽपेक्षितेऽर्थे न च नयनिपुणैरश्रुतं कल्पनीयं नो चेत्स्याद्दत्ततोयाञ्जलिरिह भवतां रात्रिसत्रादिनीतिः ॥ ८१ ॥
आराध्यादिप्रकाशः स्फुटमुपकुरुते मन्त्रसाध्यो विधीनां प्राशस्त्यादिप्रतीतिर्न च भवति मृषावर्णनैरर्थवादैः । सत्येऽप्याकाङ्क्षितेऽर्थे तदुभयगमिते वाक्यभेदादि न स्याल्लोकेऽप्येवं हि दृष्टं तदनुगतिमुचां सर्वशास्त्रप्रकोपः ॥ ८२ ॥
बुद्धिर्मन्त्रार्थवादैर्भवति दृढतरा देवतातद्गुणादौ बाधश्चातीन्द्रियेऽक्षैर्न हि भवति धियां मानता च स्वतो नः । दुःखासंभिन्नदेशादिकमिव फलदा देवता तत्रतत्र प्राप्या च श्रूयतेऽतः कथय कथमियं शब्दमात्रादिरूपा ॥ ८३ ॥
प्राचीनेन्द्राद्यपाये दिशतु कृतफलं को नु कल्पान्तरादावन्ये तत्तत्पदस्था न तदुपजनकाः प्रागनाराधितत्वात् । मैवं यस्य श्रुतिश्च स्मृतिरपि नियतादेशरूपे स एकस्सर्वाराध्यान्तरात्मा न हि गलितपदो नापि सुप्तस्तदाऽपि ॥ ८४ ॥
अस्त्वेवं कर्मवर्गे स्वयमिह फलदो हव्यकव्यैकभोक्ता तन्निघ्नैस्तैः किमन्तर्गडुभिरिति च न स्वोक्तिबाधप्रसक्तेः । कर्माराध्यत्वमेषां दिशति फलमसौ पूर्वमाराधितस्तैः श्रद्धेयाः श्राद्धभोक्तृद्विजवदत इमे निर्जरास्तस्य देहाः ॥ ८५ ॥
विश्वेशाकूतभेदव्यवहितफलदे वैधघण्टापथेऽस्मिन् संस्काराणां गतार्था सरणिरपि तथा मन्त्रणप्रोक्षणाद्यैः । राजेच्छोपात्तभोग्यप्रभृतिनियमवत्तत्र कार्यान्तरादिस्सत्त्वादीनां गुणानां विपरिणतिभिदां तत्फलं केचिदूचुः ॥ ८६ ॥
कृष्यादौ मर्दनादावपि च न हि परप्रीतिमूला फलाप्तिस्तद्वत् स्याच्छास्त्रसिद्धेष्विति न सदफलं ह्यत्र दृष्टान्तमात्रम् । दृष्टौ चाज्ञानुवृत्तिप्रभृतिषु फलदौ शासितुः प्रीतिकोपौ शिष्टौ चातस्समीची तदुपगतिरिह त्यक्तिरिष्टेऽपि वांशे ॥ ८७ ॥
प्रध्वस्तं कर्म कालान्तरभवितृफलासाधकं तल्लिङादेर्वाच्योऽर्थः स्थायि कार्यं न यदि कथमिवान्वेतु कामी नियोज्यः । तच्चापूर्वं प्रधानं फलजनकमपि स्यान्नियोज्यप्रसिद्ध्यै नित्ये नैष्फल्यमस्येत्यभिदधुरपरे तेऽपि निर्धूतकल्पाः ॥ ८८ ॥
कृत्युद्देश्यं सुखादि स्वत इह न परं स्यादनन्यार्थवेद्यं कॢप्तिश्चान्यस्य हेतोरपि च परिहृतं तत्परत्वं श्रुतीनाम् । नित्ये चापूर्वतोऽन्यत् फलमनघगिरस्सस्मरुर्दुस्त्यजं तन्नो चेत् स्वस्मिन्नियोगायुतमपि निपुणान्नैव शक्तं नियोक्तुम् ॥ ८९ ॥
