[highlight_content]

तत्त्वमुक्ताकलापः सर्वार्थसिद्धिसमेतः -नायकसरः

नायकसरः तृतीयः

व्याप्त्याद्यव्याकुलाभिः श्रुतिभिरधिगतो विश्वनेता स विश्वं

क्रीडाकारुण्यतन्त्रः सृजति समतया जीवकर्मानुरूपम् ।

रोषोऽपि प्रीतये स्यात्सुनिरसविषयस्तस्य निस्सीमशक्तेः

स्वेच्छा[यां]तस्सर्वसिद्धिं वदति भगवतोऽवाप्तकामत्ववादः ॥ १ ॥

तदेवं प्रत्यगर्थद्वये प्रथमोद्दिष्टो जीवश्चिन्तितः । अथेश्वरश्चिन्त्यते । तत्र तावत्प्रमाणविशेषात् सिद्धिं प्रस्तौति – व्याप्त्याद्यव्याकुलाभिरिति ॥ धर्मप्रवृत्तियुक्तसर्वदेशकालव्यापितयाऽन्यथाकरणशङ्कानर्हाभिरित्यर्थः । यद्वा अनुमान- वद्व्याप्तिपक्षधर्मतानिरूपणजनितव्यभिचारसंभवादिरहिताभिरिति । श्रुतिभिरिति भ्रमादिमूलत्वासंभवख्यापनम् । शब्दानां सिद्धे व्युत्पत्तिस्तत्र तात्पर्यं च साधयिष्यते । विश्वनेता – विश्वेषां यथेष्टं विनियोक्ता । स कथं श्रुतिभिरधिगतः, कारणवाक्येषु सदादिशब्दैः ‘तद्धेदं तर्ह्यव्याकृतमासीदित्यादिप्रदर्शितस्याव्यक्तापरपर्यायस्य प्रधानस्याभिधानादि’ति चेत्, तन्न; अव्यक्तस्य ‘तदैक्षत’, ‘सोऽकामयत’ इत्याद्युक्तस्वसङ्कल्पपूर्वकसृष्ट्याद्यसंभवात् । न खल्वीक्षणादिशब्दो भाक्तः; मुख्ये बाधकाभाव साधकभूयस्त्वस्य च शारीरके स्थापितत्वात् । ‘सदेव सोम्येदमग्र आसीदि’त्याद्यचेतनसामानाधिकरण्यात् कारणमचेतनमिति चेन्न; सामानाधिकरण्यस्य स्थूलसूक्ष्मचिदचिद्वस्तुविशिष्टविवक्षयाऽप्युपपत्तेः । सर्वं च जगत् कर्तुश्शरीरतयाऽऽम्नातम्; ‘अस्मान्मायी सृजेत विश्वमेतदि’ति । ईदृशी च सृष्टिः ‘सोऽभिध्याय शरीरात्स्वादित्युपबृंहिता । अधीयते चाथर्वणिकाः ‘विकारजननीमज्ञामष्टरूपामजां ध्रुवाम् । ध्यायतेऽध्यासिता तेन तन्यते प्रेर्यते पुनः ॥ सूयते पुरुषार्थं च तेनैवाधिष्ठिता जगत् । गौरनाद्यन्तवती सा जनित्री भूतभावनी ॥ इति । अगीयत चैतत् – ‘मयाऽध्यक्षेण प्रकृतिस्सूयते सचराचरम्’ इति । अतस्साक्षात् संकल्पाश्रयत्वम्, व्यवधानेन तु विकाराश्रयत्वमिति सर्वाविरोधः । ननु सद्विद्यायां मृत्पिण्डलोहमणिनखनिकृन्तनदृष्टान्तैः ‘यथा पृथिव्यामोषधयस्संभवन्तीत्याथर्वणिकवाक्याच्चाचेतनमात्रोपादानत्वं जगतः प्रतीयत’ इति चेन्न; मृत्पिण्डादिनिदर्शनानामेकविज्ञानेन सर्वविज्ञानस्यासंभवचोद्यपरिहारपरत्वात्, ‘यथा पृथिव्यामिति वाक्यस्य त्वेकस्माद्विचित्रानन्तोत्पत्तिसंभवार्थत्वात् । न तु चेतननैरपेक्ष्यमेतैस्सूच्यम्; अन्यथा ‘यथा सतः पुरुषात्केशलोमानीति चेतनसन्निधिसापेक्षोत्पत्तिनिदर्शनायोगात् । अस्तु तर्हि तद्वदयस्कान्तादिनयेन निर्व्यापारपुरुषसन्निधानात् प्रकृतेः प्रवृत्तिः, सर्वस्य च कार्यजातस्य जीवकर्महेतुकत्वात्, अपहतपाप्मात्वसर्वज्ञत्वादीनां च तस्मिन्नवस्थाभेदेनोपपत्तेरिति; तन्न । ‘यथोर्णनाभिस्सृजते गृह्णते चेति प्रथमोक्तदृष्टान्तवैघट्यात् । ‘प्रकृतिं पुरुषं चैव प्रविश्यात्मेच्छया हरिः । क्षोभयामास संप्राप्ते सर्गकाले व्ययाव्ययौ ॥’ इति पुरुषस्यापि पराधिष्ठानेन जगत्सृष्ट्युपयोगोक्तेः । न च जीवस्य संवर्तसमयसंहृतकरणकलेबरस्य मुख्येक्षणादिसंभवः । मुक्तस्तर्हि प्रकृतिपुरुषयोरधिष्ठाता स्यात्; तस्य सत्यसंकल्पस्य स्वेच्छा पितृलोकादिविचित्रकार्यस्रष्टृत्वाम्नानान्मुख्येक्षणसिद्धेः । जीवान्यत्ववादाश्च वद्धान्यत्वविषयाः स्युः । ‘ममैवांशो जीवलोके जीवभूतस्सनातन’ इति जीवत्वस्यावस्थारूपत्वोक्तेः; मुक्तस्यैव हिरण्यगर्भादिदेहाधिष्ठानेन सृष्टिस्थित्यादिहेतुत्वमिति सर्वपुराणादिसामरस्यमिति; तदपि मन्दम् । एकस्यैवानाद्यन्तस्य सर्वमुक्तोपसृप्यत्वश्रवणात्, ‘मम साधर्म्यमागताः’, ‘स्वातन्त्र्यमतुलं प्राप्य तेनैव सह मोदत इत्याद्युपबृंहणविरोधाच्च । ‘सायुज्यं प्रतिपन्ना ये तीव्रभक्तास्तपस्विनः । किङ्करा मम ते नित्यं भवति निरुपद्रवाः ॥’ इति च भगवदुक्तिः । मोक्षधर्मे, च ‘अनेन साम्यं यास्यामीति मुमुक्षोरभिसन्धिवचनम् । प्रपञ्चितं चैतत् – ‘परेण पर[धर्मी च]धर्मेण भवत्येष समेत्य वै’ इत्यादिभिः एकस्य च सर्वप्रशासितृत्वं निस्सीमत्वं च श्रुतिस्मृतिशतसिद्धम् । अपि च मुक्तास्सर्वे किं संभूय जगत् सृजन्ति उत प्रतिनियतकार्याः? नाद्यः; ‘स यदि पितृलोककाम’ इत्यादिभिरव्यवस्थितेच्छादृष्टेः, सर्वेषामेकरूपेच्छाकॢप्तौ गौरवात्, तथा चाश्रवणात् । न द्वितीयः, ‘इदं सर्वमसृजत’ इत्यादिभिरेकस्य सर्वकर्तृत्वोक्तेः । समुदायैकत्वविवक्षा तु क्लिष्टा निर्मूला च; श्रुत्या कॢप्त्या वा तदयोगात् । अतः ‘पतिं विश्वस्यात्मेश्वरम्’ इति श्रुत एक एव सर्वकर्तेश्वरः ॥ श्लो. प्रयोजनादिविरहान्न कर्तेश इति ब्रुवन् । तस्य सिद्धावसिद्धौ च व्याघातादिपराहतः ॥

मा भूदनुमानम्, प्रसङ्गस्तु स्यादिति चेन्न; प्रयोजनशून्यत्वे कर्तृत्वं न स्यात् । अस्ति च कर्तृत्वम्; अतः प्रयोजनवानिति विपर्ययविश्रमात् । तथा सति नेश्वरस्य बाधः प्रयोजनसाधकानुग्रहार्थत्वत् । अथ प्रयोजनवत्त्वे कर्मवश्यत्वप्रसक्तिः; तदभावात् प्रयोजनशून्य इति । एवमपि प्रयोजनशून्यविश्वकर्तृत्ववादिनामिष्टप्रसङ्गः । ‘प्रयोजनमनुद्दिश्य न मन्दोऽपि प्रवर्तत इति चेत्, तर्हि प्रवृत्तिदर्शनात् प्रयोजनं किञ्चिदङ्गीकुरुष्व । स्वार्थं परार्थं वा प्रवर्तते इत्यत्रोभयार्थमित्याह – स इति । विषमसृष्ट्या साम्यं दुःखसृष्ट्या कारुण्यं च भज्येतेत्यत्राह – समतयेति । साम्यकारुण्यवत् यथाकर्म फलदायित्वमपि श्रुतिबलादङ्गीकार्यम् । अतस्तदविरोधेन गुणान्तरं व्यवस्थाप्यमिति भावः । दुःखनिवर्तनांशे कारुण्यसिद्धिः । ननु स्वसृष्टदुःखनिवर्तनेन कारुण्यलाभाद्वरं दुःखानुत्पादनमेव । अतस्सुखैकतानं जनयेज्जगत् करुणया सृजन्निति चेत्; किमयमीश्वरं प्रत्युपदेशः? अन्यान् प्रति वा? नाद्यः, तस्य परोपदेशाधीनप्रवृत्तित्वाभावात् । न द्वितीयः, तत्तत्प्रमाणसिद्धवस्तुस्वभावानामपर्यनुयोज्यत्वात् । स्मर्यते च -‘शक्तयस्सर्वभावानामचिन्त्यज्ञानगोचराः । यतोऽतो ब्रह्मणस्तास्तु सर्गाद्या भावशक्तयः ॥ भवन्ति तपतां श्रेष्ठ पावकस्य यथोष्णता ॥ इति ॥ ननु दयावैकल्यपरिहारायानुग्रहांश एव भगवतः कर्तृत्वमङ्गीक्रियताम्; स्यादेतत्, एवं यदि वयमेव स्वेच्छया वस्तु व्यवस्थापयामः, किंतु प्रमाणदृष्ट्यैव । अतो निग्रहांशेऽपि निरङ्कुशं कर्तृत्वम् । अथ स्यात् – क्रोधो हि निग्रहहेतुः; स च स्वाश्रयदुःखाविनाभूतः, ‘अरोषणो ह्यसौ देव’ इति प्रसिद्धस्य च कथं क्रोध इति चेन्न; ‘एतौ द्वौ विबुधश्रेष्ठावि’त्यादिषु कण्ठोक्तेः । भाक्तोऽयं क्रोधशब्द इति चेत्तन्न; प्रसादशब्दस्यापि तथात्वप्रसङ्गात् । अस्त्वेवमिति चेन्न; भिक्षुपादप्रसारणन्यायेन निरीश्वरवादावतारात् । अतः क्रोधावश्यंभावादीश्वरस्यापि दुःखावश्यंभाव इत्यत्राह – रोषोऽपीति । क्रोधरोषादिशब्दार्थो हि परपीडेच्छामात्रम् । स तावन्न स्वरूपतो दुःखम्; दुःखहेतुत्वमप्यस्याशक्यविषये, तथा दृष्टेः । स्मर्यते हि ‘द्वाविमौ कण्टकौ तीक्ष्णौ शरोरपरिशोषणौ । यश्चाधनः कामयते यश्च कुप्यत्यनीश्वरः ॥’ इति । न सर्वशक्तेरीश्वरस्य चिकीर्षितमशक्यं किञ्चिदस्ति । अतोऽस्य न दुःखाय क्रोधः, प्रत्युत निग्रहविहारेण प्रीतये स्यादिति । ननु इह विहारः क्रीडा; सा चारतिपरिहारार्था लोके प्रसिद्धा । जगतः स्रष्टारमधिकृत्य ‘स एकाकी न रमेतेति श्रूयते’ । अतः क्रीडायोगादरतियोगः, तदभावाद्वा तदभावः स्यात् । मैवम्; क्रीडा हि प्रीतिविशेषप्रभवः स्वयंप्रियो व्यापारः, अन्यथा तल्लक्षणमव्यापकं स्यात्; अतो नारतिप्रसङ्गः । अरतिश्रुतिश्च तदानीमेकाकित्वमनिष्टम्, अतो ब्रह्मादिसृष्टावुदयुङ्क्तेत्यभिसन्धत्ते, न पुरुषान्तरवदप्रवृत्तिजन्यदुःखभयात् प्रावर्ततेति; अशास्त्रवश्यस्य दुःखानर्हत्वात् । तथाऽपि ‘क्रीडार्थं सृजतो विश्वे विहन्येत कृतार्थते’त्यत्राह – स्वेच्छायामिति । अवाप्तसमस्तकामवादो हि न काम्यनिवृत्तिपरः, अवाचस्त्वात्, सत्यकामत्वश्रुतिविरोधाच्च । नापि कामनानिषेधार्थः; ‘सोऽकामयत’, ‘सत्यसंकल्प’ इत्यादिबाधात् । अतो यथाकामं सर्वसिद्धिमभिसन्धत्ते इति ॥ सहकारिभिरारम्भे न स्वातन्त्र्यं विहन्यते । तत्सद्भावप्रवृत्त्योश्च स्वाधीनत्वव्यवस्थितेः ॥ कारकान्तरवैधुर्ये किमपेक्ष्य स्वतन्त्रता । शरीरमप्यधिष्ठेयं सहकार्येव कुर्वतः ॥ निरपेक्षस्वतन्त्रस्य सहकारिमस्सदा । अप्रवृत्तिः प्रवृत्तिर्वा नित्यं स्यादिति चेन्न तत् ॥ तत्तदिच्छाविशेषेण तत्क्रमस्योपपत्तितः । इच्छासन्तत्यनादित्वान्न च मूलक्षयः क्वचित् ॥ गुणेतरविपर्यासमन्योन्यसहकारिताम् । विवक्षातः क्वचित् प्राहुः निस्समत्वान्निमित्तताम् ॥ प्राप्यः परमभोग्यत्वान्निषेव्यः स्वामिभावतः । शक्तिकारुण्यभूम्ना च शरण्यस्सीदतां प्रभुः ॥ बहिरन्तश्च तद्व्याप्तिस्तत्र यत्रोभयं भवेत् । विभोरणोश्च न बहिर्नान्तस्तस्मान्न सा तयोः ॥ विभोर्नच्छिद्रमणुना नाणूनां विभुना च तत् । यथाप्रमाणं संबन्धमात्रमेव तयोर्भवेत् ॥ आकाशव्यतिभेदादेरसंभाव्यस्य चोदना । आकाशादिकमिच्छद्भिरनिच्छद्भिश्च दुर्वचा ॥ न विभज्येत गच्छद्भिर्न विहन्ति गतिं च यत् । अस्पर्शत्वात्तथाभूतं विभु वाऽविभु वाऽस्ति नः ॥ विभ्वणुप्रतिषेधेन मध्यमं च निषेधता । सर्वासत्त्वं च दुस्साधं सदसत्त्वविकल्पतः ॥ समस्तमूर्तसंयोगस्संभवेद्यस्य तद्विभु । तत्संभवोज्झितं द्रव्यं महत्त्वाणुत्वचित्रितम् ॥ ‘अणोरणीयान्महतो महीयान्’ इत्यनुश्रवः । विश्वव्यापित्वतात्पर्यान्न मिथो बाधमृच्छति ॥ यदल्पपरिमाणेन पृथुनां ग्रसनं श्रुतम्, । अचिन्त्यमिदमित्येके चिन्तनश्रमभीरवः ॥ १ ॥ इत्यागमिकेश्वरसिद्धिः ।

3.147     अप्रत्यक्षः परात्मा तदिह न घटते धातुरध्यक्षबाधो

योग्यादृष्टेरभावान्न खलु न भवता स्वीकृतः स्वेतरात्मा ।

तस्मिन्देहानपेक्षे श्रुतिभिर[धिगते]वसिते देहबाधान्न बाधो

वेदेभ्यो नानुमानं न च पुरुषवचस्तिष्ठते बद्धवैरम् ॥ २ ॥

यद्यङ्कुराद्युत्पत्तौ कश्चित् कर्ता, स कथं न दृश्येत? अतो यूपादित्यैक्यमिव प्रत्यक्षबाधितं न श्रुतिः प्रतिपादयतीत्यत्राह – अप्रत्यक्ष इति ॥ सर्वेषां स्वव्यतिरिक्तस्यात्मनः प्रत्यक्षत्वासिद्धेः; ईश्वरेऽपि योग्यानुपलब्ध्यभावान्नात्र प्रत्यक्षबाध इत्यर्थः । इह -दूर्वादिकार्योत्पत्तौ । कर्तुरदृष्टस्य कथं सिद्धिरिति चार्वाकचोद्यं वारयति – न खल्विति । अयं भावः – न तावदर्धलोकायतिकैरद्वैतिभिरिवात्मभेदोऽनङ्गीकृतः । भिन्नाश्चात्मानः परस्परमप्रत्यक्षाः । एवमीश्वरोऽपि स्वप्रत्यक्षोऽन्याप्रत्यक्षतया निषेद्धुं न शक्य इति । अनुमानादात्मान्तरस्वीकार इति चेत्, आगमादीश्वरोऽपि स्वीकर्तव्यः; प्रमाणत्वेन श्रद्धेयत्वाविशेषात्, परोक्षत्वेन न्यक्कारस्यानुमानेऽपि प्रसङ्गात् । लोकायतिकानां तु यद्यपि भूतपरिणतिरूपः परात्माऽपि प्रत्यक्षः, तथाऽपि चैतन्यविशिष्टो न प्रत्यक्षेण गृह्यते; यद्यन्यतस्तु कुतश्चित् तद्विशिष्टतया गृहीतः, एवमीश्वरोऽपि किं न गृह्येत? बाधानर्हत्वात्; शरीरतया परात्मग्रहणमिति चेत्, आत्मनः शरीरत्वे सिद्धे हि तथा ग्रहणम्, तदन्यत्वसिद्धौ तु परशरीरेऽपि तथैव स्यादिति । अस्तु तर्हि व्यापकानुपलब्ध्या बाधः, कर्तुर्हि शरीरं व्यापकम्; न चाङ्कुराद्युत्पत्तौ शरीरं दृश्यते, अतीन्द्रियं तत्र शरीरमस्त्विति चेन्न; अङ्कुराद्युत्पादकतया तादृशशरीरानभ्युपगमात् । तदभ्युपगमेऽपि करणकलेबरसापेक्षस्य कर्तुः कथमीश्वरत्वम्? तत्राह – तस्मिन्निति । देहानपेक्ष इत्युपलक्षणम् । श्रूयते हि – पश्यत्यचक्षुस्स शृणोत्यकर्णः अपाणिपादो जवनो ग्रहीतेति । यदि सर्वशरीरत्वस्य श्रुतिस्मृतिसिद्धत्वात् सर्वेषु कर्येषु शरीरसापेक्षत्वमिति, तथा सति न व्यापकानुपलब्ध्या बाधः । सर्वकार्यानुगुणतत्तद्द्रव्यशरीरकतया शास्त्रैरुपलब्धेः । अथ विगीतमकर्तृकं कर्मवश्याजन्यत्वादित्याद्यनुमानैरीश्वरस्य बाध इत्युच्येत । तत्राह – वेदेभ्य इति । अयं भावः – आप्तशास्त्रस्यानुमानैर्विरोधे शस्त्रेणैव तेषां बाधोपपत्तिः; अन्यथा स्वर्गनरकादीनमतीन्द्रयाणां कृतश्चिदनुमानाद् बाधप्रसङ्गात् । शक्यं हि विगीतं न दुःखासंभिन्नसुखसाधनम्; साधनत्वात् किल्बिषवदिति । एवमन्यत्राप्यूह्यम् । किं चात्र नैयायिकादिसंमतैरीश्वरानुमानैर्बाधः प्रतिरोधो वा दुर्वारः; विपक्षे बाधकसदसद्भावौ समचर्चौ । अस्तु तर्ह्यादिविदुषस्सिद्धस्य कपिलस्यागमेन ब्रह्मकारणवादभङ्ग इत्यत्राह – न चेति । नित्यनिर्दोषश्रुतिविरोधे हि स्मृतेरेव बाध्यत्वं विरोधाधिकरणसिद्धम् । अन्यथा बौद्धाद्यागमैरपि किं न कृत्स्नवेदबाधः? तेषां भ्रमादिमूलत्वसंभावनयेति चेत्; सममेतत् । सर्वज्ञस्सांख्याचार्यः परमाप्त इति चेन्न; समाधिजनितसार्वज्ञ्यानामपि कर्मभेदैः कदाचिद्भ्रमसंभवात् । न च सार्वज्ञ्ये प्रमाणमस्ति; आहुश्च – ‘कपिलो यदि सर्वज्ञः कणादो नेति का प्रमा । तावुभौ यदि सर्वज्ञौ मतभेदः कथं भवेत् ॥ इति । ननु, ‘ददृशुः कपिलं तत्र वासुदेवं सनातनमित्यादिभिः स्वतस्सर्वज्ञपरमकारुणिकावतारतया सिद्धस्य कथमनाप्तत्वशङ्केति चेन्न; बुद्धेऽपि समत्वात्; आविष्टत्वमात्रं तत्रेति चेदत्रापि तथा, विरोधाभावात्; अन्यथा बुद्धादीन् प्रेरयत ईश्वरस्यासुरादिषु विप्रलिप्सा दुस्त्यजा । ‘मोहयिष्यामि मानवानित्यादि च स्वयमेवाह । अतः पौरुषेयवाक्यमार्षमपि वेदाविरोधेन नेतव्यमिति । एवं निरीश्वरमीमांसका अपि निर्मूला निगमान्तविद्भिरनुग्राह्याः । श्लो. य एवं स्यादसर्वज्ञः सर्वज्ञं न स बुध्यते । इति ब्रुवाणाः सार्वज्ञ्यं लभन्तां तन्निषेधतः ॥ २ ॥ इतीश्वरस्य निर्बाधत्वम् ॥

3.148     वाच्यत्वं वेद्यतां च स्वयमभिदधति ब्रह्मणोऽनुश्रवान्ता

वाक्चित्तागोचरत्वश्रुतिरपि हि परिच्छित्त्यभावप्रयुक्ता ।

नो चेत् पूर्वापरोक्तिस्ववचनकलहस्सर्ववेदान्तबाध-

स्तत्सिद्धिर्हेतुभिश्चेत् प्रसजति विहतिर्धर्मिसाध्यादिशब्दैः ॥ ३ ॥

ननु श्रुतिभिरधिगत इत्याद्ययुक्तम्, स्वयंप्रकाशतया तत्सिद्धेः; अतो वेद्यत्वमेव न यत्र, तत्र कथं शब्दवेद्यत्वम्? ‘यतो वाचो निवर्तन्ते, अप्राप्य मनसा सह’, ‘यद्वाचाऽनभ्युदितमि’त्यादिभिश्च तदुभयं निषिध्यत इत्यत्राह – वाच्यत्वमिति ॥ अयं भावः – स्वप्रकाशत्वं तावन्निगमवेद्यत्वेऽपि घटते; दर्शनस्पर्शनाभ्यामेकार्थग्रहणवदुपपत्तेः । अथानन्यवेद्यत्वमेव स्वयंप्रकाशत्वम्; तदा कथं ततस्तत्साध्यत्वम्? अवेद्यत्वग्राहकात्तत् साध्यत इति चेत्, किं तद्ग्राहकम्? न तावद्ब्रह्मस्वरूपम्, तस्य स्ववेद्यत्वावेद्यत्वयोरुदासीनत्वात्; अन्यथा तत्र तत्संशयाद्यनुत्पत्तिप्रसङ्गात् । नापि वृत्तिज्ञानानि, तद्ग्राहकत्वे तदभावे च तदवेद्यत्वसाधनायोगात् । एवं साक्षिण्यप्यवेद्यत्वग्रहणा युक्तिर्भाव्या । ग्राहकान्तरैरग्राह्यं गृह्यत इत्यविरोध इति चेत्तर्हि घटादेरप्यवेद्यत्वं सिद्धम्; स्वग्राहकेतराग्राह्यत्वात् । यैश्च त्रय्यन्तैरवाच्यत्वादिकं सिषाधयिषसि, त एव स्वयं वाच्यत्वादिकमभिदधति ‘तस्योदिति नाम’, ‘अथ नामधेयं सत्यमि’त्यादिषु तद्वाचकविधानात् । ‘सर्वे वेदा यत्रैकं भवन्ति’, ‘यो वेद निहितं गुहायां परमे व्योमन्’, ‘यत्प्रयन्त्यभिसंविशन्ति, तद्विजिज्ञासस्व’, ‘येनाक्षर पुरुषं वेद सत्यं प्रोवाच तां तत्त्वतो व्रह्मविद्यामि’त्यादिषु वाक्यतोऽन्यतश्च वेद्यत्वप्रतिपादनादिति । तर्हि, ‘यतो वाचो निवर्तन्त’ इत्यादेर्निर्विषयत्वप्रसङ्ग इत्यत्राह – वाक्चित्तेति । ‘सैषाऽऽनन्दस्य मीमांसा भवति’ इत्यादिना ब्रह्मानन्दस्वपरिच्छेद्यताप्रतिपादने हि वाक्यतात्पर्यं गम्यते । अन्यथा ‘ब्रह्मविदाप्नोति परम्’, ‘आनन्दं ब्रह्मणो विद्वान्’ इत्यादि पूर्वापरविरोधः स्वचनविरोधश्च स्यत् । तदिदमाह – नो चेदिति । ब्रह्मप्रतिपादकभागश्च सर्वो निर्विषयः स्यादित्यत्राह – सर्वेति । उपलक्षणमेतत् वेदोपबृंहणशतबाधस्य; ‘वेदैश्च सर्वैरहमेव वेद्यः’, ‘वचसां वाच्यमुत्तमम्’ इत्यादिभिश्च ‘यतो वाचो निवर्तन्त’ इत्यादेरान्यपर्यं ग्राह्यम् । माऽस्त्वत्र श्रुतिभिरवाच्यत्वादिसिद्धिः, अनमानतस्तु स्वादिति शङ्कते – तत्सिद्धिरिति । श्रुतिवदेव विरोधप्रसक्त्या परिहरति – प्रसजतीति । ब्रह्म अवाच्यमवेद्यं वा एवंत्वादिति हि प्रयोक्तव्यम्; तत्र ब्रह्मपदं साध्याधारं ब्रूते न वा? आद्ये कथं तद्विरुद्धसाध्यधीः? द्वितीये तु निरर्थकता निराश्रयसाध्योक्तिश्च । एवं साध्यपदमपि धर्मिपदसमानाधिकरण न वा? पूर्वत्र स्वस्य धर्मिणं ब्रूते, स्वव्यापारविरुद्धं च ब्रूत इति चित्रमेतत् । उत्तरत्रानन्वयः । हेतुपदे च स्वपक्षधर्मत्ववाचिनि प्रकृतंशो धर्मिविषयः । अन्यथा कथं प्रत्ययांशस्य तन्निष्ठभावाभिधायित्वम्? अतो धर्म्यल्लेखनतद्भाववाचकं हेतुपदं न स्वप्रवृत्तिविरुद्धं साध्यं साधयेत् । एवमनुग्राहकतर्केऽपि धर्मिप्रसञ्जकप्रसञ्जनीयपदेषु विहतिरवधार्या । प्रतिप्रयोगोऽपि – विगीतं वेद्यं वाच्यं च, भासमानत्वादिति । नात्र द्वितीयस्य व्यक्त्याऽनैकान्त्यम्; जातिवद्व्यक्तेरपि वाच्यत्वस्य वक्ष्यमाणत्वात्; युष्माकं च तत्र विमत्यभावात् । नन्वत्र धर्मिपदस्य धर्मिणि मुख्यवृत्तिरसिद्धा, सिषाधयिषितावस्थत्वात्; उपचाराभ्युपगमे तु विवक्षितविरोधः स्यात् । मैवम्; वृत्तिमात्रस्य स्वपरसंमतत्वेन वाच्यत्वानिश्चयेऽपि प्रयोगोपपत्तेः । श्लो. दुस्साधं क्वचिदप्येवमवाच्यत्वादि कस्यचित् । किं पुनस्सर्ववचसां प्रतिष्ठा यत्र तत्र तु ॥ ३ ॥ इत्यवाच्यत्वावेद्यत्वपरिहारः ॥

3.149     नित्यं ब्रह्मादिशब्दा निरुपधिकसतो लक्षका इत्ययुक्तं

मुख्यस्यान्यस्य हानेर्न च निपुणधियो मुख्यमिच्छन्ति लक्ष्यम् ।

मुख्यत्वे बाधकं च क्वचिदपि न वयं किञ्चिदालोकयामो

मुख्यं लक्ष्यं च वाचः पदमिति न च तद्गोचरत्वातिपातः ॥ ४ ॥

ननु लक्षणया धर्म्यादिपदानि प्रवर्तन्ताम्, मुख्यवृत्तिविषयत्वाभावस्तु साध्यत इति को विरोध इत्यत्राह – नित्यमिति ॥ अयुक्तत्वं कुत इत्यत्राह – मुख्यस्येति । तीरं गङ्गापदलक्ष्यमितिवन्मिख्यवृत्त्यनर्हं किंचिन्न लाक्षणिकं दृष्टम् । सामान्यतो विशेषतो वा स्ववाचकपदान्तरनिर्दिष्टे हि पदान्तरस्य लक्षणा वाच्या । अन्यथा ब्रह्मादिशब्दा लक्षणया प्रवर्तन्त इत्युक्ते परेष्टमात्रोक्तिः स्यात् । व्यक्तिविशेषमनिष्कृष्य ब्रह्मशब्दवेद्ये लक्षणया प्रवर्तन्त इत्युक्तेऽपि प्रकृत्यादौ तथा प्रवृत्तेरुक्तदोषो दुर्वारः । अथ सर्वकारणत्वादिलक्षिते लक्षणावृत्तिर्ब्रह्मादिशब्दानां साध्येत, तदा तत्र मुख्यवृत्तौ न काचिदनुपपत्तिः; प्रवृत्तिनिमित्तपौष्कल्यादुपपत्तिरेव । अन्यस्य तु मुख्यस्य हानिः, तद्गुणलेशयोगात् प्रयोगोपपत्तेः । साध्यवाचकपदमप्यवाच्यसंबन्धिनि लक्षणया वर्तत इति वक्तव्यम् । न चान्यत् किञ्चिदवाच्यं, दृष्टमिष्टं वा । तदभ्युपगमेऽप्यत्र ब्रह्मणस्तत्संबन्धित्वं साधितं स्यात्; न त्ववाच्यत्वम् । स्वयंप्रकाशत्वादिति हेतुपदं त्वत्र स्वयंप्रकाशसंबन्धिपरं स्यात्; तथा सत्यन्यत् स्वयंप्रकाशम्, ब्रह्म तु तत्संबन्धिमात्रमिति साधु सिद्धान्तस्ममर्थितः! अथ काल्पनिकं मुख्यवृत्तिविषयत्वं ब्रह्मणः स्यादित्यत्राह – न चेति । अयं भावः – त्वन्मतेऽन्येषामपि हि मुख्यत्वं काल्पनिकमेव; तथा सति यस्य पदस्य यन्मुख्यं तत्तस्य लक्ष्यमिति तवैवेदं शोभते । लक्षणानिमित्तं चात्र नास्तीत्याह – मुख्यत्व इति । क्वचिदपि – सद्ब्रह्मादिशब्देषु कुत्रचिदपीत्यर्थः । किंच श्रुतिविरोधपरिहाराय मुख्यवृत्तिबाध इष्टः; लक्षणावृत्त्यङ्गीकारेऽपि तद्विरोधस्ते स्थित एवेत्याह – मुख्यमिति । विरोधशमनं त्वस्मदिष्टमेव साधीय इति भावः ॥ ४ ॥ इति सद्वह्मादिशब्दानां नित्यलक्षकत्वानुपपत्तिः ॥

3.150     निस्साधारण्यनारायणपदविषये निश्चयं यान्त्यबाधे

सद्ब्रह्माद्यास्समानप्रकरणपठिताश्शङ्कितान्यार्थशब्दाः ।

अन्तर्गन्ता च नारायण इति कथितः कारणं चान्तरात्म-

त्यस्मादप्यैककण्ठ्यं भवति निरुपधिस्तत्र शम्भ्वादिशब्दः ॥ ५ ॥

एवमीश्वरस्य त्रय्यन्तवेद्यत्वं शब्दवाच्यत्वं च स्थापितम् । स तु हिरण्यगर्भादिष्वन्यतम इति शङ्कायां पुरुषनिर्णयादिसाधितं विशेषनिर्धारणं संगृह्णाति – निस्साधारण्येति ॥ साधकबाधकाभ्यामप्राप्ते शास्त्रमर्थवदित्यभिप्रायेणोक्तम् – अबाध इति । सदादिशब्दानां कथं शङ्कितान्यार्थत्वम्? इत्थम् – सच्छब्दस्तावत् सत्तायोगिपु सर्वेषु प्रवृत्ततया न विशेषनिर्धारणार्हः । ब्रह्मशब्द एकरूढोऽपि बहुषु रूढवत् प्रयुक्ततयाऽन्यार्थत्वशङ्कार्हः स्यात् । आत्मशब्दश्च जीवपरादि – साधारणप्रयोगः । एवं पुरुषप्राणाक्षरादिशब्दा अपि । नारायणशब्दस्तु न जात्युपाधिवचनो न वाऽनेकरूढः । अतस्तेनान्येषां विषयविशेषनिर्धारणं युक्तम् । तत्र च हेतुः समानप्रकरणपठितत्वम्; अन्यथा पश्वधिकरणादेरपि भङ्गः स्यात् । प्रकारान्तरेणापि निर्दिधारयिषुराह – अन्तर्यन्तेति । यथा सुबालोपनिषदि ‘एष सर्वभूतान्तरात्माऽपहतपाप्मा दिव्यो देव एको नारायण’ इति । एतेनान्तर्यामिब्राह्मणमप्येतद्विषयमिति निर्धारितम् । ततः किमित्यत्राह – कारणमिति । ‘तत् सृष्ट्वा तदेवानुप्राविशदि’त्यादिना हि सर्वस्रष्टुस्सर्वान्तर्यामित्वमप्याम्नातम् । फलितमाह – अस्मादिति । नारायणशब्देन सदादिशब्दानामिति शेषः । ननु ‘कारणं तु ध्येयः’ इत्यत्र ‘शम्भुराकाशमध्य इति समाख्यान्तरं दृष्टम्’; ततः किम्? कारणानुवादेन ध्येयत्वविधिपरं हीदं वाक्यम् । पुरोवादे च नारायणत्वनिर्णये तस्मिन्निरुपाधिवाक्यवार्थभूम्ना तद्वृत्तिरुपपन्ना; तथा च नारायणानुवाकेपि विश्वशम्भुवमि’त्युच्यते, शाश्वतं शिवमिति च; अतोऽन्यपरवाक्यस्थसमाख्यामात्रमकिञ्चित्करमिति भावः ॥ ५ ॥

3.151     विष्णोरप्यस्त्यभिख्या शिव इति शुभतारूढिरत्रानुपाधि-

स्तस्माद्ध्येयः श्रुतोऽसौ शिव इति शिव एवेति वाक्यं त्वनुक्तिः ।

उक्तं नारायणाधिष्ठितमिति च तमोऽनेकबाधोऽन्यथा स्यात्

ब्रह्मेशादेर्भहत्यामुपनिषदि लयाद्युक्तमेवं तु नात्र ॥ ६ ॥

शिवशब्दस्य न केवलं शुभा[द्ध्या]दिपौष्कल्यमात्रान्नारायणे वृत्तिः, किंतु नामतयाऽपीत्याह – विष्णोरिति ॥ ‘सर्वश्शर्वश्शिवः स्थाणु’रिति हि तन्नामसहस्रे पठ्यते । ननु शुभतया रुद्रेऽस्य रूढिः स्यादित्यत्राह – शुभेति । शुभतया जनिता ह्यस्य रूढिः ‘मङ्गलानां च मङ्गलमि’त्यादिभिर्निरुपाधिकशुभत्वशालिनि भगवत्येव युक्ता । अन्यत्र तु तद्गुणलेशयोगाद्वृत्तिः स्यात् । प्रसिद्धिप्रकर्षस्तु प्रणववेदादिषु ब्रह्मशब्दवत् प्रचुरप्रयोगमात्रात् स्यात् । यत्र तु शिवस्य ध्येयत्वोक्तिस्तन्नापि शाश्वतशिवानुवादेन ध्यानं विधीयते । नैतावता प्रसिद्धशिवस्य श्रुतिविरुद्धं कारणत्वं कल्पयितुं शक्यमित्याह – तस्मादिति । असौ – विष्णुरेव । महापुरुषवेदनस्य हि मुक्तिहेतुत्वं प्रतिपाद्य ‘नान्यः पन्था [अयनाय विद्यत] इति नियम्यते । ननु यदा ‘तमस्तदिति वाक्ये शिव एव केवल इत्युच्यते, अतः प्रसिद्धशिवः कारणमित्यत्राह – शिव एवेति । इदं तावद्वाक्यं न कारणतमसः प्रतिपादकं, यदेति कालविशेषप्राप्तानुवादात् । ‘अव्यक्तमक्षरे लीयते, अक्षरं तमसि लीयत’ इति सुबालोपनिषद्वाक्येन तत्प्राप्तिः । सा चोपनिषन्नारायणस्यैव कारणत्वोपास्यत्वादिकं बहुधा वक्ति । अव्यक्ताक्षरक्रमेण तमःस्थाने ‘यस्य मृत्युश्शरीरमिति पठ्यते, अतो नारायणाधिष्ठिततमोवाक्यमिह पुरोवादः । ‘नासदासीन्नो सदासीत्तदानीं तम आसीदि’त्सदिवाक्यमत्र पुरोवादः किं न स्यादिति चेत्, तथाऽपि तस्य सौबालवाक्यसमानार्थत्वं ग्राह्यम् । अतः कारणतमोधिष्ठातृत्वेन प्रसिद्धो नारायण एवात्र शब्दान्तरपरामृष्टः । अनन्तरं च ‘तदक्षरम्’, ‘तत्सवितुर्वरेण्यमि’त्यादिना तत्प्रकारविशेषोपदेशः । मानवे च ‘आसीदिदं तमोभूतमप्रज्ञातमित्यारभ्य, ‘तेन नारायणः स्मृत’ इत्यन्तेन स एव कारणतमोधिष्ठातेति स्पष्टमुक्तम् । तदेतत्सर्वमभिप्रेत्याह -उक्तमिति । एवमनभ्युपगमे बहुश्रुतिस्मृतीतिहासादिबाधः स्यादित्याह – अनेकबाध इति । अपि च नारायणकारणत्वप्रतिपादिकायां महोपनिषदि ‘न ब्रह्मा नेशानो नेमे द्यावापृथिवी इत्यादिना नारायणात् ब्रह्मेशानयोरुपत्त्यादिकं श्रुतम् । यदा तम इति वाक्ये, ‘न दिवा न रात्रिरित्ये’तावदुक्तम् । एतेन ‘हिरण्यगर्भस्समवर्तताग्रे’ इति वाक्यमपि निरूढम्, ‘अद्भ्यस्संभूतो हिरण्यगर्भ’ इत्यष्टाविति तद्विषयानुवाकान्तरसमानार्थत्वसिद्धेश्चेति ॥ ६ ॥

3.152     यः प्रौक्तस्सर्वकर्तुः परमखिलतनोर्नापरं किञ्चिदस्ती-

त्यस्यैव स्यादनुक्त्योत्तरतरकथनं न त्वितोऽन्यस्य बाधात् ।

विश्वव्याप्तस्य तस्योचितमुपधिपरिच्छेदनादुन्मितत्वं

स्वस्यैव प्रापकत्वादशिथिलचिदचिद्धारणाच्चैष सेतुः ॥ ७ ॥

ननु ‘यस्मात् परं नापरमस्ति किञ्चिदि’त्यादिना ‘तेनेदं पूर्णं पुरुषेण सर्वमि’त्यन्तेन पुरुषसूक्तादिप्रसिद्धं पुरुषमनूद्य ‘ततो यदुत्तरतरमि’त्यादिना तस्मात् परस्यैव वेदनममृतत्वादिसाधकमुक्तम्; स एव सर्वेश्वरः स्यादित्यत्राह – यः प्रोक्त इति ॥ सर्वकर्तृत्वं पुरुषसूक्तार्थप्रत्यभिज्ञया सिद्धम् । अखिलतनुत्वं च ‘पुरुष एवेदं सर्वमितिवत् ‘तेनेदं पूर्णं पुरुषेण सर्व’मित्यनेन व्यञ्जितम् । यस्मादपरं किञ्चित् परं नास्तीत्यन्वयः । तेन ‘न तत्समश्चाभ्यधिकश्च दृश्यत इत्ययमर्थोऽनूदितो भवति । एवं समाभ्यधिकदरिद्रस्य विश्वव्यापिनोऽस्यैव सहेतुकं ‘ततो यदुत्तरतरमि’त्यनुवादः । अत एव ‘तदरूपमनामयमि’त्यादिभिराकारान्तरोपदेशः । प्रकार्यन्तरस्यासिद्धत्वाद्यदुत्तरतरमित्यनुवादायोगमभिप्रेत्याह – न त्वितोऽन्यस्येति । अयं भावः – ‘य एतद्विदुरमृतास्ते भवन्ति, अथेतरे दुःखमेवापियन्ती’ति च तद्विषयमेव । अन्यथा ‘नान्यः पन्था अयनाये’ति पुरुषसूक्तवाक्येन व्याघातः । एकविषयत्व एव ह्युभयत्रान्यवेदनस्य मोक्षहेतुत्वाभावोक्तिस्संघटते । तत्र बहुधा विरोधमप्याह – बाधादिति । पूर्ववाक्ये तावत् परान्तरनिषेधादुपक्रमनयेन तद्विरुद्धमुत्तरमुदेतुं नालम्, उत्तरत्र सर्वाननशिरोग्रीवत्वादिना ‘सहस्रशीर्षा पुरुषः’, ‘सहस्रशीर्षं देवमि’त्याद्युक्तमिह प्रत्यभिज्ञातम् । अतोऽपि न तदन्यस्योत्तरतरत्वोक्तिसंभवः । अन्यथा ‘न त्वत्समोऽस्त्यधिकः कुतोऽन्य इत्या’द्युपबृंहणशतबाधश्चेति । ननु ‘पादोऽस्य विश्वाभूतानि’, ‘एष त आत्माऽन्तर्हृदयेऽणीयान् व्रीहेर्वा यवाद्वेत्यादिभिः कारणपुरुषस्य परिच्छिन्नत्वोक्त्या ततोऽन्यदपरिच्छिन्नं परतरमित्यत्राह – विश्वव्याप्तस्येति । अयं भावः -यत्रयत्र परिच्छेदोक्तिः तत्रतत्र विश्वव्याप्तत्वमप्युक्तम् । अतस्तथातथोपासनार्थमौपाधिकः परिच्छेद उच्यत इति । सेतुत्वश्रुत्या तेनोपायेन कूलान्तरवत् प्राप्यान्तरं गम्यत इत्यत्राह – स्वस्यैवेति । ‘अमृतस्यैष सेतुरि’त्यत्र तावदमृतशब्देन श्रुत्यन्तरवत् ब्रह्माभिधाने स्वप्राप्तेः स्वयमुपाय इत्येतावदेव सिध्येत् । मोक्षाभिधानेऽपि तदुपायतयाऽन्यः परतरो न कल्पयितुं शक्यते । ‘एष सेतुर्विधरण एषां लोकानामसंभेदायेत्यत्र तु ‘षिञ् बन्धने’ इति धातौ स्वस्मिन्नाधारे विश्वमसङ्कीर्णं बध्नातीति सेतुः । तत्रापिं न ततः परसंभवः । ‘एतं सेतुं तीर्त्वेत्यत्रापि ‘अन्धस्सन्ननन्धो भवतीत्यादिषूत्तरवाक्येषु पुरुषस्य प्राप्यान्तरणभिधानात् तरतिः प्राप्तिवचनः । एवं ‘नैतं सेतुमित्यादावप्यन्यथासिद्धसेतुव्यपदेशो न प्राप्यान्तरकल्पनक्षम इति ॥ ७ ॥

