[highlight_content]

तत्त्वमुक्ताकलापः सर्वार्थसिद्धिसमेतः -बुद्धिसरः

बुद्धिसरः चतुर्थः ॥ 4 ॥

4.226   धीत्वाद्वेद्मीति सिद्धा स्वयमितरमतिर्बुद्धिलक्ष्मादिधीव-

द्यद्वा सर्वज्ञधीवन्न स मतियुगवान्नापि चैकोनवेदी ।

नो चेद्धारामतौ सा प्रथममपि सती नावबुद्धेति धीः स्यात्

स्वस्यां वृत्तेर्विरोधोऽप्युपशमनमियादुक्तदृष्टान्तनीत्या ॥ १ ॥

आत्मतत्त्वं परमपरं च निरूपितम् । अथ यथोद्देशस्थणं तद्धर्मभूता बुद्धिश्चिन्त्यते । तत्र प्रथमं तत्स्वरूपस्य स्वतस्सिद्धिमाह – धीत्वादिति ॥ इतरमतिः – विप्रतिपन्ना बुद्धिः । स्वयं सिद्धा – स्वगोचरज्ञाननिरपेक्षव्यवहारानुगुणेत्यर्थः । वेद्मीत्युपलम्भानुगुण्यप्रदर्शनम् । अस्ति तावत्सर्वसिद्धान्तिनामिदमहं वेद्मीति कर्मकर्तृघटितक्रियाविशेषावभासः । सोऽयं पूर्वज्ञानगोचरेण मानसप्रत्यक्षेण प्राकट्यलिङ्गजनितेनानुमितिज्ञानेन वेति न केनचिद्दृष्टम् । तत्कल्पने तु गौरवम् । बुद्धिसामग्र्येवात्र बोद्धृविशेषणत्वेन भातीति चेत्, तदेतदनुमेयवादिनं प्रत्युत्तरं स्यात्, नतु प्रत्यक्षरूपां बुद्धिसिद्धिमिच्छन्तं प्रति । प्रत्यक्षाप्रत्यक्षसमुदायरूपा च सामग्री न प्रत्यक्षा स्यात् । नच प्रत्यक्षं किंचिदन्यद्वेद्मीत्यत्र बोद्धृविशेषणतया भाति । अतो यदत्रैवं प्रत्यक्षं तदेव ज्ञानमिति धर्मिसिद्धिः । तथाऽप्यदृष्टचरं स्वयंप्रकाशत्वं न ज्ञाने कल्पयितुं शक्यम् । तत्रैव तत्सिद्धौ न कल्प्यत्वम्; अन्यत्र तत्सिद्धिरसिद्धा । एवं तर्हि युष्मदिष्टमपि तत्र चान्यत्र चासिद्धं न तत्र कल्प्यमिति पश्य । प्राकट्यानुमेयत्वस्यान्यत्रासिद्धावपि मानसप्रत्यक्षत्वं सुखादिषु स्वात्मनि च सिद्धमिति चेन्न; सुखादीनि स्वात्मा च स्वयं भासन्ते, मानसप्रत्यक्षतो वेति को विविङ्क्ते? अस्तु वा तत्र तत्सिद्धिः; अस्मदिष्टमपि क्वचित्त्वयैष्टव्यमित्यभिप्रायेणाह – बुद्धिलक्ष्मादिधीवदिति । बुद्धिलक्षणधीर्हि लक्ष्यभूतकृत्स्नबुद्ध्यभिव्याप्ता साधारणधर्मविषया तद्योगेन स्वात्मानमपि विषयीकरोति । बुद्धिरस्तीति च बुद्धिः स्वात्मना विषयिणी; बुद्धित्वसामान्योष्टब्धसर्वव्यक्तिभासनात् । न च तदाऽनुव्यवसायाद्यवकाशः, शब्दशब्दादिवत् सामान्यतस्स्वात्मप्रकाशने तन्नैरपेक्ष्यात् । बुद्धिव्यतिरिक्तत्वादिबुद्धयोऽप्येवं ग्राह्याः । दृष्टान्तान्तरमाह – यद्वा सर्वज्ञधीवदिति । सामान्यतो विशेषतो वा सार्वज्ञ्यमिच्छतां तद्बुद्धिः स्वात्मानमपि सर्वानुप्रविष्टं युगपदेव प्रकाशयति; अन्यथाऽनवच्छिन्नसर्वशब्दप्रयोगादिकमपि न स्यादिति भावः । यत्तु कैश्चिदुक्तं – सर्वज्ञबुद्ध्यादीनां स्वसंवेद्यत्वमस्ति; न तु स्वयंप्रकाशत्वमिति, तत्तेभ्य एव रोचेत । न ह्यत्र स्वात्मानं प्रति कर्मकारकत्वं स्वबोद्धृत्वं वा विधातुं युक्तम् । नच स्वगोचरधीनिरपेक्षव्यवहारानुगुण्यं निषेद्धुं शक्यम् । अथ केचिदूचुः – स्वेतराशेषगोचरज्ञानद्वयवत्तया सर्वज्ञत्वमीश्वरस्येति । तद् दूषयति – स मतियुगवानिति । अयं भावः – ईदृशज्ञानद्वयवानीश्वर इत्यत्र न किंचित्प्रमाणं पश्यामः, सर्वज्ञत्वान्यथानुपपत्त्या तत्कल्पनं चायुक्तम्, स्वपरनिर्वाहकसमाधिनाऽपि तदुपपत्तेः ।

यच्च स्वयंप्रकाशत्वमसहमानैरेकोनसर्वज्ञत्वमीश्वरस्योक्तम्, तत्प्रतिक्षिपति – नापि चेति । यदि स्वज्ञानमीश्वरो न जानाति, तदा अन्येषां हेतूनां तद्बुद्धिविषयभूतानाभेव हेतुत्वम्; तद्बुद्धेस्तु तदविषयभूताया इति विभागस्स्यात् । तथाप्येषां स्वगोचरधीविषयतयैव प्रकाशमानत्वम्, तस्यास्तु तन्निरपेक्षमिति किं न विभज्येत? अपि च स्वज्ञानमजानता सर्वज्ञेन स्वस्य तदाधारत्वमन्येषां तदनाधारत्वं तद्विषयत्वतदन्यत्वादीनि स्वज्ञानविशेषणानि सर्वाणि दुर्ग्रहाणि स्युः । ततश्चानन्तज्ञानवत्त्वमिवानन्ताज्ञानवत्त्वमपि तस्य स्यात् । तथा च जीवप्रायत्वे तैरेवालम् । आयोजनहेतुश्च भग्नव्याप्तिकः; अचेतनाऽपि हि तद्बुद्धिर्न चेतनायोजिता प्रवर्तते । ततश्चादृष्टादेरपि तथात्वं लाघवादेष्टव्यम् । अस्मिंश्च पक्षे सर्वज्ञत्वश्रुतिर्बाध्येत; भवतां च सर्वज्ञपूर्वकत्वं साधयन्नवीतहेतुरलब्धविषयस्स्यादिति भावः । स्वयंप्रकाशत्वानभ्युपगमे अनिष्टप्रसङ्गमाह – नो चेदिति । क्वचित्क्वचिद्विषये कदाचिद्धारावाहिकबुद्धिस्सर्वसम्मता; सा च पश्चादियन्तं कालमिममर्थमद्राक्षमिति परामृश्यते । न चान्यतः पूर्वं तद्ग्रहसंभवः; धाराविच्छेदप्रसङ्गात् । अतो धारावाहिकधीः पूर्वमनवबुद्धेति भानाभावादवबुद्धेति परामर्शाच्चात्मनैव भोतति भाव्यते । ननु नाङ्गुल्यग्रं स्वात्मानं स्पृशति, न कुठारः स्वात्मानं छिनत्ति, न वह्निः स्वात्मानं दहति, तद्वद्बुद्धे स्वात्मनि वृत्तिविरोधात् न स्वयंप्रकाशत्वमित्यत्राह – स्वस्यामिति । उक्तदृष्टान्तनीत्या – स्वपरनिर्वाहकवर्गन्यायेनेति भावः । यथा चात्मा ग्राह्यश्च ग्राहकश्च, यथा प्रत्यक्षविषयः स्वयं बोध्यः स्वगोचरबोधजनकश्च, एवं यथादृष्टि सर्वमिति ॥ १ ॥ इति ज्ञानसत्तास्वयंप्रकाशत्वे ॥

4.227     स्मृत्या शब्दानुमानप्रभृतिभिरपि धीर्वेद्यते स्वप्रकाशा

धीत्वादेस्तामवेद्यामनुपधि वदतः स्वोक्तिबाधादयः स्युः ।

वेद्यत्वे सा जडा स्यादिति च विहतिमद्व्याप्तिभङ्गश्च नो चे-

च्छिष्याचार्यादिसर्वव्यवहृतिविरहाञ्जातमौनं जगत्स्यात् ॥ २ ॥

अपरे तु बुद्धेः स्वयंप्रकाशत्वं त्रातुकामा वेद्यत्वमपह्नुवते; तान् प्रत्याह – स्मृत्येति ॥ अत्र स्वप्रकाशेति संमतांशानुवादो वेद्यत्वविरोधाभावज्ञापनार्थः; स्मृतिस्तावदिह देवदत्तमद्राक्षमित्यादिषु दृष्टा । शब्दश्च बुद्धिपर्यायस्सर्वो बुद्धिं बोधयति; परबुद्धयश्च प्रवृत्त्यादिभिरनुमीयन्ते; स्वबुद्धिं च भविष्यन्तीमनुमाय शृणोति । प्रभृतिशब्देन योगिप्रत्यक्षादिग्रहणं, पराभिमतप्रमान्तरानुधावनं वा । अत्र परोक्तमवीतहेतुमपाकरोति -धीत्वादेरिति । आदिशब्देन स्वयंप्रकाशत्वधीशब्दवाच्यत्वादीनि गृह्यन्ते । पुरुषभेदेन कालभेदेन च बुद्धेरवेद्यत्वमस्ति; नतु सर्वैः सर्वदेत्यभिप्रायेणानुपधीत्युक्तम् । आदिशब्देन स्वबुद्धिबाधः स्वसिद्धान्तबाधश्च गृह्यते । तत्र स्वोक्तिविरोधस्तावत् – अनुभूतिः स्वयंप्रकाशा अनुभूतित्वादित्यादिभिर्धर्मिसाध्यहेत्वादिशब्दैरनुभूतिर्बाध्यते न वा? आद्ये कथं न तद्बाधः? द्वितीये कथमयं प्रयोगस्त्वदिष्टं साधयेत्? भ्रान्त्या बोध्यते न तु वस्तुत इति चेत्तर्हि भ्रान्तिसिद्धं बोध्यत्वमनुमतत्वान्न प्रतिषेध्यम् । वस्तुतस्तु बोध्यत्वं न क्वचित्सिद्धमिति तथाऽपि न प्रतिषेध्यम् । अपि च तादृशस्य वेद्यत्वस्याभावस्सर्वत्र वस्सिद्ध इति सपक्षे सति पक्षमात्रवर्ती हेतुरयं कथं[अ]नाभासः? एवं परबुद्धिमहं जानामीति स्वबुद्धिबाधः; ज्ञानरूपब्रह्मबोधनार्थ शास्त्रमिति स्वसिद्धान्तबाधश्च । अत्रानुग्राहकमपि परप्रयुक्तं दूषयति – वेद्यत्वे इति । वेद्यत्वे जडत्वप्रसङ्ग इति वदता प्रसञ्जकप्रसञ्जनीयधर्मान्वितत्वेन शब्दवेद्यत्वं स्वीकृतं न वा? पूर्वत्र व्याघातः, उत्तरत्र वैयर्थ्यम् । किंचात्र प्रसज्यमानं जडत्वं वेद्यत्वमात्रं वा, स्वगोचरवेदनेनैव सिद्धत्वं वा, स्वयंप्रकाशत्वाभावो वा, अविदितावस्थायोगो वा, अन्यद्वा किंचित्? न प्रथमः; इष्टप्रसङ्गरूपत्वात्, प्रसञ्जकप्रसञ्जनीययोरविशेषाच्च । न द्वितीयः, अवधारणव्यवच्छेद्यस्य स्वगोचरवेदननिरपेक्षसिद्धित्वस्यानुमानादिना समर्थ्यमानस्य स्वाश्रयवेद्यत्वसहदृष्ट्या प्रसङ्गस्य भग्नव्याप्तिकत्वात् । अत एव न तृतीयः; नामभेदमात्रत्वात् । नापि चतुर्थः, इष्टप्रसङ्गत्वात्; न हि बुद्धिर्विद्यमानावस्थायां स्वबुद्ध्यन्तरविदिता । अप्रकाशमानावस्थाप्रसङ्गे तात्पर्यमिति चेन्न; सर्वेषां सर्वदा अप्रकाशमानत्वावस्थायास्त्रय्यन्तवादिनां घटादिष्वप्यसंमतत्वात्, कदाचित्कस्यचिदप्रकाशमानत्वस्य बुद्धावप्यस्माभिरभ्युपगमात् । नापि पञ्चमः; बुद्धौ दृष्टस्य कस्यचिद्विरुद्धधर्मे प्रसज्यमाने पूर्ववद्व्याप्तिभङ्गादेव । अतथाभूतस्य तु यथासंभवमिष्टप्रसङ्गत्वाद्व्याप्तिरहितत्वाद्वेति । एवं परोक्तं प्रसङ्गं प्रतिक्षिप्य प्रतिप्रसङ्गमाह – नो चेदिति । न तावच्छिष्याचार्यौ परस्परबुद्ध्यनभिज्ञौ; प्रश्नप्रतिवचनाद्यसंभवप्रसङ्गात् । एवं वादिप्रतिवादिप्रभृतयोऽपि मिथो बुद्धिमबुद्ध्यमाना न विवादादिकं कुर्युः; तथा पामराणामपि संलापो न स्यादिति भावः । नन्वन्तःकरणवृत्तय एव परस्परं बुद्ध्यन्तम्, तत एव च सर्वो व्यवहारः स्यात्; न स्यात्; बाह्यकरणव्यापाराणामिवान्तःकरणव्यापारस्यापि ज्ञानशब्दवाच्यत्वाभावात् । भावे वा तदतिरिक्तचैतन्यस्वीकारायोगात् । एतेन वृत्त्यवच्छिन्नचैतन्यं मिथो वेद्यम्, न तु शुद्धमित्यादिकमपि दुराशामात्रम् ॥ २ ॥ इति बुद्धेरवेद्यत्वभङ्गः ॥

4.228     बुद्धेरर्थप्रकाशादनुमितिरिति चेत्तन्न साध्याविशेषात्

साध्याद्भेदेऽपि बुद्धिर्यत उदयति ते स्यात्ततोऽर्थप्रकाशः ।

मध्ये बुद्धिः किमर्था ननु सममुभयोरप्यसाधारणत्वं

तत्सा नित्यानुमेया यदि फलति तदा बुद्धितत्त्वापलापः ॥ ३ ॥

कौमारिलास्तु कथयन्ति – न स्वयंप्रकाशा, नापि मानसप्रत्यक्षा बुद्धिः, स्वफलेन तु विषयप्रकाशेनानुमीयत इति । तदनुभाषते – बुद्धेरिति ॥ ‘बुद्धिलक्ष्मादिधीवत्’ इत्यादिना पूर्वोदाहृतं स्वप्रकाशत्वं दुस्त्यजमित्यभिप्रायेण प्रतिक्षिपति – तन्नेति । अर्थप्रकाशो बुद्धिरिति हि बुद्धिं लक्षयन्ति । अतः कथं तेनैव लिङ्गेन तस्यैवानुमानमिति व्यञ्जयन्नाह – साध्याविशेषादिति । नन्वर्थगतः प्रकाशो लिङ्गम्, पुरुषगतः प्रकाशोऽनुमेय इत्यत्राह – साध्यादिति । अयं भावः – पुरुषगतप्रकाशकल्पनेऽपि यद्यर्थगतप्रकाशमन्तरेण व्यवहारो न जायेत तदा बुद्धिजनकत्वेनाभिमतैव समग्री लाघवादर्थगतप्रकाशस्याव्यवहितहेतुरिति कल्प्यतामिति । फलितमाह – मध्य इति । किमर्था – न तावदर्थव्यवहारार्था, नाप्यर्थप्रकाशार्था; द्वयोरन्यथासिद्धेरिति भावः । प्रतिपुरुषनियतविशेषमन्तरेण कथमर्थप्रकाशः प्रतिपुरुषनियतो भवेदित्यत्राह – ननु सममिति । बुद्धेरिव बुद्धिसामग्र्या अपि तत्तत्पुरुषासाधारणत्वं त्वयाऽपि स्वीकृतम् । अन्यथा कथमेकपुरुषमात्रनिष्ठबुद्धिजनकत्वमिति भावः । उक्तं निगमनेन व्यनक्ति -तदिति ॥ ३ ॥ इति बुद्धेर्नित्यानुमेयत्वभङ्गः ॥

4.229     ज्ञातुर्ज्ञप्तेरलोपं कथयति निगमः स्मर्यते चैवमेषा

तस्मादेकत्वसिद्धौ प्रसरणभिदया तद्भिदैकत्र पुंसि ।

योग्यादृष्टेरभावान्न च भवति सुषुप्त्याद्यवस्थासु बाध-

स्तत्तद्वस्तुप्रकाशक्षणविरहवती न प्रकाशेत बुद्धिः ॥ ४ ॥

वैशेषिकादयो वदन्ति – अनीश्वराणामात्मनामक्षजन्यमेव ज्ञानं न तु स्वाभाविकमिति । तन्निरासर्थमाह – ज्ञातुरिति ॥ श्रूयते हि ‘विज्ञातुर्विज्ञातेर्विपरिलोपो विद्यत इत्यादि । नेयं श्रुतिरीश्वरधीविषया, प्रकरणवैघट्यात् । न धीप्रवाहाविच्छेदपरा, सुषुप्त्यादौ तद्विच्छेदस्य युष्माभिरेवोक्तेः । न ज्ञानशक्तिनित्यत्वार्था, मुख्ये सत्युपचारायोगात् । नात्मस्वरूपनित्यत्वार्था, व्यतिरेकोक्तेः । न चात्र सामानाधिकरण्यम्, आत्मस्वरूपनित्यत्वस्थापने विशेषणनैरपेक्ष्यात् । अत्र स्वाभीष्टार्थस्य उपबृंहणसिद्धत्वमाह – स्मर्यत इति । एवं – विपरिलोपरहितत्वेनेत्यर्थः । तदाह भगवान् शौनकः – ‘यथा न क्रियते ज्योत्स्ना मलप्रक्षालनान्मणेः । दोषप्रहाणान्न ज्ञानमात्मनः क्रियते तथा’ ॥ यथोदपानकरणात् क्रियते न जलाम्बरम् । सदेव नीयते व्यक्तिमसतस्संभवः कुतः ॥ तथा हेयगुणध्वंसादवबोधादयो गुणाः । प्रकाश्यन्ते न जन्यन्ते नित्या एवात्मनो हि ते ॥ इति । एवं तर्हि स्मृत्यनुभवरूपेण, प्रस्थपरोक्षभेदेन, दर्शनश्रवणादिभेदेन, पूर्वापरादिभेदेन च सर्वलोकविदितो धीभेदः कथं निर्वाह्य इत्यत्राह – तस्मादिति । अत्र ‘प्रज्ञा च तस्मात् प्रसृता पुराणी’ ‘तेनास्य क्षरति प्रज्ञा’ ‘आवृतं ज्ञानमेतेन ज्ञानिनो नित्यवैरिणा’ इत्यादिकमप्यभग्नस्वारस्यमिति भावः । पुरुषभे[द]देन नियतधीभेदस्य प्रसरणभेदोपाधिकत्वाभावादेकत्र पुंसीति नियमितम् । ननु सुषुप्त्यादिषु स्वतोऽन्यतो वा बुद्धेरुपलम्भासंभवान्नित्यत्वश्रुतिः ‘आदित्यो यूप’ इत्यादिवदपहृतविषया; तत्राह – योग्यादृष्टोरिति । योग्यानुपलब्धेरभावादनुपलब्धिमात्रस्याबाधकत्वाच्च न तदानीं तद्बाधः; यूपद्रव्यस्य तच्छक्तेर्वा तपनतादात्म्यं विरुद्धधर्मसहिततत्तद्धर्मिग्राहकेण विद्रावितमिति भावः । कथमत्र योग्यादृष्टेरभाव इत्यत्राह – तत्तदिति । प्रकाशयोग्यदशायामप्रका[शे]शो हि योग्यानुपलब्धिः स्यात् । विषयप्रकाशरहितावस्थायां न बुद्धिरनन्याधीनप्रकाशा । अतस्सुषुप्त्यादौ तस्याः स्वतः प्रकाशयोग्यत्वाभावान्न योग्यानुपलब्धिरिति ॥ ४ ॥ इति क्षेत्रज्ञबुद्धेरपि स्वरूपनित्यत्वम् ॥

4.230     उत्पत्त्यादेरभावान्न यदि दृशि भिदा नो दशाभेददृष्टेः

दृष्टादृष्टव्यवस्था क्वचिदिह पुरुषे बुद्ध्यवस्थाभिरेव ।

अज्ञानाद्यैरनैकान्तिकमपि न च धीरात्मभेदेऽप्यभिन्ना

ज्ञत्वाज्ञत्वादिभेदः कथमिव घटते सर्वथैका मतिश्चेत् ॥ ५ ॥

यदाहुः – संविन्न नाना उत्पत्तिरहितत्वान्नाशरहितत्वाद्वा, न यदेवं न तदेवं यथा घट इति, तदनुभाषते – उत्पत्त्यादेरिति ॥ अत्र परमार्थभेदो वा अपरमार्थभेदो वा प्रतिक्षिप्यते? नाद्यः, व्यतिरेकस्थाने घटादौ परमार्थभेदाभ्युपगमप्रसङ्गात् । न द्वितीयः; पक्षे परमार्थभेदाभ्युपगमप्रसङ्गात् । तथा च किं नश्छिन्नं, कल्पितभेदास्वीकारात्? तन्निषेधे स्वमतविरोधश्च । अत एव भेदमात्रप्रतिषेधप्रतिज्ञाऽपि दुश्शकेत्यभिप्रायेण प्रतिवक्ति – नो इति । बाधितत्वमाह – दशाभेददृष्टेरिति । उत्पत्तिनाशाद्यवस्थस्संविदस्सर्वलौकिकपरीक्षकसंदृष्टाः; तत्प्रतिषेधस्तैरेव प्रतिषिध्येतेति भावः । हेत्वसिद्धिमपि दर्शयन् दशाभेदं दर्शयति – दृष्टादृष्टेति । यदि त्वेकैव बुद्धिस्सर्वदा सर्वविषया, किंचिन्मया दृश्यते नान्यत, दृष्टं च तत् तदिदानीं न दृश्यत इत्यादिप्रतीताप्रतीतव्यवहाराः प्रलुप्येरन्; चिन्ताबुभुत्साप्रश्नोत्तरादयश्च न भवेयुरित्याशयः । पुरुषभेदनियतबुद्धिभेदस्यावस्थाभेदप्रयुक्तत्वाभावात् क्वचिदिह पुरुष इति विशेषितम् । किं चोत्पत्तिरहितः प्रागभावः; त्वदिष्टं देवदत्तादिभेदप्रतिनियतप्रमानिवर्त्यानादिभावरूपं घटाद्यज्ञानं च त्वयैव भेदवत्तयाऽङ्गीक्रियते; नाशरहितश्च घटपटादिप्रध्वंसो नानाभूतः । अतस्तैस्त्वदुक्तमनुमानमनैकान्तिकमित्याह – अज्ञानाद्यैरिति । उत्पत्तिनाशाभावद्वयसमुदायात्मा युगलहेतुर्नानैकान्तिक इति चेत्; तदपि न, अत्यन्ताभावैरुभयान्तरहितैः प्रतियोगिभेदेन नानाभूतैरनैकान्त्यस्य दुस्तरत्वात्, तेषां चोत्पत्त्यादिमत्त्वे प्रागूर्ध्वं च तदाश्रये प्रतियोगिप्रसङ्गेनात्यन्ताभावरूपताव्याघातात् । न चैक एवात्यन्ताभावस्सर्वप्रतियोगिकः, एकशून्यस्य सर्वशून्यत्वप्रसङ्गादिति भावः । प्रकारान्तरेणापि बाधं दर्शयति – चेति । अयं भावः – अस्माभिस्तावन्नित्यस्सत्यश्चात्मभेदः स्वीकृतः, युष्माभिरपि काल्पनिकः; पक्षद्वयेऽपि जडपण्डितगुरुशिष्यादिव्यवस्था संविद्भेदमन्तरेण न संपद्येत । ततश्च पुरुषभेदनियतबुद्धिभेदापह्नवस्सहृदयविसंवादीति हृदयम् । उक्तं विवृणोति – ज्ञत्वेति । यत्तु मायाकृतविच्छेदप्रत्ययाच्चिच्छक्तिचित्रभित्तौ विचित्रप्रतिभास इति बाह्याद्वैतिभिरुक्तम्, तत्र यदि वैचित्र्यं सत्यम्, ऐक्यव्याघातोऽपि दुर्वारः । अथ काल्पनिकम्, त्रय्यन्ताद्वैतमतवदेव सर्वोपप्लवप्रसङ्ग इति । सर्वथा – विषयाश्रयस्वगतभेदविधूननेनेत्यर्थः ॥ ५ ॥ इति पारमार्थिकसंविद्भेदः ॥

4.231     भेदादिर्दृश्यभावान्न दृशि दृशितया दृश्यधर्मा न दृक् चेत्

पूर्वस्मिन्नित्यताद्यैरनियतिविहती वाग्विरोधादि शेषे ।

बाधश्चात्र द्वयोस्स्यात् स्वमत इह च यैस्साध्यते ये च साध्या

नैते मिथ्या विरोधान्न दृशिरविमतेः स्यादभावोऽपि धर्मः ॥ ६ ॥

अन्यदपि संविदो निर्भेदत्वे निर्धर्मकत्वे च परोक्तं वीतमवीतं चानुमानमनुभाषते -भेदादिरिति ॥ आदिशब्देन जन्मादयः स्मृतित्वानुभूतित्वादयश्च गृह्यन्ते । विगीता धर्मा न संविदि वर्तन्ते, दृश्यत्वात् रूपादिवदित्येकः । अनुभूतिर्धर्मरहिता, अनुभूतित्वादित्यपरः । तत्राद्यं दूषयति – पूर्वस्मिन्निति । अयं भावः – अत्र नित्यत्वस्वयंप्रकाशत्वादयो धर्माः पक्षीक्रियन्ते न वा? न चेत्, तेषां दृश्यत्वेऽपि संविद्वर्तित्वेन तैरनैकान्त्यम्; पक्षीकारे तु सौगतादीन् प्रति त्वयैव साध्यन्ते बाध्यन्ते चेति सिद्धान्तव्याघात इति । द्वितीयमपि दूषयति – वाग्विरोधादीति । आदिशब्देनासिद्धिबाधसिद्धान्तविरोधसंग्रहः । अत्रापि विकल्पतः प्रत्युक्तिः । संविदि निर्धर्मकत्वं साधयता प्रयुज्यमानौ हेतुसाध्यधर्मौ तत्रान्वीयेते न वा? पूर्वत्र स्ववाग्विरोधः, उत्तरत्र हेत्वनन्वयात् स्वरूपासिद्धिः, साध्यानन्वयाद्बाधः, स्वसिद्धान्तसिद्धयोरुभयोरपि प्रतिषेधादपसिद्धान्त इति । किं च – श्लो. सत्यधर्मनिषेधे स्याद्धटादेस्सत्यधर्मता । सत्येतरनिषेधे तु दुस्तरं सिद्धसाधनम् ॥ बाधश्चेति । प्रत्यक्षानुमानागमैरिति शेषः । पुनरपि द्वयोस्साधारणं दूषणं वक्तुं विकल्पालम्बनमनुवदति – स्वमत इति । युष्मत्सिद्धान्ते साधकत्वेन साध्यत्वेन च ये धर्मास्संगृहीताः ते दृशिस्वरूपादतिरिक्ताः, अनतिरिक्ता वा? अतिरिक्तत्वपक्षे सत्या मिथ्या वा? सत्यत्वे च तत्पक्षीकारबहिष्कारयोरुक्तमेव दूषणम् । मिथ्यात्वं निषेधति -नैत इति । मिथ्यात्वे तद्विपरीतानित्यत्वजडत्वादिप्रसङ्गं सिद्धान्तविरोधं चाभिप्रेत्याह-विरोधादिति । अनतिरेकपक्षं प्रतिक्षिपति – दृशिरिति । विरुद्धधर्माध्यासेन व्यतिर्कमभिप्रयन्नाह – अविमतेरिति । न ह्युभयाविगीतमनुभूतिस्वरूपम्; विगीतं च नित्यत्वादिकं न मिथोऽतिरिच्येतेति भावः । नन्वस्मिन् सिद्धान्ते साधकास्साध्याश्च सर्वे धर्मास्तत्तद्विरोध्यभावमात्ररूपाः; अतो हेत्वादिसिद्धिर्निर्धर्मकत्वाविरोधश्चेति; तत्राह -स्यादिति । अयं भावः – अभावरूपा अपि हेतुसाध्यविशेषाः पक्षीकारबहिष्कारसत्यत्वमिथ्यात्वधर्म्यन्वयानन्वयविकल्पैर्यथोचितदूषणग्रस्तैः प्रत्युक्ता एवेति ॥ ६ ॥ इति संवित्सधर्मकत्वम् ॥

4.232     बुद्धिर्द्रव्यं विकारान्वयत इतरवद्बोद्धृवच्चाजडत्वात्

संकोचादिप्रयोगा बहव इह तथा न ह्यमुख्या भवेयुः ।

एवं नास्या गुणत्वं गलति न खलु तत्तन्त्रसङ्केतसिद्धं

लोके धर्मस्वभावो गुण इति विदितं साऽपि सिद्धा प्रभावत् ॥ ७ ॥

प्रागुक्तं बुद्धेर्द्रव्यत्वं प्राप्तावसरे प्रतिष्ठापयति – बुद्धिर्द्रव्यमिति । समवायिकारणं द्रव्यमिति वदद्भिः परैरपि विकाराश्रयो द्रव्यमित्यङ्गीकृतम् । अतो विकारान्वयत इति द्रव्यलक्षणयोगकथनम् । इतरवत् – संप्रतिपन्नद्रव्यवदित्यर्थः । यान्यन्यानि द्रव्याणि तानि सर्वणि यत्किंचिद्विकारवन्ति । अतो द्रव्याभिव्याप्तलक्षणयोगात् द्रव्यत्वं युक्तमिति । न चात्र साध्याविशेषः; द्रव्यशब्दवाच्यत्साधने तदभावात् । व्यवहारव्यवस्थापकत्वं च लक्षणस्य परैर[प्य]ङ्गीकृतम् । अनुमानान्तरमाह – बोद्धृवदिति । पुरुषस्य स्वयंप्रकाशत्वं प्रागेव श्रुतिभिः प्रदर्शितम्; बुद्धेरप्येतत्सरादौ स्थापितम्; तदयं प्रयोगः -बुद्धिर्द्रव्यम् स्वयंप्रकाशत्वात् आत्मवदिति । प्रथमस्यासिद्धिपरिहारं द्वितीयस्यानुग्राहकं चाभिप्रेत्याह – सङ्कोचादीति । सङ्कोचप्रयोगस्तावत् ‘आवृतं ज्ञानम्’ इत्यादिना दर्शितः । आदिशब्देन प्रसरणक्षरणसंग्रहः । तत्प्रयोगश्च दर्शित एव । द्रव्यत्वे ह्येतेषामबाधान्मुख्यत्वम्; अन्यथा श्रुतिस्मृतिसिद्धबहुप्रयोगमुख्यत्वभङ्गः स्यादिति भावः । ननु बुद्धेरात्मगुणत्वं बोद्धृसद्भावागमेषु सर्वेषु प्रसिद्धम्; गुणस्य चाद्रव्यत्वं रूपादिषु दृष्टम्; तदत्र धर्मिग्राहकबाधितमनुमानमित्यत्राह – एवमिति । द्रव्यत्वे सत्यपीत्यर्थः । कथं तर्हि कणचरणादिभिरद्रव्येष्वेव गुणत्वमवस्थापितमित्यत्राह – न खल्विति । अर्थशास्त्रेषु सन्धिविग्रहादयो गुणत्वेन गृह्यन्ते; तद्वत्परोक्तमद्रव्यनियतं गुणत्वमिह न ब्रूम इत्यभिप्रायः । किंनिमित्तस्तर्हि बुद्धौ गुणशब्दप्रयोग इत्यत्राह – लोक इति । दासादयो हि गुणभूता उच्यन्ते, दध्यादिद्रव्यविधानं च गुणविधिरिति व्यवह्रियते । ननु न बुद्धिर्बोद्धृधर्मः; बोद्धा तु तदभिव्यक्तिस्थानम्; तत एव तद्व्यङ्ग्यद्रव्यत्वाद्धर्मत्वारोपः । वस्तुतस्तु सा न द्रव्यं, न च गुण इति परोक्तं बाधितुमाह – साऽपीति । प्रभावतो यथा प्रभा धर्मत्वेन प्रख्याता तथा बुद्धिरपि बोद्धृघर्मत्वेन प्रत्यक्षादिभिः प्रसिद्धा; न चात्र प्रतिबिम्बादिवद्बाध इति भावः ॥ ७ ॥ इति ज्ञानद्रव्यत्वम् ॥

4.233     नित्या धीर्हेतुतोऽस्या भवति विषयितेत्येवमिच्छन्त एव

द्रव्यत्वं नास्ति बुद्धेरिति गुणगणने तामपि स्थापयन्ति ।

अद्रव्यत्वं कथं स्याद्विकृतिमति विकृत्युज्झने पूर्ववत् स्या-

दित्थंभूताद्विकारान्न भवति यदि नातिप्रसङ्गप्रसङ्गात् ॥ ८ ॥

उक्तार्थे सयूथ्यविमतिं वारयितुं तदुक्तप्रकारं तावदाह – नित्येति ॥ एवकारः स्वोक्तिविरोधसूचनार्थः । गुणगणने – द्रव्यत्वरहितगुणगणनायामित्यर्थः । एवकारद्योतितं विकल्पमुखेन व्यनक्ति – अद्रव्यत्वमिति । विकृतिमतीति सामान्याभिप्रायेण नपुंसकलिङ्गनिर्देशः । यदि नित्यायां बुद्धौ तत्तत्सामग्रीभिस्तत्तद्विषयित्वावस्थत्संभवन्ति तदा कथमसौ द्रव्यं न स्यात्? न हि विकृतिमति क्वचिदद्रव्यत्वमन्यत्र संमतम् । विकृत्यसंभवपक्षे दोषमाह – विकृत्युज्झन इति । पूर्ववत् स्यात् – सामग्रीसंपातेऽपि प्रागिव न किंचिद्विषयीकुर्यादित्यर्थः । विषयित्वलक्षणविकारेण द्रव्यत्वं न स्यादिति शङ्कते – इत्थंभूतादिति । सामान्यलक्षणयोगे सत्यवान्तरवैषम्यात् कथमतज्जातीयत्वमित्यभिप्रायेण प्रत्याह – नेति । अन्यथा बाधकमाह – अतिप्रसङ्गप्रसङ्गादिति । द्रव्यत्वेन संमतेष्वपि तत्तदवान्तरविशेषोपादानेन द्रव्येतरत्वसाधनं प्रसज्येतेत्यर्थः । तदिह सयूथ्यवाक्यस्य भाष्यानुगुणमान्यपर्यमवसेयम् ॥ ८ ॥ इति अद्रव्यनित्यबुद्धिवादभङ्गः ॥

4.234     सर्वं ज्ञानं न मानं परमतविजयान्नाप्रमाणं स्वबाधा-

न्मानामानव्यवस्था तदियमनुमता लौकिकैर्यौक्तिकैश्च ।

तत्रामाने त्ववर्ज्यं स्वरसमिति वदन्त्यन्यथाभानमेके

तत्सामग्र्यैव तादृग्व्यवहृतिमपरे लाघवादाश्रयन्ति ॥ ९ ॥

अथ पूर्वापरसरस्यूतसर्वप्रमेयप्रतिष्ठापकं प्रमाणं शोधयितुं सामान्यतः प्रमाणाप्रमाणविभागं तावदाह – सर्वमिति ॥ अयमर्थः – न तावत्सर्वं ज्ञानं प्रमितिः, प्रतिपक्षविजयाभ्युपगमप्रसङ्गात् । यत्र ख्यातिरेव नास्ति तत्र कथं विजयप्रसङ्ग इति चेन्न; स्वहृदयविसंवादात् । परोक्तीनां स्वोक्तिविरुद्धबुद्धिजनकत्वभावे विवादविलयप्रसङ्गः । अन्यथा स्वोक्तानुभाषणवर्णक्रमपाठादावपि विवादः प्रसज्येत । ‘अत एव प्रतिपक्षतो जाताऽपि ख्यातिः प्रमितिरिति न वक्तव्यम् । स्वोक्तमात्रविषयत्वेऽनुक्तमात्रविषयत्वे स्वोक्तानुक्तमात्रविषयत्वे च विवादायोगात्; विरुद्धविषयत्वे त्वन्यतरबुद्धेरप्रमात्वमपरिहार्यमिति । सर्वबुद्धीनामप्रमात्वमपि प्रतिषेधति – नाप्रमाणमिति । स्ववचनस्वसिद्धान्तसर्वलोकधीविरोधमभिप्रेत्याह – स्वबाधादिति । स्वोक्तं लौकिकपरीक्षकसर्वसंमतमित्याह – मानामानेति । एवमन्यथाख्यातिपक्षाभिप्रायेण दर्शिते विभागे भाष्योक्तं पक्षान्तरमपि प्रतुष्टूषुरुक्तस्य प्रतीतिस्वारस्यरसिकैरेकदेशिभिस्संगृहीतत्वमाह – तत्रेति । अमाने -संशयविपर्ययात्मकबुद्धावित्यर्थः । अवर्ज्यं – ख्यात्यन्तरवादिभिरपि दूरापसर्पणेऽपि दुरत्ययम् । स्वत एव स्सो यस्य तत्स्वरसम् । अस्ति हि शुक्तिशकलमेव मया रजततया गृहीतमित्यादिप्रतीतिस्वारस्यम्; ‘योऽन्यथा सन्तमात्मानमन्यथा प्रतिपद्यते’ ‘अयथावत् प्रजानाति बुद्धिस्सा पार्थ राजसी ‘अनात्मन्यात्मबुद्धिर्या अस्वे स्वमिति या मतिः’ इत्याद्याप्तवाक्यस्वारस्य च । अतो भ्रान्तावन्यथाभान प्रथममुपन्यस्तं भाष्पकाराभिप्रेतमित्येके वदन्ति । केषांचित्पक्षान्तरपरिग्रहं सहेतुकमाह – तत्सामग्र्येति । व्यवहारविशेषान्यथानुपपत्त्या ह्यन्यथाभानमवस्थाप्यते; तत्रान्यथाख्यातिसाध्यतयाऽभिमता व्यवहृतिस्तज्जनकतयाऽभिमतसामग्र्यैव संपाद्यताम्; अदृष्टचरान्यथाख्यातिसंग्रह[स्तु]स्तन्मध्ये मुधेत्यपरे समाश्रयन्ति । पक्षद्वयोपन्यासप्रपञ्चस्तु न्यायकुलिशे निपुणमवधारणीयः ॥ ९ ॥ इति प्रमाणाप्रमाणव्यवस्था ॥