व्युत्पत्तिश्चेल्लिङादेः स्वयमवगमिते स्यान्मिथस्संश्रयादिर्नान्यैरत्रानुभूतिः स्मृतिरपि न च वस्तद्द्वयान्यो विमर्शः । अर्थापत्त्या मिते चेन्न गुरुमतमिदं मन्यसे तत्तथा चेत् कल्प्येत द्वारमात्रं तदिति न खलु तद्वाच्यभावादिकल्प्यम् ॥ ९० ॥
देवप्रीत्यादिकं वा विदितमिह विधिप्रत्ययस्यास्तु वाच्यं नात्रान्योन्याश्रयो न श्रुतपरिहरणं नापि कॢप्तिर्गरिष्ठा । प्राधान्यं स्याच्च किञ्चिन्नृपभजननयात् सिद्धमेतच्च शास्त्रैरित्थं त्वर्थाविरोधेऽप्यतिगरिमभयान्नेष्यते शब्दशक्तिः ॥ ९१ ॥
स्वव्यापारं विशेष्ये स्वयमभिदधते नैव शब्दाः कदाचित् श्रुत्वा लिङ्व्यापृतिं वा कुत इह यतनं स्वोपयोगाद्यबोधे । तस्मादास्माकतत्तद्यतनकृदभिधा स्वस्य वाच्या लिङादेरित्युक्तिं बह्ववद्याममनिषत बुधास्त्रस्तरीमात्ररूपाम् ॥ ९२ ॥
न स्यात् पुंसः प्रवृत्त्यै विदितमपि गिरा स्वेष्टहेतुत्वमात्रं दुस्साधादावयोगादथ सहकुरुते साध्यतैकार्थयोगः । इत्थं शक्तिर्द्वये स्याद्गरिमहतमिदं किञ्चिदत्रार्थतश्चेदिष्टोपायत्वमर्थादुचितमिह ततः खण्डिता मण्डनोक्तिः ॥ ९३ ॥
धात्वर्थस्यैव रूपं किमपि हि कथयन्त्यत्र सर्वे लकाराः कर्तृव्यापारसाध्यं त्वभिदधति विधिप्रत्ययास्तल्लिङाद्याः । वैघट्यं द्वारसिद्धिः प्रशमयति तथा सन्ति लोकोक्तिभेदास्सिद्धं शब्दानुशिष्ट्या त्विदमुचितमिति स्थापितं भाष्यकारैः ॥ ९४ ॥
इष्टस्वर्गादिकस्य त्वितरदपि यदा साध्यमुक्तं तदाऽर्थात् सिद्धं तत्साधनत्वं सुगममिह तदाऽनर्थकत्वं निषेध्ये । नित्यत्वेनोपदिष्टेष्वकरणमपि तत्तुल्यमेवार्थलब्धं सामान्यात् प्राप्तमेतत् फलनियतिरपि व्यज्यते तत्तदुक्त्या ॥ ९५ ॥
सन्ति ह्यन्ये लिङर्थाः कथयितृपुरुषाकूतभेदास्तथाऽत्राप्याप्तस्याहुर्नियोगं हितमभिलषितं केऽपि भाष्याशयस्थम् । शास्त्राज्ञाचोदनात्वं श्रुतिषु विधिपदैरन्वितत्वं नञोऽपि स्वादेशे चावधूते भवति समुचितः प्रत्यवायः स्वतन्त्रात् ॥ ९६ ॥
षाड्गुण्यस्यैव कुक्षौ गुणगण इतरः श्रीसखस्येव विश्वं षट्स्वन्ये ज्ञानशक्त्योर्विततय इति च व्यक्तमुक्तं हि तज्ज्ञैः । निस्सीमानन्दभावस्थिरचरचिदचिच्छासनप्रेरणाद्या ऐशानज्ञानधर्माः कतिचन नियताः केचिदागन्तवश्च ॥ ९७ ॥
हेतोः कार्योपयुक्तं यदिह भवति तच्छक्तिशब्दाभिलप्यं तच्चामुष्य स्वधर्मस्तदितरदपि वाऽपेक्षितत्वाविशेषात् । विश्वं तद्विष्णुशक्तिर्मुनिभिरभिदधे तत्रतत्रोपयोगादन्या सर्वाद्भुतैकोदधिरगणि न सा तत्स्वरूपादिमात्रम् ॥ ९८ ॥