3.153     पुंसूक्तं सर्ववेदप्रपठनमहितं यत्परत्वैकतानं

तस्यैव श्रीपतित्वं विशदमभिदधे ह्युत्तरत्रानुवाके ।

आम्नातश्चैष नारायण इति निखिलब्रह्मविद्यासु वेद्य-

स्तत्तद्विद्याप्रदेशश्रुतविविधपदप्रत्यभिज्ञप्तिपूर्वम् ॥ ८ ॥

अथ पुरुषसूक्तस्य विनियोगविशेषान्नारायणपरत्वे सिद्धेऽपि शब्दसाधारण्यात् सन्दिहानानां प्राकरणिकादनन्यथासिद्धलिङ्गाद्विशेषनिश्चयमुत्पादयति – पुंसूक्तमिति ॥ सर्ववेदप्रपठनमहितमित्यनेन परतत्त्वविषयप्रमाणानां मिथो – विरोधस्फूर्त्तौ बलाबलचिन्तायां परिग्रहातिशयादेतस्य प्राबल्यं सूच्यते । उक्तं च तदभिप्रायेण महाभारते – ‘इदं पुरुषसूक्तं हि सर्ववेदेषु पठ्यते’ इति । उत्तरानुवाकः पुरुषसूक्तोक्तमहापुरुषविषयः, सन्निध्यनुगुणशब्दार्थप्रत्यभिज्ञानात् । तत्र ‘हीश्च ते लक्ष्मीश्च पत्न्या’विति तैत्तिरीयास्समामनन्ति । वाजसनेयिनस्तु – ‘श्रीश्च ते लक्ष्मीश्च फत्न्या’विति । न चात्रानुवाकद्वये धातृप्रजापतिशब्दाभ्यामन्यविषयत्वमाशङ्कनीयम्; विश्वकर्मत्वष्टृशब्दाभ्यामपि प्रसङ्गात् । अतः प्रसिद्धतमलिङ्गानुरोधेन धातृप्रभृतिशब्दानां योगत एव मुख्यत्वमेष्टव्यम् । किंच नारायणानुवाके ‘सहस्रशीर्षं देव’मित्यादिभिः पुरुषसूक्तप्रभृतिसर्वपरविद्यावेद्यं पुरुषं प्रत्यभिज्ञाप्य तस्य नारायणत्वं बहुशोऽभ्यस्तम् । अतो यत्रयत्र परब्रह्मपरतत्त्वपरज्योतिःपरमात्मादिशब्दा दृष्टास्तत्र सर्वत्र नारायण एव प्रतिपाद्यत इति निश्चीयते । अतः परतत्त्वनिर्णयेऽयमेवानुवाकः पर्याप्त इत्यभिप्रायेणाह – आम्नात इति ॥ ८ ॥

3.154     रुद्रेन्द्रादिश्च यत्र स्फुरति परतयाऽनन्यथासिद्धलिङ्गै-

स्तत्तत्तत्त्वैर्विशिष्टो हरिरखिलतनुस्तासु विद्यासु वेद्यः ।

पारम्यं त्वान्यपर्यान्न भवति न किरित्यादिभिः स्तोत्रवाक्यै-

रन्याकूतैर्नमस्यादिभिरपि न परः स्यादनैकान्त्यदुःस्थैः ॥ ९ ॥

तथाऽपि त्वाष्ट्रवधादिलिङ्गैः प्रसिद्धेन्द्रांदिविषयासु मोक्षार्हविद्यासु का गतिरित्यत्राह -रुद्रेन्द्रादिरिति ॥ प्रसिद्धेन्द्रादिलिङ्गानां परमत्मलिङ्गानां चानन्यथासिद्धावुभयानुरोधेन सद्वारकमद्वारकं च तत्तद्विशिष्टब्रह्मोपासनपरत्वं स्वीकर्तव्यमित्यर्थः । कर्मविधिप्रकरणेषु न किरिन्द्र त्वदुत्तर इत्यादिभिः प्राकरणिकदेवताप्रशंसापरैः न तासां परत्वसिद्धिरित्याह-

पारम्यमिति । ‘न किरिन्द्र इत्यस्य वस्वादित्यादिषु त्वदुत्तरो नास्तीति याथार्थ्यसिद्धिः । ‘एक एव रुद्रो न द्वितीयाय तस्थे इती’दमपि तत्रत्यपशुविशेषे द्वितीयानन्वयपरमिति मीमांसाभाष्यकारादिभिर्व्याख्यातम् । एवमीदृशवाक्यान्तराणि यथार्हं नेतव्यानि । यस्तु नमस्कारभूम्ना बहुप्रदेशबहुवाक्यप्रतिपन्नतया तत्तदपदानविशेषैश्चान्यत्र क्वचित्परत्वं शङ्कते; तं प्रत्याह – अन्याकूतैरिति । नमस्कारस्तावद्बाधभीत्या सान्त्वनाभिप्रायेण लोकवद्वेदेऽपि दृष्टः; ‘नमस्ते अस्तु मा मा हिंसी’रिति तद्भूयस्त्वं च भीतिभूयस्त्वादेरपि स्यात् । अस्ति च तेषुतेषु देवताविशेषेषु नमस्कारस्तद्भूमा बहुप्रदेशपाठादिकमतिशयितापदानं च । अतो नैतैरेकः परः स्यात्, सर्वेषां च सर्वस्मात्परत्वं व्याघातदुःस्थमिति भावः ॥ ९ ॥

3.155     धर्माणां स्थापनार्थं स्वयमपि भजते शासिता शासनं स्वं

स्वस्यापि प्रत्यवायानभिनयति नृणां पापभीतिं विधित्सुः ।

शुद्धैस्स्वेच्छावतारैर्भजति सुलभतां तावतोत्पत्त्यनूक्तिः

प्रोक्तो विष्णुश्शिखायामपि हि स पुरुषः प्राप्ततारार्धभात्रः ॥ १० ॥

नन्ववतारेषु भगवतश्शास्त्रार्थानुष्ठानं तत्फलभोगश्च श्रुतिस्मृतिषु बहुधा दृश्यते । अतस्तस्यापि कर्मवश्यत्वं स्यादित्यत्राह – धर्माणामिति ॥ तदेतत् ‘न मे पार्थास्ति कर्तव्यम्’, ‘धर्मसंस्थापनार्थाये’त्यादिभिस्सिद्धम् । यद्यपि ‘जनितेन्द्रस्य जनितोऽत विष्णोरित्ये’तत् प्रीणनद्रव्यप्रशंसार्थं, तथाऽप्यथर्वशिखायां ‘ब्रह्मविष्णुरुद्रेन्द्रास्ते सर्वे संप्रसूयन्त’ इति ब्रह्मादेरिव भगवतोऽपि प्रसूतिः श्रूयते । अतस्तदतिरिक्तं कारणं तत्र ध्येयतयोच्यत इत्यत्राह – शुद्धैरिति । अकर्महेतुकैरप्राकृतैरित्यर्थः । सौलभ्यार्थावतारानुवादस्तस्यैव सर्वकारणस्य ध्येयत्वविधानार्थमिति भावः । तत्रैव प्रणवनिरूपणे स्वार्थस्थापनं व्यनक्ति – प्रोक्त इति । प्रणवस्य तिसृणां मात्राणां वर्णभेदांस्त्रिमूर्तिदेवताकत्वं चोक्त्वा तस्य चतुर्थ्या अर्धमात्रायास्सर्ववर्णत्वं पुरुषदेवताकत्वं चोक्तम् । स च पुरुषः ‘सृष्टिस्थित्यन्तकरणीमित्यादावुक्त एव जनार्दनः । ‘तस्य हैतस्य पुरुषस्य रूपं यथा माहारजनं वासः ‘यथा पाण्ड्वाविकं’ ‘यथेन्द्रगोप’ इत्यादिना च पुरुषस्य सर्ववर्णविग्रहः श्रुतः । भारतादौ च विश्वरूपादिविग्रहे व्यक्तमेतत् । ‘भगवानिति शब्दोऽयं तथा पुरुष’ इत्यपि । निरुपाधी च वर्तेते वासुदेवे सनातने ॥ इति च स्मर्यते इति ॥ १० ॥

3.156     आद्यं रामायणं तत्स च निगमगणे पञ्चमः पञ्चरात्रं

सत्त्वोपज्ञं पुराणं मनुमुखमुनिभिनिर्मितं धर्मशास्त्रम् ।

त्यक्तान्यो मूलवेदः कठपरिपठिता वल्लिकास्तापनीयं

सौबालब्रह्मबिन्दुप्रभृतिकमपि नस्तत्परं तत्परत्वे ॥ ११ ॥

उक्तस्यार्थस्यानन्यथासिद्धस्थापकभूयस्त्वमाह – आद्यमिति ॥ मानवादिभ्योऽपि पूर्वमित्यर्थः । तदिति परिग्रहप्रसिद्धिव्यञ्जनम्; स चेत्यपि तथैव । निगमगणे पञ्चमत्वं च ‘वेदानध्यापयामास महाभारतपञ्चमानि’ति प्रदर्शितम् । पञ्चरात्रस्य कार्त्स्न्येन प्रामाण्यं च महाभारतादिप्रसिद्धम्, शारीरके स्थापितं च । सत्त्वेन गुणेनादिभूतेन उपज्ञायमानत्वात् सत्त्वोपज्ञं वैष्णवादि पुराणम् । तेन मात्स्यादिषु विभक्तराजसतामसेभ्यः प्राबल्यं सूच्यते । मनुमुखमुनिभिरिति – अनेन ‘मन्वर्थविपरीता तु या स्मृतिस्सा न शस्यत’ इत्युक्तं मानवप्राबल्यं व्यज्यते । त्यक्तान्यः – परित्यक्तदेवतान्तरतद्धर्मः । मूलवेदः – अनन्यधर्ममूलभूतो वेदभागः । कठवल्लीषु -‘विज्ञानसारथिर्यस्तु मनःप्रग्रहवान्नरः । सोऽध्वनः पारमाप्नोति तद्विष्णोः परमं पदम् ॥’ इति प्राप्यविशेषदर्शनात्तासु पुरुषादिशब्दोक्त उपास्यो विष्णुरेवेति युक्तम् । तापनीयोपनिषत्तु नृसिंहरूपभगवदवतारैकविषया । सुबालोपनिषच्च नारायणस्यैव परत्वं बहुधा प्रपञ्चयति । ब्रह्मबिन्दूनिषदपि ‘अहं वासुदेव’ इत्यहंग्रहोपासनदर्शनाद्वासुदेवविषया । प्रभृतिशब्देन नारायणोपनिषदादिसंग्रहः । तत्परत्वे तत्परं – भगवत्पारम्ये प्रधानाभिप्रायवदित्यर्थः ॥ ११ ॥

3.157     मध्यस्थोक्तिर्विरुद्धे परमहिमपरे तत्र तत्रैतदुक्ति-

र्वृत्तान्तास्ते विचित्राः स्वमतमभिहितं देवतातत्त्वविद्भिः ।

वैषम्यं शिल्पशास्त्रप्रभृतिषु विविधं वैदिकस्वीकृतत्वं

प्रज्ञासंस्कारभाजां भवति भगवति स्वप्रधाने प्रमाणम् ॥ १२ ॥

तत्राभ्युच्चययुक्तिमाह – मध्यस्थोक्तिरिति ॥ राजसादिपुराणान्यतमेन सात्त्विकपुराणे विरुद्धे तदुभयमध्यस्थपुराणान्तरोक्तिसंवादान्निर्णयः स्यात् । ब्रह्मरुद्राद्येकैकमहिमतत्परे च पुराणे बहुषु प्रदेशेषु भगवत्पारम्यं दृश्यते । रक्तरुष्टयोरपि दोषगुणोक्तौ प्रत्ययितत्वमाहुः । वृत्तान्ताः – ‘क्रान्त्वा निगीर्य पुनरुद्गिरती’त्यादिभिस्संगृहीताः । देवतातत्त्वविद्भिः – पराशरपाराशर्यादिभिः । ‘विष्णोस्सकाशायुद्भूतम्’, ‘आलोड्य सर्वशास्त्राणि’, ‘सत्यं सत्यं पुनस्तत्यमि’त्यादिभिः स्वमतमभिहितम् । शिल्पशास्त्रे च परावरभावेन वैषम्यं दृश्यते; तत्र ह्युत्तममध्यमाधमविमानान्यधिकृत्योक्तम् – ‘स्यान्नागरद्राविलवेसरं च क्रमेण वै सत्त्वरजस्तमांसि । महीसुरोर्वोपतिवैश्यकास्ते हरिर्विधाता हर आदिदेवः ॥ इति । ‘विष्णोरन्ये राध्यमाना न साक्षाच्छ्रीकरास्सुराः । सर्वदेवासदे विष्णौ धिष्ण्यं संपत्सुखावहम्’ ॥ इति । प्रभृतिशब्देनायुर्वेदादिसंग्रहः । पठ्यते – ‘हरिं हरीतकीं चैवे’त्यादि । ज्यौतिषे च ‘धन्यं तदेव लग्नमि’त्यादि । वैदिकस्वीकृतत्वं – वेदविदुत्तमैः सर्वैर्बोधायनटङ्कद्रमिडगुहदेवकपरर्दिभारुचिप्रभृतिभिर्भगवत एव परत्वेनाङ्गीकृतत्वम् । एतत्सर्वं सदाचार्यशिक्षाजनितप्रज्ञासंस्कारभाजाम् ‘आत्मेश्वरमिति स्वप्रधानतयाऽधीते भगवति प्रमाणं भवती’ति ॥ १२ ॥

3.158     इन्द्रेशानाद्यभिख्या स्वयमिह महदाद्युक्तिभिर्वा विशिष्टा

तत्तत्पारम्यमानं न भवति बलवद्धर्भिमानोपरोधात् ।

नो चेत्स्यान्नैक ईशो न भवति यदि वा कश्चिदन्योन्यबाधा-

ल्लोकेऽप्यन्वर्थभावं न हि दधति महावृक्षमुख्यास्समाख्याः ॥ १३ ॥

कश्चिदाह – ईश्वरशब्दो निर्विशेषणो महत्परमशब्दविशेषितश्च कस्यचित् समाख्या; अन्यस्य त्वेवं त्रिविधः पुरुषशब्दः; अतस्तयोरवसीयते परावरभाव इति । अत्रेन्द्रप्रतिबन्दिं सहोक्त्या सूचयन् प्रतिवक्ति – इन्द्रेशानादीति ॥ अयं भावः – इन्द्रशब्दो हि परमैश्वर्यवाचिधातुनिष्पन्नः केवलोऽपि परमेश्वरत्वं ब्रूते, किमुत महत्पूर्वः; तथाऽपि येन तत्र समाख्यासङ्कोचः स रुद्रेऽपि समः, कार्यत्वकर्मवश्यत्वयोस्समचर्चत्वादिति । समाख्यातः श्रुत्यादेर्बलीयस्त्वं सूचयन् हेतुमाह – बलवदिति । एवमनभ्युपगमे बाधकप्रसङ्गद्वयमाह – नो चेदिति । समारव्यामात्रावलम्बने रुद्रेन्द्रादयो बहव ईश्वराः स्युः, न वा कश्चित्, तुल्ययोगक्षेमत्वादिति भावः । नाममात्रस्यासाधकत्वं सर्वसंप्रतिपत्त्या दर्शयति – लोकेऽपीति । महौषधमहानद्यादिसंग्रहाय मुख्यशब्दः ॥ १३ ॥ इति भगवतः परत्वम् ॥

3.159     एकं त्रेधा विभक्तं त्रितयसमधिकं तत्त्वमीशास्त्रयस्ते

विष्ण्वन्या मूर्तिरीष्टे प्रभवननियमः कल्पभेदात्त्रयाणाम् ।

इन्द्रादीनामिव स्यान्निजसुकृतवशादीश्वराणां प्रवाहः

स्यादेकस्येश्वरत्वं प्रतिफलवदिस्यादि चैवं पसस्तम् ॥ १४ ॥

अथात्र न्यायाभासमूलानि मतान्तराण्यनूद्य तेषां दत्तोत्तरत्वमाह – एकमिति ॥ एकस्यैव रामकृष्णादिवत्साक्षादवतारे त्रिधा विभाग इति पक्षः, एकैव मूर्त्तिर्विभिदे त्रियासश्चेत्यादिषु विवक्षितः; तत्र मूलभूतानां ‘विष्णुरेव परं ब्रह्म त्रिभेदमिह पठ्यते’ ‘सृष्टिस्थित्यन्तकरणीमित्यादीनां’, ‘तवान्तरात्मा मम चेत्या’दिवाक्बान्तरानुविधानात् क्षेत्रज्ञव्यवधानेन द्वयोरेकत्राव्यवधानेन च [वृत्तिं]प्रतीतिं व्याचख्युः । त्रिमूर्त्युत्तीर्णं पुरुषान्तरं सच्चिन्मात्रं वा परतत्त्वमिति पक्षे, ‘स संज्ञां याति भगवानेक एव जनार्दनः’ इत्यादिभिरपि बाधः । परस्परं भिन्ना ईश्वरास्त्रय इति पक्षश्चैकस्य सर्वप्रशासितृत्वादिभिर्निरस्तः । विष्णोरन्य एव ब्रह्मा रुद्र आदित्यो वा कश्चिदीश्वर इति वादोऽपि विष्णोरेव सर्वेश्वरत्वस्थापनादापास्तः । त्रय ईश्वरास्सत्त्वादिगुणोन्मेषभिदुरकल्पभेदाच्चक्रनेमिनीत्या निम्नोन्नतैश्वर्या इति कल्पनाऽपि निरस्ता । प्रवाहेश्वरपक्षश्च, ‘न कर्मणा वर्धते नो कनीयान्’ ‘स न साधुना कर्मणा भूयान्नो एवासाधुना कनीयानि’त्यादिश्रुतिभिरवधूतः । अस्त्वेक एवेश्वरः, तस्येश्वरत्वं नित्यसत्त्वविशेषसन्निधाननिबन्धनं प्रतिफलनकल्पमिति योगराद्धान्तश्च, ‘पराऽस्य शक्तिर्विविधैव श्रूयते स्वाभाविकी ज्ञानबलक्रिया चेत्या’दिभिरपोढः । आदिशब्देन नित्यचिकीर्षाप्रयत्नवांश्चिकोर्षारहितोऽपि वा ज्ञानप्रयत्नमात्रवानित्यादिमतभेदसंग्रहः । एवं – श्रुतिलिङ्गादिप्राबल्यस्थापनप्रकारेणेत्यर्थः ॥ १४ ॥ इति त्रिमूर्त्यैक्यादिपक्षनिरासः ॥

3.160     सर्गादीनामसिद्धौ न हि निगमगिरां भज्यते संप्रदाय-

स्तत्सिद्धौ नानुमानं प्रभवति यदिदं बाधशून्यं विपक्षे ।

शास्त्रेभ्यस्तत्प्रसिद्धौ सहपरिपठनाद्विश्वकर्ताऽपि सिध्ये-

द्धर्मानुष्ठापनार्थं तदनुमितिरतो नैव शक्या कदाचित् ॥ १५ ॥

श्रुतिसिद्ध ईश्वर इत्युक्तम् । अनुमानतोऽपि सिद्ध इति वदन्तः प्रतिवक्तव्याः । तत्र तावदुपदेशलिङ्गं दूष्यते – सर्गादीनामिति ॥ किमस्मदादीनां धर्मोपदेशार्थमीश्वरः कल्प्यते उत कल्पादिसंभवानां पुरुषविशेषाणाम्? नाद्यः, पित्रादिक्रमेण संप्रदायप्रवृत्तेरीश्वरनैरपेक्ष्यात् । पित्रादिप्रेरणार्थमीश्वरोऽपेक्षित इति चेत्, न; तर्हीदमुपदेशलिङ्गं, कार्यलिङ्गानुप्रवेशात् । न द्वितीयः, सर्गाद्यसिद्धाविदानीमिवानादिसंप्रदायाविच्छेदेन तत्प्रवर्तकानपेक्षणात् । सिद्धिस्तु सर्गादेरनुमानात् आगमाद्वेति विकल्पे पूर्वं दूषयति – तत्सिद्धाविति । अयं भावः -विश्वसन्ततिरत्यन्तमुच्छिद्यते सन्ततित्वात् प्रदीपसन्ततिवदित्यनुमानं तावत्सर्वात्ममोक्षमिच्छतामन्त्यमुक्तिसमयभाविना सर्वकार्योच्छेदेन चरितार्थं स्यात् । वर्तमानब्रह्माण्डपरमाणवः पूर्वमुत्पादितसजातीयसन्तानान्तराः नित्यत्वे सति तदारम्भकत्वात् घटादिपरमाणुवदित्यत्राप्युपचयापचयभिदुरब्रह्माण्डभेदेन तत्तत्परमाणूनां प्रागपि ब्रह्माण्डसन्तत्यन्तरारम्भसंभवेनार्थान्तरत्वापातादिति । साधारणदोषमाह – यदिदमिति । न तावत्सर्गाद्यभावे काचिदनुपपत्तिः । यद्यप्यारब्धानां भावानां नश्वरत्वमात्रं गम्यते, तथाऽपि तत्सन्ततीनामनुच्छेदोक्तौ न विरोधः । यत्तूक्तम् – ‘प्रमायाः परतन्त्रत्वात् सर्गप्रलयसंभवात् । तदन्यस्मिन्ननाश्वासान्न विधातुरसंभवः ॥’ इति, तत्राद्यो हेतुर्बुद्धिसरे दूषयिष्यते । द्वितीयस्त्विदानीं दूषितः । तृतीयोऽपि विमतः, संभवन्ति हि सर्गादिकाले प्राचीनसुकृतसञ्चयविपाकवै[जात्या]विध्यात् प्रतिबुद्धवेदराशयो देवा महर्षयश्च; ते युष्माभिरपि वेदवक्तुराप्तिख्यापनाय तदुपदेशग्रहणप्रवचनाद्यर्थं च स्वीकृताः । ऋषित्वमपि सुप्तप्रबुद्धन्यायेन सुकृतवशात् प्रागधीतप्रस्मृतवेदभागप्रत्यक्षीकरणमेव; श्रूयते हि ‘अजान् ह वै पृश्नींस्तपस्यमानान् ब्रह्म स्वयंभ्वभ्यानर्षत् त ऋषयोऽभवँस्तदृषीणामृषित्वमि’ति । अतस्तैरेव सर्गोपपत्तौ किमन्येन? एतेन बहुपरिग्रहगौरवं चापास्तम् । विजातीयकॢप्तावेव हि गौरवम् । न च बहुष्वनाश्वासः, एकस्मिन्निव तेष्वपि तत्परिहारस्य समचर्चत्वादि’ति । आगमात्सर्गादिसिद्धौ सर्वकर्तुरपि तत एव सिद्धिमाह – शास्त्रेभ्य इति । सर्वकर्तारं पुरस्कृत्यैव हि सर्गादिकथनम्; अतोऽनुमेयं नावशिष्यत इति भावः । विमतं प्रति प्रयोगसंभवेऽप्यनुमानासामर्थ्यं दर्शितम् । सांख्यागमैः सर्गादिसिद्धिः स्यादिति चेन्न, श्रुतिविरोधे बाधात्; अन्यथा सेश्वरसांख्येऽनुमेयाभाव एवेति । अनुमानान्तरैरपि सर्गाद्यसिद्धिं तत एवोपदेशलिङ्गस्य निर्मूलतां चाभिप्रेत्य निगमयति – धर्मेति ॥ १५ ॥ इत्युपदेशानुमानभङ्गः ॥

3.161     साध्यं यादृक् सपक्षे नियतमवगतं’ स्याद्धि पक्षेऽपि तादृक्

तस्मात्कर्मादियुक्तः प्रसजति विमते कार्यताद्यैस्तु कर्त्ता ।

एतत्तत्सिद्ध्यसिद्ध्योर्न घटत इति न क्ष्मादिपक्षे सपक्ष-

व्याप्ताकारप्रसङ्गात्तदनुपगमने न क्वचित्स्यात्प्रसङ्गः ॥ १६ ॥

यानि च बहून्यनुमानानि संजगृहुः – ‘कार्यायोजनधृत्यादेः पदात्प्रत्ययतः श्रुतेः । वाक्यात्संख्याविशेषाच्च साध्यो विश्व[सृड]विदव्ययः ॥’ इति, तत्रान्वयिषु साधारण्यमाह – साध्यमिति ॥ यादृक् सपक्षे नियतमवगतम् – येनाकारेण व्याप्तं प्रमितमित्यर्थः । स्याद्धि पक्षेऽपि तादृक् – न हि पर्वते वह्निरनुमीयमानः उष्णत्वमपहाय सिध्येदिति भावः । व्यवहितेऽपि पश्चादुष्णत्वदर्शनात्तत्सिद्धिरिति चेन्न, प्रालेयमर्मरितैः पद्मपत्रादिभिः प्रालेयसन्निहितानुद्भूतरूपहुतवहानुमाने तदसिद्धेः । न च तत्रानुष्णो वह्निरनुमीयेत, मर्मरीभावस्यैवासिद्धिप्रसङ्गात् । यद्यनुष्णो वह्निः कश्चित्पचेत्, अन्वयव्यतिरेकवान्नीहार एव पाचकः कि न कल्प्येत? एवं सामान्यतश्शिक्षितया व्याप्त्या प्रस्तुतेऽनिष्टप्रसङ्गमाह – तस्मादिति । कार्यत्वादिभिरुर्वीदूर्वादौ कर्ता यदि सिध्येत् कर्तृव्यापककायकरणकर्मादिमान् स्यात्; तथा च नाभ्युपगम्यत इत्यनिष्टता, विपर्यये विश्रमश्च । नन्वनुमानवत्तर्कोऽपि धर्मिसिद्धिसापेक्षः, अन्यथा प्रसञ्जकं कुत्राहार्यम्? अनिष्टं कुत्र वा प्रसञ्जनीयम्? तदिहेश्वरसिद्धौ विदेहतयैव तत्सिद्धेः; तद्विरुद्धप्रसङ्गानुत्थानम् तदसिद्धौ निराश्रयस्तर्कः कुत्र किं प्रसञ्जयेदित्यभिप्रायेण चोदयति – एतदिति । परोक्तहेत्वाश्रय एव प्रतिकूलतर्काश्रय इत्यभिप्रायेण प्रतिवक्ति -नेति । विवृणोति – क्ष्मादीति । अयं भावः – यदि वयमीश्वरे धर्मिणि प्रसङ्गमवतारयामः, तदा सिद्ध्यसिद्धिविकल्पदौःस्थ्यं स्यात्; यदि च पृथिव्यादावाश्रये कार्यत्वहेतुना कर्तारं देहादिमन्तमुपस्थापयेम, तदा दूर्वादौ व्यभिचारात् न प्रतिसाधनं न प्रतितर्कश्चेति स्यात् ; किंतु संप्रतिपन्ने पृथिव्यादौ धर्मिणि साध्यधर्मस्यभावात्तद्व्यापकप्रसक्तिं ब्रूमः; अतो न कश्चिद्विरोध इति । अथ साक्षात्परसाध्यमाश्रयीकृत्य प्रसङ्गः प्रयोक्तव्य इति मन्येत, तदा प्रसङ्गस्यैवोच्छेद इति प्रसञ्जयति – तदनुपगमन इति । परेष्टसाध्यविशेषस्य स्वीकारे बहिष्कारे च व्याघातस्य दुष्परिहरत्वादिति शेषः ॥ १६ ॥

3.162     यत्कार्यस्योपयुक्तं तदिह भवतु नः किं परेणेति चेन्न

ज्ञानादेरुद्भवे तद्विषयनियमनेऽप्यर्थनादिन्द्रियादेः ।

नित्यं ज्ञानं विभोस्तन्न नियतविषयं तेन नान्यार्थनं चे-

न्नानित्यस्यैव दृष्टेस्तव कथमजसंयोगभङ्गोऽन्यथा स्यात् ॥ १७ ॥

ननु कार्योत्पत्तौ कर्तुर्ज्ञानचिकीर्षाप्रयत्नमात्रमुपयुज्यते, देहादेः कार्यव्यापकत्वादर्शनात् कार्यविशेषे तदुपयोगो दृष्ट इति चेत्, यत्र दृष्टस्तत्र तथाऽस्तु, न सर्वत्र; अतिप्रसङ्गादित्यभिप्रायेण शङ्कते – यदिति ॥ उपयुक्तं – ज्ञानचिकीर्षादिकम् । परेण -कार्योत्पत्त्यनुपयुक्तेनेत्यर्थः । अनुपयोगो दुर्वच इत्यभिप्रायेणाह – नेति । तत्साधयति -ज्ञानादेरिति । सपक्षव्याप्तप्रकारेण पक्षेऽपि कर्तुर्ज्ञानादिना कार्येण भवितव्यम्, ततस्तत्कारणतया कार्यकरणकर्मादियोगोऽपि दुस्त्यजः । प्रयत्नस्य विषयनियमश्चिकीर्षया; तस्याश्च प्रियाप्रियप्राप्तिपरिहारव्यापारकारणेन तावद्बुद्ध्या, सा च तत्तत्सामग्रीनियतविषयेति विषयनियमे स्थिते सामग्रीशून्यं ज्ञानं कथं सविषयम्? निर्विषये च तस्मिन् किं चिकीर्षेत? अचिकीर्षुश्च कुतः प्रयतेत? ननु कार्यस्यैव सामग्र्यपेक्षणम्, नित्यस्य तु स्वतस्सर्वविषयस्योत्पत्तिविषयनियत्योरभावात् किं साभग्र्येति शङ्कते – नित्यमिति । त्रय्यन्तिनामिव नित्यज्ञानसिद्धावेतद्वक्तव्यं नान्यथेति स्थापयितुमाह – नेति । अहेतुकं ज्ञानं किं दृष्टमुत कल्पितम्? नाद्यः, असिद्धेः; न द्वितीयः, दृष्टविजातीयकॢप्त्ययोगादित्यभिप्रायेणाह – अनित्यस्येति । तादृशज्ञानकॢप्तौ परस्येष्टविरोधमाह – तवेति । मूर्तवद्द्रव्यत्वादिना विभूनां विभुना संयोगे कल्प्यमाने संयोगकारणानामन्यतरकर्मोभयकर्मसंयोगानामसंभवात्तन्निषेधः कृतः, तथेहापि विज्ञानकारणानामिन्द्रियलिङ्गादीनामभावात्तदभावः स्यात् । नित्यत्वान्नैरपेक्ष्यमजसंयोगेऽपि सुवचम् । विभूनां मिथस्संयोगाभावे न किंचित्साधकमिति चेन्नित्यज्ञानाभावेऽपि किम्? अस्मदाद्यशक्यकार्यानुत्पत्तिप्रसङ्ग इति चेत्; न, कारणान्तरैरेव तदुत्पत्त्युपपत्तेः । कर्तृनिरपेक्षैः कारणान्तरैः कार्योत्पत्तिर्न दृष्टेति चेत्, अन्यत्रादृष्टाऽप्यत्र तथा स्यात्, प्रध्वंसस्येव निमित्तमात्रजन्यत्वम् । वरं हि कल्पितस्य ज्ञानादेः कारणनैरपेक्ष्यकल्पनात् सिद्धस्य हेतुवर्गस्य क्वचित् कर्तृनैरपेक्ष्याङ्गीकारः अजसंयोगस्वीकारो वेति; स्वीक्रियतां का हानिरिति चेत्, सिद्धान्तहानिरिति ॥ १७ ॥

3.163     किं वा धीच्छे गृहीते विषयनियतये ते हि यत्नोऽत्र नेच्छे-

न्निर्हेतुस्तत्प्रमेष्टा भवतु विषयवानेष तद्वत्स्वतस्ते ।

प्रोक्ते यत्ने स्वभावाद्विषयवति सधीः स्यादितीदं क्व दृष्टं

यद्वा धीस्तं हि नित्यं न तु जनयति ते सा कथं तन्नियन्त्री ॥ १८ ॥

नन्वहेतुकसंयोगमिच्छद्भिरहेतुकज्ञानं न दूष्यम्, तद्दूषणे वा सिद्धान्तहानिः स्यादित्यत्राह – किं वेति ॥ कर्तुरनुमानेऽपि प्रयत्नमात्राधारत्वमनुमीयताम्, प्रयत्नव्यापकतया ते अपि सिध्येतामिति चेन्न; जीवनपूर्वकप्रयत्नमन्विच्छतां तत्र व्याप्तिभङ्गात् । अतः प्रयत्नकॢप्तावपि ज्ञानचिकीर्षानैरपेक्ष्यमाह – विषयेति । सर्वकार्यविषयस्य हि प्रयत्नस्य विषयनियमाभावादेव न तदर्थं चिकीर्षाद्यपेक्षा । उक्तमर्थं प्रतिबन्दिगतं विवृणोति -निर्हेतुरिति । अयं भावः – अन्यत्र ज्ञानं सर्वं सकारणकं तत्प्रामाण्यं च कारणगुणाधीनमिति स्थापयद्भिरीश्वरज्ञानं तत्प्रामाण्यं च निष्कारणकमिति दृष्टविपरीतं कल्प्यते । अत्र ज्ञानचिकीर्षाख्यधर्म्यन्तरकॢप्तिमपहाय प्रयत्नमात्रेऽन्यनिरपेक्षं विषयित्वमङ्गीकर्तुं युक्तम् । श्लो. नित्या चेश्वरबुद्धिस्ते नानुभूतिर्न च स्मृतिः । न प्रमा न भ्रमश्च स्यात्तत्तत्कारणवर्जनात् ॥ अनुभूत्यादिहेतूनामभावेऽपि तथा यदि । स्मृतिहेतोरभावेऽपि स्मृतिरेषा न किं भवेत् ॥ कुतश्चित् प्रमात्वादिकल्पनेऽपि तद्वदेव यत्नस्य विषयित्वेऽन्यनैरपेक्ष्यमपरिहार्यमिति । अत्र परोक्तं प्रसङ्गमनूद्य प्रतिषेधति – प्रोक्त इति । ज्ञानस्य स्वत एव सविषयित्वमित्येतदेव क्व दृष्टम्? सर्वत्र ज्ञाने सामग्रीनियतविषयत्वदर्शनात् । नित्यस्य चेश्वरयत्नस्य कार्यविशेषानुगुणसहकारिलाभमन्तरेण कार्यविषयत्वं नाम न किञ्चित् संभवति । न च विषयित्वमेव ज्ञानलक्षणम्, शक्त्यादीनामपि विषयधर्माणां धीत्वप्रसङ्गात् । यस्त्विच्छामनङ्गीकृत्य बुद्धियत्नावीश्वरस्य ब्रूते, सोऽपि प्रत्युत्पन्नवादी; नित्ययत्नमात्रेणापि सर्वकार्यसिद्धेरुक्तत्वात् । अबुद्धिपूर्वप्रवृत्तस्य कथं ‘स्वतन्त्रः कर्तेति लक्षणयोगः, कथंतरामीश्वरत्वयोग इति चेत्, अनिच्छापूर्वप्रवृत्तस्यापि सममेतत् । अत एव कारकान्तराप्रयोज्यत्वे सति कारकान्तरप्रयोक्तृत्वरूपं कर्तृत्वं कथमचेतनस्येत्यपि प्रत्युक्तम्, प्रयत्नवत एव प्रयोक्तसंभवात् तन्नित्यतया प्रयोज्यत्वाभावाच्च । ननु चेतनत्वमात्मलत्रक्षणम्, तदभावे तत्त्वं न स्यादिति चेत्, मैवम्; यत्नवत्त्वेन तल्लक्षणसिद्धेः; अन्यथेच्छाविरहेऽपि तदसिद्धिप्रसङ्गः । ‘इच्छाद्वेषप्रयत्नसुखदुःखज्ञानान्यात्मलिङ्गमि’त्याक्षपादी सहपठितिः, ‘क्रियावद्गुणवत्समवायिकारणमि’ति द्रव्यलक्षणमिति काणभक्षीव कथंचिन्नेया । ज्ञानाद्यत्यन्तायोगव्यच्छेदवन्निष्ठद्रव्यत्वावान्तरजात्याधार आत्मेति । अस्तु तर्हि यत्नमात्रवानीश्वरः, तथाऽप्यनुमानं न प्रतिक्षिप्तमिति चेन्न, ‘यस्सर्वज्ञस्सर्ववित्’, ‘तदैक्षत बहु स्यां प्रजायेय’, ‘सोऽकामयत वहु स्यां प्रजायेये’त्यादिश्रुतिशतविरोधादिति । दूषणान्तरमाह – यद्वेति । धीर्हि जनयित्री चिकीर्षाया विषयं नियच्छेत्; साऽपि तादृशी यत्नस्य । इह तु जनकत्वाभावान्न ततस्तद्विषयनियमः, सामानाधिकरण्यमात्रात्तन्नियमे जीवेश्वरगुणान्तराणामपि सविषयत्वप्रसङ्ग इति भावः ॥ १८ ॥

3.164     निश्वासादिप्रयत्नक्रम इह भवतां जीव एवास्त्वदृष्टै-

र्यद्वा तैरेव सर्वं घटत इति भवेत्तत्कृता सिद्धसाध्यम् ।

कॢप्तावन्यस्य कर्तृद्वयमुपनमति त्वत्सपक्षे तथा स्यात्

पक्षेऽपीत्यव्यवस्था यदि विफलतया त्यक्तिराद्येऽपि सा स्यात् ॥ १९ ॥

अस्तु नित्ययत्नवानीश्वरोऽनुमेयः संप्लवाभ्युपगमादवशिष्टमागमिकं स्यादित्यत्राह -निश्वासेति ॥ जीवनपूर्वकप्रयत्नन्यायाददृष्टविशेषजनितयत्नवद्भिर्जीवैः क्षित्यादेः सकर्तृकत्वसंभवे किं नित्ययत्नतदाधारकल्पनागौरवेण? यादृशैरेवादृष्टैः शरीरादिनिरपेक्षैस्सहकृत ईश्वरस्स्रष्टेति मन्यसे, तादृशैरेव तत्फलभोक्तृष्वेव यत्नकॢप्तेर्लघुत्वात् । एतेन मनःकरणकागन्तुकज्ञानादिमानीश्वर इति मतान्तरमपि निरस्तम्, तत्रापि देहादिनिरपेक्षमनःप्रवृत्तिकॢप्तेर्गुरुत्वात् । अथवा कल्पनीये हि यत्ने सर्वमिदं चिन्त्यं, तत्कल्पनैव न युक्तेत्याह – यद्वेति । व्यवस्थापकैरदृष्टैरेव यत्नादिनिरपेक्षैरित्यर्थः । सर्वं – द्व्यणुकादि पर्वतादि च । घटते – उत्पत्तुमर्हति; एतेनानुमानस्य किमायातमित्यत्राह – भवेदिति । तत्कृता – चोदितमनुतिष्ठता । तत एव फलद्वारस्तादृष्टकर्त्रा जीवेनेत्यर्थः । न च क्रियाहेतुगुणेष्वन्यतमेन कार्यसंभवे तत्र गुणान्तरमपि हेतुतया कल्प्यम्; अदृष्टस्य च सर्वकार्यनिमित्तत्वेऽपि विशेषतः क्वचित् क्रियाहेतुगुणत्वं ब्रूथ ‘अग्नेरूर्द्ध्वज्वलनं वायोस्तिर्यक् – पवनमणुमनसोश्चाद्यं कर्मेत्यदृष्टकारितानीति, तत्कस्य हेतोः? नूनं क्रियाहेतुगुणान्तरनिवृत्त्यै स्यात् । एवं सति यत्रादृष्ट – प्रागल्भ्यम्, तत्र मुधा तत्पूर्वक्षणवर्तिज्ञानचिकीर्षाप्रयत्नकॢप्तिः, प्राचीनैरेव तैर्जीवस्य तत्कर्तृत्वोपपत्तेः । अन्यथा शराभिचारकृष्यादिप्रयोगे वेधपीडादिकर्तृत्वं प्रयीक्तुर्न स्यात् । मा भूदिति चेन्न, लौकिकवैदिकचित्तविसंवादात् । नन्वदृष्टमचेतनं चेतनानधिष्ठितं कथं प्रवर्तेत? इत्थम् -स्वकारणोपनीतसहकारिसंपन्नतातिरिक्ततत्प्रवृत्त्यभावात्कारणानामपि तत्तत्कारणोपनेयत्वात् । तान्यप्यचेतनानि चेतनाधिष्ठेयानीति चेन्न, ईश्वरप्रयत्ने तदभावात् । चैतन्यायोगव्यवच्छेत्वन्निष्ठतामात्रेण तस्यापि तदधिष्ठितत्वमिति चेन्न, तावतोऽधिष्ठानशब्दार्थतया कैश्चिदप्यनङ्गीकारात् । मयैवमङ्गीकृतमिति चेत्, अन्यैरपि तर्हि चैतन्यात्यन्तायोगव्यवच्छेदवन्निष्ठत्वमेव चेतनाधिष्ठितत्वमदृष्टानामित्यङ्गीक्रियेत । ईश्वरधीविशेषमदृष्टमिच्छता त्वया नैवमङ्गीकार्यमिति चेन्न, तथाविधादृष्टे त्वयाऽपि चेतनाधिष्ठेयत्वस्यासाध्यत्वात् । त्वन्मतेऽपि कारणवर्गानुप्रवेशिनो नित्यस्येश्वरज्ञानस्याचेतनस्य चेतनाधिगतत्वकल्पने तादृशचेतनान्तरकॢप्तिप्रसङ्गः । श्लो. ईश्वराकूतभेदं च श्रौतादृष्टं यदीच्छसि । नृगुणापूर्वकॢप्तिस्ते निष्फलैव तदा भवेत् ॥ नन्वीश्वरप्रयत्नादेरसिद्धौ न त्वयाऽत्र व्यभिचार उदाहार्यः । तत्सिद्धौ तद्व्यतिरिक्ताचेतनेषु चेतनाधिष्ठाननियमसिद्धिरिति चेदन्येषामपि तर्ह्यदृष्टादिव्यतिरिक्तविषये तन्नियमः स्यात् । अतोऽदृष्टवद्भिर्जीवैरेव जगदुपत्तिसिद्धिरिति सिद्धसाधनता दुर्वारा । जीवातिरिक्तकर्तृकल्पनेऽनिष्टं प्रसञ्जयति – कॢप्ताविति । एककर्तृकतया प्रसिद्धे सपक्षे कर्तृद्वयं स्यात्, अनेककर्तृकेऽपि संप्रतिपन्नातिरिक्तकर्तृकत्वम् । कल्प्यमानो हि न केवलं क्षित्यादिमात्रकर्तृत्वेन कल्प्यते, तत्प्रयत्नस्य परिच्छेदकाभावेन सर्वविषयत्वात् । ततः किमित्यत्राह – तथेति । अयं भावः – क्षित्यादिकर्तरि साध्यमाने विश्वकर्त्रा तेन घटादेर्द्विकर्तृकत्वमायातम्, ततस्तद्दृष्टान्तेन पक्षस्य द्विकर्तृस्त्वमापतेत्; ततस्सपक्षस्य त्रिकर्तृकत्वं स्यात्; एवं क्रमेणोपर्युपरि कॢप्तावनन्तेश्वरापत्त्या ‘द्यावापृथिवी जनयन् देव एकः’, ‘एकश्शास्ता न द्वितीय’ इति व्यवस्था भज्येतेति । अत्र परोक्तं कल्पनागौरवं शङ्कते – यदीति । एकेनेश्वरेण विश्वकार्यसिद्धौ द्वितीयकॢप्तेर्निष्फलत्वात् तत्परित्याग इति । तत्र गौरवभिया त्याग एकस्मिन्नपि स्यादित्याह – आद्येऽपीति । उक्तं हिं जीवैरेव कर्तृभिरदृष्टद्वारा सर्वकार्यं सिध्येदिति ॥ १९ ॥