4.235     नाथैरुक्ता यथार्था विमतमतिरपि न्यायतत्त्वे तदेत-

द्भाष्येऽनूक्तं तदत्र व्यवहृतिरुभयी बाधिताबाधिताख्या ।

शुक्तौ रूप्यं प्रभाम्भः श्रुतिनयवशतः स्वाप्नमप्यस्तु सत्यं

योग्यायोग्यादिभेदाग्रह इह चरमां गाहते संप्रतिष्ठाम् ॥ १० ॥

उक्तपक्षद्वये द्वितीयस्य सांप्रदायिकत्वमाह – नाथैरिति ॥ विमतमतिः – शुक्तिरजतादिबुद्धिः । सा न्यायतत्त्वे भ्रान्त्यधिकरणसिद्धान्ते ‘षष्ठी चेयं ख्यातिर्यथार्थरव्यातिः’ इत्यादिना निरधार्यत । अयं च पक्षः ‘अथवा, यथार्थं सर्वविज्ञानमिति वेदविदां मतं’ इति भाष्यकारैरन्वभाषि । कथमस्मिन् पक्षे प्रमाणाप्रमाणव्यवस्थादिकमित्यत्राह – व्यवहृतिरिति । बाध्यव्यवहारहेतुर्ज्ञानमप्रमाणं भ्रान्तिरित्युच्यते । तत्र मणिप्रभादिदर्शने मण्याद्यर्थप्रवृत्तौ तत्संवादोऽन्यायत्तः । अबाध्यव्यवहारहेतुर्ज्ञानं प्रमाणमभ्रान्तिरिति व्यवह्नियते । तत्र कदाचित्पक्षिबुद्बुदादौ प्रवृत्तिविसंवादो विषयापक्रमादेरिति भावः । यत्तु शुक्तौ सादृश्यात् रजतसद्भावः; मरीचिकायां पञ्चीकरणानुरोधेन तोयसद्भावः; स्वप्ने च रथादेस्सृष्टिविशेषतया सत्यत्वं भाषितम्; तत्र विषयसत्यत्वेऽप्यप्रमाणव्यवहारनिदानमाचिख्यासुर्यथाभाषितमनुभाषते -शुक्ताविति । प्रभाम्भः – सूर्यप्रभायां दृश्यमानं तोयमित्यर्थः । स्वाप्नं – स्वप्नसिद्धं रथादि । यद्यप्यत्रातस्मिन् तद्बुद्धिर्नास्ति, अतज्जातीयभेदाग्रहश्च न प्रवर्तकः; तथाऽपि तज्जातीये स्वाभीष्टयोग्यायोग्यादिभेदाग्रहात् प्रवृत्ता व्यवहृतिर्विसंवदेतेत्यप्रमाणव्यवहारोऽत्यर्थं घटेतेत्यभिप्रायेणाह – योग्येति । शुक्तिलीनं रजतं मरीचिकास्थं जलं चाङ्गुलीयकसेकाद्यनर्हम् । अतस्तदनर्हे तदर्हभेदाग्रहात् प्रवृत्तिर्वितथा भवति । एवं स्वाप्नेष्वपि धनपित्रादिषु जागरदृष्टसरूपेषु तत्तद्भेदाग्रहात् प्रवृत्ता दुराशा मोघा भवति । आदिशब्देन नष्टानष्टादिसंग्रहः । चरमां संप्रतिष्ठां – व्यवहारविसंवादनिदानतामित्यर्थः ॥ १० ॥

4.236     भेदाज्ञानात् प्रवृत्तौ न कथमुपरतिः स्यादभेदाप्रतीत्या

रूप्यारूप्यभ्रमादाविव यदि न यतोऽनिष्टभेदाग्रहात् सा ।

आधारे भेदवर्जं स्फुरति सदृशवस्त्वन्तरे चोपपन्ना

तत्तद्वसूचितैव व्यवहृतिनियतिस्त्वन्मते बुद्धिवन्नः ॥ ११ ॥

नन्वन्वयव्यतिरेकाभ्यां कारणविशेषस्सर्वत्र व्यवस्थाप्यः । तत्र चेतनप्रवृत्तिरिच्छातः; सा चानुकूलताज्ञानात् । न चात्र ज्ञानेच्छाप्रवृत्तीनां भिन्नविषयत्वं युक्तम् । यद्यपि शुष्के पतिष्यामीति कर्दमे पतति; तथाऽप्यवशागतप्रवृत्तिन्याय इह नास्थेयः, इदं रजतमित्यत्रेदमर्थभूतभास्वरद्रव्यजिघृक्षयैव प्रवृत्तेः; न च रजतभेदाग्रहादरजते प्रवृत्तिः, अग्रहस्य क्वचिदपि प्रवृत्तिहेतुत्वादृष्टेः; इति मत्वा भेदाग्रहात् प्रवृत्तावतिप्रसङ्गमाह -भेदाज्ञानादिति ॥ यदि निवृत्तिकारणभूतभेदग्रहाभावात् प्रवर्तते, तथा प्रवृत्तिकारणभूताभेदग्रहाभावात् किं न निवर्तेत? यथा भेदग्रहस्य निवृत्तिकारणत्वं नेदं रजतमित्यत्र दृश्यते, एवमभेदग्रहस्य प्रवृत्तिकारणत्वम् इदं रजतमित्यभ्रान्तबुद्धौ दृष्टमेव । ततश्चाभेदग्रहरूपप्रवृत्तिकारणाभावात् प्रवृत्तिप्रतिपक्षभूता निवृत्तिः कथं न स्यादिति भावः । अथ रजते प्रवृत्तिरपि रजतभेदाग्रहादेवेति दृष्टम्, स चात्रापि समान इति मन्यसे; तर्हि रजतार्थिनः कदाचिदरजतान्निवृत्तिरपि रजताभेदाग्रहादिति दृश्यते; अतो निवृत्तिकारणभूतरजताभेदाग्रहसद्भावात् निवृत्तिरनिवार्येत्यभिप्रायेणोदाहरति -रूप्यारूप्यभ्रमादाविवेति । तत्र निवृत्तिरन्यकारणिकेत्यभिप्रायेणाह – नेति । हार्दं विवृणोति – यत इति । सा – निवृत्तिः । अयं भावः – ह्यसौ रजतार्थिनस्ततो निवृत्तिरिष्टरजताभेदाग्रहात्, किंतु अनिष्टारजतभेदाग्रहात् । अरजताद्भेदो रजतम्; तदग्रहादेव हि तवापि तदर्थिनो निवृत्तिः । कथं प्रवृत्तिर्निवृत्तिश्च भेदाग्रहतस्स्यातामिति चेत्; इत्थम् – प्रतियोगिविषयभेदेन सामग्रीभेदात् इष्टभेदाग्रहात् प्रवृत्तिः, अनिष्टभेदाग्रहान्निवृत्तिरिति । किंचोपादानबद्धानमपि प्रवृत्तिविशेषः; तत्र भेदाग्रहः प्रवृत्तिसामान्यप्रयोजकः; तद्विशेषस्य तु तद्विशेष इति किं नो बाध्यते? नन्वधिकरणप्रतियोगिनोरुभयोरन्यतरस्य वा ग्रहणाभावेऽपि तद्भेदाग्रहसिद्धिः । किं तत्रापि प्रवृत्तिः स्यात्? नेत्याह – आधार इति । भेदाधारे भेदमन्तरेण भासमाने सतीत्यर्थः । स्फुरतीत्यत्र ग्रहणतः स्मरणतो वेति यथासंभवं ग्राह्यम् । सदृशवस्त्वन्तरे -अभिमतेऽनभिमते वाऽन्यस्मिन्वस्तुनि । तत्तदिति इष्टानिष्टविभागाभिप्रायम् । एवमनभ्युपगमेऽन्यथाख्यातिपक्षेऽप्यतिप्रसङ्गो दुर्वार इत्यभिप्रायेणाह – त्वन्मत इति । भ्रान्तेर्हि विशेषाग्रहसहकृतसामग्र्या सिद्धिस्त्वयोच्यते । तत्र न ह्यधिकरणादिग्रहणरहितभेदाग्रहस्य सहकारित्वं मन्यसे । संशयविपर्ययरूपविशेषोत्पत्तौ च विशेषकारणापेक्षां ब्रूषे; तद्वदिहाप्यतिप्रसङ्गपरिहारः । ननु यदा शुक्तौ रजतभेदाग्रहस्तदा तत्र शुक्तिभेदाग्रहोऽपि विद्यते । अतोऽनिष्टशुक्तिभेदाग्रहात्ततो निवृत्तिः किं न स्यात्? तव शुक्ति[भेद]भ्रमात्पूर्वक्षणेऽन्यत्र भ्रमकारणतयाऽभिमतशुक्तिभेदाग्रहात् शुक्तिभ्रमः किं न स्यात्? शुक्तौ शुक्तिभ्रमो न घटत इति चेत्, शुक्तौ रजतधीरप्यघटितैव त्वयाऽङ्गीक्रियते । न हि रजतोल्लेखिनी धीररजतविषयेति घटते; अदृष्टचरत्वात् । अदृष्टमपि भेदाग्रहविशेषो घटयतीति चेत्, तद्वदिहापि शुक्तौ शुक्तिभ्रममघटितं घटयतु । दर्शनादर्शनाभ्यां विशेष इति चेत्, एवं निवृत्तिहेतुत्वेऽपि निध्यातव्यमिति । एतदपि प्रतिबन्द्यैव प्रज्ञापितम् । अग्रहणस्य प्रवृत्तिकारणत्वं न दृष्टमित्यस्याप्येषैव प्रतिबन्दिः । न ह्यग्रहस्य बुद्धिकारणत्वमप्यन्यत्र दृष्टं भवति । अगत्या कल्पनं त्वन्यत्रापि समानम्; त्वन्मते गौरवमधिकम् ॥ ११ ॥ इति अख्यातिसंवलितयथार्थख्यातिपक्षः ॥

4.237     अन्यस्मिन्नन्यबुद्धिर्न यदि न घटते तत्प्रवृत्तिस्तदिच्छो-

रिष्टं तत्साधनं वा यदभिमसमतोऽन्यत्र सा नेति चेन्न ।

रतांशौ रत्नबुद्ध्या विदुरनवगते रत्न एव प्रवृत्तिं

ज्ञातस्वेष्टानुषङ्गादविदितमपि खल्वाददीतात्र चैवम् ॥ १२ ॥

अत्र प्रसङ्गमुखेनान्यथाख्यातिसाधनमनुभाषते – अन्यस्मिन्निति ॥ विवादपदं शुक्तिशकलं रजतज्ञानविषयः रजतोपायान्यत्वे सति रजतार्थिप्रवृत्तिविषयत्वात् सम्यग्रजतवत् । यदि पुरोवर्तिनो रजतबुद्धिविषयत्वं न स्यात् किं तत्र पुरुषः प्रवर्तते? सुखेदुःखनिवृत्तौ तदुभयसाधने वा बुद्ध्यारूढे पुरुषस्येच्छा भवति, इष्टे च प्रवर्तते । तदिह शुक्तौ यद्युपादित्साप्रसाधिका रजतधींर्न स्यात्; तर्हि न स्यादेव तत्र प्रवृत्तिरिति । अतोऽन्यत्र सा न – सुखदुःखनिवृत्तितत्साधनबुद्धिविषयादन्यत्र पुंसां प्रवृत्तिर्न दृष्टेत्यर्थः । प्रवृत्तेः स्वविषयबुद्धिपूर्वकत्वनियमो नास्तीत्यभिप्रायेण प्रत्याह – नेति । व्यभिचारमुदहरति -रत्नांशाविति । त्वत्पक्षे हि रत्नांशुविषयेण रत्नभ्रमेण प्रसारितहस्तस्तत्रत्यमनवगतं रतमुपादत्ते । तत्र रत्नार्थिप्रवृत्तिविषयभूतं रत्नं न प्रवृत्तिहेतुरत्नधीविषयः, प्रभाया एव तत्र धीविषयत्वात् । अस्मत्पक्षेऽपि सामान्यतो रत्नजातीयस्मृत्या प्रवृत्तिः, न तु तदानीं गृह्यमाणरत्नविशेषविषयस्मृत्या; तस्याननुभूतचरत्वात् । सामान्यतो विदितत्वादप्यविदितत्वं नास्तीति चेन्न; एतावता विदितत्वेन प्रवृत्तिविषयत्वेऽतिप्रसङ्गात् । एवं व्यभिचारस्थलान्तरमाह – ज्ञातेति । किंचिदिष्टं क्षीरादिकं कश्चिदुपादत्ते; तत्र सामान्यतोऽप्यज्ञाततोयतृणादिकमप्युपात्तं भवति । पुरुषप्रवृत्तिविषयत्वं तत्र नास्तीति चेन्न; ज्ञातानामज्ञातानां च तत्प्रवृत्तिजन्यफलाधारत्वाविशेषात् । तदेवमविदितस्यापि प्रवृत्तिविषयत्वे पुरोवर्तिन इदंत्वेन विदितस्य रजतत्वेनाविदितस्यापि प्रवृत्तिविषयत्वं कैमुत्यसिद्धमित्यभिप्रायेणाह – अत्र चैवमिति । चकारात् दूषणान्तरमपि समुच्चिनोति । तत्र रजतोल्लखस्य शुक्त्युल्लेखरूपत्वमसंभवीति पूर्वमेवोक्तम् । संभवद्विषयत्वे त्वनुमानस्य सिद्धसाधनता, शुक्तिरजते इत्युभयग्राहिण एकज्ञानस्य सर्वसंमतत्वात् । रजतत्वविशिष्टज्ञानविषय इत्युक्तेऽपि स एव दोषः । यज्ज्ञानं रजतत्वाश्रयतया स्वविषयं गृह्णाति तस्य विषय इत्युक्तेऽपि रजतव्यक्तिं रजतत्वाश्रयतया विषयीकुर्वतो ज्ञानस्य शुक्तिरपि विषय इति स्यात् । अथैतन्निष्ठरजतत्वाश्रयतया ज्ञानस्य विषय इति साध्यते, तत्र दृष्टान्तासिद्धिः, साध्यस्वरूपासंभवश्च, एतन्निष्ठरजतत्वाद्यभावात् । स्वविषयरजतताज्ञानविषय इत्युक्तेऽपि न निस्तारः; रजतगतरजतत्वोल्लेखिज्ञानस्यैवैतद्विषयत्वसंभवात् । अथ स्वोपादित्साहेतुभूतरजतज्ञानविषय इति ब्रूषे, तथाऽपि सहकारिविशेषात्तद्धेतुभूतरजतस्मृतेस्सन्निहितासन्निहितानुभवजनितसंस्काराभ्यामुत्पत्तिसंभवात् तद्विषयतयाऽर्थान्तरतैव । रजतानुभवविषय इति विशेषितेऽपि स्मृतिमूलप्रवृत्तिविषये रजते व्यभिचार इति ॥ १२ ॥

4.238     शुक्तित्वारूप्यतादेर्न तु रजततया भाति शुक्तिर्विगीता

यद्वा धीत्वाद्यथार्था विमतमतिरतो बुद्धिबाधोक्त्ययोगः ।

वैशिष्ट्यासिद्धिमात्रप्रथनमिह परं बाधकस्यापि कृत्यं

किंचासत्ख्यातिरंशे प्रसजति भवतामन्यथाख्यातिवेद्ये ॥ १३ ॥

अन्यथाख्यातिवादमनुमानतोऽपि प्रत्याचष्टे; तत्र बोध्यपक्षीकारेण तावदाह – शुक्तित्वेति ॥ विगीता शुक्तिर्न रजततया भाति शुक्तित्वात् अरूप्यत्वाद्वा; आदिशब्देन रजतविरुद्धार्थक्रियाकारित्वसंग्रहः । अन्यथाख्यातिसमर्थनहेतोस्सविशेषणत्वान्निर्विशेषणशुक्तित्वादिहेतुः प्रबल इति द्योतनार्थस्तुशब्दः । किंच मदुक्तस्य विपक्षे गौरवप्रसङ्गो बाधकस्संभवति, न तु त्वदुक्तस्य । प्रवृत्तिविशेषो हि भेदाप्रहादप्युपपन्नो दर्शितः । अथ बुद्धिपक्षीकारेणाप्याह – यद्वेति । विगीता बुद्धिर्यथार्था बुद्धित्वत्संप्रतिपन्नवत् । नन्वन्यथाख्यातिपक्षीकृतावाश्रयासिद्धिर्धर्मिग्राहकविरोधो वा । अथ विषयांशभेदेन तद्याथात्म्यमभिप्रेतं तदा सिद्धसाधनम्, धर्मिणस्समानधर्मस्य चानारोपितत्वात्; बुद्ध्यन्तरपक्षीकारेऽप्ययमेव दोष इति । मैवम्; अत्र हि पुरोवर्त्यर्थं व्यवहर्तुरुपादित्सां प्रत्यव्यवहितहेतुभूता काचिद्बुद्धिरस्तीति सामान्यत उभयाभ्युपेतम् । यद्यपि सिद्धस्य वाऽसिद्धस्य वा धर्मिणस्सत्त्वासत्त्वे विधिनिषेधानर्हे । तथाऽपि गृह्यमाणयत्किंचिदाकारेण

सत्ये पर्वतादौ अवयविसङ्घातप्राकृतपरिणामादिविवादानादरेण पक्षीकरणं सर्वसंमतम् । तद्वदिहापि शुक्तिविषयत्वतदविषयत्वादिविवादे सत्यप्युभयानुमतोपादित्साकरणत्वविशिष्टज्ञानपक्षीकारेणात्र प्रयोगोपपत्तिः । यथा च प्रमितिरूपत्वभ्रान्तिरूपत्वविशेषानादरेण शुक्तिशकलस्य रजतज्ञानविषयत्वमात्रं सामान्यतस्साध्यते, तत्र च प्रमितिरूपत्वे विरोधः भ्रान्तिरूपत्वे त्वप्रसिद्धविशेषणत्वमिति पर्यनुयोगं न क्षमसे; एवमिहापि सामान्यतः पक्षसिद्धिरिति मध्यस्थदृष्टिमनुसंधत्स्व । तथाऽप्यत्र साध्यं यथार्थत्वम्? अनारोपितविषयत्वम्? आरोपितविषयरहितत्वं वा? आद्ये धर्म्यशादेरनारोपितत्वात्तद्विषयत्वेन सिद्धसाधनत्वम् । आरोपितविषयत्वात्यन्तासिद्धौ चानारोपितविषयत्वमपि दुर्वचम् । अत एव न द्वितीयः, निष्प्रतियोगिकनिषेधायोगादित्यत्राह – अत इति । यथार्थत्वप्रतिज्ञानवशाद्व्यवच्छेद्यत्वेन क्वचित् बुद्धिबाधः स्यादित्युक्तेरयोग इत्यर्थः । अयं भावः – योगाचारादयो हि स्वप्नादिनिदर्शनेन सर्वप्रत्ययानां प्रत्ययत्वेनायथार्थत्वं साधयन्ति; सर्वत्रासिद्धं च यथार्थत्वं प्रतिषेध्यं प्रतिपद्यन्ते; तानुद्दिश्यायं प्रयोगः स्यात्; पिशाचानां पिशाचभाषयैव ह्युत्तरं देयम् । तदिह यद्वेत्यनेन पक्षान्तरान्वारोहः प्राख्याप्यते । कस्तर्हि तान् प्रति दृष्टान्तो वाच्यः? यस्तेषां स्वपक्षसाधकबोधः । नहि तस्यायथार्थत्वं तैर्वक्तुं युक्तम्, स्वपक्षासिद्धिप्रसङ्गादिति । ननु बुद्धिबाधः कश्चित्सिद्धो न वा? आद्ये कथं तन्निषेधः? द्वितीये कथंतरामिति चेत्; उच्यते, नहि वयं बुद्धिबाधशब्दस्य कंचिदर्थमनुमत्य प्रतिषेधामः, किंतु बुद्धिबाधोक्तिरयोग्यपदसमभिव्याहाररूपा न विशिष्टमर्थं बोधयतीति तत्प्रयोगास्यायुक्ततामात्रं ब्रूम इति भावः । एतेनान्यथाख्यातिः क्वचिदस्ति न वेत्यादिकमपि प्रत्युक्तम् । अस्ति तावत् परस्परविरुद्धाकारभानरूपान्यथाख्यातिस्सर्वेषु वस्तुषु । सेयं शुक्तिविरुद्धाकारवत्तया अन्यत्र सिद्धा । अन्यथाख्यातिश्शुक्त्यालम्बना न भवतीत्युक्तौ क्वचित् सिद्धस्यैवान्यत्र निषेधः । यत्तु शुक्तेरेव बाधदशायां रजतादन्यथात्वेन भानम्, न तन्निषेध्यम्; स्वाकारविरुद्धाकारवत्तया भानमिति त्वयोग्यपदसमभिव्याहारमात्रमिति । ननु पूर्वधीबाधाभावे परस्य कथं बाधकत्वमित्यत्राह – वैशिष्ट्येति । बाधकज्ञानं हि पुरोवर्तिनि रूप्यत्ववैशिष्ट्यं नास्तीति बोधयति; तच्च रूप्ये सिद्धं प्रतियोगि भवति । अत एव भेदग्रहसिद्धौ भेदाग्रहप्रभवप्रवृत्तिरूपसाध्यापहारात् पूवोत्तरधियोर्बाध्यबाधकत्ववाचोयुक्तिरिति भावः । असत्ख्यातिदूषणेनान्यथारव्यातिं साधयतामनिष्टप्रसङ्गमाह – किंचेति । यद्यप्यधिष्ठानं सत्यं भाति; यद्यपि रजतस्य रजतत्वस्य चान्यत्र सिद्धेस्तदारोपे नात्यन्तासत्ख्यातिः; तथाऽपि शुक्तिशकले रजततादात्म्यस्य रजतत्वसंसर्गस्य वा तत्र चान्यत्र चासिद्धस्य निषेध्यस्य ख्यातिविषयत्वादत्यन्तासत्ख्यातिरनिवार्या । एतावदसत्ख्यातिरङ्गीक्रियत इति चेदिदमपि गौरवान्तरम् । तथा चासत्ख्यातिदूषणाद्विरन्तव्यम्; अन्यथाख्यातिसाधनाद्वेति ॥ १३ ॥

4.239     योऽसौ बोधोऽन्यथाधीजनक इति जगे भ्रान्तिरित्युच्यतेऽसौ

नेत्थं बोधापलापः क्वचिदपि वदतां बोधमध्यक्षसिद्धम् ।

यत्र प्रत्यक्षसिद्धादधिकमपि परे निष्फलं कल्पयेयुः

सिद्धैरेवात्र तत्तद्व्यवहृतिरिति हि स्थापितं भाष्यकारैः ॥ १४ ॥

नन्वन्यथाख्यातिमपह्नुवानानां सर्वस्या बुद्धेर्याथार्थ्याविशेषाद्भ्रान्तिशब्दः क्वचिदपि न स्यात् । न ह्यसावसाधुः; न च साधुरपि निर्विषयः स्यात् । स्पष्टदृष्टबोधापलापे च सर्वबोधापलापप्रसक्त्या विश्वविलोपस्स्यादित्यत्राह – योऽसाविति ॥ अयं भावः – अस्ति ह्यधिष्ठानादिगोचरं भेदाग्रहविशेषसहकृतं भ्रान्तिजनकत्वेन युष्मदभिमतं किंचित् ज्ञानं, तदेव भ्रान्तिरित्युच्यते । न चात्र बोधापलापः; ईदृशबोधोपलम्भस्याभ्युपगमात्, तदतिरिक्तबोधोपलम्भस्याभावाच्चेति । नन्वनादेशिकमेतत् भाष्यादिष्वनुक्तेरित्यत्राह – यत्रेति । यत्र संप्रतिपन्नैः कैश्चिद्व्यवहारस्संभवति तत्र मध्ये न किंचित् कल्पनीयमित्यभावजात्यवयविभेदादिनिरासे भाष्यकारैर्निरणायि, प्रस्तुतार्थश्च भ्रान्तिचिन्तायां प्रदर्शितप्राय इति । ‘ननु चाख्यातिपक्षेऽप्यन्यविशेषणमन्यविशेषणत्वेनेति भाष्ये कथं चोदितम्? किमिति वा तच्चाप्रदिष्टोत्तरम्? सत्यं, तदुच्यते – सर्पभूदलनाम्बुधारादिभ्रमेष्वयं सर्प इदं भूदलनमियमम्बुधारेति सर्पादिविशेष्यलिङ्गभाञ्जि विशेषणानि भवन्ति; इदं च समानाधिकरणत्वाभिमानात् । अतोऽन्यथाख्यातिरवर्जनीयेति चोद्याभिप्रायः । परिहारानुक्तिस्तु तत्तद्भेदाग्रहनिबन्धनवाचकव्यवहारविशेषमात्रमिति स्वयमूहक्षमशिष्यशिक्षार्थेति । श्लो. तर्कतत्फलसामर्थ्यादन्यथाधीप्रसञ्जनम् । दत्तोत्तरमिति ग्राह्यं दृष्टगौरवलाघवैः ॥ यदेतदाहार्यव्याप्यजनितमारोपितव्यापकविषयं ज्ञानं तर्क इति ब्रूषे, तज्जनकतयाऽभिमतज्ञानस्यैव तर्कशब्दवाच्यत्वं, तस्यैव च मानानुग्राहकत्वमिति ॥ १४ ॥ इति अन्यथाख्यातिभङ्गप्रकारः ॥

4.240     एकाधारे विरुद्घाकृतियुगयुगपत्ख्यातिरन्योन्यबाध्या

डोलाविक्षेपकल्पा तदनियतिरियं धीक्रमे साक्षिणी नः ।

तस्मात्तत्तद्विशेषस्मृतिसमसमयं छन्नतर्त्ताद्वरोधः

ख्यातस्साधारणोऽर्थः परमिह विशये येन बुद्ध्यन्तरं वः ॥ १५ ॥

अथ स्यात् – विरुद्धानियतकोटिद्वयगोचरं संशयात्मकं ज्ञानं सर्वेषां प्रसिद्धम्; तच्च वस्तुनि विकल्पस्य विरुद्धानियताकारत्वस्य चायोगात् अन्यथाख्यातिरूपमेव । तदनभ्युपगमे ‘सन्दिग्धे न्यायप्रवृत्तिः’ ‘विषयस्संशयश्चैवेत्यादिकमुच्छिद्येतेत्यत्राह – एकाधार इति ॥ अयं भावः – यदि स्थाणुत्वविशिष्टतया पुरोवर्ति भायात्, पुरुषत्वविशिष्टतया न भायादेव; तथाऽन्यत्र सर्वत्र दृष्टेः । तदयं प्रयोगः – विप्रतिपन्नं स्थाणुपुरुषभानं भिन्नाधा[र]रे स्थाणुवपुरुषत्वे बोधयति स्थाणुपुरुषभानत्वात् स्थाणुपुरुषाविति भानवत् । ततश्च पुरोवर्तिभानं स्थाणुपुरुषभानं च मिथो भिन्नमिति सिद्धम् । तस्मादूर्ध्वद्रव्यभानमनुभवः; स्थाणुपुरुषभानं तु स्मरणम् । न चैकस्मिन् पुरुषे स्मृत्यनुभवयोरेकदा संभवं मन्यसे; स्मर्यमाणाधारसंशये धर्मिस्फुरणस्य कोटिद्वयस्फुरणस्य च स्मृतित्वाविशेषेऽपि धर्मिस्फुरणस्य कोटिद्वयस्मृतिहेतुसंस्कारोद्बोधकतया पूर्वत्वमनिवार्यमिति । प्रकारान्तरेणापि धीक्रमं साधयति – डोलेति । संशयडोलाधिरूढो डोलायमानमानस इति रूपकोपमानाभ्यां क्रमेण विरुद्धयोगिसारूप्यं व्यज्यते । अनियतत्वव्यञ्जकश्च वाकारप्रयोगोऽन्यतरस्फुरणमितरोल्लेखवर्जितं स्वरसतो दर्शयति । न ह्यसाविह समुच्चयार्थः, तथा सत्यनियमानुल्लेखेन संशयरूपत्वाभावप्रसङ्गात्; वाकारश्चाविशेषात् प्रयुज्येत । नाप्युपमानार्थः, धर्मिणस्तत्तदन्यत्वानिश्चयेन तत्तदुपमेयत्वायोगात् । न च मिथः; अयमिति पुरोवर्तिनिर्देशेनाघटितत्वात्, अध्याहारवाक्यभेदयोरवर्जनीयत्वाच्च । अतोऽत्र विकल्पतः प्रवृत्तमिदमव्ययम्; तत्त्वे अतदयोगात् । ऊर्ध्वः पदार्थः कश्चित् स्थाणुर्भवति, कश्चित्पुरुषो भवतीत्यूर्ध्वत्वस्य स्थाणुत्वपुरुषत्वाभ्यां विभज्य साहचर्यं व्यनक्ति । तदिहायमिति पुरोवर्तिमात्रभगृहीतविशेषूमनुभूयते, स्थाणुपुरुषौ तु स्मर्येते इति विभागः । एतदेव निगमनव्याजेन स्पष्टयति – तस्मादिति । समसमयमित्यगृहीतक्रमयोरनुभवस्मृत्योर्निरन्तरभानाभिप्रायम् । अथवा पुरोवर्त्यनुभवजनितसंस्कारेण कोटिद्वयस्मृतिहेतुसंस्काराभ्यां च संभूयतैर्युगपदेकस्मृतिसंभवात्तदुल्लिख्यमानविषयत्रययुगपत्प्रकाशख्यापनार्थमेतत् । छन्नतत्तद्विरोध इति । एतद्भेदकधर्मानुल्लेखपरम् । साधारणः – साधारणाकारविशिष्ट इत्यर्थः । परं – पश्चात्, केवलमिति वा । एतावतैव संशयव्यवहार इति भावः । ईदृशस्य ज्ञानस्य संशयव्यवहारजनकत्वं न क्वचिद् दृष्टमित्यत्र लाघवं प्रतिबन्दिं चाभिप्रेत्याह – येनेति । साधारणख्यातिपरामर्शोऽयम् । ईदृशबोधेन संशयरूपज्ञानोत्पत्तिरप्यन्यत्र न दृष्टा; व्यवहारविशेषस्तु त्वदिष्टतत्कारणेनैव सिध्येदिति भावः । श्लो. ऊहानध्यवसायौ च परोक्तौ संशयात्मकौ । तदन्यत्वेऽपि निर्वाहस्समानन्यायतः स्थितः ॥ १५ ॥ इति संशययाथार्थ्यप्रकारः ॥

4.241     दुस्सधा बाधधीभ्यां सदसदितरता कुत्रचिद् व्याहतत्वात्

सत्त्वासत्त्वं च ताभ्यां कथमिव न भवेद्व्याहतेश्चेत् समं तत् ।

दृष्टत्वाद्वा विशेषः क्वचिदपि न हि नस्सर्वरूपेण सत्त्वं

नासत्ता चानुपाधिर्न च विमतिरिह ब्रह्मतुच्छातिरेके ॥ १६ ॥

श्लो. सयूथ्यमतभेदौ द्वौ भ्रमे किंचित्प्रदर्शितौ । अथ प्रतिमतस्थानां प्रलापः प्रतिरुध्यते ॥ तत्र तावत् कचोल्लुच्छनमतोञ्छितामनिर्वचनीयख्यातिमधिक्षिपामः । तत्र यदाहुः – सत्त्वे न भ्रायिबाधौ स्तां नासत्त्वे ख्यातिबाधने । सदसद्भ्यामनिर्वाच्येत्यादि । अनिर्वाच्यत्वं नाम किं वाच्यादन्यत्वम्, वाच्यत्वराहित्यम्, निरुपाख्यत्वम्, सदसदन्यत्वम्, सत्त्वासत्त्वरहितत्वम्, ब्रह्मतुच्छविलक्षणत्वम्, अन्यद्वा किञ्चित्? नाद्यः; सर्वलौकिकवैदिकव्यवहारविरोधात् स्ववचनादिविरोधाच्च । वाच्यानामेव मिथोऽन्यत्वेन तत्साधने सिद्धसाधनात् । सर्ववाच्यान्यत्वमप्येकैकस्मिन्विद्यत एव; न ह्येकैकस्यापि वाच्यस्य सर्ववाच्यत्वम् । सर्वेषां वाच्यान्योन्याभावानामाश्रयत्वमित्यप्ययुक्तम्; अनिर्वाच्यादिशब्दवाच्यस्य स्वान्योन्याभावाधारत्वायोगात् । अत एव न द्वितीयः; ब्रह्मणि तुच्छे च वाच्यत्वानभ्युपगमात्; तयोरपि प्रपञ्चतुल्यत्वस्वीकारप्रसक्तिश्च । न तृतीयः, निरुपाख्यशब्दस्य यौगिकत्वे दत्तोत्तरत्वात्, निरुपाख्योपाख्यया च त्वयैव विगीतस्योपादानात्, रूढिमात्रस्य परिभाषाप्रायत्वेन विगीतसत्यत्वानुपरोधित्वात्, खरशृङ्गाद्यविशेषसाधने दृष्टविरोधादपसिद्धान्ताच्च । एवं स्थिते चतुर्थादीन् दूषयति -दुस्साधेति ॥ बाधधीभ्यामित्युपलक्षणम् । नाशधीभ्यामित्यपि भाव्यम् । अयं भावः – सदसदन्यत्वं तावत्सतामेव सदन्तरव्यावृत्त्या तुच्छव्यावृत्त्या च संभवति । सर्वेभ्यस्सद्भ्योऽन्यत्वं च त्वया दुर्वचम्; अनेकसदनभ्युपगमात् । यद्यपि पारमार्थिकं सदेकमेव; तथाऽपि प्रातिभासिकानि व्यावहारिकाणि च बहूनि सन्तीति चेत्, किमतः? अनिर्वचनीयत्वाभिमतस्य व्यावहारिकसतः स्वस्मादन्यत्वायोगेन सर्वसदन्योन्याभावकार्त्स्न्यासिद्धेः; व्यावहारिकराशिबहिर्भावाभ्युपगमे च पारमार्थिकप्रातिभासिकतुच्छकोटिप्रवेशप्रसङ्गेन स्वमतादिव्याघातात् । अत एव सत्त्वासत्त्वरहितत्वमपि निरस्तम्; व्यावहारिकसत्त्वराहित्यस्य सत्त्वमात्रराहित्यस्य वा साधने व्याघातात् । पारमार्थिकसत्त्वराहित्यविवक्षायां तु ब्रह्मतुच्छयोरपि तद्राहित्यात्तदविशेषप्रसङ्गः; नहि ब्रह्मण्यपि पारमार्थिकं सत्त्वं नाम धर्मस्त्वयेष्यते । तदपि तत्र प्रपञ्चवत् कल्पितमिति चेत्, अन्यत्रापि तस्य कल्पितत्वादविशेष एव । ब्रह्मणि च तस्य कल्पितत्वे कथं ब्रह्म परमार्थसत्? तथात्वे वा विगीतमपि कथं न तथा? एवं ब्रह्मतुच्छान्यत्वमपि दुस्साधम्; सत्यस्य तस्य असत्यवृत्तित्वव्याघातात् । तदसत्यत्वे तु सत्यासत्ययोस्तुच्छातुच्छयोश्च तादात्म्यापत्त्या व्याघातादेव । ब्रह्मणि तुच्छे च ब्रह्मतुच्छान्यत्वमसत्यं विद्यत इत्यविशेषश्च । यदप्यन्यत्किंचित् तदपि विगीते सत्यत्वं सहेत न वा? पूर्वत्र न विवादः; उत्तरत्र स्वयं सत्यमसत्यं वा? आद्ये ब्रह्मान्यत्वानन्यत्वोभयसमुच्चयोभयप्रतिषेधविकल्पेनापसिद्धान्तसिद्धसाधनत्वव्याघातादयः । द्वितीये स्वसाध्यमसत्यं वदतस्ते न किंचिदन्यैर्दूषणं देयम्; तत्प्रदानफलस्य त्वदुक्त्यैव सिद्धत्वादिति । अथ प्रतिबन्द्यभिप्रायेण विपरिवर्तं प्रसञ्जयति – सत्त्वासत्त्वमिति । समाहारद्वन्द्वोऽयम् । चकारो जैनानुधावनप्रसक्तिं सूचयति । ख्यात्यन्यथानुपपस्या सत्त्वं बाधान्यथानुपपत्त्याऽसत्त्वं किं न कल्प्यत इति भावः । प्रतिक्षेपार्थं कथंशब्दं प्रश्नार्थं मन्यमानस्य प्रत्युक्तिं शङ्कते – व्याहतेश्चेदिति । सत्त्वासत्त्वयोस्सितासितत्वन्यायेन मिथो विरोधान्नैकत्रैकदा तयोस्संभव इति भावः । हार्दमुद्गिरति – समं तदिति । तत् -व्याहतिप्रयुक्तमभवनं त्वदुक्तेऽपि समानमित्यर्थः । अयं भावः – यदि सत्त्वमसत्त्वं च मिथो विरुद्धं मन्यसे तदा तदभावयोरपि तथात्वं नान्तरीयकम् । यद्यपि परस्पराभावव्याप्यमात्ररूपाणां शीतोष्णनीलपीतादीनां मिथो विरोधेऽप्युभयाभावः क्वचिन्न विरुध्यते, दृष्टस्य दुरपह्नवत्वात्; तथाऽप्युष्णत्वानुष्णत्वनीलत्वानीलत्वादीनामिव परस्पराभावात्मनोस्सत्त्वासत्त्वयोरेकत्रोभयसमुच्चयवदुभयव्यतिरेकोऽपि व्याहत एव; यत्र सत्त्वं तत्र नासत्त्वं यथा ब्रह्मणि, यत्रात्त्वं तत्र न सत्त्वं यथा कूर्मरोमणीतिवत् । यत्र सत्त्वाभावस्तत्र नासत्त्वाभावः, यथा खपुष्पे; यत्र नासत्त्वाभावः तत्र न सत्त्वाभावः, यथा ब्रह्मण्येवेति नियमस्य निर्व्याघातत्वादिति । यदि समत्वं तर्हि त्वत्पक्षाय कुतस्तुष्यसि मत्पक्षाय किमिति कुप्यसीत्यशिक्षितप्रतिबन्दिशक्तेरनुयोगे सत्त्वासत्त्वसमुच्चयपक्षस्य प्रत्यक्षाद्यानुगुण्यमाह – दृष्टत्वादिति । अनयोस्सहभावः क्व दृष्ट इत्यत्र सर्वत्रेत्यभिप्रायेणाह – क्वचिदपीति । सर्वरूपेण – सर्वप्रकारेण । कालो देशतस्स्वभावतश्च तत्र – तत्र नियतं हि सत्त्वम्; अन्यथा सर्वनित्यत्वसर्वविभुत्वसर्वाद्वैतवादानां प्रसङ्गात् । असत्त्वमपि तथैव; अन्यथा सर्वशून्यत्वप्रसङ्गात् । एतावत् सदसत्त्वमविरोधादङ्गीकुर्मः; नान्यवद्विरुद्धमिति चेत्, सदसद्व्यतिरेकमप्येवं यथादर्शनमविरुद्धमेवाङ्गीकुरुष्व; नतु विरुद्धम् । सदसद्व्यतिरेकवादः शास्त्रेषु दृश्यत इति चेत्, तथा सदसत्त्ववादोऽपि तत्रतत्र दृश्यत एव । अन्यविषयोऽयमन्यपरश्चेति चेत्, त्वत्प्रदर्शितोऽपि तथैवेति । सदसद्विलक्षणशब्देन ब्रह्मतुच्छान्यत्वविवक्षायां दूषणान्तरमाह – न चेति । इह – प्रपञ्चे । ब्रह्मतुच्छान्यत्वस्यास्मदभिमतत्वात्तत्साधने सिद्धसाध्यत्वप्रसक्तिरिति भावः । एतेन श्लो. सत्त्वे न भ्रान्तिबाधौ स्तां नासत्त्वे ख्यातिबाधने । सदसद्भ्यामनिर्वाच्याविद्याविद्यैस्सह भ्रमः ॥ इति डिम्भजृम्भितं प्रत्यूढम् । यदपि तत्तन्निर्वचनखण्डनया सर्वमनिर्वाच्यमिति; तदप्यनिर्वचनीयनिर्वचनखण्डनया सर्वं निर्वचनीयं भवेदिति प्रतिवक्तव्यम् । निर्वचनीयत्वानिर्वचनीयत्वखण्डनयाऽपि प्रपञ्चस्यानिर्वचनीयत्वं सिध्येदिति चेत्; ब्रह्मतुच्छयोरपि तत्खण्डनया किं तन्न सिध्येत्? सिध्यतु, न ततः प्रस्तुतबाध इति चेन्न; तृतीयसौगतसीमातिलङ्घनेन तुर्यसौगतगङ्गाप्रवेशप्रसङ्गात् । श्लो. किंच निर्वनीयत्वखण्डनोक्त्यनिरुक्तितः । विश्वनिर्वचनीयत्वमखण्डितमपेक्ष्यताम् ॥ एवं त्वदभिमतानिर्वचनीयासंभवात् न तत्ख्यातिसाधने यतितव्यम् ॥ १६ ॥ इत्यनिर्वचनीयख्यातिभङ्गः ॥

