[highlight_content]

तत्त्वमुक्ताकलापः नायकसरः

श्रीमन्निगमान्तमहादेशिकविरितः

तत्त्वमुक्ताकलापः

नायकसरः तृतीयः ॥ ३ ॥

व्याप्त्याद्यव्याकुलाभिः श्रुतिभिरधिगतो विश्वनेता स विश्वं क्रीडाकारुण्यतन्त्रः सृजति समतया जीवकर्मानुरूपम् । रोषोऽपि प्रीतये स्यात्सुनिरसविषयस्तस्य निस्सीमशक्तेः स्वे्छा(यां)तस्सर्वसिद्धिं वदति भगवतोऽवाप्तकामत्ववादः ॥ १ ॥
अप्रत्यक्षः परात्मा तदिह न घटते धातुरध्यक्षबाधो योग्यादृष्टेरभावान्न खलु न भवता स्वीकृतः स्वेतरात्मा । तस्मिन्देहानपेक्षे श्रुतिभिर(धिगते)वसिते देहबाधान्न बाधो वेदेभ्यो नानुमानं न पुरुषवस्तिष्ठते बद्धवैरम् ॥ २ ॥
वा्यत्वं वेद्यतां स्वयमभिदधति ब्रह्मणोऽनुश्रवान्ता वाक्ित्तागोरत्वश्रुतिरपि हि परि्छित्त्वभावप्रयुक्ता । नो ेत् पूर्वापरोक्तिस्ववनकलहस्सर्ववेदान्तबाधस्तत्सिद्धिर्हेतुभिश्ेत् प्रसजति विहतिर्धर्मिसाध्यादिशब्दैः ॥ ३ ॥
नित्यं ब्रह्मादिशब्दा निरुपधिकसतो लक्षका इत्ययुक्तं मुख्यस्यान्यस्य हानेर्न निपुणधियो मुख्यमि्छन्ति लक्ष्यम् । मुख्यत्वे बाधकं क्विदपि न वयं किञ्िदालोकयामो मुख्यं लक्ष्यं वाः पदमिति न तद्गोरत्वातिपातः ॥ ४ ॥
निस्साधारण्यनारायणपदविषये निश्यं यान्त्यबाधे सद्ब्रह्माद्यास्समानप्रकरणपठिताश्शङ्कितान्यार्थशब्दाः । अन्तर्यन्ता नारायण इकि कथितः कारणं ान्तरात्मेत्यस्मादप्यैककण्ठ्यं भवति निरुपधिस्तत्र शम्भ्वादिशब्दः ॥ ५ ॥
विष्णोरप्यस्त्यभिख्या शिव इति शुभतारूढिरत्रानुपाधिस्तस्माद्ध्येयः श्रुतोऽसौ शिव इति शिव एवेति वाक्यं त्वनुक्तिः । उक्तं नारायणाधिष्ठितमिति तमोऽनेकबाधोऽन्यथा स्यात् ब्रह्मेशादेर्महत्यामुपनिषदि लयाद्युक्तमेवं तु नात्र ॥ ६ ॥
यः प्रोक्तस्सर्वकर्तुः परमखिलतनोर्नापरं किञ्िदस्तीत्यस्यैव स्यादनुक्त्योत्तरतरकथनं न त्वितोऽन्यस्य बाधात् । विश्वव्याप्तस्य तस्योितमुपधिपरि्छेदनादुन्मितत्वं स्वस्यैव प्रापकत्वादशिथिलिदिद्धारणाैष सेतुः ॥ ७ ॥
पुंसूक्तं सर्ववेदप्रपठनमहितं यत्परत्वैकतानं तस्यैव श्रीपतित्वं विशदमभिदधे ह्युत्तरत्रानुवाके । आम्नातश्ैष नारायण इति निखिलब्रह्मविद्यासु वेद्यस्तत्तद्विद्याप्रदेशश्रुतविविधपदप्रत्यभिज्ञप्तिपूर्वम् ॥ ८ ॥
रुद्रेन्द्रादिश् यत्र स्फुरति परतयाऽनन्यथासिद्धलिङ्गैस्तत्तत्तत्त्वैर्विशिष्टो हरिरखिलतनुस्तासु विद्यासु वेद्यः । पारम्यं त्वान्यपर्यान्न भवति न किरित्यादिभिः स्तोत्रवाक्यैरन्याकूतैर्नमस्यादिभिरपि न परः स्यादनैकान्त्यदुःस्थैः ॥ ९ ॥
धर्माणां स्थापनार्थं स्वयमपि भजते शासिता शासनं स्वं स्वस्यापि प्रत्यवायानभिनयति नृणां पापभीतिं विधित्सुः । शुद्धैस्स्वे्छावतारैर्भजति सुलभतां तावतोत्पत्त्यनूक्तिः प्रोक्तो विष्णुश्शिखायामपि हि स पुरुषः प्राप्ततारार्धमात्रः ॥ १० ॥