3.165     साध्यो हेत्वादिवेदी मत इह कलया सर्वथा वा तवासौ

पूर्वत्रेशो न सिध्येन्न कथमपि भवेद्व्याप्तिसिद्धिः परत्र ।

पक्षस्पर्शाद्विशेषान्न खलु समधिकं पक्षधर्मत्वलभ्यं

कल्प्योऽन्यस्ते विशेषस्सुकृतविषमिता जीवशक्तिस्तु सिद्धा ॥ २० ॥

पुनरपि विकल्पमुखेनानिष्टमाह – साध्य इति । किमत्रोपादनादिज्ञानवन्मात्रं सिषाधयिषितम्, उतोपादानादिकृत्स्नगोचरज्ञानवानिति विकल्पः । तत्राद्यं दूषयति -पूर्वत्रेति । जानन्ति हि जीवा जगदुपादानं पृथिव्यादिद्रव्यम्, कुम्भाद्युपयोगिपरमाणुद्व्यणुकादिज्ञानाभावेऽपि कुम्भादिकर्तृत्वं सर्वानुमतम् । द्व्यणुकप्रभृतिजगदुपकरणं च यागादि जानन्त्येव जीवाः । तच्छक्तेर्द्वारस्य वा साक्षात्काराभावेऽपि कुम्भादिन्यायाद्यागादिप्रवृत्तिरिष्टा । संप्रदानं च भोक्तारं स्वात्मानमात्मीयान् वा प्रयोजनं चेष्टप्राप्तिमनिष्टनिवृत्तिं वा न हि ते न जानीयुः, अतस्तेषामेव क्षित्यादिकर्तृत्वमविरुद्धम्। उत्तरं दूषयति – न कथमपीति । न हि कुम्भादिसामग्र्यन्तर्गतं सर्वं कुम्भकारादयो जानन्ति । योगिनां स्वकार्यसामग्रीसाकल्यज्ञानमस्तीति चेत्, किमतः? योगसिद्धसार्वज्ञ्या अपि हि न कुतश्चित् कल्पयितुं शक्यन्ते; अतो न तत्कार्यैस्सपक्षसिद्धिः; आगमतस्सिद्धौ तु तद्वदीश्वरोऽपि तदनुविधेयस्सिद्ध इति नानुमेयं किञ्चित् । अस्तु व्याप्त्या कर्तृमात्रमुपस्थाप्यम्, पक्षधर्मताबलात् सार्वज्ञ्यादिविशेषसिद्धिरित्यत्राह – पक्षेति । व्याप्यस्य पक्षधर्मतया हि व्यापकस्य प्रागविदितो धर्मिविशेषसंबन्धस्सिध्येत् । न तु सदपि सपक्षदृष्टवैजात्यम्, अन्यथा धूमानुमिते वह्नौ तार्णतादिविशयविलोपप्रसङ्गात् । सपक्षदृष्टान्यतामात्रमपि नानुमेयनियतम्, जातिव्याप्यैर्जात्यनुमाने तदनभ्युपगमात् । अतो नात्र व्याप्यपक्षधर्मतया विवक्षितविशेषसिद्धिः । परिशेषात्तर्हि तत्सिद्धिरिति चेन्न, परिशेषानुमानमपि हि क्षित्यादिकं सामान्यतस्सिद्धं तत्कर्तारं वा पक्षीकृत्य स्यात्? आद्ये किञ्चिज्ज्ञकर्तृकत्वनिषेधो वा? स्वतस्सर्वज्ञकर्तृकत्वं वा साध्यम्? नाद्यः, तत्संभवस्य स्थापितत्वात् । न द्वितीयः; तद्धि कृत्स्नं कार्यं पक्षीकृत्य कार्यत्वलिङ्गेन वा साध्यम्? प्रढ्यपक्षमात्रनिष्ठेन वा केनचित्? पूर्वत्र किमन्वयिपुरस्कारेण, व्यतिरेकिण एवास्य युष्माभिः पृथगुपन्यासात् । अत एव कार्यविशेषतोऽपि सर्वज्ञानुमाने तेनैवालं किमन्वयिना कार्यलिङ्गेन? क्षित्यादिकर्तृपक्षीकारेण जीवासंभावितविशेषसाधनं तु दुश्शकम्, तादृशविशेषासंभवेऽपि जीवानामेव तत्कर्तृत्वस्य दर्शितत्वात्, तेषामेव तद्विरुद्धविशेषानुमानायोगाच्च । ननु धटादिकर्तृव्यावृत्तो विशेषः क्षित्यादिकर्तॄणां स्वीकार्यः; तदुत्पत्त्याऽऽसन्नपूर्वकाले तेषां तदनुगुणबुद्ध्यादिरहितत्वात् । अतो दृष्टविपरीतकॢप्त्यविशेषे किमीश्वरकॢलप्तिप्रद्वेषेणेत्यत्राह – कल्प्य इति । अयं भावः -निश्वासादावधीपूर्वयत्नेनापि कर्तृत्वं त्वयैष्टव्यम्, कालविप्रकृष्टबुद्ध्याऽपि कर्तृत्वमाभिचारिकपरपीडादौ लोकवेदसिद्धम् । कुम्भाद्युत्पत्तावपि कुम्भकारादेश्चक्रचीवरदण्डसूत्रादिव्यापारहेतुभूतस्वदेहादिव्यापारे ह्यव्यवहितप्रवृत्त्युपयोगः, नान्यथा; समवायिनिष्पत्तौ वयं दृष्टान्तानुरोधेन व्यवहितव्यापारादपि कर्तृत्वं ब्रूमः; भवद्भिस्त्वदृष्टचरमेव वैषम्यं कल्प्यत इति । अथ स्यात्, कुम्भादिकृदसंभावितो गोपुरादिकर्तृषु बुद्धिशक्तिप्रकर्षो दृष्टः; मनुष्यासंभावितश्च शकुन्तलूतादिजन्त्वन्तरेषु; मनुष्येषु च विश्वामित्रादिषु; एवं देवासुरसिद्धादिषु पितामहपर्यन्तेषु; इति स्थिते बुद्धिशक्तिप्रकर्षतारतम्यस्य क्वचिद्विश्रमाद्यत्रासौ स ईश्वरस्सेद्धुमर्हतीति तत्राह – सुकृतेति । कर्मभेदतन्त्रमेव तारतम्यं त्वया निदर्शितं जन्मौषधिमन्त्रतपःसमाधिजाश्च सर्वास्सिद्धयस्तत्तददृष्टेष्वायतन्ते । एवं सत्यदृष्टाधीनधीशक्तिप्रकर्षतारतम्यं कालभेदेन कर्मवश्येष्वेव केषुचिद्भवतु; न विश्रमस्थानान्तरं मृग्यमिति भावः ॥ २० ॥

3.166     कार्यं स्यात् कर्त्रभावेऽप्यवधिभिरितरैः कालवत्स ह्यसिद्धि-

स्ते चादृष्टप्रयुक्तास्तदपि यतनवत्स्यात्तु यत्नानपेक्षम् ।

एकत्यागेऽन्यहेतुत्यजनमिति च न ध्वंसवत्सावधित्वात्

तस्माद्धेतोरभावे न फलमिति गतिस्तद्विशेषे विशेषः ॥ २१ ॥

अथात्र परेष्टं विपक्षे बाधं दूषयति – कार्यमिति ॥ एवं हि मन्यते – कारणाभावे कार्याभाव उभयाभ्युपेतः; कारणान्तराणि च कर्त्रुपहितमर्यादानि कथं कर्त्रभावे व्याप्रियेरन्? अतः कार्यस्य सांख्यसौगतचार्वाकवर्तन्या नित्यत्वमसत्त्वमाकस्मिकत्वं वा स्यादिति । तत्रेदमुत्तरम् – कार्यमिति । अयं प्रतिविधिः – कारणाभावे कार्यं न स्यान्न तु कारणविशेषाभावे; अन्यथा क्वचिद् दृष्टस्य कर्मकारकादेरभावेऽपि क्रियानुत्पत्तिप्रसङ्गात्; अतः कर्त्रभावेऽपि कारणान्तरैः कार्यसिद्ध्युपपत्तिरिति । ननु कालो यथा सर्वकार्यनिमित्तं तथेश्वरोऽपि; तत्परित्यागे समानन्यायः कालोऽपि त्यज्यतामित्यत्राह – कालवदिति । कालोऽप्युपाधिविशेषातिरिक्तो न वेति यथामतमस्तु; स तावल्लोकशास्त्रसिद्धः, कालप्रतीक्षया कर्षकादिप्रवृत्तेः, काले कर्मचोदनात्, शुभाशुभकालविभागे च कस्यचिद्वेदाङ्गस्य व्यापारात् । नन्ववधीनामप्यचेतनानां चेतनानधिष्ठितत्वे प्रवृत्तिर्न स्यादित्यत्राह – ते चेति । अदृष्टप्रेरितानामेव प्रवृत्त्युपपत्तौ किं तत्र प्रयत्नगवेषणेन? अदृष्टस्याप्यचेतनस्य प्रवृत्तौ चेतनाधिष्ठानमपेक्षितमित्यत्राहं-तदपीति । ईश्वरप्रयत्नो ह्यचेतनोऽपि जगत्सृष्टौ न प्रयोजकप्रयत्नाधिष्ठितः; न च कुम्भारम्भ इव जीवप्रयत्नसहकृतः; अतस्तत्र व्याप्तिसङ्कोचावश्यंभावादत्रादृष्टेऽपि क्वचित्सङ्कोचः स्यात्; अन्यथा गौरवात् । ईश्वरप्रयत्नस्य नित्यत्वात् प्रयत्नानधिष्ठितत्वमिति चेन्न, नित्यानामपि परमाण्वादीनां तदपेक्षाङ्गीकारात् । अन्यत्रान्वयव्यतिरेकनियमवतामन्यतमस्य त्यागे सर्वहेतुत्यागोऽपि स्यादिति शङ्कते – एकेति । सर्वहेतुत्यागे कादाचित्कत्वविरोधं प्रकृते तदभावं चाभिप्रेत्याह – नेति । प्रतिबन्दिं सूचयन् अन्यहेत्वपरित्यागे हेतुमाह – ध्वंसवदिति । ध्वंसो ह्यभूत्वा भवन् हेतुमपेक्षमाणस्समवाय्यसमवायिनोरसंभावान्निमित्तमात्रनिष्पाद्यस्त्वया स्वीकृतः, तथा पक्षेऽपि जीवातिरिक्तस्य कर्तुः कल्पयितुमशक्यत्वात् कथंचिज्जीवकर्तृकत्वं कर्तृनिरपेक्षत्वं वा स्वीक्रियतामिति भावः । विपक्षे बाधकाभावं निगमयति – तस्मादिति । हेत्वभावे कार्यं न स्यात्, न तु कार्यमात्रानपेक्षितहेतुविशेषाभावे; तत्र तु कार्यविशेषनिवृत्तिर्वा, यथा कल्मबीजाभावे कल्माङ्कुरस्य । ‘हेत्वभावे फलाभावो विशेषस्तु विशेषवानि’ति न्यायात् । अथवा कारणान्तरैरेव कार्यसिद्धिः यथा प्रध्वंसस्येति विशेषः ॥ २१ ॥

3.167     धर्मो यावत्सपक्षानुगत उपधिरित्यभ्युपेतस्त्वयाऽपि

त्यागे तस्यात्र तद्वच्छिथिलितनियमाः क्वापि नोपाधयः स्युः ।

तादृग्धर्मात्ययाच्च प्रकरणसमता स्यान्न चातिप्रसङ्गः

पक्षादिस्थित्यबाधान्निरुपधिकतया स्यात्परात्मानुमा तु ॥ २२ ॥

सोपाधिकत्वमपि दर्शयितुमाह – धर्म इति ॥ यावत्सपक्षानुगतः – पक्षे विपक्षे चावर्तमानस्सपक्षाभिव्याप्त इत्यर्थः । अस्ति चात्र तादृशो धर्मः शरीरजन्यत्वम् । यद्यप्यसौ पक्षीकृते शरीरगुणादिविशेषे वर्तते, तथाऽपि साधनव्यापकत्वाभावात् स्वनिवृत्त्या साध्यनिवर्तनशक्तेश्चोपाधिः स्यादेव । तादृशस्य धर्मस्यात्रोपाधित्वानङ्गीकारेऽतिप्रसङ्गमाह – त्याग इति । न हि निषिद्धत्वादीनामेतस्य च विशेषोऽस्ति, येन त एव तत्रतत्रोपाधयः स्युः, नासावत्रेति नियम्येत । एवं सोपाधिकत्वे मतभेदेन व्याप्यत्वासिद्धिः, व्यापकनिवृत्त्या व्याप्यनिवृत्तिर्वा स्यादिति भावः । शरीराजन्यत्वसमबलत्वाभिमाने प्रतिरोधमाह – तादृगिति । ननूपाधौ प्रतिसाधने च शरीरोपादानं व्यर्थम्; आत्मादिषु जन्यत्वनिवृत्तिमात्रेण सकर्तृकत्वनिवृत्तावुपपन्नायां विशिष्टनिवृत्त्यनपेक्षणात् । अतो निरुपाधिकं निष्प्रतिसाधनं च विश्वकृदनुमानम् । मैवम्; क्षित्यादिकं सकर्तृकमित्यत्र न हि कर्तृसंबन्धमात्रं साध्यम्, सिद्धसाधनत्वात्; सन्ति हि त्वत्पक्षे कुम्भादिकर्तारश्चेतनाः स्वरूपतस्सर्वत्र संबद्धाश्च तैः क्षित्यादयः; अस्मत्पक्षेऽपि – ‘अङ्गुलस्याष्टभागोऽपि न सोऽस्ति द्विजसत्तम । न सन्ति प्राणिनो यत्र कर्मबन्धनिबन्धनाः ॥’ दारुण्यग्निर्यथा तैलं तिले तद्वत्पुमानपि । इत्यादिभिस्सर्वमचेतनं पुण्यपापकर्तृचेतनमिश्रम्; अतस्सकर्तृकमिति चेतनव्यापारपूर्वकत्वं साध्यम् । तत्र व्यापारपूर्वकत्वनिवृत्तिमात्रेण कादाचित्कत्वनिवृत्त्युपपत्तौ तद्विशेषणवैयर्थ्यं स्यात् । व्याप्त्युपयोगाभावेऽपि सिद्धसाधनत्वनिवृत्त्यै तदुपादानमिति चेत्तर्हि शरीराजन्यत्वेऽप्यसिद्धिपरिहारे विशेषणं समर्थमाशङ्क्य एकामसिद्धिं परिहरतो द्वितीयापत्तेरित्युक्तं वितथं स्यात् । ननु ज्ञानादित्रिकवान् कर्ता, तत्पूर्वकत्वे साध्ये व्यापारगर्भतया न पृथग्व्यापारपदोपादानं येन विशेषणवैयर्थ्यापत्तिरिति चेन्न, अन्यतमनिवृत्तिमात्रेण कार्यत्वनिवृत्तपपत्तौ त्रिकोपादानवैयर्थ्यात् । अन्यतमसाधने त्वदिष्टमसाधितं स्यात् । शेषं शास्त्रतः सेत्स्यतीति चेन्न; कार्यत्वनिवृत्तेर्हेतुपूर्वकत्वनिवृत्तिप्रयुक्ततया प्रयत्नादिनिवृत्तेरप्रयोजकतापातात् । तदिह तत्तद्विशेषव्यतिरेकस्यापि व्याप्तिनिवेशाङ्गीकारे शरीरजन्यत्वव्यतिरेकेऽपि न वैयर्थ्यं वाच्यमिति । नन्वेवमदृष्टचरसौधादिदर्शने सावयवत्वात् कार्यत्वमनुमाय तत एव तदुक्तिकर्तृमत्त्वानुमानं कुलालादिपूर्वकत्वनिवृत्त्या बाध्येत प्रतिरुध्येत वेति मन्दशङ्कां वारयति – चेति । व्याप्ति तदभावाभ्यां विशेषादिति शेषः । यद्यव्यापकधर्मस्य निवर्त्यतया प्रत्यवस्थीयेत, तदा सर्वत्र तस्याः सुलभत्वात् क्वचिदप्यनुमाने पक्षो न स्यात् । साध्यवत्तया वर्ण्यमानो हि पक्षः । तदभावे तत्सापेक्षौ सपक्षविपक्षावपि न स्याताम्; ततोऽनुमानकथैवोत्सीदेत् । प्रस्तुतेऽपि नैवं प्रसङ्गः, तद्व्याप्तेरुक्तत्वादित्यभिप्रायेणाह – पक्षादीति । यद्वा, शरीरजन्यत्वमुपाधिरित्यत्र पक्षव्यवच्छेदार्थं हि विशेषणम्, तथा सति पक्षेतरत्वमप्युपाधिः स्यादित्यत्रोक्तं – न चेति । नात्र पक्षान्यत्वेऽतिप्रसङ्गः, उपाधेस्साध्यसमव्याप्तिस्वीकारपक्षे अन्वयव्यतिरेकिणि पक्षेतरत्वस्य साध्यातिव्याप्तत्वात्, केवलान्वयिनि साध्यसमव्याप्तत्वेऽपि पक्षेतरत्वान्यत्वेनाप्युपाधेर्विशेषणात्; अन्यथाऽनुमानोच्छेदप्रसङ्गात् । इयमेव साध्यव्यापित्वमात्रमुपाधेरपेक्षितमिति पक्षेऽपि गतिः । ईदृशं चेदं शरीरजन्यत्वमिहोपाधिः स्यादेवेति । पक्षेतरत्वे तूपाधौ पूर्ववदेव पक्षादिव्यवस्था भज्येत, इह तु न तथेत्याह – पक्षादीति । ईश्वरानुमानाभावे तद्वत्स्वेतरात्मानुमानमपि न स्यात्, स्वात्मसाध्येष्वेव व्याप्तिनियमप्रसक्तेरित्यत्राह – निरुपधिकतयेति । यदि परशरीरस्थलिङ्गैः कर्तुर्भोक्तुश्चानुमाने स्वशरीरस्थतया स्वकर्तृकतया वा व्याप्तिरवच्छिद्येत, तदा हृदयविसंवादः; चेतनान्तरानुमानाभावे व्युत्पत्तिरेव न स्यात्; कुतश्शिष्याचार्यवादिप्रतिवादिशत्रुमित्रादिसंव्यवहारः? श्लो. नच स्वेनान्यदेहादेरधिष्ठानादिसंभवः । सौभरिन्यायतस्तत्तत्प्रतिसन्धिप्रसङ्गतः ॥ न च स्वान्यानुमानेऽपि विजातीयत्वकल्पना । निरुपाधिस्ता तत्र भवेदनुमितेस्ततः ॥ तुशब्दः कल्पनागौरवनिवृत्त्यर्थः, उक्तबाधकतर्कसूचनार्थो वा । किंच – श्लो. परदेहस्थलिङ्गानामन्यथासिद्धिकल्पने । स्वदेहेऽपि तथैवेति नैरात्म्यमवशिष्यते ॥ आगमादात्मनां सिद्धावीश्वरस्य तु किं पुनः । परात्मनिश्चयाभावे त्वागमोऽपि न सेत्स्यति ॥ २२ ॥

3.168     सर्वस्यावीतहेतोरपि च निरसनं द्रक्ष्यसि स्वप्रसङ्गे

श्रुत्याऽत्र व्याप्तिसिद्धावलमनुमितिभिर्निष्फलस्संप्लवोऽपि ।

तस्मादुल्लोकभूमा स कथमनुमया विश्वकर्ता प्रसिध्ये-

च्छास्त्रानुक्तत्वबाधद्वयपरिहृतये शास्त्रयोनित्वसूत्रम् ॥ २३ ॥

अथ स्यात् – अन्वयिनि हेतौ यावत्सपक्षान्वयिधर्मसंभवेन सोपाधिकता शङ्क्येत, केवलव्यतिरेकिणि तु सपक्षाभावान्न तच्छङ्केति, अत आह – सर्वस्येति । स्वप्रसङ्गे -हेतुचिन्तावसरे । अयं भावः – व्यर्थविशेषणत्वमर्थान्तरत्वं च केवलव्यतिरेकिणां सर्वेषां द्योत्यते । तथाहि; सर्वं कार्यं सर्ववित्कर्तृपूर्वकं कादाचित्कत्वादित्यत्र व्यतिरेके कर्तृपूर्वत्वनिवृत्त्यैव कादाचित्कत्वनिवृत्तावुपपन्नायां किं सर्वविद्विशेषणेन? सिद्धसाधनत्वनिवृत्त्यै तद्ग्रह इति चेन्न; शरीराजन्यत्वहेतावसिद्धिपरिहारे विशेषणं समर्थमिति वदन्तं प्रति एकामसिद्धिं परिहरतो द्वितीयापत्तेरिति युष्मदुक्तस्यात्र दुर्वारत्वात् । तर्हि कर्तृपदं हित्वा सर्ववित्पूर्वकमित्येतावदुक्तौ न वैयर्थ्यमिति चेत्, तथाऽपि वित्पूर्वकत्वनिवृत्त्या व्याप्तिसिद्धौ सर्वविशेषणवैयर्थ्यमेव । एवं नित्यज्ञानपूर्वकत्वादिनिर्देशेऽपि द्रष्टव्यम् । न च विशेषणेऽपि सिद्धसाधनतापरिहारः, सर्वेषां चेतनानां सर्वशब्दार्थवेदिनामसर्ववित्त्वायोगात्; अन्यथा सर्ववित्साधनस्यापि दुश्शकत्वात् । विशेषतस्सर्वं न सर्वे विजानन्तीति चेन्न; विशेषाणामपि सर्वशब्दसंग्रहात् । सर्वसाक्षात्कर्तृपूर्वकत्वं साधयाम इति चेन्न; योगिभिरर्थान्तरतापातात् । नित्यसाक्षात्कारिपूर्वकत्वं साध्यमिति चेत्, एवमपि व्याप्तौ नित्यविशेषणवैयर्थ्यमेव । अन्यतो विशेषणसाफल्ये शरीराजन्यत्वेऽपि साफल्यं सिध्येदेव । वेदास्सर्वज्ञप्रणीताः वेदत्वादित्यत्राप्येवमर्थान्तरत्वविशेषणवैयर्थ्ये बोद्धव्ये, प्रणीतत्वनिवृत्तिमात्रेण सर्वज्ञप्रणीतत्वनिवृत्तिमात्रेण वा व्याप्तिग्रहोपपत्तेः । अपि च केवलव्यतिरेकिणस्सपक्षे सत्याभासत्वं संगिरध्वे । सन्ति चानन्तानि सर्वज्ञप्रणीतानि वेदेतरवाक्यानि भारतादिमध्यपातीनि स्मृतितन्त्ररूपाणि, कल्पादिषु लोकवेदसंव्यवहारप्रवर्त्तनौपयिकानि च । न च तेषु वेदत्वम्, प्रसिद्धिविरोधात्, अवेदत्वेनैव महर्षिंपभृतिभिर्व्यपदेशाच्च । अतस्तेषां न वेदत्वेन पक्षीकरणं शक्यम् । संग्राहकान्तरं च दुर्वचम्, जीवप्रणीतेतरवाक्यत्वमीश्वरप्रोक्तत्वं वा नान्यतस्तिद्धम् । इत एव तत्साधनेऽन्योन्याश्रयः; तदिह तेषां पक्षीकारे तदभावे वा वेदत्वहेतुस्तेष्वसिध्यन् हेत्वाभास[कक्षां]त्वं नातिक्रामेत् । एवं वक्ष्यमाणैश्च वेदनित्यत्वसाधकैर्बाधाऽप्यत्र मन्तव्यः । एवं घटः सर्वज्ञकर्तृकः घटत्वं, यजुस्सर्वज्ञप्रणीतं यजुष्ट्वादित्यादिविशेषपक्षीकरेण प्रयोगाश्च निरस्ता वेदितव्याः । ननु कार्याणां सर्वेषां सर्वज्ञपूर्वकत्वव्याप्तिः श्रुत्या सिध्यति । अविदितनिगमवृत्तान्तानां नालिकेरद्वीपवासिनामिव वह्नौ महेश्वरे मा भूदनुमानम्, अन्येषां तु तत्प्रवृत्तिसंभव इत्यत्राह – श्रुत्येति । व्याप्तिग्राहकेणैव साध्यसिद्धौ किमत्रानुसितिसाध्यमित्यर्थः । संप्लववादे सिद्धेऽपि मानान्तरस्य प्रवृत्तिः स्यादित्यत्राह – निष्फल इति । मानान्तरसिद्धे वस्तुन्याकारान्तरसमर्पणे हि संप्लवश्शोभेत । अन्यथा सिद्धसाधनत्वं वा, सर्वत्र सिद्धसाधनत्वदोषोच्छेदो वा स्यादिति भावः । अत्र – ‘कार्यायोजनधृत्यादेः पदात्प्रत्ययतः श्रुतेः । वाक्यात्संख्याविशेषाच्च साध्यो विश्वविदव्ययः ॥’ इति न्यायाचार्यसंगृहीतानां सर्वेषां हेतूनां स्थालीपुलाकन्यायेन निरस्तप्रायत्वं निगमनव्याजेन नियमयति – तस्मादिति । नन्वनिरस्तेऽपि जगत्कर्तुरनुमाने परतत्त्वपरमहितपरमपुरुषार्थेषु शारीरकं निष्प्रतिघातम् । अतः किमत्र तन्निरासप्रयासेनेत्यत्राह – शास्त्रेति । यदि जगत्कर्तुरनुमानं न प्रतिषिध्येत तदा मतान्तरप्रामाण्यव्यवसायिनः कस्यचित्’ ‘इदं सर्वमसृजत’, ‘यतो वा इमानि भूतानि जायन्त’ इत्यादिवाक्यानामनुमानसिद्धानुवादित्वं मन्यमानस्य जगत्कर्तृवादिवाक्यानामनुमानविरुद्धोपस्थापकत्वे मूलघातित्वात्, तत्सिद्धमात्रबोधने नैरपेक्ष्यात्, सिद्धांशेऽनुमानानाघ्रातासंभवाच्च, सिद्धपरवाक्यविमर्शो न कार्य इति मोहः स्यात्; अतस्तदनुजिघृक्षयाऽनुमानं निरसनीयम् । किञ्च विश्वकर्तुरनुमेयत्वं मन्यमानस्य तत्तद्वादिकल्पितैर्हेतुभिर्बाधद्वयमाद्येत; ‘ब्रह्मण आनन्द’ इत्याद्युक्तप्रामाणिकत्यागात्, अप्रासणिकायथापूर्ववेदकल्पनस्वोकाराच्च । यद्वा प्रागुक्ताभ्यां प्रतिप्रमाणतर्काभ्यां बाधद्वयम् । अथवा अनुमितेस्सोपाधिकत्वादिकारणदोषात् साक्षादकर्तृकत्वानुमानेन साध्यप्रतिषेधाच्च । अपि वा विश्वकर्तर्यनुमानं प्रवर्तमानं स्वयं तावन्नित्यप्रयत्नं समानन्यायतया स्वोपस्थापितानुमानेन नित्यशरीरादिरहितत्वं चोपस्थाप्यागमविषयमपहरेत् । श्लो. तस्मादेवं – विधानेकबाधशङ्कापनुत्तये । नित्यनिर्दोषशास्त्रैकवेद्यत्वमिह सूचितम् ॥ शब्दप्रमाणके तस्मिन् यथाशब्दं व्यवस्थितिः । सर्वैरनतिलङ्घ्येति न शङ्कातङ्कसंभवः ॥ नन्वीश्वरानुमानदूषणे ‘विद्याचोरो गुरुद्रोही वेदेश्वरविदूषकः । त एते बहुपाप्मानस्सद्यो दण्ड्या इति श्रुतिः ॥’ इति शास्त्रविरोधः स्यादिति चेन्न; अनुमानदूषणेऽप्यागमात् तत्सिद्धेः । अन्यथाऽस्मदादिप्रत्यक्षवेद्यत्वनिषेधेन तवापि तद्दूषकत्वप्रसङ्गः ‘आगमेनानुमानेन ध्यानाभ्यास[रसेन]वशेन च । त्रिधा प्रकल्पयन्प्रज्ञां लभते योगमुत्तमम् ॥’ इत्याप्तोक्तिः कथम्? इत्थम् – श्रवणमननध्यानानां योगहेतुत्वस्य विवक्षितत्वात् । मननं चात्रानुग्राहकयुक्तिभिः स्थिरोकरणम्; तदेवात्र श्रवणानन्तरभावितयाऽनुमानशब्देन ग्रहीतुमुचितम्; अनुग्राहकयुक्तय एव वा, ‘यस्तर्केणानुसन्धत्त इति स्मरणात् । तर्कानुमानयोरदूरविप्रकर्षात्समाख्याविपर्यासश्च दृष्ट इति ॥ २३ ॥ इति ईश्वरानुमानभङ्गः ॥

3.169     प्राज्ञाधिष्ठानशून्यं न तु परिणमितुं शक्तमव्यक्ततत्त्वं

वास्यादौ व्याप्तिसिद्धेरिति यदभिहितं सांख्यसिद्धान्तभङ्गे ।

सोऽपि प्राज्ञव्युदासेऽप्यनुमितिशरणान् प्रत्युपात्तः प्रसङ्गो

नेष्टे तत्सिद्ध्यसिद्धयोरनुमितिरिति खल्वाशयस्सूत्रकर्तुः ॥ २४ ॥

तथाऽपि सांख्याधिकरणविरोधः स्यात्; तत्र हि परोक्तानां पक्षदृष्टान्तभूतानामचेतनानां संप्रतिपन्नवत् प्राज्ञाधिष्ठितत्वं सूत्रभाष्याभ्यां साध्यते; अतश्शास्त्रयोनित्वसूत्रमन्यपरं नेतव्यमिति शङ्कायां तावद्विरुद्धोक्तिमनुवदति – प्राज्ञेति ॥ तात्पर्यवृत्त्या विरोधं शमयति – सोऽपीति । तात्पर्यभेदं विवृणोति – नेति । प्राज्ञानधिष्ठितत्वमनुमातुं न शक्यमिति सांख्याधिकरणतात्पर्यम् । शास्त्रयोन्यधिकरणस्य त्वधिष्ठितत्वं नानुमातुं शक्यमिति । अतस्साधकबाधकाभावे शास्त्रं निरङ्कुशप्रसरमिति सूत्रकाराभिप्राय एव भाष्ये दर्शित इति ॥ २४ ॥ इति शास्त्रयोन्यधिकरणसांख्याधिकरणविरोधपरिहारः ॥

3.170     अस्यैवाचिन्त्यशक्तेरखिलजनयितुस्स्यादुपादानभाव-

स्सूक्ष्माव्यक्तादिदेहः परिणमति यतोऽनेकधा स्थूलवृत्त्या ।

निष्कृष्टेऽस्मिन् शरीरिण्य[खि]मलगुणगणालङ्कृतानन्दरूपे

संपद्यन्ते समस्तास्समुचितगतयो निर्विकारादिवादाः ॥ २५ ॥

श्रुतिसिद्धस्य विश्वकर्तुः श्रौतमुपादानत्वमपि प्रस्तौति – अस्येति ॥ अखिलजनयितुरस्यैवेति विरोधशङ्कासूचनम्; अचिन्त्यशक्तेरिति परिहारनिदानगर्भम् । विकारापुरुषार्थनिषेधकशास्त्रविरोधशान्त्यै सर्वोपादानत्वं बालयुवपरिणतिवत् सद्वारकमित्याह – सूक्ष्मेति । सूक्ष्मस्थूलत्वोक्तिर्हेतुकार्यभावघटनार्था । अनेकधेत्युक्त्या -‘तम एकीभवतीत्यादिप्रसिद्धप्राच्यावस्थातो वैषम्यं व्यज्यते । उपादानतया विकाराद्याश्रयस्य कथं तदभावोपदेश इत्यत्राह – निष्कृष्ट इति ॥ २५ ॥

3.171     कर्तोपादानमेव खसुखमुखगुणे स्वप्रयत्नप्रसूते

संयोगं स्वस्य मूर्तैस्स्वयमुपजनयन्नीश्वरोऽप्येवमिष्टः ।

सर्वोपादानभावस्तत इह घटते सर्वकर्तर्यमुष्मिन्

सर्वश्रुत्यैकरस्यप्रणयिभिरुचितं द्वारमत्राभ्युपेतम् ॥ २६ ॥

ननु यद्यस्य निमित्तं न तत्तस्योपादानमिति स्थिते साक्षात्सद्वारकं वा कथमुपादानत्वमित्यत्र परप्रक्रिययैव विरोधं परिहरति – कर्तेति ॥ जीवस्तावत्तैस्तैरुपायैः स्वसुखादीनुत्पादयति, तेषां समवायिकारणं च भवतीति मन्यसे; तावदेव च निमित्तोपादानत्वम् । ईश्वरेऽपि तदुभयं क्वचिदङ्गीकरोषीत्याह – संयोगमिति । नचात्रोपादानत्वं भाक्तम्; विपरिवर्तस्य सुवचत्वात् । अतः प्रकृत्यधिकरणसाधितं न प्रतिक्षेप्तु शक्यमित्याह – सर्वेति । तर्हि – ‘सोऽकामयत’ ‘तदात्मानं स्वयमकुरुत’ इत्यादिकं स्वरूपपरिणामवादिब्रह्मदत्तभास्करादिमतभेदैरव्यवहितमेव किं न निरुह्यत इत्यत्राह – सर्वश्रुतीति । अन्यथा जीवानां प्रतिकल्पमुत्पत्तिप्रलयौ स्याताम्; अकृताभ्यागमः कृतविप्रणाशो विषमसृष्ट्यादिभङ्गश्च भवेयुः । ब्रह्मणस्तदंशस्य वा सर्वेश्वरस्य ‘बहु स्यामि’ति सङ्कल्पयतोऽनादिजीवद्वारा क्लेशाद्यन्वयः । त्रिगुणांशद्वारा विकारान्वय इति पक्षेऽपि सर्वदोषाकरत्वं विरुद्धधर्माध्यासश्च दुस्त्यजः । अतश्चिदचिच्छरीरद्वारा बहुभवनादिकमिति कृत्स्नविद्भिर्न्निरुह्यत इति ॥ २६ ॥ इति ईश्वरस्य जगन्निमित्तोपादानत्वोपपत्तिः ॥

3.172     साविद्यं केऽपि सोपाधिकमथ कतिचिच्छक्तिभिर्जुष्टमन्ये

स्वीकृत्यैकाद्वितीयश्रुतिमपि जगदुस्तद्विशिष्टैक्यनिष्ठाम् ।

नित्यत्वं विग्रहत्वं प्रकृतिपुरुषयोर्हेतुतां विश्वकर्तु-

स्तद्वैशिष्ट्यं च शास्त्रप्रथितमजहतां कोऽपराधोऽतिरिक्तः ॥ २७ ॥

एवं वैशिष्ट्यादुपादानमपि कर्तैव । अन्यैरपि त्रय्यन्तवादिभिर्यत्किंचिद्वैशिष्ट्यमङ्गीकृतमित्याह – साविद्यमिति ॥ अद्वैतव्याख्यायिनः खल्वाहुः – ‘अनिर्वाच्याऽविद्या द्वितयसचिवस्य प्रभवतो विवर्ता यस्यैते वियदखिलतेजोबवनयः ॥’ इति । भास्करीयास्तु – चिदचिदंशविभक्तं ब्रह्मद्रव्यमचिदंशेन विक्रियते, तद्विकारोपहितेन चिदंशेन संसरतीति । यादवप्रकशीयास्तु – सर्वात्मकं सद्रूपं व्रह्म चिदचिदीश्वररूपांशत्रयशक्तिविशिष्टं समुद्र इव फेनबुद्बुदतरङ्गप्रभेदेन सावान्तरभेदत्रिविधव्यष्टिभावेन परिणमते इति । एवमद्वितीयश्रुत्यविरुद्धान्यविद्योपाधिशक्तिरूपविशेषणानि चेद्विचित्रचिदचिदुपादानतोपयोगीनि स्वीक्रियन्ते, तदा श्रुतिस्मृतिशतसिद्धस्वरूपविशेषणाभ्युपगमे कः प्रद्वेषः? स्वपक्षस्य प्रमाणतस्सिद्धिं विरोधाभावादौचित्यातिशयं च प्रपञ्चयति – नित्यत्वमिति । कोऽपराधोऽतिरिक्त इत्यनेन विशेषणपरिग्रहमात्रमपराधश्चेत् सर्वेषामपि समानदोषत्वम्, अतिरिक्तापराधोऽपि तेषामेवेति व्यज्यते ॥ २७ ॥ इति जगत्कारणवैशिष्ट्यावश्यंभावः ॥

3.173     ब्रह्मोपात्तान् विकारान् कतिचिदभिदधुश्चेतनाचेतनेशा-

न्नैतद्युक्तं यदीशादनधिकमनघं निर्विकारं श्रुतं तत् ।

भिन्नाया ब्रह्मशक्तेर्विकृतय इति चेद् ब्रह्मजन्यत्वभङ्गो

भेदाभेदोपपाद्यं सकलमिति मते सप्तभङ्गी न दूष्या ॥ २८ ॥

नन्वेकविज्ञानेन सर्वविज्ञानं प्रतिज्ञाय मृत्तत्कार्यदृष्टान्तैस्तदुपपादनात् ‘ईश्वराव्याकृतप्राणैर्विराट्सिन्धुरिवोर्मिभिः । यत्प्रनृत्यदिवाभाति तस्मै सद्ब्रह्मणे नमः ॥ इति कात्यायनकारिकया च सद्ब्रह्मोदन्वदूर्मिभेदाश्चिदचिदीश्वरा इति निर्धार्यते, तदेतदनुवक्ति – ब्रह्मेति ॥ अत्र प्रतिज्ञाया अनन्यथासिद्धबहुश्रुत्यविरोधाद्विशिष्टैकानेकविषयविज्ञानार्थत्वात् दृष्टान्तानामप्युपादानोपादेयैक्यसंभवार्थत्वादृषिवचनस्यापि ‘न चानृषेर्दर्शनमस्ति किंचिदि’ति न्यायेन विरोधाधिकरणनीत्या चानपेक्ष्यत्वात् ‘नित्यो नित्यानां चेतनश्चेतनानाम्’, ‘अजामेकाम्’, ‘न त्वेवाहं जातु नासम्’, ‘प्रकृतिं पुरुषं चैव विद्ध्यनादी उभावपि’ इत्यादि श्रुतिस्मृतिशतदृष्टेश्चापन्यायमूलमेतदित्यभिप्रायेणाह ‘नैतद्युक्त’मिति । त्रिष्वपि विकारतयाऽभिमतेषु श्रुतिविरोधादयुक्तिमुपपादयति – यदिति । ‘नारायणः परं ब्रह्म’ इत्यादिभिरीश्वरस्यैव परब्रह्मत्वं सिद्धम् । अतो न तत्तदुपादानम्; अवतारणपरिणत्याऽपि नेश्वरस्योपादेयत्वम्; ‘स एव सृज्य’ इत्यादिकमपि वि[श्वसृष्टि]शिष्टविषयम् । ‘स न साधुना कर्मणा भूयान्नो एवासाधुना कनीयान्’, ‘न कर्मणा वर्धते नो कनीयान्’ इत्यादिभिरकर्मवश्यतया प्रसिद्धस्य न खलु निरयनिपातादिदुरत्ययदुःखकारणदुरितपराधीनानन्तजीवभावेन परिणामः । ‘नास्य जरयैतज्जीर्यति’, ‘सत्यं ज्ञानमनन्तं ब्रह्म’ इत्यादिभिर्विकारजाड्यादिविधुरतया श्रुतस्य कथं तद्विपरीतविकारागमः? तत्र परोक्तं परिहाराभासं शङ्कते – भिन्नाया इति । अभिन्नत्वे परिहारगन्धाभावात् भिन्नत्वानुवादः; यदि ब्रह्मव्यतिरिक्ता तच्छक्तिर्विक्रियते तदा ब्रह्मण उपादानत्वं न स्यात् । अनादितया श्रुतस्य त्रिकस्य जन्यत्वायोगश्च न परिहृत इत्यभिप्रायेणाह – ब्रह्मजन्यत्वभङ्ग इति । अथ शक्तिशक्तिमतोरभेदाद्ब्रह्मण उपादानत्वनिर्विकारत्वादिकमिति परेष्टमनुवक्ति – भेदाभेदेति । अत्रानिष्टमाह – सप्तभङ्गीति । स्यादस्ति स्यान्नास्तीत्यादीनां विरोधस्फौट्यात्तदुक्तिः । सर्वोऽपि परपक्षो न दूष्यः; कथंचिदभेदात्, स्वपक्षस्य परपक्षत्वेऽपि विरोधस्य दुर्वचत्वादिति तात्पर्यम् ॥ २८ ॥ इति ब्रह्मणश्चिदचिदीश्वरविकारवत्त्वभङ्गः ॥

3.174     विश्वं चित्तद्गुणानुद्भव इह घटते रत्नगन्धादिनीत्या

सर्वं ब्रह्मेत्यधीतं त्रिविधमिति च तद्दाशताद्यस्य चोक्तम् ।

तस्मात् सर्वानुवृत्तं सदनवधिदशाचित्रमित्यप्ययुक्तं

प्रत्यक्षागोचरत्वप्रभृतिबहुभिदावादिसर्वोक्तिबाधात् ॥ २९ ॥

अथ सच्चित्सुखस्वरूपं ब्रह्म सर्वत्र तादात्म्येनानुवृत्तमित्येतदनूद्य प्रत्याह – विश्वमिति ॥ चिच्छब्देन स्वप्रकाशत्वं चेतनत्वं च तन्त्रेण गृह्येते । उपलम्भविरोधनिवृत्त्यर्थमाह -तद्रुणानुद्भव इति । रत्ने गन्धस्य नित्यानुपलम्भात्तन्निदर्शनम् । न हि नित्यगन्धानुपलम्भऽपि रत्नस्य पृथिवीत्वं नाङ्गीकृतम्; एवमिहापि । अयं भावः – विश्वस्य स्वप्रकाशत्वं तावन्न निषेद्धुं शक्यम्; प्रत्यात्मं स्वप्रकाशत्वस्य परैरनुपलम्भेऽप्यङ्गीकारात् । चेतनत्वमपि घटादेर्न प्रत्यक्षतः प्रतिक्षेप्तुं युक्तम्; परचैतन्ये सर्वत्र योग्यानुपलम्भाभावात् । कार्याभावादपि न तत्प्रतिक्षेपः, सुषुप्त्यादिनयेन कार्याभावोपपत्तेः; स्वभावभेदाच्च नित्यानुद्भवोपपत्तिरिति । चिद्रूपत्वे सिद्धे हि चैतन्यानुद्भवः कल्प्यः; तदेव तु कथमित्यत्राह – सर्वमिति । ‘सर्वं खल्विति’ श्रुत्या सर्वस्य ब्रह्मत्वं विधीयते, तच्च ज्ञानादिस्वभावगर्भम् । भोक्तृभोग्यादीन् प्रक्रम्य ‘सर्वं प्रोक्तं त्रिविधं ब्रह्ममेतत्’ इति श्रूयते । अत्र हि स्वरूपत्रैविध्यं स्वारसिकम् । ‘ब्रह्मदाशा ब्रह्मदासा’ इत्यादौ च ब्रह्मण एव दाशत्वादिकमाम्नातम् । तत्र व्यवधानकॢप्तिस्तु गुर्वी; तस्मात् स्वरूपतादात्म्येन चिदचिदीश्वरानुवृत्तं सद्ब्रह्मैकम्; तदेव त्रितयपूर्वावान्तरव्यष्टिभिरनन्तविषमावस्थाविशिष्टमिति भावः । त्र्यात्मके ब्रह्मणि चित्रपटन्यायसूचनार्थः चित्रशब्दः । एतदपि दूषयति – इत्यप्ययुक्तमिति । श्रुतस्य कथमयुक्तिरित्यत्राह – प्रत्यक्षेति । ‘अद्रेश्यमग्राह्यं’ ‘निष्कलं निष्क्रियं शान्तम्’ इत्यादिभिः श्रुतिभिस्तावद्बाधस्सिद्धः । भेदश्रुतयश्च नाभेदं सहन्ते; शरीरात्मभावश्रुतयश्च भेदगर्भाः; अत एवाभेदश्रुतयोऽपि विशिष्टैक्यविषयाः स्थापनीयाः । किञ्चाचेतनस्य चेतनस्य वा कस्यचिद्ब्रह्मत्वविधौ किमत्रेदं विधेयम्? सत्त्वमिति चेत्तन्न; सर्वत्र सर्वेषां सुप्रसिद्धत्वेन तदुपदेशायोगात् । कारणत्वमिति चेत्, तत्प्रातिस्विककार्यं प्रति प्रसिद्धमेव । आदिकारणत्वं तु कार्यस्य विरुद्धम् । कार्यस्य कारणद्रव्यतादात्म्यमुपदिश्यत इति चेन्न, श्रुतिसिद्धविशिष्टकारणतादात्म्ये त्वदिष्टासिद्धेः । प्रदर्शितं च विशिष्टपरिणामस्य युष्माभिरपि दुस्त्यजत्वम् । ईश्वरत्वमंशान्तरयोरुपदिश्यत इति चेन्न; प्रत्यक्षाद्यशेषप्रमाणविरोधात् । न च परागादेः पर्वतत्वं शरावादेर्वा मणिकत्वं संव्यवहरन्ति । साजात्यविवक्षया तथा संव्यवहारः स्यादिति चेत्तर्ह्यत्र सत्ताजात्यैवेश्वरसाजात्यमुपदिष्टं स्यात् । तत्र चानुपदेश्यत्वमुक्तमेव । एवं सर्वश्रुतिबाधाद्ब्रह्मसामानाधिकरण्यत्रैविध्यश्रुतिश्चाविरुद्धविषयतया नीयेतेति । यदपि कल्पयन्ति जीवव्यष्टिवदीश्वरव्यष्टयोऽप्यनन्ताः, तत्र प्राणमयमनोमयवाङ्मयरूपः प्रथमो विभागः, तिस्रश्च ब्रह्मादिमूर्त्तयस्तद्व्यष्टय इति; इदमप्येकस्यैव चैतन्यस्य स्वमायाकल्पितविचित्रान्तःकरणदर्पणप्रतिविम्बिततया विश्वतैजसप्राज्ञरूपविभाग इति कॢप्तिवदनादर्तव्यम् ॥ २९ ॥ इति सर्वानुवृत्तसन्मात्रब्रह्मत्वभङ्गः ॥