4.242     रूप्यं जातं तदा चेन्न रजतमिति धीरप्रमा स्यादमुष्मिन्

कार्यासामर्थ्यमात्रान्न तदिति कथनं कल्पतेऽतिप्रसक्त्यै ।

शुक्तौ चैतत्तदात्वे कथमिव जनयेद् दुर्घटाऽनायविद्या

नाक्षादिस्त्वर्थहेतुर्न च रजतमतिस्सा हि तेनैव जन्या ॥ १७ ॥

यदपि शुक्तिप्रदेशनियताविद्याशकलशबलिताद्ब्रह्मणः किमप्यनिर्वचनीयं रजतं तदानीमुत्पन्नम् इदं रजतमिति भातीति भावयन्ति, तद्दूषयति – रूप्यमिति ॥ यदि सामग्रीविशेषात्तत्रोत्पन्नं रजतजातीयं रजतमिति गृह्येत तदाऽऽपणस्थरजतधीवदमुष्मिन्नपि रजतधीरप्रमा न स्यात् । अपि चामुष्मिन् नेदं रजतमिति बाधकधीरप्रमा स्यात् । तथा च बाधायोगादवाधितस्य सत्यत्वसिद्धिः । रजते च रजतान्यत्वमुल्लिखन्ती बुद्धिरन्यथाख्यातिस्स्यात् । अथ नेदं रजतमिति बुद्धिश्शुक्तिविषयेत्युच्यते, तदा [अनया] पूर्वसिद्धस्य रजतस्य कथं बाधः? नहि रजतसंसृष्टस्यापणादेररजतत्वबुद्ध्या रजतं बाध्येत । अन्यथा तत्र रजते नेयं शुक्तिरिति बुद्ध्या शुक्तिरेव किं न बाध्येत? ननु नेदं रजतमिति बुद्धिरध्यासाधिष्ठानं ब्रह्म रजतान्यत्वेन गृह्णती तत्रतत्र रजतात्मतां बाधतां, तर्ह्यरजतस्याधिष्ठानस्य रजतात्मताबुद्धिरन्यथाख्यातिरेवेति मुधा तत्प्रद्वेषः । अधिष्ठानरजतयोर्भेदबुद्ध्या च न रजतबाधः; किंतु तदुभयनिरूपितं तादात्म्यमेव बाध्येत । तथाऽप्यधिष्ठानस्य निषिध्यमानात्यन्ताभावाधिकरणत्वग्राहिणी निषेधबुद्धिस्तत्रत्यं रजतत्वमेव बाधत इति चेद्बाध्यतामधिष्ठाने तत्र रजतत्वम्; किमायातं तत्रोत्पन्नस्य तन्निष्ठरजतत्वस्य, निषेधाभावात्? न हि रजतत्वं किंचिन्निष्ठात्यन्ताभात्मतियोगित्वग्रहणेन सर्वत्र मिथ्या भवति । अपि चास्य रजतत्वस्य स्वाधिकरणतया प्रतिपन्ने निषेधाद्बाधः? उत यत्किञ्चिन्निष्ठात्यन्ताभावबोधात्? आद्येऽन्यथाख्यातिरनिवार्या; तदनधिकरणे तदधिकरणत्वबोधात् । द्वितीये विगीतस्य को विशेषः, सर्वस्य सर्वनिष्ठत्वाभावात्? श्लो. जाते च सदसद्बाह्ये सदसद्धीः क्रमात्सती । स्वच्छायामिव दुर्लङ्घ्यामन्यथाख्यातिमावहेत् ॥ अन्यथाख्यातिरस्तीति परबुद्धिं निषेधता । इष्टा तदन्यथाख्यातिरन्यथा किं निषिध्यते ॥ अथ स्यात् – उत्पन्नमेव रजतं रजतकार्यानर्हतया नेदं रजतमिति निषिध्यते, अगोप्ता राजा न राजेति न्यायादिति; तत्राह – कार्येति । अयमाशयः – नहि किंचिज्जातीयं कुतश्चिद्वैगुण्यात्तज्जातीयकार्यानर्हत्वेनातज्जतीयमनृतं वा भवति, अतिप्रसङ्गात् । अतस्तज्जातीयेऽप्यत्रातज्जातीयत्वोपचारमात्रमिति न बाधसद्भावः । ननूपचारोऽपि बाधाविनाभूतः; सत्यम्; न तत्रोपचर्यमाणस्वभावबाधः, किं तूपचारशब्दमुख्यार्थबाधमात्रम् । तथाऽप्यरजतशब्दमुख्यार्थबाधे रजतं प्राणित्येवेति । एवमप्यत्र योज्यम् – कार्यासामर्थ्ये सत्यपि तदिति कथनं नातिप्रसक्त्यै कल्पत इति । ननु समर्थासमर्थस्वभावयोरैकजात्यासंभवादतज्जातीये कथं तदिति कथनम्? मैवम्; अवान्तरवैजात्यकल्पनेऽपि तज्जातीयत्वानपायात् । अन्यथा कथं तवात्र रजतव्यवहारः?

तज्जातीयत्वव्यामोहादिति चेत्; आश्रितोऽसि तर्हि विपरीतख्यातिम् । सारूप्यादिति चेन्न; सरूपमिति बुद्धौ सारूप्यतिरस्कारेण किंचिदिति बुद्धौ चोपादित्साद्ययोगात्; सरूपे तद्बुद्धिद्वारा सारूप्यस्य प्रवर्तकत्वे दत्तोत्तरत्वात् । अतोऽवान्तरवैषम्येऽपि रजतजातीयमेवोत्पन्नं वक्तव्यम् । न च तस्य बाधस्सुवचः । अबाधे कथं पश्चान्नानुवर्तत इति चेत्, स्वाभ्युपगतात् प्रणाशादेवेति पश्य । नाशोऽपि बाध एवेति चेन्न; तस्य प्रतिपन्नोपाधौ निषेधरूपत्वाभावात् । बाधाभावे नाशोऽपि न स्यादिति चेन्न; ‘जातस्य हि ध्रुवो मृत्युः’ इति न्यायेन जातत्वादेव नाशोपपत्तेः; त्वया चानिर्वचनीयं रजतं जातमित्येव समर्थनादिति । हेतुनिरूपणासंभवादप्यनिर्वचनीयरजतोत्पत्तिं दूषयति -शुक्ताविति । कथमिव – न कथंचित् । अयं भावः – तावदहेतुकमिदं रजतं जायेत, लोकायतमतप्रसङ्गात् । हेतुश्च न तत्स्वरूपम्, व्याघातात् । नच तत्प्रागभावमात्रम्; तस्यानादित्वेन प्रागपि तज्जनकत्वप्रसङ्गात् । अत एव न तत्सहकृतं तन्निरपेक्षं वा स्वरूपानाद्यविद्यामात्रम् । अविद्यासन्तानपक्षे च सन्तानिनः कस्यचिद्रजतकारणत्वं किं दृष्टत्वादङ्गीक्रियते? कुतश्चित् कल्प्यते वा? नाद्यः, असिद्धेः । न द्वितीयः, कारंणसंभवात्कार्यकॢप्तिस्तया च तत्कॢप्तिरिंति मिथस्संश्रयात् । न ह्यत्र रजतमुत्पन्नमिति दृष्टम्; तद्बुद्धेरन्यथासिद्धतया न तयाऽपि तदुत्पत्तिकॢप्तिः । ‘इदं सर्वमसृजत’ इति श्रुत्यसंकोचादिदङ्कारविषयस्य शुक्तिरजतस्यापि सृष्टिरवगम्यत इति चेन्न; प्रमाणसिद्धविषयत्वात्तत्र ‘यदिदं किं च’ इत्यनुवादस्य । ननु ‘सत्यं चानृतं चेत्’ इति अनन्तरमेवाप्रामाणिकमप्युपात्तमिति चेन्न; अनृतशब्दस्यात्र विकारिवस्त्वन्तरपरत्वात् । अन्यथा ‘सत्यमभवत्’ इत्यादिना समन्वयवैघट्यादिति । दुर्घटेत्यनेन तत्स्वरूपाद्यसंभवं व्यञ्जयति । स्वयं दुर्घटाऽपि सती यदि दुर्निरूपं किञ्चित्कार्यं जनयेत्, अन्यथा – ख्यातिमपि तथाभूतां किं न जनयेत्? वरं च भ्रान्तितद्विषयजननादुभयसम्मताप्रमाणख्यातिमात्रजननमिति च भाव्यम् । अनाद्यविद्यायास्तदातनकार्यजनकत्वं सहकारिवशात्स्यादित्यत्र संभावितान् सहकारिणो दूषयति – नाक्षादिरिति । आदिशब्देन तद्दोषग्रहणम् । इन्द्रियाणि तावन्नार्थमुत्पादयन्ति; क्वचिदप्यदृष्टेः । तद्दोषाश्च तज्जन्यधीवैपरीत्यापादनेन चरितार्था नार्थविशेषजनकत्वेन कल्पनीया इति भावः । अस्तु रजतबुद्धेरेव सहकारित्वमित्यत्राह – नचेति । किमत्र पूर्वानुभूतरजतस्मृतिरेव रजतजनकतया शङ्क्यते, उत स्वविषयेण सहाध्यस्यमाना, आहोस्वित् आपणस्थरजतबुद्धिवद्विषयजन्येति विकल्पे प्रथमं दूषयति – न चेति । नहि धीः स्वविषयसजातीयमुत्पादयन्ती क्वचिद्दृष्टा । अन्वयव्यतिरेकमहिम्ना त्वन्यथाख्यातिजनकत्वमागोपालं प्रसिद्धमिति भावः । द्वितीयं दूषयति – सेति । अत्र तेनेति सहयुक्ते तृतीया । सविषयवृत्त्यध्यासवादिना त्वया विषयेण सह जायमाना या बुद्धिरिष्यते सा चेद्विषयं जनयेत्, विपरिवर्तः किं न स्यादिति भावः । तृतीयदूषणेऽप्येतदेव वाक्यमावर्तनीयम् । अत्र तेनेति कर्तरि तृतीया । तज्जन्यायास्तदुत्पादकत्वे ह्यन्योन्याश्रयः प्रसज्येत । अथ स्यात् – अस्ति सर्वसाक्षिभूतं किमपि चैतन्यम्, तदेव रजतधीरूपेणापि विवर्तते, तत्सहकृताविद्यया कालविशेषनियतरजतोत्पत्तिरिति । अत्राप्येतदेव पठितव्यम् । तत्र ते न इति पदद्वयम् । या साक्षित्वेन तवाभिमता संवित् साऽनादित्वात् नैव जन्या; अतस्साऽपि तत्कालनियतरजतं जनयितुं नार्हति; सहकार्यन्तरस्य [च] अन्वयव्यतिरेकादिमतः स्सचिददृष्टेरिति भावः ॥ १७ ॥ इति अनिर्वचनीयरजतोत्पत्तिभङ्गः ॥

4.243     सत्त्वासत्त्वद्वयारव्यद्वयविरहचतुष्कोटिमुक्तं च तत्त्वं

व्याघाताद्यैर्विधूतं न यदि तव कथं सप्तभङ्गीनिषेधः ।

तुच्छालीकादिशब्दाः क्वचन सति परं क्वाप्यसत्त्वे प्रवृत्ता

वन्ध्यापुत्रादिशब्दैर्भजति च समतां विध्यलीकादिवादः ॥ १८ ॥

संविद्व्यतिरिक्तं सर्वं सर्वत्राविद्यमानं सत्प्रतिभातीति पक्षः प्रतिक्षिप्तः । अथ संविदपि तथेति पक्षः प्रतिक्षिप्यते – सत्त्वासत्त्वेति ॥ यदाहुः – ‘न सन्नासन्न सदसन्न चाप्यनुभयात्मकम् । चतुष्कोटिविनिर्मुक्तं तत्त्वं माध्यमिका विदुः’ ॥ इति । अयमत्राभिसन्धिः – सच्चेत् किंचित् न तद्बाध्येत । सर्वदा सर्वत्र सर्वधा च स्यात् । नान्यथा, स्वभावपरित्यागायोगात् । असच्चेत् न [जा]ख्यायेत । [तन्न]नच कदाचित् कुत्रचित् कथंचिदपि स्यात्; तत एव । नापि क्वचित्सत्त्वासत्त्वसमुच्चयः; उक्तदूषणसमुच्चयात् व्याघाताच्च । उभयशून्यत्वं च तत्समुच्चयसमानदूषणम् । अतः सदादिरूपकोटिचतुष्टयविनिर्मुक्तं सर्वं निरधिष्ठानमेव संवृतिशक्त्या भाति । इदमेव तत्त्वम् । अयमेव सर्वज्ञोपदेशसारः । शुश्रूषुबुद्धितारतम्यात् क्रमेण तद्बुद्ध्यारोहाय भिक्षुपादप्रसरणन्यायेन क्षणभङ्गादिनिबन्धनमिति । एवं वदता स्वपक्षतत्प्रतीतिस्वागमतर्कतन्मूलतत्त्वनिर्णयजयादीनां सत्यत्वं प्रतिपाद्येत न वा? पूर्वत्र सर्वमसत्यमिति स्वागमव्याघातः; स्वोक्तिव्याघातश्च । उत्तरत्र किं तद्दूषणेन? अदूषितस्तर्ह्यस्मत्पक्षस्सिध्येदिति चेन्न; साधकाभावे दूषणानुक्तिमात्रेण सिद्ध्यसंभवात् । संवृतिसत्यं स्वपक्षादिक्रममङ्गीकुर्म इति चेत्, एवमपि तथाभूतपरपक्षादेरिव स्वपक्षादेरपि सिद्धिर्न स्यात् । सत्यपि केनचिदकारेणाविशेषे सर्वबाधस्तयैवास्मत्पक्षस्य विशेषस्सिध्यतीति चेत्; मिथो विरुद्धयोर्बलाबलवैषम्याभावे किं कस्य बाधकं बाध्यं वा? विधिनिषेधयोर्निषेधस्य प्रसक्तिसापेक्षत्वेन परत्वाद्बलीयस्त्वमिति चेन्न; संवृतिदोषमूलत्वाविशेषे परत्वस्याकिञ्चित्करत्वात् । अन्यथा चतुष्कोटिविनिर्मुक्तं तत्त्वं नास्तीत्यस्मदुक्तस्य निषेधस्य बलीयस्त्वेन त्वन्मतोन्मूलनप्रसङ्गात् । असंजातविरोधिकालोत्पन्नतया वा पूर्ववृत्तविधिप्राबल्यं किं न स्यात्? निषेधसिद्धान्तस्यानादित्वात् न तत्पूर्वं किंचिदिति चेत्, विधिसिद्धान्तस्याप्यनाद्यनयतया ततः परत्वं कस्यचिन्न स्यात् । यत्तु सतस्सर्वप्रकारसत्त्वं स्यात्, अन्यथा स्वभावविरोधप्रसङ्गादिति; तदसत्; दशकालादिनियततयैव तत्तद्वस्तुस्वभावसिद्धेः, तस्य च स्वभावस्य कुतश्चिद्विरोधाभावात् । तथा अनभ्युपगमे स्वभावग्रहणस्यैवासंभवात् प्रसङ्गोऽपि निर्मलः, एतेनासत्स्वभावस्य सर्वथैवासत्त्वं स्यादिति प्रसङ्गोऽपि प्रत्युक्तः । खरशृङ्गादौ तथा व्याप्तिर्दृष्टेति चेन्न; घटादिषु कालादिनियतासत्त्वदृष्ट्या व्याप्तेर्दुर्ग्रहत्वात् । माभूदसत्त्वमात्रं साध्यव्याप्तं, खरशृङ्गादितुल्यं चासत्त्वं प्रसञ्जकमिति चेन्न; तस्य विगातेष्वस्माभिरनभ्युपगमात् प्रसञ्जकप्रसञ्जनीययोरविशेषप्रसङ्गाच्च । एतेन यदसत् तत्सर्वथैवासत् यथा खरशृङ्गम्; विगीतं च तथा; यत्पूर्वापरदेशकालयोरसत्तन्मध्येऽप्यसत्; यथा खपुष्पम्; इदं च तथेत्याद्यनुमानमपि निकृत्तमूलम् ।

ननु ह्रस्वत्वदीर्घत्वाणुत्वमहत्त्वान्यत्वानन्यत्वाद्यापेक्षिकधर्माणां स्वभावत्वे निरपेक्षत्वप्रसङ्गः, परसापेक्षत्वे च किंचित्प्रति स्वभावत्वं न स्यात् । न हि खपुष्पादेश्शून्यत्वस्वभावः परसापेक्षः स्यात् । मैवम्; यथादृष्टि सर्ववस्तूनां सापेक्षनिरपेक्षस्वभावभेदस्य दुरपह्नवत्वात् । यच्च – श्लो. बुद्ध्या विविच्यमानानां स्वभावो नावधार्यते । अतो निरभिलप्यास्ते निःस्वभावाश्च देशिताः दर्शिताः ॥ इति, तदप्यसत् । तत्स्वभावानवधारणस्यापि स्वभावानवधारणाद् विपरीतापत्तेः । तदेवमुक्तमनुक्तं च दूषणजातमभिप्रेत्योक्तम् – व्याघाताधैर्विधूतमिति । श्लो. सर्वथाऽनुपपत्तेश्चेत्येवं सूत्रयता स्फुटम् । सर्वदोषाकरत्वं च पक्षस्यास्य प्रदर्शितम् ॥ अविद्यां विश्वजननीमर्धपञ्चमरूपिणीम् । निवृत्तिपञ्चमाकारां कल्पयन्तोऽप्य[धःकृताः]तः क्षताः ॥ ननु व्याघातादयोऽप्यसत्याः; सदसदादिविकल्पानुपपत्तिदुःस्थत्वात् । अतस्ते नास्मत्पक्षं दूषयिष्यन्तीत्यत आह – न यदीति । सप्तभङ्ग्युपादानं सर्वस्य पक्षान्तरस्योपलक्षणम् । व्याघातादिभिरेव हि सप्तभङ्ग्यादिकं त्वयाऽपि दूष्यते; ते चेत् त्वत्पक्षे न दोषाः, त्वत्प्रतिपक्षेऽपि न दोषा भवेयुः । अतः कथं त्वया तन्निषेधः कार्य इति भावः । अथ ब्रूषे – तुच्छादिशब्दाः क्वचिद् व्युत्पन्ना न वा? नेति तावन्नाङ्गीकरोषि; व्युत्पन्नाश्चेद्विगीते, अन्यत्र वा? विगीते चेदागतोऽसि मध्यमागमानां मार्गम्; अन्यत्र चेत्तद्दृष्टान्तेन विगीतेऽपि तुच्छत्वं साधयामः – यश्शब्दार्थस्सतुच्छः यथा त्वदिष्टोऽन्यः तथा च विगीतमिति; तत्राह – तुच्छेति । क्वचिदन्यत्र विद्यमाने हि पदार्थे केवलं किंचिन्निष्ठाभावप्रतियोगित्वापेक्षया तुच्छशब्दः अलीकमिथ्यानृतादिशब्दाश्च स्वाभावाधिकरणाध्यस्तोपाधिकाः, न तु निरुपधिनिषेधमपेक्ष्य प्रवर्तन्ते, यतस्त्वत्पक्षावकाश इति भावः । यदप्युच्यते -द्विविधमलीकं विधिपदं निषेधपदं चेति; आद्यं विगीतम्; द्वितीयं वन्ध्यासुतादीति; एतद्दूषयति – वन्ध्यापुत्रेति । अयं भावः – वन्ध्यासुतादेरपि न निषेधैकविषयत्वम् । ‘एष वन्ध्यासुतो याति शशशृङ्गधनुर्द्धरः । मृगतृष्णाम्भसि स्नातः खपुष्पकृतशेखरः ॥ इत्यादिषु तदभावात्; विगीतस्यापि न विध्येकविषयत्वम् । आकारभेदैरपि निषेधैस्सर्वत्र निषेधस्य प्रसिद्धत्वात्, त्वया च सर्वप्रकारतस्तन्निषेधात् । अत ईदृशो विभागो नोपपद्यत इति । एवमविशेषापादनात् किं त्वया लब्धमिति चेत्; एवं विशेषवर्णनाच्च किं त्वया लब्धम्? व्यवहारविशेषव्यवस्थापनमिति चेत्, तन्निषेधो मयाऽपि लभ्यत इति पश्य । एवं वाऽभिप्रायः – विध्यलीकशब्दो न कंचिदर्थं बोधयति; अयोग्यपदसमभिव्याहाररूपत्वात् [निषेधालीकपदवदिति] । किंचिदिति हि विधिशब्दो बोधयेत् न किंचिदिति चालीकशब्दः । कथं तयोस्सामानाधिकरण्यसंभवः? यद्यपि ‘अत्यन्तासत्यपि ज्ञानमर्थे शब्दः करोति हि; तथाऽपि वन्ध्यासुतशब्दार्थवत् विध्यलीकशब्दार्थस्याप्यसिद्धेर्विवक्षितासिद्धिरिति । आदिशब्देन संवृतिसत्यव्यावहारिकसत्यादिप्रलापसंग्रहः । संवृतिसत्यमिति तावत् किमुच्यते? किं संवृतिरेव सत्यमुत संवृतिसंबन्धि किंचित् सत्यमिति? नाद्यः, संवृतिशब्दस्य मिथ्यार्थपरत्वे सत्यशब्दसामानाधिकरण्यायोगात् । तदाहुः – ‘संवृतेर्न तु सत्यत्वं सत्यभेदः कुतो न्वयम् । सत्या चेत् संवृतिः केयं मृषा चेत् सत्यता स्तः ॥ इति । सत्यार्थपरत्वेऽपसिद्धान्तः प्रपञ्चमिथ्यात्वप्रयोजकत्वायोगश्च । न द्वितीयः; सत्यस्य सतः कुतश्चित् संवृतिसंबन्धात् असत्यत्वासिद्धेः । न हि किंचिज्जातीयं तद्विजातीयसंबन्धात्स्वयमतज्जातीयं दृष्टम् । अथ वस्तुतोऽसत्यमेवासत्यत्वसंवृत्या सत्यत्वेन भासमानं संवृतिसत्यमित्युच्येत, तथा सति विशेषाग्रहनिबन्धनेयमन्यथाख्यातिरेव कक्षीकृतेति न क्वचिदपि ख्यात्यन्तरकल्पनावकाशः । एतेन संवृत्तिर्नाम भ्रान्तिरेव; तया मिथ्याभूतमेव सत्यत्वेन भासितं संवृतिसत्यमित्यपि निरस्तम् । अथ शुक्तिकारजतमितिवत् संवृतिरूपाधिष्ठानाध्यस्तं सत्यं संवृतिसत्यमित्यभिमतम्; तथा सति निरधिष्ठानभ्रमपरित्यागप्रसङ्गः । संवृतिमात्रे निरधिष्ठानं भ्रमं ब्रूम इति चेत्; तद्वदेव संभवे किं प्रपञ्चस्य सत्यासत्यादिविकल्पासहसंवृतिरूपाधिष्ठानकल्पनेन? न च संवृतिरधिष्ठानं भवितुमर्हति; शुक्तिवत् केनचिदाकारेण तद्भानादृष्टेः । अत एव संवृतिरपि संवृत्यन्तरेऽध्यस्तेति निरस्तम्; संवृतिसन्ततेरसन्ततानन्तसंवृतिवर्गस्य चानुपलम्भात् । सन्ततिपक्षे च पूर्वपूर्वसंवृतीनामुत्तरोत्तरसंवृतिकारणत्वमात्रं स्यात्; न त्वधिष्ठानत्वम्, असमानकालत्वात् । न हि नष्टे शुक्तिकादौ वर्तमानतया रजतमध्यस्यमानं दृष्टम् । असन्ततिपक्षे च सर्वसंवृतीनामनादित्वेन कल्पनासिद्धत्वायोगात् किमधिष्ठानेन? न ह्यकल्पितस्यापणस्थरजतादेरन्यदधिष्ठानमन्विष्यते । एवं तैमिरिककेशस्तबकादिन्यायेन संवृत्याख्यदोषाध्यस्तं संवृतिसत्यमित्यप्यसारम् । अतिदूरत्वात्यासन्नत्वसादृश्यतिमिरकाचपटलादिवत् संवृतिसंज्ञस्य दोषस्य कुतश्चित्यमाणादसिद्धेः । अलीकप्रकाशान्यथानुपपत्त्या तत्कॢप्तिरिति चेत्, किं संवृतिरलीकमप्रकाशमाना प्रकाशयति, प्रकाशमाना वा? आद्ये अवगमाधीनसत्ताकत्वाभावात् स्वरूपसत्यत्वप्रसङ्गः । द्वितीये त्वसिद्धिः; सर्वलोकानुपलब्धिधबाधितत्वात् । न हि त्वयाऽपि तादृशी संवृतिः काचिदुपलभ्यते ।

अलीकप्रकाशान्यथानुपपत्तिप्रकाशिताऽपि विश्वं प्रकाशयतीति चेन्न; अन्योन्याश्रयणात् – तत्प्रकाशादलीकप्रकाशस्तन्मूलकल्पनया च तत्प्रकाश इति । अपि चालीकप्रकाशस्य दोषोऽपेक्ष्यत इति कुत्रावगतम्? संप्रतिपन्नभ्रमेष्विति चेत्; तत्र तर्ह्यधिष्ठानदृष्टसारूप्यदोषाश्रयादिकमपि कारणत्वेन दृष्टमिति तान्यपि किं न कल्प्यन्ते? कल्प्यमानान्यपि तानि काल्पनिकान्येव सिध्येयुरिति चेत्; किमनया संवृत्यादिगणकल्पनया? तद्वदेव प्रपञ्चो दोषादिनिरपेक्षः कल्पित इत्यङ्गीकुरुष्व । तथाऽङ्गीकारे च संवृतिसत्यमिति रिक्तं वचः । एवं व्यावहारिकसत्यशब्दोऽपि न क्वचिद्विवक्षितसाधकः; कुतश्चिदपि समासादुपलभ्यमानसत्यत्वप्रतिषेधासिद्धेः । न च व्यावहारिकशब्दो मिथ्यापर्यायः । तथात्वे सत्यपि सामानाधिकरण्ये सत्यशब्दान्वयवैघट्यम्, वैयधिकरण्ये त्वदिष्टस्यासिद्धिः । न हि मिथ्यारजतादिसंबन्धिशुक्त्यादिकं मिथ्या भवति । अथ शब्दज्ञानानुपाती वस्तुशून्यो विकल्प इति न्यायात् व्यवहारजन्यविकल्पकल्पितं व्यावहारिकसत्यमिति मन्वीथाः, तदपि न; प्रत्यक्षानुमानवेद्यस्य प्रपञ्चस्य शब्दकल्पितत्वाभावत् । अत्र तु शशशृङ्गादौ शब्दकल्पित्वं कथंचिदभ्युपगम्येत, तत्रैव व्यावहारिकसत्यत्वं स्यात्; न तु प्रत्यक्षादिसिद्धेष्विति स्वेष्टविपरीतापत्तिः, असतः प्रातीतिकसत्यस्य च व्यावहारिकसत्यत्वानभ्युपगमात् । अपि चेदमपारमार्थिकं सत्यं पारमार्थिकसत्यतया भातीत्यङ्गीकार्यम्; अन्यथा प्रवृत्त्यनुपपत्तेः । तथा चान्यथारव्यात्यनपनयात् किं ख्यात्यन्तरेणेति ॥ १८ ॥

4.244     व्याघातादिप्रसङ्गौ प्रमितिपरिभवे मानतोऽमानतो वा मानान्मानस्य सिद्धौ स्वतदितरपरित्राणमेकप्रवृत्त्या । साधीयानेष पन्थास्समयिभिरखिलैरर्थ्यतां सार्थनीत्या नोचेदुच्छिन्नलोकव्यवहृतिनियमाः कामचाराः कथास्स्युः ॥ १९ ॥

ननु प्रमेयसिद्धिः प्रमाणादेष्टव्या; प्रमाणं चासिद्धं न साधकं भवति । तत्सिद्धिश्च स्वतोऽन्यतो वा? पूर्वत्रात्माश्रयः; उत्तरत्रानवस्था । अतः प्रमाणमात्रस्यैवासंभवान्न किचिदपि प्रमेयं, न कश्चिदपि प्रमाता, न काचिदपि व्यवहृतिरिति; तत्राह – व्याघातेति ॥ अयं भावः – प्रमाणस्य प्रतिषेधः प्रमाणतो वा स्यादप्रमाणतो वा?

पूर्वत्र व्याघातः; प्रमाणस्य सर्वस्य प्रतिषेधात्, तदर्थं च कस्यचित् प्रमाणत्वेनोपादानात् । ननु उपक्रमापच्छेदपदाहवनीयादिन्यायेषु प्रमाणत एव प्रमाणबाधस्त्वयेष्यते । सत्यम्; न प्रमाणमात्रं बाध्यते, येन व्याघातः स्यात् । किंतु स्वेतरत् किंचित् प्रमाणम् । तथाऽपि प्रमाणस्य सतः कस्यचित्कथं बाध इति चेन्न; तत्प्रामाण्यमात्रस्यानपहारात् । प्रबलविरुद्धविशेषे हि प्रामाण्याभावस्समर्थ्यते; इह पुनः कृत्स्नप्रमाणबाधाशक्यत्वमुच्यते ।

उत्तरत्र व्याघातातिप्रसङ्गौ; यदि ह्यप्रमाणतः प्रमणं प्रतिषिध्येत, तत्प्रतिषेधोऽपि तत एव प्रतिषेध्यः स्यात्, त्वत्पक्षश्च सर्वस्सर्वैः प्रतिपक्षैः, रज्ज्वादिबुद्धिश्च सर्पादिभ्रमैः । कथं तर्हि भूदलनबुद्ध्या रज्जुसर्पनिवृत्तिः? इत्थम् – उत्तरधियः पूर्वविपरीताकारावगाहित्वेन पूर्वभ्रमानुवृत्तिप्रतिरोधात्; न हि भूदलनबुद्धिबाधिततया तत्र सर्पस्य मिथ्यात्वव्यवस्थापनम्; तथा सति रज्जोरपि तत्प्रसङ्गात्; किन्तु प्रमाणभूतेनाधिष्ठानयाथात्म्यज्ञानेन बाधितत्वात् । एवं प्रमाणस्याप्यप्रमाणबाधितत्वमात्रेण न मिथ्यात्वं स्यात् ।

श्लो. अप्रमाणतयाऽभीष्टान्न बाधस्तर्कतः क्वचित् । अनुग्राह्यप्रमाणानामभावे परिगृह्यते ॥

प्रसञ्जनीयधर्मस्य मानसिद्धो विपर्ययः । प्रमाणं भवति क्वापि प्रसञ्जकविपर्यये ॥

तदेवं प्रमाणतोऽप्रमाणतो वा प्रमितिपरिभवे व्याघातातिप्रसङ्गौ व्यवस्थिताविति । प्रमाणसिद्धिः स्वतोऽन्यतो वेति विकल्पे तु यथादर्शनमुभयथाऽपीति ब्रूमः । स्वपरनिर्वाहकसमाधिना त्वात्माश्रयानवस्थयोरपसारणम् । तदेवाह – मानादिति । नहि वयमप्रमाणात्प्रमाणस्य (प्रमाणतया?) अन्यथा वा सिद्धिं ब्रूमः, किन्तु प्रमाणतः । तत्र व्यक्तिभेदे तु प्रमाणान्तरात्प्रमाणसिद्धिः, यथा एतद्दृष्टम्, इदं द्रक्ष्यामीति । यदा त्वीदृशी प्रमेति प्रमितिमात्रं गृह्यते, ईदृशं वा प्रमितिकरणमिति प्रमाकरणमात्रं, तदा पुनरेकहेलया स्वस्वेतरलक्ष्यसमुदायव्यवस्थापनान्न अनवस्था, आत्माश्रयो वा, शब्दशब्दादिन्यायत् । तर्ह्यप्रमाणादपि प्रमाणप्रतिक्षेपे स्वपरनिर्वाहकसमाधिना स्वात्माऽपि प्रतिक्षिप्यतामिति चेन्न; अविरुद्धविषयत्वात् स्वपरनिर्वाहस्य । यथा –

श्लो. अहं सत्यं वदामीति स्वोक्तिः स्वपररक्षिणी । न कदाचिद्वदामीति वादस्तु स्वोक्तिबाधितः ॥

मानस्थापकमानस्य मानसंक्षोभकस्य च । गतिरेवमिति प्रेक्ष्य गहनां कुहनां त्यज ॥

सर्वैरपि सिद्धान्तिभिरियं गतिरनतिलङ्घनीयेत्यभिप्रायेणाह – साधीयानिति । समयिभिरखिलैः – प्रमाणस्यापकैरिव तद्दूषकैरपीति भावः । व्यावहारिकप्रमाणव्यवस्थाऽपि हि क्वचित्क्वचित् स्वपरनिर्वाहकसमाधिमनुरुध्यैव प्रवर्तेत । मिथ्यात्वादिसाधकेषु च त्वयाऽभ्युपगम्यते । तस्मात् अर्थ्यताम् – इष्यतामित्यर्यः । सार्थनीत्या – यथा ‘विपश्चित्प्रयुक्तस्सर्वश्शब्दस्सार्थः’ इति वाक्ये तदन्तर्गतपदानामपि सार्थकत्वमविशेषेण संप्रधार्यते । यद्वा त्वद्व्यापारस्सर्वोऽपि निरर्थकः सार्थको वा? आद्ये किं स्वपक्षस्थापनपरपक्षदूषणादिप्रयासेन? द्वितीये, तत्सार्थत्वं कस्यचित्प्रमाणस्यार्थः स्यात्, न वा? न चेत्, न तत्सिद्धिः । प्रमाणार्थश्चेत् तत्प्रमाणाभ्युपगमः । अथवा तीर्थयात्रादिप्रवृत्तस्सार्थः परस्परविरुद्धाभिप्रायवतां समवायेऽपि केनचिदाकारेणाभिप्रायसाम्यादन्योन्याविघातेन गन्तव्यं गच्छति; तथा मिथो विरुद्धावष्टम्भेऽपि सिद्धान्तिभिः ‘प्रमाणात्प्रमेयसिद्धिः’ इत्यादिकं लौकिकपरीक्षकसेतुमभिन्दानैः प्रस्थातव्यमिति । एवमनभ्युपगमे बाधकमाह – नो चेदिति । कथाः – वादजल्पवितण्डारूपाः उच्छिन्नलोकव्यवहारनियमतया कामचाराः स्युः – वक्तव्यावक्तव्यकर्तव्याकर्तव्यविभागरहिततया न तत्त्वनिर्णयादिफलपर्यन्ताः स्युरिति भावः । यद्वा कथाः – साधनदूषणाद्युक्तयः सदसद्भावानादरेण स्वच्छन्दतः स्युरिति । ननु सर्वक्षोभकस्य कथासंक्षोभप्रसङ्गेनापि किमनिष्टमापादितम्? एवं वदतस्ते किञ्चिदनिष्टमस्ति वा न वा? न चेत्, ‘न सन्नासत्’ इत्यादिना परपक्षो न दूष्यः । अस्ति चेत्, त्वद्वाक्यमात्रेण त्वत्पक्षो दुष्ट इत्यनिष्टमापादितमेवेति ॥ १९ ॥ इति प्रमाणाभावोक्तिभङ्गः । निरधिष्ठाननिरुपाधिकासत्ख्यातिभङ्गः ॥