यद्भ्रंशान्मन्त्ररुद्धो न दहति दहनश्शक्तिरेषाऽस्तु सोऽयं हेतुर्मन्त्राद्यभावस्स च गत इति तद्धेत्वभावाददाहः । शक्तेर्नाशे किमस्याः पुनरिह जनकं वृत्तिरोधस्तु युक्तो वह्नेरित्यादिघोषो विरमति विदिते शब्दतश्शक्तितत्त्वे ॥ ९९ ॥
शब्दादिष्वस्ति शक्तिर्यदि कथमिव न द्रव्यतैषां गुणित्वे सा चेन्नास्त्येषु कार्यं किमपि कथमितः स्यादितीदं न युक्तम् । शक्तिश्शक्ता न वेति स्वयमवमृशतः स्वोक्तदोषप्रसङ्गे निस्तारश्चेत्स्वभावात् फणिमरणमिह प्रस्तुते किं प्रवृत्तम् ॥ १०० ॥
बाह्याक्षादेरवृत्तौ चिरविदितमपि स्मर्यते येन सोऽयं संस्कारस्तुल्यदृष्टिप्रभृतिसहकृतश्चेतसस्साह्यकारी । नासौ पूर्वानुभूतिः कथमुपकुरुतां सा पुरैव प्रनष्टा तुल्यादेर्नापि दृष्टिः कथमनवगते सा स्मृतिं नैव कुर्यात् ॥ १०१ ॥
यज्जन्यां संस्क्रियां यत् किमपि नियमतो बोधयिष्यत्यदृष्टं तत्तद्वेद्यावलम्बिस्मृतिमुपजनयेत् संमतं च द्वयोस्तत् । न ह्यन्यद् दृश्यतेऽत्र क्वचन तदधिके कल्पिते गौरवं स्यादित्युत्प्रेक्षा न युक्ता न हि परजनिते क्वापि तत्संस्क्रियोक्तिः ॥ १०२ ॥
बुद्धेरर्थेषु पूर्वप्रसरणजनितस्तेषु भूयोऽवगाहे संस्कारः कारणं तन्मतिगत उचितस्सोऽत्र धीद्रव्यपक्षे । आत्माधारस्य तद्धीप्रसरजनकताकॢप्तिरौचित्यहीना धीनिष्ठेनैव तेन ह्युचितमविकृतेरात्मनः कुण्ठतादिः ॥ १०३ ॥
शीघ्रं यातीति कर्मातिशयसमधिको दृश्यते कुत्र वेगस्तद्भेदैर्वेगभेदं कथयसि च समस्तीव्रमन्दक्रमादिः । तत्कर्मत्वाद्विगीते प्रथमवदुचिता तद्गुणोत्पन्नता चेत् बाधो नास्मिन्विपक्षे गुणपरिषदि वा कर्म सत्तत्त्वतः स्यात् ॥ १०४ ॥
शाखाकोदण्डचर्मप्रभृतिषु सति चाकर्षणादौ कुतश्चिद् भूयः स्वस्थानयानं भवति स तु गुणः स्यात् स्थितस्थापकश्चेत् । मैवं संस्थानभेदस्स भवतु नियतो यद्विशिष्टे तवासौ तेन द्रौत्यं विलम्बो विरतिरपि परावर्तने जाघटीति ॥ १०५ ॥
प्राग्देशप्रापकोऽसौ किमिति नियमितो मेदिनीमात्रनिष्ठस्तोयाग्न्यादावदृष्टेरिति यदि न पृथिव्येकदेशेऽप्यदृष्टेः । भूम्यंशे दृश्यते तत्फलमिति यदि नाबादिभेदेऽपि साम्यात् भूपष्टम्भादिभेदादिदमिति च विपर्यासकल्पेऽप्यपायात् ॥ १०६ ॥