3.175     अव्यक्तं त्वन्मतेऽपि ह्यनवयवभथाप्येतदंशा विकारा-

स्ते चान्योन्यं विचित्राः पुनरपि विलयं तत्र तत्त्वेन यान्ति ।

इत्थं ब्रह्मापि जीवः परिणमति विहृत्यर्थमित्यप्यसारं

स्वानर्थैकप्रवृत्तेः प्रसजति च तदा सर्वशास्त्रोपघातः ॥ ३० ॥

अन्ये तु भेदाभेदिन आहुः -निष्कलचिदानन्दजलनिधिरपारस्वानन्दानुभवप्रीतिजनितनानाविकार एव स्वल्पमंशं जडरूपं संकल्प्य तमेवाजडेन चिदंशान्तरेण संयोज्यानन्तविचित्रसुखदुःखानुभवभागिनं कृत्वा तद्दर्शनेन प्रीयत इति । यथोक्तम् – ‘त्वं चिन्महोदधिरणुं तव बिन्दुमेकं कृत्वा जडं तमजडेन नियोज्य’ इत्यादि । दृश्यन्ते जगति कतिचिदात्मपीडावहां क्रीडां सादरमनुतिष्ठन्तः । अन्यथा कथमवतारेषु तादृशा विहाराः, कथं च स्वेच्छया कर्मफलान्यनुभवेदिति । एतदनुभाषते – अव्यक्तमिति ॥ तदिदमसमञ्जवृत्तान्तादप्यधिकं जुगुप्सनीयतममित्याह – असारमिति । अव्यक्तनिदर्शनमिह मन्दप्रलोभनमिति कृत्वा तद्दूषयितुं परोक्तक्रियामेव हेतुमाह – स्वानर्थेति । अयं भावः – यद्यपि दुःखप्रायेषूपायेषु प्रभूतसुखार्थिनः प्रवर्तन्ते, यद्यपि ‘भ्रान्तिज्ञानवतां पुंसां प्रहारोऽपि सुखायत’ इत्यादिन्यायेन बालिशैस्ताडनादिभिः क्रीडारस उपादीयते । तथाऽपि सर्वज्ञस्य सर्वशक्तेः स्वदुःखलवोत्पादनमपि न युक्तम्, किं पुनरनन्तजीवात्मभावेन दुर्विषह -दुःखोत्पादनम्? अतः क्रीडारस[कणिका]कारणिका सत्यपि निरवधिकस्वानर्थनिमित्तनिर्मितेति, अत्र स्वानर्थैकप्रवृत्त ईश्वरः स्यात् । अवतारवृत्तान्ताः शैलूषन्यायेन निरूढा इति । अस्मन्मते तु विशेषणगता दोषा न विशेष्यं स्पृशन्ति, ऐक्यभेदाभेदानङ्गीकारात्, अकर्मवश्ये संसर्गजदोषाणामसंभवाच्चेति ॥ ३० ॥ इति ब्रह्मणः स्वलीलार्थं जीवादिपरिणामवादभङ्गः ॥

3.176     ब्रह्मैवोपाधिभिन्नं भजति बहुविधां संसृतिं सोऽप्यनादि-

स्तस्मान्नात्यन्तभिन्नो जड इति तु मते दुःखमद्वारकं स्यात् ।

सौभर्यादौ व्यवस्था न कथमुपधिभिः स्वावतारेषु चैषा

सर्वज्ञः स्वैक्यवेदी कथमनवधिभिर्जीवदुःखैर्न दुःख्येत् ॥ ३१ ॥

उक्तपक्षासन्नं भास्करपक्षमुपालभते – ब्रह्मैवेति । एवकारो विरोधं व्यनक्ति -महाकाशघटाकाशादिनयादीश्वरान्मिथश्च जीवानां भेदेन गुणदोषसंकरपरिजिहीर्षया उपाधिभिन्नत्वे स्वीकृतेऽपि प्रलयदशायामुपाधिविलयेन भेदाभावे मुक्तिप्रसङ्गः । ततश्च प्राग्वदकृताभ्यागमादिः स्यादित्यत्राह – सोऽपीति । उपाधिभेद इत्यर्थः । प्रलयेऽपि प्रतिजीवमुपाधयस्सूक्ष्मरूपेण तिष्ठन्ति, ततस्तदवच्छिन्नजीवभेदस्थितिरुपपद्यत इति भावः । अनाद्युपाधिभेदस्वीकारे ब्रह्मव्यतिरिक्ताङ्गीकारः स्यादित्यत्राह – तस्मादिति । बहुधा भिन्नोऽपि ह्युपाधिर्ब्रह्माभिन्नः; तस्मान्नाब्रह्मतत्त्वाङ्गीकृतिरिति भावः । ब्रह्मतादात्म्याविशेषेऽपि उपाधेस्तद्वतो वैषम्यमाह – जड इति । पूर्वापरदूष्येभ्यो विशेषं व्यनक्ति – इति तु मत इति । दुःखमद्वारकं स्यात् – ह्यस्मन्मतवद्विशेषणद्वारकम्, न च त्वन्मते विकारवदुपाध्यंशद्वारकमित्यर्थः । औपाधिक्यां व्यवस्थितावतिप्रसङ्गमाह -सौभर्यादीति । अस्ति हि योगिनां युगपदनेकदेहभृतां तत्तद्देहोपाधिकृतभोगप्रतिसन्धानम् । स्मर्यते हि ‘आत्मनो वै शरीराणि बहूनि मनुजेश्वर । प्राप्य योगबलं कुर्यात्’ इत्यादि । अवतारेषु त्रैकालिकावतारान्तरवृत्तान्तव्यवहारास्तत्रतत्र दृश्यन्ते । तथाऽपि कमोपरोधादप्रतिसन्धानमित्यत्राह – सर्वज्ञ इति । न हि नित्यसर्वज्ञतयाऽभ्युपगत ईश्वरांशः स्वात्मगतमुपाधिं तत्परिच्छिन्नं स्वांशं च स्वेनाभिन्नं न वेत्ति, ततश्चाहमेवोपाधिपरवशतयाऽनन्तदुःखमनुभवामीति न कथं दुःख्येत् ॥ ३१ ॥

3.177     बन्धो ब्रह्मण्यशेषे प्रसजति स यदोपाधिसंयोगमात्रात्

सादेश्याच्चेदुपाधौ व्यभिचरति भवेद्बन्धमोक्षाव्यवस्था ।

अच्छेद्ये च्छेदनादिर्विहत उपधिभिर्न स्वतोंऽशस्तवास्मि-

न्नोपाधिर्जीवतामप्यनुभवितुमलं ब्रह्मरूपोऽप्यचित्त्वात् ॥ ३२ ॥

अपि चात्रोपाध्यवच्छिन्नं ब्रह्म जीव इति परोक्ते किमुपाधिसंयोगमात्रविशेषितं ब्रह्मस्वरूपमेव जीवः? उत घटाकाशवदवच्छेदेन विभक्तो भागः? अथ घटोदकवद्विच्छेदेन? यद्वा विदारिताग्रदारुनयात् किञ्चिद्विदलनेन? यद्वा उपाधिसंयोगव्यञ्जितविभागः कश्चित्सहजोंऽशः? घटाद्यवच्छिन्नपृथिव्यंशवदुपाधिभावेन परिच्छिन्न एव वा कश्चिद् ब्रह्मांशः? इति विकल्पं विभाव्य प्रथमे दोषमाह – बन्ध इति । अत्र नित्यमुक्त ईश्वरांशो निष्क्रष्टुं न शक्यः, बद्धमुक्तविभागश्च न सादिति भावः । द्वितीयभनुवक्ति – सादेश्याच्चेदिति । तत्रोपाधिसञ्चारदशायां घटाकाशनीत्यैव नियतजीवांशासंभवात् बद्धमुक्तप्रदेशनियमाभावमाह – उपाधाविति । कर्मनिरपेक्षो बन्धः तत्कालसमुचितविद्यानिरपेक्षो मोक्षश्च स्यादित्याकूतम् । एवं सति, ‘आकाशमेकं हि यथा घटादिषु पृथग्भवेत् । तथात्मैकोऽप्यनेकस्थो जलाधारेष्विवांशुमान् ॥’ इति स्मृतिः कथमिति चेत्; इथम् – अकाशोऽपि पृथिव्यादिवत् सभागः, पञ्चीकरणप्रक्रियया तत्सिद्धेः । तद्भागानां त्वेकरूपाणामपि यथा घटादिसंयोगभेदैरेव मिथो वैषम्यम् एवमात्मनां देवादिपिण्डसंयोगभेदैरिति जीवविषयत्वे निर्वाहः । परमात्मविषयत्वेऽपि ब्रूमः । अत्र तत्तत्संसर्गप्रयुक्तविकारादिराहित्ये तात्पर्यम् । एतच्च वृद्धिह्रासादिसूत्रभाष्ये व्यक्तमनुसंधेयमिति । ‘एक एव हि भूतात्मा भूतेभूते व्यवस्थितः । एकधा बहुधा चैव दृश्यते जलचन्द्रवत् ॥’ इत्यपि गतार्थम् । ‘घटध्वंसे घटाकाशो न भिन्नो नभसो यथेति मुक्तविषयस्मृतिरप्यौपाधिकविशेषनिवृत्तिपरा । न ह्यत्र घटाकाशस्य नभस्तत्त्वतादात्म्यं नि[दर्श्य]र्दिश्यते, तस्य घटसंयोगदशायामप्यवस्थानात् । नापि बहिर्भूतमहाकाशादितादात्म्यम्; तस्य घटध्वंसदशायामप्यसंभवात् । तत्समानतापत्तिस्त्वैक्यविरोधिन्येव । तृतीयचतुर्थौ दूषयति – यच्छेद्य इति । पञ्चमेऽपसिद्धान्तमाह – न स्वत इति । षष्ठे त्वचिदंशकॢप्तिव्याघातमाह – नोपाधिरिति । भूतेन्द्रियचैतन्यवादसमोऽयं पक्ष इति च भावः ॥ ३२ ॥ इति ब्रह्मण औपाधिकजीवभावभङ्गः ॥

3.178     नापि ब्रह्मण्यविद्यास्थगितनिजतनौ विश्वमेतद्विवृत्तं

तस्मिन् सा स्वप्रकाशे कथमिव विलगेत्तत्प्रकाशैकबाध्या ।

न ह्येतस्मिन्नविद्याविलयकृदधिको वृत्तिवेद्यो विशेषो

बाधो वृत्तिस्वरूपाद्यदि भवति तदा ज्ञानबाध्यत्वभङ्गः ॥ ३३ ॥

एवमिह जैनगन्धिनां जल्पितानि निराकारिषत । अथ सौगतगन्धिनां निराक्रियन्ते । तत्र प्रत्यस्तमितसमस्तभेदकूटस्थविज्ञानैकरसं ब्रह्मानाद्यनिर्वचनीयाविद्यातिरोहितस्वरूपमनन्तभेदप्रपञ्चात्मना विवर्तत इति मृषावादस्तावदपोह्यते – नापीति । आस्तां तिरोधानम्, आलोकसन्निधावन्धकारस्येवानादिस्वप्रकाशब्रह्मसंनिधौ तदज्ञानस्य स्वरूपलब्धिरेव न स्यादित्यभिप्रायेणाह – तस्मिन्निति । प्रदीपकज्जलन्यायशङ्कापनुत्त्यै विरोधं व्यनक्ति -तत्प्रकाशैकबाध्येति । ननु ब्रह्मस्वरूपप्रकाशो नाज्ञानं बाधते, किंतु साक्षित्वेनावस्थाय साधयत्येव । तत्त्वावेदकवाक्यजन्यं तु वृत्तिज्ञानं तद्बाधकमित्यत्र वृतेर्बाधकत्वं विषयस्थविशेषप्रकाशनशक्त्या, स्वरूपशक्त्या वेति विकल्पं सङ्कल्प्य प्रथमं प्रतिक्षिपति -न हीति । अधिकः – स्वरूपादन्यः, विशेषस्याविद्याविलयहेतुत्वं स्वधीद्वारा । यदि तु वृत्तिः कल्पितविशेषविषयतया ब्रह्माज्ञानं बाधेत तर्हि तत्त्वधीबाध्यत्वं तस्य न स्यात् । द्वितीयमनुवदति – बाध इति । वृत्तिस्वरूपात्प्रदीपवह्निमुद्गरादिवत् किञ्चित्प्रकाशनिरपेक्षादिति यावत् । दूषयति – तदेति । अज्ञानस्य ज्ञाननिवर्त्यत्वं न स्यात्; तत एव मिथ्यात्वलक्षणातिक्रम इति भावः ॥ ३३ ॥ इति साविद्यब्रह्मविवर्तवादभङ्गः ॥

3.179     छन्नत्वे स्वप्रकाशादनधिकवपुषो ब्रह्मणः स्यादभावो

भावानां छादनं हि स्फुरणविलयनं तस्य वोत्पत्तिरोधः ।

मिथ्या दोषाद्भूमोक्तौ कथमधिकरणं सत्यमित्येव वाच्यं

नाधिष्ठानानवस्था भवतु तव यथा नास्त्यविद्याऽनवस्था ॥ ३४ ॥

तिरोधिमपि दूषयति – छन्नत्व इति । घटादीनां स्वस्वरूपातिरिक्तप्रकाशवत्त्वात्तन्निवर्तकैस्तिरोधानं युक्तम्; ब्रह्मणस्तु न तथेत्याशयः । अभावापत्तिं तिरोधानविकल्पेन व्यनक्ति – भावानामिति । स्फुरणविलयनं – सिद्धस्य प्रकाशस्य नाशः । तस्य – स्फुरणस्येत्यर्थः, असिद्धस्येत्यर्थापन्नम् । ननु वृत्त्यधीनप्रकाशान्तरापेक्षया तिरोधानं सिध्येत्, तन्न; तस्यापि ह्युनुत्पन्नस्य नाश्यत्वायोगादुत्पत्तिरोध इत्येष्टव्यम् । ततश्च सत्यामविद्यायां कथं तद्बाधिका वृत्तिरुपद्यते? अन्यतस्तन्निवृत्तौ किं पुनरेषा वृत्तिस्साधयेत्? स्वयमेवाविद्यां निवर्त्योत्पद्यत इति चेन्न; परस्पराश्रयापत्तेः, स्वोत्पत्त्या प्रतिबन्धकनिवृत्तिः तथा च सेति । एवं तिरोधानं दूषितम् । तदधीनं विक्षेपमपि विक्षिपति – मिथ्येति । सर्वासु भ्रान्तिष्वधिष्ठानदोषयोस्सत्यत्वमारोप्यस्य च मिथ्यात्वं दृष्टम् । ततश्च माध्यमिकं प्रति निरधिष्ठानभ्रमानुपपत्तिं वदन्, भ्रममूलस्य दोषस्य कथं मिथ्यात्वं ब्रवीषि? यद्यधिष्ठानं मिथ्या तदा तदध्यासस्याधिष्ठानान्तरं वाच्यम् । एवं चानवस्था स्यादिति चेत्, दोषमिथ्यात्वेऽपि तदध्यासार्थं दोषान्तरापेक्षयाऽनवस्था स्यादेव; यदि दोषस्य स्वरूपतः प्रवाहतो वाऽनादित्वान्नानवस्थादोष इति मन्यसे । एवमधिष्ठानमिथ्यात्वेऽप्यधिष्ठानस्य दोषवदुभयथाऽनादित्वान्न दोषः स्यात् । अथ स्यात् – न क्यं निरधिष्ठानभ्रमभीत्याऽधिष्ठानस्य सत्यत्वं ब्रूमः; अपि तु ‘सत्यं ज्ञानमनन्तं ब्रह्म’ इत्यादि श्रुतिसिद्धमङ्गीकुर्म इति, तर्हि दोषतयाऽभिमताया जगत्प्रकृतेरपि ‘गौरनाद्यन्तवती सा जनित्री भूतभावनी’ ‘अव्यक्तं कारणं यत्तन्नित्यं सदसदात्मकम्’, इत्यादिभिरन[वयवत्व]श्वरत्ववचनात् सर्वकालानुवृत्त्या सत्यत्वमङ्गीकार्यम् । ‘भूयश्चान्ते विश्वमायानिवृत्तिरिति तद्विनाशः श्रुत’ इति चेन्न; पुरुषस्य मायासंबन्धनिवृत्तौ तत्र तात्पर्यात् । मायाशब्द एव मिथ्यात्वं बोधयतीति चेन्न, आश्चर्यसृष्टिहेतुतया तदुपपत्तेः; अन्यथा ‘देवमायेव निर्मिता’ ‘तेन मायासहस्रं तत्’ इत्यादिविरोधात् । न च शुक्तिरूप्यादिषु क्वचिदपि मायाशब्दो दृष्टः । नापि मिथ्याशब्दपर्यायतया मायाशब्दं लोकवेदनिघण्टुकाराः पठन्ति । ‘अनृतेन हि प्रत्यूढा’ इत्यत्रानृतशब्दो न जगत्प्रकृतिविषयः, किंतु ऋतेतरदुष्कर्मपरः; ऋतं चात्र फलाभिसन्धिरहितं कर्म स्यात् । कारणविषयत्वेऽपि ब्रह्मविषयासच्छब्दवदान्यपर्यमवसेयम् । एतेन ‘नासदासीन्नो सदासीत्तदानीं’ ‘न सत्तन्नासदुच्यत’ इत्याद्यपि सदसच्छब्दाभिप्रेतव्यष्टिभेदप्रलयपरतया न तद्वैलक्षण्याय योज्यमिति ॥ ३४ ॥ इति तिरोधानाद्यनुपपत्तिः ॥

3.180     दोषाभावेऽप्यविद्या स्फुरति यदि ततः किं न विश्वं तथा स्यात्

सा चान्यां कल्पितां चेदभिलषति तथा साऽपि चेत्यव्यवस्था ।

नापेक्षा चेदनादेरकलुषधिषणागोचरत्वात् सती स्यात्

ब्रह्मैवास्यास्तु दोषो यदि न तु विरमेद्ब्रह्मणो नित्यभावात् ॥ ३५ ॥

अथाविद्यास्वरूपसिद्धिरूपब्रह्मणस्तत्साक्षित्वं दोषनिरपेक्षं तत्सापेक्षं वेति विकल्पे पूर्वानुवादनानिष्टमाह – दोषेति ॥ मिथ्याभूतस्य कस्यचिद् दोषनिरपेक्षप्रकाशत्वे वियदादिप्रपञ्चस्यापि तथात्वं लाघवात् स्वीकार्यमेव । न चासौ प्रपञ्चप्रतिभासहेतुर्दृष्टः, येन लोकसिद्धदोषवन्न त्यज्येतेति भावः । अनुमानं तु निरसिष्यते । उत्तरानुवादेनानवस्थामाह – सेति । अनवस्थापरिहारं शङ्कते – नापेक्षेति । स्वरूपानादेस्तावदविद्याया न कल्पकापेक्षा, प्रवाहानादेर्नानवस्था दोषः स्वकारणातिरिक्तानपेक्षणादिति भावः । पक्षद्वयेऽप्यनिष्टमाह – अकलुषेति । स्वरूपानादिरविद्या निर्दोषया संविदा भाति; अन्यथा अनवस्थानात् । तथा च सत्यत्वं दुस्त्यजम् । अविद्या स्वप्रकाशे स्वकार्यप्रकाशे च स्वयमेव दोष इति मन्यसे, तर्हि सर्वमप्यनिर्वचनीयं दोषान्तरमनपेक्ष्यावभासेत, अविशेषम् । अन्यदनिर्वचनीयं कादाचित्कत्वात् कारणमपेक्षत इति चेत्, किमतः? न हि मृदादयो घटादीनां हेतवोऽपि दोषा इति व्यवह्रियन्ते, न च स्वेष्टमुक्तिहेतोर्दोषत्वं ब्रूषे । भवन्तु ना हेतवो दोषाः । अविद्याप्रवाहवादिभिः पूर्वनिवृत्तावप्युत्तरस्य स्थैर्यमङ्गीकृतम्, चिरप्रकाशश्च । तत्र दोषनिवृत्तावपि सिध्यता प्रकाशेन प्राग्वद्विषयस्य सत्यत्वं प्रसज्येत । सामग्र्यवस्थपूर्वदोषचरमक्षणजनितावुत्तरप्रकाशौ चिरमनुवर्तेते इति चेन्न; विषयस्थैर्येऽपि वृत्तिप्रकाशानामाशुतरविनाशित्वाभ्युपगमात्, सामग्रीसन्तत्या धारावाहिकदृष्टेश्च । न चाध्यासकाल एवाविद्या भाति, पश्चात्तु स्वरूपेणैवावतिष्ठत इति वाच्यम्, संविदधीनस्वसिद्धेस्तस्या अप्रकाशमानक्षणावस्थानायोगात् । ईश्वरस्य भातीति चेन्न; ईश्वरस्य बुद्धेरप्यदोषायत्तप्रकाशत्वे तद्विषयस्य सत्यत्वं सिध्येत्; दोषायत्तत्वे तु तद्दोषप्रकाशो निर्दोषस्य सदोषस्य वेति विकल्पदौःस्थ्यं प्राग्वत् । अथान्यनिरपेक्षं ब्रह्मैवाविद्याप्रकाशप्रयोजको दोष इति शङ्कते – ब्रह्मेति । एवं सति स्वरूपतः प्रवाहतो वाऽनादिरविद्या नोच्छिद्यत इत्याह – त्विति । तत्र निरपेक्षदोषानुवृत्तिं हेतुमाह – ब्रह्मण इति । तत्त्वधीप्रागभावविशिष्टस्य दोषत्वात् तदभावे कथमविद्या भासेतेति चेत्, हन्तैवं प्राप्ताप्राप्तविवेकेन तत्त्वधीप्रागभावस्यैव दोषत्वमायातम्; अलं भावरूपाविद्यादोहलेनेति ॥ ३५ ॥ इत्यविद्यादर्शनानुपपत्तिः ॥

3.181     ज्ञातेऽज्ञातेऽप्यभावः खलु दुरवगमस्संविदस्ते न [वेद्यं] भावः

स्यादज्ञानं यदीहाप्यपरिहृतमिदं तद्विरोधादिसाम्यात् ।

तुल्यैवाकारभेदात् परिहृतिरुभयोः कॢप्तिरत्राधिका ते

मुग्धोऽस्मीत्यादिसाक्षात्कृतिरपि नियतं तत्प्रतिद्वन्द्विगर्भा ॥ ३६ ॥

ननु यदज्ञानमात्मसाक्षिकं भाति, तद्भावरूपमेव स्यात् ज्ञानप्रागभावस्य दुर्ग्रहत्वादिति शङ्कते – ज्ञात इति ॥ अयं भावः – अभावो ह्याश्रयप्रतियोगिनिरूप्यः; प्रतियोगि च ज्ञानम्, तत्र सर्वज्ञानाभावस्तावन्न कदाचिदपि ग्राह्यः; अभावज्ञानस्य तदाश्रयप्रतियोगिज्ञानस्य च विद्यमानत्वात् । अथ विषयविशेषावच्छिन्नस्य ज्ञानान्तरस्य प्रागभावः सुग्रह इत्युच्येत; तदपि न, विषयविशेषज्ञानसदसद्भावयोस्तज्ज्ञानाभावस्य दुर्ग्रहत्वात् । षष्ठप्रमाणवेद्यश्चाभावः कथमपरोक्षधीविषयः स्यात्? भावरूपाज्ञाने तु न तावद्भावाभावरूपत्वविरोधः; न चान्यत् किंचिदिह स्यादिति । अतः स्वेष्टस्य फलित्वमाह – तेनेति । ईदृशं दुर्ग्रहत्वं त्वदिष्टेऽपि स्यादिति प्रत्याह – इहापीति । तत्र तदुक्तमेव हेतुमाह – तद्विरोधेति । भावरूपस्यापि ह्यज्ञानस्य ज्ञानविरोधित्वं समानम्; तस्य तद्बाध्यत्वाभ्युपगमात् । आदिशब्देन विषयविशेषनिरूप्यप्रतिसंबन्ध्यादिसापेक्षत्वग्रहः । अपरोक्षधीविषयत्वं च मतान्तरेणाभावस्याप्यस्ति । षष्ठप्रमाणवेद्यत्वेऽपि विरोधस्समः । तत्रापि प्रमाणतयाऽभिमत उपलब्ध्यभावः केनचित् प्रमाणेन निर्धार्यते । तेन च ज्ञानप्रागभावोऽपि गृह्यमाण आश्रयप्रतियोगिस्वधीसद्भावे कथं सिध्येत्? मा भूत्ततोऽपि ज्ञानाभावग्रहं इति चेत्तन्न; ज्ञानाभावस्य दुर्ग्रहत्वं साधयताऽपि हि गृहीत एव ज्ञानाभावः । अन्यथा कथं प्रमाणज्ञानं पक्षीकृत्य स्वप्रागभावव्यतिरिक्तेत्यादि वक्ष्यसि? देवदत्तप्रमापक्षीकारेण तत्स्थप्रमाभावातिरेकिण इत्यादि च? ननु भावरूपाज्ञानग्रहणे किं तदितरज्ञानेन प्रतियोग्यादिनिरपेक्षत्वादिति चेन्न; अज्ञानमिति गृह्यमाणस्य तदन्यतया तद्विरोधितया तदभावतया वा प्रतीतौ प्रतियोग्यादिभिर्नैरपेक्ष्यायोगात् । नन्वज्ञानावच्छेदकतया सामान्यतः किंचिद्विषयं प्रतियोगिसाक्षिचैतन्येन ज्ञाताज्ञातसर्वग्राहिणा विषयीक्रियते; विशेषतस्तु गृह्णत् प्रमाणज्ञानं चानादिभावरूपाज्ञानबाधकमिति तत्राह – तुल्येति । अभावरूपेऽप्यज्ञाने तथैव प्रतियोगिधीर्व्यवस्थितेति न विरोध इत्यर्थः । तुल्यत्वे कथमितरप्रद्वेष इत्यत्राह – कॢप्तिरिति । लाघवादभावपक्ष एव ग्राह्य इति भावः । स्यादेतत् – प्रतिसंवन्ध्यपेक्षानियमे हि प्रतिबन्द्यवतारः, स्वरूपेण तु मुग्धोऽस्मि मूढोऽस्मीत्यज्ञानं साक्षिणा प्रकाश्यते; अतो न विरोध इति; तत्राह – मुग्ध इति । अयं भावः -मोहादिशब्दाः खल्वत्र बुद्ध्यभावरूढास्सविषयप्रतियोग्यवच्छिन्नमेव स्वार्थमुपस्थापयन्ति, प्रलयादिशब्दव[त्तत्र]त् नञ्प्रयोगाभावमात्रान्नैरपेक्ष्याभिमान इति ॥ ३६ ॥ इति भावरूपाज्ञानप्रत्यक्षत्वभङ्गः ॥

3.182     स्वाजन्मान्यस्वदेश्यस्वविषयवृतिकृत्स्वव्यपोह्यार्थपूर्वात्

ध्वान्तोत्थाद्यप्रभावद्विमतमितिरिहापूर्वनिर्भासनाच्चेत् ।

अज्ञानाज्ञानभेत्त्री किमियमनुमितिः स्वेष्टभङ्गोऽन्यथा तु

व्यर्थाऽसाविन्द्रियादिष्वतिचरणमसिद्ध्यादि च स्याद्विकल्पे ॥ ३७ ॥

अथ पञ्चपादिकाविवरणोक्तमनुमानमनुभाषते – स्वाजन्मेति ॥ विप्रतिपन्नं मानज्ञानं स्वप्रागभावव्यतिरिक्तस्वदेशगतस्वविषयावरणस्वनिवर्त्यवस्त्वन्तरपूर्वकम् अप्रकाशितार्थप्रकाशकत्वात् अन्धकारे प्रथमोत्पन्नप्रदीपप्रभावदिति प्रयोगः । अत्रैतदनुमानज्ञानं स्वविषयावरणनिवर्तकं न वेति विकल्पे प्रथममनुयुङ्क्ते – अज्ञानेति । तदभ्युपगमेऽनिष्टमाह – स्वेष्टभङ्ग इति । अज्ञानस्य ह्यज्ञानान्तरावृतत्वे तदपि तथेत्यनन्ताविद्याककॢप्तिगौरवं स्यात्, आवृता च साक्षिणा न दृश्येत । तत्कटाक्षविरहादलब्धस्वरूपा वन्ध्यासुतेव न प्रजाः प्रजनयेदिति भावः । द्वितीयमनूद्य दूषयति – अन्यथा त्विति । यद्यज्ञानविषयाज्ञानमनयाऽनुमित्या न निरस्येत, निष्फलैवासौ प्रसज्येत निरसनीयाभावात्, प्रकाशितमात्रप्रकाशकत्वाद्वा । अपि चेयमनुमितिः पक्षकोटिस्तदन्या वा? आद्येंऽशतो बाधः; द्वितीये तस्यामतिचारः । हेतुविकल्पे च दोषानाह – इन्द्रियादिष्विति । अयं भावः – प्रकाशहेतुत्वमिह ज्ञानहेतुत्वम्, ज्ञानकरणत्वम्, तदनुग्राहकत्वम्, ज्ञानत्वम्, विषयविस्फुरणरूपत्वम्, स्वविषयावरणनिरासकत्वमन्यद्वा किञ्चित्? नाद्यः, आत्मादृष्टादिभिरनैकान्त्यात्, ज्ञानस्य च ज्ञानहेतुत्वनियमाभावात् । अत एव न द्वितीयतृतीयौ; इन्द्रियादिष्वतिचाराच्च । नापि चतुर्थः, दृष्टान्तस्य साधनविकलत्वात्, साक्षिज्ञाने च विपक्षे हेतुवृत्तेस्सपक्षवृत्त्यभावाच्च विरुद्धत्वापत्तेः । नापि पञ्चमः, पक्षसपक्षयोर्हेतुवृत्त्यभावादेव । नापि षष्ठः, तस्य साध्यानुप्रविष्टत्वात् । सप्तमस्तु कश्चिन्न दृश्यत एवेति । चकारात् दोषान्तराण्यपि द्योत्यन्ते । तथा हि – स्वप्रागभावव्यतिरिक्तेति स्वदेशगतेति च पृथगुपादानं निरर्थकम्; अभावव्यतिरिक्तेत्येतावतैव वेद्यगत[वृ]वित्त्यभिव्यक्ति – प्रागभावस्यापि व्यवच्छित्तेः । स्वविषयावरणे च स्थिते स्वोत्पत्तिरेव न संभवतीत्युक्तम् । ब्रह्माश्रयतया चाभ्युपगतस्य विश्वप्रकृतेः तदज्ञानस्य न घटाद्यज्ञानवत् प्रमाणज्ञानदेशगतत्वं युक्तमिति ॥ ३७ ॥ इति पञ्चपादिकाविवरणोक्तभावरूपाज्ञानानुमानभङ्गः ॥

3.183     यच्चोक्तं दैवदत्ती मितिरितरमितिन्यायतो हन्त्यनादिं

मात्वात्तन्मित्यभावाधिकमिति तदपि स्यादबाधं विपक्षे ।

नाभावो भावतोऽन्यो न च पुरुषभिदाऽस्त्येकजीवत्ववादे

दृष्टान्ते ध्वंसकत्वं न च विदितमिदं ध्वंसतामात्रसिद्धेः ॥ ३८ ॥

यत्तु कश्चिदाह – ‘देवदत्तप्रमा तत्स्थप्रमाभावातिरेकिणः । अनादेर्ध्वंसिनी मात्वाद्यज्ञदत्तप्रमा यथा ॥ इति, तदनुभाषते – यच्चेति ॥ दूषयति – तदिति । अपि ना पूर्वानुमानेऽप्ययं दोषोऽस्तीति ख्याप्यते; विपक्षे बाधकमेव हि प्रतिबन्धरहस्यमाहुः; न चेह तदस्ति; अतो नेदं साधकमिति भावः । भावान्तराभावनयेन दूषणमाह – नाभाव इति । यद्यभावो भावातिरिक्तः स्यात्तदा ह्यत्राभावव्यवच्छेदार्थं विशेषणं स्यात् । न च भावातिरिक्तोऽभाव इति वक्ष्यते । माभूत्तर्हि विशेषणमिति चेन्न; परसंमतमात्रसाधने सिद्धसाधनम्, तावदुक्त्या च त्वदिष्टासिद्धेः, तदतिरिक्तस्य चानुपस्थापनात् । परस्य पक्षदृष्टान्तविभागायोगमप्याह – न चेति । ये ह्यद्वैतिनो जीवमप्येकमेवेच्छन्ति तन्मते देवदत्त एव यज्ञदत्त इत्यपि कल्प्यते । लोकव्यवहारमात्रात् परसंमत्या वा पक्षादिभेदकॢप्तिरिति चेन्न; स्वानभ्युपगतस्य साधनाङ्गत्वेनोपादानायोगात् । अस्तु नानाजीवमतेन दृष्टान्तोक्तिरिति चेन्न; तन्मतेऽपि जीवानां प्रमाधारत्वासिद्धेः । न हि स्वरूपचैतन्यं वा साक्षिचैतन्यं वा जीवतया कल्पितं वा जीवाश्रितमिति युष्माभिः कल्प्यते, वृत्तिरूपा प्रमाऽन्तःकरणनिष्ठा कथ्यते । अतः पुरुषस्थतया प्रमानिर्देशो न युक्तः । कृपाणादिप्रतिफलितमुखमलिनिमादिन्यायेन प्रातीतिकतया पुरुषस्थत्वोक्तिरिति चेन्न; प्रातीतिकस[त्ताया]तामर्थक्रियाकारित्वानभ्युपगमात् । अन्तःकरणवृत्तिद्वयमेव पक्षदृष्टान्ताविति चेन्न; तस्य परसंमत्यभावेन परान् प्रति प्रयोगायोगात् । किंच देवदत्तनिष्ठधारावाहिकद्वितीस्यादिज्ञानेपु देवदत्तप्रमाभावातिरिक्तानादिनिवर्तकत्वाभावेऽपि प्रमात्वं दृष्टम्, तद्व्यवच्छेदाय पूर्ववदप्रकाशितार्थप्रमात्वादिविशेषणेऽपि देवदत्तप्रमान्तराभावातिरिक्तानादिस्वप्रागभावध्वंसनात् सिद्धसाधनत्वम् । देवदत्तप्रमाभावत्वात्यन्ताभाववदनादिध्वंसकत्वं साध्यमिति चेत्, इदमपि स्वजन्यसंस्कारप्रागभावध्वंसनेन दत्तोत्तरमेव । किंच, अनादेर्ध्वंसिनीत्यत्र ध्वंसरूपत्वमात्रं वा ध्वंससंबन्धित्वं वा ध्वंसहेतुत्वं वा विवक्षितम्? नाद्यः, अनभ्युपगमात् । न च ध्वंसो घातक इति युज्यते । न द्वितीयः, विवक्षितस्याज्ञाननिवर्तकत्वस्यानुक्तेः । अस्ति हि स्वजन्यसंस्कारप्रागभावोऽनादिः तस्य च ध्वंसरूपस्संस्कार एकाश्रयत्वादिना स्वसंबन्धी च । दृष्टान्ते चानादिप्रतियोगिकध्वंससंबन्धित्वासिद्धेः । अतस्तृतीयः परिशिष्यते । अत्रापि दृष्टान्तस्य साध्यविकलत्वमाह – दृष्टान्त इति । उक्तं हि पूर्वमेव प्रागभावस्य कार्यस्य चैकक्षणसंपातायोगात्तयोर्वध्यघातकभावो न संभवतीति । एतदेवाभिप्रेत्याह – ध्वंसतामात्रसिद्धेरिति । अपि चात्र स्वप्रागभावातिरिक्तानादिध्वंसकत्वसाधने तद्ध्वंसनीयमनादिकिंचिद्भावरूपमिति कुतस्सिद्धम्? न तावद्व्याप्त्या, दृष्टान्ते तदसिद्धेः । नापि पक्षधर्मताबलात्, पक्षस्थस्य हेतोस्तादृशबलादृष्टेः; दृष्टस्य [तादृश]पक्षधर्मसंबन्धमात्ररूपस्य पक्षसाध्यसंबन्धमात्रार्थत्वात् । न च परिशेषात्; अभावान्तरनिवर्तकत्वेऽपि विरोधाभावात् । दण्डचक्रादयो हि स्वाभावातिरिक्तं घटाभावं निवर्तयन्ति । तद्वद्देवदत्तप्रमाऽपि संस्कारोत्पत्तिहेतुभूता स्वसंस्कारप्रागभावं ध्वंसयत्येव । एतत्परिहाराय अभावव्यतिरिक्तानादिध्वंसिनीत्येतावन्मात्रमुपाददीमहीति चेत्; हन्त तर्हि सिद्धसाधनत्वं परिजिहीर्षता दृष्टान्तस्य साध्यविकलत्वापत्तौ न दृष्टिर्दीयते ॥ ३८ ॥ इति चित्सुखोक्तभावरूपाज्ञानानुमानभङ्गः ॥

3.184     अस्पृष्टावद्यतोक्तेर्न खलु विषयतामभ्युपेयादविद्या

न क्षेत्रज्ञोऽपि तापत्रयपरितपनान्नापि तद्ब्रह्म मौग्ध्यात् ।

मिथ्यात्वाद्दोषभावो न भवति यदि किं तन्निरासप्रयासै-

रुच्छेत्तव्या पुमर्थान्वयत इह परः कोऽभिलप्येत दोषः ॥ ३९ ॥

अथ ब्रह्माज्ञानकल्पनां श्रुतिविरोधेन निर्मूलयति – अस्पृष्टेति ॥ न तावन्निरवद्यत्वश्रुतिरनादर्तव्या; सर्वश्रुत्यनादरप्रसङ्गेन निष्कञ्चुकबाह्यत्वापातात् । न चासौ स्तोभवन्निरर्थिका; स्वबोधितेऽर्थे स्वतःप्रामाण्यात् । अतस्सविषयत्वे केवलमविद्यैव वा तद्विषयः, तत्कल्पितो जीवो वा, तदवरुद्धं ब्रह्म वेति विकल्पं विभाव्य प्रथमं प्रतिक्षिपति – खल्विति । ‘निरवद्यमिति श्रुतिर्ब्रह्मैव विशिनष्टि, न त्वविद्याम्; त्वत्पक्षे ह्यविद्यान्तरभावात् निरवद्यत्वश्रुतिस्तद्विषया स्यादित्युपालम्भकाकूक्तिरिथम् । अतो नात्राभागिप्रतिषेधः । द्वितीयं दूषयति – न क्षेत्रज्ञ इति । न हि त्वन्मते प्रतिबिम्बभावस्य जीवस्यावस्थान्तरेणापि निर्दोषत्वमिति भावः । तथैव तृतीयमपि निरस्यति – नापीति । तच्छब्देन सर्वाध्यासाधिष्ठानत्वादिसूचनम् । मौग्ध्यात् – अविद्यातिरोहितस्वप्रकाशत्वादित्याशयः । ननु कल्पिते जीवे कल्पनाधिष्ठाने ब्रह्मणि वा निरवद्यत्वादिश्रुतिस्संबोभवीति, अविद्यातत्कार्याणाभसत्यतया दोषत्वाभावादिति शङ्कते – मिथ्यात्वादिति । परिहरति -किमिति । मद्यविद्यादीनां स्वकालसत्त्वं दोषत्वं च न स्यात् तर्हि किं तन्निरासार्थसाधनचतुष्टयसंपत्तिपूर्वकश्रवणमनननिदिध्यासनप्रयासैः? अविद्यानिरासकदर्शनार्थमेव हि तद्विधिमातिष्ठध्वे । नन्वसत्यस्य दोषत्वभप्यसत्यं, तादृशदोषवत्त्वेऽपि तात्त्विकदोषात्यन्ताभावान्निर्दोषत्वश्रुतिरर्थवती स्यादित्यत्राह – उच्छेत्तव्येति । असत्येऽपि दोषः उच्छेत्तव्यो न वा? पूर्वत्र तादृशापुरुषार्थान्वयादतिरिक्तः को नाम दोषशब्दार्थः? उत्तरत्र तन्निरासप्रयासनैरर्थक्यमेवेति भावः । अनिर्वचनीयस्य नित्यनिवृत्तस्वरूपस्य किं निवर्तनेन? अत्यन्ताभावस्यासंपाद्यत्वात्तत्प्रतिभासोप्यनिर्वचनीय एवेति? सोऽपि नित्यनिवृत्तित्वान्न संपाद्यनिवृत्तिः । किंच तात्त्विकदोषः श्रुत्या निरस्यत इति वदता स दोषः किं ब्रह्मस्वरूपमेवेत्यभिमतम्? अन्यद्वा किञ्चित्? पूर्वत्र किं तदधीनसत्ताकयाऽविद्यया? तेन च सर्वोपपत्तेः दोषभूतस्वाधीनप्रकाशतया ब्रह्मापि मिथ्या स्यात् । उत्तरत्र द्वैतापत्तिः; यत्र क्वचिद्विद्यमानत्वाभावे तात्त्विकत्वविरोधात् । भावाद्वैतिनो ब्रह्मस्वरूपातिरिक्ततात्त्विकाभावरूपदोषसंभवात् तन्निषेधिका श्रुतिरियमिति चेन्न; अभावनिषेधे तत्प्रतियोगिभावसंबन्धापातात्, ततश्चाद्वैतवादो निरुध्येत । दोषस्य परमार्थत्वं नास्तीति निरवद्यत्वश्रुत्यर्थ इति चेन्न; दोषस्वरूपनिषेधके तदनुज्ञया तत्सत्यत्वनिषेधकशब्दाभावात्, तत्परत्वकॢप्तेश्च गुरुत्वात् । अतो भावमभावं वा सत्यमसत्यं वा ब्रह्मणि निरसनीयं किञ्चिदिच्छता निर्विषयैव निरवद्यत्वश्रुतिरापादितैवेति ॥ ३९ ॥ इति ब्रह्माज्ञानानुमानानां नित्यनिर्दोषश्रुतिबाध्यत्वम् ॥

3.185     शुद्धे ब्रह्मण्यविद्या न यदि न घटते तस्य जीवैक्यवाद-

स्तस्मान्निर्दोषतोक्तिर्निरुपधिदशया निर्वहेदित्ययुक्तम् ।

प्रत्यक्षादिप्रमाणानुगुणबहुविधश्रुत्यबाधेन नेतुं

शक्येऽप्यैक्यादिवाभ्ये बहुगुणनिधये ब्रह्मणेऽसूयसि त्वम् ॥ ४० ॥

यदि निरवद्यत्वश्रुतिविषये ब्रह्मणि अविद्या कदाचिदपि न स्यादित्युच्येत, तर्हि तस्य जीवैक्योपदेशो न घटेत; तस्मान्निर्दोषत्वश्रुतिस्त्वदभिमतजीववन्निवृत्ताविद्यस्वरूपपरतया निरुह्येतेति शङ्कते – शुद्ध इति ॥ अत्र ‘स एष देवः कृतभूतभावनः स्वयं विशुद्धो विरजाः प्रकाशत इत्यादिभिर्बद्धमुक्तावस्थाद्वयभागिनः कर्मवश्यादन्यत्वेन प्रमितस्य परस्य ब्रह्मणस्सदोषनिर्दोषवस्याद्वयकॢप्तिस्साहसमित्यभिप्रायेणाह – इत्यंयुक्तमिति । ‘तत्त्वमसि’ ‘अयमात्मा ब्रह्मेत्युपदेशो भेदनिषेधश्च कथं’ इत्यत्राह – प्रत्यक्षादीति । अयं भावः – यद्यपि जीवपरभेदश्रुति[मात्रमवस्थाद्वयविषयमिति]मात्रादवस्थाद्वयमिति शङ्कितुं शक्येत, तथाऽप्येकैकस्यामेवावस्थायां जीवादन्यः परः प्रतिपाद्यते । जागरे तावत् ‘तयोरन्यः पिप्पलं स्वाद्वत्त्यनश्नन्नन्योऽभिचाकशीतीति । तथा च सूत्रं ‘स्थित्यदनाभ्यां चेति । ‘समाने वृक्षे पुरुषो निमग्नोऽनीशया शोचति मुह्यमानः । जुष्टं यदा पश्यत्यन्यमीशमस्य महिमानमिति वीतशोकः ॥ इति चोच्यते । स्वप्ने च ‘य एषु सुप्तेषु जागर्ति कामंकामं पुरुषो निर्मिमाण इति । तत्र च स्वतन्त्रपरतन्त्रविभागव्यञ्जकं सूत्रं – ‘पराभिध्यानात्तु तिरोहितं ततो ह्यस्य बन्धकिर्ययाविति । सुषुप्तिप्रायणयोश्च ‘प्राज्ञेनात्मना संपरिष्वक्तो न बाह्यं किञ्चन वेद नान्तरं’ इति ‘प्राज्ञेनात्मनाऽन्वारूढः उत्सर्जन् यातीति च । तत्रापि सूत्रं ‘सुषुप्त्युत्क्रान्त्योर्भेदेनेति’ । मुक्तावस्थायामपि ‘सोऽश्नुते सर्वान् कामान् सह ब्रह्मणा विपश्चितेति’ । अत्र यदि भोक्तृसाहित्यमभिप्रेतं तदा सुव्यक्त एव भेदः, यदा तु प्रस्तुतब्राह्मणपदविवरणक्रमेण भोग्यसाहित्ये तात्पर्यं तदाऽपि भोक्तुर्भोग्यस्य च स्वारसिकी भेदधीर्न बाधमर्हति; ब्राह्मणस्थपरशब्दानुग्रहाश्च । एवं ‘परात्परं पुरुषमुपैति दिव्यं’ इत्यादि । एतदपि सूत्रितं ‘मुक्तोपसृप्यव्यपदेशाच्चेति । ‘ब्रह्म वेद ब्रह्मैव भवतीत्यादिवाक्यं तु ‘निरञ्जनः परमं साम्यमुपैतीति मुक्तविषयतयैव प्राकरणिकेन वाक्येन परमसाम्यतत्परतया स्थापितार्थम्; परमसाम्यं च ‘भोगमात्रसाम्यलिङ्गाच्चेति सूत्रेण नियमितम्; श्रुत्यन्तरे च तादृगेव भवतीति निदर्शितम्; ‘विष्णुरेव भूत्वेत्यादिन्यायाच्च । मोक्षधर्मे च ‘परेण परधर्मी च भवत्येष समेत्य वै’ इत्यादिभिः परमसाम्यमेव प्रदर्शितम् । अनेन साम्यं यास्यामीति च मुमुक्षोरभिसन्धिरप्यभिधीयते । स्वयं चागीयत ‘मम साधर्म्यमागता इति । ‘इतरव्यपदेशाद्धिताकरणादिदोषप्रसक्तिरिति जीवब्रह्मतादात्म्योक्त्याऽनिष्टप्रसङ्गमाशङ्क्य ‘अधिकं तु भेदनिर्देशात्’ इति च प्रत्युक्तम् । स्रष्टुस्सृज्यस्य भेदः श्रुत्यैव हि निर्दिश्यते ‘अस्मान्मायी सृजते विश्वमेतत्तस्मिंश्चान्यो मायया सन्निरुद्ध’ इति । एवं प्रस्पष्टार्थसूत्रप्रतिष्ठापितस्वरसार्थानां भेदश्रुतीनां न त्वदभीष्टवत् प्रत्यक्षादिविरोधः, प्रत्युतानुगुण्यमेव । तस्मादेवंविधनिर्बाधानन्यपरबहुविधश्रुत्यनुसारेण जीवपरसामानाधिकरण्यस्य भेदनिषेधस्य च निर्वाहे संभवति, निर्दोषकल्याणगुणाकरे ब्रह्मण्यविद्यादिदोषमाविष्कुर्वन्नात्मीयामसूयामेवाविष्करोषि; तन्निर्णीतं च मोक्षधर्मान्ते परस्य बन्धप्रसङ्गरहितत्वम्; इतरस्य बन्धमोक्षभगित्वं च – ‘तत्र यः परमात्मा तु स नित्यो निर्गुणो मतः । स तु नारायणो ज्ञेयस्सर्वात्मा पुरुषो हि सः ॥’ न लिप्यते कर्मफलैः पद्मपत्रमिवाम्भसा । कर्मात्मा त्वपरो योऽसौ मोक्षबन्धैस्स युज्यते ॥ इति ॥ ४० ॥ इत्यविद्याकल्पकश्रुतार्थापत्तिभङ्गः ॥