4.245     ज्ञानाकाराधिकं हि प्रथितमिदमिति श्वेतपीतादि बाह्यं

तादात्म्ये तस्य साध्ये सहमतिनियमाद्यन्यथैवात्र सिद्धम् ।

ग्राह्यात्मत्वान्मृषा स्यान्मतिरपि यदि वा ग्राह्यमप्यस्तु तथ्यं

किंचान्योन्यं विरुद्धैर्युगपदवगतैर्धीरभिन्ना कथं स्यात् ॥ २० ॥

अथ नास्तिक्यमान्द्यात् संविदपलापे दुर्बलबुद्धीनां योगाचाराणामात्मख्यातिमपाकर्तुं प्रत्यक्षविरोधप्रतिपिपादयिषया बाह्यार्थसिद्धिं तावदाह – ज्ञानाकारेति ॥ ज्ञायत इदमिति वा जानामीदमिति वा बोधे क्रियारूपाया बुद्धेः कर्मरूपतया प्रसिद्धं श्वेतपीतादिवस्तुजातं बुद्धितत्त्वात् बाह्यमेव भवितुमर्हति; अन्यथा क्षणभेदसन्ततिभेदयोरपि केनचित्ज्ञानेन गृहीतावगृहीतौ च क्षणभेदाद्यसिद्धिप्रसङ्गेन दत्तोत्तरत्वात् । ततश्च भेदमात्रापह्नवे त्रय्यन्तकुदृष्टिवादस्य स्वीकारः । भिद्यमानापह्नवे तु माध्यमिकमतावतार इति भावः । एतेन – ‘अविभागो हि बुद्ध्यात्मा विपर्यासितदर्शनैः । ग्राह्यग्राहकसंवित्तिभेदवानिव लक्ष्यते ॥ इति प्रलपितं प्रत्युक्तम् । श्वेतपीतादि बाह्यमिति वदतश्चायं भावः – बुद्धिबोध्ययोरभेदं ब्रुवता विरुद्धधर्माध्यासेन भेदः कश्चिदङ्गीकृतो न वा? न चेद्दत्तमेवोत्तरम् – क्षणभेदाद्यसिद्धिप्रसङ्ग इति । अङ्गीकृतश्चेत्, श्वेतपीताद्यनेकाकारग्राहिण्येकत्र ज्ञाने कथं मिथोविरुद्धश्वेतपीतादितादात्म्यसंभवः? मिथो विरुद्धयोरेकबुद्धिविषयत्ववदेकबुद्ध्याकारत्वमप्यविरुद्धमिति चेन्न; दर्शनादर्शनाभ्यां विशेषात् । एकत्वविरोधः एकदैकाश्रयत्वविरोधश्च श्वेतपीतादेर्दृष्टः; न त्वेकधीविषयत्वविरोधः; त्वया तु श्वेतपीतादेर्बुद्ध्याकारत्वं वदता बुद्ध्यैक्यं बुद्धिधर्मत्वं वोच्यते; द्वितयमपि व्याघातविघटितम् । अतो बुद्ध्यतिरिक्तार्थस्य बुद्धिवदबाधितोपलब्धिसिद्धत्वात् न तदभावस्साध्य इति । सूत्रितं चैतत् ‘नाभाव उपलब्धेः’ इति । ननु भेदोपलम्भमात्रात् न भेदसिद्धिः; द्विचन्द्रादावपि प्रसङ्गात् । बाधात्तत्र तथेति चेन्न; अविशेषात् । कथमविशेषः? न हि प्रत्यक्षतो बोध्यबाधः; नेदमस्तीति सार्वत्रिकनिषेधाभावात् । अनुमानादिकं तु न स्वोपजीव्यप्रत्यक्षप्रतिषेधक्षममिति चेन्न; ज्वालैक्यादिप्रत्यक्षस्यानुमानादिना बाधाभ्युपगमात् । तत्र प्रत्यक्षस्याचिरनिर्वापितारोपितप्रदीपन्यायेनान्यथासिद्धिशङ्काग्रस्ततया दौर्बल्यमिति चेन्न; इहापि प्रतिविम्बभेदोपलब्धिन्यायेनान्यथासिद्धिसंभवात् । ततश्च ग्राह्यग्राहकयोरनुमानादभेदसिद्धिरित्यत्राह – तादात्म्य इति । तस्य वेद्यतयैव सिद्धस्य पदार्थस्य वित्तितादात्म्ये सिषाधयिषितेऽस्मिन् सहोपलम्भनियमादिलिङ्गमन्यथैव सिद्धमित्यर्थः । यद्यपि स्वयंप्रकाशवादे वित्तिवेद्ययोस्सहोपलम्भ[नियम]स्सिद्धः, तथाऽपि न तावता तयोर्मिथस्तादात्म्यसिद्धिः; भिन्नस्यापि वेद्यस्य स्वयंप्रकाशसमकाले प्रकाशमानतया तेन सहोपलम्भोपपत्तेः । नियमस्तु स्थिरपक्षे दुर्वचः; कालान्तरे पुरुषान्तरे चासहोपलम्भात् । अतः – सहोपलम्भनियमादभेदो नीलतद्धियोरिति त्वप्रयोजकादप्रयोज्यव्यपदेशः । ननु यद्यतो भिद्यते न तत्तेन सहोपलभ्यते, यथा घटेन पट इति व्यतिरेकशुद्ध्या व्याप्तिसिद्धौ कथमप्रयोजकत्वम्? इत्थम् – व्यभिचारेण व्यतिरेकस्याशुद्धत्वात् । त्वत्पक्षे तावत् [स्व]सन्ततिपूर्वापरज्ञानानि सन्तत्यन्तरज्ञानानि च केनचिज्ज्ञानान्तरेणोपलभ्यन्ते । अन्यथा कथं तानि समर्थ्येरन्? ततश्च ग्राह्यग्राहकयोस्तत्र तादात्म्ये सर्वसंविदद्वैतप्रसङ्गः । भेदे तु व्यभिचारसिद्धिः । यदि मन्यसे, सर्वज्ञानानां स्वेस्वे काले स्वेनैव प्रकाशनात् स्वग्राहकज्ञानान्तरेण सहोपलम्भनियमो नास्तीति, एवं सति नीलपीतादेरपि स्वग्राहकेणैकेन ज्ञानेन सहोपलम्भनियमो नास्ति; स्थिरपक्षे कालादिभेदेन पुरुषभेदेन च नीलादेरनियतानेकोपलम्भविषयत्वसिद्धेः । न चैकस्य नीलस्यानेकस्वग्रहणतादात्म्यसंभवः; त्वयाऽपि नैतत् संमन्यते । प्रतिसंवेदनं नीलभेदान्नोपलम्भानियम इति चेन्न; ज्ञानज्ञेयैक्यसिद्धौ प्रतिज्ञानं नीलभेदः, तत्सिद्धौ च सहोपलम्भनियमात्तदैक्यसिद्धिरिति चक्रकापत्तेः । किं च सहभाव एव तावद् भेदसापेक्षः; तदुपलम्भनियमः[तु]अभेदगन्ध न सहते । अतस्तेन कथं तादात्म्यसाधनम्? ज्ञानेनार्थस्य नियतस्सहोपलम्भश्च अत्र किं ज्ञानार्थगोचरमेकं ज्ञानान्तरम्? उत स्वप्रकाशस्वगोचरज्ञानानतिरिक्तप्रकाशः? नाद्यः, ज्ञानोदयकाले ज्ञानार्थगोचरैकज्ञानान्तरादृष्टेः; अन्वयव्यतिरेकिविवक्षायां दृष्टान्ताभावाच्च । अस्ति द्विचन्द्रदृष्टान्त इति चेन्न; अकल्पितस्य चन्द्रस्य कल्पितेन सहोपलम्भनियमाभावात् । अन्यतरस्य सहोपलम्भनियमो विवक्षित इति चेत्; हन्त तर्हि तदुभयतादात्म्यं निदर्शयतस्ते कथमसौ नियमस्तस्यैवास्ति [च] नास्ति चेति घटेत? केवलव्यतिरेकिविवक्षायां तु अन्यत्र साध्यसद्भावात् आभासत्वम् । सिद्धो हि स्वेन सहोपलमेभाभावेऽपि सर्वबोधानां स्वस्मादभेदः । यद्यसौ न स्यात् सर्वे बोधाः स्वयमेव न स्युरिति माध्यमिकमतप्रसङ्गः । ननु ग्राह्यस्य स्वग्रहणतादात्म्यमिह साध्यम्; तच्च नान्यत्र क्वचिदस्तीति केवलव्यतिकित्वोपपत्तिः स्यात् । मैवम्; सर्वज्ञानानां स्वग्रहणरूपत्वाभ्युपगमेन स्वग्रहणतादात्म्यस्यापि सिद्धत्वात् । व्यतिरेकश्चात्र दुर्वचः; यत् स्वग्रहणतादात्म्यरहितं तत्सहोपलम्भनियमरहितमित्युदाहरणीयाभावात् । मन्यसे हि ग्रहणानामपि स्वग्रहणतादात्म्यम् । आदिशब्देन संवेदनादिहेतुसंग्रहः । संवेदने तावत् यद्येन संवेद्यते तत्तदभिन्नमित्यन्वयव्याप्तिर्नास्ति, संविदन्तरसंवेदने व्यभिचारात्; तदनभ्युपगमेऽपि चानिष्टस्योक्तत्वात् । यद्यतो भिद्यते न तत्तेन संवेद्यते यथा च घटेन पटः, यथा वा घटमात्रज्ञानेन पटः; संवेद्यते च नीलज्ञानेन नीलमिति व्यतिरेकव्याप्तिरस्तीति चेत्; न, अन्वयतो व्यभिचारे व्यतिरेकाव्यभिचारस्याकिंचित्करत्वात् । व्यतिरेकश्चात्र त्वया दुर्वचः, घटपटोदाहरणस्याश्रयविकलत्वात् । संविदात्मना पटादिरूपाश्रयभेदसिद्धिरिति चेत्; अस्त्वेवम्, तथाऽपि पूर्ववद्व्यभिचारो दुर्वारः; संविदन्तरस्य संविदन्तरेण व्यवस्थाप्यत्वस्थापनात् । एतेन भिन्नस्य ग्राह्यत्वेऽतिप्रसङ्गात् संयोगसमवायैकार्थसमवायकारणत्वादीनामव्याप्त्यादिदुःस्थतया ग्रालक्षणत्वायोगाच्च परिशेषात्तादात्म्यमेव ग्राह्यलक्षणमास्थेयमित्यपि निरस्तम्; ज्ञानान्तरेषु ज्ञानान्तरेण गृह्यमाणेषु स्वग्रहणतादात्म्यायोगादेव । किं च अतीतानागतग्राहिषु विज्ञानेषु यदि स्वग्राह्यतादात्म्यं, तदा विज्ञानमेव स्वयमतीतमनागतं वा स्यात् । किं तदानीं तद्ग्राह्यं स्यात्? अथ नातीतोऽनागतो वा कश्चिद्विषयः; किं तु वर्तमानज्ञानेऽतीतत्वानागतत्वकल्पनामात्रमिति मन्यसे; तथा सत्यतीतानागतविज्ञानग्राहिणि विज्ञानान्तरेऽप्येवं स्वादित्येकक्षणपरिशेषो वा नित्यैकज्ञानपरिग्रहो वा स्यात् ।

अपि च – श्लो. ग्राह्यग्रहणतादात्म्यं खरशृङ्गाद्यसद्ग्रहे । अस्ति चेद्व्याहतिर्नो चेद्व्यभिचारस्सुदुस्तरः ॥

तादात्म्यं च ग्राह्यलक्षणं व्यवस्थापयता लक्ष्यस्य लक्षणव्यापकत्वमभिसन्धाय किं यस्य येन तादात्म्यं तस्य तेन ग्राह्यत्वमिति नियमो विवक्षितः? उत लक्ष्यस्य लक्षणव्याप्तत्वमभिसन्धाय यस्य येन ग्राह्यत्वं तस्य तेन तादात्म्यमिति? न प्रथमः, स्वेनाभिन्नस्य घटस्य स्वेन ग्रहणाभावात् । स्वसंवित्तादात्म्यात्तत्र स्वेन ग्रहणमिति चेन्न; इतःपूर्वं संवित्संवेद्ययोस्तादात्म्यासिद्धेः । न द्वितीयः; संवेदनहेतुदूषणनयेन दत्तोत्तरत्वात् । किंच ग्राह्यस्य स्वग्रहणाभिन्नत्वनियमे खरशृङ्गशुक्तिरजतादेरपि तथात्वं प्रसज्येत । न चैतदनुमन्तव्यम्; सत्यासत्ययोस्तादात्म्यायोगात् । योगे वा जैनवादविजयापातादिति । तत्र व्याघातशमनमिच्छतामन्यतरस्वभावपरित्यागप्रसङ्गमाह – ग्राह्यात्मत्वादिति । मिथ्याभूतबोध्यतादात्म्यात् बुद्धेरपि मिथ्यात्वे माध्यमिकमनीषितसिद्धिः; सत्यभूतबुद्धितादात्म्यात् बोध्यस्यापि सत्यत्वे खरशृङ्गकम्बुकलधौतादेरपि सत्यत्वापात इति भावः । उक्तहेतुत्रयस्य साधारणं श्वेतपीतादीत्यनेन पूर्वं सूचितं दूषणान्तरमाह – किंचेति । अयं भावः – निर्विशेषवस्तुप्रकाशो नास्त्येवेति सिद्धे सर्वबुद्धीनां यत्किंचिदनेकग्राहित्वादनेकेषां च मिथस्तादात्म्यायोगादनेकैस्तैरेकस्या बुद्धेरपि तादात्म्यमुपलम्भविरुद्धं न कथञ्चिदपि स्यादिति । एकैकस्य क्रमेणावगतौ बुद्धिभेदात् परिहारः स्यात्, तन्निवृत्त्यै युगपदित्युक्तम् । अथ मन्यसे – बुद्धिबोध्यतादात्म्यमुपदिशतो बुद्धस्यायमभिप्रायः; बुद्धिव्यतिरिक्तस्य बोध्यस्य मिथ्यात्वात्तदव्यतिरेकोपचार इति । यद्येवं बाह्यार्थेमिथ्यात्वमिहाभिसंहितं, तत्र सहोपलम्भनियमादयो न साधकाः । बुद्धोपदेशस्तु श्रद्दधानेष्वेव शोभते । श्लो. सूलास्थूलादिकोटीनां बाधकैर्बाह्यनिह्नवः । सुन्दोपसुन्दन्यायेन बाधकानां हतेर्हतः ॥ अपि च कृत्स्नबाह्यार्थापह्नवेऽनुमानानां स्वोपजीव्यप्रत्यक्षविरोधादनुत्थानमेव । श्लो. बोध्यापह्नवयुक्तीनां निस्तारमनुपश्यता । बोद्ध्रपह्नवयुक्तिश्च सुतरां सुतरा भवेत् ॥ न तावद् बुद्धिमात्रं ज्ञाताऽहमर्थः, तद्धर्मतयैव तत्प्रतीतेः । तथा च सूत्रम् – ‘व्यतिरेको गन्धवत्तथा च दर्शयतीति । न च बुद्धावहंत्वकॢप्तिः; बुद्धिरहमित्यवभासप्रसङ्गात् । नापि बुद्धेराश्रयतयाऽहमर्थकल्पना; निरधिष्ठानकल्पनानङ्गीकारात् । अथ निराश्रयाऽपि बुद्धिः साश्रयतया कल्प्यत इति मन्यसे, तथा सत्यन्यथाख्यातिस्स्यात् । बाधे च सत्येवं वक्तव्यम् । नचाश्रयबाधकं किंचिदबाधितमस्ति; बुद्ध्यन्यत्वादिकुतर्कैस्तद्बाधे बुद्धिरपि भासमानत्वादिमाध्यमिककुतर्कैर्बाध्येत । तस्मात् ग्राह्यग्राहकापह्नवे गृहीतिरप्यपह्नोतव्या । तद्ग्रहे वा तयोरपि ग्रहणं स्यादेव । तदिदं ‘न भावोऽनुपलब्धेरिति सूत्राभिप्रेतम् । एवं दृग्दृश्यसंबन्धानुपपत्त्या दृश्यमिथ्यात्वामिति कुदृष्टिकल्पनाऽप्युन्मूलनीया । अत्र ह्यनुपपद्यमानसंबन्धोपपादकतया वा दृश्यमिथ्यात्वं कल्प्यते? उत सिद्धस्य संबन्धाभावस्य व्यापकतया? नाद्यः, दृश्यमिथ्यात्वे सुतरां संबन्धायोगात् । न द्वितीयः, दृश्यस्येव दृशोऽपि मिथ्यात्वकॢप्तिप्रसङ्गात् । न च मेरुमन्दरयोस्संबन्धो नास्तीत्यन्यतरमिथ्यात्वमुभयमिथ्यात्वं वा कल्प्यते । असंबद्धयोस्संबन्धित्वेन भानाद्विशेष इति चेत्, तथा सति तत्संबन्धस्यैव मिथ्यात्वं वाच्यम्, नतु तदुभयस्वरूपस्य । तदसंब[न्ध]द्धस्य तेन वास्तवप्रकाश्यत्वायोगात्तत्तत्प्रकाश्यत्वस्य काल्पनिकतया प्रकाश्यस्वरूपासिद्धिरिति चेत्, तर्हि काल्पनिकस्याप्यसंबद्धस्य कथं तत्प्रकाश्यत्वमिति चिन्तय । मायामाहात्म्यदिति चेत्, एवं सत्यस्यापि सामग्र्यादिमाहात्म्यादिति यथालोकमवलोकय । किंचासंबद्धस्य वास्तवप्रकाश्यत्वं न घटत इति वदता संबद्धस्यैव वास्तवप्रकाश इति नियमस्त्वया दृष्टः स्यात्; अन्यथा तद्व्यतिरेके तद्व्यतिरेकनियमनियमर्देशायोगात् । यदि चासंबद्धस्य प्रकाशमानत्वमयुक्तं मन्यसे, तर्हि दुरपह्नवस्य प्रकाशमानत्वस्य सिद्ध्यै संबन्ध एव कश्चित्कल्पयितुं युक्तः । स तु संप्रतिपन्नसंबन्धेष्वनन्तर्भूतश्चेत्, तदन्यः कश्चिदित्येवाङ्गीकार्यः । अथ तेन तस्य प्रकाशमानत्वमेव नास्तीति पक्षः, तदा कस्यानिर्वचनीयत्वादि कल्प्येत? अपि च दृग्दृश्ययोस्संबन्धं प्रतिक्षिपता किं संबन्ध एव नास्तीत्यभिसंहितम्? उत क्वचित् सन्नप्यसौ प्रस्तुतयोर्नास्तीति? नाद्यः, दूष्यदूषणादिसंबन्धविलोपे स्वव्याघातादिदोषगणोन्मेषात् । न द्वितीयः, यथा संबन्धान्तरमन्तरेण क्वचिदसौ कस्यचित्सिद्धः, तथा दृग्दृश्यभावरूपः संबन्धोऽपीति स्वीकर्तुमुचितः । यच्च सविषयवृत्त्यध्यासात् दृश्यवद् दृशोऽपि मिथ्यात्वमिष्यत एवेति, तदप्यसत्; साक्षिणोऽपि स्वदृश्यमिथ्यात्वेन मिथ्यत्वप्रसङ्गात् । अनादित्वात्तस्याकल्पिततया न मिथ्यात्वमिति चेन्न; अनादेर्भावरूपाज्ञानस्यापि तथात्वप्रसङ्गात् । अनादित्वं च तद्वदेव न कल्पितत्वविरोधि । यदि च साक्षिणो न कल्पितत्वं स्यात्, ब्रह्मस्वरूपवत्तस्यापि नित्यत्वप्रसङ्गः । न चैवं स्वीक्रियते, तद्विषयाविद्यास्वरूपस्यापि नित्यत्वप्रसङ्गेन तन्मूलजगद्विवर्तस्यापि नित्यानुवृत्तिप्रसङ्गादिति ॥ २० ॥

4.246     हन्त त्रय्यन्तपक्षे कणभुगभिमतो नावयव्यस्ति कश्चित्

संघातो नांशतोऽन्यस्तदणुषु न भवेद् दृश्यतेत्यन्धचोद्यम् ।

संसर्गैर्विश्वमेतद् घटत् इह यथादृष्टि दृश्याणुपक्षे

नादृष्टं कल्पयामः परिणतिभिरसौ दृश्यतादिः श्रुते स्यात् ॥ २१ ॥

ननु बाह्यार्थ एव न संभवति, यत्प्रत्यक्षबलादात्मख्यातिभङ्गं मन्यसे; गुणानां तावद् द्रव्यासिद्धावसिद्धेः; द्रव्याणां च पृथिव्यादीनामवयविसंघातादिविकल्पासहत्वादैन्द्रियिकद्रव्याभावेऽतीन्द्रियस्य दूरनिरस्तत्वाच्चेत्यभिप्रायेण चोदयति – हन्तेति ॥ हर्षार्थोऽयं हन्तशब्दः, वाक्यारम्भार्थो वा । अवयवी तावत्सौगतैरिव त्रय्यन्तवादिभिरपि नाङ्गीक्रियते; संघातस्तु [स्व]संघातिभ्यो नातिरिच्यते, तत्संबन्धश्च स्वरूपातिरिक्तो न संभवति । संभवेऽपि संघातिनामप्रत्यक्षत्वे तत्संघातस्य प्रत्यक्षत्वं न स्यात्; संघातिनां चान्ततः परमाणुपरिशेषात्, तेषां चाप्रत्यक्षत्वादिति भावः । दूषयति – इत्यन्धचोद्यमिति । तत्त्वनिरीक्षणासामर्थ्यादन्धत्वोपचारः । परमतेन तावत्परिहारमाह – संसर्गैरिति । त्रसरेण्ववयवा एव परमाणव इति पक्षे तत्संसर्गविशेषैरेव ह्रस्वत्वदीर्घत्वत्र्यश्रचतुरश्रवृत्तवक्रकुटिलत्वादिविचित्रसन्निवेशं विश्वमेतद्यथादर्शनं दृश्यं स्यादित्यर्थः । वयं तु न त्रसरेणुव्यतिरिक्तं तदवयवादिकं कल्पयामः, येन तदप्रत्यक्षतया विश्वाप्रत्यक्षत्वशङ्का स्यादित्यभिप्रायेणाह – नादृष्टमिति । ननु श्रुतेऽपि सूक्ष्मद्रव्ये प्रत्यक्षत्वादिकं न मन्यसे, अतस्तदात्मकस्य प्रपञ्चस्य कथं प्रत्यक्षत्वादिकमित्यत्राह – परिणतिभिरिति । असाविति दुरपह्नवत्वाभिप्रायम् । आदिशब्देन तत्तदिन्द्रियान्तरविषयलाभः तत्तत्कार्यविशेषहेतुत्वादिकं च संगृह्यते । श्लो. रूपस्पर्शादिजननाद् दृश्यत्वस्पृश्यतादयः । तन्नाशात्तदभावश्च युज्येत श्रुतिचक्षुषाम् ॥ २१ ॥

4.247     आत्मख्यातौ मतीनां मिथ इतरतया संविदन्या न सिध्ये-

दन्योन्यार्थानभिज्ञाः कथमिव च धियो वादजल्पादि कुर्युः ।

मानाभासादिसीमा न कथमपि भवेद् ग्राह्यमिथ्यात्वसाम्यात्

सर्वं तत्संवृतेश्चेन्न खलु सदितरा साऽपि तत्तन्नियन्त्री ॥ २२ ॥

एवं बाह्यख्यातेरसंभवं परिहृत्य स्वात्ममात्रख्यातेरनुपपत्तिमाह – आत्मख्याताविंति ॥ ग्राह्यस्य ग्राहकतादात्म्ये संविदन्तरासिद्ध्या मतान्तरप्रसङ्गः प्राक् प्रदर्शितः । तत्र स्वप्रवृत्तिविरोधं चाह – अन्योन्येति । वादिबुद्धिविषयादिकमनुल्लिखन्त्या प्रतिवादिबुद्ध्या कथं तत्प्रतिषेधव्यवहारः प्रवर्त्येतेति भावः । उपलक्षणमेतत् शिष्याचार्यादिसंव्यवहाराणाम् । प्रसङ्गान्तरमाह – मानाभासेति । आदिशब्देन तर्कतदाभाससद्वचनासद्वचनादिसंग्रहः । सर्वत्र समाधानं शङ्कते – सर्वमिति । विकल्पाभिप्रायेण प्रतिक्षिपति – खल्विति । अयं भावः – संवृतिः संवित्स्वरूपादन्या वा, अनन्या वा? आद्ये कथं तदन्यस्यास्तेन ग्राह्यत्वम्? अगृह्यमाणायाश्च स्वरूपसत्यत्वाभावात् संविदधीनसिद्ध्यभावाच्च कथं मानतदाभासादि – व्यवस्थापकत्वम्? न द्वितीयः, संविदनन्यया हि संवृत्या सिद्धं संविदैव सिद्धमित्युक्तं भवति । तथा च त्यज्यतां तन्मिथ्यात्वाभिसन्धिः; अन्यथा संवित्स्वरूपमेवापह्नुतं स्यात्; तस्यास्तदभिन्नत्वादिति ॥ २२ ॥

4.248     एकाकारप्रतीतिर्निजमतिविहता नैव दृष्टे गुरुत्वं

व्यर्थाऽस्मिन् संमतिस्ते बहिरपि नियतं वक्ष्यते ग्राह्यलक्ष्म ।

व्याघातो लिङ्गसंख्यापरिमितिवचसां नास्त्युपाधिप्रभेदा-

देकं नानाकृति स्यान्निजगुणभिदया बाधिते धीः स्वहेतोः ॥ २३ ॥

अन्यानपि बौद्धोक्तान् बाह्यापह्नवप्रकारान् प्रत्याचष्टे – एकाकारेति ॥ यत्तत्राहुः – इदं नीलमित्यादिबुद्धौ नीलादिरेक एवाकार उपलभ्यते; स चेत् स्वार्थस्य तर्हि निराकारा बुद्धिर्न प्रकाशेत; तदप्रकाशे च कुतोऽर्थप्रकाशः? अतः प्रकाशमान एक आकारः प्रकाशमानस्य ज्ञानस्यैव स्यादिति । अत्र ब्रूमः – एकाकारप्रतीतिः स्वमतिव्याहता, ज्ञानार्थयोर्भिन्नाकारतयैव सर्वैरुपलब्धेः । अर्थो हि नीलाद्याकारः; ज्ञानं तु तत्प्रकाशाद्याकारमिति । नच ‘अर्थेनैव विशेषो हि निराकारतया धियामिति नियमः; भेदकान्तराभावदशाविषयत्वादेवं व्यपदेशस्य; अस्ति ह्याधारत आधेयतः कारणतः कार्यतश्च ज्ञानस्य विशेषः; अतः परसारभिन्नाकारतयैव ज्ञानार्थयोरुपलम्भ इति । तथाऽपि नीलादेर्ज्ञानाकारत्वकल्पनयैव सर्वव्यवहारसिद्धेः बाह्यार्थकल्पनायां गौरवप्रसङ्ग इत्यत्राह – नैवेति । यदि वयं सौत्रान्तिकवज्ज्ञानाकारवैचित्र्येणार्थस्वभावं कल्पयामः तदैवमनुयुज्येमहि । दृष्टत्वादेव हि बाह्यार्थमभ्युपगच्छाम इति भावः । ननु विप्रतिपन्नो बाह्यार्थः, ज्ञानं तु संप्रतिपन्नम् । अतः प्रकाशमानो नीलादिराकारस्संप्रतिपन्नस्यैव भवितुमर्हति; सिद्धसिध्ययोः सिद्धस्यैवावलम्बनीयत्वादिति; तत्राह – व्यर्थेति । यदि वादिविप्रतिपत्त्या वस्त्वतिवर्तेत, तदा हि तत्संमतिरन्वेषणीया । न चैवमस्ति; अन्यथा सर्ववादिनां परपक्षभङ्गस्यायंत्नलभ्यतया साधनदूषणादिप्रयोगो निरर्थकः स्यात् । न च मत्संमतिविरहात् त्वत्पक्षे सर्वमसिद्धं मन्यस इति भावः । ननु बाह्यस्य नीलादेः प्रकाशमानत्वमौपाधिकमनौपाधिकं वा? नाद्यः; अप्रकाशस्वभावस्योपाधिसहस्रेणापि प्रकाशापादनायोगात् । न द्वितीयः; अनौपाधिकप्रकाशस्य स्वयंप्रकाशत्वज्ञानत्वयोरवर्जनीयत्वात् । ततश्च वित्तिवेद्यभेदासिद्धेस्तादात्म्यमेव ग्राह्यलक्षणं स्यादित्याह – बहिरपीति । अयं भावः – न तावन्नीलादेरौपाधिकप्रकाशत्वे प्रकाशासिद्धिः; हेतुफलभावस्य त्वयाऽपि स्वीकारात् । अन्यथा कथमसत्स्वभावस्य हेतुसहस्रेणापि सत्त्वापादनमिति माध्यमिकपर्यनुयोगे किं प्रतिवक्ष्यसि? अतः प्रत्यक्षानुपलम्भप्रतिष्ठापितहेतुविशेषाधीनं प्रकाशमानत्वं बाह्यत्वेऽपि नीलादेरप्रतिक्षेप्यमिति स्थिते, ग्राह्यस्य किं नियामकेन लक्षणान्तरेण? तदन्वेषणे च तस्यापि तथेत्यनवस्थापातात् । न हि वयं वैभाषिकसौत्रान्तिकादिवदेकसामग्रीप्रसूतत्वं स्वाकारसमर्पणक्षणहेतुत्वमन्यद्वा कचिदनियतं ग्राह्यलक्षणं ब्रूमः, येनातिप्रसङ्गः स्यात्; किंतु सामग्रीनियतिबलात् सदसद्वा किंचित् केनचिदेव ग्राह्यम् । एवमनभ्युपगमे किंचित् प्रति कस्यचिदेव तदन्यस्य कार्यत्वं कथं वक्ष्यसि? कारणादन्यस्य कार्यत्वेऽतिप्रसङ्गं च कथमपनेष्यसि? तदिह वैनाशिकसमयमुत्तीर्य सत्कार्यवादे स्थातुमिच्छसीति । श्लो. एवं च दूष्यवाच्यादेस्तादात्म्यं दूषणादिभिः । कल्पनीयं त्वयेति स्यात् स्वव्याघातादिरक्षतः ॥ नन्वव्यवस्थितस्वभावं न किंचिदपि तत्त्वं भवति; अन्यथाऽतिप्रसङ्गात् । न च व्यवस्थितस्वभावं किंचिद्बाह्यम् । एकमेव हि भिन्नलिङ्गं व्यपदिश्यते, नक्षत्रं तारका तिष्य इति । एकत्र योषिति दारा इति बहुवचनम् । एकमेव हि परिमाणमणुमहद्दीर्घह्रस्वात्मना विकल्प्यते; अन्यदप्येवंप्रायम् । अतो न बाह्ये क्वचिदपि तत्त्वव्यवस्थेत्यत्राह – व्याघात इति । उक्तेषु लिङ्गवचनाव्यवस्थितिस्तावन्न वस्तुव्यवस्थामन्यथयति, तत्तच्छब्दस्वभावप्रतिनियतत्वाद् व्यपदेशभेदस्य । न हि मनुष्यादौ दृष्टं नपुंसकत्वादि नक्षत्रादौ निर्दिश्यते; न चैकां स्त्रियं दष्टा इति बह्वीमभिमन्यन्ते । परिमाणे व्यपदेशभेदस्तु प्रतियोग्युपाधिकः । तत्तदपेक्षया च तत्तद्रूपत्वं तस्य तात्त्विकमेव । तथाऽन्यदपि । एवमनभ्युपगमे त्वन्मतमपि निर्मूलं स्यात् । बुद्धिरपि हि न सर्वं प्रति बुद्धिः; सर्वस्याप्ययत्नतः सर्वज्ञत्वप्रसङ्गात् । सा च न सर्वं प्रति कार्यं कारणं वा; अनभ्युपगमात् अनुपपत्तेश्च । न च सर्वत्र सदा सती, विभुत्वनित्यत्वापातात् । न च सर्वं प्रतीष्टाऽनिष्टा वा; वेदनासाधारण्यप्रसङ्गात् रागद्वेषानुत्थानप्रसङ्गाच्च । नापि नीलैकाकारा बुद्धिः पीतादिभिराकारिणी; सर्वाद्वैतप्रसङ्गादिति भावः । अथ स्यात् – नीलमुत्पलं दीर्घः पट इत्यादिषु एकमनेकस्वभावं बाह्यार्थवादिभिरङ्गीक्रियते, तच्चायुक्तम्; नीलपीतादेरिवानेकस्य एकस्वभावत्वायोगादेकस्यानेकस्वभावत्वायोगाच्च । अतो निःस्वभावमेव सर्वं बाह्यमिति । तत्राह – एकमिति । न खल्वेकमेवानेकमिति वयं पश्यामः, प्रतिजानीमहे वा, येन विरोधः स्यात्; किंत्वेकमनेकसंबन्धीति । न चैवं विरोधगन्धः; तवापि विशेषमात्ररूपस्यैकस्य संवेदनस्य स्वेतरसर्वप्रतिसंबन्धितयाऽपि विरोधप्रसङ्गात् । नीलोत्पलसंविदि च जातिगुणग्राहिण्यामाकारभेदस्यापरिहार्यत्वात्; नीलपीतग्राहिण्यां तु किं पुनः? श्लो. किंच सर्वज्ञसंवित्तौ सर्वाकारानुबन्धतः । सर्वस्वभावता वा स्यान्निःस्वभावत्वमेव वा ॥ ननु च बाधितोऽपि द्वितीयचन्द्रादिः पुनरपि प्रकाशमानो दृश्यते; न चात्र बाह्यं किंचिदप्यधिष्ठानं कारणं वा पश्यामः; अतो ज्ञानस्यैवाधिष्ठानत्वं समनन्तरप्रत्ययस्य च कारणत्वं कल्पयितुं युक्तमित्यत्राह – बाधित इति । अयं भावः – अन्वयव्यतिरेकावधारितं प्रथमभ्रमाधिष्ठानमेव बाधितानुवृत्तिभ्रमेऽप्यधिष्ठानम्; तत्कारणमेव चानुवृत्तं कारणम्; अतो बहिरप्यधिष्ठानकारणयोस्संभवान्नान्तरत्वं कल्प्यमिति ॥ २३ ॥ इति स्वात्माकारख्यातिभङ्गः ॥

4.249     धीत्वात्स्वान्यार्थशून्या विमतमतिरिति स्वोक्तिबुद्ध्यादि भग्नं

ज्ञानज्ञानेऽतिचारः क्षणिकविविधधीसन्ततेः संमतत्वात् ।

दृष्टान्तस्याध्यशून्यो न च निरुपधिकासत्प्रतीतं क्वचिन्नः

तावन्मिथ्यात्वकॢप्तो न तु फलति तवाशेषबाह्यार्थभङ्गः ॥ २४ ॥

अथानुमानतोऽपि बाह्यापलापमनूद्य दूषयति – धीत्वादिति ॥ एवं ह्यीहुः – यः प्रत्ययस्य निरालम्बनः यथा स्वप्नादिप्रत्ययः तथा च विमतिपदमिति । तदेतदन्ववादिषुः – ‘स्तम्भादिप्रत्ययो मिथ्या प्रत्ययत्वात्तथा हि यः । प्रत्ययस्य मृषा दृष्टः स्वप्नादिप्रत्ययो यथा’ ॥ इति । तत्र स्वोक्तिबाधस्तावत् – अयं प्रयोगो यदि न कंचित् प्रत्ययं साधयितुं प्रवृत्तस्तदा नैरर्थक्याद्भग्नः । अथ साधयितुम्; तदा सोऽपि प्रत्ययः पक्षीस्तो न वा? आद्ये स्ववाक्यजन्यबुद्धेः स्वेतरालम्बनाभावसाधनाद् बुद्ध्यन्तरस्य निरालम्बनत्वं न सिध्येत्, अतस्तदर्थं वाक्यमतदर्थं भवतीति व्याघातः । बहिष्कारेऽपि सालम्बनत्वनिरालम्बनत्वविकल्पेन व्याप्तिभङ्गव्याघातौ स्याताम् । स्वबुद्धिविरोधस्तु -यद्यसौ बुद्धिः पक्षीकृतबुद्ध्यन्तवराकारतया निरालम्बनत्वमवलम्बेत, तर्हि सिद्धं बुद्धेः स्वेतरालम्बनत्वम् । अथ स्वाकारतयैव, तथाऽपि बुद्ध्यन्तराणां निरालम्बनत्वासिद्धिः । नच बुद्ध्यन्तराकारो बुद्ध्यन्तरस्य निरालम्बनत्वम्, सर्वबुद्धीनां सर्वाकारत्वप्रसङ्गेन व्याघातापसिद्धान्तमतान्तरोत्थानप्रसङ्गः । आदिशब्देन प्रवृत्तिसंग्रहः । बुद्धिसिद्धा[न्ति]न्तानामपि प्रवृत्तिर्न निष्प्रयोजना; अप्रवृत्तेरेव प्रसङ्गात् । सप्रयोजनत्वे तु साधकबुद्ध्यारूढं तत्प्रयोजनं तदात्मकं, ततोऽन्यद्वा? आद्ये वर्तमानत्वभविष्यत्त्वविरोधः । द्वितीये तु बुद्धेः स्वेतरालम्बनत्वमपरिहार्यम् । अनैकान्तिकत्वमाह – ज्ञानेति । अयं भावः – यदि ज्ञानान्तरगोचरं किमपि ज्ञानं न स्यात्, क्षणिकबुद्धिसन्तानभेदाभ्युपगमो भज्येत । अतस्संविदन्तरग्राहिणि ज्ञाने स्वेतरालम्बनत्वं स्वीकृतम् । तस्य पक्षीकारे स्वमतविरोधः; अपक्षीकारे तु तत्रातिचार इति । विविधशब्देन आलयविज्ञानप्रवृत्तिविज्ञानचित्तचैत्तादिकल्पनाभेदसंग्रहः । स्वप्नादिदृष्टान्तस्य साध्यविकलत्वेन व्याप्त्यसिद्धिमाह – दृष्टान्त इति । इदमत्राकूतम् । न हि वयं स्वप्नादिधियां स्वविषयतादात्म्यमभ्युपगच्छामः । नापि बाह्यालम्बनशून्यत्वं, तत्र वाऽन्यत्र वा सत एव स्वप्नादावपि भानात् । तिष्ठतु वा स्वाप्नार्थसृष्टिपक्षः; पक्षान्तरेऽपि ह्याहुः – ‘जन्मन्येकत्र भिन्ने वा तथा कालान्तरेऽपि वा । तद्देशे वाऽन्यदेशे वा स्वप्नज्ञानस्य गोचरः ॥ इति । न च जागरज्ञानेषु तद्वदन्यथाख्यातिरूपत्वमपि साधयितुं शक्यम्; बाधाद्यभावात् । तत्र च सूत्रं ‘वैधर्म्याच्च न स्वप्नादिवदिति । नत्वसद्विषयत्वे साध्ये स्यादेव दृष्टान्तसिद्धिः; अन्यथाख्यातिवादिभिरपि भ्रान्तेरंशतस्तथात्वस्वीकारादित्यत्राह – न चेति । निरुपाधिकासद्विषयत्वसाधने दृष्टान्तासिद्धिरेव; भ्रमविषयसंसर्गतादात्म्ययोरपि सामान्यतः क्वचित्सिद्धत्वात्, तदसिद्धौ च तद्भ्रमायोगात् । निषिध्यमानौ च तादात्म्यसंसर्गौ तत्तत्सत्यवस्त्ववच्छिन्नावेव निषेधविषयाविति भावः । सोपाधिकासद्विषयत्वसाधनं तु निश्शेषबाह्यार्थनिह्नवायोगाद् बाधकासिद्धेश्च न युक्तम् । असद्विषयत्वमात्रं तु सर्वेषां देशान्तररादावसत्त्वात् सिद्धमेवेत्यभिप्रायेणाह – तावदिति ॥ २४ ॥ इति निरालम्बनानुमानभङ्गः ॥