आद्यं रामायणं तत्स निगमगणे पञ्मः पञ्रात्रं सत्त्वोपज्ञं पुराणं मनुमुखमुनिभिर्निर्मितं धर्मशास्त्रम् । त्यक्तान्यो मूलवेदः कठपरिपठिता वल्लिकास्तापनीयं सौबालब्रह्मबिन्दुप्रभृतिकमपि नस्तत्परं तत्परत्वे ॥ ११ ॥
मध्यस्थोक्तिर्विरुद्धे परमहिमपरे तत्र तत्रैतदुक्तिर्वृत्तान्तास्ते विित्राः स्वमतमभिहितं देवतातत्त्वविद्भिः । वैषम्यं शिल्पशास्त्रप्रभृतिषु विविधं वैदिकस्वीकृतत्वं प्रज्ञासंस्कारभाजां भवति भगवति स्वप्रधाने प्रमाणम् ॥ १२ ॥
इन्द्रेशानाद्यभिख्या स्वयमिह महदाद्युक्तिभिर्वा विशिष्टा तत्तत्पारम्यमानं न भवति बलवद्धर्भिमानोपरोधात् । नो ेत्स्यान्नैक ईशो न भवति यदि वा कश्िदन्योन्यबाधाल्लोकेऽप्यन्वर्थभावं न हि दधति महावृक्षमुख्यास्समाख्याः ॥ १३ ॥
एकं त्रेधा विभक्तं त्रितयसमधिकं तत्त्वमीशास्त्रयस्ते विष्ण्वन्या मूर्तिरीष्टे प्रभवननियमः कल्पभेदात्त्रयाणाम् । इन्द्रादीनामिव स्यान्निजसुकृतवशादीश्वराणां प्रवाहः स्यादेकस्येश्वरत्वं प्रतिफलनवदित्यादि ैवं परास्तम् ॥ १४ ॥
सर्गादीनामसिद्धौ न हि निगमगिरां भज्यते संप्रदायस्तत्सिद्धौ नानुमानं प्रभवति यदिदं बाधशून्यं विपक्षे । शास्त्रेभ्यस्तत्प्रसिद्धौ सहपरिपठनाद्विश्वकर्ताऽपि सिध्येद्धर्मानुष्ठापनार्थं तदनुमितिरतो नैव शक्या कदाित् ॥ १५ ॥
साध्यं यादृक् सपक्षे नियतमवगतं स्याद्धि पक्षेऽपि तादृक् तस्मात्कर्मादियुक्तः प्रसजति विमते कार्यताद्यैस्तु कर्त्ता । एतत्तत्सिद्ध्यसिद्ध्योर्न घटत इति न क्ष्मादिपक्षे सपक्षव्याप्ताकारप्रसङ्गात्तदनुपगमने न क्वित्स्यात्प्रसङ्गः ॥ १६ ॥
यत्कार्यस्योपयुक्तं तदिह भवतु नः किं परेणेति ेन्न ज्ञानादेरुद्भवे तद्विषयनियमनेऽप्यर्थनादिन्द्रियादेः । नित्यं ज्ञानं विभोस्तन्न नियतविषयं तेन नान्यार्थनं ेन्नानित्यस्यैव दृष्टेस्तव कथमजसंयोगभङ्गोऽन्यथा स्यात् ॥ १७ ॥
किं वा धी्छे गृहीते विषयनियतये ते हि यत्नोऽत्र ने्छेन्निर्हेतुस्तत्प्रमेष्टा भवतु विषयवानेष तद्वत्स्वतस्ते । प्रोक्ते यत्ने स्वभावाद्विषयवति स धीः स्यादितीदं क्व दृष्टं यद्वा धीस्तं हि नित्यं न तु जनयति ते सा कथं तन्नियन्त्री ॥ १८ ॥
निश्वासादिप्रयत्नक्रम इह भवतां जीव एवास्त्वदृष्टैर्यद्वा तैरेव सर्वं घटत इति भवेत्तत्कृता सिद्धसाध्यम् । कॢप्तावन्यस्य कर्तृद्वयमुपनमति त्वत्सपक्षे तथा स्यात् पक्षेऽपीत्यव्यवस्था यदि विफलतया त्यक्तिराद्येऽपि सा स्यात् ॥ १९ ॥
साध्यो हेत्वादिवेदी मत इह कलया सर्वथा वा तवासौ पूर्वत्रेशो न सिध्येन्न कथमपि भवेद्व्याप्तिसिद्धिः परत्र । पक्षस्पर्शाद्विशेषान्न खलु समधिकं पक्षधर्मत्वलभ्यं कल्प्योऽन्यस्ते विशेषस्सुकृतविषमिता जीवशक्तिस्तु सिद्धा ॥ २० ॥