3.186     मायाविद्यादिशब्दैः प्रकृतिरनिभिम[हि]ता ज्ञानकर्मादयो वे-

त्येतत्तत्तत्प्रदेशे स्फुटविदितमतो न त्वदिष्टाऽस्त्यविद्या ।

किंचाविद्यादिशून्यः पर इति विविधाम्नायकष्ठोक्तमर्थं

क्षणं मायादिशब्दः क्षम इति वदतः स्यादविद्या तवैव ॥ ४१ ॥

आस्तां श्रुतार्थापत्तिः, श्रुतिभिरेव भावरूपाज्ञानं सिध्यतीत्यत्राह – मायेति ॥ ‘मायां तु प्रकृतिं विद्यान्मायिनं तु महेश्वरम्’ इत्यत्र न प्रकृतेर्मिथ्यात्वं प्रतिपाद्यते, यथाक्रममुद्देश्योपादेयस्थापनोपपत्तेः । अत्र हि पूर्ववाक्यस्थमायामायिशब्दार्थबुभुत्सायां प्रसिद्धार्थप्रकृतिमहेश्वरशब्दाम्यां संशयादिरपाचिकीर्ष्यत; अन्यथा उद्देश्योपादेयक्रमविपर्यासः । तथा चाहुः – ‘यद्वृत्तयोगः प्राथम्यमित्याद्युद्देश्यलक्षणमिति । न च मायाशब्दो मिथ्यावाची; लोकवेदनिघण्टुपाठाभावात् । क्वचित्प्रयोगस्तु भाक्तः स्यात्; अन्यथा ‘देवमायेव निर्मिता’, ‘स्वमायया सांप्रतमागतं वा’, ‘ऋते मायां विशालाक्षीं तव पूर्वरिग्रहाम्’, ‘तेन मायासहस्रं तदित्यादिभिर्विरुध्येत’ । नीतिशास्त्रेषु च मुख्यामुख्यसंकलनेन सप्तविधोपायपरिगणने मायेन्द्रजालयोरन्यथाकरणान्यथाप्रतिभासनसामर्थ्यरूपतया विभागस्सिद्धः । मन्त्रौषधादिविशेषवति च मायावीति प्रयोगः, न तु क्वचिदपि मिथ्यार्थसंबन्धिनि । तिमिरादिभासितरज्जुसर्पादौ च मायाशब्दो न दृष्टचरः । स्वमतव्यामोहितानां प्रयोस्त्वनादेयः । ‘मायां न सेवे भद्रं ते न वृथा धर्ममाचरे’, ‘मायाविनं मायया वर्तमानमित्यत्र च व्यामोहनमात्रं विवक्षितम्’ । ‘तेन वञ्चयते लोकान्मामायोगेन केशवः इत्येतदप्यसुरवञ्चनाशक्तियोगपरम् । ‘इन्द्रो मायाभिः पुरुरूप ईयते’ इत्येतच्च शक्तिविशेषैः प्रभूतरूपप्रकाशनपरम्, अन्यथाऽनन्वयात् । नचेदमिन्द्रभ्रान्तिपरं वाक्यं, प्रशंसार्थप्रकरणविरोधात् । कथमन्यथा ‘युक्ता ह्यस्य हरयश्शतादश’ ‘भूरि त्वष्टेह राजतीत्यादिकं घटते’? ‘संभवाम्यात्ममाययेत्येतदप्यौचित्यात् स्वञ्जाबतारहेतुभूतबुद्धिविशेषविषयम्, ँ माया वयुनं ज्ञानमिति च नैघण्टुकाः । एवं सति ‘इच्छागृहीताभिमतोरुदेहः’ ‘समस्तशक्तिरूपाणि तत्करोति जनेश्वरः । देवतिर्यङ्मनुष्याख्याचेष्टावन्ति स्वलीलया ॥’ इत्यादिभिरैकार्थ्यं स्यात् । ‘मम माया दुरत्यय’ इत्यादिषु गुणमयीति विशेषणात् त्रिगुणद्रव्यविषयत्वमेव कण्ठोक्तम् । तथा च तन्नामपाठः । एतेन ‘भ्रामयन् सर्वभूतानि यन्त्रारूढानि मायया’ इत्यपि गतार्थम् । ‘भूयश्चान्ते विश्वमायानिवृत्तिः’ इत्येतदपि प्रस्तुतयोगबलान्निश्शेषमायातरणमेव निर्दिशति । एवं ‘विष्णुमायामहावर्तम्’, ‘विष्णोर्विचित्राः प्रभवन्ति मायाः’ इत्यादिकमपि सत्यविषयमेव संमन्तव्यम् । ‘मायामात्रं त्विति सौत्रं पदमपि स्वतन्त्रसंकल्पमूलस्वाप्नसर्गस्याश्चर्यतमत्वपरम् । जीवकर्तृकसृष्टिव्यवच्छेद एव ह्यधिकरणे युज्येत । प्रागेव हि स्थापितप्रपञ्चमिथ्यात्वानामिह पुनस्सुप्रसिद्धे स्वप्नविषये विशेषतश्शङ्का नाङ्कुरति । योगे वा जागरप्रपञ्चसत्यत्वमभ्यनुज्ञायैव चिन्ता न स्यात् । अविद्याशब्दोऽपि न क्वचिदप्यनिर्वचनीयजगदुपादानविषयः । तथा हि ‘क्षरं त्वविद्या ह्यमृतं तु विद्येति’ आदौ ‘क्षरं प्रधानं’ इत्यादिप्राकरणिकवाक्यैकार्थ्यात् प्रधानविषयत्वमेव युक्तम् । अत्र च विद्याशब्दोक्तात् पुरुषादन्यतामात्रेण प्रकृतावविद्याशब्दः । न च सा मिथ्या, ‘गौरनाद्यन्तवतो सा जनित्री भूतभावनी’ ‘त्रिगुणं तज्जगद्योनिरनादिप्रभवाप्ययम्’ ‘अचेतना परार्था च नित्या सततविक्रियेत्यादिभिस्तन्नित्यत्वसिद्धेः । कथं तर्हि ‘मृत्युर्वै परे देव एकीभवति’, ‘तमः परे देव एकीभवति’ इति वाक्ययोर्निर्वाहः? इत्थम् -सर्वाधारभूते परस्मिन्देवे विभक्तावस्थात्यागेनैकत्वदशावस्थानमात्रं ह्यत्राभिप्रेतम् । एतेन ‘प्रकृतिर्या मयाऽऽख्याता व्यक्ताव्यक्तस्वरूपिणी । पुरुषश्चाप्युभावेतौ लीयेते परमात्मनि ॥’ इत्येतदपि व्याख्यातम् । ‘अविद्यया मृत्युं तीर्त्वेत्यत्राविद्याशब्दस्तत्त्वज्ञानविरोधिनिवर्तकसत्कर्मविषयतया भाष्ये व्याख्यातः; अनुवाके प्रकृतयोर्विद्याकर्मणोरेव ‘विद्यां चाविद्यां च यस्तद्वेदोभयं सह’ इति परामर्शात्, पर्युदासवृत्तेर्नञश्चासन्नविषयत्वोपपत्तेः । अविद्यया मृत्युं प्राप्य स्थित इति निर्वाहस्य चातिक्लिष्टत्वात्; बाधाभावे च स्वरसपरित्यागायोगात्; ‘ब्रह्मविद्यामधिष्ठाय तर्तुं मृत्युमविद्ययेत्युपबृंहणानुगुण्याच्च । ‘अविद्या कर्मसंज्ञाऽन्येत्यत्र बन्धककर्मविषयत्वं वाक्यशेषसिद्धम्’ । ‘अविद्यायामन्तरे वर्तमानाः’ ‘सोऽविद्याग्रन्थिं विकिरतीह सौम्य’, ‘अविद्यासञ्चितं कर्म, ‘अविद्यातरुसंभूति बीजमेतद् द्विधा स्थितम्’ इत्यादौ प्रकरणानुगुणतत्तदर्थविषयत्वं ग्राह्यम् । आदिशब्देन ‘अनृतेन हि प्रत्यूढाः’ ‘त इमे सत्याः कामाः अनृतापिधानाः’ ‘तेषां सत्यानां सतामनृतमपिधानमित्याम्नातोऽनृतशब्दश्च संगृहीतः । सत्कर्मणि ऋतशब्ददर्शनात्तदितरवृत्त्या दुष्कर्मविषयोऽत्रानृतशब्दः, दुष्कृतस्य च ज्ञानपिधायित्वं श्रुतिस्मृतिसिद्धम्, त्वयाऽपि दुस्त्यजं च । एवमसदव्याकृतशब्दैरपि न मिथ्यार्थग्रहः, अवस्थाविशेषवैशिष्ट्यपरत्वात् । तदत्र फलितमाह – अत इति । त्वदिष्टानिर्वचनीयत्वादिविशिष्टेत्यर्थः । अनन्यथासिद्धबहुश्रुतिप्रतिहतेश्च मायादिशब्दैर्न ब्रह्माज्ञानकॢप्तिरित्याह – किंचेति । निरवद्य इति सामान्योक्त्याऽप्यज्ञानरूपमवद्यं निरस्यते । अस्ति चाकर्मवश्यत्वस्वतस्सर्वज्ञत्वश्रुतिः, ‘सकला न यत्र क्लेशादयस्सन्ति परावरेशे’ इत्याद्युपबृंहणशतं च । मोक्षप्रदत्वश्रुत्या च स्वयं न मायासंबद्धः; तत्प्रसादाधीनं ह्येषां मायातरणं गीयते । ननु ‘त्वं हि नः पिता योऽस्माकमविद्यायाः परं पारं तारयसीति कर्मवश्यस्य योगसिद्धस्य गुरोरविद्यातारस्त्वमाम्नातमिति चेत्; अस्तु तत्रार्थस्वभावात् परम्परया तारकत्वम्, ब्रह्मण एव साक्षान्मोक्षप्रदत्वेन प्रतिपादनात् । एवमविद्याप्रसङ्गरहिते ब्रह्मणि असाधकतमैः शब्दविशेषैरविद्यां क्यतस्तवैवाप्रतिपत्तिविप्रतिपत्तिभ्यां निग्रहः स्यात् ‘त्यइभिप्रायेणोक्तम् – स्यादविद्या तवैवेति ॥ ४१ ॥ इति मायादिशब्दानां ब्रह्मदोषप्रतिपादकत्वानुपपत्तिः ॥

3.187     निर्दोषश्रुत्यबाधप्रणयिभिरुदितो ब्रह्मजीवानुबन्धी

मायाविद्याविभागोऽप्यफल इह परोन्मोहनार्था हि माया ।

मिथ्यार्थान् दर्शयित्वा विहरणमपि तैस्तादृशं भावयन्ती

मायैव स्यादविद्या न कथमितरथा स्यादनुच्छेदनीया ॥ ४२ ॥

अत्र केचिन्निर्दोषश्रुत्यविरोधमाकाङ्क्षन्त एवं व्यभाङ्क्षुः – अविद्या किल स्वकल्पितानां क्षेत्रज्ञानां सत्यं तिरोधाया – सत्यं सत्यत्वेन प्रकाशयति; दुःखादिकं च दोग्धि; माया तु ब्रह्मणः सत्यमसत्यं च सम्यगेव दर्शयन्ती, दुःखादिकं चानुत्पादयन्ती विश्वव्यापारलीलारसं प्रसूत इति । इमं विभागमनुभाष्य दूषयति – निर्दोषेति ॥ अफलत्वं विवृणोति – परेति । अयं भावः – ये नाम केचिन्मायया क्रीडन्ति न तेऽनया मोमुह्यन्ते; परानेव व्यामोहयन्ति । अत्र तु न वस्तुतस्सन्ति भवतां परे मोहनीयाः । कल्पितांस्तु क्षेत्रिणः कल्पितानि च मोहकरणोपकरणानि स्वयं सर्ववित्परमेश्वरो मायावी यदि कल्पितत्वेन पश्येत्, कथं तान् मुमोहयिषेत्? कथं च तैश्चिक्रीडिषेत्? अत ईदृशोपाधिविभागेन जीवेश्वरयोस्सदोषनिर्दोषत्वविभागो दुस्साध इति । अथ पराविद्याकल्पितानि जीवाद्युपकरणानि ब्रह्मापि स्वमायया परमार्थवत्पश्यतीति मन्वीत; तत्राह – मिथ्यार्थानिति । दर्शयित्वा – सत्यत्वेनेनि शेषः, तादृशं – मिथ्याभूतमित्यर्थः । इयं स्वयमसत्येव माया स्वसिद्धान्यविद्यासिद्धानि वा मिथ्याभूतानि विहारोपकरणानि तत्साध्यं विहरणं च यदि सत्यत्वेन दर्शयन्ती अर्भकादीनामिव प्रतिबिग्बकल्पैर्जीवैस्संव्यवहारमारभेत, सैव कथमविद्या न स्यात्? सुखजनकत्वादिति चेन्न; अविद्यायामपि तस्याभ्युपगमात् । दुःखाजनकत्वे सतीति चेत्तत्राह – इतरथेति । इतरथा – दुःखासंभिन्नसुखजनकत्वेनाविद्यात्मकत्वाभावे सतीत्यर्थः । नन्वनादित्ववन्मायाया अनुच्छेद्यत्वमप्यस्तु, का नो हानिरिति चेत्; प्रथमं तावदसत्यस्य सर्वस्यानित्यत्वाभ्युपगमविरोधः । अथ च ब्रह्यस्वरूपवन्निर्बाधस्य नित्यस्य भावरूपस्यासत्यत्वकॢप्तिविरोधः । अथवा ‘विश्वमायानिवृत्तिरिति स्वाभीष्टपरतया व्याख्यातश्रुतिविरोधः, नित्यानित्यवस्तुविवेकवैतथ्यं चेति ॥ ४२ ॥ इति मायाविद्याविभागभङ्गः ॥

3.188     मिथ्याभूतस्य सत्यं निरुपधि भजते न ह्युपादानभावं

तस्योपाधिश्च मिथ्यात्मक इति निरधिष्ठानता नास्य युक्ता ।

तस्मात्सत्यानृते द्वे भिथुनमिति न सद्विश्वसत्ता ह्यबाध्या

सद्विद्यायां च कार्यं ननु कथमसतस्सद्भवेदित्युपात्तम् ॥ ४३ ॥

यत्तु मिथ्याभूतस्य प्रपञ्चस्य तादृशमेवोपादानं भवितुमर्हतीत्याहुः, तदनुभाषते – मिथ्येति । अयं भावः – यद्यपि ब्रह्मोपादानकमशेषं कार्यमाम्नातम्; तथाऽपि तस्य न स्वरूपतस्तदुपादानत्वं युक्तम्, निर्विकारत्वात् विरूपत्वाच्च । अत उपाध्यपेक्षायां ब्रह्मण उपादानत्वघटकतया प्राप्त उपाधिः स्वकार्यवन्मिथ्याभूत एष्टव्यः । स च स्वरूपसत्यत्वाभावान्निरधिष्ठानो न सिध्येत् । अतो ब्रह्मण उपादानत्वार्थमुपाधेः स्वरूपसिद्ध्यर्थं मिथःकरम्बितसत्यानृतमिथुनसंभवः सर्गः स्वीकार्य इति । अत्र लोकसिद्धोपादानप्रक्रियाविरोधमभिप्रेत्याह – इति न सदिति । सत्ययोरेव हि प्रकृतिविकृतित्वं दृष्टम्; न च कल्पितरजताद्युपहितस्य तत्तदर्थक्रियाकारित्वम् । अतो मिथ्योपसृष्टतयाऽपि ब्रह्मण उपादानत्वं मृग्यमिति भावः । उपादानमिथ्यात्वकल्पकासिद्धिमाह – विश्वेति । प्रपञ्चस्य सत्यत्वं तावद्व्यावहारिकव्यपदेशेन त्वयाऽपि संगृह्यते; बाधश्च परिहरिष्यत इति भावः । श्रुतिविरुद्धं च कार्यभिथ्यात्वमित्याह – सद्विद्यायामिति । ‘तद्धैक आहुः असदेवेदमग्र आसीत्’ इति परमतमनूद्य स्वमतेन तत्प्रतिक्षेपे ‘कुतस्तु खलु सोम्यैवं स्यात् कथमसतः सज्जायेत’ इति कार्यसत्यत्वं संप्रतिपन्नत्वेनोपात्तम् । अतः प्रथमप्रतीतानुसारेण ‘वाचारम्भणं विकारो नामधेयम्’ ‘अपागादग्नेरग्नित्वम्’ इत्यादिकमसत्कार्यवादनिरासार्थतया नेतव्यमिति भावः । एवं ‘मृत्तिकेत्येव सत्यम्’ ‘त्रीणि रूपाणि’ इत्येव सत्यमित्यादौ च श्रुत्युपात्तमृत्तिकादिसत्यत्वानुरोधेनोपादानोपादेयद्रव्यतादात्म्यपरत्वसंग्रह एव साधीयान् । ‘अथ नामधेयं सत्यस्य सत्यं प्राणा वै सत्यं तेषामेष सत्यमित्यत्र च प्रकृत्यवगतप्राणसत्यत्वाबाधेन संबन्धविभक्तेरुचितविशेषसंभवे विपरीतविवक्षाकल्पनमन्याय्यम् । यदि च प्राणेषु व्यावहारिकं सत्यत्वमिहानूद्येत तदा मिथ्याभूतानाम् एष सत्यमिति किं नाम त्वदिष्टं निर्दिष्टं स्यात्? प्रत्युत समभिव्याहारसामर्थ्यात् ब्रह्मणोऽपि सत्यत्वमविशिष्टोपात्ततया व्यावहारिकमित्येव सिध्येत् । स्वरूपेऽधिकसत्यत्वविधौ च तस्य नीलादिवन्निष्प्रतियोगिकत्वान्न षष्ठी समन्वीयेत । अतो यथाभाष्यमिहार्थः ॥ ४३ ॥ इत्यविद्याकल्पककार्यमिथ्यात्वानुपपत्तिभङ्गः ॥

3.189     कार्याणां यत्सरूपं किमपि गुणमयं कारणं कापिलोक्तं

तत्क्षिप्तं माक्षिकादेः क्रिमिमुखजनिना सूत्रकारैर्द्वितीये ।

तस्मान्मिथ्यात्मकस्य स्वयमनुपधिकं सत्यमेवास्तु सूतिः

सत्योपादानवादे जगदपि न मृषा स्यादितीष्टं त्विदं नः ॥ ४४ ॥

अत्र यदुपजीवनेन मिथ्याभूतस्य मिथ्याभूतमेवोपादानमिति कल्प्यते तमेव प्रकृतिविकृत्यैकरूप्यनियमं निरस्यति – कार्याणामिति ॥ नविलक्षणत्वाधिकरणे हि सत्त्वरजस्तमोमयस्य जगतस्तादृशमेवोपादानं युक्तम् । न तु निर्गुणं ब्रह्मेति वदतस्सांख्यस्य द्वितीयेऽध्याये सूत्रकारैरुत्तर दत्तं ‘दृश्यते तु’ इति । कथंचित्सारूप्यं ब्रह्मणोऽपि सिद्धम्; सर्वथा सारूप्यं न ते प्रकृतेरपि स्यात्; भेदाभेदाङ्गीकारेऽपि समविषमदशाभेदव्यवस्यापनात् । अतः कार्यान्तरकारणव्यावर्तकाकारेण सारूप्यमपेक्षितमिति वक्तव्यम् । तत्र माक्षिकगोमयादिभ्यः क्रिमिवृश्चिकायुत्पत्तिदर्शनाद्व्यभिचारः । एष्वपि पार्थिवत्वाकारेण सारूप्यमस्तीति चेत्, किमतः? तेनाकारेण तेषां तत्कारणत्वे पार्थिवान्तरेभ्योऽपि तज्जातीयोत्पत्तिप्रसङ्गात् । यदि चासजातीयोत्पादकव्यावर्तकाकारेण सारूप्यमिष्येत कथमिदं प्रकृतौ संभाव्येत? सर्वस्याप्यन्ततः प्रकृतिकार्यत्वाभ्युपगमात्तद्व्यतिरिक्तोपादानानङ्गीकाराच्च । एवं कार्यस्य विजातीयकार्यव्यावर्तकाकारेण सरूपमुपादानमित्यपि नियमो दूष्यः; सारूप्यविकल्पदौःस्थ्यस्य दुर्वारत्वात्, शरावादिजातीयव्यावर्तकघटत्वादिना मृदस्सारूप्यायोगात् । अतस्सारूप्येण वा वैरूप्येण वा अन्वयव्यतिरेकवता धर्मिग्राहकसिद्धेन वा केनचिदाकारेण निमित्तवदुपादान[त्व]मपीति नियमः । एवं स्थिते सत्यकारणत्वं कार्याणामसत्यत्वं च स्थापयतस्ते निरुपाधिकात् सतो जगदुत्पत्तौ न विरोध इत्याह – तस्मादिति । निर्विकारश्रुतिविरोधात् उपहितग्रह इति चेन्न; विकारमिथ्यात्वेन युष्माभिस्तत्समाधानात् । सूतिः – अध्यासाधिष्ठानतया उपादानमित्यर्थः । अत्र प्रसङ्गान्तरमाशङ्क्य परिहरति – सत्येति । तुशब्देन न केवलभिष्टप्रसङ्गता; व्याप्तिसापेक्षे प्रसङ्गे पूर्ववत्सारूप्यनियमभङ्गोऽप्यस्तीति द्योत्यते ॥ ४४ ॥ इत्युपादानोपादेयसालक्षण्यनियमभङ्गः ॥

3.190     दृश्यत्वाद्विश्वमिथ्यावचसि विहतयोऽसिद्धयश्चात्र बह्वयः

पक्षादेस्मिद्ध्यसिद्ध्योर्न हि गतिरितरां नापि वादाङ्गमीदृक् ।

मर्यादां लोकसिद्धां विजहत इह ते नापरा सा प्रसिध्ये-

न्निर्मर्यादोक्तिमात्राञ्जगदपलपतः किं न सत्यं ततस्तत् ॥ ४५ ॥

अथ कार्यमिथ्यात्वासिद्धिरेवासिद्धा, अनुमानतस्तत्सिद्धेरित्यत्राह – दृश्यत्वादिति ॥ मिथ्याशब्दोऽत्र ‘द्व्येकयोरितिवद् भावप्रधानः; विगीतं मिथ्या दृश्यत्वात् यद् दृश्यं तन्मिथ्या यथा शुक्तिरूप्यमित्यत्र सर्वे दोषास्समाह्रियन्ते । विहतयस्तावत् – विगीतपदं किञ्चिन्निष्ठं विगीतत्वमुपस्थापयति, तस्यापि पक्षीकरणात् तन्निष्ठात्यन्ताभावो मिथ्यापदेनोपस्थाप्यत इति प्रतिज्ञापदयोर्व्याघातः । द्वयोरपि पदयोस्तत्त्वतः स्वार्थसमर्पकत्वाभावान्न व्याघात इति चेत्; एवं सति त्वन्मते क्वचिदपि प्रतिज्ञाविरोधो न स्यादिति विश्रृङ्खलविरुद्धभाषितेन भवता भवितव्यम् । ईदृशतत्त्ववेदिना च त्वया प्रतिवादिनोऽपि विरुद्धं वदन्तो न निग्राह्याः । परबुद्धिसिद्धविरोधात्तन्निग्रह इति; न, परबुद्धिसिद्धेऽपि त्वया तत्त्वशून्यत्वावधारणात् । किंच विगीतत्वं यदि मिथ्या स्यात्, तदा सत्यत्वेन वा मिथ्यात्वेन वा संप्रतिपत्तिः स्यात्? तत्राद्येमिथ्यात्वसाधनव्याघातः; द्वितीये साध्यत्वव्याघातः । मिथ्यापदं च सत्यमसत्यमनिर्धारितविशेषद्वयं वा मिथ्यात्वमु[पस्थापयति] पाददीत? प्रथमे तस्य मिथ्यावृत्तित्वव्याघातः । न हि सत्यं रूप्यत्वं शुक्तिरूप्ये वर्त्स्यति । सिद्धान्तव्याघातश्च, ब्रह्मस्वरूपस्य सत्यस्य निराधारस्यासत्यवृत्तित्वे व्याघातः; तदतिरिक्तस्वीकारे सत्याद्वैतव्याघातः । हेतुपदेन च पक्षमर्धतयोपस्थाप्यमानं लिङ्गं साध्यपदेनापह्रियत इति प्रतिज्ञाहेतुविरोधः । शुक्तिरूप्यगतयोश्च साध्यसाधनयोस्सत्यत्वेन ग्रहणे प्राग्वद्विरोधः । असत्यत्वेन ग्रहणे तूदाहरणवाक्येन व्याप्तिप्रदर्शनविरोधः । दृष्टान्ते च मिथ्यात्वेन प्रदर्शितस्य साध्यस्य पक्षे सत्यत्वेनोपसंहारे प्रतिज्ञोदाहरणविरोधः । असत्यत्वेनोपसंहारे च विधायकमेव निषेधकमिति व्याघातः । एवमसिद्धयश्च । तथाहि – यद्यपि तर्कस्यारोपितलिङ्गधीरङ्गं, तथाऽपि साधने तु न तथा, तथैवोभयव्यवस्थादृष्टेः । अन्यथा स्वबुद्धिकल्पितधेनुपर्वतादिषु कल्पितैरेव कैश्चिल्लिङ्गैः पयःपावकादीननुमाय तदर्थिनां तत्र प्रवृत्तिप्रसङ्गात् । व्यावहारिकसदेव साधनाङ्गं न प्रातिभासिकमिति चेन्न; शुक्तिरूप्यस्य त्वया दृष्टान्ततयोपादानात् । अत एव प्रमितत्वेन लोकबुद्ध्यारूढमाश्रयादि भवतीत्यपि निरस्तम् । प्रतिवादिसंमतत्वमात्रेण पक्षीकारादिः स्यादिति चेन्न; स्वार्थानुमाने तदयोगात्, तत्पूर्वकत्वात् परार्थप्रयोगस्य, अन्यतरासिद्ध[त्व]लोपप्रसङ्गाच्च । तदिह पक्षादीनां प्रमाणतस्सिद्धौ तन्मिथ्यात्वसाधनव्याघातः । असिद्धौ चाश्रयाद्यसिद्धयो बह्व्यस्संमन्तव्याः । विरुद्धद्वयसमुच्चयनिषेधौ तु सुदुर्वचावित्यभिप्रायेणाह – पक्षादेरिति । यदि ह्यसिद्ध्यादिदोषदुष्टमपि साधकमङ्गीक्रियेत, तदा चैव कथा कथायास्तत्कलव्यवस्थायाश्चेत्यभिप्रायेणाह – नापीति । दुष्टमपि जल्पवितण्डयोरङ्गमिति चेन्न; तयोर्निग्रहस्थाननिवृत्तिप्रसङ्गात् । न हि कथाङ्गस्वीकर्तुः कश्चिदपराधः स्यात् । अतः प्रतिभाक्षये परव्यामोहनेन पाक्षिकावष्टम्भविजयावहतया तयोस्तदनुज्ञानं न त्वङ्गतया, अवश्यप्रयोक्तव्यत्वप्रसङ्गाच्च । न च दुष्टानां कथाङ्गत्वं कैश्चिदनुशिष्टम् । अतिक्रान्तमर्यादानामभिमतिरुन्मदिष्णूनामिवोपेक्षणीया । माध्यमिकादयोऽप्येतादृग्घेतुभिस्त्वदनिष्टं त त्तत्साध्यं साधयन्तस्त्वया न निगृह्येरन् । विमतमस्साधकं दृश्यत्वात् संमतवदिति त्वदुक्तोपालम्भे च किं वक्ष्यसि? केन चान्यदपि किञ्चित्स्वयंप्रकाशत्वादिकं साधयिष्यसि? स्वव्याघातदुष्टतया माध्यमिकादिप्रयोगोऽनास्थेय इति चेत्, स्वोक्तमपि तथाऽवधारय । स्वपरनिर्वाहकत्वसमाधिरस्म[त्प्रयोगे]त्पक्षे त्विष्ट इति चेत्; अन्येषामपि तथा किं न स्यात्, अविशेषात्? नन्वाभिमानिकसिद्धिभिः प्रमाणैस्सर्वसिद्धान्ताः स्थाप्यन्ते; अत ईदृशमपि कथायामङ्गं भवतीति मर्यादान्तरं मया कल्प्यत इत्यत्र सेयं कल्पना प्रमाणतर्कसिद्धेसेयभिमता, उत स्ववाङ्मात्रसिद्धेति विकल्पे पूर्वस्य निर्मूलतयाऽनुदयमाह – मर्यादामिति । स्वाभीष्टमर्यादायाः प्रमाणादिसिद्धत्वं हि लोकमर्यादानुरोधेन वक्तव्यम्; अन्यथा तत्साधकासिद्धेः । अतः स्वमर्यादासिद्ध्यर्थं लोकमर्यादा अनतिक्रमणीयेति भावः । उत्तरत्र विपरीतप्रसक्तिमाह – निर्मर्यादेति । स्वोक्तिमात्रसिद्धमर्यादया जगन्मिथ्यात्वाभिधाने मदुक्तिमात्रसिद्धमर्यादया सत्यत्वसाधकप्रमाणाभावेऽपि जगत्सत्यमिति प्रयुक्तिमात्रेण सिद्धौ बाधितविषयं त्वदनुमानं स्यादिति भावः ॥ ४५ ॥

3.191     साध्ये सत्येतरत्वे कथित इह भवेत् स्वस्य हि स्वान्यभावो

नान्यत्सत्यं तु दृष्टं तदवधिकभिदासाधने चेष्टसिद्धिः ।

सत्यत्वं चेन्निषेध्यं प्रसजति दहनेऽप्युष्णताया निषेध-

स्साध्यं त्वक्षाद्यबाध्यं यदि किमपि परं तेन न व्याप्तिसिद्धिः ॥ ४६ ॥

मिथ्याशब्दविवक्षितं च विकल्पासहत्वेन दूषयति – साध्य इति ॥ अयं भावः – किं यतःकुतश्चिदन्यत्वं सिषाधयिषितम्? उत सर्वस्मात्? आद्ये सत्यानां पृथिव्यादीनां परस्परान्यत्वेन सिद्धसाधनता; द्वितीये सर्वेषां प्रत्येकं सत्यशब्दवाच्यतया स्वस्मादप्यन्यत्वं सर्वेषां प्रतिज्ञातं स्यात्; तथा च व्याघातः, तत्त्वातत्त्वयोरेकस्मिन्नसंभवात्; अन्यथा कथमनेकान्तवादनिस्तार इति । ननु विगीतानां व्यावहारिकसत्यत्वनिबन्धनं मिथस्सत्येतरत्वं न साधयामः । किंत्वस्ति किञ्चिदशेषकल्पनारहितं परमार्थसत्यं, ततोऽन्यत्वं त्विहातिष्ठामहे; तत्राह – नान्यदिति । अशेषविशेषोज्झितं किञ्चित्परमार्थसत्यं न प्रत्यक्षादिषु कुतश्चित्प्रमाणात् सिद्धम् । न च तथा स्वयं प्रकाशते, तवापि हृदयविसंवादादिति भावः । ननु त्वयाऽपि परमार्थसद्ब्रह्माङ्गीकृतम्; अतस्तदन्यत्वसाधनमनुपालम्भनीयमित्येतदपि दूषयति -तदवधिकेति । न हि वयं जगतो जैनगन्धिवत् ब्रह्यानन्यत्वमङ्गीकुर्म इति भावः । अथ मिथ्याशब्दस्य सत्यत्वशून्यत्वमर्थ इति शङ्कते – सत्यत्वमिति । अत्र कालातीतत्वं निदर्शने प्रसक्त्या निर्धारयति – प्रसजतीति । अयं भावः – इह हि प्रातीतिकं व्यावहारिकं पारमार्थिकं वा सत्यत्वं निषिध्येत? तत्राद्यः परानिष्टोपालम्भ इत्यन्यौ शिष्येते; तयोश्च व्यावहारिकसत्यत्वनिषेधे यत्रैव यस्य प्रसिद्धिं मन्यसे तत्रैव तन्निषेधसीति न कथं कालातीतेन चापसिद्धान्तेन च निगृह्येथाः? व्यावहारिकं च मिथ्येति त्वदेद्दृष्टिः; मिथ्याभूतसत्यत्वनिषेधेऽपि परेष्टमेव त्वया प्रतिष्ठापितं स्यादिति । सत्यत्वान्तरनिषेधमनुवक्ति – साध्यमिति । तुः परेष्टविशेषनिषेधद्योतकः । परम् – अन्यत् । परमार्थसत्यत्वं हि लोकदृष्टादन्यत् । ब्रह्मनिष्ठं तद्वैधुर्यं चात्र बाधयोभ्यादन्यदेव । अतः कथं बाधादिप्रसङ्ग इति भावः । तद्दूषयति – तेनेति । परमार्थसत्यत्वं हि व्यावहारिकादेव प्रमाणत्सिध्येत्? पारमार्थिकाद्वा? नाद्यः; प्रपञ्चस्यापि तत एव तत्सिद्धौ बाधस्य दु[र्वच]र्वारत्वात्, क्वचित्तस्य तत्साधकत्वं क्वचिन्नेति नियामकाभावात् । द्वितीये त्वपसिद्धान्तः; व्यावहारिकप्रमाणागोचरसत्यत्वनिरूपिताभावेन सह व्यावहारिकप्रमाणेन कथं व्याप्तिः गृह्येत? तत्रापि पारमार्थिकप्रमाणाद्ग्रहणे सिद्धान्तादिविरोधदोषस्तदवस्थः । शुक्तिरूप्यशब्देन च किं रूप्यत्वाश्रयतया रूप्यतादात्म्येन वा प्रतीतं भास्वरं द्रव्यं निर्दिश्यते? एतन्निष्ठतया प्रतीतं रूप्यत्वं वा? इदंत्वेन भातरूप्यं वा? रूप्यत्वसंसर्गो वा? रूप्यतादात्म्यं वा? विकल्पभेदारूढमतद्व्यावृत्तिरूपमलीकं वा? रजतसरूपबुद्ध्याकारविशेषो वा? शुक्त्यवच्छिन्नाविद्याकृतचैतन्यविवर्तो वा? शुक्तिरजतव्यवहारगोचरमात्रं वा किञ्चित्? आद्येषु चतुर्ष्वन्यथाख्यातिस्वीकारप्रसङ्गः । तत्र च निरुपाधिकमिथ्यात्वं न दृष्टम् । सोपाधिकमिथ्यात्वसाधने सर्वस्यापि प्रपञ्चस्य परस्परारोपयोग्यस्य देशकालान्ताद्युपधानेन मिथ्यास्वसाधनात् सिद्धसाधनता । न पञ्चमषष्ठौ; तयोरपि स्वस्थाने सम्यक्त्वात् शुक्तिस्थयोस्तयोरस्मदनभ्युपगतयोस्त्वयोदाहर्तुमशक्यत्वात् । अत एव न सप्तमः, व्यावहारिकसत्यानामपि तथात्वाभ्युपगमप्रसङ्गाच्च । नाप्यष्टमः, न हि सत्याया बुद्धेराकारो मिथ्या स्यात्, अन्यतया अनन्यतया वा प्रमितस्य तदयोगात् । अप्रमितस्य चानुदाहर्तव्यत्वात्, अन्यथाऽतिप्रसङ्गात् । भ्रान्तिज्ञाने बुद्धितदाकारावसत्याविति तदाकारनिदर्शनोपपत्तिरिति चेन्न; बाधाभावात्; परानभ्युपगतेश्च । नवमोऽप्यत्यन्ताप्रसिद्धेरपास्तः । अपाकरिष्यते चानिर्वचनोयोत्पत्त्यादिः । नापि दशमः, सत्येषु शुक्त्यादिषु अन्यतमस्यैव कयाचिद्विवक्षया शुक्तिरजतव्यवहारविषयत्वात्; अन्यथा वर्णक्रमनिर्देशवन्निरर्थकत्वापातात्; तथा चाश्रयहीनमुदाहरणमिति न कथञ्चिदपि व्याप्तिसिद्धिरिति ॥ ४६ ॥

3.192     स्वात्यन्ताभावदेशे विदितमिति यदि स्थाप्यमिष्टं क्वचित्त-

त्तत्रैवेति त्वशक्यं क्वचिदपि न तथा ह्यस्ति सिद्धान्तसिद्धिः ।

बाधश्चास्मिन्नुपाधिस्समधिगतदशादेशकालाद्युपाधौ

नासौ साध्योऽत्र मानं निखिलमपि यतस्तद्विधानैकतानम् ॥ ४७ ॥

पुनस्साध्यविकल्पे कोट्यन्तरमनुवक्ति – स्वात्यन्तेति ॥ स्थाप्यं – साध्यम् । तत्र सिद्धसाधनतामाह – इष्टमिति । क्वचित् – योग्यस्थले । सर्वेऽपि हि पदार्थास्सामग्रीविशेषैः स्वात्यन्ताभाववत्स्वध्यस्यन्ते । तत एव हि सर्वत्र पूर्वपक्षोदयः; आहार्यलिङ्गजा च तर्कधीस्सार्वत्रिकी निरनिष्टेऽनिष्टमुल्लेढि । अत एव हि विपर्यये पर्यवस्यति । ननु स्वात्यन्ताभावदेश एव विदितमिति साध्यं स्यात्; तथा च न सिद्धसाध्यतेत्यत्राह – तत्रैवेतीति । अत्र ह्यवधारणं स्वदेशव्यवच्छेदार्थम्; तदिदं स्वदेशसदसद्भावयोरशक्यमेव । स्वदेश एव स्वात्यन्ताभावदेश इति प्रस्तुतप्रतिज्ञाभिप्राय इति । अत्र व्याप्तिग्रहणाभावमाह – क्वचिदपीति । यत्रक्वचिद्देशे काले वा जागरस्वप्नावस्थयोर्व्यावहारिकप्रातिभासिकयोर्वेत्यर्थः । शुक्तिरूप्योदाहरणं त्वसिद्धिप्रदर्शनेन प्रत्युक्तम् । एतेन स्वात्यन्ताभावप्रदेशवर्तित्वं साध्यमित्यपि निरस्तम् । सिद्धसाध्यत्वपरिहारेऽपि व्याघातादेरपरिहार्यत्वात् । श्लो. नहि वस्तु विकल्प्येत न विरुद्धसमुच्चयः । न चोभयपरित्यागो विहतिं जहतः क्वचित् ॥ न हि तदेव तत्रैव तदानीमेव विद्यते न विद्यते वेति विरुद्धानियतरूपता, ईदृशस्यानियमस्य जैनैरप्यनङ्गीकारात् । नच तदङ्गीकृतविरुद्धसमुच्चयः, स्वपरपक्षसमुच्चये सर्वकथोच्छेदापत्तेः । अत एव नोभयमिथ्यात्वेनोभयत्यागः, विरुद्धान्यतरविधिनिषेधयोरितरनिषेधविधिनान्तरीयकत्वात्, स्वात्यन्ताभावसामानाधिकरण्यसाधनायोगाच्च । अस्तु वा कश्चिन्मिथ्याशब्दार्थः; तत्र दृश्यत्वस्याप्रयोजकत्वमाह – बाधश्चेति । मिथ्याशब्दवाच्यत्वे हि प्रतिपन्नोपाधौ बाधितत्वं प्रयोजकम् । अत एव न तदेव तदित्यनुपाधित्वम् । ननु बाध एवात्र साध्यस्स्यात्, तत्र च नोपाधिश्शक्यो वक्तुम्; तत्राह – नासाविति । अयं भावः – किमत्र यस्यकस्यचित् पुरुषस्य यत्रकुत्रचिद्देशे काले वा बाधोऽस्तीत्येतावन्मात्रं साध्यम्? उतानेन प्रमाणेनास्य बाधो दृश्यत इति । न प्रथमः, एतावन्मात्रसाधनस्य ब्रह्मण्यपि सुवचत्वात् । शक्यं हि साहसिकस्य भासमानत्वमात्रेण सर्वमिथ्यात्वं साधयितुम् । किं च ब्रह्मव्यतिरिक्तकृत्स्नपक्षीकारेण बाधं साधयतस्तद्बहिर्भूतपुरुषदेशकालानामभावात् कस्यचित्पुरुषस्येत्यादिनिर्देशो निर्विषयः । तदन्तर्गतपुरुषदेशकालविवक्षया प्रयोगे तु विद्यमानेऽप्यविद्यमानभ्रमवतः कस्यचित् क्वचित् कदाचित्तत्र तन्नास्तीति धीसंभवात् सिद्धसाध्यता । मन्यते च माध्यमिकः सांवृतेन मानेन सर्वमिथ्यात्वम्; तथा तस्य विश्वबाधकज्ञानं जातमिति च वयमपि विद्मः । अप्रमाणमूलत्वादपारमर्थिकस्तदुक्तो बाध इति चेत्, त्वदुक्तोऽप्येवमेव । व्यावहारिकप्राणतो मृदुक्तसिद्धिरिति चेत्, तदुक्तसिद्धिरपि तथैव । संवृतादिसमाख्या वैषम्यं चाकिंचित्करम् । नापि द्वितीयः; प्रत्यक्षेण तावदस्तीत्येव प्रपञ्चः प्रतीयते । यदा च कुत्रचिन्नस्तीति मनुषे, तदाऽपि तत्रैव तदभावस्य सत्यत्वम्, अन्यत्र च तत्सत्यत्वमध्यक्षयामः । आह च न्यायभाष्यकारः – ‘सत्सदिति गृह्यमाणं तथाभूतमविपरीतं च तत्त्वमिति, ‘असच्चासदिति गृह्यमाणं तथाभूतं विपरीतं च तत्त्वमिति । अनुमानं त्वद्याप्यलब्धजीवितम् । आगमिकस्तु निषेधो विध्यनुरोधेन नेतव्यः; अन्यथाऽतिप्रसङ्गात् । वाचारम्भणादिशब्दाश्च द्रव्याचरनिरासपरा दर्शिताः । नन्वनन्तपदेनासंकोचाद्वस्तुपरिच्छेदराहित्यमपि गृह्यते; सति वस्त्वन्तरे तत्परिछेदाभावो दुर्वच इति चेन्न; यथा देशकालसद्भावो न कस्यचिद्देशकालपरिच्छेदः, किंतु परिमितदेशकालवर्तित्वम्; तथा न वस्त्वन्तरसद्भावो वस्तुपरिच्छेदः, अपि तर्हि परिमितस्त्वन्तरप्रकारित्वम्; यथा गौः शुक्लो गच्छतीत्यादौ । न तथाऽत्र, ‘सर्वं खल्विदं ब्रह्म’, ‘पुरुष एवेदं सर्वमि’ति विश्वरूपतया व्यपदेशात् । ततश्चायं सर्वाविरुद्धस्संग्रहः -श्लो. अविधेयमनाधेयमशेषमधिकं समम् । नेति वस्तुपरिच्छेदाभावः स्याद्विश्वदेहिनः ॥ यस्तु वस्त्वन्तराभावमपरिच्छित्तिमिच्छति । कथितोऽसौ कथाऽनर्हः क्षीबोन्मत्तैडमूकवत् ॥ किञ्च संख्यापरिच्छेदराहित्यं किं न दृश्यते । मानबाधाद्यदि समं निर्बाधेऽर्थे स्थितिः स्थिता ॥ पराभिमतैरुपमानार्थापत्त्यादिभिरपि न जगद्बाधः; तेषामन्तर्भावबहिर्भावयोरुक्तानतिरिक्तशक्तित्वादिति । तदेतत्सर्वमभिप्रयन्नाह – मानमिति । निखिलं स्वपराभ्युपेतं सर्वं तद्विधानैकतानं ब्रह्मण इव तद्विभूतिप्रपञ्चस्याप्यस्तीति बोधने नियमेन प्रवृत्तत्वान्न तद्बाधकमित्यर्थः ॥ ४७ ॥