4.250     प्रत्यक्षं संप्रयुक्ते स्मृतिरपि विदिते व्याप्तिसिद्धेऽनुमा स्यात्

शाब्दी धीरन्वितादौ भवति तदनुगा भ्रान्तिधीः क्वाप्यसिद्धेः ।

व्योमाम्भोजादिशब्दोऽप्यनियतमतिकृत् स्यात् पदार्थं त्यजेच्चेत्

नो चेत्स्यादन्यथाधीर्ध्रुवमिह यदि वाऽनन्वितत्वाप्रतीतिः ॥ २५ ॥

निरुपाधिकासत्प्रतीत्यभावं हेतुदर्शनाभावतः प्रपञ्चयति – प्रत्यक्षमिति ॥ कार्यमपरोक्षज्ञानमन्वयव्यतिरेकावसितेन्द्रियसंप्रयोगविशेषिते विषये भवति । यत्पुनराहुः – स्मृतिर्न बाह्यविषया, नष्टेऽप्यर्थे स्मृतिदर्शनादिति, तत्राह – स्मृतिरपीति । अनुभवविषयीकृते ह्यर्थे संस्कारप्रत्यासत्त्या स्मृतिर्भवति । स्मृतिकालेऽतीतोऽनागतो वेति न स्वकालेऽप्यर्थो न स्यात् । नच न बाह्यः । तथैव हि स्मृतिरपि समुचितमर्थमवलम्बते, न विरुद्धाकारान्तरस्थं स्वाकारं शून्याकारं वा; स्वानुभवविरोधात् । कालान्तरवर्तिविषयत्वादपि सन्निहिताबाह्यविषयत्वं युक्तमिति चेन्न; अनुमेयातीतानागतसंविदामस्वात्मताया ग्राह्यत्वस्य वाऽभावप्रसङ्गात् । तत्र च पूर्वस्मिन् सन्ततिकल्पना लुप्येत । उत्तरत्र संविन्नित्यत्वप्रसङ्गः; स्मृतेस्त्रिकालवर्त्याकारत्वात् । अतः स्मृतेः कालान्तरवर्तिबाह्यविषयत्वं न विरुद्धम् । ननु सुगतमतवर्तिनामनुमानं न वस्तुतः प्रमाणम् । अदूरविप्रकर्षमात्रेण तु प्रमाणत्वपरिगणना । निपुणनिरूपणे कल्पितसामान्याकारावलम्बनत्वादिदमप्रमाणमेवेति कथं तन्निदर्शनेन स्मृतिरसद्विषया न स्यादित्यत्राह – व्याप्तीति । प्रत्यक्षादिसिद्धस्य लिङ्गस्य तथाविधाद्व्याप्तिबलात् सामान्यतः पक्षधर्मतया च विशेषतस्सिद्धेन व्यापकेनानुमितिर्विषयिणी । नचात्र कारणदोषो बाधकप्रत्ययो वेति प्रमितिरेवासौ; तद्विषयश्च सन्नेव स्वकालेषु । अन्यथा सर्वसंविदां स्वमात्रप्रकाशरूपत्वे सन्तत्यकरस्य संविदन्तरस्य चानुमानाभावात् परस्परानभिज्ञतया सर्वासिद्धिस्सर्वैक्यं वा स्यात् । नह्येका संवित् अहमस्मीति संविदन्तराय स्वात्मानं साधयति । अनुमानप्रामाण्यतिरस्कारे च तद्विशेषतयाऽभिमतः स्वागमोऽपि तिरस्क्रियेत । माभूद्वस्तुतः शब्दोऽपि प्रमाणम् । पदपदार्थयोरेव हि संबन्धो मृग्यः । तद्द्वारा भवंस्तु वाक्यार्थसंबन्धो दूरनिरस्तः । अतो वाक्यवाक्यार्थप्रत्ययौ स्वमात्रप्रकाशात्मानौ कल्पितं किंचिदलीकं स्वाकारेणोपरञ्जयतः । तेन वाक्यवाक्यार्थौ प्रमाणप्रमेयभावेनाभिमन्येते इति । तत्राह – शाब्दीति । आदिशब्देन मतभेदेनान्वयग्रहणम् । अयं भावः – पदानि तावत्प्रत्यक्षसिद्धसद्भावानि विभक्त्यन्ततया व्याकृतानि नापह्नवमर्हन्ति; पदार्थाश्च । संबन्धश्च तेषां मिथः संयोगाद्यसंभवेऽपि वाच्यवाचकभावरूपः सांव्यवहारिकः । तदनभ्युपगमे कथानां घोषमात्रशेषत्वप्रसक्तेः । ततश्च लौकिकेष्वलौकिकेष्वपि वाक्येष्वाकाङ्क्षादिपरिष्कृतेषु संसृष्टा[र्थ]विषया संसर्गविषया वा बुद्धिर्जायत एव । सा च बाधाद्यभावे स्वार्थनियतेति स्वरूपत इव हेतुतो विषयतोऽपि नालीकभावमनुभवतीति । तथाऽपि बाधितांशप्रतीतेरिन्द्रियादिकमसद्ग्रहणे हेतुः स्यादित्यत्राह – तदनुगेति । प्रत्यक्षादित्रयानुगेत्यर्थः । भ्रान्तावपि ह्यसंसृष्टानां संसृष्टतया बोधने संसर्गतादात्म्ययोर्वा सामान्यतस्सिद्धयोः स्वाभावाधिकरणनिष्ठतयाऽऽरोपेऽन्यथाख्यातिमात्रपरिशेषादलीकतुच्छाविद्यमानशब्दानाम- प्यन्यत्र विद्यमानमेव विषयः । नित्याविद्यमानं निरुपाधिकासदित्यादिशब्दैरपि क्वचिदधिकरणे कस्यचित्स्वदेशादिसिद्धसत्ताकस्यासत्त्वं विवक्षितम् । ननु ‘अङ्गुल्यग्रे हस्तियूथशतमित्यत्र संसर्गस्सत्योऽसत्यो वा? आद्ये सर्वमुपप्लवेत; द्वितीये त्वसद्ग्रहणं तद्धेतुश्च सिध्यत इति । मैवम्; अयोग्यपदसमभिव्याहाराणामपि क्वचित्सिद्ध एवार्थस्तदभावाधिकरणे प्रतिभास्यते । श्लो. इह त्वारोप्यसंसर्गिसंसर्गासत्त्ववर्णनम् । नासद्ग्रहणकॢप्त्यै स्यात् प्रमाविषयसाभ्यतः ॥ अदुष्टबुद्धौ तत्रैव संसर्गस्सन् विशेषकः । अन्यत्र सिद्ध एवासौ दुष्टायां दोषवैभवात् ॥ अथ स्यात् – खपुष्पवन्ध्यासुतादिशब्दास्तावन्न बुद्धिं न जनयन्ति; ‘एष वन्ध्यासुतो यातीत्यादि त्वदिष्टोदाहृतिविरोधात् । जनयन्तश्च न निर्विषयां, तदनभ्युपगमात् । सविषयामपि न प्रत्येकांशविषयां, विशिष्टप्रतिभासविरोधाद्बाधानुपपत्तेश्च । अतोऽसदेव किंचिद्विशिष्टमन्यत्खपुष्पादिशब्दैरवभास्यत इति । तत्राह – व्योमाम्भोजेति । नह्यत्र संसर्गिद्वितयमनुपस्थाप्य तदुपहितविशिष्टभ्रमः; अतिप्रसङ्गात् । नच खपुष्पवन्ध्यासुतशब्दयोर्बोध्यमसदविशिष्टं, शशशृङ्गादिभिर्वन्ध्यासुतविशेषणविरोधात् । द्वितीयं दूषयति – नो चेदिति । अवयवार्थानुरोधे ह्यन्यथाधीरेव सिध्येत्; अनन्वितेऽन्वितधीमात्रजननात् । कथमत्रानन्वयग्रहेऽप्यन्वितभ्रम इति दोषमेव पृच्छ । किं न पश्यसि चन्द्रैकत्वं बुध्यमानोऽप्यङ्गुल्यवष्टम्भाच्चन्द्रे द्वित्वम्, निर्मुखमपि मुकुरमवधारयंस्तत्र मुखमिति? अख्यातिपक्षेण त्वाह – यदि वेति । अनन्वितत्वं न गृह्यते; अनन्वितत्वाग्रहणविशिष्टसामग्रीविशेषात् तत्र विशिष्टव्यवहार इति भावः ॥ २५ ॥ इति असद्बाह्यख्यातिहेतुदर्शनादिभङ्गः ॥

4.251     नेष्टः स्वान्यग्रहश्चेत् क्वचिदपि न हि धीर्धर्मिणी वः कृतान्ते

बुद्ध्यात्मा वा स नातो न च किमपि तयाऽपेक्षणीयं बहिष्ठम् ।

धीसन्ताने त्वनादौ भवति च निखिला वासनैकः क्षणस्त-

न्निश्शेषध्वंसिनी सा युगपदखिलमप्युद्वमेत् कल्पनौघम् ॥ २६ ॥

बुद्धेः स्वेतरालम्बननिषेधे दोषान्तरं विवक्षुर्दूष्यमनुभाषते – नेष्ट इति ॥ इदमहं पश्यामीत्यादिषु बुद्धिस्वरूपातिरिक्तानां विषयाश्रयस्वगतविशेषाणां ग्रहोऽनभ्युपगतश्चेदित्यर्थः । विवक्षितस्योपयुक्तं वासनाबुद्धिस्वरूपयोर्भेदाभावं तावदाह – न हीति । बुद्धिर्हि स्वयंविशेषात्विका, न तु विशेषवतीति सिद्धान्ते वासनयाऽपि धर्मवत्त्वं तस्या नास्तीति यावत् । तत्फलितमाह – बुद्ध्यात्मेति । बुद्धिस्वरूपमेवेत्यर्थः । वासनायाः स्वकार्ये सहकार्यसंभवमाह – न चेति । बाह्यमभावादेव नापेक्षणीयम्; बुद्ध्यन्तरं तु सदपि न बुद्ध्यन्तरस्य सहकुरुते, अनभ्युपगमात्; अभ्युपगमे च समकालानां सर्वसंविदां तदुत्तरकालसंविदारम्भकतया सन्ततिभेदासिद्धिप्रसङ्गादिति भावः । अनादिसंवृतिसंभूतानां नीलपीताद्यनन्तवासनानामेकैकक्षणात्मकत्वमाह -धीसन्तान इति । उक्तपरम्पराफलितमनिष्टमाह – तदिति । निश्शेषध्वंसिनी -निरन्वयविनाशिनी । एतेन भविष्यत्सर्वविकल्पसामग्रीभूतबुद्धिक्षणध्वंसकाले काचिदेव कल्पना जायते नान्येति नियमो न स्यादिति व्यज्यते । अखिलं – तत्सन्ततावासंसारं भविष्यत्सर्वम् । एवं सर्वकल्पनायौगपद्यात् उत्तरक्षणवत्पूर्वक्षणेष्वपि तुल्यन्यायतया तत्तदुत्तरलोपे नानादिस्संसारप्रवाहः स्यादिति माध्यमिकमध्यमध्यासवेति ॥ २६ ॥ इति योगाचारोक्तवासनाभङ्गः ॥

4.252     स्वाकारोऽर्थैः स्वबुद्धौ निहित इति च नाधारहानाद्ययोगात्

स्वच्छे च्छाया परस्मिन्न च भवति न च स्यादसौ रूपशून्ये ।

साम्यासत्त्याद्ययोगाद्विषयविषयिणोर्नापि भेदाग्रहः स्या-

न्नैकाका[रेण रक्तं]रोपरक्तं द्वयमपि स च ते ग्राह्यतो नातिरिक्तः ॥ २७ ॥

अथ बाह्यार्थवादिबौद्धकल्पिताः पक्षाः प्रतिक्षिप्यन्ते । तत्र सौत्रान्तिकाः प्राहुः – विज्ञानं तावत्स्वप्रकाशप्रत्यक्षसिद्धम्; तच्च क्षणिकम्; पूर्वापरकालवर्तितया प्रकाशाभावात् । न चेदमर्थशून्यतम्, नीलादिज्ञानसन्ततौ पीतादिज्ञानसन्तत्यनुत्पादप्रसङ्गात् । स चार्थो न प्रत्यक्षः; अधिपतिसंप्रयुक्तस्य क्षणस्य निरुद्धत्वात् । असंप्रयुक्तस्योत्तरक्षणस्य प्रत्यक्षत्वेऽतिप्रसङ्गात् । अतो बुद्धिजनकस्यार्थक्षणस्य स्वाकारसमर्पकहेतुत्वमेव ग्राह्यत्वमित्युपचर्यते । तदुक्तम् – ‘भिन्नकालं कथं ग्राह्यमिति चेद् ग्राह्यतां विदुः । हेतुत्वमेव युक्तिज्ञा ज्ञानाकारार्पणक्षमम् ॥ इति । अतः स्वहेतुभूतार्थसमर्पिताकारो बुद्ध्यात्मैव वस्तुतः प्रत्यक्ष इति; तदिदमनुभाष्य प्रतिभाषते – स्वाकार इति ॥ विकल्पितदूष्यकोटिभञ्जकहेतुमाह – आधारहानाद्ययोगादिति । अयमाशयः – योऽयमर्थेन बुद्धावाकारस्समर्प्यते, स किम् अर्थस्य स्वरूपम्, उत धर्मः, उभयातिरिक्तो वा? नाद्यः, क्षणध्वंसिनः क्षणान्तरवर्तिसंक्रमणायोगात्; अन्यथा स्यिरवादप्रसङ्गात्; अर्थस्य च साक्षात्प्रत्यक्षत्वापत्तेरनुमेयपरिशेषाभावाच्च । न द्वितीयः, धर्मधर्मिभावानभ्युपगमान्, तदभ्युपगन्तॄणामपि धर्मस्य धर्मिग्रहाणेनान्यत्र प्रवेशादृष्टेः, क्षणिकत्वस्थिरत्वविकल्पेन दत्तोत्तरत्वाच्च । अत एव न तृतीयः; अर्थस्य तेन संबन्धाभावात्, असंबद्धस्य चान्यत्र सञ्चारयितुमशक्यत्वात्, अन्यथाऽतिप्रसङ्गादिति । त्रिष्वपि च पक्षेषु परेष्टप्रत्यक्षानुमानयोरप्रवृत्तिरुद्धाटनीया । अत्रानवहितहृद्यं गत्यन्तरं शङ्कते – स्वच्छ इति । यथाऽत्यासन्नमपि मुखं स्वयमगृह्यमाणं दर्पणसन्निधानेन तत्र समर्पितच्छायं तत्रत्यमेव गृह्यते, तथाऽर्थाकारोऽपि स्वच्छबुद्धिप्रतिफलितश्छायात्मा गृह्यत इत्यर्थः । एतदपि दूषयति – चेति । न हि नष्टस्य क्वचिच्छायापत्तिर्दृष्टा, न च वर्तमानस्यापि वर्तिष्यमाणे । अन्यमपि दृष्टविरोधमाह – न चेति । रूपवत्येव हि पदार्थे रूपवतामेव प्रतिबिम्बसिद्धिः । न च विज्ञानं रूपवत्, नाप्यर्थः; स्पर्शगन्धादिग्रहणे रूपप्रसङ्गाभावात्; नीलादौ रूपवत्वानभ्युपगमात्; तत्कल्पनेऽपि प्रत्यक्षत्वानभ्युपगमेन प्रतिविम्बप्रसङ्गाभावात् । अप्रत्यक्षस्याकाशस्य जलादिषु प्रतिबिम्बितत्वं दृश्यत इति चेन्न; आकाशप्रत्यक्षत्वपक्षे तदभावम् । पक्षान्तरे तु यत्तन्मलिनताध्यासविशिष्टतया किंचिच्चाक्षुषं सर्वलोकसिद्धं, तस्यैव जलादौ प्रतिविम्बितत्वम् । अतो नार्थस्य बुद्धौ कथंचिदपि प्रतिबिम्बितत्वसिद्धिरिति । स्यादेतत्, न मुख्यच्छायापत्तिं ब्रूमः, किं त्वध्यासमात्रम् आरोपितार्थाकारं विज्ञानमनुभूयत इति, तद्दत्तोत्तरम् । अर्थस्य तदाकारस्य च ग्रहणाभावे कथं बुद्धौ तदध्यासः? ग्रहणे च कथमर्थो न प्रत्यक्षः? अर्थग्रहणाभावेऽपि तदाकारो वासनावशादन्यत्राध्यस्यत इति चेन्न; अप्रत्यक्षमेव ह्यर्थं समर्थयमानस्य तद्वासनैव निर्मूला; सा कथमध्यासं प्रसुवीत? अर्थनिरपेक्षवासनाप्रवाहवैचित्रीसंभवे योगाचारयूथत् किं निर्गतोऽसि? किं च यत्रानुमानादावर्थस्य न बुद्धिहेतुत्वं, तत्र स्वाकारसमर्पणक्षमहेतुत्वायोगात् ग्राह्यत्वाभावः प्रसज्येत । अथ स्यात् – यथा माषराशौ मषी यथा वा नीलोत्पलवने कादम्बस्तद्भेदाग्रहात्तदपृथग्भावेनाभिमन्यते व्यवह्नियते च; एवं तत्तदर्थसन्निहितविज्ञानं तथेति; इदमपि दत्तोत्तरमेव । गृह्यमाणे हि माषराश्यादौ मषीप्रभृतेस्तत्सारूप्ये तत्संसर्गे च सति तथाऽभिमानव्यवहारौ स्याताम् । इह तु न तथा, अर्थस्याप्रत्यक्षत्वात् ज्ञानस्य च तत्सारूप्यसंसर्गयोरयोगात्, तत एव भेदाग्रहस्याप्यसंभवादिति । अत एव वैभाषिकमुखेनापि नैतद्वाच्यम् । नन्वस्ति तावत्कश्चिन्नीलादिराकारः; दृष्टस्य दुरपलपत्वात् । स त्वर्थे सन्नपि परमाणुगतसत्तावन्न गृह्यते । बुद्धिगतस्तु स्थूलगतसत्तावदुपलभ्यते । अत एकस्याकारस्योभयोपरञ्जकत्वादर्थाकारो बुद्धौ गृह्यत इत्यत्राह – नैकेति । अयं खल्वाकारः प्रागुक्तैरर्थस्वरूपधर्मादिविकल्पक्षोभैरपास्तः । किंचानेकनिष्ठोऽयमेकाकारः सत्यः, असत्यो वा? नाद्यः; जात्यादिखण्डनाशाप्रहाणप्रसङ्गात्, पूर्वापरवर्तिन एकत्वे स्थिरवादप्रसङ्गाच्च । न द्वितीयः, अवगमाधीनसत्ताकस्यासत्यस्य कथमगृह्यमाणतयाऽर्थेऽवस्थानम्? तद्ग्रहे च तत्कल्पनाधिष्ठानस्यार्थस्यापि प्रत्यक्षत्वमकामेनापि स्वीकार्यम् । अपि च नीलाद्याकारस्यार्थातिरिक्तत्वस्वीकारेऽपसिद्धान्तः, अनतिरेके तु न बुद्धौ तत्संभवः, संभवे च बुद्ध्यारूढस्यार्थस्य प्रत्यक्षत्वं सुदुस्त्यजमित्यभिप्रायेणाह – स चेति ॥ २७ ॥ इति ज्ञानेऽर्थाकारसमर्पणादिभङ्गः ॥

4.253     संसर्गाद्बोध्यबुद्ध्योशोरभिदधति सिताद्याकृतेस्सिद्धिमन्ये

सादेश्यात् तन्मतेऽसौ न तु भवति तथा कालजोऽतिप्रसक्तः ।

व्यंशे नैवाभिमुख्यं विषयविषयिताऽत्राकृतेः प्रागसिद्धा

क्वास्यास्संसृष्टनाशे जनिरिति कुसृतिः पूगताम्बूलनीतिः ॥ २८ ॥

अन्ये त्वाहुः – बुद्धिरर्थश्च वस्तुतो निराकारौ; तथाऽपि चूर्णहरिद्रायोगजरागन्यायेन सितरक्तादिराकारस्तदोत्पन्नो गृह्यत इति । तदनुभाषते – संसर्गादिति ॥ तत्र संसर्गव्यवस्थापकविकल्पभेदानभिसन्धाय देशैक्यात् संसर्गं तावन्निराकरोति -सादेश्यादिति । यथा चूर्णहरिद्रयोरत्यासन्नदेशाधिष्ठानतया मिथःसंयोगो निरन्तरत्वं वा, न तथाऽत्र, विप्रकृष्टबोध्यग्रहणात्, कालान्तरवर्तिनामपि कयाचिद् बुद्ध्या गृह्यमाणत्वात्; तत्र संसर्गाभावादेव तज्जन्याकारायोगात्, स्वाकारधीसिद्धेश्च वर्तमानधीसमानत्वात् । न च त्वन्मते देशो नाम कश्चिदन्यः, येन सादेश्यसंभवः । अथ मन्यसे यत्र कालासत्तिस्तत्रैव सांसर्गिक आकारः, अन्यत्र तु वासनात एवेति; तत्राह – तथेति । कालजो हि ग्राह्यग्रहणयोर्निरन्तरपूर्वापरत्वमात्रेण वा समानकालतया वा? उभयत्राप्यतिप्रसक्तिरनिवार्या । स्वभावनियमादनतिप्रसक्तिरिति चेत्, तर्हि किमर्थसंसर्गेण, विज्ञानवादनीत्या बुद्धेरेव स्वभावनियमोपपत्तेः? नन्वयस्कान्ताभिमुख्यादयस एव विकृतिः, चन्द्रसूर्याभिमुख्यात्तत्कान्तयोरेव । एवं कुतश्चिदाभिमुख्यविशेषात् क्वचिदाकारविशेषोत्पत्तिः स्यात् । तत्राह – व्यंश इति । सांशयोरेव पदार्थयोराभिमुख्यसंगतिः । इह तु द्वयोरपि निरंशत्वाभ्युपगमान्न तत्संभव इत्यर्थः । भिन्नकालयोश्च तदसंभवः स्पष्टः । स्यादेतत्; समकालयोर्भिन्नकालयोश्च बोध्यबुद्ध्योर्विषयविषयिभावः सर्वाभिनन्द्यः; तत एव संसर्गादाकार उत्पद्येतेति । तदपि दूषयति – विषयेति । किमत्र निराकारे वस्तुनि विषयीकृते पश्चादाकार उत्पद्यते? साकारे वा? नाद्यः, अर्थस्य प्रत्यक्षत्वानभ्युपगमात्, आकारोत्पत्तिकाले बोध्यबुद्ध्योर्विनष्टतया निराधाराकारोत्पत्तिग्रहणयोः प्रसङ्गात्, आकारस्य च द्विष्ठैकनिष्ठत्वादिविकल्पदौःस्थ्यात् । न द्वितीयः, विषयीकारादाकारसिद्धिः, साकारस्य विषयीकार इति मिथस्संश्रयात् । दूषणान्तरमाह – क्वास्या इति । अस्याः – आकृतेः । क्षणिकवस्तुद्वयसंसर्गजन्यायास्तदुभयनाशकाले तत्र वाऽन्यत्र वा स्थित्ययोगात्, निराधारत्वे च अर्थादेराकार इति ग्रहणायोगाच्च, संसर्गजाकारनीतिः प्रमाणाभावात् प्रमेयविरोधाच्च कुत्सितगतिरित्यर्थः । अयं चात्र भावः – ज्ञानार्थसंसर्गादुत्पत्स्यमान आकारो न प्रत्यक्षज्ञानेन गृह्येत; ज्ञानकाले ग्राह्याकाराभावात्, आकारोत्पत्तिकाले ज्ञानस्य विनष्टत्वात् । लोकदृष्ट्या चात्र निदर्शनेन संभावना स्थाप्यते । लोकश्च स्पर्शवद्रूपवद्द्रव्यसंसर्गाद्रक्तिमाद्युत्पत्तिं पश्यति । तत्र यद्यप्यचाक्षुषेऽर्थे क्वचिद्रूपस्पर्शविकल्पास्पदत्वम्, तथाऽपि न बुद्धिस्तथा । अतस्तयोरुभयत्र एकत्र वा न संसर्गहेतुको नीलाद्याकार उत्पद्येत । एकस्य च द्विष्ठत्वे स्वमतक्षोभः, विषयमात्रनिष्ठत्वे तदाकारविषयप्रत्यक्षतापत्तिः, ज्ञानमात्रनिष्ठत्वेऽर्थनैरपेक्ष्यप्रसङ्गश्चोक्त इति ॥ २८ ॥ इति संसर्गजाकारमतभङ्गः ॥

4.254     भ्रान्तौ रूप्यादिरर्थो विलसति निरधिष्ठान इत्याहुरेके

तन्नाधिष्ठानदृष्टेरनियतिविरहादन्यथाऽतिप्रसङ्गात् ।

निष्ठ्यूतस्वाक्षिदोषप्रभृतिषु च भवेत् केश[गुच्छा]पुञ्जादिबुद्धिः

किं चैषाऽप्यन्यथाधीर्यदनिदमिदमित्यत्र भातं ब्रवीषि ॥ २९ ॥

अथ कैश्चिद् बाह्यार्थवादिभिस्सौगतैरुक्तां निरधिष्ठानख्यातिमन्वाख्याति – भ्रान्ताविति ॥ नात्र पुरोवर्तिनि रजताध्यासः; किं तु संस्कारोपनीतं प्रमुषिततदंशं रजतं दोषवशादिदमिति भाति । अन्यथा कथं तैमिरिककेशस्तबकटिट्टिभादिप्रत्ययः? न हि तत्र किंचिदधिष्ठानं भ्रान्तिदशायां बाधदशायां वा भाति । न चेयं स्मृतिरेव; अननुभूतेदंत्वग्रहणात् । प्रागनुभूतमेवेदत्वं भातीत्ययुक्तम् । तद्भाने तत्कारप्रसङ्गात् । अन्यथा कथं भ्रा[न्तिः]न्ता सविहतिरिति । तदेतत् प्रतीतिविरोधादिविवक्षया प्रतिषेधति – तन्नेति । अबाधितलोकप्रतीतिविरोधात् निरधिष्ठानत्वं दुर्वचमित्यभिप्रायेणाह – अधिष्ठानदृष्टेरिति । पुरोवर्तिद्रव्यमङ्गुल्या निर्दिशन्निदं रजतमिति व्यपदिशति; उपादत्ते च स्वयम् । तद्वाक्यश्रावी च तत् रजतत्वेन वदति । यदि शुक्लभास्वरशुक्तिशकलमिदं तया न प्रतीतं, कथं रजतार्थी तदेवोपादत्ते? कथं च नेदं रजतभिति बाधकोदये जहाति? इत्यभिप्रायेणाह – अनियतिविरहादिति । अन्यथा प्रतीतिप्रवृत्त्योरनियतिरेव स्यादित्याह – अन्यथेति । न हि निमीलिताक्षो रजतं स्मरन् कदाचिद्रजतमिदमिति भ्राम्यति । न च रजतस्मृतिकालदृष्टमङ्गुलीयकार्थी संगृह्णातीति भावः । तैमिरिकभ्रान्तिषु साधिष्ठानत्वं साधयति – निष्ठ्यूतेति । प्रभृतिशब्देन गन्धर्वनगरादिभ्रमेषु मेघादेरधिष्ठानस्य संग्रहः । एवं च वर्णयतामन्यथाख्यातिरनतिक्रमणीयेत्याह – किंचेति । इदमर्थस्य रजततया भानमसन्निहितस्य रजतपदार्थस्येदंतया भानमिति को विशेषः? अस्मत्पक्षे तु प्रतीतिप्रवृत्तिबाधानामुपपत्तिरिति विशेषः ॥ २९ ॥ इति बाह्यार्थवादिसौगतोक्तनिरधिष्ठानख्यातिभङ्गः ॥

4.255     ख्यातिं भ्रान्तिस्वरूपां जगदुरविषयां केऽपि तद्धीविरुद्धं

ख्यातिः कस्यापि पुंसः क्वचिदपि विषये सिद्धरूपा हि सिद्धा ।

अत्रार्थासत्त्वतः स्यादियमविषयता सर्वथा सत्त्वतो वा

तादृक्त्वेऽप्यन्यथाख्यात्यसदधिगमयोरेव पर्याय एषः ॥ ३० ॥

अत्र केचिदेवमूचुः – ख्यात्यन्तरवादिनां तावदन्ततोऽख्यातिपक्षेऽन्यथाख्यातिपक्षे वा विश्रमः; तत्र च ख्यात्यपह्नवदोषमसत्ख्यातिप्रसङ्गं च परिजिहीर्षमाणैरन्यासक्तदृष्टिन्यायेन निर्विषयैव ख्यातिरङ्गीकार्येति । तदनुभाषते -ख्यातिमिति ॥ तत्र प्रतीतिप्रवृत्तिबाधभ्रमत्वानामनुपपत्तिरित्यभिप्रायेणाह -तद्धीविरुद्धमिति । निर्विषयत्वे घटादिवत् ख्यातित्वं न स्यादिति प्रसङ्गमभिसन्धायाह -ख्यातिरिति । अयं भावः – यद्यप्यात्मस्वरूपं ज्ञानमिति त्रय्यन्तसिद्धान्तः, तथाऽपि तस्य स्वप्रकाश[रूप]तामात्रेण ज्ञानत्वं श्रुतिपरतन्त्रैरङ्गीक्रियते । एवं क्षेत्रिणां धर्मभूतज्ञानस्य विषयप्रकाशरहितावस्थाऽपि । न त्विह तथा वक्तुं शक्यम्; भ्रान्तिर्निर्विषयेत्यवगमाभावात्; प्रत्युत सविषयत्वमेव तस्यत्सर्वेषु शास्त्रेषु सुव्यक्तमुक्तम् । हिः प्रसिद्धौ । तदिह सविषयत्वेऽवश्यंभाविनि तदविरोधाय भ्रान्तिविषयस्यार्थस्याध्यासाधिष्ठानेष्वविद्यमानतया सर्वत्राभावाद्वा भ्रान्तेर्निर्विषयत्वं वक्तव्यम्; तथा सत्यन्यथाख्यातिरलीकख्यातिर्वा स्यादिति न निर्विषयख्यातिसिद्धिरित्युत्तरार्धेनाह – अत्रेति । एषः – भ्रान्तिशब्दार्थो बोधः । स च निर्विषयोऽपि सविषयत्वेन भातश्चेदन्यथाख्यातिस्वीकारः । निर्विषयतया भाने तु प्रवृत्त्यादिहेतुत्वं न स्यादिति भावः ॥ ३० ॥ इति निर्विषयख्यातिभङ्गः ॥

4.256     प्रत्यक्षादित्रयं च स्मृतिरिति च मतिः श्रुत्यभीष्टा चतुर्धा

प्रत्यक्षं त्वत्र साक्षात् प्रतिपदनुमितिर्व्याप्यतो व्यापके धीः ।

शाब्दी वाचाऽर्थबुद्धिः स्मृतिरपि कथिता संस्क्रियामात्रजा सा

येषामिष्टाऽन्यथाधीः पृथगभिदधिरे तैरिहान्येऽपि भेदाः ॥ ३१ ॥

प्रमाणाप्रमाणविभागप्रसङ्गात् ख्यातौ वादिभेदोक्ता विकल्पाः प्रत्युक्ताः । अथ श्रुत्याद्यभिमतं बुद्धेश्चातुर्विध्यमाह – प्रत्यक्षादीति ॥ श्रूयते हि ‘स्मृतिः प्रत्यक्षमैतिह्यमनुमानं चतुष्टयमिति । ऐतिह्यमिह शाब्दज्ञानम्, औचित्यात् । आह च भगवान्मनुः – ‘प्रत्यक्षमनुमानं च शास्त्रं च विविधागमम् । त्रयं सुविदितं कार्यं धर्मसिद्धिमभीप्सता ॥ इति ॥ तज्जन्यायाः स्मृतेस्तदनुविधानादधिकार्थासिद्धेश्च पृथगनुक्तिः । यथोद्देशं पादद्वयेन लक्ष्यते । अत्र – उक्तेषु चतुर्षु । प्रत्यक्षमिह साक्षात्प्रतिपत्तृबुद्धिः । तस्यात्साक्षात्त्वं नाम लैङ्गिकत्वशाब्दत्वस्मृतित्वरहितज्ञानत्वम् । तेन मुक्तादीनां धर्मभूतज्ञानेषु धर्मिज्ञाने चानुस्यूतिः । वैशद्यमात्रं साक्षात्त्वमिति त्वव्याप्तमतिव्याप्तं च; सुषुप्त्यादावविशदात्मस्वरूपभानस्य परोक्षज्ञानेष्वपि प्रकाशांशवैशद्यस्य च भावितत्वात् । वैशद्यविशेषः साक्षात्त्वमिति तु दुर्विवेचम् । ननु लैङ्गिकादिज्ञानानां स्वात्मनि साक्षात्त्वमस्ति वा न वा? आद्ये लिङ्गादिजन्ये कथं तदभावलक्षणं साक्षात्त्वम्? न च तत्र तज्जन्यत्वं नास्ति, अजन्यत्वेनानादित्वप्रसङ्गात् । न चैकस्य निरंशस्य वेद्यांशत आगन्तुकत्वम्, अंशान्तरतश्चानादित्वमिति श्रद्धेयम् । न द्वितीयः, प्रत्यक्षज्ञाने स्वात्मनि प्रत्यक्षत्वाभावप्रसङ्गात् । न ह्यक्षजन्ये लिङ्गादिजन्ये वा ज्ञाने स्वात्मनि कश्चिद्विशेषो दृश्यत इति । अत्र ब्रूमः । ये खल्वाहुः – ‘सर्वविज्ञानहेतूत्था मितौ मातरि च प्रमा । साक्षात्कर्तृत्वसामान्यात् प्रत्यक्षत्वेन संमता ॥ इति, तान् प्रत्ययं पर्यनुयोगश्शोभते । ये तु लैङ्गिकादिज्ञानेषु स्वात्मस्वविषयविभागानादरेण ज्ञातकरणसंस्कारमात्रयोरन्यतरजन्यज्ञानत्वेन परोक्षत्वं निर्धारयन्ति, न तान् प्रत्यसौ । श्लो. अन्ये तु भ्रमसंवित्तौ सत्यासत्यार्थते यथा । प्रत्यक्षत्वपरोक्षत्वे तथैकत्राहुरंशतः ॥ अनिर्धारितसाक्षात्त्वैरत्र वक्तुं न शक्यते । बुद्धावेकत्र साक्षात्त्वं परोक्षत्वाविरोधतः ॥ परोक्षेतरबोधत्वं साक्षात्त्वमिति चेन्मतम् । स्वस्य स्वान्यत्ववैघट्यात् साक्षात्त्वाभाव इष्यताम् ॥ अनादिबुद्धिसाक्षात्त्वं कुतस्त्वमिति चेन्न तत् । कारणेनानपेक्षत्वात् प्रमाणं पुनरागमः ॥ श्रूयते हि ‘कर्माध्यक्षस्सर्वभूताधिवसस्साक्षी चेता केवलो निर्गुणश्चेति । स्मर्यते च ‘नैव किंचित् परोक्षं ते’ इत्यादि । ‘पश्यत्यचक्षुः’ इत्यादिभिरपि सर्वदर्शित्वं सिद्धमिति । अनुमितिरिति लक्ष्यपदम् । व्याप्यतो व्यापके धीरिति लक्षणपदम् । व्याप्यतया प्रतिसन्धीयमानात्तद्व्यापकतया सामान्यतः प्रसिद्धस्यार्थस्य विशेषतोऽवगतिरनुमितिरित्यर्थः । शाब्दीत्यत्र धीरिति योज्यम् । वाचा – वाक्येन । अर्थबुद्धिः – विशिष्टार्थधीः । स्मृतिः लक्ष्यम् । ननु स्मृतिलक्षणे संस्कारमात्रजन्यत्वमसंभवि; एकहेतुजन्यस्य कस्याप्यभावात् । अत्र तु तथाऽभ्युपगमे संस्कारोद्बोधकादिभिरपि नैरपेक्ष्यप्रसङ्गात् । न चैवमस्त्विति युक्तम्; अतिप्रसङ्गात्, उत्पन्नस्थिरसंस्कारस्य च प्रत्ययान्तराव्यवहितस्मृतिसन्ततिप्रसङ्गात्, सुषुप्त्याद्यभावप्रसङ्गाच्चेति । मैवम्; न ह्यत्र साधारणकारणानां सहकारिणां च व्यवच्छित्त्यै मात्रशव्दः, किंतु पृथम्बोधजननसमर्थतत्तदसाधारणकारणानपेक्षत्वार्थम्; मनसोऽपि ज्ञानोत्पत्तौ साधारणकारणत्वात् न दोष इति । मात्रशब्दः प्रत्यभिज्ञाव्यवच्छेदार्थः । ननु सन्ति संशयादयोऽपि मतिभेदाः, किं ते न विभज्यन्त इत्यत्राह – येषामिति । अयं भावः – ‘यथार्थं सर्वविज्ञानं’ इति पक्षेण धीचातुर्विध्यमुक्तम् । अन्यथाख्यातिपक्षे तु संशयादिभेदाश्च वक्तव्याः । तद्व्यवच्छेदाय प्रत्यक्षादिलक्षणे प्रमितिशब्दः प्रयोक्तव्य इति ॥ ३१ ॥ इति प्रत्यक्षादिप्रमाणविभागलक्षणे ॥