कार्यं स्यात् कर्त्रभावेऽप्यवधिभिरितरैः कालवत्स ह्यसिद्धिस्ते ादृष्टप्रयुक्तास्तदपि यतनवत्स्यात्तु यत्नानपेक्षम् । एकत्यागेऽन्यहेतुत्यजनमिति न ध्वंसवत्सावधित्वात् तस्माद्धेतोरभावे न फलमिति गतिस्तद्विशेषे विशेषः ॥ २१ ॥
धर्मो यावत्सपक्षानुगत उपधिरित्यभ्युपेतस्त्वयाऽपि त्यागे तस्यात्र तद्व्छिथिलितनियमाः क्वापि नोपाधयः स्युः । तादृग्धर्मात्यया प्रकरणसमता स्यान्न ातिप्रसङ्गः पक्षादिस्थित्यबाधान्निरुपधिकतया स्यात्परात्मानुमा तु ॥ २२ ॥
सर्वस्यावीतहेतोरपि निरसनं द्रक्ष्यसि स्वप्रसङ्गे श्रुत्याऽत्र व्याप्तिसिद्धावलमनुमितिभिर्निष्फलस्संप्लवोऽपि । तस्मादुल्लोकभूमा स कथमनुमया विश्वकर्ता प्रसिध्ये्छास्त्रानुक्तत्वबाधद्वयपरिहृतये शास्त्रयोनित्वसूत्रम् ॥ २३ ॥
प्राज्ञाधिष्ठानशून्यं न तु परिणमितुं शक्तमव्यक्ततत्त्वं वास्यादौ व्याप्तिसिद्धेरिति यदभिहितं सांख्यसिद्धान्तभङ्गे । सोऽपि प्राज्ञव्युदासेऽप्यनुमितिशरणान् प्रत्युपात्तः प्रसङ्गो नेष्टे तत्सिद्ध्यसिद्ध्योरनुमितिरिति खल्वाशयस्सूत्रकर्तुः ॥ २४ ॥
अस्यैवािन्त्यशक्तेरखिलजनयितुस्स्यादुपादानभावस्सूक्ष्माव्यक्तादिदेहः परिणमति यतोऽनेकधा स्थूलवृत्त्या । निष्कृष्टेऽस्मिन् शरीरिण्य(खि)मलगुणगणालङ्कृतानन्दरूपे संपद्यन्ते समस्तास्समुितगतयो निर्विकारादिवादाः ॥ २५ ॥
कर्तोपादानमेव स्वसुखमुखगुणे स्वप्रयत्नप्रसूते संयोगं स्वस्य मूर्तैस्स्वयमुपजनयन्नीश्वरोऽप्येवमिष्टः । सर्वोपादानभावस्स्वत इह घटते सर्वकर्तर्यमुष्मिन् सर्वश्रुत्यैकरस्यप्रणयिभिरुितं द्वारमत्राभ्युपेतम् ॥ २६ ॥
साविद्यं केऽपि सोपाधिकमथ कतिि्छक्तिभिर्जुष्टमन्ये स्वीकृत्यैकाद्वितीयश्रुतिमपि जगदुस्तद्विशिष्टैक्यनिष्ठाम् । नित्यत्वं विग्रहत्वं प्रकृतिपुरुषयोर्हेतुतां विश्वकर्तुस्तद्वैशिष्ट्यं शास्त्रप्रथितमजहतां कोऽपराधोऽतिरिक्तः ॥ २७ ॥
ब्रह्मोपात्तान् विकारान् कतििदभिदधुश्ेतनाेतनेशान्नैतद्युक्तं यदीशादनधिकमनघं निर्विकारं श्रुतं तत् । भिन्नाया ब्रह्मशक्तेर्विकृतय इति ेद् ब्रह्मजन्यत्वभङ्गो भेदाभेदोपपाद्यं सकलमिति मते सप्तभङ्गी न दूष्या ॥ २८ ॥
विश्वं ित्तद्गुणानुद्भव इह घटते रत्नगन्धादिनीत्या सर्वं ब्रह्मेत्यधीतं त्रिविधमिति तद्दाशताद्यस्य ोक्तम् । तस्मात् सर्वानुवृत्तं सदनवधिदशाित्रमित्यप्ययुक्तं प्रत्यक्षागोरत्वप्रभृतिबहुभिदावादिसर्वोक्तिबाधात् ॥ २९ ॥
अव्यक्तं त्वन्मतेऽपि ह्यनवयवमथाप्येतदंशा विकारास्ते ान्योन्यं विित्राः पुनरपि विलयं तत्र तत्त्वेन यान्ति । इत्थं ब्रह्मापि जीवः परिणमति विहृत्यर्थमित्यप्यसारं स्वानर्थैकप्रवृत्तेः प्रसजति तदा सर्वशास्त्रोपघातः ॥ ३० ॥