3.193     तुच्छत्वं ते न हीष्टं सदसदितरता व्याहतत्वादिदुःस्था

ऽसिद्धा चासौ परेषां भवदनभिमतोऽनात्मना वेद्यतादिः ।

विश्वं हीदं मृषा नस्तदितरवपुषा त्वन्मतारोपितैश्च

स्यादेवं दूरतस्ते ध्रुवमपसरतोऽप्युक्तदोषानुषङ्गः ॥ ४८ ॥

पुनरप्यसंभवतोऽपि तत्तद्वाद्यभिमानात् संभवत इव साध्यविकल्पभेदाननूद्य दूषयति -तुच्छत्वमिति श्लोकेन ॥ तुच्छत्वं – खपुष्पादिवदसत्त्वम् । ते – माध्यमिकसमाख्यामनिच्छत इति भावंः । नहीष्टं – एतत्साधनेऽपसिद्धान्त इति भावः । अस्तु मिथ्यात्वं सदसत्कोटिबहिर्भूतत्वमित्यत्राह – सदसदितरतेति । आदिशब्देनार्थान्तरत्वादिसंग्रहः । अयं भावः – सदसद्विलक्षणत्वं नाम सत्त्वासत्त्वात्यन्ताभावसमुदायवत्त्वं वा, सतोऽसतश्च कुतश्चिद्व्यावृत्तत्वं वा, सदसच्छब्दगोचरसर्वान्यत्वं वा, ब्रह्मतुच्छव्यावृत्तत्वं वा, ब्रह्मत्वतुच्छत्वसमुदायशून्यत्वं वा, तदुभयात्यन्ताभावसमुदायो वा, अन्यद्वा किंचित्? आद्ये व्याहतता, ‘परस्परविरोधे हि न प्रकारान्तरस्थितिरिति न्यायात्, न ह्यत्रानुष्णाशीतवद्गतिः, कोट्यन्तरस्यात्यन्तानुपलम्भात् । न च तत्रप्युष्णानुष्णविकल्पे कोट्यन्तरं समस्ति । द्वितीये सिद्धसाध्यता, सतामेव परस्परमसद्भ्यश्च व्यावृत्तत्वात् । तृतीयेऽपि स एव दोषः । अस्ति हि सत एवैकस्य तत्, एकस्य सर्वसदसद्रूपत्वाभावात् । अत एव न चतुर्थः; न हि वयं ब्रह्मस्वरूपं वा निरुपाधिकतुच्छं वा विश्वं ब्रूमः; विरुद्धार्थान्तरता च, खरशृङ्गे खपुष्पाद्यन्यस्मिंस्तद्भावात् । एवं पञ्चमेऽपि, खरशृङ्गादौ ब्रह्मणि ब्रह्मत्वतुच्छत्वयोरसमुच्चितत्वात् । षष्ठेऽपि सिद्धसाध्यता । न तु विगीतं ब्रह्मस्वरूपं न च तुच्छम्; अन्यदपि केनचिद्विशेषशब्देनोपस्थापयितुं शक्यं वा न वा? शक्यं चेदस्माभिरपि विशेषतो दूषयितुं शक्यम् । अशक्यं चेत्, अव्यपदेश्ययत्किञ्चिद्धर्भवत्त्वं साध्यं स्यादिति कस्तत्र विमन्यते? अतो यत्किञ्चिदेवैतदिति । किंच विगीतप्रयोगेषु सर्वेषु यत्र कुत्रचित् पूर्वसिद्धमेव पक्षे साध्यम्; इह तु ब्रह्मणि तुच्छे वा न साध्यग्रहः, तयोर्विपक्षत्वात्; नच विगीते, तस्य संदिग्धसाध्यत्वात् । सपक्षस्तु शुक्तिरजतशब्देन प्रदर्शयितुं न शक्य इत्युक्तम् । नच परासिद्धस्साध्यावस्थो दृष्टान्तः स्यात्, तत्साधनं च दूषयिष्यते । तदसौ त्वदभिमता सदसद्विलक्षणता परेषां सर्वत्रासिद्धतया पक्षे दुस्साधेत्यभिप्रयन्नाह – असिद्धा चेति । ननु घटादौ तावदसद्विलक्षणत्वं संप्रतिपन्नम्, सद्विलक्षणत्वमपि पटादिवैलक्षण्याद्ब्रह्मवैलक्षण्याद्वा । अतो भेदव्यवहारव्यवस्थापकलक्षणरूपकेवलव्यतिरेकिन्यायेन साध्यस्य पक्षैकदेशसिद्धस्यैवाभिव्याप्त्या साधनान्न साध्याप्रसिद्धिरिति । अत्र तु सिद्धा चासाविति नञ्प्रहाणेनोत्तरम्; पक्षे सर्वत्र सिद्धैवेत्युक्तम्; तथाऽपि मिथ्याशब्दनिमित्तं किञ्चित्त्वयाऽङ्गीक्रियते, तदेव साधयाम इत्यत्राह – भवदनभिमत इति । परे हि रजतादेश्शुक्त्याद्यात्मना वेद्यत्वं वा रजतादेरतत्संसृष्टस्य तत्संसृष्टतया भातत्वं वा बाध्यव्यवहारहेतुधीविषयत्वं वा मिथ्याशब्दनिमित्तं सिद्धान्तयन्ति । न चैतत् त्वया साध्यम्; अन्यथाख्यातेरख्यातेर्वा स्वीकारप्रसङ्गात्; तथा चापसिद्धान्तः । स्वदेशादौ च विश्वं सत्यं स्यादिति विवक्षितविपरीतसाधनापत्तिः; अतस्सिद्धसाध्यत्वं चाह – विश्वमिति । हिशब्द आगोपालपण्डितं दुरपह्नवां प्रसिद्धिं द्योतयति । तदितरवपुषा -स्वेतरस्वरूपतयेत्यर्थः । नहि स्वप्रतियोगिकान्योन्याभाववत्त्वं वा स्वेतरतादात्म्यं वा कस्यचिदनुबोभूयामहे शोश्रूयामहे वा । परसिद्धान्तकल्पिताकारवत्तया च मिथ्यात्वं सिद्धमित्याह – त्वन्मतारोपितैश्चेति । ब्रह्माविद्याविवर्तत्वानिर्वचनीयत्वबाध्यत्वैरिति शेषः । चकारादसंसृष्टसंसृष्टतयेत्यपि गृह्यते । एवमनिर्वाच्यत्वादिविकल्पकोट्यन्तरेष्वपि तत्तद्विकल्पावतारेण बाधापसिद्धान्तसिद्धसाधनत्वादिदोषाणामनतिक्रमणीयत्वं प्रच्छन्नबौद्धोपालम्भव्याजेन छात्रान्प्रतिबोधयति – स्यादिति । ध्रुवं – निश्चितम्, प्रसञ्जकानामङ्गपञ्चकसंपत्तेरिति भावः ॥ ४८ ॥

3.194     साध्यं मिथ्या न वा ते द्वितयमनुचितं निष्कलत्वादिदोषा-

दाद्यं हीष्टं ममापि प्रसजति भवतस्सत्यभेदः परस्मिन् ।

पक्षीकारेऽस्य बाधादिकमतिचरणं तद्बहिष्कारपक्षे

तच्चेद् ब्रह्मस्वरूपं भुवनमभिहितं हन्त सब्रह्मकं स्यात् ॥ ४९ ॥

स्वरूपविकल्पेन दूषितं मिथ्यात्वं धर्मतोऽपि विकल्पासहमित्याह – साध्यमिति । ते -ब्रह्मव्यतिरिक्तविश्वमिथ्यात्ववादिनः । द्वितयं – मिथ्यात्वस्य मिथ्यात्वं तत्प्रतिभटं सत्यत्वं च । अनयोरनौचित्ये क्रमात् कारणमाह – निष्फलत्वादिदोषादिति । आदिपदमपसिद्धान्तार्थम् । नैष्फल्यं सिद्धसाधनतया विवृणोति – आद्यमिति । अपसिद्धान्तमुद्घाटयति – प्रसजतीति । पुनरपि साध्यमेतन्मिथ्यात्वं पक्षीकृतं न वेति विकल्पे पूर्वं दूषयति – पक्षीकार इति । अत्र हि प्रामाणिकमिथ्यात्वं पक्षीकृत्य तस्य मिथ्यात्वसाधने बाधः; अन्यस्य तु सिद्धसाध्यता; विधेयस्य निषेधात् व्याघातश्चेत्यर्थः । न ह्यत्र स्वपरनिर्वाहकनीतिः; यतः – श्लो. मिथ्यात्वस्य हि मिथ्यात्वे मिथ्यात्वं बाधितं भवेत् । सत्यत्वस्य तु सत्यत्वे सत्यत्वं स्थापितं भवेत् ॥ उत्तरत्रोत्तरमाह -अतिचरणमिति । पक्षबहिर्भावो हि सपक्षतया विपक्षतया वा स्यात्? आद्ये जगन्मिथ्यात्वस्य हि मिथ्यात्वे संप्रतिपन्ने कथं तद्विरुद्धं साध्येत? द्वितीये मिथ्यात्वस्य सत्यत्वसंप्रतिपत्त्या तत्र च स्तेवृत्तेरतिचरणम्; यदीदं न दृश्यं तदा साध्यमपि न स्यात्; साधनाधीनदृग्विषयत्वायोगात् । अपि च ब्रह्मवदिह विपक्षभूतं मिथ्यात्वं ब्रह्मणस्सद्वितीयत्वमापादयेत् । अभावरूपं जगन्मिथ्या[त्वं]त्वमसत्यमप्येकदेशिभिरङ्गीक्रियत इति चेत्, तथाऽपि तत्र हेतुवृत्तेरतिचरणं दुस्तरमेव । सत्यमेव जगन्मिथ्यात्वम्; तच्च ब्रह्मस्वरूपमेवेति नापसिद्धान्तादिदोष इति पराभिप्रेतं कृत्वाऽनुब्रूते – तच्चेदिति । तत्रापि सिद्धसाधनत्वमाह – भुवनमिति । मिथ्यत्वयोगि मिथ्या तच्च मिथ्यात्वं यदि ब्रह्म तदा विगीतं ब्रह्मवदिति साध्यार्थः स्यात्, तत्र न वयं प्रत्याख्यातार इति भावः ॥ ४९ ॥

3.195     इष्टं ब्रह्मापि दृश्यं तव च कथयतस्तस्य जिज्ञास्यतादीन्

मिथ्या चेद् दृश्यताऽस्मिन्ननुविमतिपदेऽप्येवमेषा त्वयेष्टा ।

लिङ्गं जाड्यादिकं चेत्तदपि मम मते ह्यंशतः स्यादसिद्धं

मिथ्यालिङ्गैश्च सिध्येत् किमपि यदि भवेद् बाष्पधूमोऽग्निलिङ्गम् ॥ ५० ॥

एवं व्यापकवद्व्याप्यस्यापि विकल्पासहत्वं चतुष्पद्या दर्शयति – इष्टमिति ॥ यदेतन्मिथ्यात्वसाधकतयोक्तं दृश्यत्वं, तद् ब्रह्मणि विद्यते न वेति विचारे नेति पक्षस्तावद् दूष्यते । ‘अथातो ब्रह्मजिज्ञासा’, ‘तद्विजिज्ञासस्व तद्ब्रह्म’, ‘आत्मा वा अरे द्रष्टव्यः’, ‘आत्मन्येवात्मानं पश्येदि’त्येवमादीनि परश्शतं वाक्यानि पुरस्कृत्य श्रोतव्यमन्तव्यत्वादिविशेषान् साधयतस्ते ब्रह्मणि दृश्यत्वनिषेधो न युक्तः । विद्यत इति पक्षे हेतोरतिचार इति भावः । ब्रह्मणि दृश्यत्वं तन्मिथ्याभूतम्; अतो न तत्रातिचार इति शङ्कते – मिथ्या चेदिति । एदुपालभते – नन्विति । मिथ्याभूतेनैव हिं दृश्यत्वेन ब्रह्मव्यतिरिक्तेऽपि मिथ्यात्वं त्वया साध्यते । नहि दृश्यं मिथ्या, तद्धर्मस्तु दृश्यत्वं सत्यमिति संभवति; तथाऽङ्गीकारे तत्रैवातिचारः, सत्यद्वित्वप्रसङ्गश्चेति भावः । ननु दृश्यत्वे दृश्यत्वं त्वयाऽपि वक्तुं न शक्यम्, आत्माश्रयादिप्रसङ्गात् । अतस्सत्येऽपि तस्मिन् हेतुवृत्त्यभावान्नातिचारः स्यात् । मैवम्; दृश्यत्वं नाम लिङ्गं दृश्यत्वादिति हेतुपदेन बोध्यं न वा? आद्येऽतिचारस्त्वयैवेष्टः । द्वितीये साध्यव्याप्यमनुपस्थापयतो हेतुपदस्य प्रयोगाङ्गस्तायोगः । न चैवमात्माश्रयादिदोषः, स्वपरनिर्वाहकसमाधिना दृश्यत्वधर्मस्य तदाश्रयाणां च दृश्यपदेन संग्रहणस्य त्वया स्वीकार्यत्वात्; अन्यथा दृश्यत्वं न दृश्यमिति स्वोक्तिविषयत्वव्याघातात् । यदि च हेतुपदजन्यधीविषयताभावेऽपि हेतुपदं तत्र प्रयुज्येत एवमनैकान्तिकादिपदमपि तज्जन्यधीविषयत्वाभावेऽपि तत्र लब्धप्रसरमिति सर्वदोषसंपातः स्यात् । दोषाभावे कथं दुष्टशब्दस्सार्थ इति चेत्, दृश्यत्वाभावे कथं दृश्यशब्दस्सार्थ इति सममेतत् । किंच दृश्यत्वरहितं दृश्यत्वं निष्प्रकाशं स्वप्रकाशं वा? नाद्यः; स्वोक्तिव्याघातादेव । न द्वितीयः, अब्रह्मत्वात् । अतः कथं दृशिविषयत्वं नासादयेत्? अथ स्यात्, दृश्यत्वशब्देन स्वगोचरदृशि निरपेक्षप्रकाशात्यन्ताभावो वा दृशिजन्यफलाश्रयत्वं वा विवक्षितम्? तदुभयं स्वयंज्योतिषि ब्रह्मणि नास्तीति कथं तत्रातिचार इत्यपसर्पणवाक्यमनुभाषते -लिङ्गमिति । तदुभयं दूषयति – तदपीति । अस्मन्मते हि ब्रह्मव्यतिरिक्ता जीवा धर्मभूतज्ञानं च स्वयंप्रकाशतया स्वगोचरदृशिनिरपेक्षप्रकाशानि । अतो हेतोर्भागासिद्धिः । दृशिजन्यफलं च त्वदनुविधेयाभिमतं प्राकट्यं वा? त्वदभिमतं वेद्यगतवित्तिस्फुरणं वा? द्वयोरपि विगीते क्वचिदपि अस्माभिरनङ्गीकारात् सार्वत्रिकी स्वरूपासिद्धिः । तवापि स्फुरणस्य वाच्यं व्याहाराख्यं फलं विगीतस्यापीति चेत, तर्हि तद्ब्रहापि व्याप्नोति । अन्यथा तत्र मौनैकशरणः स्थं तद्व्याचिरव्यासया प्रवर्तेथाः? भवन्तु चात्र यानिकानिचिल्लिङ्गानि, तानि सत्यान्यसत्यानि वेति विकल्पे पूर्वत्रापसिद्धान्तादि स्फुटमिति कृत्वा पश्चिममनुवक्ति – मिथ्यालिङ्गैरिति । तत्रानिष्टमाह – भवेदिति । बाष्पधूमः – बाष्पारोपितधूमः । भ्रान्तिसिद्धस्य धूमस्य व्यभिचारदृष्ट्या वह्निगमकत्वाभावः, न तु मिथ्यात्वादिति चेत्, तत एव यन्मिथ्या न तद्गमकमिति व्याप्तिसिद्धेस्त्वदभिमतान्यपि न साध्यं साधयेयुः । साधने वा ब्रह्मण्यपि तानि कथञ्चित्कल्पितनि तदप्यपरमार्थयेयुः । एतेन परोक्तं बाधकमपि प्रतितर्कप्रत्यूढं दर्शितं भवति । अपि च सत्यत्वपक्षे याऽसौ दृग्दृश्यसंबन्धानुपपत्तिर्बाधिकेति संभाव्यते । असत्यत्वेऽपि सा अस्ति वा न वा? आद्ये

तर्काङ्गपञ्चकान्यतमहानेरतर्कत्वम्; तदा वऽसत्यत्वे साध्ये कथं दृश्यत्वं हेतुरुपादीयेत? द्वितीये सत्यादन्यस्मिन् खपुष्पेऽपि दृश्यत्वानुपपत्तिर्न स्यात् । माभूदिति चेन्न; ख्यातिबाधान्यथानुपपत्तितर्कानुदयप्रसङ्गात् । अथ शब्दज्ञानानुपपत्तिवस्तुशून्यविकल्पगोचरतामात्रेण तस्य दृश्यत्वं, सत्येतरत्वसाध्यापेक्षया च सपक्षत्वमिष्येत, तदा तद्वदेव तुच्छत्वेऽपि संभवति अभिमतानिर्वचनीयत्वं न नियम्येत । शब्दज्ञाननिरपेक्षश्च खपुष्पाद्यध्यासः प्रागपि दर्शितः । भवतु तत्राप्यनिर्वचनीयत्वं शब्दमात्रानुपातिविकल्पविषये तुच्छत्वम् । तत्र च विवक्षितदृश्यत्वानुपपत्तिस्सिद्धेति चेत्; तदपि न, शब्दमात्रप्रतीतबाह्यागमविकल्पविषयाणामन्येषामपि पूर्वपक्षवाक्यार्थानामनिर्वचनीयत्वाभ्युपगमात् । अस्तु तत्रापि तुच्छत्वम्; किं नश्छिन्नमिति चेन्न; प्रत्यक्षाद्याभासप्रतिपन्नेऽप्याभासप्रतिपन्नत्वाविशेषेण तुच्छबहिर्भावकॢप्तिभङ्गप्रसङ्गात् । ननु सत्ये दृक्संबन्धोऽनुपपन्नः; अस्वयंप्रकाशस्य स्वतस्सिद्धिविरहेण सत्यत्वायोगात् । तुच्छेऽपि तथा, स्वरूपाभावे संबन्धाभावात्; अनिर्वचनीये त्वविद्यामाहात्म्यदाध्यासिकस्संबन्धस्सिध्यन् दुरपह्नव इति, तन्न; पराधीनसिद्धेरपि निर्बाधस्य सत्यत्वाविरोधात्; सत्येऽपि ब्रह्मणि आध्यासिकदृक्संबन्धाभ्युपगमाच्च । श्लो. दृत्संबन्धश्च दृश्यानामसत्यत्वे विवक्षितः । सत्यत्वादिविकल्पेन सीदत्यनुपपत्तिमान् ॥ सत्यत्वे त्वनुपपद्यमानो हि दृक्संबन्धः सत्योऽसत्य उभयरूपोऽनुभयरूपो वा? नाद्यः, सत्यत्वे प्रपञ्चस्य दृक्संबन्धस्सत्यो न स्यात्; असत्यश्चासाविति विपर्ययविश्रमायोगात् । विषयसत्यत्वे हि धिया संबन्धः स्वीकार्यः । न चासौ घटते विककल्पादौःस्थ्यादिति प्रसङ्गतद्विपर्ययाविति चेन्न; इष्टप्रसङ्गत्वात् । दृशस्सत्यत्वेऽपि दृश्यसंबन्धासत्यत्ववद् दृश्यस्य सत्यत्वेऽपि दृशिसंबन्धमात्रासत्यत्वमनुपपत्त्या कल्प्यम् । दृक्संबन्धासत्त्वे तदधीनसिद्धेः कथं सत्यत्वमिति चेन्न; असत्यात्सत्यसिद्धेस्त्वया त्वद्विधैश्च जोधुष्यमाणत्वात्; अस्माकं तु संबन्धविकल्पादौःस्थानङ्गीकारादेव समीहितसिद्धिः । श्लो. संबन्धफलसिद्धौ च स्वरूपे दुरपह्नवे । अन्तर्भावबहिर्भावविवादस्त्विह निष्कलः ॥ ये च दृग्दृश्यसंबन्धे संयोगादिविकल्पतः । दोषाः प्रलपितास्तेऽत्र दृश्यासत्यत्वभीरवः ॥ संबन्धमात्रदौर्घट्यात्तद्विशेषोऽपि दुर्घटः । इति चान्धस्य जात्यन्धयष्टिदानोपमं विदुः ॥ न द्वितीयः, विषयस्य सत्यतायामसत्यसंबन्धो न स्यादिति ह्यत्र प्रसङ्गः स्यात् । अयं ब्रह्मण्यतिचरितः इष्टप्रसङ्गश्च; विपर्यये विश्रान्तिश्चाद्याप्यसिद्धा । अत एव न तृतीयचतुर्थौ, व्याघाताच्च । तथाऽपि कोऽसौ दृग्दृश्ययोस्संबन्ध इति निर्मत्सराः पृच्छाम इति चेत्, वयमपि निर्मत्सराः पृच्छन्तं पृच्छामः । तत्र किंनामेति वा, किंस्वरूप इति वा, संयोगादिषु कतम इति वा, तेष्वन्तर्भूतो बहिर्भूतो वेति वा, सत्योऽसत्यो वेत्यादिप्रकारकोटिभेदेन वा प्रश्नार्थः स्यात्? नाद्यः, अप्रज्ञातविशेषनाम्नामानन्त्यात्; सामान्यतस्तु प्रश्नवाक्येऽपि प्रख्यातेः । न द्वितीयः, सर्वत्र स्वरूपमात्रे प्रश्नोत्तरविचारादेरनवतारात् । न तृतीयः, संयोगादिराश्यन्तर्भावनिर्बन्धाभावात्, अन्यथा सर्वत्र तज्जातीयराशिविशेषप्रश्नप्रसङ्गात् । नापि चतुर्थः, उभयधाऽपि स्वरूपलाभे विशेषनिर्धारणवैफल्यात्, अनिर्धारितेऽप्यन्यतरकोटेरनपायात् । न पञ्चमः, परस्परविरुद्धे सर्वानुपपत्तिरहितान्यतरकोटेर्यथार्हमवशेषणीयत्वात् । दूषिता च संबन्धपक्षानुपपत्तिः; दर्शितश्चासंबन्धपक्षे दोषः । यदि चैतादृशस्तर्कोऽनुग्राहकः, स तहिं यत् प्रकाशते तन्मिथ्या यथा ग्राह्यग्राहकौ तथा संविदित्यादिसंविन्मिथ्यात्वसाधकानुमानेष्वपि सुलभः, सत्यत्वस्वप्रकाशत्वादिधर्भसंबन्धानुपपत्तेस्त्वत्प्रलापप्रस्थित्यैवाकुण्ठितप्रसरत्वात् । श्लो. मिथ्यात्वेन च दृश्यत्वं स्कतःसंबन्धि साधयन् । अप्रामाण्यस्वतस्सिद्धिमुद्गिरत्यनया गिरा ॥ ५० ॥ इति दृश्यत्वानुमानभङ्गः ॥

3.196     व्यावृत्तं शुक्तिरूप्यं विदितमिह मृषा विश्वमेवं न किं स्यात्

मैवं हेतोरयुक्तेस्स खलु भिदुरता वाच्यता नाशिता वा ।

आद्येनैकान्त्यमन्ये स्वसमयविहतिर्मध्यमे स्यादसिद्धि-

र्धीविच्छेदादिकल्पान्तरमपि कथितैश्चूर्णितं दोषबृन्दैः ॥ ५१ ॥

उक्तदोषदुष्टमप्यनुमानान्तरमधिकदोषशिक्षार्थं व्याचष्टे – व्यावृत्तमिति ॥ इह – यत्र भाति तत्रेत्यर्थः । अन्यत्र तु प्रसङ्ग एव नास्ति; यद्वा सर्वस्मिन्निह जगतीत्यर्थः । विमतम् मिथ्या व्यावर्तमानत्वात्, यदुक्तसाधनं तदुक्तसाध्यम् यथा शुक्तिरूप्यम्; तत्खलु स्वतादात्म्येन भाते शुक्तिद्रव्येऽनुवर्तमाने स्वयं व्यावर्तते, अतो मिथ्या । एवं रज्ज्वादेस्सर्पभूदलनाम्बुधारादेश्च सत्यत्वमिथ्यात्वे व्यवतिष्ठेते इति । अत्रापि प्रागुक्तदूषणाणि न प्रस्मर्तव्यानीत्यभिप्रायेण प्रतिवक्तिमैवमिति । तत्र हेतुदौःस्थ्यं हेतुमाह – हेतोरिति । अयुक्तिं प्रथयितुं विकल्पयति – खल्विति । योऽयं व्यावर्तमानत्वहेतुः, कुतश्चित् भिन्नत्वं वा? बाध्यत्वं वा, नश्वरत्वं वा? प्रथमं दूषयति – आद्य इति । भिन्नत्वं ह्यत्र स्वप्रतियोगिकं वा? स्वेतरप्रतियोगिकं वा? स्वतोऽन्यतो वेति विशेषानादरेण यत्किंचित्प्रतियोगिकं वा? आदिमस्त्वसंभवप्रस्तः; भेदाभेदकुसृष्टिश्च त्वया नाङ्गीक्रियते । अनन्तरस्त्वनैकान्त्यहतः । सत्ये ब्रह्मण्यतद्व्यावृत्तिं वर्णयता त्वयैव स्वेतरान्यत्वस्य स्वीकारात् । तत एव सामान्योक्तिरपि निर्धूता । अत्र क्रमस्य दूषणानुपयोगित्वादपसिद्धान्तोद्धाटनत्वरया च तृतीयं दूषयति – अन्त्य इति । यदि ह्यत्र स्वकालसत्त्वमभ्युपेत्य उत्तरकालासत्त्वं हेतुरुद्गृह्यते, तदा मिथ्यात्वेन सिषाधयिषितस्य स्वकालसत्त्वाभ्यनुज्ञानेऽपसिद्धान्तः; हेतुसाध्यपदव्याघातश्च । अनभ्युपगतस्वकालसत्त्वे तु नश्वरत्वहेतुरसिद्धः । न खलु नित्यासतां खपुष्पादीनां नश्वरत्वं पामरः परीक्षको वा कश्चित् प्रत्येति । श्लो. तत्रापि नश्वरत्वेन नित्यसत्त्वं निरुध्यताम् । स्वकालेतरकाले च तेन मिथ्यात्वमिष्यताम् ॥ बाध्यत्वहेतुं बाधते – मध्यम इति । प्रपञ्चस्य बाध्यत्वं हि स्वदेशादौ वा? स्वारोपदेशादौ वा? आद्ये त्वसिद्धिरवस्थापिता । द्वितीये बाधस्थलेष्वेव मिथ्यात्वसाधने सिद्धसाध्यता । अन्यत्र साधने स्वविषयवृत्तित्वम्, अन्यथाऽतिप्रसङ्गः; प्रपञ्चविषयबाधेन ब्रह्मबाधस्यापि सुवचत्वात् । ब्रह्म मिथ्या, सप्रपञ्चात्मना बाधितत्वात्, यत्कथंचिद्बाध्यते तत्सर्वथा बाध्यत इति त्वयैवाश्रितत्वादिति । ननु यत्सत्यं तन्नित्यं प्रकाशते, स्वतश्च, यथा ब्रह्मा, विगीतं तु न तथा; सुषुप्त्यादौ प्रपञ्चभानाभावात्, जागरादौ चान्यत एव भानात् । किंच सत्यस्य सर्वस्मिन् प्रकाशमाने प्रकाशो दृश्यते, यथा संवित्स्वरूपस्य; न तथा प्रपञ्चस्य, अप्रकाशमाने घटादौ पटादिप्रकाशदर्शनात् । सत्यं च ब्रह्म देशपरिच्छेदरहितम्; न तथा विगीतमिति मिथ्या स्यात्; अतः कोट्यन्तरसंभवात् विकल्पन्यूनः प्रस्तुत उपन्यास इति शङ्कापनुत्त्यै कोट्यन्तरेष्वप्युक्तदोषानतिदिशति – धीविच्छेदेति । यदत्र क्याचिदप्रकाशमानत्वान्मिथ्येति, तत्र किमस्मदाद्यपेक्षया कदाचिदप्रकाशमानत्वं हेतुः? उत सर्वापेक्षया? नाद्यः, सामग्र्यनुदयप्रयुक्तस्य प्रकाशाभावस्य प्रकाश्यमिथ्यात्वसाधकत्वायोगात् । न च पशुभिर्नृपशुभिश्चाविदितेष्वदृष्टेश्वरादिषु प्रामाणिकैरसत्यत्वमध्यवसीयते, वयं तु तत्राप्यध्यवस्याम इति चेन्न; ब्रह्मण्यपि प्रसङ्गात्; विदितमेवास्माभिरप्यात्मतया ब्रह्मेति चेत्, किमर्थं तर्हि तद्धिविदिषया यज्ञदानाद्युपादानम्? शारीरकारम्भश्च? अविदिताकास्वोधार्थमिति चेन्न, तस्यैवाकारस्य मिथ्यात्वप्रसङ्गत् । तत्त्वाक्देकवाक्यवेद्यस्य च मिथ्यात्वं व्याहतम् । निराकारे च कथं विदिताविदिताकारभेदः? तत्कल्पनयेति चेत्तर्हि कल्पिताकारविविदिषयैव शास्त्राद्यारम्भात् स्वेष्टापप्लवः । न द्वितीयः, ईश्वरस्य नित्यसर्वज्ञतया तदसिद्धेः । प्रकाशप्रकाश्ययोश्च भिन्नायुष्कत्वं युष्माभिरपि दुरपह्नवम्; अनादिसाक्षिचैतन्यविषयभूतानामविद्याव्यतिरिक्तानामनादित्वानङ्गीकारात्, स्वतः – प्रकाशभावत्लाभावात् । सत्यत्वनिषेधः पूर्वहेतुविकल्पे दूषितः । परतः प्रकाशोऽपि कारणदोषबाधकप्रत्ययाभावात् प्रतिष्ठितप्रामाण्यः । यच्च सत्यं संवित्स्वरूपं सर्वस्मिन् प्रकाशमाने प्रकाशते, न तथा विगीतम्; अतो मिथ्येति; तदसत्; सर्वसंविदामैक्यस्यास्माभिरनभ्युपगमात्, त्वयाऽपि तस्य दुस्साधत्वाच्च । अन्यथा कथं न सर्वे सर्वज्ञाः? स्वसंविदो गुरुसंविदा प्रतिवादिसंविदा चैक्यं पश्यन् किं तदनुगुणं नाचरसि? भिदुरास्तु संविदः स्ववेद्येतरप्रकाशदशायां न प्रकाशन्तं इति न तन्निदर्शनम् । एतेन सत्यं सत् सर्वत्र वेद्ये प्रकाशत इत्यपि दत्तोत्तरम् । प्रतिवित्तिवेद्यानां सतां परस्परव्यावृत्तत्वात् । सत्तारूपस्तु तेषां धर्मो न त्वया सत्यत्वेन स्वीक्रियते, शेषं तु स्वस्थाने भविष्यति । यत्तु देशपरिच्छेदवतां स्वदेशेऽपि निवृत्तिः सेत्स्यतीति, तदपि नश्वरत्वोक्तन्यायेन प्रत्युक्तम् । यदि हि यत्र क्वचिद्देशे व्यावृत्तिर्हेतुस्स तर्हि स्वदेशासत्त्वं न साधयेत्, तत्सत्त्वे विरोधाभावात् । सार्वत्रिकव्यावृत्तिस्तु साध्यगर्भेति न हेतुः स्यात् । श्नो. यन्न क्वचिन्न क्वचित्तत्स्वरशृङ्गादिरीतितः । इति मध्यमशिक्षा च स्वविधिक्षेपखण्डिता ॥ ५१ ॥ इति व्यावर्तमानत्वानुमानभङ्गः ॥

3.197     यत्स्यात्तत्सर्वदा स्याद्यदपि च न भवेत्तच्च न स्यात् कदाऽपि

क्वापि व्योमारविन्दादिवदिति यदि न व्याहतेस्साध्यहेत्वोः ।

मध्ये सत्त्वं गृहीत्वा खलु तदुभयतोऽसत्त्वलिङ्गं गृहीतं

सामग्र्या चावधी द्वौ स्फुटतरविदितौ साऽपि तत्तत्प्रवाहात् ॥ ५२ ॥

नश्वरत्वहेतावुक्तदोषमनिर्धारयतः कालपरिच्छेदसामान्यमुखेन मिथ्यात्वशङ्कामङ्कुरन्तीमुज्जिहीर्षुरुद्धाटयति – यत् स्यादिति ॥ विवक्षितस्य हेतोरनादरप्रतिरोधाय प्रथममिहानुग्राहकोक्तिः । यत्क्वचित्कोल स्यात् तत्कालान्तरेऽपि स्यात्; सत्स्वभावत्वे ब्रह्मण इव सामग्रीसहस्रेणाप्यसत्त्वापादनायोगात् । असत्स्वभावत्वे खपुष्पस्येव कालविशेषे सत्त्वापादनासंभवात् । तदिहानुग्राह्याभिप्रायेणाह – यदपीति । अयमत्र प्रयोगः – यत्प्रागूर्ध्वं चासत् तन्मध्येऽप्यसत्; यथा संप्रतिपन्नम्; विमतं च तथात्वान्मिथ्येति । अनयोस्तर्कानुमानयोराभासतामभिप्रेत्याह – नेति । तर्के तावत्कालविशेषोपश्लिष्टं सत्त्वं प्रसञ्जनीयम्? उताविवक्षितकालविशेषं सत्त्वमात्रं वा? नाद्यः, स्वस्वरूपस्यैवाभावे स्वकालाभावात् तदवधिककालान्तरासिद्धेः तदुपश्लिष्टप्रसञ्जनीयबोधासंभवेन तत्प्रसङ्गायोगात् । न द्वितीयः, इष्टप्रसङ्गत्वात्, प्रसञ्जकैकदेशस्य प्रसञ्जनीयत्वायोगाच्च । अथ विशिष्टाङ्गीकारे विशेष्याङ्गीकारप्रसङ्गः, तच्च नास्ति बाधादित्याकूतम्; तदपि न; अन्यतो बाधादृष्टेः । एतेन तर्केण बाधमुज्जीव्यैतत्सिद्धेरशक्यसंपादनत्वात् कुतश्चिदसत्त्वस्यासिद्धौ सत्त्वस्य प्रसञ्जनीयत्वायोगाच्चेति भावः । अनुग्राह्याभासत्वे विरोधं हेतूकरोति – साध्यहेत्वोरिति । एतत् लक्षणहेत्वोरितिवत् । अत्र हेतुसाध्ययोर्व्याहति विवृणोति – मध्य इति । अयमाशयः – कालविशेषासत्त्वं ह्यसिद्धं तावन्न लिङ्गं स्यात्, त्वयाऽपि तथाऽनभ्युपगमात् । तत्सिद्धिस्तु स्वकालेऽप्यसत्त्वं क्रोडीकृत्य वा? बहिष्कृत्य वा? पूर्वत्रासिद्धिरंशतस्साध्याविशेषश्च; स्वदेशकालासत्त्वात्मनो मिथ्यात्वस्य प्रचिरव्यापयिषितत्वात् । उत्तरत्र स्वकालसत्त्वानुमतिलब्धजीवितेन हेतुना कथं सा प्रतिक्षिप्येत? तत्कालवर्तित्वबुद्ध्यपेक्षया प्रागुत्तरकालपरिकॢप्तिरिति चेत्, न; नित्ययाऽपि धिया तत्कालवर्तित्वग्रहणोपपत्तेः । अनित्यनुद्ध्यपेक्षया प्रागूर्ध्वसमयसिद्धिरिति चेत्, बुद्धेस्तर्हि स्वकालसत्त्वमेष्टव्यम्, अन्यथा तदवधिकपूर्वोत्तरासिद्धेः । बुद्धिरपि बुद्ध्यधीनसिद्धिः, न तु वस्तुतस्सतीति चेन्न; अनित्यबुद्धिवन्नित्यबुद्धिरपि तथेति प्रसङ्गे निवारकाभावात् । किं चासौ स्वाधीनसिद्धिर्वा स्वेतरबुद्ध्य्यधीनसिद्धिर्वा? नाद्यः, अनित्यबुद्धेस्त्वया स्वयंप्रकाशतानभ्युपगमात्; अभ्युपगमे वा नित्यसत्यत्वप्रसक्तेः । न द्वितीयः; अन्यबुद्ध्या तत्स्वरूपसिद्धावनित्यबुद्धेर्नित्यभानप्रसङ्गात्, ईश्वरबुद्धिवत् स्वकालवर्तित्वप्रतिभासे स्वत एव सत्याया अनित्यबुद्धेः कालोपाधित्वप्रसङ्गात् । तत एव तदपेक्षः पूर्वोत्तरकालासत्त्वलिङ्गेन स्वोपजीव्यमध्यकालसत्त्वप्रतिषेधः प्रासादनिगरणप्रयासप्राय इति । अत्र सतोऽसत्त्वमसतस्सत्त्वं च दुस्साधमिति दुरभिमानमुलयति – सामग्र्येति । अपरोक्षप्रमितिसामग्र्येत्यर्थः । यद्वा जनिध्वंससामग्र्योपलक्षितौ पूर्वापरावधी प्रत्येकं समुदायतो वा यथावस्तु प्रत्यक्षसिद्धाविति वाक्यार्थः । तरपा पण्डितपृथुकतिर्यक्पर्यन्तदुरपह्नवत्वं सूच्यते । ततश्च निर्बाधस्फुटदृष्टापह्नवे वैभाषिकादिपरिभाषया ब्रह्मणोऽपि कालपरिच्छेदरहितत्वादेव खपुष्पकल्पत्वं प्रसज्यत इति भावः । ननु कालपरिच्छिन्नोत्पत्तिज्ञप्तिसामग्रीसिद्धावेवं वाच्यम्, सैव कुतस्त्येत्यत्राह – साऽपीति । सामग्रीस्वरूपप्रवाहस्तद्बोधकप्रवाहश्चानादिरपर्यनुयोज्य इति भावः । श्लो. किंचानित्यत्वसत्यत्वे नानित्यं सत्यतां त्यजेत् । तदसत्यत्वपक्षे तु नित्यत्वात्सत्यता भवेत् ॥ ५२ ॥ इति अनित्यमिथ्या[त्व]कॢक्तेप्तिपरिहारः ॥

3.198     आम्नायस्यापि शक्तिर्न खलु गमयितुं खोपजीव्यप्रतीपं

यूपादित्यैक्यवाक्यप्रभृतिरितरथा नोपचारं भजेत ।

अक्षाम्नायः स्वपूर्वापरविहतिभयान्नेति नेत्यादिवाक्यं

वैलक्षण्यादिमात्रं प्रथयति भुवनाद्ब्रह्मणो विश्वमूर्तेः ॥ ५३ ॥

माभूदनुमानम्; नित्यनिर्दोषनिगमवाक्यगणैरेव निर्विशेषस्वप्रकाशसच्चिदानन्दब्रह्मव्यतिरिक्तसर्वमिथ्यात्वसिद्धिः स्यादित्यत्राह -आम्नायस्येति ॥ अयं भावः – प्रत्यक्षमुपजीव्यानुमानस्य, ते उभे उपजीव्य शास्त्रस्य च प्रवृत्तिः, तच्चैते बाधेत, अनुमानेऽपि कालात्ययापदिष्टकथैव न स्यात्; तथा च बाधाभावे कथं दूष्यदूषणव्यवस्येति कथात्रयोच्छेदः । ननु पदपदार्थादिस्वरूपमात्रं शास्त्रस्य प्रत्यक्षादुपजीव्यम्, अनुपजीव्यं तु तत्सत्यत्वं प्रमाणाभासभासितं शास्त्रेण बाध्येत; मैवम्; न हि जगत्सत्यत्वग्राहिणः प्रमाणाभासत्वमितः पूर्वं सिद्धम् । ततश्च तदाभासत्वसिद्ध्या शास्त्रेण तद्बाधः, तेन च सेति मिथस्संश्रयः स्यात् । अस्त्वाम्नायत्वमेव प्राबल्यकारणमित्यत्रातिप्रसङ्गमाह – यूपादित्येति । ननु ‘आदित्यो यूप’ इत्यादेराम्नायस्य कर्मविधिशेषतयाऽन्यपरत्वाद् दुर्बलतया प्रत्यक्षानुविधानेन वृत्त्यन्तरस्वीकारः, इह तु तत्त्वावेदकवाक्यस्यातत्पलरत्वासंभवात् प्रत्यक्षादिबाधस्त्वं युज्यते । हन्त, किं क्रियाशेषत्वमेव मन्त्रार्थवादानां स्वार्थप्रहाणकारणम्? तथा सत्यतिप्रसङ्गात् । तावता त्वन्यार्थं स्वार्थबोधनं सिध्येत् । क्वचिच्च स्वार्थप्रहाणं बाधादेव; न त्वन्यशेषत्वात् । तथैव हि लोके वेदे च स्तुत्यादेर्दृष्टिः; अनन्यपरेष्वपि ‘ब्रह्म वनं ब्रह्म स वृक्ष आसीदि’त्यादिष्वर्थासंभवे भाक्तो निर्देशः । ननु जगद्ब्रह्मसामानाधिकरण्येऽपि स्वरूपैक्यविरोधात् बाधार्थतयोपचारः स्यात्, तन्न; श्रुतिस्मृतिशताबाधेन सभवन्त्यां गतौ विपरीतलक्षणाङ्गीकारायोगात् । व्याप्तिविशेषापेक्षया च सामानाधिकरण्यं व्यज्यते; ‘स भूमिं विश्वतो वृत्त्वा, अत्यतिष्ठद्दशाङ्गुलम्, पुरुष एवेदं सर्वम्’, ‘सर्वं समाप्नोषि ततोऽसि सर्वः’, ‘सर्वगत्वादनन्तस्य स एवाहमवस्यितः’ इत्यादिषु । अत एव ‘ब्रह्मैवेदं सर्वम्’, ‘आत्मैवेदं सर्वम्’, ‘यत्र त्वस्य सर्वमात्मैवाभूदित्याद्याः सावधारणनिर्देशाश्चाव्रह्मात्मकत्व-निषेधाभिप्रायाः । तथा च ‘नेह नानाऽस्ति किञ्चनेत्यादिकमपि गतार्थम् । इदं च वाक्यं यदि ब्रह्मणि नानात्वं प्रतिषेधेत्; तदा ब्रह्मैकत्वसिद्धौ का कथा तद्गुणविभूतिनिषेधस्य? अथ भावप्राधान्यानाञ्जस्यं किञ्चनेति पदवैयर्थ्यं च मत्वा नानाभूतं किञ्चन वस्तु ब्रह्मणि नास्तीति युज्येत, तथाऽपि न जगन्निषेधः; ब्रह्मण्यविद्यमानानामपक्षयविनाशरूपमर्णादीनामिव स्वाधारेषु निराधारतया वा वृत्त्युपपत्तेः । बहुव्यापिनि सर्वाधारतया चाधिगते ब्रह्मणि ‘नास्ति किञ्चनेति निषेधात् तन्मिथ्यात्वे तात्पर्यं गम्यत इति चेत्, तथा सति नेदं किञ्चनास्तीत्येतावद्वक्तव्यम् । अधिकरणोक्तिस्त्कजागलस्तनायेत । अथ प्रपञ्चे नानात्वं नास्ति नानाभूतं नास्तीति वा प्रतिपाद्येत, तथाऽपि न प्रपञ्चस्वरूपबाधः, तन्नानात्वनिषेधे वाक्यप्रवृत्तेः । तत्र दृष्टश्रुतविरोधपरिहृत्यै विश्वस्य ब्रह्मात्मस्त्वादिसाधर्म्यविधौ वा जडपण्डितशत्रुमित्रादिवैधर्म्यदृष्टिनिषेधे वा तात्पर्यं स्थापनीयम् । इयं च गतिः ‘एकधैवानुद्रष्टव्यः’ ‘विद्याविनयसंपन्ने’, ‘सुहृन्मित्रार्युदासीनेत्यादिभिरनुगृह्यते । अत ईदृशेषु सर्वेषु वाक्येष्वेवं सर्वाविरुद्धः कश्चिदर्थस्समर्थनीय इत्यभिप्रायेण ‘अथात आदेशो नेत नेति न ह्येतस्मादिति नेत्यन्यत्परमस्तीति वाक्यं तावदविरुद्धार्थविषयं साधयति – अक्षेति । प्रत्यक्षग्रहणमनुमानस्वाप्युपलक्षणम् । आम्नायशब्दः इह श्रुत्यन्तरपरः । अत्र ‘द्वे वा व बह्मणो रूपे मूर्तं चामूर्तमेव चेत्यादि पूर्ववाक्यम् । ‘अथ नामधेयं सत्यस्य सत्यमित्यादि पश्चिमम्; तदिह प्रत्यक्षानुमानमुश्रुत्यन्तरपूर्वापरविरोधभीत्या मध्यमं ‘नेति नेतीत्यादिवाक्यं ब्रह्मगुणविभूतिविग्रहाद्यबाधेन ब्रह्मण्येवानुक्तातिशयान्तरपरं नेतव्यम् । ततश्च लोकदृष्टप्रकारवैलक्षण्यार्थमिह केचिदाहुः । अन्ये तु इति नेति व्यवहारेणेतोऽधिकं किञ्चिदस्तीति निर्देष्टव्यं नास्तीति । प्रकृतैतावत्त्वसूत्रभाष्योक्तमिहादिशब्दसंगृहीतं ब्रूमः । पूर्वप्रदर्शितप्रकारमात्रयोगाद् ब्रह्मणः प्रकृतमेतावत्त्वं ‘नेति नेतीत्यादिवाक्य प्रतिषेधती’ति । ब्रह्मणो विश्वमूर्तेरिति पदाभ्यां धर्मिग्राहकप्रसिद्धगुणविभूत्यादिप्रकर्षः प्रख्याप्यते ॥ ५३ ॥ इति निषेधश्रुतीनां प्रत्यक्षादिविरुद्धप्रतिपादकत्वानुपपत्तिः ॥