4.257     ईदृक्त्वात्यन्तशून्ये न हि मिषति मतिर्नापि युक्तिस्तथात्वे

सामग्रीभेदवेद्ये पृथगवगतिरस्त्वत्र नैषाऽन्यथात्वात् ।

धीत्वादेर्वा विशिष्टं प्रथयति जनिता बुद्धिराद्याक्षयोगैः

तस्मात् संस्कारशून्येन्द्रियजनितमतिर्निर्विकल्पेति वाच्या ॥ ३२ ॥

प्रमाणज्येष्ठतया प्रथमोद्दिष्टलक्षितस्य प्रत्यक्षस्य निर्विकल्पकसविकल्पकविभागमात्रं सर्वानुमतं सिद्धं कृत्वा निर्विकल्पकमविशिष्टविषयमिति परोक्तं निर्मूलयति – ईदृक्त्वेति ॥ अयं भावः – अप्रत्यक्षा बुद्धिरिति वादं परिहरिष्यामः । प्रत्यक्षत्वपक्षे तु नीलपीतादिवत्तत्स्वरूपमपि यथोल्लेखं निर्धार्यम् । तत्र न तावत्प्रथमाक्षसन्निपातसमनन्तरमविशिष्टविषया

मे बुद्धिर्जातेति पामरः पण्डितो वा सावधानोऽनवहितो वा कश्चिद्विजानन् व्याहरन् वा दृश्यते । न च निर्विकल्पकान्तरेण तद्ग्रहणं परैरभ्युपगम्यते । एवं सविकल्पकेनापि; तद्धि निर्विकल्पकविषयं विशिष्टं गृह्नाति, न तु निर्विकल्पकम् । यत्तु पठ्यते – ‘अस्ति ह्यालोचनाज्ञानं प्रथमं निर्विकल्पकम् । बालमूकादिविज्ञानसदृशं शुद्धवस्तुजम् ॥ इति, तदपि डिम्भविप्रलम्भनम् । निदर्शनं च विशिष्टविषयमेव; बालमूकपश्वादीनां जातिगुणादिविशिष्टवस्तुग्रहणाभावे तत्तन्नियतप्रवृत्त्यादिभङ्गप्रसङ्गात् । शुद्धवस्तुजत्वं च वस्तुजत्वमात्रं वा, असहितवस्तुजत्वं वा, अनारोपितवस्तुजत्वं वा, निर्विशेषवस्तुजत्वं वा? नाद्यः, सविकल्पकसाधारण्यात् । न द्वितीयः, अनेकव्यक्तिविषयैकनिर्विकल्पकसंभवात्, जातिगुणादीनां च धर्मिणा सह मिथस्संबन्धरहित[स्य]ग्रहणस्य कैश्चिन्निर्वाहात् । न तृतीयः, सविकल्पकसाधारण्यादेव । न चारोपितवस्तुजत्वं सविकल्पकस्य कैश्चिदुपन्यस्तं यतस्तद्व्यवच्छेदार्थं शुद्धवस्तुजत्वोक्तिश्शोभेत । न चतुर्थः, अपसिद्धान्तापातात् । न हि निर्विकल्पकगृहीतं वस्तु निर्विशेषमिति वस्सिद्धान्तः; तदात्मकजात्यादिविशेषाभ्युपगमात्, अन्तर्हितसुगतमतानभ्युपगमाच्च । धर्माजन्यत्वे सति धर्मिजन्यत्वं विवक्षितमिति चेन्न; धर्मधर्मितादात्म्यवादिनां भवतां तथोक्तेः पांसुविक्षेपप्रायत्वादित्यास्तामेतत् । मा भूदुपलम्भतस्तादृशधीसिद्धिः, युक्तितस्तु स्यादित्यत्राह – नापीति । नह्यादावविशिष्टग्रहणे काचिद्युक्तिः, तदभावे वा काचित्युक्तिरिति भावः । नन्वस्ति युक्तिः; सर्वत्र हि विशिष्टप्रत्ययस्य विशेषणविशेष्यधीपूर्वकत्वं दृष्टम् । अतः प्रथमसविकल्पकमपि तथा; अन्यत्र विशिष्टप्रत्ययस्य विशिष्टप्रत्ययपूर्वकत्वनियमादनवस्थाप्रसङ्गः । अतोऽवसीयते प्रथमाक्षसन्निपातात् प्रत्येकधीरिति । तत्राह – सामग्रीति । अयं भावः – यत्र विशिष्टप्रत्ययस्य पृथग्विशेषणविशेष्यग्रहणपूर्वकत्वं, तत्र भिन्नसामग्रीवेद्यत्वनिबन्धनस्तथाभावः; सुरभिचन्दनत्वयोरन्योन्यनिरपेक्षभिन्नेन्द्रियग्राह्यत्वात् । तदपेक्षस्तु पश्चात् कुतश्चित् सुरभि चन्दनमिति विशिष्टप्रत्ययः । स तु चाक्षुषो मानस आनुमानिको वेत्यवसरे चिन्त्यम् । नन्वेकेन्द्रियवेद्येष्वपि दण्डदेवदत्तादिषु कदाचिद्विशिष्टप्रत्ययस्य पृथक्प्रत्ययपूर्वकत्वं दृष्टम् । सत्यम्; तत्रापि सामग्रीप्रवाहवशात् प्रथमं प्रत्येकग्रहणसामग्रीप्रवृत्तिः, अनन्तरं विशिष्टग्रहणमपि न पृथग्ग्रहणकारणकम् । यत्र तु विशेषणविशेष्यतत्संबन्धानां युगपद्योग्यैकैन्द्रियसंबद्धानां विशिष्टप्रत्ययः, तत्र न पृथग्ग्रहणपूर्वकत्वमस्तीति दृष्टम् । अत एव तत्राप्यनुमीयत इति चेन्न; भिन्नसामग्रीवेद्यत्वोपाधेरनिस्तारात् । विशिष्टप्रत्ययत्वं चानादिविशिष्टप्रत्यये व्यभिचरितम् । न चाविशिष्टविषयमेवेश्वरज्ञानम्, तेन कर्तृत्वानिर्वाहात् । आदिमत्त्वे सतीति विशेष्टव्यमिति चेत्; तत्कस्य हेतोः? अनादेरनपेक्षत्वादिति चेन्न; आदिमतोऽप्येकसामग्रीवेद्यविषयस्य विशिष्टोऽल्लेखे पृथग्ग्रहणनैरपेक्ष्यत् । तदिदमभिप्रेत्याह – अत्र नैषेति । एकसामग्रीवेद्यविषये विशिष्टप्रत्यये कारणभूता पृथगवगतिर्नास्तीत्यर्थः । तत्र भिन्नसामग्रीवेद्यविषयत्वासंभवं हेतुमाह – अन्यथात्वादिति । प्रतिप्रयोगमप्याह – धीत्वादेरिति । आदिशब्देन धीशब्दवाच्यत्वधीलक्षणयोगित्वयोर्ग्रहणम् । प्रथमाक्षसन्निपातजनिता बुद्धिर्विशिष्टविषया, धीत्वात् संप्रतिपन्नवदिति । आत्मस्वरूपप्रत्ययश्चाहंत्वादिविशिष्टप्रकाशात्मेत्यङ्गीचक्रुः । किं तर्हि निर्विकल्पकस्योदाहरणमिति चेत् प्रथमाक्षसंप्रयोगजमेव । कथं तस्य निर्विकल्पकशब्दवाच्यत्वम्? विवक्षितविकल्पाभावमात्रात्, अल्पधने दरिद्रव्यवहारवत् । ननु तत्तद्विकल्पाभावतारतम्याद्व्यवहारानियतिः स्यात्, न च व्यवस्थापकं लक्षणं दृश्यते, तत्राह – तस्मादिति । अविशिष्टविषयं प्रत्यक्षं निर्विकल्पकमिति परोक्तासंभवादित्यर्थः । संस्कारनिरपेक्षेन्द्रियजन्या मतिर्निर्विकल्पिकेति लक्षणसिद्धेर्नोक्तदोष इति भावः । एतेन

प्रत्यभिज्ञायां सविकल्पकत्वमेवेति अर्थादुक्तं भवति । ननु भाष्ये कथं, निर्विकल्पकमेकजातीयेपु प्रथमपिण्डग्रहणम्, द्वितीयादिपिण्डग्रहणं सविकल्पकमिति विभज्यते? इत्थम् – लक्षणोन्नयनार्थमुदाहरणप्रदर्शनपरत्वादिति । नन्विह विशिष्टविषयत्वसाधनम् अविशिष्टविषयव्यवच्छेदाय । तस्याश्च सिद्ध्यसिद्ध्योस्तद्व्यकच्छेदो दुश्शकः । मैवम्; सर्वत्र विधौ व्यवच्छेदावश्यंभावाभावात् । प्रसिद्धः खलु केवलान्वयी, तादृशं च साध्यम् । तादृशहेतुसाध्यानभ्युपगन्तॄणामपि तत्स्वरूपं सिद्धम् । न च तद्विधिर्नास्ति; सति च तस्मिन् नान्यव्यवच्छित्तिः; असंभवात् । अत्र तु विशिष्टविषयत्वं सविकल्पकादौ दृष्टम्, तदभावो घटादौ; तन्निषेधे च न सिद्ध्यसिद्धिविरोध इति । एतेन निर्विकल्पकमप्रमाणम्, अनवधारणात्मस्त्वादिति लोकायतोक्तमपि लूनमूलम्; हेत्वसिद्धेरिति ॥ ३२ ॥ इत्यविशिष्टविषयनिर्विकल्पकभङ्गः ॥

4.258     लिङ्गाद्यव्यापृताक्षान्वयवति विषयेऽक्षार्थजन्यो विकल्प-

स्संस्कारस्त्विन्द्रियाणामिह सहकुरुतां तावता न स्मृतित्वम् ।

न स्यात्तस्यान्यथात्वं वहुविहतिहतैः कल्पनात्वादिलिङ्गैः

स्याद्वाऽनैकान्त्यमेषामनियतिमविसंवादिबाधश्च सूते ॥ ३३ ॥

सौगतास्तु निर्विकल्पकमेव प्रत्यक्षम्, अर्थजत्वादर्थविषयत्वाच्च; विकल्पस्तूभयरहितः, अतो न प्रत्यक्षमिति; तान्प्रत्याह – लिङ्गादीति ॥ अयमर्थः -लिङ्गशब्दबोधनानुपक्षीणेन्द्रियसंप्रयोगानन्तरं यो विशिष्टप्रत्ययो जायते स इन्द्रियार्थसंप्रयोगजन्यः, निर्विकल्पकवत्तदन्वयव्यतिरेकानुविधानात्, परैरपि प्रत्यक्षानुपलम्भाभ्यां कारणत्वव्यवस्थापनात्; अन्यथाऽतिप्रसङ्गात् । अत्र च पराभीष्टकारणचतुष्केऽधिपत्यालम्बनयोरनन्यथासिद्धत्वात्; तदिह निर्विकल्पकवदर्थजत्वमर्थविषयत्वं च दुस्त्यजम् । ननु निर्विकल्पकस्य विकल्पहेतुत्वं किं साक्षात्, उत संस्कारद्वारा? नाद्यः; नायनरश्मिप्रवाहे प्रथमचक्षुस्संयोगस्याशुतरविनाशित्वेन सविकल्पकपूर्वक्षणेऽनवस्थानात्, संप्रयोगान्तरकाले च क्षणिकस्य निर्विकल्पस्यापक्रान्तेः, संप्रयोगनिरपेक्षनिर्विकल्पकजन्यत्वे विकल्पस्यानिन्द्रियक्त्यत्वापातात्, तत एवार्थजत्वस्याप्यसिद्धेः, अप्राप्यकारित्वस्य भवद्भिरनङ्गीकाराच्च । नापि द्वितीयः, संस्कारजन्यत्वे विकल्पस्य स्मृतित्वप्रसङ्गादिति । तत्राह – संस्कारस्त्विति । इह -सविकल्पके । अयं भावः – न वयं ज्ञानेऽपि त्वदिष्टं क्षणिकवमिच्छामः, येन संप्रयोगान्तरकाले अनवस्थाननियमः । तथात्वेऽपि संस्कारजन्यत्वमात्रेण न स्मृतित्वापत्तिः; प्रत्यभिज्ञान्यायेन सहकारिमात्रत्वात् संस्कारस्य, अन्यथा प्रत्यभिज्ञाऽपि स्मृतिरेव स्यात् । अस्त्विति चेन्न; अननुभूतविशिष्टग्रहणात्, अन्यथा इन्द्रियसंप्रयोगस्य तत्राकारणत्वप्रसङ्गात् । भवत्वत्र कारणत्वसहकारित्वयोर्विपर्यास इति चेत्, कुतोऽयं, निर्णयः? स इत्युद्देशप्राधान्यादिति चेत्, न; अयं स इति विपरीतप्रत्यभिज्ञायां तदभावात् । त्वत्पक्षेऽपि कुतस्त्यः प्रधानाप्रधानविभाग इति चेत्; अस्तु यतःकुतश्चित्; मा भद्वा; तथाऽपि संस्कारमात्रजत्वाभावात् प्रत्यभिज्ञायास्सविकल्पकस्य च स्मृतित्वं दुरुपपादम् । ननु अविसंवादि विज्ञानं प्रमाणम्; अविसंवादश्च बाधविरहः, स च नास्ति विकल्पस्य, स्वारसिकबाधाभावेऽपि नभःस्थलमलिनतादिष्विव यौक्तिकबाधात् । यो विकल्पस्स विभ्रमो यथा विगीतः, तथा च जात्यादिविकल्प इति । न चात्र प्रत्यक्षविरोधादनुमानमेव दुर्बलमिति वाच्यम्; ज्वालैक्यादिषु प्रसङ्गादिति । एतद्दूषयति – न स्यादिति । कल्पनात्वम् – विशिष्टग्राहित्वम् । आदिशब्देन निर्विकल्पकेतरत्वं संस्कारजन्यत्वमित्यादि गृह्यते । बहुविहतिहतैरिति हेतुगर्भम् । सन्ति ह्यत्र बह्व्यो विहतयः । तथा हि; कल्पनात्वादिति हेतुप्रयोगे तत्तत्पक्षदृष्टान्तादिविकल्पाः पक्षीकृता न वा? नाद्यः, स्वयमेवाश्रयाद्यसिद्ध्यापादनात् । न द्वितीयः, पक्षव्यतिरिक्तस्यात्र सपक्षत्वासंभवे विपक्षत्वपरिशेषात्; तथा च तत्र कल्पनात्वादिहेतुवृत्तेरनैकान्त्यमपरिहार्यम् । तदिदमाह – स्याद्वाऽनैकान्त्यमेषामिति । एवं स्वाभिमतक्षणिकत्वाद्यनुमानसाध्यादिविकल्पपक्षीकारबहिष्कारयोरुक्तदूषणमनुसन्धेयम् । यत्पुनराहुः – ‘विकल्पोऽवस्तुनिर्भासादसंवादादुपप्लवः’ । इति, ‘तस्यां यद्रूपमाभाति बाह्यमेकभिवान्यतः । व्यावृत्तमिव निस्तत्त्वं परीक्षानङ्गभावतः ॥ इति, तदप्यसिद्धहेतुकं प्रलोभनमात्रम्; विकल्पविषयावस्तुत्वे समीचीनयुक्त्यभावात् । कूऽटयुक्तिभिस्तद्बाधे योगाचारमाध्यमिकतर्कैस्त्वदिष्टनिर्विकल्पकविषयनीलादिस्वलक्षणानामपि निरस्ततापत्तेः । तदिदमभिप्रेत्याह – अनियतमिति । नन्वर्थक्रियास्थितिमविसंवादं ब्रूमः । नच विकल्पविषयाणां जात्यादीनां काचिदर्थक्रियाऽस्ति; स्वस्थणसापेक्षत्वे तस्यैव हेतुत्वोपपत्तेः, तन्निरपेक्षत्वे तेषां पृथगेव कदाचित् कस्याश्चिदर्थक्रियायास्साधकत्वप्रसङ्गात् । अतः कल्पनात्वादिहेतुभिरविसंवादिबाधः क्रियत इति चोद्यानुयोगः । मैवम्; तत्तत्कार्यापेक्षया नियतपूर्वभावित्वेन प्रत्यक्षानुपलम्भनिश्चितस्वभावानां जात्यादीनां तत्तदर्थक्रियाहेतुत्वस्य दुरपह्नवत्वात् । एतेन समर्थप्रवृत्तिहेतुत्वमविसंवाद इति स्थापनेऽपि विकल्पप्रामाण्यस्य न काचित् क्षतिः । विकल्पद्वारैव हि निर्विकल्पकस्य प्रवृत्तिहेतुत्वं मन्यसे । तदविसंवादाच्च वस्तदविसंवादवाचोयुक्तिः । अथ मणिप्रभाविषयमणिविकल्पन्यायेन विकल्पस्य परम्परया निर्विकल्पकविषयार्थप्रतिबन्धात् विवेकाग्रहपसूतोऽयं तस्मिन्नविसंवादारोपः; नतु वस्तुतस्तस्य प्रामाण्यमिति । तर्ह्यनुमानस्यापि तथैव प्रसक्तिः; तदेव वस्तुतस्सौगतरहस्यमिति चेत्; प्रलीनं तर्ह्यत्र प्रयुक्तैरनुमानैः । उपयोगविशेषादनुमानस्य पृथग्ग्रहणमिति चेत्; तद्भूयस्तया विकल्पस्यापि तदस्तु, न वा द्वयोरपीति निपुणमवसीयतामिति ॥ ३३ ॥ इति सविकल्पकबाधपरिहारः ॥

4.259     शब्दात् प्रागर्थसिद्धेः परमपि च तयोरक्षभेदादिबोधात्

शब्दैक्ये वाच्यभेदादपि बहुषु पदेष्वेकवाच्यप्रसिद्धेः ।

साम्यासत्त्याद्ययोगाद्युगपदवगतेर्व्यक्तिजात्यादिशब्दैः

शब्दाध्यासो न युक्तः प्रथयति विषयं किंतु संज्ञा तटस्था ॥ ३४ ॥

ननु सर्वे विकल्पाश्शब्दानुविद्धा एव दृश्यन्ते; शब्दश्च विकल्पविषयमर्थं स्वात्मनैवोपरञ्जयति पीतिमेव शङ्खं पीतश्शङ्ख इति । अभ्रान्तौ पृथगुपलम्भस्त्वध्यासोपयुक्त एव; अतोऽशब्दात्मकस्यार्थस्य शब्दात्मना भानादप्रमितिर्विकल्प इति । अत्र किमिदं कृत्स्नविकल्पापेक्षयोच्यते उत तद्विशेषापेक्षयेति बुद्ध्या विभज्य पूर्वं तावत्प्रतिक्षिपति – शब्दादिति ॥ अयमभिसन्धिः -नहि सर्वो विकल्पश्शब्दोपरञ्जनघन एव प्रवर्तते, पश्वादीनामव्युत्पन्नानां च तदयोगात् । व्युत्पन्नानामपि तत्तत्संज्ञाविशेषस्मरणहेतुतया तत्तत्प्रवृत्तिनिमित्तविशिष्टवस्तुग्रहणावश्यंभावादिति । तेन शब्दप्रतीतेः पूर्वमर्थप्रतीतिरस्ती-

त्ययमेको हेतुः । हेत्वन्तरमप्याह – परमपीति । विस्मृतशब्दस्य शब्दप्रतीतिमन्तरेण केवमलर्थ एव प्रतीयते; तत्रापि न शब्दप्रतीत्यवश्यंभावः । किंच शब्दः श्रोत्रेन्द्रियेण प्रतीयते, अर्थस्तु यथायोगं तत्तदिन्द्रियेण । इदं च ग्राहकमात्रोपलक्षणम् । अतो ग्राहकप्रमाणवैलक्षण्यनियमादर्थैक्येनैव शब्दग्रहणमसमञ्जसमित्याह – तयोरिति । तथा च कतिपयविकल्पापेक्षयाऽपि शब्दाध्यासो न युक्तः । पीतशङ्खादिष्वेकेन्द्रियग्राह्यत्वादतयोन्यसंसर्गाध्यासो युक्त ख । अपिच एव शब्दो बहूनप्यर्थानभिदधाति; शक्तिवैचित्र्यात् । तत्र परस्परविरुद्धेष्वर्थेष्वेकस्यैव शब्दस्य ऐक्येन बोधनं न घटत इत्याह – शब्दैक्य इति । एवं बहुषु पदेषु परस्परविरुद्धस्वभावेष्वेकस्यैव वाच्यत्वं दृश्यते पर्यायशब्देषु । तत्राप्यर्थैक्योपलम्भनमनेकेषां शब्दानां न युज्यत इति वदति – बहुष्विति । उपलभ्यते च शब्दानां साम्येऽप्यर्थवैषम्यम्; एवमर्थानां साम्येऽपि शब्दवैषम्यम्; साम्यं चैकजात्यादेकाकारधर्मयोगित्वाद्वेति । एवमर्थस्य दूरस्थत्वं शब्दस्य सन्निकृष्टत्वं शब्दस्य दूरस्थत्वमर्थस्य सन्निकृष्टत्वं च । एवं तीव्रमन्दादि [विशदाविशदादि] विविधवैचित्र्ययोगदर्शनान्न शब्दार्थयोरन्योन्याध्यासेन प्रतिपत्तिरित्याह – साम्येति । यद्वा साम्यं – शब्दार्थयोः समदेशवर्तित्वम् । आसत्त्यादिः पूर्ववदेव । युगपदवगतेः – समानाधिकरण्यवाक्ये परस्परविरुद्धस्वभावैर्जात्यादिशब्दैरेकस्यैवार्थस्य यौगपद्येन प्रतीतेरपि न शब्दाध्यासो युक्तः । एवं व्यधिकरणवाक्येऽपि शब्दार्थसंसर्गयोः पृथग्भावेनैव भानादिति भावः । कथं तर्हि सविकल्पकज्ञाने संज्ञा स्वोपश्लेषेणार्थं प्रकाशयतीत्याशङ्क्याह – प्रथयतीति । अयमर्थः – तटस्थैव संज्ञा विशेषणान्तरवद्वाचकत्वेनैव प्रतीयते, न पुनरर्थात्मना । अर्थात्मना प्रतीयमाने कथं वाचकत्वेन प्रतीतिर्योयुज्यत इति भावः । उक्तं च – ‘संज्ञा तु स्मर्यमाणाऽपि प्रत्यक्षत्वं न बाधते । संज्ञिनस्सा तटस्था हि न रूपाच्छादनक्षमा ॥ इति । अयमत्र निर्णयः – श्लो. परस्परविरुद्धत्वप्रतिभासानुरोधतः । सविकल्पकविज्ञाने शब्दाध्यासो न युज्यते ॥ इति ॥ ३४ ॥ इति शब्दाध्यासभङ्गः ॥

4.260     धीत्वाच्छाब्दानुविद्धां विमतमतिमुशन्त्यत्र शाब्दा न सत्त-

त्तस्यार्थः स्मार्यभावात् स्युरतु च स कथं बालमूकादिबोधे ।

सूक्ष्मा वाङ्मात्रकल्प्या न हि समधिगता तादृशी क्वापि संज्ञा

वाचस्सूक्ष्भाद्यवस्थाकथनमपि विदुर्भावनाद्यर्थमाप्ताः ॥ ३५ ॥

अत्र केचिदाहुः – अनुमानेनैव सर्वप्रतीतेश्शब्दानुवेधमुपकदयाम इति, तदेतदनुवदति -धीत्वादिति ॥ अनूदितमर्थं प्रतिक्षिपति – न सत्तदिति । तस्य हेतुमाह – तस्येति । अयमर्थः – परिदृश्यमान एवार्थः शब्दं स्मारयति; तस्य कथं तदात्मना भानमिति । बालमूकादिबोधे कालात्ययापदेशमाह – स्फुरतु चेति । सूक्ष्मा पश्यन्ती मध्यमा वैखरीति शब्दविभागात् सूक्ष्मशब्दस्सर्वत्रास्तीति न बालमूकादिबोधे कालात्ययापदेश इत्याशङ्क्य परिहरति – सूक्ष्मेति । अवाचकस्य तादृशावस्थापन्नस्य शब्दस्य प्रतिपत्तिवेलायां प्रसङ्गाभावादित्यर्थः । तदेव विवृणोति – हीति । वाचकश्शब्द एवात्र विमृश्यत इति भावः । कथं तर्हि सूक्ष्माद्यवस्थाकथनं तेषुतेषु शास्त्रेष्वित्यत्रोत्तरम् – वाच इति । अवस्थाभेदकथनं केवलभावनार्थं न पुनर्वाचकत्वेन; अतश्शब्दानुवेधानुमानमसमञ्जसमिति भावः । अनेन – ‘न सोऽस्ति प्रत्ययो लोके यश्शब्दानुगमादृते । अनुविद्धमिव ज्ञानं सर्वं शब्देन गृह्यते’ ॥ इति शब्दानुवेधप्रत्यक्षत्वोदाहरणमपि दत्तोत्तरम्; तादृशोपलन्माभावादेव ॥ ३५ ॥ इति सर्वप्रत्ययानां संज्ञानुविद्धत्वभङ्गः ॥

4.261     सत्त्वाद्यैरक्षगम्यं विमतमिति वदन् वक्तु बाधं विपक्षे

श्रुत्यालम्बे तु सैव प्रसजति शरणं तादृशादृष्टसिद्धौ ।

अध्यक्षं लौकिकं चेदधिगतिविहतं भावनोत्थं न युक्तं

नित्यं त्वक्षानपेक्षं निरुपधिरिह ते दुर्वचोऽक्षप्रकर्षः ॥ ३६ ॥

इत्थं सर्वप्रत्ययानां शब्दानुवेधवादी निरस्तः । इदानीं सर्वेषामप्यर्थानां प्रत्यक्षत्ववादी निरस्यते । स खल्वेवमाह – धर्मादयः कस्यचित्प्रत्यक्षाः सत्त्वादित्यादिकमनुमानजातं धर्मादीनां प्रत्यक्षत्वं साधयतीति; तथा च योगिप्रत्यक्षं सिद्धमिति । तदेतदनूद्य परिहरति – सत्त्वाद्यैरिति ॥ अयं भावः – किं प्रत्यक्षत्वमात्रं प्रसाध्यते? किं वा पुनरैन्द्रियिकप्रत्यक्षत्वम्? पूर्वत्र न योगिप्रत्यक्षसिद्धिः; ईश्वरप्रत्यक्षेणैवान्यथासिद्धत्वात् । उत्तरत्र विपक्षे बाधकाभावात् अन्यथा – सिद्धिरनुमानस्य । अतो न योगिप्रत्यक्षं साधयितुमलम् । श्रुतिस्मृत्यादिबाधप्रसङ्गो विपक्षे बाधक इति चेत्, तर्हि श्रुत्यादिकमेव शरणम्, किमनेनानुमानेनेत्याह – श्रुत्येति । उक्तमर्थं विकल्प्यापि दूषयति – अध्यक्षमिति । किमध्यक्षं लौकिकं वा? किं वा भावनोत्थम्? उत नित्यमेव? लौकिकं चेत् प्रत्यक्षविरुद्धमित्याह – अधिगतिविहतमिति । लोकोपलम्भविरुद्धमित्यर्थः । न हि धर्मादिविषयं लौकिकं प्रत्यक्षमुपलभ्यते, तथात्वे वा ‘सत्संप्रयोगे पुरुषस्येन्द्रियाणां बुद्धिजन्म तत्प्रत्यक्षमनिमित्तं विद्यमानोपलम्भनत्वादिति सूत्रविरोधः । भावनोत्थमपि प्रत्यक्षं भावनावैशद्यातिरेकेण न क्वापि दृष्टमित्याह – भावनोत्थं न युक्तमिति । मारीचादेर्भावनया रामादिसाक्षात्कारो भयभरदोषनिमित्तं विपरीतज्ञानमेव ‘वृक्षे वृक्षे च पश्यामि’ इति । एवमनुरागादिनिमित्तकामिनीमुखदर्शनादिकमपि व्याख्यातम् । नित्यं प्रत्यक्षं न कारणायत्तमित्याह – नित्यं त्विति । तत्साधनेऽपि न योगिप्रत्यक्षसिद्धिरिति भावः । ननु प्रकृष्यमाणं सर्वं निरतिशयदशाशिरस्कं यथा कुवलामलकबिल्वादिपरिमाणं प्रकृष्यमाणं निरतिशयदशाशिरस्के परममहत्परिमाणे विश्राम्यति; तथा चेन्द्रियशक्तेः प्रकृष्यमाणायाः सार्वज्ञ्ये विश्रमस्समुचितः; एवं च योगिनां मानसप्रत्यक्षस्य सर्वविषयत्वं सेत्स्यतीत्याशङ्क्य परिहरति – निरुपधिरिति । यथा चक्षुःस्पर्शनादेः प्रकृष्यमाणस्य न सर्वविषयत्वे विश्रमः, एवं मनसोऽपीति भाव्यम् । अन्यथा धर्मादयः कस्यचिच्चाक्षुषाः स्पार्शनाः इत्यादिकमपि वक्तुं शक्येत ॥ ३६ ॥

4.262     प्रत्येकं ह्यक्षवेद्यं प्रतिनियततया सर्वलोकप्रसिद्धं

काकोलूकादिकानामपि निजविषये ह्यैक्षि चक्षुःप्रकर्षः ।

मान्यालव्यालपूर्वेष्वपि खलु रसनास्पर्शनादिक्रमात् स्या-

दक्षस्यानैक्यमात्रं स्थितविषयमतस्त्वक्पिपासादिवाक्यम् ॥ ३७ ॥

तदेव प्रकाशयति – प्रत्येकमिति ॥ प्रतिनियतविषयतया हि चक्षुरादीनां प्रसिद्धिः; प्रवृत्तिरप्येवमेव । एवं मनसोऽपि प्रतिनियतविषयत्वं स्वीकार्यम्, दृष्टं च तत्; आत्मादिविषय एव हि मनसः स्वातन्त्र्यमवलोक्यते, बाह्यविषये पुनरिन्द्रियान्तरसहकारितामात्रमेव । परमाण्वदृष्टादिविषये पुनस्तदपि नास्ति; तेषामतीन्द्रियत्वात् । तथा च स्वात्मनि तज्ज्ञानादिषु वा शक्तस्य मनसः स्वातन्त्र्येण न बाह्यविषयेषु शक्तिः । तत्र प्रमाणमाह – सर्वलोकेति । ननु चक्षुरादीनामपि स्वविषयातिलङ्घनं दृश्यते; दूरे हि काकः पश्यति, अन्धकारेऽप्युलूकादिरर्थं गृह्णाति । अतो मनसोऽपि प्रकर्षविशेषादविषयग्रहणं युक्तमित्याशङ्क्याह – काकेति । काकादिचक्षुःप्रकर्षोऽपि न स्वविषयातिलङ्घी; रूपरूपितदेकार्थसमवायिमात्रग्रहणात् । न हि काकश्चक्षुषा रसं गृह्णाति, नापि चोलूकश्चक्षुषा जिघ्रति । कथं तर्हि मान्थाव्यालादिष्विन्द्रियवृत्तिसंकरः? मान्थालो हि मुखेनैवाभ्यवहरति निर्हरति च, व्यालश्चक्षुषैवाकर्णयत्यवलोकते च । अत इन्द्रियवृत्तेरनियमो युक्त इत्याशङ्क्य परिहरति – मान्थालेति । तत्र हि रसनास्पर्शनयोरेकस्थानवर्तित्ववत् वागपानयोश्चक्षुः – श्रोत्रयोश्च स्थानैक्यमेव, न पुनरन्येन्द्रियेणान्येन्द्रियकृत्यमाचर्यते । अतो न स्वविषयातिलङ्घनमिन्द्रियवृत्तेरिति भावः । श्लो. धर्मादिविषयत्वं तु मनसो यद्विशिष्यते । चक्षुरादेस्तथाभावो नेष्यते केन हेतुना ॥ इति चक्षुरादिप्रतिबन्दिरेव मनसो धर्मादिविषयत्वं निवारयतीति संग्रहः । कथं तर्हि – ‘त्वक् च दृक् च निपिपासति जिह्वा विह्वला श्रवणवत् परवृत्तौ । नासिका त्वयि करीश तथेति प्राप्नुयां कथमिमां स्विदवस्थाम्’ ॥ इति इन्द्रियवृत्त्यनियमो महापुरुषैरभिधीयत इति । इत्थम् इन्द्रियवृत्तिनियममन्तरेण स्वाभाविकेनैव ज्ञानेन सर्वं साक्षात्करिष्यामीति भावः । न पुनरन्येन्द्रियविषयेष्वन्येन्द्रियवृत्तिरभिधीयते । ‘पश्यत्यचक्षुस्स शृणोत्यकर्णः’ इत्यादेः परविषयतया तस्याप्यकरणायत्तज्ञानत्वस्यासंकुचित[वि]ज्ञाने मुक्तात्मन्यपि साधारण्यात् । अयमत्र निर्णयः – यदि योगिप्रत्यक्षं प्रामाणिकम्, तदा श्रुत्या स्मृत्या पुराणेन च सिध्यति न पुनरनुमानेन; तस्यान्यथासिद्धत्वात्, चाक्षुषत्वादिप्रसञ्जनप्रतिबन्दिग्रस्तत्वाद्वेति पूर्वमेवोक्तम् । श्लो. यथौपनिषदस्त्वीशो नानुमानेन सिध्यति । तथा योगी च शास्त्रेण केवलेन प्रसिध्यतु ॥ ३७ ॥ इति योगिप्रत्यक्षानुमानभङ्गः ॥

4.263     संयुक्तव्यापकत्वप्रभृतिसहकृतैर्व्याप्तिधीसव्यपेक्षै-

रक्षैरेवानुमाधीर्भवतु किमितरत्कल्पयित्वेति चेन्न ।

निर्व्यापारेन्द्रियस्याप्युदयति खलु सा भूतभाव्यादिलिङ्गैः

स्मृत्यारूढैः श्रुतैर्वा मन इह सकलज्ञानसामान्यमिष्टम् ॥ ३८ ॥

एवं योगिप्रत्यक्षादागमगम्यादृष्टादेरसिद्धिरुक्ता । अथायोगिप्रत्यक्षादनुमानगम्याग्न्यादेरसिद्धिरुच्यते । कश्चिदाह – धूमादिसंयुक्तमिन्द्रियमेव वह्न्यादिकं गृह्णातु; किमनेनानुमानेन? सहकारिसमर्थ्ये सर्वमपि संपत्स्यते । चक्षुर्धूमादिसंयोगः प्रथमं सहकारी, तत्सहकारि च व्याप्तिपक्षधर्मत्वपरिज्ञानादि । किमितरप्रमाणपरिकल्पनयेति । एतदाशङ्कते – संयुक्तेति ॥ परिहरति – नेति । परिहारं विवृणोति – निर्व्यापारेति । अयमत्र भावः – नेन्द्रियमत्र वह्न्यादिज्ञाने करणमपि तु धूमादिज्ञान एव । अतो न वह्नादिज्ञानं प्रत्यक्षप्रमाणफलम् । अपि तु धूमादिज्ञानमेव वह्न्यादिज्ञानं जनयति । नन्वस्तु धूमादिज्ञानमवान्तरव्यापारः, तद्द्वारा प्रत्यक्षमेव वह्न्यादिज्ञानं जनयतीति चेत्; तन्न; इन्द्रियार्थसन्निकर्षजन्यधूमादिज्ञानमन्तरेणापि स्मृत्यारूढैः श्रुतैर्वा भूतभाव्यादिलिङ्गैरग्न्यादिज्ञानदर्शनात् । किं च यद्धि यज्जनयित्वैव यज्जनयति तस्य तत्र तदवान्तरव्यापारत्वमिति ह्यवान्तरव्यापारलक्षणमाचक्षते । न चेदं लक्षणं धूमादिज्ञानेऽस्ति; धूमादिज्ञानमन्तरेणापि प्रत्यक्षेण वह्न्यादेर्द्रष्टुं शक्यत्वात्, तथा दर्शनाच्च । अतोऽनुमानादेव साध्यसिद्धिः; न पुनः प्रत्यक्षात् । अन्यथा शब्दज्ञानमवान्तरव्यापारीकृत्य शब्दार्थज्ञानमपि प्रत्यक्षमेव प्रसज्येत । न च तद्युक्तम्; परोक्षापरोक्षविभागाभावप्रसङ्गात् । अथापि सर्वविषयस्य मनइन्द्रियस्य वह्न्यादिज्ञाने व्यापृतत्वान्मानसप्रत्यक्षं वह्न्यादिज्ञानमस्त्वित्याशङ्क्य परिहरति – मन इति । सकलज्ञानसामान्यमिति – संशयविपर्ययस्मृत्यादि[ज्ञान]साधारणत्वान्मनइन्द्रियस्य न तज्जन्यतामात्रेण प्रत्यक्षत्वसिद्धिरिति भावः ॥ ३८ ॥

4.264     पक्षस्थं व्याप्यमादौ विदितमिह तु न व्यापकस्य प्रसक्ति-

व्याप्तिस्तेन स्मृता स्यान्न च तत उभयोर्निश्चयः पक्षयोगे ।

तादृग्व्याप्यान्वितोऽसाविति मतिरपि न व्यापकं तत्र यच्छेत्

तस्मात्तद्वयापिपक्षान्वयनियतमतिर्नाक्षतस्संस्कृतेर्वा ॥ ३९ ॥

उक्तार्थस्थेम्ने पुनरपि विकल्प्य दूषयति – पक्षस्थमिति ॥ किं धूमादिदर्शनदशायां प्रत्यक्षो वह्निः? तदा धूमादिरेव विदितः; नतु वह्न्यादिः । तदिदमाह – इह तु न व्यापकस्य प्रसक्तिरिति । यदा पुनर्व्याप्तिस्मरणं तदा पुनर्दृष्टान्त एव साध्यप्रसिद्धिः, तत्रैव पूर्वं ग्रहणात्; न तु पक्षे । तदिदमाह – न चेति । तर्ह्युपनयावस्थायां साध्यसिद्धिरस्तु, ततोऽनुमानं व्यर्थमित्याशङ्क्याह – तादृगिति । उपनयजन्यं ज्ञानं व्याप्तस्य हेतोः पक्षधर्मत्वमवगाहते; न पुनः साध्यस्य पक्षधर्मत्वम् । तस्मात् साध्यस्य पक्षधर्मत्वप्रतीतिर्नाक्षतः । नापि व्याप्तिदर्शनजनितसंस्कारात्; न चोभयस्मात् । अतो व्याप्तस्य हेतोः पक्षधर्मत्वप्रतीतिः साध्यस्यापि पक्षधर्मत्वं प्र[साध]ख्यापयतीति सुस्थिरमनुमानम् ॥ ३९ ॥ इति अनुमानस्य प्रत्यक्षादिबहिर्भावः ॥