केचिद्देशान्तराप्तेर्जनिमभिदधते कर्म या कर्मजेष्टा नेत्येकेऽम्भःप्रवाहस्थिरवपुषि झषे तत्प्रतीतेरभावात् । खादौ स्रोतःप्रदेशान्तरयुतिरुदके खादिदेशान्तराप्तिस्तुल्या तल्लौल्यदृष्टिः पयसि तदधिकं कर्म नालम्बते चेत् ॥ १०७ ॥
कर्मत्वान्नाक्षयोग्यं विमतमिति यदि व्याप्तिशून्यं तदेतद्योग्यत्वेऽपि ह्यदृष्टिस्सहकृदपगमादर्यमादिक्रियाणाम् । नो चेत्कर्मैव न स्यात् फलमपि हि भवेत्कर्महेतोस्त्वदिष्टात् द्विष्ठत्वाद्वा फलस्य द्वितयमपि भवेत्कर्मवत्सर्वदा वः ॥ १०८ ॥
केचित्कर्मादिरूपं जगदुरसमवाय्याह्वयं हेतुभेदं किं तैरेवं निमित्ताश्रयमिह जनकं नानिमित्तं विभक्तम् । तत्प्रत्यासत्तिमात्रं व्यभिचरति यदि स्वावकॢप्तेऽपि तुल्यं युक्त्या नैयत्यमत्रेत्यपि सममथवा स्वस्ति वः स्वैरवाग्भ्यः ॥ १०९ ॥
कर्मोत्क्षेपादिभेदात् कतिचिदकथयन् पञ्चधा तच्च मन्दं दिग्भेदात्तस्य भेदे दशविधमपि तत्कल्पनं सांप्रतं स्यात् । यत्किञ्चिद्भेदकाच्चेदनवधिकभिदा कर्महेतुर्ध्रुवाच्चेदव्याप्तिर्बुद्धितश्चेदियमितरसमा संकरस्त्वत्र सह्यः ॥ ११० ॥
मृत्स्वर्णादिप्रसूते भवति हि घटधीर्नान्यदन्यद् घटत्वं नैकं बाध्यं समत्वात्तदिह परिहृतिः कुत्रचित्क्वापि योगः । पारापर्यं विरोधः परिहरणसमावेशनं चास्त्युपाधौ तुल्यं चातिप्रसङ्गादिकमिति न यथादृष्टभङ्गः क्वचित्स्यात् ॥ १११ ॥
जातिः प्राणप्रदात्री गुण इह तदनुप्राणिते भेद(कः)कं स्यादित्याहुः केऽपि नेत्थं नियतिरुभयथाऽप्यर्थदृष्टेर्निशादौ । तेनान्वेष्टव्यभेदप्रतिनियतिमता केनचिन्नित्यरूप्यं प्राप्ता यादृच्छिकीषु प्रमितिषु (तु) च यथादर्शनं तद्व्यवस्था ॥ ११२ ॥
भिन्नेष्वेकावमर्शो न तु निरुपधिकस्तेषु चैक्यं विरुद्धं ज्ञानाकारोऽपि बाह्यो न हि भवति न चासिद्धमारोपणीयम् । तस्माद् गोत्वादिबुद्धिव्यवहृतिविषयः कोऽपि सत्योऽनुवृत्तस्तस्य त्यागेऽनुमादेः क्षतिरिति कणभुक्तन्त्रभक्ता गृणन्ति ॥ ११३ ॥
मध्ये यद्यस्ति जातिर्मतिविहतमथो नास्ति भिन्ना भवेत् सा तस्मादन्यत्र वृत्तिर्न च सकलमतिः क्वापि कृत्स्नांशवृत्त्योः । धर्मिध्वंसे तु धर्मस्थितिरपि न भवेन्नात्र गत्यादि च स्यादित्याद्यैर्बाह्यजल्पैरनितरगतिका संविदक्षोभणीया ॥ ११४ ॥
अन्यापोहस्तु गोत्वप्रभृतिरिति तु नेदंतया तत्प्रतीतेरन्योन्यापोहबुद्ध्या नियतिरिति मिथस्संश्रयस्तत्प्रतीतौ । विध्याक्षेपक्षमत्वाद्विषमसमतया बुद्धिनैयत्यसिद्धेश्शब्दार्थत्वादपोहो विमतिपदमिति व्याप्तिभङ्गादिदुःस्थम् ॥ ११५ ॥