3.199     प्रत्यक्षेणैव पुंसां भवति दृढतरो देह एवात्ममोहो

ज्वालैक्यप्रत्यभिज्ञाद्युभयमपि च तद्बाध्यते ह्यागमाद्यैः ।

तस्मादक्षादिसिद्धं श्रुतिभिरपि जगद्बाध्यतामित्ययुक्तं

सन्देहार्हेषु शक्तं यदिह न खलु तद्दोषदूरेष्वपि स्यात् ॥ ५४ ॥

ननु प्रत्यक्षस्य प्रत्यक्षान्तरेणैव परोक्षेणापि बाधस्तत्रतत्र संमतः, तद्वदिहापि स्यादिति शङ्कते – प्रत्यक्षेणेति ॥ अस्ति द्वे मनुष्यत्वस्थूलत्वादिविशिष्टे पिण्डे तिरश्चामिव विपश्चितामप्यात्मत्वाभिमानः; तत्र चामोक्षादसमाहितदशायां जाग्रतः स्वपतो वा दर्पणतलदत्तदृष्टेरिव सामग्रीसामर्थ्यादनिच्छतोऽपि देहविभ्रमे बाधितानुवृत्तिरित्यभिप्रायेण दृढतरशब्दः । अस्य ज्वालैक्यप्रत्यभिज्ञायां विपरिणतानुषक्तिः; अपि प्रत्यक्षस्य बाध्यत्वसंभावनार्थः; चकारश्चन्द्रसूर्यपरिगणाल्पत्वादिभ्रमाकारसंग्रहार्थः । आगमाद्यैरित्यनेनानुमानवत्परेष्टमर्थापत्त्यादिकमपि गुहृते । अत्र देहात्मबोधस्यानुमानागमाभ्यां ज्वालैर्यग्रहस्य चानुमानेन बाधः । एवं निदर्शितमर्थं प्रकृते निवेशयति – तस्मादिति । विषमो दृष्टान्त इत्यभिप्रायेणाह – इत्ययुक्तमिति । सन्देहार्हेष्विति । अयं भावः – क्षेत्रभूषणादिनयात् मम देह इति व्यतिरेकप्रत्यवस्तावद् दुरपह्नवः । ममात्मेत्येतत्तु घटस्यात्मेतिवत् स्वरूपपरमिति सर्वसंमतम् । वीतरागजन्मादर्शनादिभिश्च देहात्मभेदस्संभाव्यते । अतस्तप्तायःपिण्डादिन्यायात् भ्रमहेतुसंसर्गविशेषवति द्रव्यद्वये स्थौल्यचैतन्यादिगुणव्यतिहारधीः स्यादिति शङ्काकलङ्कितस्तत्तद्देहात्मबोधस्सर्वेषां सर्वदा संभवन्नपि नित्यनिर्दोषनिगमजन्यधिया न्यक्कारमर्हति । ज्वालैक्यधीरण्यदृष्टभिर्वापणस्य पुनरारोपितदीपेऽपि संभवात् सादृश्यसादेश्यभेदाग्रहादिप्रसूतेति लैङ्गिक्या धिया नियम्येत । चन्द्रसूर्यपरिमाणाल्परूपत्वादिबोधेष्वपि दूरत्वादिदोषसंप्रतिपत्त्याऽनन्यथासिद्धानुमानागमसिद्ध्या बुद्ध्या बाधः साधीत्वन् । इह तु तत्तत्प्रमाणदोषत्वेन संभावितानां सर्वेषामसिद्धेर्न शास्त्रबाध्यत्वं संभाव्यमिति ॥ ५४ ॥ इति परोक्षबाध्यत्वयोग्यायोग्यप्रत्यक्षविभागः ॥

3.200     प्रत्यक्षं दोषमूलं श्रुतिरिह न तथा पौरुषेयत्वहाने-

स्तस्मात्सा बाधिकाऽस्येत्यसदखिलधियामन्ततो दोषसाम्यात् ।

शास्त्रस्यापि ह्यविद्याप्रभृतिभिरुदयस्संमतस्त्वन्मतस्थै-

स्तस्यानाविद्यभावे न हि निखिलभिदापह्नवश्शक्यशङ्कः ॥ ५५ ॥

पुनः प्रत्यक्षादनिर्दोषत्वमसिद्धमिति शङ्कते – प्रत्यक्षमिति ॥ अयं भावः – विगीतं प्रत्यक्षं दोषमूलं प्रत्यक्षत्वात् द्विचन्द्रादिप्रत्यक्षम् । अत एव तन्मूलस्यानुमानस्यापि दोषमूलत्वं सिद्धम् । श्रुतिस्तु न तथा; सर्वेषु कल्पेषु एकरूपतयैव श्रूयमाणतया पौरुषेयत्वासंभवे वक्तृदोषप्रसङ्गाभावात्, इह च तद्वेद्ये ब्रह्मणि भेदनिषेधे वाऽनन्यगोचरत्वेन तात्पर्यस्थापनात् । अतस्सा श्रुतिरस्य प्रत्यक्षस्य बाधिकेति । तदेतत् प्रत्याचष्टे -इत्यसदिति । स्वव्याघातादिदोषादिति भावः । अभिप्रेतं विवृणोति – अखिलधियामिति । अयं समाधिः – प्रत्यक्षत्वादिति स्वप्रकाशप्रत्यक्षेऽपि वृत्तेरनैकन्तिकम् । अद्य – नित्यप्रत्यक्षत्वादिति विशेष्येत, तथाऽपि स्वाभीष्टध्यानजन्ये शब्दजन्ये वा परब्रह्मप्रत्यक्षे तद्वृत्तिस्सिद्धा । तत्रापि दोषमूलत्वाभ्युपगमे कथं तक्त्वसाक्षात्कारसिद्धिः? दोषमूलादपि तत्सिद्धावतिप्रसङ्गः । दुष्टप्रत्यक्षमूलतया चानुमानस्यापि बाध्यत्वं दुर्वचं स्यात् । यदि च प्रत्यक्षत्वमात्रेण पृथिव्यादिस्वरूपप्रत्यक्षस्य दोषमूलत्वम्, बोधकत्वादेव ब्रह्माद्वैतवाक्यायामपि किं नैतत्स्यात्? वाक्यदोषत्वेन संप्रतिपन्नं किञ्चित्तत्र न दृश्यत इति चेत्; समानमेतद्विमतेऽपि प्रत्यक्षे; अतिरिक्तदोषानुमानस्य तु वाक्येऽपि कः प्रत्यूहः? भेदवासनाख्यो दोषः प्रत्यक्षे प्रसिद्ध इति चेन्न । शब्देऽपि तस्यास्तद्वत् प्रसिद्धत्वात् । न ह्यत्र प्रकृतिप्रत्ययपदवाक्यपदार्थवाक्यार्थादिविकल्पान् वासनानपेक्षानभिमन्यध्वे । न च द्विचन्द्रादिवासनानां वासनात्वादेव दोषत्वम्; किंतु भ्रातिमूलत्वात् । अतोऽभिन्नेष्वेव भेदवासना दोषः, अयथार्थस्यतिहेतुत्वात् । अन्यथा ह्यद्वैतवासनाया अपि दोषत्वप्रसक्तिः । प्रत्यक्षे तु वासना भ्रान्तिप्रसूतैवेति चेत्; न वासनाया दोषत्वसिद्धौ तद्धेतोरनुभवस्य भ्रान्तित्वसिद्धिः; ततश्च तत्सिद्धिरिति मिथस्संश्रयात् । एतेन भेदधीजनकत्वाद्वासनाया दोषत्वमित्यपि प्रत्युक्तम्; पृथिव्यादिभेदधियां भ्रान्तित्वसिद्धौ तज्जनकवासनाया दोषत्वम्, ततश्च तदिति । तत्त्वावेदकवाक्यबाधितत्वात् भेदधियां भ्रान्तित्वे सिद्धे ततस्तद्धेतोर्दोषत्वकॢप्तौ नान्योन्याश्रय इति चेन्न; प्रत्यक्षस्य वासनाख्यदोषमूलत्वे सिद्धे वाक्यस्य तद्विरुद्धतत्त्वावेदस्त्वम्; ततश्च भेदधियां भ्रान्तित्वम्; तत एव तद्धेतुवासनाया दोषत्वम्; ततः प्रत्यक्षस्य दोषमूलत्वमिति चक्रकापत्तेः; पर्वसंकोचेन मिथस्संश्रयो वा । प्रत्यक्षं सवं भेदवासनामूलमित्यपि निर्विकल्पके दुर्वचम्; तस्य त्वयापि संस्कारजन्यत्वानभ्युपगमात् । अस्ति च शब्दानुगमवादिनामप्यवासनाधीनं प्रथमाक्षसन्निपातजं प्रत्यक्षम्; तत्कल्पितयोश्शब्दविवर्तपरिणत्योस्संस्कारापेक्षप्रकाशत्वात् । अस्तु सर्वजननी मायैव निर्विकल्पके दोष इति चेन्न; वाक्यतज्जन्यज्ञानयोरपि तदपत्यभेदत्वादिति । तदिदमाह – शास्त्रस्यापीति । प्रभृतिशब्देन भेदवासनां तन्मूलभेदेभ्रमं च गृह्णाति । अतः प्रत्यक्षमात्रस्य दोषमूलत्वकल्पना निर्दोषज्ञप्तिसद्भावं न सहेतेति निश्चिनुमः । अथ शास्त्रस्य ब्रह्मवदविद्यावन्नानादित्वादविद्यामूलत्वं नास्तीति मुग्धाद्वैतिमतमनूद्य दूषयति – तस्येति । तत्र शास्त्रस्यादोषकल्पितानादिभावत्वात् ब्रह्मवदविद्यातद्विवर्तान्यतया च सत्यत्वप्रसक्तौ स्वाभिमतमद्वैतं भज्येतेति भावः ॥ ५५ ॥ इति शास्त्रप्रत्यक्षयोर्दोषसाम्यापादनम् ॥

3.201     दोषोत्थत्वाविशेषे न हि भवति परं पूर्वबाधप्रगल्भं दोषज्ञानं तु माभूदविदुषि पुरुषे वस्तुतस्त्वन्यथा तत् । निर्दोषत्वाभिमन्तृस्वसमयिमतिभिः किं न मिथ्याकृतान्ताः प्रा(बल्यं)गल्भ्यं चेन्निषेधः पर इति मुखरं तुर्यबौद्धस्य तूर्यम् ॥ ५६ ॥

3.201     अत्र कैश्चिदनाकलिततर्कतन्त्रगतिभिः प्रपञ्चलुण्टाकैरेवं प्रत्यवस्थितम् – ‘दोषमूलत्वाविशेषेऽपि परत्वादद्वैतवाक्यजन्यं ज्ञानं प्रत्यक्षस्य बाधकम्; ‘पूर्वावाधेन नोत्पत्तिरुत्तरस्य हि सेत्स्यति’ इति न्यायात्; न चाविशेषः परस्य बाधकत्वं प्रतिरुन्ध्यात्, प्रमाणत्वाविशेषेऽप्युद्गातृप्रतिहर्त्रपच्छेदयोर्युगपदुभयसंभवे परस्य नैमित्तिकशास्त्रस्य बाधकत्वस्थापनात्; अपैति च रज्जुसर्पभीतिः कस्यचिदनाप्तवाक्येनापि; अतश्शास्त्रतः प्रत्यक्षबाधः शाक्य इति’ । तत्प्रतिक्षिपति – दोषोत्थत्वेति ॥ अयं भावः – न हि सर्पभूदलनभ्रमयोरुपरितनस्य बलीयस्त्वमुत्पादयितुं शक्यम् । अनाप्तवाक्यबाधिते रज्जुसर्पे तदनाप्तत्वपरामर्शिनस्तद्भयं पुनरनुषज्यते । इह त्वादावेव दोषमूलत्वाविशेषश्शिक्षितः प्रतिसंहितश्चेति न परबलीयस्त्वभावनावकाश इति । दोषपरामर्शाभावमन्वारुह्यापि दूषयति – दोषज्ञानमिति । तुः वैपरीत्यद्योतकः । वस्तुतस्त्विति । अत्र तुः विदुषि तद्धीसंभवद्योतनार्थः । दोष एव ह्ययथार्थधीहेतुः; तज्ज्ञानं तु तद्वि(स्रम्भ)भ्रमनिवर्तकम् । दुष्टस्यापि बोधस्य दोषपरामर्शाभावमात्रात् वस्तुस्थितिवैपरीत्यव्यवस्थापकत्वेऽतिप्रसङ्गमाह – निर्दोषत्वेति । सर्वे हि वादिनः स्वसिद्धान्तस्थापकं निर्दोषमभिमन्यन्ते । न च तत्तथ्यम्; न च तथातथा भिद्येत वस्तुगतिः, व्याघातात् । तदिह स्वपक्षस्थापकदोषानाकलनमात्रेण बाह्यसिद्धान्ता विपश्चिद्विदितदोषाः किं न मिथ्या भवन्ति? तद्वदिहापि बाधकदोषस्य सतः परामर्शे अन्ययाऽपि वा बाध्यबाधकभावो दुर्धर्ष(ण) इति भावः । अनन्यगतिकापच्छेदन्यायदर्शनमात्रेण तुल्यस्यापि परस्य प्राबल्ये सर्वबाधकमाध्यमिकविजयतूर्यं जोघुष्येतेत्याह – प्राबल्यमिति । निषेधः पर इत्येतावता तस्य प्राबल्यं चेदित्यन्वयः ॥ ५६ ॥ इति दोषसाम्ये परस्य बाधकत्वानुपपत्तिः ॥

3.202     निर्दोषं यच्च शास्त्रं तदपि बहुविधं बोधयत्येव भेदं वाक्ये तत्त्वोपदेशप्रकरणपठिते नान्यपर्यं प्रतीमः । नात्रापच्छेदनीतिर्नियतिमति सदोपक्रमन्यायसिद्धेः स्वप्रख्याप्यापलापे श्रुतिरपि वृषलोद्वाहमन्त्रायते वः ॥ ५७ ॥

3.202     असंभावितदोषादौपनिषदवाक्यादद्वैतज्ञानं सिध्यतीति परोक्ते प्रतिबन्दिं प्रस्तुवान इव स्वपक्षमपि स्यापयति – निर्दोषमिति ॥ बहुविधं भेदम् – आधाराधेयभावादिभिरीशेशितव्यभेदं, भोक्तृभोग्यनियन्तृभावैस्तत्त्वत्रयभेदम्, अणुत्वविभुत्वादिभिर्जीवेश्वरभेदं, बद्धमुक्तनित्यतदवान्तरविभागैर्जीवभेदम्, एतेषु(एषु) च कालभेदेन तत्तदवस्थाभेदं चेत्यर्थः । प्रतिषेधगन्धिना त्वयाऽपि प्रतिषेध्यधीर्दुरपलपेत्येवकाराभिप्रायः । प्रस्तुतभेदवाक्यानि अन्यपरत्वान्न भेदं विदधतीत्यत्राह – वाक्य इति । नहि सद्विद्यादिषु कर्मविधयः उपासनविधयो वा संनिदधतीति त्वयाऽपि संप्रधार्यते । सन्ति च तत्रापि, ‘अहमिमास्तिस्रो देवता अनेन जीवेनाऽऽत्मनाऽनुप्रविश्य नामरूपे व्याकरवाणि’ इत्यादीनि तत्तद्द्रव्यस्वरूपव्यापारादिविविधभेदविषयाणि वाक्यानि । अतोऽनन्यपरनिर्दोषवाक्यसिद्धत्वादद्वैतवत् द्वैतमपि दुर्निषेधमित्यभिप्रायः । ननु प्रतिषेधस्य प्रसक्तिसापेक्षत्वात् भेदप्रसञ्जकवाक्यं पूर्वं, तन्निषेघकं तु परत्वेनापच्छेदनयात्तद्बाधकं स्यादित्यत्राह – नात्रेति । अत्रेत्यनेनाभिप्रेतं हेतुमाह – नियतिमतीति । अयं भावः – अनियतपौर्वापर्ये ह्यपच्छेदनयः, नियमे तूपक्रमनयात् परानुत्पत्तिरेवेति नीतिविदः । इह च त्वयैव प्रसञ्जकप्रतिषेधकयोः पौर्वापर्यनियमः स्थापितः; अतः परस्यैव दौर्बल्यं प्रत्येतव्यमिति । अनुष्ठाने त्वस्य न्यायस्यान(?)न्यथाभावमभिप्रेत्य सदाशब्दः । ननु लोकसिद्धान् भेदांस्तावत् प्रसिद्धत्वादनुवदति, अलौकिकानपि प्रतिषेधार्थमेवोपदिश्य प्रतिषेधतीति परप्राबल्यं दुर्वारम्, तत्राह – स्वप्रख्याप्येति । अप्रख्यातस्य प्रख्यापनाद्वरं तत्र तूष्णींभावः । न हि भ्रमनिवर्तनाय प्रवृत्तं शास्त्रं भ्रमान्तरमुत्पादयतीति त्वदन्यः प्रतिपद्येत । तदिह श्रुतिः प्रत्यक्षाद्यनवगतान् भेदान् स्वयं विधत्ते प्रतिषेधति चेति वृषलविवाहमन्त्रवत् व्याघात एव परिशिष्यते इति भावः । एतेन सगुणनिर्गुणश्रुत्योरपि परप्राबल्यवर्णनं निरस्तम् ॥ ५७ ॥ इति भेदतन्निषेधश्रुत्योरपच्छेदन्यायानर्हत्वम् ॥

3.203     भेदः प्रत्यक्षसिद्धो न निगमविषयः स्यादिति त्वर्भकोक्तिः

प्रख्यातादन्यमेनं प्रथयति यदसौ त्वन्मताद्वैतवन्नः ।

सन्मात्रग्राहि चाक्षं नियमयसि ततो ब्रह्म दृश्यं मृषा स्यात्

किं ते श्रुत्या तदानीं फलमपि लभतां क्वापशूद्राधिकारः ॥ ५८ ॥

एवमपि मुग्धान् प्रति मुग्धैरुपादेशि । भेदस्तावद् भूतभौतिकादिष्वासंसारं प्रसिद्धः; अतीन्द्रियनिष्ठोऽप्यसौ सामान्यतः प्रत्यक्ष एव; अन्यथा भेदसामान्यप्रयुक्तभेदशब्दवाच्यत्वादिव्याप्तिग्रहणायोगात् । व्याप्तिग्रहणरूपं हि प्रत्यक्षमदृष्टसकलव्यक्तिगोचरमिति धूमानुमानादिष्वपि समर्थयन्ते । सावयवत्वानित्यत्वव्याप्तिग्रहणमतीन्द्रियसावयवपक्षीकारेण शिक्षयन्ति । तदिह भेदमात्रस्य प्रत्यक्षविषयत्वादप्राप्तप्रापकस्वभावशास्त्रगोचरत्वं न संभवतीति । एतदनुभाष्योपालभते – भेद इति ॥ तुः सर्वशास्त्रनिर्विषयत्वप्रसङ्गावहत्वं द्योतयति । प्रायेण हि तवापि यत्किंचिद्भेदविषयं सर्वं शास्त्रम्; अन्ततः प्रतिपन्नादन्यदेव हि सर्वशास्त्रे प्रख्याप्यम् । तद्यदि यस्यकस्यचिद्भेदान्तरस्य प्रत्यक्षतया सामान्यतः सर्वभेदग्रहणात् शास्त्रस्य विषयलोपः स्यात्, लुप्येत तर्हि सकललौकिकवैदिकशास्त्रविषयः । व्याकरणादिव्युत्पत्तिलोपादद्वैतशास्त्रमप्यशक्यारम्भं स्यात् । अतो भेदस्य शास्त्रविषयत्वं निराचिकीर्षता सिषाधयिषितस्याभेदस्यापि तन्निराकृतमेवेति । अथ सर्वशास्त्रे प्रतिपत्तॄणामन्यप्रतिपन्नादन्यद्विशेषतः प्रतिपित्सार्हं प्रतिपाद्यमिति पश्यसि, तदा [अस्]मन्मतेऽपि लोकप्रसिद्धगजतुरगनीलपीतादिभेदातिरिक्तः परावरादिभेद उपनिषद्धोषणीयः । तदिदमाह – प्रख्यातादिति । असावित्यौचित्यान्निगमः परामृश्यते । त्वन्मताद्वैतवदिति प्रतिबन्दिपरम् । तथा हि – यदि भेदमात्रस्य प्रसिद्धत्वादलौकिकभेदोऽपि शास्त्रविषयो न स्यात्, अभेदमात्रस्यापि प्रतिवस्तु सर्वलोकप्रसिद्धत्वात् त्वदभिमतमद्वैतमपि तदविषयः स्यात् । यदि प्रसिद्धविलक्षणमद्वैतं तत्प्रतिपाद्यं पश्यसि, भेदेऽपि तादृशे तथैव दीयतां दृष्टिरिति । प्रत्यक्षविषयत्वादेव शास्त्राविषयत्वे परस्य सिद्धान्तविरोधमपि सूचयति – सन्मात्रेति । भेदस्य भ्रान्तिविषयत्वं सन्मात्रस्य प्रत्यक्षविषयत्वं च त्वया स्थाप्यते । अतस्तस्यापि शास्त्रविषयत्वं त्वया दुस्साधमिति भावः । अस्तु सन्मात्रमनागमविषयः, भेदनिषेधमात्रे त्रय्यन्ततात्पर्यात्; सन्मात्रं तु प्रत्यक्षत एव सिध्यतीति, तत्राह – तत इति । यदि प्रत्यक्षत ख ब्रह्मणस्सिद्धिः, तदा दृश्यत्वसामान्यसंगृहीत्या युष्मत्पदव्या मिथ्यात्वं दुस्तरं स्यादिति भावः । अन्यमपि सिद्धान्तविरोधमाह – किमिति । प्रत्यक्षत एव ब्रह्मस्वरूपसिद्धौ तद्विभूतिगुणादेश्च मिथ्यात्वादनुपदेष्टव्यत्वे भेदनिषेधस्य च माध्यमिकोपदिष्टैरेव तर्कैस्सिद्धौ शारीरकविचारार्थिनः श्रुतिसाध्यं न किंचित्स्यादित्यर्थः । ब्रह्मविद्यायां शूद्राधिकारप्रतिषेधोऽपि दुश्शक इत्याह – फलमिति । ब्रह्मणस्त्रय्यन्तवेद्यत्वे सिद्धे ह्यनधीतश्रुतीनां शूद्रादीनां ब्रह्मविद्यायामनधिकारस्सिध्येत्; प्रत्यक्षवेद्यत्वे तु त्रैवर्णिकाविशिष्टशूद्रोऽनधिकारी नु स्यादिति भावः ॥ ५८ ॥ इति अलौकिकभेदस्य शास्त्रवेद्यत्वोपपत्तिः ॥

3.204     वेदा बुद्धागमाश्च स्वयमपि हि मृषा मानता चैवमेषां

बोद्धा बुद्धिः फलं च स्थिरतदितरताद्यन्तरालं च बुद्धेः ।

आतस्त्रैविद्यडिम्भान् ग्रसितुमुपनिषद्वारवाणोपगूढैः

प्रायः प्रच्छादिता स्वा पटुभिरसुरता पौण्ड्रकाद्वैतनिष्ठैः ॥ ५९ ॥

ये चैते प्रमाणप्रमेयादिभेदान् भ्रान्तिसिद्धान् साधयन्ति, तेषां योगाचारादिसमयमनास्थाय त्रय्यन्तवादाश्रयणं बालप्रलोभनार्थमित्यभिप्रायेणाह – वेदा इति ॥ स्वयं – स्वरूपतः । अपिना व्यापारानुग्राहकयोस्संग्रहः । मानता – प्रामाण्यम् । एवं – मृषा । एषाम् -उभयेषाम् । स्थिराभावादेव सौगतानां बोद्धा मिथ्याभूतः; स्थिरसद्भावेऽप्यद्वैतिनामात्मनोऽनुभूतिमात्ररूपत्वेनाबोद्धृत्वात् तदाश्रयतया भातस्याहमर्थस्याविद्याविवर्तत्वाच्च बोद्धुर्मिथ्यात्वं सिद्धम् । बुद्धिरपि सर्वा माध्यमिकस्य मिथ्या; मायावादिनस्तु शास्त्रसाध्या; साध्यत्वादेव सत्यव्यतिरिक्तिा । अपि च अनेनोक्तं बुद्धिस्थैर्यं निर्विशेषत्वविरोधात् काल्पनिकम्; योगाचारोक्तं क्षणिकत्वमपि तथैव, क्षणिकधियां ग्राह्यग्राहकस्वगतविशेषस्य मिथ्यात्वाभ्युपगमात् । फलं – व्याहारो हानोपादानादि च । एवं सर्वतस्साम्ये कुदृष्टोनामन्यतरपरिग्रहनियतौ निदानमुत्प्रेक्षमाण इवोपालभते – आत इति । शेषमतिरोहिततात्पर्यम् । एवमिह यादवप्रकाशीयस्संग्रहः -‘वेदोऽनृतो बुद्धकृतागमोऽनृतः प्रामाण्यमेतस्य च तस्य चानृतम् । बोद्धाऽनृतो बुद्धिफले तथाऽनृते यूयं च बौद्धाश्च समानसंसदः ॥ इति ॥ ५९ ॥ इति प्रपञ्चमिथ्यात्ववादिनां सौगतसाम्यापादनम् ॥

3.205     त्वन्निष्ठासिद्ध्यसिद्ध्योः परमतनियतिस्सिद्धिमेवाधिरूढा

वेदस्यामानतायां त्वदभिमतहतिर्मानतायां च तद्वत् ।

साध्याऽसाध्याऽपि मुक्तिस्त्वदुपगमहता तत्समं चान्यदित्थं

रक्षोभ्यः प्रेषितोऽयं रधुपातिविशिखो राहुमीमांसकेभ्यः ॥ ६० ॥

अथास्मिन् पश्यतोहराणां पक्षे विकल्पदौःस्थ्यं विविधमुदाहरति – त्वन्निष्ठेति ॥ नितिष्ठत्यस्मिन् परीक्षेति निर्णयोऽत्र निष्ठा; तद्विषय ख वा राद्धान्तः । याऽसौ त्वन्निष्ठा सा असिद्धा भ्रान्तिसिद्धा वा; तर्हि तद्विपरीता परेषां निष्ठैव प्रमितिसिद्धिमधिरोहेत् । अथ प्रमितिसिद्धा, प्रमितिरसौ चेद् व्यवहारिकी वा पारमार्थिकी वा? न प्रथमः दत्तोत्तरत्वात् । तादृश्या तया परमतान्यपि किं न सिध्येयुः? अस्मदुक्तबाधकैरिति चेत्, तदुक्तबाधकैस्त्वन्मतमपि न सिध्येत् । ते बाधकाभासा इति चेत्, त्वदुक्ता अपि तथैवेत्यन्ततस्त्वमेव ब्रूषे । स्वव्याघातादिदोषस्त्वधिकः । तदिदं संजगृहुः – ‘स्वशास्त्रनिर्णये सिद्धे सिद्धाः स्युर्लोकनिर्णयाः । स्वशास्त्रनिर्णयेऽसिद्धे सिद्धाः स्युर्लोकनिर्णयाः ॥ अपि च वेदाः प्रमाणमप्रमाणं वा? अप्रमाणत्वे कथं ततस्तद्विषयसिद्धिः? अन्यथा बाह्यागमैरपि तत्तद्विषयाः किं न सिध्येयुः? कथं तर्ह्यप्रमाणात् भयविस्मयादिसिद्धिः? इत्थम् – न हि वयमप्रमाणस्य स्वानुरूपार्थक्रियाकारित्वं नेति ब्रूमः; किंतु न ततस्तद्विषयसत्यत्वस्थापनं सिध्येदिति । प्रमाणत्वं तु तस्य सत्यमसत्यं वा? ब्रह्मणः स्वरूभूतमन्यदा? नाद्यः, ब्रह्मणश्शब्दधर्मत्वायोगात् । न द्वितीयः, सदद्वैतव्याघातात् । असत्यत्वे तु वृत्तमेवोत्तरम् । मुक्तिश्च ब्रह्मण उपायसाध्या? उत स्वरूपत्वादसाध्या वा? आद्ये भावरूपा अभावरूपा वा? पूर्वत्राद्वैतभङ्गः । उत्तरत्र सत्यमिथ्याप्रतियोगिकत्वविकल्पे प्राच्योऽपसिद्धान्तहतः; पश्चिमस्तु प्रध्वंसमिथ्यात्वमपि स्थापयेदेव । अलब्धस्वरूपस्य हि प्रध्वंसोऽपि स्वरूपं न लभेत । एवं स्वयंप्रकाशत्वादिषु स्वतस्सिद्धत्वान्यतस्सिद्धत्वादिविकल्पदौःस्थ्यं दुस्तरमित्याह – तत्समं चान्यदिति । उक्तानुक्ततर्काणां [अ]मोघत्वं व्यञ्जयन्निगमयति – इत्थमिति । रक्षोभ्य इत्यनेन स्वव्याघातकमायाप्रवर्तकत्वं त्यज्यते । रघुपतिविशिखः – तद्वत् सर्वत्राप्रतिहत इति तात्पर्यम् । राहुमीमांसकशब्देन सशिरस्कवेदनिर्णयप्रवृत्तमीमांसाशास्त्रशरीरेऽपि शकलितशिरोमात्रसंग्रहीतृत्वं सूच्यते ॥ ६० ॥ इति प्रपञ्चमिथ्यात्ववादिनां बाधकविकल्पोदाहरणम् ॥

3.206     शुद्धस्याशुद्धसृष्टिक्रम इति कथितश्शुद्धसत्त्वे तु तत्त्वे

स्थानं नित्यं श्रुतं तत्स्मृतमपि कलया तत्र देहाद्यवस्थाः ।

सृष्टेः प्रागेकमेवेत्यपि निगमवचस्स्रक्ष्यमाणव्यपेक्षं

नो चेत्स्वाभीष्टमायोपधिमुखविलये स्वस्ति विश्वप्रसूत्यै ॥ ६१ ॥

एवं प्रसक्तानुप्रसक्तिं परिसमाप्य परमप्रकृतसृष्टिविशेषोक्तिं संगमयन् प्रकरणारम्भोद्दिष्टलक्षितनित्यविभूतिपरीक्षां परिमितनिरूप्यत्वादौचित्याच्च प्रधानप्राप्यप्रापकभूतपरतत्त्वनिरूपणानन्तरं निवेशयति – शुद्धस्येति ॥ शुद्धस्येत्यनुकथनमशुद्धद्रव्यानुप्रवेशात् तत्सृष्ट्यादिभिश्च स्वतन्त्रस्याप्यशुद्धिशङ्कामपनयति । अशुद्धसृष्टिक्रमः कथित इत्यत्र शुद्धसृष्टिक्रमस्तु वक्तव्य इति शेषः । शुद्धसत्त्वे तु तत्त्व इत्यनुवादेन तद्ग्राहकप्रमाणमपि सूच्यते । तस्याप्राकृतत्वस्थापकमाह – स्थानमिति । श्रूयते हि ‘तद्विष्णोः परमं पदं सदा पश्यन्ति सूरयः’ इति । तदिदं सदापश्यत्सूरिविशिष्टस्थानविधानार्थमिति वेदार्थसंग्रहे स्थापितम् । एवम् ‘आदित्यवर्णं तमसः परस्तात्’ ‘क्षयन्तमस्य रजसः पराके’ इत्यादि । शाट्यायनिनश्च एवमामनन्ति ‘सहस्रस्थूणे विमते दृढ उग्रे यत्र देवानामधिदेव आस्ते’ इति । कौषीतकिनां पर्यङ्कविद्या चात्र पठितव्या । सर्वमेतत् संक्षिप्तं षडर्थसंक्षेपे ‘व्यतिरेकाधिकरणनिवासशब्दैरिति’ । ‘तद्विप्रासो विपन्यवो जागृवांसस्समिन्धते, विष्णोर्यत्परमं पदम्’ इत्यादिप्रसिद्धिसूचनार्थस्तच्छब्दः । अस्यार्थस्योपबृंहणप्रतिष्ठितत्वमाह – स्मृतमपीति । यथोक्तमुत्तरश्रीरामायणे – ‘तं चा[यद्वा]काशं सनातनम्’ इति । महाभारते च ‘दिव्यं स्थानमजरं चाप्रमेयमिति । भगवच्छास्त्रसंहितासु च विस्तरस्सिद्धः । ननु ‘अक्षरे परमे व्योमन्’ नित्यव्यक्ततमसोरन्तरालेऽधीतस्त्रिगुणपरिणतिविशेष ईश्वरस्य मुक्तानां च भोगस्थानतयाऽऽम्नायत इति यादवप्रकाशोक्तं युक्तम्, अक्षरशब्दप्रत्यभिज्ञानस्यात्र बाधकाभावात्, शुद्धसत्त्वव्यपदेशस्य रजस्तमसोरभिभूततयोपपत्तेः, अप्राकृतस्थानकॢप्तौ च गौरवात्, तत्रापि पृथिव्यादिभेदाभ्युपगमेन प्राकृतत्वं प्रज्ञायत इति । अत्र ब्रूमः -अक्षरशब्दप्रत्यभिज्ञामात्रं त्वतिप्रसञ्जकम् । अस्ति चात्र ‘परमे व्योमन्’ इति समभिव्याहारो बाधकः; न हि तमोनन्तरस्याक्षरस्य व्योमत्वम्; उपचारस्तु गत्यभावे । अस्मत्पक्षे त्वक्षरपरमविशेषणाभ्यां प्रसिद्धव्योमवैलक्षण्यं युक्तम् । नच स्थानान्तरादिस्वीकारे गौरवं, यथाश्रुतमात्रसंग्रहणात् । पृथिव्यादिभेदस्तु शब्दादिगुणतारतम्यसारूप्यात्, युष्मदिष्टाक्षरस्थाने च प्रकृत्यामिव पृथिव्यादीनामसन्निधानात् । नच तत्त्वसंख्याधिक्यश्यङ्गो दोषः, कालवदेव पृथक्स्वोपपत्तेः; ‘तं षड्विंशकम्’ इत्याहुः सप्तविंशमथापरे इत्यधिकसंव्याम्नानात् । न चैवं षट्त्रिंशत्तत्त्ववादस्यापि स्वीकर्यत्वम् अनाप्तागमप्रणीतस्यानादरणीयत्वात्; आप्तागमे त्वधिकगणनमनतिविप्रकृष्टावान्तरपरिणामख्यापनाभिप्रायं बोद्धव्यम् । ‘लोकं वैकुणनामानमिति प्रकृत्य’ ‘अप्राकृतं सुरैर्वन्द्यमिति विशेष्यते । अत एचाण्डान्तर्वर्तिलोकविशेषत्वशङ्काऽपि निर्धूता । ‘न तस्य प्राकृता मूर्तिरित्यनेनापि द्रव्यान्तरं सिध्यति । न चात्र बाधकमस्ति, अतश्शुद्धाशुद्धविभूतियुगलं व्यवस्थितमिति । नन्वेवमपि नित्यानित्यविभूतिविभागोऽनुपपन्नः, अत्राप्यात्मस्वरूपादेर्नित्यत्वात्, तत्राप्यैच्छदेहादेरनित्यत्वात्, तत्राह – कलयेति । नित्यानित्यप्राचुर्यविवक्षया तथा विभाग इति भावः । न हि तत्रत्यानां पृथिव्यादीनामीश्वरदेहादीनां चात्रत्यवत् सृष्टिप्रलयौ । उक्तं हि महाभारते – ‘नित्यं हि नास्ति जगति भूतं स्थावरजङ्गमम् । ऋते तमेकं पुरुषं वासुदेवं सनातनम् ॥’ इति । भूतशब्दोऽत्र कार्यांशपरः । अत एव जीवलयोक्तिरौपचारिकी; वासुदेवशब्दोऽत्र परविग्रहविशिष्टपरः; स्वरूपनित्यत्वस्य जीवेष्वपि समत्वात् । विशिष्टलयस्य वासुदेवे विश्वविशिष्टेऽपि सिद्धत्वात् परविग्रहनित्यत्वोक्तिस्तदनुबन्ध्युपलक्षणार्था । ननु कारणवाक्येष्वेकत्वावधारणादनन्तरं च बहुभवनसङ्कल्पोक्तेर्नित्यस्थानादिव्यपदेशस्त्रिदशामरत्वन्यायेन नेतव्य इति त्रय्यन्तकुदृष्टीनां सर्वेषां व्यावघोषी, तत्राह – सूष्टेरिति । अयं भावः – सृष्टिकालापेक्षया स्रक्ष्यमाणस्य जगत उपदेशकालापेक्षयेदङ्कारगोचरस्य प्रलयदशायामविभक्तनामरूपतया एकत्वमवधार्यते । अत एव हि ‘तद्धेदं तर्ह्यव्याकृतमासीत्तन्नामरूपाभ्यां व्याक्रियतेति श्रुतिरेकत्वबहुत्वप्रकारमेतमेव व्यनक्ति । अथाऽपि यथाश्रुति जीवादिसमस्तैक्ये को दोष इत्यत्राह – नो चेदिति । अयं भावः – ‘प्रकृतिं पुरुषं चैव विद्ध्यनादी उभावपि’ इत्यादिकमास्तां तावत्; चोदयितॄणां तु स्वसिद्धान्तविरोधः स्यात् । न हि मायाविलयः प्रलये मृषावादिभिरङ्गीक्रियते; औपाधिकभेदवादिभिश्चोपाध्यंशप्रध्वंसः । मुखशब्दः स्वाभाविकभेदाभेदवाद्युक्तचिदचिदीश्वरशक्तित्रयसंग्रहार्थः । यदि मायोपाधिशक्तीनामपि विलयस्तैरभ्युपगम्येत, तदुपहिताद्ब्रह्मणो विश्वप्रसूत्यभावात् अनुपहितस्य च तस्य तत्कारणत्वानभ्युपगमात् बहुभवनसङ्कल्पपूर्वकविश्वसृष्ट्याद्यभावात् कारणवाक्यं सर्वं कबन्धमीमांसककल्पितमूषरत्वमेव भजेतेति । स्वस्तीत्युपालम्भकाकुगर्भम् ॥ ६१ ॥ इति नित्यविभूतिसद्भावः ॥

3.207     ज्ञानत्वं चेद्रहस्यागमविदितमिति स्वीकृतं नित्यभूतेः

षाड्गुण्यात्मत्वमेवं प्रसजति सह तत्पाठतोऽतो जडा सा ।

तत्संबन्धात् कुतश्चित्तदुषचरणमित्याहुरेके परे तु

ज्ञानत्वाजाड्यकण्ठोक्त्यनुगुणमवदन्मुख्यतामात्मनीव ॥ ६२ ॥

नित्यविभूतौ जडाजडविकल्पे प्रथमं दर्शयति – ज्ञानत्वमिति ॥ अयं भावः – प्रसिद्धशास्त्रेषु तावदजडत्वं शुद्धस्य सत्त्वस्य न पश्यामः । अथ रहस्यागमवाक्यविशेषस्तैदिष्येत, एष्टव्यं तर्हि षाड्गुण्यमयत्वमपि; तस्यापि तस्मिन्नेव शास्त्रे सहपाठात् । इष्टप्रसङ्गोऽयमिति चेन्न; चेतनत्वप्रसङ्गात् । न च तदप्यस्त्विति वाच्यम्, जीवेश्वरविकल्पबाधात् । षाड्गुण्यमयत्वमौपचारिकमिति चेत्, ज्ञानमयत्वमपि तथैव स्यादविशेषात् । अतस्त्रिगुणविभूतिरिवाद्यापि सा विभूतिरन्याधीनसिद्धितया जडैवेति कुतस्तत्र ज्ञानत्वोक्तिरित्यत्राह – तत्संबन्धादिति । निश्शेषाविद्यानिवृत्तिछेतया, निरुपाधिकज्ञानविकासस्थानतया, अन्यतो वा कुतश्चित्संबन्धात् ‘आयुर्घृतमितिवज्जडेऽपि ज्ञानत्वोपचार इत्यवोचन् केचित् । पक्षान्तरमुपक्षिपति – परे त्विति । किमात्मिकैवैषा भगवतो व्यक्तिरित्यनुयोगे यदात्मको भगवानिति प्रतिवचनात्, किमात्मको भगवानिति पुनरनुयोगे च ज्ञानात्मक इत्यादिप्रत्युक्तेः, शक्त्यात्मकत्वादिवन्मुख्यत्वविरोधाभावाच्च, ‘स्वसत्ताभासकं सत्त्वं गुणसत्त्वाद्विलक्षणमित्युपबृंहणस्वारस्याच्च विषयाश्रयावच्छेदनिरपेक्षं स्वगोचरज्ञाननिरपेक्षप्रकाशनत्वनिमित्तेनात्मनीव ज्ञानत्वं मुख्यमिति ॥ ६२ ॥ इति नित्यविभूतेर्जडत्वाजडत्वपक्षौ ॥

3.208     निस्संकोचा समस्तं चुलकयति मतिर्नित्यमुक्तेश्वराणां

बद्धानां नित्यभूतिर्न विलसति ततः कस्य सा स्वप्रकाशा ।

मैवं नित्येश्वरादेस्सति मतिविभवे साऽस्तु तेनानपेक्षा

वेद्यानुद्भासकाले मतिरिव न तु सा बन्धकाले विभाति ॥ ६३ ॥

नन्विह जडपक्ष एव साधीयान्, पक्षान्तरं तु न संभवमृच्छतीत्यभिप्रायेण चोदयति -निस्सङ्कोचेति ॥ न हि कंचित्पुरुषमनपेक्ष्य किंचित्प्रकाशत इति संभवति । पुरुषास्तु नित्यमुक्तेश्वरास्सर्वज्ञा निष्प्रतिघया स्वधर्मभूतधिया सर्वं साक्षात्कुर्वते । बद्धानां तु नित्यविभूतिर्न प्रकाशत एव । अतः स्वप्रकाशत्वं न स्यादित्याक्षेपः । तत्र यथाश्रुतस्वारस्यसक्तस्समाधत्ते – मैवमिति । अभिप्रेतं विवृणोति – नित्येति । यथाऽऽत्मनां नित्यस्वप्रकाशानां धर्मभूतधीगृह्यमाणदशायामपि स्वप्रकाशत्वं नापैति, तथा सर्वज्ञैस्तत्तद्धिया साक्षात्क्रियमाणस्यापि शुद्धसत्त्वस्य स्वप्रकाशत्वमविरुद्धमिति । तर्हि सर्वसाधारण्याद् बद्धान् प्रत्यपि भासेतेत्यत्राह – वेद्येति । यथा धर्मभूतज्ञानस्य विषयग्रहणवेलायां स्वाश्रयायैव भातीत्यवस्थाभेदात् पुरुषभेदाच्च भाननियमः, तथा स्वसाक्षात्कर्तॄणामेव स्वयमपि प्रकाशत इति व्यवस्थायां न कश्चिद्बाधः । पुरुषाणां नैरपेक्ष्यं न वस्तुस्वभावं प्रतिरुणद्धीति भावः । नन्वयं प्रकाशः स्वविषयबुद्धिधर्मो वा स्वधर्मो वा? पूर्वत्र स्वप्रकाशत्वहानिः । उत्तरत्रानादिरागन्तुको वा? आद्ये बद्धान् प्रत्यप्यनादिरिति भानप्रसङ्गो दुर्वारः । द्वितीये कारणानिरूपणादसंभवः । मैवम्; न ह्यागन्तूनां सर्वेषां विशेषकारणमस्माभिर्विविच्यते । न चास्मदविवेचितमिति नास्ति; अतिप्रसङ्गात् । सामान्यकारणं तु विश्वकर्तुरिच्छादिकं श्रुतमेव । अत एव हि नित्यानां मुक्तानां च स्वच्छन्दचिकीर्षासन्ततिभेदसिद्धिरिति ॥ ६३ ॥ इति नित्यविभूतेरजडत्वपक्षोपपत्तिः ॥