4.265     नायोग्यस्याक्षबाधः स्वविषयविहतिं न क्षमेतानुमानं

स्वस्यैवापेक्षितत्वादनुमितिमखिलां बाधते नागमोऽपि ।

निस्सन्देहप्रवृत्तेरिह निपुणधियां नाप्यसौ संशयात्मा

वैशिष्ट्यान्न स्मृतिश्चेत्यनुमितिरुदिताऽध्यक्षवन्मानमन्यत् ॥ ४० ॥

नन्वनुमानं प्रमाणमेव न भवति; प्रामाण्ये सत्येव हि प्रत्यक्षाप्रत्यक्षविवादः, इत्याशङ्क्य परिहरति – नायोग्यस्येति ॥ अयमत्र विकल्पक्रमः – अनुमानस्याप्रामाण्यमबाधितत्वेऽपि, उत बाधितत्वेन? तत्रापि किं बाधः प्रत्यक्षेण? अथानुमानेन? अथवाऽऽगमेन? यद्वा नियतबाधकाभावेऽपि संशयात्मकत्वेनाप्रामाण्यम्? अथवा स्मृतिरूपत्वेन? तत्राबाधितत्वेऽप्यप्रामाण्यमिति तावद्व्याहतम् । बाधेऽपि प्रत्यक्षबाधो योग्यस्यैव । स पुनर्धूमानुमानादौ न दृश्यते । अयोग्यविषये बाधस्त्वप्रयोजकः; अयोग्यानुपलब्धेरबाधकत्वात् । अतो न प्रत्यक्षबाधात् अप्रामाण्यमनुमानसामान्यस्य । यत्र पुनः क्वचित् प्रत्यक्षबाधः तत्र वयमप्यप्रामाण्यमङ्गीकुर्महे । नैतावताऽनुमानतत्त्वापलापः । न चानुमानेन वा बाधः; व्याघातात्, कृत्स्नानुमानाप्रामाण्ये बाधकस्याप्यनुमानस्य तदन्तर्भावात् । तदिदमाह -स्वविषयेति । नाप्यागमेन बाधः, आगमस्यैव व्युत्पत्तिदशायामनुमानसापेक्षत्वात् । इदमप्याह – स्वस्येति । नच संशयात्मकमनुमानम्, निश्चयेनैव प्रवृत्तिव्यवहारयोर्दर्शनात् । तदप्याह – निस्सन्देहेति । स्मृत्यात्मकत्वमवशिष्यते, तच्च साध्यस्य पक्षधर्मताप्रतिपत्तौ न संभवतीत्युक्तं प्रागेव । एतदपि वदति – वैशिष्ट्यादिति । अतः प्रत्यक्षवदनुमानमपि पृथगेव प्रमाणमिति निगमयति – अध्यक्षवदिति । अत्र स्मृतेरप्रमाणत्वेनोपादानमन्वारुह्यवादेनेति भाव्यम् ॥ ४० ॥ इत्यनुमानप्रामाण्यसिद्धिः ॥

4.266     सामान्यं प्राक्प्रसिद्धं न पुनरनुगमस्सिद्धपूर्वो विशेषे

व्याप्तिस्सर्वाऽपि भग्ना क्वचिदपि सकलव्याप्यसङ्गत्यदृष्टेः ।

भूयोदृष्टेर्व्यवस्था न हि भवति तथोपाधयः स्युर्दुरूहा

इत्याद्याः स्वेष्टतर्कस्थिरनियमजुषां दर्शनेनैव बाध्याः ॥ ४१ ॥

अत्र चार्वाकः प्रत्यवतिष्ठते । किमनुमानेन विशेषस्साध्यते, उत सामान्यम्? न तावत्सामान्यम्; प्रागेव प्रसिद्धत्वात् । न ह्यग्निमत्त्वसामान्यमप्रसिद्धम्; महानसस्याप्यनग्निमत्त्वेन दृष्टान्तस्य साध्यविकलत्वप्रसङ्गात् । तदिदमाह – सामान्यमिति ॥ न च विशेषस्साध्यः तस्मिन्ननुगमाभावादित्याह – न पुनरिति । यथाऽऽहुः – ‘विशेषेऽनुगमाभावत्सामान्ये सिद्धसाधनात् । अनुमाभङ्गपङ्केऽस्मिन्निमग्ना वादिदन्तिनः ॥ इति; ‘विशेषेऽनुगमाभावात्सामान्ये सिद्धसाधनात् । तद्वतोऽनुपपन्नत्वादनुमानकथा कुतः ॥ इति च । किंच – श्लो. व्याप्तिरेवानुमानस्य जीवातुः सा च सर्वथा । न संभवति संबन्धग्रहस्यानुपपत्तितः ॥ कतिपयव्यक्तिदर्शनेन संबन्धग्रहणस्य व्यभिचारिष्वपि साधारणत्वात्; सकलव्यापकव्यक्तिदर्शनेन संबन्धग्रहणमसर्वज्ञेन कर्तुं न शक्यते । यदि सर्वज्ञस्संबन्धवेदी किम[नेना]नुमानेन? एवं च सर्वाऽपि व्याप्तिर्भग्ना । प्रमेयत्वाभिधेयत्वादौ सर्वव्यक्त्युपसंहारेण व्याप्तिग्रहणस्याशक्यत्वादित्याह – व्याप्तिरिति । अस्तु भूयोदर्शनेन व्यवस्थेत्याशङ्क्याह -भूयोदृष्टेरिति । सहस्रशो भूयोदर्शितस्यापि तत्रतत्र व्यभिचारदर्शनादिति भावः । तर्हि निरुपाधिकसंबन्धो व्याप्तिरिति लक्षणं कृत्वोपाधिविधूननेनैव व्याप्तिं प्रतिष्ठापयाम इति चेन्न; दृष्टादृष्टोपाधीनामनन्तानां दुरूहत्वेन तद्विधूननस्यैवाशक्यत्वादित्याह – तथोपाधय इति । इत्थमनुमाननिराकरणे दुर्वादिनां प्रलापोऽयं किमनुमानमूलः? उत तर्कमूलः? अथवा निर्मूलः? निर्मूलत्वे प्रलाप एव; अनुमानमूलत्वे तर्कमूलत्वे वा व्याप्तिमन्तरेण तदुभयं न संभवतीति तवापि व्याप्तिग्रहणमवश्यंभावि; तथा च व्याघात इत्यभिप्रायेण परिहरति – इत्याद्या इति । न केवलं तर्क एव परपक्षबाधकः, अपि तु लोकोपलम्भोऽपीत्याह – दर्शनेनेति ॥ ४१ ॥ इत्यनुमानबाधकतर्कपरिहारः ॥

4.267     दृष्टेऽतीचारशङ्का न भवति यदि सा क्वापि देशान्तरादौ

सिद्धा तत्रानुमानस्थितिरथ न तदा क्वातिशङ्कावकाशः ।

व्याघातान्ता तु शङ्का न पुनरुदयति स्वप्रवृत्त्यादिभङ्गा-

द्यावच्छङ्कं च तर्कप्रसृतिरिह ततो नानवस्थादिदोषः ॥ ४२ ॥

अनुमाने तावत् सामान्यं न साध्यते; येन सिद्धसाधनत्वमुद्भाव्येत । किंतु सामान्यव्याप्तिसहकृतेन पक्षधर्मत्वेन सामान्यस्य पक्षनिष्ठत्वरूपो विशेषस्साध्यते । कथं तर्हि विशेषव्याप्तिशून्येन पक्षधर्मेणापि हेतुविशेषेण तत्सिद्धिरिति मा वोचः । विशेषव्याप्तेरनुमानाङ्गत्वस्वीकारे पुनरयुक्ताङ्गत्वम्; अनपेक्षितप्राप्तिकल्पनया दूषणात् प्राप्तिसमा; समाधिश्च सामान्यव्याप्तेरेवानुमानाङ्गत्वात् । कथं सामान्यविषया व्याप्तिर्विशेषसिद्धावङ्गमिति चेत्; एवं तर्हि युक्ताङ्गपरित्यागः, सामान्यव्याप्तेरेव विशेषसिद्धौ युक्ताङ्गत्वात् । विशेषव्याप्तिरूपायाः प्राप्तेरङ्गत्वं परिकल्प्य तदभावेन दूषणमप्राप्तिसमां प्रक्रियामनुधावति । अविषयवृत्तित्वं च सामान्यविषयाया व्याप्तेर्विशेषविषये सञ्चारणेन दूषणकथनात् । तथा च सामान्यव्याप्त्या पक्षधर्मतया च परिष्कृतो हेतुः पक्षे साध्यविशेषं साधयति; अन्यथा प्रत्यनुमानप्रतितर्कयोरपि कण्ठगतजीवितत्वमापद्येत । अतो विशेषेऽनुगमाभाव इत्यादेरनवकाशः । यत्पुनस्सामान्येन सर्वव्यक्तिग्रहणासंभवान्न व्याप्तिग्रहणं संभवतीति, तदनन्तरमेव समाधास्यामः । तदवशिष्यते भूयोदर्शनाद्व्याप्तिग्रहणं न संभवति अतिचारशङ्कायास्सर्वत्र

सुलभत्वादिति, तदेतद्विकल्प्य दूषयति । भूयोदर्शनदृष्टस्याप्यर्थस्य किं दृष्ट एव देशेऽतिचारशङ्का उत देशान्तरादौ? न तावत् दृष्ट इत्याह – दृष्ट इति ॥ नापि देशान्तरादाविति वक्तुमनुवदति – यदीति । देशान्तरादावतिचारशङ्कायां देशान्तराद्यनुमानमेव निष्प्रतिद्वन्द्वमवतिष्ठत इत्याह – सिद्धेति । देशान्तरानुमानाभावमाशङ्कते – अथेति । शङ्कितमर्थं प्रतिक्षिपति – तदेति । तर्हि शङ्कायाः को निवारकः? निवारकाभावे कथं शङ्का निवर्तेतेत्यत आह – व्याघातान्तेति । अयमर्थः – उत्पन्ना शङ्का व्याघातदर्शनेन निवर्तते । तेनैव व्याघातदर्शनेन उत्तरोत्तरशङ्का न जायत इति । तथा च शङ्कानिवृत्तौ तर्कप्रवृत्तिस्तावतैवावसीदतीत्याह – यावच्छङ्कमिति । तेनोत्तरोत्तरतर्कप्रवृत्त्याऽनवस्थावचनमस्थानवाद इत्याह – तत इति । एतत्सर्वमभि[सन्धायो]प्रेत्योक्तं न्यायविद्भिः – ‘शङ्का चेदनुमाऽस्त्येव न चेच्छङ्का ततस्तराम् । व्याघातावधिराशङ्का तर्कश्शङ्कावधिर्मतः’ ॥ इति । अनेन ‘व्याघातो यदि शङ्काऽस्ति न चेच्छङ्का ततस्तराम् । व्याघातावधिराशङ्का तर्कश्शङ्कावधिः कुतः’ ॥ इति कुसृष्टिरपि नष्टप्राया; यावद्व्याघातदर्शनं शङ्कायास्सत्त्वम्; व्याघातदर्शने तन्निवृत्तिरित्युक्तत्वात् । भूयोदर्शनदृष्टाया व्याप्तेर्न निर्मूला शङ्का; तस्यास्सर्वत्र सुलभत्वेन स्वप्रवृत्त्यादिविरोधप्रसङ्गात् । उपाधिदर्शनादिमूलशङ्कायामुपाधिविधूननमुत्तरत्र दर्शयिष्यते ॥ ४२ ॥ इति अतिचारशङ्कोद्धारप्रकारः ॥

4.268     व्याप्यत्वं यस्य यत्र स्फुरति सहचरे सोऽस्य हेतोरुपाधि-

स्साध्यव्यापी समोऽयं समगणि निपुणैस्साधनाव्यापकश्च ।

योग्यादृष्ट्या च तर्कैरपि तमपनुदेच्छङ्कितं निश्चितं वा

साम्यं नात्राहुरेके तदभिमतमिह व्यापकादर्शनादि ॥ ४३ ॥

उपाधिस्वरूपप्रदर्शनपूर्वकमुपाधिविधूननप्रक्रियां प्रदर्शयितुमारभते – व्याप्यत्वमिति ॥ अत्र मतभेदेन लक्षणद्वयमाह – साधनाव्यापकत्वे सति साध्यसमव्याप्तो धर्म उपाधिरित्युदयनः । साधनाव्यापकत्वे सति साध्यव्यापक इति समशब्दप्रतिक्षेपेण वादीन्द्रः । तत्र स्वधर्ममन्यत्रारोपयन्नुपाधिशब्देनोच्यते; तथा च स्वधर्मभूताया व्याप्तेर्हेतुत्वाभिमते मैत्रीतनयत्वादौ प्रतीतिहेतुत्वाच्छाकद्याहारपरिणतिरुपाधिः । यथा स्फटिकगतारुणिमप्रतीतिहेतुर्ज[वा]पाकुसुमादिः । तथा च निरुपाधिकसंबन्धत्वस्य व्याप्तिलक्षणत्वात् तदभावेन व्याप्तिमवसादयन्नुपाधिर्दूषणमिति समशब्दं प्रयुञ्जानानामुपाधिशब्दार्थापरित्यागेन दूषणाभिधाने तात्पर्यम् । अन्येषां तु समो विषमो वा भवतूपाधिः, तन्निवृत्तौ पक्षे साध्यनिवृत्तेरुभयत्रापि साधारणत्वात्; तथा च साध्यनिवृत्त्यङ्गभूतव्यापत्वोपादानमन्तरेण समशब्दप्रयोगो व्यर्थः । तथा च समो वाऽधिको वा व्यापकत्वेनाभिमतः पक्षे व्यावर्तमानः साध्यं व्यावर्तयतीति पक्षे साध्यबाधादुपाधेर्दूषणत्वम् । उपाधिशब्दार्थस्तु यथातथा वा भवत्विति । तदेतत्सर्वं पूर्वार्धेनोक्तम् । अत्र निपुणैरिति कथनम् उपाधिशब्दार्थनिरूपणेन निर्वाहात् । अन्यथाऽपि दूषणत्वे सिद्धे कथमनपेक्षितसमशब्दोपादानमिति चेत्; इत्थम् – यथा पक्षविपक्षयोर्वर्तमानत्वेन हेतोर्दूषणत्वे सिद्धेऽपि पक्षविपक्षयोरेव वर्तमानो हेतुर्विरुद्ध इति विरुद्धलक्षणे सावधारणनिर्देशः प्रकारान्तरप्रदर्शनार्थः । विपक्षे वर्तमानत्वात् साध्यासाधकत्वम्; विपक्ष एव वर्तमानत्वात्परपक्षस्यापि साधकत्वम्; तथा चात्यन्तदुष्टमनुमानमितीममर्थं प्रकाशयितुं पक्षविपक्षयोरेवेत्यवधारणप्रयोग इति चेत्; एवं तर्हि व्यापकनिवृत्त्या व्याप्यनिवृत्तिद्वारेण पक्षे साध्यबाधं बोधयितुं व्यापकत्वोपादानम् । [व्याप्यस्य] मैत्रीतनयत्वादेर्व्याप्यत्वप्रतिभासोऽपि न स्वाभाविकः । अपि तु स्फटिकारुणिमवदन्यप्रयुक्त इति प्रतिभासमात्रस्यापि दुष्टत्वेन हेतोर्व्याप्तिनिवृत्तिं स्फुटमेव वक्तुं समशब्दप्रयोग इति सन्तोष्टव्यम् । व्यापकत्वमात्रोपादाने व्यापकनिवृत्त्या व्याप्यभूतसाध्यनिवृत्तिमुपजीव्य साध्यबाधेन हेतुदोषो वाच्यः । समशब्दोपादाने तु हेतोर्व्याप्तिप्रतिभासोऽप्यौपाधिक इति साक्षाद्धेतुदोषकथनमुद्भटत्वाद्दोषस्येति । अत उपाधिशब्दार्थस्वारस्यादुद्भटदोषप्रकाशनौचित्याच्च समशब्दप्रयोग इत्यौदयनिका इति । अस्तूपाधिलक्षणम्, कथं तस्य विधूननमित्याशङ्क्याह – योग्येति । उपाधिः खलु शङ्कितो निश्चितश्च । शाकाद्याहारपरिणत्यादिः शङ्कितः, निषिद्धत्वादिर्निश्चितः । यत्र खलु साधनाव्यापकत्वसाध्यसमव्याप्त्योरन्यतररूपस्याशङ्का, स शङ्कितोपाधिः; अन्तिमगर्भेऽपि शाकाद्याहारपरिणतिसंभवेन साधनाव्याप्तेराशङ्कितत्वात् । यत्र पुनर्द्वयोरपि रूपयोर्निश्चयः, स निश्चितोपाधिः; यथा हिंसात्वानुमाने निषिद्धत्वम्; यन्निषिद्धं तदधर्महेतुरिति नि[यमा]र्णयात् साध्यव्याप्तिः, वैधहिंसायां निषिद्धत्वाभावात् साधनाव्याप्तिः । उभयं च निश्चितम् । उभयं च प्रत्यक्षेण ग्रहीतुं योग्यं चेत्; योग्यादृष्ट्या तावदपनुद्यते, अयोग्यं चेत्तर्केणैवेति विभागः । तदिदमाह – योग्येति । तर्कप्रवृत्तिस्तु – किमुपाधयः सर्वथा प्रमाणपथमनवतीर्णा वा उतावतीर्णा वेत्यादिना विकल्प्य तेषुतेषु मन्त्रेषु वादिनां पठितपाठा । तथाहि – ‘समव्याप्तिपक्षस्य सर्ववादिसंप्रतिपन्नत्वाद्विषमव्याप्तिमनूद्य तेषां वादिनां भावमाह – साम्यमिति । अयमत्र भावः – व्यापकस्योपाधेः पक्षे दर्शनाभावाद्व्याप्यस्य साध्यस्य बाध इति । आदिशब्देन बौद्धोक्तषोडशविधानुपलब्ध्यन्तर्गता व्यापकविरुद्धोपलब्धिरुच्यते, यथा द्रव्यत्वाभावात् पृथिवीत्वाभाव इति व्यापकानुपलब्धिः, द्रव्यत्वविरुद्धगुणत्वाद्युपलम्भात् पृथिवीत्वाभाव इति व्यापकविरुद्धोपलब्धिरित्यादि । एवं पक्षे साध्यव्यापकस्योपाधेरनुपलम्भे तथोपाधिविरुद्धधर्मान्तरोपलम्भेऽपि साध्यासिद्धिरिति भावः । अन्यत् सर्वं विस्तरभयान्न लिख्यते ॥ ४३ ॥

4.269     नित्यो व्यापी च न स्यादुपधिरिह सदा सर्वतस्तत्प्रसङ्गा-

न्नाप्येष व्याप्यमात्राकृतिरवियुतितो नैकलिङ्गोपपत्तेः ।

नासौ पक्षेतरत्वप्रभृतिरपि भवेद्व्यापकोऽतिप्रसङ्गा-

त्तुल्यस्साध्येन पक्षे सह यदि घटते साधनं व्याप्नुयात् सः ॥ ४४ ॥

अत्रोपाधिविधूननप्रक्रियां विशेषतो दर्शयति – नित्य इति ॥ न तावदनुमाने धूमादौ वह्न्यादिसाधने नित्यो व्यापी वा कश्चिदुपाधित्वेन शङ्कितुं शक्यते । कुत इत्यत्राह – सदेति । उपाधेस्सदातनत्वप्रसङ्गात् सार्वत्रिकत्वप्रसङ्गात्; तथा च तत्समवृत्तेस्साध्यस्यापि वह्न्यादेस्सदातनत्वं सार्वत्रिकत्वं च प्रसज्येतेति भावः । तर्ह्यनित्योऽसार्वत्रिकश्च व्याप्यमात्राकृतिरस्त्वित्याशङ्क्याह – नापीति । तत्र हेतुं दर्शयति – अवियुतित इति । व्याप्यमात्ररूपस्योपाधित्वाङ्गीकारे कृतकत्वानुमाने सावयवत्वमुपाधिः स्यात् । न्यायविदां मते सावयवत्वस्यानित्यत्वकृतकत्वाभ्यां व्याप्तत्वात् उभयं चानित्यत्वसाधने सम्यगनुमानमेव । आहुश्च -, ‘कृतसावयवत्वादिप्रयुक्ता च विनाशितेति । अवियुतितः – अविनाभावात् । ये तु समपदं प्रतिक्षिप्य व्यापकमात्रमुपाधिरिति वदन्ति, तेषामपि पक्षेतरत्वम्, पक्षप्रतियोगिकान्योन्याभाववत्त्वम्, पक्षत्वात्यन्ताभाववत्त्वम्, पक्षत्वविरुद्धधर्मवत्त्वम्, पक्षत्वात्यन्ताभावाविनाभूतधर्मवत्त्वमित्येतादृशं नोपाधिरित्याह – नासाविति । कुत इत्यत्राह – अतिप्रसङ्गादिति । तदुक्तमस्माभिरेवान्यत्र – ‘नोपाधिः पक्षतोऽन्यत्वं साधनं न विपक्षतः । बाधनं न सपक्षेभ्यः सर्वानुमितिबाधनात् ॥ इति । अयमर्थः – पक्षेतरत्वं नोपाधिः; एवं पर्वतो वह्निशून्यः सपक्षेतरत्वात् विपक्षवदिति बाधितुं न शक्यते । तथा पर्वतो वह्निमान् विपक्षेतरत्वात् सपक्षवदिति साधयितुमपि न शक्यते; सर्वानुमानबाधनादिति । यं पक्षीकरोति वादी तमेव प्रतिवाद्यपि विपक्षीकरोति । तथा च परस्परविरोधादनुमाना[स्य]प्रामाण्यमेव संभज्येतेति । इत्थं न्यूनाधिकवृत्त्योर्निरासे समवृत्तिरवशिष्यते । स च यदि पक्षे संभवति, साधनव्यापकत्वान्नोपाधिः; असंभवे स एवोपाधिः । अत एव वह्निसामग्र्याः पक्षे संभवमाश्रित्य साधनव्यापकत्वादनुपाधित्वमाहुः । अत उभयाव्यभिचारिणामुभयव्यभिचारिणामन्यतरव्यभिचारेऽपि व्याप्यमात्राव्यभिचारिणां व्यापकमात्राव्यभिचारेऽपि विषमवृत्तीनामनुपाधित्वे [साध्य]व्याप्यव्यापकस्वभावानां साधनाव्यापकानामुपाधित्वमित्युक्तं भवति । तथा च यावत्साधनदेशमवर्तमानो यावत्साध्यदेशवृत्तिरुपाधिः; साधनवन्निष्ठात्यन्ताभावप्रतियोगित्वे सति साध्यवन्निष्ठात्यन्ताभावाप्रतियोग्युपाधिरित्यादिकमपि लक्षणं संगच्छते ॥ ४४ ॥

4.270     दृष्टं साध्यस्य यत्स्यात् सममधिकमपि क्वापि पक्षान्यता वा

तस्याभावेऽपि साध्ये सति यदि न भवेद्बाधकं व्यापि नैतत् ।

दुर्वारे बाधके तद्द्वयमपि दहनानुष्णतादावुपाधिः

साध्यं तद्व्याप्यतां वा हरतु स विरहात् पक्षतो हेतुतश्च ॥ ४५ ॥

समाधिकव्याप्तिकपक्षाङ्गीकारेणोपाधेर्व्यापकत्वप्रकारपरिशोधनपूर्वकं तद्दूषणत्वप्रकारमपि विशदयति – दृष्टमिति ॥ पूर्वं पक्षेतरत्वस्योपाधित्वं प्रतिक्षिप्तम् । इदानीं तस्याप्युपाधित्वमङ्गीकरोति – क्वापीति । अयं भावः – यत्र वह्न्यनुष्णत्वानुमानादौ पक्षे साध्यबाधः स्फुटमेव दृश्यते, तत्र पक्षेतरत्वमप्युपाधिः । यत्र पुनर्बाधो नास्ति, न तत्र पक्षेतरत्वमुपाधिरिति विभागः । अत्रोपाधेर्व्यापकत्वावगमप्रकारमाह – तस्येति । अयमस्यार्थः – यद्यस्य व्यापकत्वेन निर्दिश्यते, तस्याभावेऽपि तत्संभवे यदि बाधकतर्कः प्रवर्तते स एव तस्य व्यापकः; यथा शाकाद्याहारपरिणत्यभावे पुरुषगताद्यश्यामिकाभावो नियतमुपलभ्यते । एवमन्यत्रापि । अन्यथा अकारणकार्योत्पत्तिप्रसङ्ग इति तर्कः । एतादृशबाधकद्भावे व्यापकत्वम् । या तु क्षीराद्याहायरिणतिः सा श्यामत्वं प्रति न व्यापिका; विपक्षे बाधकाभावादित्यर्थः । तथा च वह्न्यनुष्णत्वानुमाने पक्षे प्रत्यक्षबाधकसद्भावादुपजीव्यविरोधादितर्कबाधाच्च सममधिकं वा पक्षेतरत्वं पक्षेतरवह्निसामग्रीशून्यत्वमित्यादिकं सर्वमप्युपाधिः स्यादित्याह – दुर्वार इति । तद्द्वयमपि – सममधिकमपि । उपाधेर्दूषणत्वप्रकारं निगमयति – साध्यमिति । पक्षे साध्यापहारे बाधः, हेतोस्साध्यव्याप्यत्वापहारे व्याप्यत्वासिद्धिः । उपाधिः खलु व्यापकस्वभावः पक्षे स्वाभावेन साध्यमपहरन् हेतोस्साध्यव्याप्यतामप्यपहरतीति भावः ॥ ४५ ॥ इति उपाधितद्विधूननादिः ॥

4.271     व्याप्तिः पक्षान्वयश्चेत्युभयमविकलं यस्य हेतुस्स सम्य-

ङ्ङाभासौ तद्विहीनौ तदुभयविततिस्स्यादनैकान्तिकादिः ।

तत्तद्वक्रानुमोत्प्रेक्षणमपि घटते न क्वचित् साध्यसिद्ध्यै

स्वव्याघातादिदोषादविषयनियतेर्वाच्छितालाभतश्च ॥ ४६ ॥

एवमनुमानेषूपाधिविधूननप्रकारमुक्त्वा हेतुतदाभासादिविभागं दर्शयति – व्याप्तिरिति ॥ द्वयमनुमानाङ्गं व्याप्तिः पक्षधर्मता चेत्युक्तम् । सा च व्याप्तिरन्वयव्यतिरेकाभ्यां द्वेधा भवति । साधनसद्भावे साध्यसद्भावोऽन्वयः, साध्याभावे साधनाभावो व्यतिरेकः । तत्रान्वये सर्वसपक्षवर्तिनो हेतोस्साध्येन सह सार्वत्रिकस्संबन्धः । तद्यथा, शब्दोऽनित्यः कृतकत्वादिति । कतिपयसपक्षवर्तिनस्तस्य सपक्षे कुत्रचित् साध्येन संबन्धः, तच्च सावयवत्वमिति; घटादिषु सावयवत्वसद्भावात् क्रियादिष्वभावात् । व्यतिरेकस्तु सकलविपक्षव्यावृत्त्यात्मकत्वादेकरूप एव । तथा च यस्ययस्यानुमानस्यान्वयव्यतिरेकौ स्तः, तदन्वयव्यतिरेकित्वात् सर्वाविगीतमेव । यस्य पुनरन्वयो व्यतिरेको वा न, तयोरुभयोर्गतिरुत्तरत्र वक्ष्यते । एवं व्याप्तिपक्षधर्मताभ्यां सम्यक्त्वमुक्त्वा तदभावे पुनरसम्यक्त्वमाह – आभासाविति । व्याप्त्यभावे व्याप्यत्वासिद्धिः; पक्षधर्मताभावे स्वरूपासिद्धिः । अनैकान्तिकत्वादिकमशेषमपि हेत्वाभासजातं व्याप्तिपक्षधर्मताविरहे विश्राम्यतीत्याह – तदुभयेति । तथा हि । विपक्षगामित्वे व्याप्तिविरहः । पक्षविपक्षमात्रगामित्वेऽपि स एव । सपक्षे सति पक्षमात्रगामित्वेऽपि व्याप्तिप्रदर्शनाभावात् स एव; विपक्षादिव सपक्षादपि व्यावृत्तत्वेन व्यतिरेकव्याप्त्यवगमाभावात् । यदा पुनः कालात्ययापदिष्टः तदाऽपि व्याप्त्यभावः । तदा साध्यशून्ये साधनवृत्त्या व्याप्तिभङ्ग इति केचित् । अपरे तु बाधितेऽपि सिद्धसाधनवत् साध्यसन्देहाभावात् पक्षधर्मत्वभङ्ग इति । एवं प्रकरणसमेऽपि पक्षे साध्यनिश्चयावसादनेन व्याप्तिभङ्ग इति केचित् । अन्ये तु स्वारसिकसन्देहापवादिनाऽपि विपरीतनिश्चयप्रसङ्गेन बाधतुल्यत्वमापाद्य पक्षधर्मताभङ्ग इति । इतरे तु व्याप्तिपक्षधर्मत्वयोर्द्वयोरपि विमर्दनेनोभयदोषापादनमिति । कथं तर्ह्यनुमानस्य सन्देहोऽङ्गमित्युच्यते? इत्थम् – उभयी खलु सन्देहप्रवृत्तिः । एका सर्वानुमानसाधारणो स्वारसिकी, सा भवेदनुमानाङ्गम् । द्वितीया पुनः प्रतिकूलानुमानदर्शनजनिता । सा पुनर्नानुमानाङ्ग, शङ्कापनोदनप्रवृत्तपूर्वानुमानपरिपन्थिरूपेणानुमानान्तरेण प्रवर्तित्वात् । अतः प्राचीन एव संशयोऽनुमानाङ्गम्; पराचीनस्तु परिपन्थ्यनुमानमूलत्वादनुमानबाधकेष्वन्तर्भवतीति विभागः । अनुकूलतर्काभावो व्याप्तिमेवावसादयति व्याप्तेस्तु तर्कमूलत्वात् । प्रतिकूलतर्कोऽप्येवमेव; अनुकूलतर्कसद्भाववत् प्रतिकूलतर्काभावस्यापि व्याप्त्यङ्गत्वात् । आत्माश्रयादिः स्वरूपासिद्धिमापादयति; केवलानिष्टप्रसङ्गः प्रतिकूलतया व्याप्तिमवसादयतीति विभागः । सोपाधिकत्वमपि व्याप्तिमेव व्यावर्तयति, निरुपाधिकसंबन्धत्वाद्व्याप्तेः । यत्सोपाधिकं तदेवान्यथासिद्धमप्रयोजकमित्यादिशब्दैरभिलप्यते । यदा पुनर्हेतोः स्वरूपमसिद्धं विशेषणं वा, यद्वा पुनराश्रयः, अत्र सर्वत्रापि स्वरूपासिद्धिरेव, अतस्सर्वो हेत्वाभासोऽप्यसिद्धावेव पर्यवस्यति, व्याप्यत्वासिद्धेरप्यसिद्धिव्यवहारविषयत्वात् । दृष्टायदोषाणां पुनर्हेतुदोषपर्यन्तचिन्तायां हेत्वाभासेष्वन्तर्भावमाहुः । अज्ञानासिद्धिरप्यन्ततस्तत्रैव विश्राम्यति । अतस्सर्वेषामपि हेत्वाभासानां व्याप्तिपक्षधर्मताभञ्ज[न]कत्वेन दोषत्वात्तदुभयभञ्जनविततिरेव सर्वमनुमानदोषजातमित्याह – तदुभयविततिरिति । एवं च व्याप्तिपक्षधर्मतयोरनुपप्लवे अन्वव्यतिरेकिवत् केवलान्वयिनोऽप्यनुमानत्वमङ्गीकृतम् । तर्हि वक्रानुमानस्यापि केवलान्वयित्वादनुमानत्वमङ्गीकर्तव्यमित्यत आह – तत्तदिति । वक्रानुमानं सर्वमपि स्वसाध्यसिद्धेरनङ्गत्वादप्रयोजकमेव । कुत इत्यत आह – स्वव्यघातेति । विषयनियमाभावादपि दुष्टत्वमाह – अविषयेति । येनैवानुमानेनानित्यत्वं साध्यते, तेनैव यत्किंचित्पदव्यत्ययेन नित्यत्वमपि साधयितुं शक्यते । अत एव स्वव्याघातो व्यक्तः । वक्रानुमाने सामान्यसिद्धावपि न विशेषसिद्धिः । अतो वाञ्छितस्याप्यर्थविशेषस्य लाभो नास्ति । अतो वक्रानुमानं केवलान्वयिरूपमपि साधनजातिरेव, स्वव्याघातात् । जातिर्द्विविधा, साधनजातिर्दूषणजातिश्च । तत्र साधनजातिर्महाविद्या; दूषणजातिः प्रतिधर्मसमादिरिति विचक्षणानां निर्णयः । एतत्सर्वं विडम्बने विस्तरेण द्रष्टव्यम् । अतो वक्रानुमानस्य नानुमानत्वप्रसङ्ग इति ॥ ४६ ॥ इति हेतुतदाभासादिविभागः ॥

4.272     साध्येन व्याप्तिमेके जगदुरिह सकृद्दर्शनेनैव गम्यां

शङ्कानिर्धूतिमात्रं फलमिति च परं भूयसां दर्शनानाम् ।

धूतोपाधिस्तु योगः स्फुरति बहुविधैर्दर्शनैरेव पश्चात्

तञ्जात्याधारभावाद्युगपदखिलमप्यक्षसंबन्धि तत्र ॥ ४७ ॥

पूर्वोक्तव्याप्तिग्रहणानुपपत्तिं पूर्वं परिहृतामपि सिंहावलोकितेन प्रकारान्तरेण परिहरति -साध्येनेति ॥ भूयोदर्शनेनैव व्याप्तिरवगम्यते इति न्यायवित्संप्रदायः । एकदेशिनस्तु प्रथमदर्शनेनैव व्याप्तिर्गृह्यते । किमर्थं तर्हि भूयोदर्शनमित्यत्राह – शङ्केति । आद्येनैव दर्शनेन व्याप्तिर्गृह्यते; भूयसां तु दर्शनानां व्यभिचारशङ्कानिराकरणमात्रं फलमित्यर्थः । तर्हि तर्कस्य किं फलमित्यत्राह – धूतोपाधिस्त्विति । प्रथमदर्शनेनैव व्याप्तिग्रहणं भूयोदर्शनैर्व्यभिचारशङ्कनिराकरणं, तर्केण पुनर्व्यभिचारशङ्कानिदानभूतोपाधिनिराकरणमिति विभागः । अस्तु तावदयं क्रमः । अथापि व्याप्तिग्रहणं किं सर्वव्यक्त्युपसहारेण? उत कतिपयव्यक्त्युपसंहारेण? द्वितीये व्याप्तिरेव न संभवति । प्रथमे सर्वव्यक्त्युपसंहारे सर्वव्यक्तिसंबन्धाभावादिन्द्रियस्य कथं ग्रहणमित्यत्राह – तञ्जात्याधारभावादिति । अयं भावः – इन्द्रियेण तावत्सन्निहिता व्यक्तिस्संबद्धा, तत्समवेतत्वेन जातिः, तदाधारतया तद्विशेषणत्वेन सर्वा व्यक्तयः । तथा चेन्द्रियेण सह संबद्धविशेषणत्वेन सर्वव्यक्तीनां संबन्धः । अतः सर्वव्यक्त्युपसंहारेण व्याप्तिग्रहणोपपत्तिरिति । अस्मिन्नर्थे किं प्रमाणमिति चेत्, आबालगोपालमानुमानिकव्यवहारानुपपत्तिरेव । किमानुमानिकव्यवहारो नास्ति? किं वा तद्व्याप्तिमन्तरेण संभवति? अथवा व्याप्तिरज्ञाताऽप्यनुमानाङ्गं भवति? अथवा व्याप्तिज्ञानापेक्षायां प्रकारान्तरेण व्याप्तिज्ञानं संभवति? अथवा न प्रकारान्तरेण, नानेनापि प्रकारेण व्याप्तिज्ञानं संभवतीति? नाद्यः, लोकोपलम्भविरोधात् । न द्वितीयः, अकारणकार्योत्पत्तिप्रसङ्गात् । अत एव न तृतीयः, व्याप्तिज्ञानमन्तरेणानुमानादर्शनात् । न चतुर्थः, तस्याप्युपायस्य त्वदुक्तदोषग्रस्तत्वस्य वक्तुं शक्यत्वात् । न पञ्चमः, व्याप्तिज्ञानोपायाभावे व्याप्त्यभावेन सर्वानुमानोच्छेदप्रसङ्गात् । व्याप्तिभञ्जकानुमानतर्कयोरपि व्या[प्त्यभावेन]प्तिबाधेन विवक्षितासिद्धेः । तयोर्व्याप्तिज्ञानविधुरयोरपि बाधकत्वे साधकानामपि तद्विधुराणां साधकत्वं स्यात् । अस्मदुक्तप्रकारेण व्याप्तिज्ञानसाधने अस्माकमपि तथैव स्यादिति । तर्हि प्रमेयत्वाभिधेयत्वयोर्व्याप्तिग्रहणे सर्वोपसंहारात् भवतस्सार्वज्ञ्यं स्यादिति चेत्, भवतोऽपि तर्हि सार्वज्ञ्यं स्यात् । अन्यथा कथं सर्वज्ञत्वापादानं करोषि? भवतः किंचिन्नाविदितं स्यादित्यापादयामीति चेत्; किं सर्वेष्वपि पदार्थेषु किंचिन्नाविदितं स्यादित्यापादयसि? यद्वा येषुकेषुचिदर्थेषु? उत्तरत्र न सार्वज्ञ्यापादानम् । पूर्वत्र सर्वेष्वपि पदार्थेषु किंचिन्नाविदितं स्यादिति वदतो भवतोऽपि सार्वज्ञ्यं स्यात् । सामन्याकारेण सर्वं मम विदितम्, विशेषतो न विदितमिति चेत्; ममाप्येवमेवेति समस्समाधि । अतस्सामान्याकारेण व्याप्तिग्रहणस्य वादिप्रतिवादिसाधारणत्वान्नैकः पर्यनुयोक्तव्य इति न्यायः । यदि कतिपयव्यक्तिग्रहणमात्रेऽपि व्याप्तिग्रहणमङ्गीकृत्य प्रतिकूलानुमानं प्रतिकूलतर्कं च वदसि तच्चास्माकमपि समानम्; तस्मात् सुस्थितमनुमानम् ॥ ४७ ॥ इति व्याप्तिग्रहणप्रकारः ॥