युज्येतोपाधितश्चेदनुगतधिषणा तत्र नेष्टाऽन्यकॢप्तिस्तस्मात् संघातवर्गेष्ववयवरचनाभेदतोऽन्यन्न सिध्येत् । सौसादृस्यात्तु जातिव्यवहृतिनियमस्तेन नातिप्रसक्तिर्नो चेन्मूर्तत्वमुख्यैस्त्वदभिमतिनयाद्व्यज्यतां जातिरन्या ॥ ११६ ॥
जातेर्यद्व्यञ्जकं ते तदपि यदि मतं जातितस्संगृहीतं साऽपि व्यङ्ग्यान्यतस्स्यात्तदुपरि च भवेज्जातिसंस्थानमाला । स्वेनैव व्यञ्जकस्याप्यनुगतिरिति चेत्तर्हि जातिः किमर्था व्यावृत्तानां स्वभावाद्यदि तदनुगतव्यञ्जकत्वं जितस्त्वम् ॥ ११७ ॥
व्यावृत्तैर्व्यक्तिवन्न व्यवहृतिनियमस्साध्यता नानुवृत्तौ तद्धर्मस्यानुवृत्तौ मदभिमतमिह स्वीक्रियेतेति चेन्न । केचित्संस्थानभेदाः क्वचन खलु मिथो भान्ति सादृश्यरूपास्तस्मादन्योन्यजैकस्मृतिविषयतया तत्तदेकावमर्शः ॥ ११८ ॥
सादृश्यस्यानुवृत्तौ भवति परमता जातिरेवान्यथा चेत्तन्मूला नानुवृत्तव्यवहृतिरुचितेत्येतदप्यात्तसारम् । एकैकस्थं तु तैस्तैर्निरुपधिनियतैस्सप्रतिद्वन्द्विकं स्यात् धर्माभावप्रतीतिप्रभृतिनियमवद्दुस्त्यजेयं व्यवस्था ॥ ११९ ॥
सादृश्यं शक्तिसंख्याप्रभृति च कतिचिद्भिन्नमूचुर्गुणादेः स्यादत्रातिप्रसक्तिः प्रतिगुणमगुणीकारलिङ्गोपलब्धेः । साधर्म्यात् संग्रहश्चेत् सममिदमुभयोर्येनकेनापि यद्वा किं दन्तादन्ति कृत्वा फलमिह बलिभुग्दन्तचिन्तान्तरेऽस्मिन् ॥ १२० ॥
गन्धादौ सन्निवेशो न हि भवति न च द्रव्यभेदे निरंशे तस्माज्जात्याऽनुवृत्तव्यवहृतिरिति चेदुक्ततुल्योत्तरं तत् । तत्तद्वस्तुस्वभावाद् घटत इह मिथस्सप्रतिद्वन्द्विकत्वं तज्जात्याधारतादेरपि तव नियतिस्तत्र न ह्यन्यतः स्यात् ॥ १२१ ॥
सत्तासामान्यमेके त्रिषु परिजगृहुः केऽपि जातवपीदं प्रख्यादीनां समत्वात्कथय न किमिदं सर्वनिष्ठं गृहीतम् । किञ्च प्रामणिकत्वप्रभृतिसमधिकं सत्त्वमन्यन्न दृष्टं तद्ब्रह्मेत्याश्रितं यैर्ध्रुवमपलपितं तत्तु तैर्धर्मतोक्तेः ॥ १२२ ॥
यज्जातीयं सदा यद्यदवधिगुणकं यत्र न ह्यन्यदीदृक् दृष्टैरित्थं विशेषैर्जगति विषमतां वक्ति वैशेषिकोऽपि । नित्येष्वत्यन्ततुल्येष्वपि नियतदशाभेदयोगोऽस्ति शास्त्रात् प्राच्योपाध्यादयो वा विदुरतिभिदुरान् योगिवर्यादयस्तान् ॥ १२३ ॥