ब्रह्मैवोपाधिभिन्नं भजति बहुविधां संसृतिं सोऽप्यनादिस्तस्मान्नात्यन्तभिन्नो जड इति तु मते दुःखमद्वारकं स्यात् । सौभर्यादौ व्यवस्था न कथमुपधिभिः स्वावतारेषु ैषा सर्वज्ञः स्वैक्यवेदी कथमनवधिभिर्जीवदुःखैर्न दुःख्येत् ॥ ३१ ॥
बन्धो ब्रह्मण्यशेषे प्रसजति स यदोपाधिसंयोगमात्रात् सादेश्याेदुपाधौ व्यभिरति भवेद्बन्धमोक्षाव्यवस्था । अ्छेद्ये छेदनादिर्विहत उपधिभिर्न स्वतोंऽशस्तवास्मिन्नोपाधिर्जीवतामप्यनुभवितुमलं ब्रह्मरूपोऽप्यित्त्वात् ॥ ३२ ॥
नापि ब्रह्मण्यविद्यास्थगितनिजतनौ विश्वमेतद्विवृत्तं तस्मिन् सा स्वप्रकाशे कथमिव विलगेत्तत्प्रकाशैकबाध्या । न ह्येतस्मिन्नविद्याविलयकृदधिको वृत्तिवेद्यो विशेषो बाधो वृत्तिस्वरूपाद्यदि भवति तदा ज्ञानबाध्यत्वभङ्गः ॥ ३३ ॥
छन्नत्वे स्वप्रकाशादनधिकवपुषो ब्रह्मणः स्यादभावो भावानां छादनं हि स्फुरणविलयनं तस्य वोत्पत्तिरोधः । मिथ्या दोषाद्भ्रमोक्तौ कथमधिकरणं सत्यमित्येव वा्यं नाधिष्ठानानवस्था भवतु तव यथा नास्त्यविद्याऽनवस्था ॥ ३४ ॥
दोषाभावेऽप्यविद्या स्फुरति यदि ततः किं न विश्वं तथा स्यात् सा ान्यां कल्पितां ेदभिलषति तथा साऽपि ेत्यव्यवस्था । नापेक्षा ेदनादेरकलुषधिषणागोरत्वात् सती स्यात् ब्रह्मैवास्यास्तु दोषो यदि न तु विरमेद्ब्रह्मणो नित्यभावात् ॥ ३५ ॥
ज्ञातेऽज्ञातेऽप्यभावः खलु दुरवगमस्संविदस्ते न (वेद्यं) भावः स्यादज्ञानं यदीहाप्यपरिहृतमिदं तद्विरोधादिसाम्यात् । तुल्यैवाऽऽकारभेदात् परिहृतिरुभयोः कॢप्तिरत्राधिका ते मुग्धोऽस्मीत्यादिसाक्षात्कृतिरपि नियतं तत्प्रतिद्वन्द्विगर्भा ॥ ३६ ॥
स्वाजन्मान्यस्वदेश्यस्वविषयवृतिकृत्स्वव्यपोह्यार्थपूर्वात् ध्वान्तोत्थाद्यप्रभावद्विमतमितिरिहापूर्वनिर्भासनाेत् । अज्ञानाज्ञानभेत्त्री किमियमनुमितिः स्वेष्टभङ्गोऽन्यथा तु व्यर्थाऽसाविन्द्रियादिष्वतिरणमसिद्ध्यादि स्याद्विकल्पे ॥ ३७ ॥
ोक्तं दैवदत्ती मितिरितरमितिन्यायतो हन्त्यनादिं मात्वात्तन्मित्यभावाधिकमिति तदपि स्यादबाधं विपक्षे । नाभावो भावतोऽन्यो पुरुषभिदाऽस्त्वेकजीवत्ववादे दृष्टान्ते ध्वंसकत्वं न विदितमिदं ध्वंसतामात्रसिद्धेः ॥ ३८ ॥
अस्पृष्टावद्यतोक्तेर्न खलु विषयतामभ्युपेयादविद्या न क्षेत्रज्ञोऽपि तापत्रयपरितपनान्नापि तद्ब्रह्म मौग्ध्यात् । मिथ्यात्वाद्दोषभावो न भवति यदि किं तन्निरासप्रयासैरु्छेत्तव्या पुमर्थान्वयत इह परः कोऽभिलप्येत दोषः ॥ ३९ ॥
शुद्धे ब्रह्मण्यविद्या न यदि न घटते तस्य जीवैक्यवादस्तस्मान्निर्दोषतोक्तिर्निरुपधिदशया निर्वहेदित्ययुक्तम् । प्रत्यक्षादिप्रमाणानुगुणबहुविधश्रुत्यबाधेन नेतुं शक्येऽप्यैक्यादिवाक्ये बहुगुणनिधये ब्रह्मणेऽसूयसि त्वम् ॥ ४० ॥