3.209     तत्त्वान्यप्राकृतानि त्रिगुण इव परीणामतश्चेद्भवेयुः

स्थानादि स्यादनित्यं न यदि न घटते भूततादीति चेन्न ।

अत्रत्यक्ष्यादितत्त्वक्रमनियतगुणप्रक्रियाद्यैकरूप्यां-

न्नित्येऽपि स्यान्निमित्तानुगतिनियमितस्तत्तदाख्याविशेषः ॥ ६४ ॥

दिव्यस्थानादेर्नित्यत्वमाक्षिप्य प्रत्याह – तत्त्वानीत्यर्धेन ॥ त्रिगुण इव – त्रिगुणद्रव्ये यथा परिणामतः पृथिव्यादिविभागस्तथेत्यर्थः । स्थानादि स्यादनित्यमिति । सङ्घातिनामनित्यत्वे कथं तत्सङ्घातनित्यत्वमिति भावः । अपरिणामपक्षं शङ्कते न यदीति । तत्र चोद्यमाह – न घटत इति । अप्राकृतपञ्चभूतादिव्यपदेशो न युज्यत इत्यर्थः । अनित्येष्वप्याकाशादिपञ्चभूतसमारव्यानिवेशस्यान्यथासिद्धिमाह – अत्रत्येति । त्रिगुणविकृतीनां हि तत्त्वानां परिणतिविशेषादेकद्वित्रादिगुणनियतिः । दिव्यतत्त्वानां तु नित्यसिद्धा । ततश्च यथा नित्ये चानित्ये च निमित्ताविशेषात् परेषां पृथिव्यादिशब्दः, तथाऽत्रापि तत्तद्गुणतारतम्यनिमित्तस्तत्तच्छब्द इति नित्यत्वाविरोधः ॥ ६४ ॥ इति अप्राकृतस्थानादेरनित्यत्वादिपरिहारः ॥

3.210     निर्दिष्टं पौष्करादौ स्वयमखिलकृता स्वं वपुर्नित्यसिद्धं

नित्याऽलिङ्गेति चैकायननिगमविदो वाक्यभाष्यादि चैवम् ।

नित्यत्वं वासुदेवाह्वयवपुषि जगौ मोक्षधर्मे मुनीन्द्रो

नित्येच्छातस्तथा तत्तदिह विहतिमान् सांशजन्मादितर्कः ॥ ६५ ॥

अथ परविग्रहनित्यतां प्रमाणतः स्थापयति – निर्दिष्टमिति ॥ श्रीपौष्करे तावत् ‘नित्यसिद्धे तदाकारे तत्परत्वे च पौष्कर’ इति । श्रीसात्वते च ‘नित्यं नित्याकृतिधरम्’ इति । भगवन्मूर्तिं प्रस्तुत्य ‘नित्याऽलिङ्गा स्वभावसंसिद्धिरिति रहस्याम्नायोक्तमाह -नित्येति । अत्र ब्रह्मनन्द्यादिसंप्रदायमाह – वाक्येति । आप्ततमोपबृंहणमाह – नित्यत्वमिति । यथा – ‘नित्यं हि नास्ति जगति भूतं स्थावरजङ्गमम् । ऋते तमेकं पुरुषं वासुदेवं सनातनम् ॥’ इति । श्रीवैष्णवे पुराणे – ‘सदैकरूपरूपाय’ इति । ‘इच्छागृहीताभिमतोरुदेह’ इति स्मरणाद्विग्रहस्येच्छागृहीतत्वे कथं नित्यम्, तस्मिन् वा कथं तदित्यत्राह – नित्येच्छात इति । अयं भावः – अवतारविग्रहेषु तावदिच्छागृहीतत्वमविरुद्धम् । नित्येऽप्यनिच्छायामनित्यत्वप्रसङ्गमभिसन्धाय नित्येच्छाधीनस्थितित्वविवक्षयेच्छागृहीतत्ववाचोयुक्तिर्युक्तेति । अत्र तर्कबाधं परिहरति – तदिति । तथा – प्रमाणसिद्धत्वादित्यर्थः । सांशत्वेन जन्मादिसहितत्वं तद्विरहेण वा निरंशत्वं प्रसञ्जयितुं न शक्यमिति भावः । यत्तु कैश्चिदुच्यते – नित्यं निष्कलं निर्विकारं च परं ब्रह्म अशरीरश्रुत्या स्वरूपत एव विचित्रविग्रहाकारम्; तत एव विग्रहनित्यत्वम्, न चात्र स्वरूपविग्रहयोर्भेदः, नापि भेदाभेदप्रसङ्ग इति, न तद्भावनीयम्; अन्यथा विश्वाद्वैतस्यापि संग्राह्यत्वप्रसङ्गादिति ॥ ६५ ॥ इति परविग्रहनित्यत्वम् ॥

3.211     अस्त्रैर्वा भूषणैर्वा किमिह भगवतोऽवाप्तकामस्य तस्मा-

द्देवो देहेऽपि वीतावरण इति जगुः केऽपि जैनोपजप्ताः ।

किं वा देहेन विश्वात्मन इति वदतां किं प्रतिब्रूयुरेते

तच्चेत्तस्याश्रितार्थं तदधिकरणकं सर्वमप्येवमस्तु ॥ ६६ ॥

केचिदाहुः – वीरशृङ्गारादिरसानुबन्धीनि अस्त्रभूषणा[दी]नि; तानि तदुचिताधिकारिणां यद्यपि तत्तद्विग्रहेष्वनुसंधेयानि, तथाऽप्यत्यन्तनिष्कामानां तादृशचिन्तनमयुक्तं ‘प्रशान्तं साक्षसूत्रकम्’ इत्यादिविशेषणाच्च; न चावाप्तसमस्तकामस्य ‘निर्दोषो निरनिष्ट’ इत्यादि प्रख्यातप्रकारस्य परमात्मनो भूषणादिसाध्यं किंचिदस्ति । अत इदमुच्यते – ‘न ते रूपं न चाकारो नायुधानि न चास्पदम्’ इति; तदिदमनुभाषते – अस्त्रैरिति ॥ देहेऽपीत्यादिकमुपालम्भकाकुगर्भम् । अपिशब्देन स्वरूपे वीतावरणत्वं व्यज्यते; तेनातिरोहितस्वभावत्वमनुसन्धत्ते । अत्र प्रतिबन्दिमुखेन परिहारमाह – किं वेति । अयं भावः – विश्वशरीरिण ईश्वरस्य कि विशेषतः केनचिद्विग्रहेण परिगृहीतेनेति चोदयतां किमेते प्रत्युत्तरं ब्रूयुः? अथ योगविशेषसक्तानां चित्तालम्बनसिद्ध्यर्थमीश्वरस्य दिव्यगात्रपरिरग्रह इति, तथैवास्त्रभूषणादिपरिग्रहोऽपीति तुल्यप्रमाणसिद्धत्वादेष्टव्यम् । न च शान्त्यर्थभावानाविरोधः, यथोपदेशमस्त्राद्युपयोगस्य स्वीकार्यत्वात्, ‘दामोदरं बन्धगत इतिवत्’ । तथा भगवज्जन्मादिवेदिनो जन्मादिनिवृत्तिश्च स्मर्यते । ऊहमात्रेण विरोधकॢप्तिस्त्वतिप्रसक्त्यै स्यात् ॥ ६६ ॥ इति परस्यास्त्रभूषणाद्यनुपपत्तिपरिहारः ॥

3.212     रूपस्थानायुधाख्याजनिलयविधृतिव्यापृतीच्छागुणादेर्विश्वाधारे निषेधो विधिरपि विषयद्वैतशाम्यद्विरोधौ । इत्थंभूते निषेधः क्वचिदपि न विधिं बाधते सावकाशः कल्याणैरस्य योगस्तदितरविरहोऽप्येकवाक्यश्रुतौ च ॥ ६७ ॥

3.212     ये तु मन्यन्ते – परस्य ब्रह्मणो विग्रहादिषु विधिनिषेधौ दृश्येते, तत्र निषेधप्राबल्याद्विधीनामन्यार्थत्वम् इति, तान् प्रत्याह – रूपेति ॥ विषयद्वैतं – विषयभेदः । तेन विधिनिषेधौ शाम्यद्विरोधौ । ततः किमित्यत्राह – इत्थमिति । इत्थंभूते – आलम्भादिवद्विशेषविधिसिद्धावित्यर्थः । एवमनभ्युपगमेऽतिप्रसङ्ग इति भावः । विधिनिषेधयोरत्र विषयभेदं विवृण्वन् तस्यैकश्रुतिपठितत्वेन न्यायनिरपेक्षप्र(?)सिद्धिमप्याह – कल्याणैरिति । एतेनापच्छेदन्यायस्यात्र दूरनिरस्तत्वं सूच्यते ॥ ६७ इति विग्रहादिविधिनिषेधविरोधप्रशमनम् ॥

3.213     देहादिर्देवतानां हविरनुभवनं सन्निधेर्यौगपद्यं

प्रीतिदानं फलस्याप्यसदिति कथयन्त्यर्धलोकायतस्थाः ।

तत्राध्यक्षादिदूरस्वमहिमसदृशाशेषवैशिष्ट्यमासां

तत्तद्विध्यर्थवादप्रभृतिभिरविदुस्तत्परैरेव शिष्टाः ॥ ६८ ॥

अत्र प्रसङ्गात् सदेवानां विग्रहादिपञ्चकनिरासं परिहर्तुं तमनुभाषते – देहादिरिति ॥ आदिशब्देन इन्द्रियभोग्यभोगोपकरणादिसंग्रहः । अर्धलोकायतमतम् -कर्माराध्यापह्नवमतम् । एतत्प्रतिक्षिपति – तत्रेति । तस्मिन् पक्षे प्रतिक्षेप्ये सतीत्यर्थः । अध्यक्षादिदूरत्वोक्तिः यूपादित्यैक्यादिवन्नात्र बाधप्रसङ्ग इति ज्ञापनार्थम् । स्वमहिमसदृशत्वोक्त्या स्वपरोपयोगिसाधनानुगुण्यसूचनम् । अशेषशब्देन तत्तदाराध्यप्रतिनियतविग्रहतदनुबन्ध्यस्त्रादिसर्वसग्रहः । प्रभृतिशब्देन मन्त्राणां स्मृतीतिहासपुराणानां च संग्रहः । अप्रधानेऽप्युपयुक्ते तात्पर्यमस्त्येवेत्यभिप्रायेण तत्परैरेवेत्युक्तम् । देवताधिकरणे च विग्रहादिनिरासो न सूत्रोक्तः । प्रयोजकाप्रयोजकविभागमात्रं तु न विग्रहादिसदसत्त्वापेक्षम् । हविर्देवतासामान्ये हविर्बलीयस्त्वं प्रमाणप्रसक्तिवैषम्यात् । विशेषणतः पर्यायतश्च देवताभेदोक्तिस्तथातथोद्देशार्था । विस्तरस्त्वन्यत्र । शिष्टाः – बोधायनटङ्कद्रमिडादयः ॥ ६८ ॥ इति विग्रहादिपञ्चकनिराकरणपरिहारः ॥

3.214     साधुत्राणादिहेतोस्तदुचितसमये विग्रहांशैः स्वकीयैः

स्वेच्छातस्सत्यरूपो विभुरवतरति स्वान् गुणौघाननुज्झन् ।

व्यूहे संकर्षणादौ गुणनियतिरभिव्यक्तिवैषम्यमात्रा-

द्वृद्धिहासाद्यभावात् स हि भवति सदा पूर्णषाड्गुण्यशाली ॥ ६९ ॥

यद्यपि भगवतो गुणविग्रहादियोगस्सत्यः, तथाऽपि षाड्गुण्यस्य व्यापित्वमयुक्तम्; विभवेषु विपरीतदृष्टेः, व्यूहेषु संकर्षणादिषु ज्ञानबलादिगुणद्वन्द्वनियमोक्तेरित्यत्राह – साधुत्राणेति ॥ ‘अजोऽपि सन्नव्ययात्म’ इत्यादिप्रसिद्धमिह प्रतिसन्धेयम् । प्रतिनियतगुणद्वन्द्वोक्तेरन्यथासिद्धिमाह – व्यूह इति । अयं भावः – श्लो. निगूहनं चतुष्काणां द्वन्द्वानां च प्रकाशनम् । षड्गुणस्य तथाभूतसमाधिस्थोपयोगतः ॥ मोहनशक्त्या मनुष्यादिसजातीयशङ्कास्पदेषु विभवेष्वपि हि सिद्धं षाड्गुण्यम् । व्यूहेषु कैमुत्यसिद्धम् । सर्वेष्वपि हि भगवत्त्वं पूर्णत्वं च प्रख्याप्यते । सकर्षणादौ व्यवस्थया गुणद्वन्द्वाभिव्यक्तेः गुणचतुष्कावराणामनभिव्यक्तेश्च विशेषनिर्दोशोपपत्तिरिति । ‘ न कर्मणा वर्द्धते नो कनीयान्’, ‘स न साधुना कर्मणा भूयान् नो एवासाधुना कनीयान्’, ‘अन्यूनश्चाप्यवृद्धश्चेत्यादिश्रुतिस्मृतिवलेन वृद्धिह्रासाद्यभावाद् व्यूहादिषु गुणकार्त्स्न्यमाह -वृद्धीति ॥ ६९ ॥ इति परव्यूहादिपञ्चरूपस्यापि पूर्णषाड्गुण्यवत्त्वम् ॥

3.215     शास्त्रादीनां प्रवृत्तिः प्रतितनु नियता स्याद्धि संकर्षणादौ

जीवादौ या विभज्याभिमतिरिह लयोत्पत्तिरक्षाविधिश्च ।

तत्तद्विद्याविशेषप्रतिनियतगुणन्यायतस्तौ तु नेयौ

सर्वस्यैकोऽभिमन्ता स हि सकलजगद्व्यापृतिष्वेककर्ता ॥ ७० ॥

उक्तेषु व्यूहेषु क्रमाच्छास्त्रप्रवर्तनधर्मनयनतत्त्वगमनरूपमुपकारत्रयं जीवमनोहङ्कारेष्वभिमानत्रयं संहारसृष्टिरक्षारूपलीलात्रयं च व्यपदिश्यते; तत्र प्रथमत्रिके व्यवस्थानुपपत्तिचोद्यं सुपरिहरमित्यभिप्रायेणाह – शास्त्रादीनामिति ॥ द्वितीयतृतीयत्रिके विरोधं परिजिहीर्षुरनुभाषते – जीवादाविति । अत्रेदमाभिप्रायिकं चोद्यम् – यदि सङ्कर्षणादयोऽपि वासुदेव एव स्युस्तदा अभिमानत्रयस्य संजिहीर्षादित्रयस्य चैकाश्रयत्वाद्व्यवस्था न स्यात्; अतस्ते परस्मादन्ये केचित् पुरुषा इति । परिहरति -तत्तदिति । यथैक एव परमात्मा तत्तद्विद्याविशेषव्यवस्थितगुणविशेषवत्तयोपास्य इति गुणोपसंहारपादे निरणायि, तथाऽत्रापि मिथस्संघटितविग्रहाभिमानव्यापारविशेषवत्तया व्युहनिष्ठैर्विभज्यानुसन्धेय इति भावः । चेतनभेदकॢप्तौ बाधमाह – सर्वस्येति । न हि विश्वमूर्तेरभिमानः कश्चित्संकुचति, न च संहारादौ क्वचिदुदास्ते, न च हिरण्यगर्भादिवद्विशेषणभूतचेतनान्तराण्यत्र वचनान्तरप्राप्तानि; प्रत्युतैक्यमेव प्रतिपादितमित्याशयः ॥ ७० ॥ इति व्यूहेषु विशेषाभिमानादिविरोधपरिहारः ॥

3.216     त्रिव्यूहः क्वापि देवः क्वचिदपि हि चतुर्व्यूह उक्तस्तदेवं

व्याघातेऽन्योन्यबाधादुभयमिदमसत्कल्पनामात्रमस्तु ।

तन्नाद्ये न्यूहभेदे त्रियुगगुणतया चिन्तनीये परस्मा-

द्युक्ता भेदाविवक्षा तदनुपगमने तत्त्वसंख्यादिबाधः ॥ ७१ ॥

मानमेयमलिम्लुचास्त्वाहुः – त्रिव्यूहचतुर्व्यूहवाक्ययोर्विरोधात् । सर्वमेतदुपासनार्थकल्पनामात्रसिद्धमिति । तदनुब्रूते – त्रिव्यूह इति ॥ प्रतिवदति – तन्नेति । विरोधं शमयति – आद्य इति । वस्तुतश्चतुर्व्यूहत्वेऽप्याद्यव्यूहस्य षड्गुणतयाऽनुसन्घेयत्वात् परस्मादभेदं विवक्षित्वा त्रिव्यूहत्वोक्तिः प्रवृत्तेति न मिथो बाधश्शङ्कनीय इति हृदयम् । उक्तप्रकारानभ्युपगमेऽतिप्रसङ्गमाह – तदनुपगमन इति । एवमिह प्रसङ्गः – यदि न्यूनाधिकनिर्देशमात्राद्विरोधः, तदा क्वचिदप्यनुक्तमन्यतो ग्राह्यं न स्यात्; ततश्च विद्यैक्ये गुणोपसंहारस्त्यज्येत; तथा च्छान्दोग्ये भूतत्रयं तैत्तिरीयके भूतपञ्चकम् अन्यत्र च तथातथा न्यूनमधिकं च तत्त्वजातमधीतमिति तत्त्वसंख्याव्यवस्थापनं च विलीयेतेति । आतिवाहिकगणनादिसंग्रहार्थः आदिशब्दः । एवं च पञ्चमूर्त्यादिपरिगणनाऽपि परित्रातेति वेदितव्यम् ॥ ७१ ॥ इति व्यूहगणनावैषम्यनिर्वाहः ॥

3.217     मूर्तीनां मूलमूलिप्रभृतिषु बहुधा वैपरीत्यप्रतीते-

र्वर्णादौ बीजतादिव्यवहृतिवदियं वर्णना भावनार्था ।

मैवं कालादिभेदात् प्रशमितविहतौ कल्पितत्वं न कल्प्यं

नो चेद् ब्रह्माद्युदन्तेष्वपि विषमकथाभेदवैयाकुली स्यात् ॥ ७२ ॥

पुनरपि मुखान्तंरेण मूर्तिकल्पनामनुभाषते – मूर्तीनामिति ॥ अस्ति हि तत्तत्संहितास्वभिन्ननाम्नो मूर्तेर्भिन्नकारणकत्वं वर्णभुजादिवैषम्यं च । अतो मन्त्राक्षरेषु बीजतत्कार्यव्यपदेशवत् सितरक्तादिव्यपदेशवच्च भावनार्थं दृष्ट्युपदेशमात्रमेतदिति भावः । एतन्निषेधति – मैवमिति । काल्पनिकत्वशङ्कामूलं विरोधं परिहरति – कालादिभेदादिति । उक्तानभ्युपगमेऽतिप्रसङ्गमाह – नो चेदिति । सन्ति हि चतुर्मुखस्य सप्त जन्मानि; रुद्रस्य ब्रह्मपुत्रत्वं ब्रह्मानुजत्वं च । इन्द्रादीनामपि कारणभेदाः कथ्यन्ते । न चैतेषु कल्पादिभेदप्रशमितविरोधेषु काल्पनिकत्वशङ्कावकाशः, तथाऽत्रापि स्यात्; अन्यथा तत्रापि विपरीतापत्तिरिति ॥ ७२ ॥ इति प्रादुर्भावादिप्रक्रियान्तरोपपत्तिः ॥

3.218     ईशस्य व्यष्टिभेदानभिदधति मनोवाङ्मयादीन् यदन्ये

तत्र त्रेधा यदीष्टा विकृतिरविषया निर्विकारागमाः स्युः ।

नित्यत्रित्वे तु नैकेश्वरनियमगतिर्भ्रान्तिसिद्धे विभागे

मायादायादपक्षः श्रुतिरपि नियतैरस्त्वधिष्ठानभेदैः ॥ ७३ ॥

इह केचिदीश्वरस्वरूपेऽपि भोक्तृभोग्यन्यायेन समष्टिव्यष्टिभेदं वर्णयन्ति, वदन्ति च मनोमयप्राणमयवाङ्मयाख्यं व्यूहत्रयम्; तदनुभाषते – ईशस्येति ॥ ईदृशोऽयं भेदः किं भोग्यवत्परिणामतः, उत भोक्तृवत्स्वभाक्तः, अथ प्रतिबिम्बितचन्द्रादेरिव भ्रान्तित इति विकल्पं मन्वानः प्रथमे निर्विकारश्रुतिविरोधमाह – तत्रेति । त्रेधेत्यनन्तव्यष्ट्यन्तराणामुपलक्षणम् । सर्वात्मनो ब्रह्मणस्सविकारत्वादीश्वरांशे हि तैर्निर्विकारत्वश्रुतिर्निवेशिता; तत्राप्यनवकाशत्वं तस्याः प्रसक्तम् । द्वितीयं दूषयति -नित्यत्रित्व इति । ‘एको देवः सर्वभूतेषु गूढः’, ‘एकश्शास्ता न द्वितीयोऽस्ति शास्ता’ इत्यादिभिर्विरोधस्स्यादिति भावः । तृतीयेऽनिष्टमाह – भ्रान्तीति । मायादायादपक्षः -मायार्जितभ्रान्तिविभागोपजीविपक्षः; स ते स्यादिति शेषः । सत्यमीश्वरमनभ्युपगच्छतामीश्वरत्रित्वश्रुतिस्तर्हि निरधिष्ठानभ्रमविषया स्यादित्यत्राह – श्रुतिरपीति । अयं भावः – ईश्वरस्तावन्मायोपहिते ब्रह्मणि कल्प्यताम्; त्रित्वं च तस्य द्विचन्द्रादिन्यायात् मायाविलासविप्लुतब्रह्माधिष्ठानतया स्वीक्रियतामिति । यद्वा मनोमयादिविभागवादिनी श्रुतिः कथं निर्वोढव्येत्यत्राह – श्रुतिरपीति । अपि – शब्द इह एतादृशश्रुत्यसंभवाभिप्रायः । संभवेऽप्युच्यते परोपकारकमनःप्रभृत्यधिष्ठानभेदादीश्वरस्य मनोमयत्वादिविभागो निरुह्यतामिति ॥ ७३ ॥ इति ईश्वरस्वरूपविषयसमष्टिव्यष्ट्यादिवादनिरासः ॥

3.219     युक्तिः प्रश्नोत्तरादेर्न हि पुरुषभिदां बुद्धिभेदं च मुक्त्वा

तस्माद्व्यूहादिभेदे कतिचन पुरुषाः स्युः परेणानुबद्धाः ।

तन्न स्वच्छन्दलीलः स्वयमभिनयति स्वान्यतां सर्ववेदी

तद्वच्छिष्यादिवृत्तिप्रसृतिमिह सतां शिक्षयन् सानुकम्पः ॥ ७४ ॥

पुनरपि परव्यूहादिषु पुरुषभेदमाशङ्कते – युक्तिरिति ॥ आदिशब्देन कृष्णबलभद्रादिषु मिथो विषादकोपादि संगृह्यते । अस्ति तावत्सात्त्वतादिषु गुरुशिष्यन्याये वासुदेवसकर्षणादीनां प्रश्नप्रतिवचनक्रमेण विद्याधिगमः । तत्र न तावत् स्वात्मानं स्वयं पृच्छति प्रतिवदति वा; हेतुप्रयोजनयोरसंभवात् । अतः प्रष्टृप्रतिवक्तृचेतनभेदः कल्प्य इति । ननु भेदकानिश्चये कथं भेदकॢप्तिरित्यत्राह – बुद्धिभेदं च मुक्त्वेति । न्यूनबुद्धिः [परि]पृच्छेदधिकबुद्धिरनुशास्तीति लोकवेदप्रसिद्धमिति भावः । एतदन्यथासिद्धमित्यभिप्रायेण प्रति[क्षिपति] वक्ति – तन्नेति । चेतनभेदाभावेऽपि प्रश्नोत्तराद्युपपत्तिमाह – स्वच्छन्दलील इति । स्वयमित्यनेन स्वस्यैवेति गम्यते । अभिनयप्रयोजनमाह – तद्वदिति । शिष्याचार्यादिभिरेवं वर्तितव्यमिति धार्मिकशिक्षणं देवस्य दयान्वितलीलाप्रसूतमिति भावः ॥ ७४ ॥ इति ईश्वरस्य स्वात्मनि शिष्याचार्यत्वाद्यभिनयफलम् ॥

3.220     विश्वान्तर्वर्तिबालोदरगतमखिलं कस्य विश्वासभूमि-

स्तस्मादौपेन्द्रमीदृग् भवतु रसवशादिन्द्रजालं प्रवृत्तम् ।

मा भूदाश्चर्यशक्तेरवितथमिदभित्येव सर्वाप्तसिद्धे-

र्व्याघातस्योपशान्तिस्तदनुगुणदशाभेदयोगादिभिः स्यात् ॥ ७५ ॥

अत्र मायामतानुयायी चोदयति – विश्वेति ॥ विश्वशब्देन त्रैलोक्यादि गृह्यते । कस्यचिदन्तरे किंचिद्वर्तते, तदेव तदानीमेव तस्माद्बहिरेव; क एतछ्रद्दधीतेति भावः । विश्वापह्नवाभिलाषी स्वोक्तफलितमाह – तस्मादिति । रसवशात् -इच्छावशादीप्सितक्रीडारसवशाद्वा । तादृशाद्भुतविवक्षया प्रतिषेधति – मा भूदिति । तत्तत्प्रकरणपरामर्शेन मिथ्यात्वपरिहारे सिद्धे विरुद्धवत्प्रतिपन्नं सर्वमविरुद्धावस्थाविशेषादिविवक्षया निर्वोढुं शक्यम् । तत्र भगवद्विग्रहविभूत्यादीनां सङ्कोचशक्तिर्विकासशक्तिस्तत्तदभिमानविषयसजातीयोत्पादनशक्तिसस्सूक्ष्मस्थूलावस्थाभेदः परिमितविग्रहव्यङ्ग्यपरिमितस्वरूपलक्षणमित्यादिकं यथार्हमवधारणीयम् । एवम् ‘अणोरणीयान् महतो महीयानित्यादीनि ब्रह्मस्वरूपविषयवाक्यान्यपि तत्तदविरुद्धार्थविवक्षया नेतव्यानि । वस्त्वन्तरादृष्टवैचित्र्यमात्रेण विरोधशङ्कायां सर्वत्रातिप्रसङ्गः स्यादिति ॥ ७५ ॥ इति आश्चर्यपृत्तान्तविशेषसत्यत्वम् ॥

3.221     यद्भावित्वेन बुद्धं भवति तदथ चातीतरूपं तदस्मि-

न्नुल्लेखो भिद्यते चेदकरणजमतेरैकरूप्यं प्रकुप्येत् ।

प्राचीनोल्लेख एव स्थितवति तु गते भाविबुद्धिर्भ्रमः स्यात्

मैवं पूर्वापरादिक्रमनियतसदोल्लेखसत्यत्वसिद्धेः ॥ ७६ ॥

अथ निखिलजगत्कारणतयाऽवधृतस्येश्वरस्य सर्वसृष्ट्यनुगुणेषु ज्ञानशक्त्यादिष्वनुपपत्तिः परिह्रियते । तत्र ज्ञाने तावदयुक्तिरेवं शङ्क्यते – नित्यसर्वज्ञ ईश्वरः भविष्यद्वस्तु भविष्यत्त्वेन पश्यति न वा? पूर्वत्र तस्यैव वस्तुनो भवदवस्थायां भूतावस्थायां च किं स एवोल्लेखस्तदन्यो वा? आद्ये भवतो भूतस्य च भविष्यत्त्वेनोल्लेखाद्भ्रान्तिरेव स्यात्; द्वितीये ‘पश्यत्यचक्षुरित्यादिना करणनिरपेक्षज्ञानवत्त्वेन कथितस्य कार्यज्ञानासंभवात् प्रतिक्षणं भिदुरानन्तोल्लेखसन्ततिपरिग्रहो निर्मूलः स्यात् । भविष्यतां भविष्यत्त्वेनादर्शनं तु तेषामदर्शनत एव वा, स्वस्वरूपमात्रदर्शनेन वा, वर्तमानत्वभूतत्वदर्शनेन वा स्यात्? आद्ये किंचिज्ज्ञत्वप्रसङ्गः । द्वितीयेऽपि प्रकारतस्स एव । तृतीये भ्रान्तत्वं दुस्तरम् । एवं वर्तमानेऽतीते च वर्तमानत्वादिबुद्धिरस्ति वा न वा? सा च निवृत्तिमती नित्या वा? इत्यादिविकल्पेन प्रसक्ता दोषाः प्रतिसन्धेया इति । तदभिप्रेत्याह – यद्भावित्वेनेति ॥ भवति तत् – वर्तमानत्वानवस्या प्राप्नोति । अथ चातीतरूपम् – वर्मानत्वावस्थानन्तरमतीतावस्थं स्यादित्यर्थः । तत् – तस्मात् । अवस्मिन् – अवस्थात्रयवति वस्तुनि । नित्यसर्वज्ञबुद्धेरागामित्वाद्युल्लेखे भिद्यते चेत्करणनिरपेक्षबुद्धेरीश्वरस्य नित्यैकरूपसर्वदर्शनानुपपत्तिः स्यात् । प्राचीनोल्लेखे नित्यानुवृते तु, वर्तमाने गते च भविष्यत्त्वद्धिर्भ्रान्तिः स्यादिति परचोदनानुवादः । अत्रोल्लेखभेदे तदभावे चादोष इत्यभिप्रायेण प्रतिषेधति – मैवमिति । उल्लेखभेदपक्षे तावदेवं निस्तारः । नह्यत्र करणनिरपेक्षज्ञानवत्त्वविरोधः, चक्षुरादिनिरपेक्षत्वेऽपि हेतुतस्साध्यप्रकाशोपपत्तेः । हेतुश्चोल्लेखसन्ततावुत्तरोत्तरस्य पूर्वपूर्वः । तत्प्रवाहानादित्वाच्च न कदाचिन्निर्मूलत्वम् । नचेदृशाऽनवस्था दोष इति । एकरूपोल्लेखपक्षे त्वाह – पूर्वापरेति । अयं भावः – सर्वं कार्यं स्वकाले न हि नित्यासत्; तच्च किंचिदपेक्ष्य पूर्वं किंचिदपेक्ष्योत्तरम् । तत एवं त्रिप्रकारं कार्यं सर्वदैकबुद्धिसमारूढम् । न कदाचिदपि स्वकालवर्तिनः कालान्तरवर्तित्वेनोल्लेखः । भविष्यत्त्वादिकं चापेक्षिकम् । किंचिदपेक्षयोत्तरत्वमेव कस्यचित्तत्समकालप्रागभाववतस्तदपेक्षया भविष्यत्त्वम् । एवं किंचिदपेक्षया पूर्वत्वमेव तत्समकालप्रध्वंसवतोऽतीतत्वम् । तच्च किंचित्कादाचित्कम् । न हि नित्यापेक्षया किंचिद्भविष्यद्भूतं वा । एवं सर्वप्रकारं वस्तु सर्वज्ञबुद्ध्या यथावस्थितरूपेण सर्वदैवोल्लिख्यत इति करणनैरपेक्ष्यं विपर्यासविरहश्च सिध्यतीति । श्लो. य ख स्यादसर्वज्ञस्सर्वज्ञं न स बुध्यते । इति तद्बोधबाधार्थी तन्निषेधेऽपि न क्षमः ॥ ७६ ॥ इति सार्वज्ञ्यानुपपत्तिनिरासः ॥

3.222     नीलं किंचित्तदानीमस्यामिति न खल्विन्द्रजालादृतेऽद्धा

नो चेदेवं विरोधः क्वचिदपि न भवेत् कश्च जैनेऽपराधः ।

तस्मादीशो विरुद्धद्वितपमघटयन् सर्वशक्तिः कथं स्या-

न्मैवं व्याघातशून्येष्वनितरसुशकेष्वस्य तादृक्त्वसिद्धेः ॥ ७७ ॥

ईश्वरस्य सर्वशक्तित्ववादमपह्नोतुमिच्छन् कश्चिद्विरुद्धोदाहरणं तावद्व्यवस्थापयति -नीलमिति ॥ अद्धा – सत्यम् । इत्यद्धेत्यन्वयः । इन्द्रजालतिरोहितस्त्वेवमद्धेत्यभिमन्येतेति भावः । उक्तानभ्युपगमेऽतिप्रसङ्गमाह – नोचेदिति । क्वचिदपिदूष्यदूषणपूर्वपक्षसिद्धान्तादावपीत्यर्थः । अतिप्रसङ्गान्तरमाह – कश्चेति । विरुद्धसप्तभङ्गीपरिग्रहो हि जैनस्यापराधः, विरोधोच्छेदे सोऽपि न निगृह्येतेति भावः । विरोधसिद्धिमुपजीव्य चोदयति – तस्मादिति । शक्तिर्हि शक्यविषया; विरुद्धं तु घटयितुं न शक्यम् । अतोऽशक्यसद्भावात् कथं सर्वशक्तिस्स्यादत्याक्षेपः । अविवक्षितदूषणमिदमित्यभिप्रायेण प्रत्याह – मैवमिति । अभिप्रेतं विवृणोति – व्याघातेति । नहि व्याहतमीश्वरो घटयतीति तस्य सर्वशक्तित्वं ब्रूमः; किंतु यत् कार्यं तत्सर्वं करोति, ततश्चान्यैरप्यशक्यं करोतीति सिध्येत् । ईदृशमस्य सर्वशक्तित्वमागमाभिप्रेतम् । तच्च विरोधाभावायुज्यत एवेति ॥ ७७ ॥ इति सर्वशक्तित्वस्थापनम् ॥

3.223     संगृह्य ज्ञानयत्नौ कतिचन निखिलस्रष्टुरिच्छा तु नैच्छन्

तस्यां द्वेषः क एषामनुमितिशरणानीकनासीरभाजाम् ।

श्रुत्या तद्बोधयत्नावभिदधति यदि क्षम्यतामेवमिच्छा

निर्वाह्यं त्वाप्तकामप्रभृतिवचनमप्यान्यपर्योपरुद्धम् ॥ ७८ ॥

एवमस्तु सर्वज्ञस्सर्वशक्तिरीश्वरः; तथाऽपि चिकीर्षा नाङ्गीकार्या । नहि कर्तुः कार्योत्पादकत्वमिच्छाप्रयुक्तम्; यत्नाभावे क्वचिदपि ततस्तदसिद्धेः । इच्छाभावेऽपि प्रयत्नतः कार्यसिद्धिर्जोवनपूर्वकप्रयत्नकार्यनिश्वासादिनिष्पत्त्या संगृहीता । अतः कार्यलिङ्गेन उपदेशलिङ्गेन वा कर्तुर्ज्ञानयत्नवत्त्वमात्रमेवानुमेयम्; किमजागलस्तनकल्पया चिकीर्षयेति काश्यपीयाः केचिदाचक्षते । तदिदमन्वाचष्टे – संगृह्येति ॥ तुशब्दः प्रदर्शितमनपेक्षितत्वं द्योतयति । अत्र प्रतिबन्दिमभिप्रेत्य प्रतिब्रूते – तस्यामिति । अनुमानादागमाच्चेश्वरसिद्धिं नैयायिका निर्धारयन्ति, वैशैषिकास्त्वागममप्यनुमानीकृत्य तदेकवेद्यमीश्वरं तन्त्रयन्ति । अनुमानं च ज्ञानयत्नवच्चिकीर्षामपि समर्थयितुं शक्नोति । तत्र यदि जीवनपूर्वकप्रयत्नन्यायेन चिकीर्षानैरपेक्ष्यं संगृह्येत तद्वदेव ज्ञाननैरपेक्ष्यं किं न स्यात्? न हि ज्ञानमपि प्रयत्नमनपेक्ष्य क्वचित् कार्यं जनयति; प्रयत्नस्तु ज्ञानमनपेक्ष्यापीति दृष्टमेव । अत एव चिकीर्षा प्रयत्नोत्पत्त्यर्थमन्यत्रापेक्ष्यते, इह तु नित्यप्रयत्ने किं तथेत्यपि मन्दम् । चिकीर्षोत्पत्त्यर्थमन्यत्र ज्ञानमपेक्ष्यते, इह तु प्रयत्नस्य नित्यत्वेन चिकीर्षानैरपेक्ष्यात् किं ज्ञानेनेत्यपि सुवचत्वात् । प्रयत्नस्य स्वतो विषयनियमाभावात् ज्ञानविषयेण सविषयत्वं वक्तव्यमिति चेन्न, उक्तोत्तरत्वात् । न हि जीवनपूर्वकप्रयत्नस्य स्वाधारज्ञाननियतविषयत्वम्; नच सर्वकार्यविषयस्य ईश्वरप्रयत्नस्य विषयनियामकापेक्षा; सत्यां च तस्यां सहकारिशक्तिभूतजीवादृष्टविशेषत एव प्रयत्नस्य नियतविषयत्वे संभवति सर्वविषयज्ञानेन प्रयत्नस्य विषयनियमकल्पनं बालिशकृत्यम् । विषयत्वमात्रं चात्र न यावद्धीविषयत्वम्, नित्यानामपि निष्पाद्यत्वप्रसङ्गात्; अशक्यविषयप्रयत्नवत्तया वा डिम्भादिकल्प ईश्वरस्यात् । अथ स्वासाधारणधीविषयेणैव विषयवत्त्वं प्रयत्नस्येति मन्येत, तदपि न; धिय इव प्रयत्नस्यापि नियामकनिरपेक्षविषयत्वोपपत्तेः; अन्यथा कल्पनागौरवात् । स्वतस्सविषयत्वे ज्ञानत्वप्रसङ्ग इति चेन्न; धियोऽपि तन्नियामकत्वाभावात् । नच स्वाधारधीविषयस्य सर्वस्य प्रयत्नविषयत्वमिति मन्यसे; सारूप्येऽप्यवान्तरलक्षणेन भेदोपपत्तेः; अन्यथाऽतिप्रसङ्गात् । किंच सामग्रीनियतविषये निरीश्वरज्ञाने व्याप्तिर्दुर्ग्रहा; ईश्वरज्ञानं त्वद्याप्यसिद्धम् । यदि च यथादृष्टप्रकारानादरेण बुद्धियत्नयोर्हेतुनिरपेक्षत्वं कल्प्यते, तथा यत्नस्य बुद्धिनिरपेक्षविषयत्वमदृष्टमभिमन्यताम्, अविशेषाल्लाघवाच्च । एवं बुद्धिमात्रमवलम्ब्य प्रयत्नपरित्यागप्रतिबन्दिरपि प्रयोक्तव्या । ईश्वर इच्छात्यन्ताभाववान् कर्मवश्यव्यतिरिक्तत्वात् घटादिवत्, इत्यादिषु च तादृशप्रयोगः प्रतिप्रयोक्तव्यः । धर्मिसिद्ध्यसिद्ध्यादिविकल्पेन दूषणजातं च दुस्तरमिति यथाश्रुतिबलादीश्वरज्ञानप्रयत्नस्थापनं शङ्कते – श्रुत्येति । तथा ‘सोऽकामयत’ इत्यादि श्रुतिबलात्तदिच्छाऽपि स्वीक्रियतामित्याह – क्षम्यतामिति । नन्ववाप्तकामत्वपूर्णत्वादिश्रुतिस्मृतिशतैरिच्छाराहित्यमीश्वरस्य सिध्येदित्यत्राह -निर्वाह्यमिति । तुश्शङ्कानिवृत्त्यर्थः । अयं भावः -आप्तकामशब्दस्तावदीशितुरेष्टव्याभावमिच्छाराहित्यं वा न ब्रूते । अत्र कामशब्दस्य काम्यपरत्वे कामनापरत्वे चा तत्प्राप्तिवचनतस्तन्निषेधायोगात् । अत इष्टं सर्वमस्य प्राप्तमेव भक्तीति तात्पर्यं ग्राह्यम् । अनित्यानां वा भोग्यानां प्राप्तत्वं प्रत्येतव्यम् । अत एव पूर्णशब्दोऽपि गुणादिपौष्कल्यमाह, न तु श्रौतीं कामनां निरून्ध्यात् । विधिनिषेधविरोधशमनं च प्रागेव स्थापितम् । तदिह सर्वकार्यविषयाप्रतिहतानन्याधीनेच्छावानीश्वरः; जीवस्तु न तथा । ईप्यितालाभजनितदुःखं च क्षेत्रज्ञस्यैव, नित्यमुक्तेश्वराणां तदलाभ एव नास्तीति नियमः ॥ ७८ ॥ इति ईश्वरस्येच्छावत्त्वसिद्धिः ॥

3.224     स्वीकृत्येशानतत्त्वं कतिचन जहतस्तत्प्रसादादिसाध्यं

गङ्गाम्भःपञ्चगव्यप्रभृतिवदवदन् पावनत्वादि तस्य ।

तच्छ्रुत्यादिप्रतीपं यदपि च फलदं दर्शितं निष्प्रसादं

तच्चैतस्य प्रसादादिति हि निजगदुर्धर्ममर्मज्ञचित्ताः ॥ ७९ ॥

अथ प्रस्तुतानुबन्धं पण्डितंमन्यप्रलपितं प्रदर्शयति – स्वीकृत्येति ॥ अयमत्राभिसन्धिः -यद्यपि राजादिवत्कर्मवश्या देवताः कुप्यन्ति तृप्यन्ति च; तथाऽपि न तथा परः पुरुषः; निरपेक्षत्वात् सर्वभूतसुहृत्त्वाच्च । अतस्तस्मिन् प्रसादकोपव्यपदेशौ भाक्तौ; तदुपचारापचारशक्तित एवानुकूलप्रतिकूलसंपत्तिः । पावनत्वं मोक्षप्रदत्वं च तस्य ‘यस्य देवे परा भक्तिः’ इत्यादिस्वारस्याद्गङ्गोदकादेरिव स्वविहितविषयानुष्ठानसामर्थ्यात्सादिति । इमं पक्षं पण्डितरूपपदव्या प्रतिक्षिपतितदिति । ‘धातुः प्रसादात्’, ‘मत्प्रसादात्’ इत्यादिश्रुतिरिह प्रख्यापिता । अत्र च मुख्ये संभवति न गौणत्वकल्पना न्याय्या । प्रशस्तवस्तुविषयतत्तत्कर्मशक्त्यैव फलसिद्धिरित्युक्तं प्रतिवक्ति – यदपीति । निष्प्रसादम् – आराध्यप्रसादनिरपेक्षमित्यर्थः । यद्वा क्रियादिस्वरूपं स्वयमचेतनत्वात् प्रसादवन्निष्प्रसादं फलप्रदमिति । उपलक्षणमेतत, निष्कोपमित्यपि ग्राह्यम् । एतस्य -सर्वकर्तुस्सर्वसुहृद इति भावः । धर्भमर्मज्ञचित्ता इत्यत्र धर्माणां कारणभूतं कार्यभूतं च भगवत्कटाक्षणं स्वपीडायां धर्मपीडनात् धर्ममर्मत्वेनोपचरितम् । धर्मस्य यथा परप्रसादः कारणम्, एवमधर्मस्यापि तत्कोपः कारणम् । श्रूयते हि तस्य साध्वसाधुकर्मकारयितृत्वम्; स्मर्यते च बहुशः ॥ ७९ ॥ इतीश्वरस्य साध्यप्रसादादिमत्त्वम् ॥

3.225     त्रय्यन्तोदन्तचिन्तासहचरणसहैरेभिरस्मिन् परस्मिन्

भक्तिश्रद्धास्तिकत्वप्रभृतिगुणसिरावेदिभिस्तर्कशस्त्रैः ।

स्वार्थत्वस्वाश्रयत्वस्ववशयतनताद्यूहवर्गोपसर्ग-

श्छिद्येताच्छेद्यपूर्वोत्तरसरयुगलस्यूततत्त्वस्थितीनाम् ॥ ८० ॥

एवं सकलफलप्रदस्य सत्त्वस्थानां स्वयंफलभूतस्य च परस्य प्रतिपादनेन श्रोतॄणामनुनिष्पन्नं फलविशेषमाह – त्रय्यन्तेति ॥ पूर्वोत्तरयोस्सरयुगलयोः समर्थितानां चेतनाचेतनतत्त्वस्थितानां यथासंभवं स्वशेषत्वं स्वाधारत्वं स्वाधीनव्यापारत्वं चेतनान्तरशेषत्वादिकं च विवेकसून्या मन्यन्ते । सोऽयमुपद्रवस्सर्वशेषिणस्सर्वाधारस्य सर्वनियन्तुरीश्वरस्य प्रतिष्ठापकैः प्रमाणानुग्राहकैः प्रतिक्षिप्येतेति ॥ ८० ॥ इति ईश्वरनिरूपणप्रयोजनविशेषः ॥

॥ इति श्रीसर्वार्थसिद्धिसमेते तत्त्वमुक्ताकलापे नायकसरः तृतीयः ॥ ३ ॥

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.