मुक्तास्त्वत्पक्षकॢप्ता न हि निगम(दृशां)विदां तादृशाण्वादयो वा येषामन्योन्यभेदी गजतुरगनयात्कल्प्यतेऽन्यो विशेषः । जात्यैक्याद्वः पृथक्त्वैरिह न यदि फलं स्याद्विशेषैः कथं तत् तेषामप्यस्त्युपाधिस्सम इति न भिदाऽस्त्यत्र संरम्भमात्रात् ॥ १२४ ॥
नास्मद्दृश्या विशेषाः प्रणिहितमनसां तद्धियां क्वोपयोगस्तत्तद्वस्तुप्रकाशस्सुलभ इह पुनर्भिन्नधीरस्तु मा वा । वि(श्व)श्वं स्रष्टुर्विशिष्टप्रमितिमिह न ते कुर्वते नित्यसिद्धां तस्मात्तत्सिद्ध्यसिद्ध्योर्न फलमनुमया नागमोऽप्यत्र तादृक् ॥ १२५ ॥
बन्धं नाध्यक्षयामस्समधिकमपृथक्सिद्धयोस्तत्स्वरूपात् कल्प्ये तस्यातिरेके तदुपरि च तथेत्यप्रकम्प्याऽनवस्था । ताभ्यामेष स्वभावाद्घटित इति कृता भक्तिरस्त्वेतयोस्ते नो चेत् ज्ञानादिकानां विषयविषयिताद्यापतेदन्यदेवम् ॥ १२६ ॥
संबन्धे सर्वतुल्ये प्रसजति गुणजात्यादिसङ्कीर्णभावः तत्तद्द्वन्द्वस्वभावादनियतिशमने निष्फलाऽन्यस्य कॢप्तिः । त्यक्ते तत्तद्विशेषे स्वयमुभयसमे चात्र संबन्धरूपे नानासंबन्धपक्षेऽप्ययमधिकरणाधेयभेदः कथं स्यात् ॥ १२७ ॥
धर्मो धर्मी द्वयं वा कृतकमभिमतं यत्र संबन्धमत्र प्राहुः कार्यं स्वभावात्तदुभयघटितं केऽपि दत्तोत्तरं तत् । सिद्धेऽसिद्धे समं वा तदुदय इति तु प्रेक्ष्य पक्षत्रयेऽपि प्रागुक्तेभ्योऽतिरिक्तान् प्रणिहितमनसः पश्यत प्रत्यवायान् ॥ १२८ ॥
सोऽभावो यः स्वभावं नियमयति दशादेशकालादिभेदो नैवं सर्वाश्रितानां त्यजनमनितरस्थाप्यधीप्रापितत्वात् । तत्तत्प्रत्यर्थिभावस्फुरणसहकृतो नञ्प्रयोगक्षमोऽसौ नाभावानामभावं त्वमपि कलयसे भावभेदादितोऽन्यम् ॥ १२९ ॥
प्रध्वंसप्रागभावो द्वितनुरभिमतः प्रागभावात्ययश्च प्रागूर्ध्वानाद्यनन्तप्रतिनियतदशासन्ततिः स्यात्तथा नः । कॢप्तेऽन्यस्मिन्नभावे परमपि च (पु)पराभावपारम्परीतस्संपद्येतानवस्था स्वत उपरमणं दृष्ट एवास्त्वभीष्टे ॥ १३० ॥
द्रव्येष्वेव ह्यवस्थाक्रमत उपनता जन्मभङ्गादिरूपा नावस्थानामवस्थान्वय इति न भवेत् कार्यतादीति चेन्न । ता एवान्योन्यवैरव्यतिभिदुरतयाऽन्योन्यनाशादिरूपाश्चिन्त्यो जन्मादिषट्कव्यवहृतिविषयस्तत्तदर्थे यथार्हम् ॥ १३१ ॥
नाभावः कारणानां कथमपि विषयो निःस्वभावत्वयुक्तेः नाशोऽप्यस्यानपेक्ष्यः स्वयमसत इति प्रागभावादि नित्यम् । स्वाभावग्रस्तमेतन्निखिलमपि जगन्निःस्वभावं ततः स्यात् मैवं भावान्तरात्मन्यधिकवपुषि वा तत्स्वभावत्वदृष्टेः ॥ १३२ ॥