मायाविद्यादिशब्दैः प्रकृतिरभिम(हि)ता ज्ञानकर्मादयो वेत्येतत्तत्तत्प्रदेशे स्कुटविदितमतो न त्वदिष्टाऽस्त्यविद्या । किंाविद्यादिशून्यः पर इति विविधाम्नायकण्ठोक्तमर्थं क्षेप्तुं मायादिशब्दः क्षम इति वदतः स्यादविद्या तवैव ॥ ४१ ॥
निर्दोषश्रुत्यबाधप्रणयिभिरुदितो ब्रह्मजीवानुबन्धी मायाविद्याविभागोऽप्यफल इह परोन्मोहनार्था हि माया । मिथ्यार्थान् दर्शयित्वा विहरणमपि तैस्तादृशं भावयन्ती मायैव स्यादविद्या न कथमितरथा स्यादनु्छेदनीया ॥ ४२ ॥
मिथ्याभूतस्य सत्यं निरुपधि भजते न ह्युपादानभावं तस्योपाधिश् मिथ्यात्मक इति निरधिष्ठानता नास्य युक्ता । तस्मात्सत्यानृते द्वे मिथुनमिति न सद्विश्वसत्ता ह्यबाध्या सद्विद्यायां कार्यं ननु कथमसतस्सद्भवेदित्युपात्तम् ॥ ४३ ॥
कार्याणां यत्सरूपं किमपि गुणमयं कारणं कापिलोक्तं तत्क्षिप्तं माक्षिकादेः क्रिमिमुखजनिना सूत्रकारैर्द्वितीये । तस्मान्मिथ्यात्मकस्य स्वयमनुपधिकं सत्यमेवास्तु सूतिः सत्योपादानवादे जगदपि न मृषा स्यादितीष्टं त्विदं नः ॥ ४४ ॥
दृश्यत्वाद्विश्वमिथ्यावसि विहतयोऽसिद्धयश्ात्र बह्व्यः पशदेस्सिद्ध्यसिद्ध्योर्न हि गतिरितरा नापि वादाङ्गमीदृक् । मर्यादां लोकसिद्धां विजहत इह ते नापरा सा प्रसिद्ध्येन्निर्मर्यादोक्तिमात्राज्जगदपलपतः किं न सत्यं ततस्तत् ॥ ४५ ॥
साध्ये सत्येतरत्वे कथित इह भवेत् स्वस्य हि स्वान्यभावो नान्यत्सत्यं तु दृष्टं तदवधिकभिदासाधने ेष्टसिद्धिः । सत्यत्वं ेन्निषेध्यं प्रसजति दहनेऽप्युष्णताया निषेधस्साध्यं त्वक्षाद्यबाध्यं यदि किमपि परं तेन न व्याप्तिसिद्धिः ॥ ४६ ॥
स्वात्यन्ताभावदेशे विदितमिति यदि स्थाप्यमिष्टं क्वित्तत्तत्रैवेति त्वशक्यं क्विदपि न तथा ह्यस्ति सिद्धान्तसिद्धिः । बाधश्ास्मिन्नुपाधिस्समधिगतदशादेशकालाद्युपाधौ नासौ साध्योऽत्र मानं निखिलमपि यतस्तद्विधानैकतानम् ॥ ४७ ॥
तु्छत्वं ते न हीष्टं सदसदितरता व्याहतत्वादिदुःस्थाऽसिद्धा ासौ परेषां भवदनभिमतोऽनात्मना वेद्यतादिः । विश्वं हीदं मृषा नस्तदितरवपुषा त्वन्मतारोपितैश् स्यादेवं दूरतस्ते ध्रुवमपसरतोऽप्युक्तदोषानुषङ्गः ॥ ४८ ॥
साध्यं मिथ्या न वा ते द्वितयमनुितं निष्फलत्वादिदोषादाद्यं हीष्टं ममापि प्रसजति भवतस्सत्यभेदः परस्मिन् । पक्षीकारेऽस्य बाधादिकमतिरणं तद्बहिष्कारपक्षे तेद् ब्रह्मस्वरूपं भुवनमभिहितं हन्त सब्रह्मकं स्यात् ॥ ४९ ॥
इष्टं ब्रह्मापि दृश्यं तव कथयतस्तस्य जिज्ञास्यतादीन् मिथ्या ेद् दृश्यताऽस्मिन्ननुविमतिपदेऽप्येवमेषा त्वयेष्टा । लिङ्गं जाड्यादिकं ेत्तदपि मम मते ह्यंशतः स्यादसिद्धं मिथ्यालिङ्गैश् सिध्येत् किमपि यदि भवेद्बाष्पधूमोऽग्निलिङ्गम् ॥ ५० ॥