एतावन्तः पदार्था न तु पर इति तत्सिद्ध्यसिद्ध्योरयुक्तं मैवं योऽस्त्येष सिद्धान्न पर इति वचस्येष दोषो न तु स्यात् । सत्येव स्यात्तवापि ह्यधिकमनधिकं वेति शङ्कावकाशो नैवं चेन्नैव शङ्का न च परिहरणं भित्तिलाभे हि चित्रम् ॥ १३३ ॥
इत्थं श्रीवेङ्कटेशः श्रुतममत जगन्मूलकन्दं मुकुन्दं विस्तारो यस्य विश्वं मुनिभिरभिदधे विस्तरो वाङ्मयं च । यन्नास्मिन् क्वापि नैतत् क्षममिह कुहकैरिन्द्रजालं न तैस्तैरेकं तत्सर्वसिद्ध्यै कलयत हृदये तत्त्वमुक्ताकलापम् ॥ १३४ ॥
निश्शेषां वस्तुवृत्तिं निपुणमिह मया न्यस्यता क्वापि कोणे यत्रोदासि द्विधा वा समगणि गहने सम्मते सन्मतीनाम् । निष्क्रष्टुं कश्चिदन्यः प्रभुरिह भगवल्लक्ष्मणाचार्यमुद्रामक्षुद्राचार्यशिक्षाशतगुणितमतेरप्रमत्तान्न मत्तः ॥ १३५ ॥
दृष्टेऽपह्नुत्यभावादनुमितिविषये लाघवस्यानुरोधाच्छास्त्रेणैवावसेये विहतिविरहिते नास्तिकत्वप्रहाणात् । नाथोपज्ञं प्रवृत्तं बहुभिरुपचितं यामुनेयप्रबन्धैस्त्रातं सम्यग्यतीन्द्रैरिदमखिलतमःकर्शनं दर्शनं नः ॥ १३६ ॥
हृद्या हृत्पद्मसिंहासनरसिकहयग्रीवहेषोर्मिघोषक्षिप्तप्रत्यर्थिदृप्तिर्जयति बहुगुणा पङ्क्तिरस्मद्गुरूणाम् । दिक्सौधाबद्धजैत्रध्वजपटपवनस्फातिनिर्धूततत्तत्सिद्धान्तस्तोमतूलस्तबकविगमनव्यक्तसद्वर्तनीका ॥ १३७ ॥
अध्यक्षं यच्छ्रुतं वा लघु भवति तदित्यादिमो वादिमोहस्तत्त्वोदर्का न तर्कास्तदिह जगति किं मेधया साधयामः । तिष्ठत्वेतल्लघिष्ठाः कतिचन दधतो मानसे मानसेतुं हंहो सभ्यानसभ्यस्थपुटमुखपुटा दुर्जना निर्जयन्ति ॥ १३८ ॥
स्यादित्थं शिक्षितार्थो य इह यतिपतिच्छात्रहस्ताग्रनृत्यन्नाराचन्यासरेखासहचरितमतिस्सर्वतन्त्रस्वतन्त्रः । शुष्कोपन्यासशिक्षापटिमकटुरट(द्भाण्ड)द्वैरिविद्वत्करोटीकुट्टाकक्रीडमष्टापदकटकमसौ वामपादे बिभर्तु ॥ १३९ ॥
गाथा ताथागतानां गलति गमनिका कापिली क्वापि लीना क्षीणा काणादवाणी द्रुहिणहरगिरस्सौरभं नारभन्ते । क्षामा कौमारिलोक्तिर्जगति गुरुमतं गौरवाद् दूरवान्तं का शङ्का शङ्करादेर्भजति यतिपतौ भद्रवेदीं त्रिवेदीम् ॥ १४० ॥
॥ इति तत्त्वमुक्ताकलापे अद्रव्यसरः पञ्चमः ॥ ५ ॥
॥ इति कवितार्किकसिंहस्य सर्वतन्त्रस्वतन्त्रस्य श्रीमद्वेङ्कटनाथस्य वेदान्ताचार्यस्य कृतिषु तत्त्वमुक्ताकलापः समाप्तः ॥