व्यावृत्तं शुक्तिरूप्यं विदितमिह मृषा विश्वमेवं न किं स्यात् मैवं हेतोरयुक्तेः स खलु भिदुरता बाध्यता नाशिता वा । आद्येऽनैकान्त्यमन्त्ये स्वसमयविहतिर्मध्यमे स्यादसिद्धिर्धीवि्छेदादिकल्पान्तरमपि कथितैश्ूर्णितं दोषबृन्दैः ॥ ५१ ॥
यत्स्यात्तत्सर्वदा स्याद्यदपि न भवेत्त न स्यात् कदाऽपि क्वापि व्योमारविन्दादिवदिति यदि न व्याहतेस्साध्यहेत्वोः । मध्ये सत्त्वं गृहीत्वा खलु तदुभयतोऽसत्त्वलिङ्गं गृहीतं सामग्र्या ावधी द्वौ स्फुटतरविदितौ साऽपि तत्तत्प्रवाहात् ॥ ५२ ॥
आम्नायस्यापि शक्तिर्न खलु गमयितुं स्वोपजीव्यप्रतीपं यूपादित्यैक्यवाक्यप्रभृतिरितरथा नोपारं भजेत । अक्षाम्नायः स्वपूर्वापरविहतिभयान्नेति नेत्यादिवाक्यं वैलक्षण्यादिमात्रं प्रथयति भुवनाद्ब्रह्मणो विश्वमूर्तेः ॥ ५३ ॥
प्रत्यक्षेणैव पुंसां भवति दृढतरो देह एवाऽऽत्ममोहो ज्वालैक्यप्रत्यभिज्ञाद्युभयमपि तद्बाध्यते ह्यागमाद्यैः । तस्मादक्षादिसिद्धं श्रुतिभिरपि जगद्बाध्यतामित्ययुक्तं सन्देहार्हेषु शक्तं यदिह न खलु तद्दोषदूरेष्वपि स्यात् ॥ ५४ ॥
प्रत्यक्षं दोषमूलं श्रुतिरिह न तथा पौरुषेयत्वहानेस्तस्मात्सा बाधिकाऽस्येत्यसदखिलधियामन्ततो दोषसाम्यात् । शास्त्रस्यापि ह्यविद्याप्रभृतिभिरुदयस्संमतस्त्वन्मतस्थैस्तस्यानाविद्यभावे न हि निखिलभिदापह्नवश्शक्यशङ्कः ॥ ५५ ॥
दोषोत्थत्वाविशेषे न हि भवति परं पूर्वबाधप्रगल्भं दोषज्ञानं तु माभूदविदुषि पुरुषे वस्तुतस्त्वन्यथा तत् । निर्दोषत्वाभिमन्तृस्वसमयिमतिभिः किं न मिथ्याकृतान्ताः प्रा(बल्यं)गल्भ्यं ेन्निषेधः पर इति मुखरं तुर्यबौद्धस्य तूर्यम् ॥ ५६ ॥
निर्दोषं य शास्त्रं तदपि बहुविधं बोधयत्येव भेदं वाक्ये तत्त्वोपदेशप्रकरणपठिते नान्यपर्यं प्रतीमः । नात्राप्छेदनीतिर्नियतिमति सदोपक्रमन्यायसिद्धेः स्वप्रख्याप्यापलापे श्रुतिरपि वृषलोद्वाहमन्त्रायते वः ॥ ५७ ॥
भेदः प्रत्यक्षसिद्धो न निगमविषयः स्यादिति त्वर्भकोक्तिः प्रख्यातादन्यमेनं प्रथयति यदसौ त्वन्मताद्वैतवन्नः । सन्मात्रग्राहि ाक्षं नियमयसि ततो ब्रह्म दृश्यं मृषा स्यात् किं ते श्रुत्या तदानीं फलमपि लभतां क्वापशूद्राधिकारः ॥ ५८ ॥
वेदा बुद्धागमाश् स्वयमपि हि मृषा मानता ैवमेषां बोद्धा बुद्धिः फलं स्थिरतदितरताद्यन्तरालं बुद्धेः । आतस्त्रैविद्यडिम्भान् ग्रसितुमुपनिषद्वारवाणोपगूढैः प्रायः प्र्छादिता स्वा पटुभिरसुरता पौण्ड्रकाद्वैतनिष्ठैः ॥ ५९ ॥
त्वन्निष्ठासिद्ध्यसिद्ध्योः परमतनियतिस्सिद्धिमेवाधिरूढा वेदस्यामानतायां त्वदभिमतहतिर्मानतायां तद्वत् । साध्याऽसाध्याऽपि मुक्तिस्त्वदुपगमहता तत्समं ान्यदित्थं रक्षोभ्यः प्रेषितोऽयं रघुपतिविशिखो राहुमीमांसकेभ्यः ॥ ६० ॥
शुद्धस्याशुद्धसृष्टिक्रम इति कथितश्शुद्धसत्त्वे तु तत्त्वे स्थानं नित्यं श्रुतं तत्स्मृतमपि कलया तत्र देहाद्यवस्थाः । सृष्टेः प्रागेकमेवेत्यपि निगमवस्स्रक्ष्यमाणव्यपेक्षं नो ेत्स्वाभीष्टमायोपधिमुखविलये स्वस्ति विश्वप्रसूत्यै ॥ ६१ ॥
ज्ञानत्वं ेद्रहस्यागमविदितमिति स्वीकृतं नित्यभूतेः षाड्गुण्यात्मत्वमेवं प्रसजति सह तत्पाठतोऽतो जडा सा । तत्संबन्धात् कुतश्ित्तदुपरणमित्याहुरेके परे तु ज्ञानत्वाजाड्यकष्ठोक्त्यनुगुणमवदन्मुख्यतामात्मनीव ॥ ६२ ॥
निस्संकोा समस्तं ुलकयति मतिर्नित्यमुक्तेश्वराणां बद्धानां नित्यभूतिर्न विलसति ततः कस्य सा स्वप्रकाशा । मैवं नित्येश्वरादेस्सति मतिविभवे साऽस्तु तेनानपेक्षा वेद्यानुद्भासकाले मतिरिव न तु सा बन्धकाले विभाति ॥ ६३ ॥
तत्त्वान्यप्राकृतानि त्रिगुण इव परीणामतश्ेद्भवेयुः स्थानादि स्यादनित्यं न यदि न घटते भूततादीति ेन्न । अत्रत्यक्ष्मादितत्त्वक्रमनियतगुणप्रक्रियाद्यैकरूप्यान्नित्येऽपि स्यान्निमित्तानुगतिनियमितस्तत्तदाख्याविशेषः ॥ ६४ ॥
निर्दिष्टं पौष्करादौ स्वयमखिलकृता स्वं वपुर्नित्यसिद्धं नित्याऽलिङ्गेति ैकायननिगमविदो वाक्यभाष्यादि ैवम् । नित्यत्वं वासुदेवाह्वयवपुषि जगौ मोक्षधर्मे मुनीन्द्रो नित्ये्छातस्तथा तत्तदिह विहतिमान् सांशजन्मादितर्कः ॥ ६५ ॥
अस्त्रैर्वा भूषणैर्वा किमिह भगवतोऽवाप्तकामस्य तस्माद्देवो देहेऽपि वीतावरण इति जगुः केऽपि जैनोपजप्ताः । किं वा देहेन विश्वात्मन इति वदतां किं प्रतिब्रूयुरेते तेत्तस्याश्रितार्थं तदधिकरणकं सर्वमप्येवमस्तु ॥ ६६ ॥
रूपस्थानायुधाख्याजनिलयविधृतिव्यापृती्छागुणादेर्विश्वाधारे निषेधो विधिरपि विषयद्वैतशाम्यद्विरोधौ । इत्थंभूते निषेधः क्विदपि न विधिं बाधते सावकाशः कल्याणैरस्य योगस्तदितरविरहोऽप्येकवाक्यश्रुतौ ॥ ६७ ॥
देहादिर्देवतानां हविरनुभवनं सन्निधेर्योगपद्यं प्रीतिर्दानं फलस्याप्यसदिति कथयन्त्यर्धलोकायतस्थाः । तत्राध्यक्षादिदूरस्वमहिमसदृशाशेषवैशिष्ट्यमासां तत्तद्विध्यर्थवादप्रभृतिभिरविदुस्तत्परैरेव शिष्टाः ॥ ६८ ॥
साधुत्राणादिहेतोस्तदुितसमये विग्रहांशैः स्वकीयैः स्वे्छातस्सत्यरूपो विभुरवतरति स्वान् गुणौघाननुज्झन् । व्यूहे संकर्षणादौ गुणनियतिरभिव्यक्तिवैषम्यमात्राद्वृद्धिह्रासाद्यभावात् स हि भवति सदा पूर्णषाड्गुण्यशाली ॥ ६९ ॥
शास्त्रादीनां प्रवृत्तिः प्रतितनु नियता स्याद्धि संकर्षणादौ जीवादौ या विभज्याभिमतिरिह लयोत्पत्तिरक्षाविधिश् । तत्तद्विद्याविशेषप्रतिनियतगुणन्यायतस्तौ तु नेयौ सर्वस्यैकोऽभिमन्ता स हि सकलजगद्व्यापृतिष्वेककर्ता ॥ ७० ॥
त्रिव्यूहः क्वापि देवः क्विदपि हि तुर्व्यूह उक्तस्तदेवं व्याघातेऽन्योन्यबाधादुभयमिदमसत्कल्पनामात्रमस्तु । तत्राद्ये व्यूहभेदे त्रियुगगुणतया िन्तनीये परस्माद्युक्ता भेदाविवक्षा तदनुपगमने तत्त्वसंख्यादिबाधः ॥ ७१ ॥
मूर्तीनां मूलमूलिप्रभृतिषु बहुधा वैपरीत्यप्रतीतेर्वर्णादौ बीजतादिव्यवहृतिवदियं वर्णना भावनार्था । मैवं कालादिभेदात् प्रशमितविहतौ कल्पितत्वं न कल्प्यं नो ेद् ब्रह्माद्युदन्तेष्वपि विषमकथाभेदवैयाकुली स्यात् ॥ ७२ ॥
ईशस्य व्यष्टिभेदानभिदधति मनोवाङ्मयादीन् यदन्ये तत्र त्रेधा यदीष्टा विकृतिरविषया निर्विकारागमाः स्युः । नित्यत्रित्वे तु नैकेश्वरनियमगतिर्भ्रान्तिसिद्धे विभागे मायादायादपक्षः श्रुतिरपि नियतैरस्त्वधिष्ठानभेदैः ॥ ७३ ॥
युक्तिः प्रश्नोत्तरादेर्न हि पुरुषभिदां बुद्धिभेदं मुक्त्वा तस्माद्व्यूहादिभेदे कतिन पुरुषाः स्युः परेणानुबद्धाः । तन्न स्व्छन्दलीलः स्वयमभिनयति स्वान्यतां सर्ववेदी तद्व्छिष्यादिवृत्तिप्रसृतिमिह सतां शिक्षयन् सानुकम्पः ॥ ७४ ॥
विश्वान्तर्वर्तिबालोदरगतमखिलं कस्य विश्वासभूमिस्तस्मादौपेन्द्रमीदृग् भवतु रसवशादिन्द्रजालं प्रवृत्तम् । मा भूदाश्र्यशक्तेरवितथमिदमित्येव सर्वाप्तसिद्धेर्व्याघातस्योपशान्तिस्तदनुगुणदशाभेदयोगादिभिः स्यात् ॥ ७५ ॥
यद्भावित्वेन बुद्धं भवति तदथ ातीतरूपं तदस्मिन्नुल्लेखो भिद्यते ेदकरणजमतेरैकरूप्यं प्रकुप्येत् । प्राीनोल्लेख एव स्थितवति तु गते भाविबुद्धिर्भ्रमः स्यात् मैवं पूर्वापरादिक्रमनियतसदोल्लेखसत्यत्वसिद्धेः ॥ ७६ ॥
नीलं किंित्तदानीमरुणमिति न खल्विन्द्रजालादृतेऽद्धा नो ेदेवं विरोधः क्विदपि न भवेत् कश् जैनेऽपराधः । तस्मादीशो विरुद्धद्वितयमघटयन् सर्वशक्तिः कथं स्यान्मैवं व्याघातशून्येष्वनितरसुशकेष्वस्य तादृक्त्वसिद्धेः ॥ ७७ ॥
संगृह्य ज्ञानशक्ती कतिन निखिलस्रष्टुरि्छां तु नै्छन् तस्यां द्वेषः क एषामनुमितिशरणानीकनासीरभाजाम् । श्रुत्या तद्वोधयत्नावभिदधति यदि क्षम्यतामेवमि्छा निर्वाह्यं त्वाप्तकामप्रभृतिवनमप्यान्यपर्योपरुद्धम् ॥ ७८ ॥
स्वीकृत्येशानतत्त्वं कतिन जहतस्तत्प्रसादादिसाध्यं गङ्गाम्भःपञ्गव्यप्रभृतिवदवदन् पावनत्वादि तस्य । त्छ्रुत्यादिप्रतीपं यदपि फलदं दर्शितं निष्प्रसादं तैतस्य प्रसादादिति हि निजगदुर्धर्ममर्मज्ञित्ताः ॥ ७९ ॥
त्रय्यन्तोदन्तिन्तासहरणसहैरेभिरस्मिन् परस्मिन् भक्तिश्रद्धास्तिकत्वप्रभृतिगुणसिरावेधिभिस्तर्कशस्त्रैः । स्वार्थत्वस्वाश्रयत्वस्ववशयतनताद्यूहवर्गोपसर्गश्छिद्येता्छेद्यपूर्वोत्तरसरयुगलस्यूततत्त्वस्थितीनाम् ॥ ८० ॥

॥ इति तत्त्वमुक्ताकलापे नायकसरः तृतीयः ॥ ३ ॥

error: Content is protected !!