4.273     अस्मिन् सत्येतदस्तीत्यवितथनियतेरन्वयव्याप्त्यभिख्या

तस्याभावे तु तन्नेत्ययमपि नियमस्तौ पृथक् चापृथक् च ।

तस्मात् त्रेधाऽनुमानं कतिचिदकथयन्नेकहानाद्द्विधैके

कश्चिच्चेद्व्याप्तियुग्मप्रिय इह भविता वर्णयत्वैकविध्यम् ॥ ४८ ॥

अथ व्याप्त्यादिविभागप्रकारं विशदयति – अस्मिन्निति ॥ हेतुसद्भावे साध्यसद्भावोऽन्वयः । व्यातरकव्यााप्तमुदाहरति – तस्येति । साध्याभावे साधनाभावो व्यतिरेकः; न पुनस्साधनाभावे साध्याभावः । यथाऽऽहुः – ‘व्याप्यव्यापकभावो हि भावयोर्यादृगिष्यते । तयोरभावयोस्तस्माद्विपरीतः प्रतीयते’ ॥ इति । एतौ व्याप्तिप्रकारावन्वयव्यतिरेकिणि [सहैवं] उभावेव वर्तेते; केवलान्वयिनि केवलव्यतिरेकिणि च पृथगेव वर्तेते इति न्यायसंप्रदाय इत्याह – ताविति । अतोऽनुमानत्रैविध्यमिति च दर्शयति – तस्मादिति । कुमारिलादयो व्यतिरेकिणं निरस्यन्ति; वादीन्द्रादयोऽन्वयिनमिति विशेषं दर्शयति -एकहानादिति । एवमन्वयव्यतिरेकिमात्रसक्तो यदि कश्चिद्भविष्यति स त्वन्वयव्यतिरेकिणमेवाङ्गीकृत्य तद्द्वयमपि प्रतिक्षिपत्वित्याह – कश्चिच्चेदिति । अयमत्र भावः – अन्वयव्यतिरेकिवत् केवलान्वयी न प्रतिक्षेप्यः; अन्वयस्य निश्चलत्वात् । केवलव्यतिरेकिणं वयमेव प्रतिक्षेप्स्याम इति ॥ ४८ ॥ इति व्याप्त्यादिविभागः ॥

4.274     सर्वस्थः केवलान्वय्यघटितसरणिः स्यात् स्ववृत्तेर्विकल्पे

साध्ये स्वस्मान्निवृत्ते भवति च स तदा साध्यहानेर्विपक्षः ।

हेतोस्तद्वृत्त्यवृत्त्योरभिमतविहतिस्तत्र चैवं विकल्पा-

दित्युत्प्रेक्षाविभागं विघटयतु न वा सर्वथा व्याप्तिसिद्धिः ॥ ४९ ॥

एवं केवलान्वय्यङ्गीकारे महाविद्याऽप्यङ्गीकार्या; तस्या अपि केवलान्वयित्वात् । तथा च पूर्वोक्तं तन्निराकरणं न युज्यते । किंच सकलसपक्षवर्ती हि केवलान्वयी महाविद्येत्युच्यते; तच्च न संभवति, प्रमेयत्वाभिधेयत्वादीनां सर्वस्थत्वे स्वात्मन्यपि वृत्तिप्रसङ्गात्, तदभावे केवलान्वयित्वाभावादिति चोदयति – सर्वस्थ इति ॥ तदेव विवृणोति – साध्य इति । साध्यं स्वस्मान्निवर्तते न वा? न निवर्तते चेदात्माश्रयः; निवर्तते चेत्, तद्विपक्ष एव । तदिदमाह – साध्य इति । विपक्षभूते तस्मिन् साध्ये हेतुर्वर्तते न वा (यदि वर्तते, विपक्षवृत्तित्वेन हेतुत्वमेव भज्येत; यदि न वर्तते, प्रमेयत्वाभावात् साध्यस्य साध्यत्वं व्याहन्येत । तदेतदाह – हेतोरिति । एवं प्रमेयत्वादिहेतौ साध्यं वर्तते न वा? न चेद्धेतुरेव विपक्षः स्यात् । तस्मिन् विपक्षभूते हेतौ हेतुर्वर्तते चेदात्माश्रयः, विपक्षगामित्वाद्व्यभिचारश्च । न वर्तते चेत् कथमिव केवलान्वयित्वं हेतोः, क्वचिद्व्यतिरेकस्यापि दर्शनात्? यदि हेतौ साध्यं वर्तते स तु हेतुः सपक्षः स्यात् । तत्र हेतुवृत्तावात्माश्रयः, अवृत्तावप्रमेयत्वाद्धेतोरेवासिद्धिः । किंच हेतुसाध्ययोर्द्वयोरपि सपक्षत्वादन्योन्यवृत्तावन्योन्याश्रयप्रसङ्गः । अवृत्तौ कथमिव केवलान्वयित्वम्? इत्थं बहुविधतर्ककर्कशं महाविद्यानुमानं न प्रतितिष्ठतीत्याह – तत्र चैवं विकल्पादिति । यथासंभवं विकल्पानां भूयस्त्वादित्यर्थः । इयमुत्प्रेक्षा केवलान्वयिरूपमहाविद्यादिविभागं विघटयतु न वा । सर्वथा अन्वयव्यतिरेकिहेतुसद्भावात् व्याप्तिरभङ्गुरेत्याह – इतीति । न वेत्युक्त्या विभागविघटनं न सिध्यतीत्यभिप्रैति । अयमभिप्रायः – महाविद्या चेत् स्वव्याघातादिभिः प्रागेव दूषिता । अभिधेयत्वादिसाधकं प्रमेयत्वादिकं तु सर्व[स्थ]था केवलान्वयि च भवति; तस्य च त्वदुक्तदूषणाभासैरपाकरणशङ्काऽपि नाङ्कुरतीति ॥ ४९ ॥

4.275     तत्तद्धीव्यक्तिभेदात्प्रमितिविषयता मानसिद्धा घटादौ

प्रत्यक्षत्वं च तद्वत्तदिदमुभयमध्यक्षसिद्धं तथैव ।

इत्थं तद्वृत्त्यवृत्तिव्यतिकरकलहैः केवलान्वय्यपोहे

दुर्वारः शून्यवादो न तमभिमनुषे स्थापयन् किञ्चिदिष्टम् ॥ ५० ॥

केवलान्वयिविशेषमुदाहृत्य पूर्वोक्तदूषणाभावं दर्शयति – तत्तदिति ॥ धर्मादयः कस्यचित् प्रत्यक्षाः; प्रमेयत्वादिति केवलान्वयिनमुदाहरन्ति न्याय[वादिनः]विदः । तत्र मेयत्वं स्वात्मनि वर्तते वा न वा? प्रत्यक्षत्वं स्वात्मनि वर्तते वा न वा? इति साध्यसाधनविषयविल्क एव दूषणाङ्कुरः । तत्र स्वात्मनि वृत्तौ न कश्चिदपि दोषः, स्वपरनिर्वाहकसमाधेस्सर्ववादिसाधारणत्वात् । औपाधिकधर्माणां यावदुपाधि वृत्तिमेवाङ्गीकुर्वन्ति विपश्चितः । एकं हि वस्तु प्रमाणेन सिध्यति; अतस्तत्प्रमेयं, तच्च प्रमाणान्तरेण, तच्च तदन्येन प्रमाणेनेति प्रमेयत्वं सर्वसाधारणमेव । एवं वाच्यत्वादिकमपि । अतो वृत्तिभेदेन प्रमेयत्ववाच्यत्वादीनां यावदुपाधिवृत्त्यङ्गीकारावश्यंभावेन नात्माश्रयदोषः । नाप्यन्योन्याश्रयदोषः; प्रमेयत्वस्याभिधेयत्वात् अभिधेयत्वस्यापि प्रमेयत्वात् । न हि दृष्टेऽनुपपन्नं नाम । प्रमेयत्वमेव ह्यभिधीयते; अभिधेयत्वमेव प्रमीयते । व्यक्तिभेदेन विरोध उपशाम्यतीत्युक्तम् । उक्तं च यावदुपाधिवृत्तित्वं सर्वौपाधिकधर्मसाधारणम्; इत्थमनङ्गीकारे शून्यवाद एव प्रसज्येत; न च भावान् शून्यवादी, केवलान्वयिमात्रविडम्बनप्रवृत्तत्वात् । एतत्सर्वमभिप्रेत्याह – तत्तद्धीति । अयमत्र शब्दार्थः – तत्तद्बुद्धिव्यक्तिभेदात् प्रमेयत्वस्यापि प्रमेयत्वे न दोषः । प्रत्यक्षत्वं च प्रत्यक्षान्तरेण प्रत्यक्षम्, तथा च प्रमेयत्वं प्रत्यक्षत्वं च प्रत्यक्षान्तरेण प्रत्यक्षमित्युक्तम् । श्लथं सत्युपरञ्जकधर्माणां स्ववृत्त्यवृत्तिविकल्पेन दूषणे नित्यसमा; विषयिधर्माणां स्वविषयत्वाविषयत्वविकल्पेन दूषणे पुनरनुपलब्धिसमा । एतादृशजात्यन्तर्गतैर्विल्कैर्दूषणकथने शून्यवादो दुर्वारः । भवान् पुनर्महाविद्यामेव विडम्बयन् न शून्यवादी, तत्तत्स्थापनप्रवणत्वात् । तदिदमाह – तमभिमनुष इति । श्लो. नात्माश्रयप्रसक्तिर्वा नान्योन्याश्रयसंस्थितिः । प्रमेयत्वाभिधेयत्वप्रसङ्गे सर्ववादिनाम् ॥ औपाधिकानां धर्माणां वृत्तिर्यावदुपाधि चेत् । प्रमेयत्वादिकं सुस्थमन्यथा व्याहतिस्तव ॥ व्याघातो यदि दोषो न को वा दोष इतीर्यताम् । दोषादोषविभागश्चेन्न स्यात्त्वं दूषकः कथम् ॥ ५० ॥ इति केवलान्वयिविशेषनिरूपणम् ॥

4.276     ख्यातत्वाच्छब्दवाच्यो विमतिविषय इत्यादिरूपे तु साध्ये

व्यर्थोऽसौ हेतुरित्थं विमतिसमुदयासंभवादित्ययुक्तम् ।

व्याघातव्यक्त्यभावाच्छ्रुतिशकलवलात् कूटयुक्त्यादिभिर्वा

पाकः कश्चित् प्रमुह्यन् प्रमितिगतिकथापक्तिमैर्हि प्रबोध्यः ॥ ५१ ॥

अथापि विप्रतिपन्नमभिधेयं प्रमेयत्वादिति केवलान्वय्यनुमानं निष्प्रयोजनम्, विप्रतिपत्त्यभावादित्याशङ्क्य परिहरति – ख्यातत्वादित्यादिना पूर्वार्धेन ॥ तत्र हेतुमाह – व्याघातेति । अविचाराणां बालप्रायाणां व्याघाताभिव्यक्त्यभावात्, ‘यतो वाचो निवर्तन्त’ इति श्रुतिशकलश्रवणात्, प्रच्छन्नसौगतप्रवादाच्च व्यामुह्यन्ननेनानुमानेन प्रतिबोध्यत इति प्रयोजनवानेवायमनुमानप्रयोग इत्युत्तरार्धस्य भावः ॥ ५१ ॥ इति केवलान्वयिविशेषप्रयोजनम् ॥

4.277     पक्षेऽन्यत्रापि साध्यं न मितमविदिते नापि संबन्धधीः स्यात्

क्वापीत्यप्यस्य सिद्धावृजुरविहतिमान्नास्ति सामान्यहेतुः ।

सत्यप्यस्मिन्न शक्याधिकरणनियतिः स्वेच्छया सर्वसाम्या-

द्वैषम्यं दुर्वचं तत्प्रमितिकरणता क्वापि नावीतहेतोः ॥ ५२ ॥

इत्थमन्वयव्यतिरेकिणं केवलान्वयिनं च व्याप्तिसंरक्षणप्रकारैर्बहुभिरुपपाद्य केवलव्यतिरेकिणं निराकर्तुमुपक्रमते – पक्ष इति ॥ व्याप्तिग्रहणसापेक्षं प्रमितिसाधनमनुमानमित्यनुमानलक्षणम् । व्याप्तिश्च साध्यसाधनयोः; अतस्तदुभयज्ञानसापेक्षं व्याप्तिपरिज्ञानम् । साध्यं च न क्वापि मितम् । पक्षे मितं चेत् सिद्धसाधनम्; सपक्षे चेद्व्यतिरेकित्वहानिः; विपक्षे चेद्व्याघातः; अविदिते संबन्धबुद्धिरसंभाविनी । तदिदमाह – अविदित इति । ननु शब्दः क्वचिदाश्रितः गुणत्वात्, ज्ञानादयः क्वचिदाश्रिताः इति सामान्यहेतुना सिद्धं साध्यमुपजीव्य विशेषविषयस्याष्टद्रव्यतिरिक्तद्रव्यानुमानस्य व्यतिरेकिरूपिणो व्याप्तिरिति मतमनूद्य दूषयति – क्वापीति । साक्षात्साध्यसिद्ध्यभावेन विशेषव्याप्तिकथने तावदार्जवं नास्तीति । तदिदमाह – ऋजुरविहतिमान्नास्ति सामान्यहेतुरिति । यस्य येन व्याप्तिरभिधीयते तयोरन्यतरस्येतरेण संबन्धकथने तद्विशेषप्रतिपत्तिरुपयुज्यते; न तु सामान्यस्य प्रतिपत्तिरिति भावः । यद्यन्यप्रतिपत्तिरन्यसंबन्धप्रतिपत्तावुपयुज्यते सर्वत्राप्यन्यप्रतिपत्तिरन्यसंबन्धप्रतिपत्तावुपयुज्येत; अन्यत्वाव्याघातात् । न हि गन्धवत्त्वपृथिवीत्संबन्धप्रतिपत्तौ गुणवत्त्वद्रव्यत्वप्रतीतिस्तन्त्रमिति भावः । अस्तु वा सामान्यहेतुर्विशेषसंबन्धोपयोगी । अथापि परिशेषः कर्तुं न शक्यते; भवदभिमतमात्रे परिशेषप्रवृत्तेर्विश्रमाभावात्, परस्परव्यावृत्त्या परिशेषानियमाच्चेत्याह – सत्यपीति । अस्मिन्परिशेषप्रमाणे कथं परिशेषानुपपत्तिरित्यत आह – स्वेच्छयेति । किं स्वेच्छया परिशेषः? तथा सति परेच्छया वस्त्वन्तरपरिशेषोऽपि कर्तुं शक्यत इत्यर्थः । वस्तुवैषम्यात् परिशेषसिद्धिमाशङ्क्य परिहरति – वैषम्यं दुर्वचमिति । यथा श्रोत्रेन्द्रियग्राह्यत्वात् शब्दः पृथिव्यादीनां गुणो न भवतीति साध्यते, तथा तेनैव हेतुना विभूनां गुणो न भवतीति साधनादाकाशगुणत्वमपि भज्येत । यथा विशेषगुणत्वादिति दिक्कालगुणत्वं बाध्यते, एवं श्रोत्रेन्द्रियग्राह्यत्वाद्विभ्वन्तरगुणत्वमपि बाध्येत । तथा च बाह्येन्द्रियग्राह्यत्वादतीन्द्रियगुणत्वमपि बाध्येत । अत एव हेतोर्निरवयवगुणत्वमपि निर्धूयेत । उपलक्षणमेतत्; सर्वपरिशेषानुमानेष्वतिप्रसङ्गबाहुल्यं द्रष्टव्यम् । तर्कानुग्रहाद्वैषम्यमपि तत्रतत्र तर्कान्तरकथनेन बाधनीयम् । अतः प्रमितिहेतुत्वं न केवलव्यतिरेकिण इत्याह – तदिति । तस्मादित्यर्थः ॥ ५२ ॥

4.278     साध्याभावो विपक्षे कथमिव विदितस्तस्य साध्याप्रसिद्धे-

र्भावात्मन्यप्यमुष्मिन् प्रतिभटवपुषा ह्यत्र ते व्याप्तिसिद्धिः ।

इत्यज्ञातान्वयेऽस्मिन् कथमिव सुशकः स्यादभावो नियन्तुं

हेतौ सारोऽन्वयोऽतः क्वचिदनुपधिकः केवलान्वय्यपीष्टः ॥ ५३ ॥

श्रुतार्थस्य विशदीकरणाय व्यतिरेकिणो विपक्षे व्यतिरेकव्याप्तिदर्शनासंभवमुक्तमप्यनुवदति – साध्याभाव इति ॥ साध्याप्रसिद्ध्या तद्व्यतिरेकोऽपि विपक्षे ज्ञातुं न शक्यत इत्यर्थः । अत्र केचिदाहुः – यस्मिन् व्यतिरेकिणि साध्यं भावरूपं, तत्र व्यतिरेकग्रहणासंभवः; व्यतिरेकस्याभावरूपत्वात्, अभावस्य प्रतियोगिग्रहणमन्तरेणासिद्धेः, प्रतियोगिनश्च पक्षादिषु न क्वापि सिद्धेः । यत्राभावरूपं साध्यं तत्र भावरूपो व्यतिरेकः । स च भावो न प्रतियोगिग्रहणसापेक्षः, भावत्वादेव । तथा च व्यतिरेक्यनुमानसिद्धिः । उदाहरन्ति च गौरितरेभ्यो भिद्यते सास्नादिमत्त्वादिति । अत्र इतरेभ्यो भेदो हि इतरप्रतियोगिकान्योन्याभावः, तस्य चाभावरूपत्वाद्व्यतिरेक इतरत्वादिकं भावरूपः तस्मादभावरूपसाध्यव्यतिरेकस्य निरपेक्षप्रतीतिकत्वात्तेनैव हेतुव्यतिरेकस्य व्याप्तिग्रहणं युज्यत इति । अयं च ग्राम्यजनविप्रलम्भ इत्याह – भावात्मनीति । अयं भावः – व्यतिरेकस्य भावात्मकत्वेऽपि व्यतिरेकव्याप्तिकथनावस्थायां साध्याभावरूपतया कथनमवश्यंभावि । यदितरस्मान्न भिद्यते तत्सास्नादिमन्न भवतीति हि व्यतिरेकव्याप्तिकथनम् । अन्यथा साध्यप्रतिभटत्वाभावे व्यतिरेकव्यवहारानुपपत्तिः । तथा च भावरूपत्वेऽभावरूपत्वे च व्यतिरेकस्य साध्यविरोधित्वेन ग्रहणावश्यंभावात्साध्याप्रसिद्धौ न प्रसिद्धिः । साध्यं च पक्षादिषु न प्रसिद्धमित्युक्तं प्रागेवेति । अतोऽन्वयापरिज्ञाने व्यतिरेकपरिज्ञानं सर्वथा न शक्यमित्याह – इतीति । अस्मिन् – व्यतिरेक्यनुमाने । इत्थं केवलव्यतिरेकिणं निरस्य सर्वानुमानसारभूतमन्वयव्यतिरेकिणं प्रमाणतया निगमयति – हेताविति । अन्वयः -व्यतिरेकसहितोऽन्वयः । हेतौ सारः – स्थिरांशः । अतोऽन्वयव्यतिरेकी सर्वप्रधानः, अन्वयव्यतिरेकाभ्यामर्थतत्त्वनिर्णयात् । केवलान्वय्यपि क्वचिदिष्टः । यत्र निरुपाधिकत्वादिनिर्णयः तर्कानुग्रहेण भवति, यथा प्रमेयत्वादभिधेयत्वमिति, स च हेतुरभीष्ट एवेति । अतः केवलव्यतिरेक। अभावविषयत्वे भावविषयत्वेऽपि न साधक एव । अयं गौरिति व्यवहर्तव्य इति भावविषयः । इतरेभ्यो भिद्यत इत्यभावविषय इति भेदः ॥ ५३ ॥ इति केवलव्यतिरेकिभङ्गः ॥

4.279     संत्यक्तावीतहेतोरभिदुरमखिलं लक्षणाभावतः स्यात्

मैवं लक्ष्यैव भेदस्तदवगमकमित्याप्तवाक्ये तदुक्तिः ।

यद्वा गन्धादिरत्त्वप्रभृतिविरहितेष्वेव दृष्टो घटादि-

ष्वाज्यादावन्वयी स्यादयमिव विमतेष्वेकलक्ष्मण्यपोहः ॥ ५४ ॥

ननु केवलव्यतिरेक्यभावे सर्वमपि लक्षणं निष्प्रयोजनं स्यात् । ‘व्यावृत्तिर्व्यवहारो वा लक्षणस्य प्रयोजनम्; तदुभयमपि केवलव्यतिरेक्यनुमानसाध्यमित्याशङ्कते – संत्यक्तेति ॥ अभिदुरं – भेदकानुमानाभावादभिन्नमित्यर्थः । निराकरोति – मैवमिति । तत्र हेतुमाह – लक्ष्मैव भेद इति । विरुद्धधर्माध्यासो हि भेदः; लक्षणानि च विरुद्धधर्माः । अतो लक्षणप्रतीतिरेव भेदप्रतीतिः । अतोऽनुमानसाध्यं नावशिष्यते; लक्षणप्रतीतेरेव लक्षणप्रतीत्या साधने पुनरात्माश्रयः । भवन्तोऽप्याहुः – अयमेव हि भेदो भेदहेतुर्वा यद्विरुद्धधर्माध्यास इति लक्षणस्यापि भेदत्वम् । लक्षणातिरिक्तो भेदस्तु भवद्भिरङ्गीकृतोऽपि नैरर्थक्यान्नास्माभिरङ्गीक्रियत इति भावः । कथं तर्हि लक्षणस्य भेदत्वम्? लक्षणं हि वाक्यरूपं, स पुनर्न भेद इत्याशङ्क्य परिहरति – तदवगमकमिति । आप्तवाक्ये लक्षणत्वकथनमौपचारिकमित्यर्थः । अथवा लक्षणमनुमानम् । अन्वय्येव तदित्याह – यद्वेति । तथा हि – अबादिव्यतिरिक्ततया संप्रतिपन्नेषु घटादिषु गन्धादिर्दृष्टः, तमेव दृष्टान्तीकृत्य सन्दिग्धेष्वाज्यादिष्वबादिव्यतिरेकस्साध्यः; तथा चान्वयित्वमेव । अयमेव हि पक्षस्साधीयान् । लोके हि व्यवहारानुसारिणा लक्षणेन सुशिक्षिताः पामराः परीक्षकाश्च विप्रतिपन्नेषु विषयेषु लक्षणानुरोधेनार्थतत्त्वं निर्णयन्तीति सार्वलौकिकमेतत् । अतो लक्षणाद्व्यतिरेकसाधनमन्वय्यनुमानफलमेव । एवं क्वचिदनुमाने विनिश्चिते सर्वत्रापि लक्षणप्रयोगे केवलमन्वयित्वेनैव [लक्षण]वैलक्षण्यप्रसाधनं युक्तमिति दर्शयति – अयमिवेति ॥ ५४ ॥ इति लक्षणनिरूपणम् ॥

4.280     भेदोऽबादेर्घटादौ विदित इतरथा त्वप्रसिद्धिः पुरोक्ता

कृत्स्नक्षोण्यन्वितोऽसौ न विदित इति चेत् पक्षसिद्धिः कथं स्यात् ।

व्याहारेऽप्येवमूह्यं न खलु न विदितं तन्निमित्तं घटादौ

नो चेत्तत्तन्निमित्तव्यवहृतिनियमस्थापनं दुश्शकं ते ॥ ५५ ॥

एवं परोक्तचोद्यमन्यथासिद्ध्या निराकृत्य परोक्तं लक्षणफलद्वयं विभज्य विशेषेण निराकरोति – भेद इति ॥ भवता खलु, ‘भेदो वा व्यवहारो वा लक्षणेन नियम्यत’ इत्यभिधीयते; उभयमप्यसंबद्धम् । भेदे तावद्वदामः – अयं घटोऽबादेर्भिद्यत इत्यनुमानं प्रयुज्यते । अयमर्थः प्रसिद्ध एव । अन्यथा पाषाणादेरबादिभेदव्यवहाराभावप्रसङ्गः । अन्यथा पक्षस्याप्रसिद्धविशेषणत्वं पूर्वमुक्तमित्याह – इतरथेति । अस्तु प्रसिद्धो घटादेः प्रत्येकमबादिभ्योभेदः; तथाऽपि कृत्स्नक्षोण्यन्वितोऽबादिभ्यो भेदो न प्रसिद्धः । तथा हि – घटपाषाणकाष्ठादिकं प्रत्येकं जलविलक्षणतया उपलभ्यते; तथाऽपि यावन्ति पार्थिवानि वस्तूनि परमाणुद्व्यणुकत्रसरेणुपूर्वकाणि मेरुसर्षपादीनि च तेषां सर्वेषां यौगपद्येन जलविलक्षणत्वं न पूर्वप्रसिद्धम्; तद्गन्धवत्त्वानुमानेन सत्यत इत्यस्मत्पक्षः; तथा च न सिद्धसाधनमिति । इदमनुवदति – कृत्स्नेति । परिहरति – पक्षसिद्धिरिति । अयं भावः – प्रसिद्ध एव पक्षे साध्यं साध्यते, प्रसिद्धिश्च पक्षस्य सपक्षविपक्षाभ्यां व्यावृत्तत्वेन; तया च कृत्स्नाऽपि क्षोणी विपक्षव्यावृत्तत्वेन प्रसिद्धा चेदनुमेयं नावशिष्यते; व्यावृत्तेरेवानुमेयत्वात् । अप्रसिद्धा चेत् कथमनुमानस्य [प्रसिद्धिः] प्रवृत्तिः? न हि पक्षप्रतीतिमन्तरेणानुमानं प्रवर्तत इति । व्यवहारेऽपि साध्ये दूषणमेतादृशं वाच्यमित्याह – व्याहारेऽपीति । व्यवहारस्यापि पूर्वमप्रसिद्धावप्रसिद्धविशेषणत्वं पक्षस्य । इयं पृथिवीति व्यवहर्तव्या गन्धवत्त्वादिति ह्यनुमानं प्रयुञ्जते । तच्च प्रसिद्धमेव घटादौ; अन्यथा कुत्रापि पृथिवीव्यवहारनियमप्रसिद्ध्यभावात् विप्रतिपन्नं जलमिति व्यवहर्तव्यं गन्धवत्त्वात्, एवं विप्रतिपन्नं पृथिवीति व्यवहर्तव्यं स्नेहवत्त्वादिति वैपरीत्येनानुमानं प्रवर्तेत । एवं व्यवहारे लोकव्यवहारविरोध इति चेत्; एवं तर्हि लोकव्यवहारादेव व्यवहारनियमे सिद्धे किमनेनानुमानेन? असिद्धे वा किमनेनानुमानेन? स्वयमेव व्यवहारनियमस्थापकत्वाभावात् । तदिदं सर्वमभिप्रेत्याह – नो चेदिति । अतो व्यवहारनियमस्य लोकप्रसिद्धिसिद्धत्वादेवानुमानमनर्थकमिति । कथं तर्हि लक्षणेन तत्तदर्थव्यवहारस्थापनं वादिभिः क्रियते? अनादिप्रसिद्धव्यवहारस्य नियामकधर्ममात्रप्रदर्शनं शिष्याणामिति न कश्चिद्दोषः । न खलु सर्वमपि शब्दार्थत्युत्पादनं लक्षणोपदेशेन, लोकव्यवहारस्यैव प्रायेण नियामकत्वादिति ॥ ५५ ॥ इति परोक्तलक्षणसाध्यद्वयभङ्गः ॥

4.281     विद्यास्थानेषु धर्म्येष्विह यदगणयन् विस्तरं न्यायपूर्वं

तत्रापि ह्यक्षपादस्स इति न नियतिर्न्यायतत्त्वेऽनुगम्ये ।

नार्षत्वादिप्रधानं क्वचिदपि यदि वा वार्तिकं क्वापि युक्तं

यद्वा नेयं कथंचिन्निखिलमपि न किं निर्वहन्त्येवमन्ये ॥ ५६ ॥

यद्येवं न्यायशास्त्रविरुद्धमपि भवद्भिरभिधीयते, तर्हि न्यायशास्त्रस्य कथं धर्म्येषु विद्यास्थानेषु प्राधान्येनाभिधानं ‘पुराणन्याय इति? एदनुवदति – विद्यास्थानेष्विति । अस्तु न्यायस्य वेदाङ्गत्वं, स पुनर्न्यायोऽक्षपादप्रणीत इति न नियमोऽस्तीत्याह -तत्रापीति । कस्तर्हि न्याय इत्यत्रोत्तरम् – न्यायतत्त्व इति । अनुसर्तव्ये वेदान्तानुकूले विद्वद्विशेषनिर्मिते ग्रन्थे सति किमनेन वेदविरुद्धेनाक्षपादकल्पितेन । उक्तं खलु नाथमुनिभिः वेदान्तानुकूलं न्यायशास्त्रं न्यायतत्त्वाभिधानेन । तच्च परिगृहीतं यामुनाचार्यादिभिः । नत्वार्ष परित्यज्य कथं मानुषं परिगृह्यते? युक्त एव मानुषस्याप्युपपन्नस्य परिग्रहः, आर्षस्याप्यनुपपन्नस्य परित्यागः । अन्यथा लोकायतस्यापि परिग्रहः स्यादित्याह – नार्षत्वेति । आर्षत्वमेव परिग्रहकारणं चेत्; ऋषिप्रणीतेषु ग्रन्थेषु वार्तिकारम्भो न स्यात्; उक्तानुक्तदुरुक्तचिन्तारूपत्वाद्वार्तिकस्य । तदिदमाह – यदि वेति । अत्रापि नेत्यनुषज्यते । इत्थमक्षपादप्रणीतस्य न्यायशास्त्रस्य वेदान्तविरुद्धत्वमङ्गीकृत्यान्वा[रुह्य]रोहवादेन त्याज्यत्वमभिहितम् । इदानीं विरोध एव नास्तीति पक्षान्तरमाह – यद्वेति । अयं भावः – अक्षपादप्रणीते सूत्रे न क्वापि वेदान्तविरोधः; व्याख्यातार एव स्वयमप्रतिपत्तिविप्रतिपत्तिभ्यामन्यथा व्याचख्युः; तत्सम्यङ्न्यायविद्भिः परिशोधनीयमिति । अत्रोपपत्तिमाह – न किमिति । सर्वेऽपि हि व्याख्यातारः सूत्रभाष्यवार्तिकादिषु विरुद्धवदवभासमानमित्थमेव समादधते इत्यर्थः ॥ ५६ ॥ इति व्यवहारशिक्षायां न्यायविस्तरविरोधनिस्तारः ॥

4.282     अन्यस्मै स्वप्रतीतं प्रकटयति यया वाक्यवृत्त्याऽनुमानं

तत्रोदाहृत्युपेताऽप्यविकलमिह तद्बोधयेन्नोपनीतिः ।

युक्ता तूदाहृतिस्स्वोपनयनिगमना सप्रतिज्ञादिका वा

वक्तव्या वावदूकैस्तदधिकमपि वा संमतेः स्याद्यथेष्टम् ॥ ५७ ॥

तर्हि न्यायानुसारे पञ्चावयवमनुमानमेव सर्वत्र प्रयुज्यताम् । त्र्यवयवमपि क्वापिक्वापि प्रयुज्यते भारत्कैरेव विद्वद्भिः कथमित्याशङ्क्यानुमानावयवपरिमाणं नि[ग]यमयितुं परार्थानुमानस्वरूपमाह – अन्यस्मा इति ॥ अयमर्थः – यावदपेक्षितं तावद्वक्तव्यम्; यद् बौद्धपरिकल्पितमुदाहरणोपनयमात्रम्, तत्पक्षे साध्यव्यवस्थापनाभावादनादरणीयमेवेत्याह – तत्रेति । कियत्तर्हि वक्तव्यमित्यत्राह – युक्तेति । ‘त्रीनुदाहरणान्तान्वा यद्वोदहरणादिकानित्युक्तक्रमेण त्र्यवयवमेव प्रायेण परिपूर्णमिति भावः । ये तु प्रतिज्ञामन्तरेण न हेतुप्रयोगः कर्तव्यः, साध्यस्यैव प्रमित्सितत्वात् । नापि हेतुप्रयोगमन्तरेण उदाहरणप्रसङ्गः; हेतुसाध्ययोर्व्याप्तिप्रदर्शनात्मकत्वादुदाहरणस्य । न चोदाहरणमन्तरेणोपनयप्रसिद्धिः; उदाहरणेन गृहीताविनाभावस्य हेतोस्तेनैवाकारेण पक्षधर्मताप्रदर्शनार्थत्वादुपनयस्य । न च हेतुना पौनरुक्त्यमुपनयस्य; पक्षधर्मतामात्रं हेतोरर्थः, व्याप्तस्य पक्षधर्मत्वमुपनयस्यार्थ इति विभागेनार्थनिर्णयात् । न च निगमनं निरथकम्; पक्षे बाधकप्रमाणाभावद्योतनार्थमग्निमानेवेति सावधारणसाध्यनिर्देशरूपत्वेन निगमनस्यापि सफलत्वात् । अतः पञ्चावयवयुक्तं वाक्यमेव परिपूर्णोपदेश इति मन्यन्ते; तेषामपि पक्षमविरुद्धत्वादनुमन्यते – तदधिकमिति । अयमर्थः – त्र्यवयवपञ्चावयवयोर्द्वयोरपि संमतत्वादस्मत्पक्षवादिना त्र्यवयवप्रयोगे पञ्चावयवप्रयोगे न न्यूनाधिकभावप्रसङ्ग इति ॥ ५७ ॥ इति अनुमानप्रयोगावयवनिरूपणम् ॥

4.283     कार्यैर्वा कारणैर्वा स्वगुणत उत वा किञ्चिदस्तीति सिद्धं

पक्षीकारादियोग्यं समयनियमितव्यक्तिभेदो न दोषः ।

सिद्धान्तास्पृष्टचित्तैरिति खलु पशुभिः पामरैर्वाऽनुमेयं

नो चेद्रोचेत कस्मै विषमितमनसे वादसंग्रामकेलिः ॥ ५८ ॥

नन्वनुमानप्रयोग एव कर्तुं न शक्यते; परस्परविरुद्धाङ्गीकारप्रचुरत्वाद्वादिनोः । तथा हि – शब्दो द्रव्यं नित्यमिति कौमारिलाः, गुणोऽनित्य इत्यन्ये, शब्दब्रह्मविवर्तो वृक्षादिशब्द इति शाब्दिकाः, पञ्चभूतगुण इति पौराणिकादयः, आकाशगुण इत्यौलूक्याः, आक्षपादाश्चैव । तथा च शब्दानित्यत्वाद्यनुमानं न संघटते; एकेन परिगृहीतस्य पक्षस्य इतरेणाग्रहणात् । तथा च परसरविसंवादादन्यतरासिद्धिः । एवं चानुमानवार्तैव सोषुप्यत इतीमामाशङ्कां परिहरति – कार्यैरिति ॥ अयमभिसन्धिः – पक्षस्य सामान्येन प्रसिद्धत्वमुपजीव्यं वादिप्रतिवादिनोः; न पुनरन्योन्यं विशेषप्रसिद्ध्यभावेन सामान्यप्रसिद्धस्य पक्षस्य पक्षत्वहानिः । पक्षप्रसिद्धिश्च प्रत्यक्षेण चेत्; अविवादमेव । अनुमानेन चेत् कार्येण वा कारणेन वा तद्व्यतिरिक्तेनापि व्याप्तिवैकल्यरहितेन स्वगुणेन वा किंचिदस्तीति प्रसिद्धं पक्षीकारार्हम् । एवं सपक्षो विपक्षश्च प्रमाणप्रसिद्धत्वेन तत्तत्कोटिनिवेशार्ह इत्यादिशब्देनोच्यते पक्षीकारादियोग्यमिति । एतच्च हेवादिष्वपि समानम् । ततस्तत्तत्सिद्धान्तप्रसिद्धव्यक्तिभेदो न दोष इत्याह – समयेति । एतच्च न केवलं वादिनामेव, शास्त्रपरिज्ञानशून्यानामपि पश्वादीनां साधारणमित्याह – सिद्धान्तेति । इत्थमनङ्गीकारे वादिनां प्रवृत्तिरेव न स्यादित्याह – नो चेदिति । वादिनां वादप्रवृत्तिर्यथा न घटते तथा पामराणां प्रतिनियतप्रवृत्तिरपि न भवेदिति भावः । सर्वस्या अपि प्रवृत्तेरनुमानमूलत्वादनुमानस्य चोक्तप्रकारेणावान्तरविभागानादरेण वस्तुस्वरूपप्रामाणिकत्वमात्रावलम्बित्वादिति ॥ ५८ ॥ इति प्रतिज्ञादेर्लोकसिद्धानुसारित्वम् ॥

4.284     आभासोद्धारवाक्ये स्वयमिह पठितेऽप्यक्षतान्यस्य शङ्का

स्याच्चेद्वयर्थोपनीतिर्निगमनमपि ते तत्तदर्थे यदात्थ ।

तस्मादुद्घाटितानां परिहृतिरुचिता जेतुमिच्छोर्विशेषा-

दुक्ते माने विमर्शो यदि भवति परं तत्र तर्कोऽपि वाच्यः ॥ ५९ ॥

नृसिंहराजीयम् । मूले अवयवनिरूपणानन्तरं कण्टकोद्धारविषयकश्लोको दृश्यते । सर्वार्थसिद्धौ न दृश्यते तस्य टीका । पतिता वा, यद्वा मूले श्लोकः प्रक्षिप्त इति न जानीमः । अस्यार्थस्तु – पर्वतो वह्निमान्, धूमवत्त्वात्, यो धूमवान् सोऽग्निमान् यथा महानसः, तथा चायं तस्मात्तथा – इति पञ्चावयवप्रयोगानन्तरं नायमत्राभासः तल्लक्षणरहितत्वात् इति कण्टकोद्धारवाक्यमाक्षपादाः प्रयुञ्जते । तत्र किमिदं वाक्यं प्रयोजनरहितम्? प्रयोजनवद्वा? नाद्यः, प्रयोजनरहितस्य प्रयोगायोगात् । न द्वितीयः, तत्रापि किमाभासशङ्कानिरासः प्रयोजनम्? उत तदन्यत्? न द्वितीयः, तथाभूतस्यादर्शनात् । नाद्य इत्याह – आभासोद्धार इति । शतवारं तत्प्रयोगेऽपि वादिवाक्यस्य तन्निरासकत्वायोगादित्यर्थः । यदि वाक्यादेव शङ्कानिवृत्तिः, तदा प्रतिज्ञाद्यवयवत्रयादेवेष्टसिद्धेरसिद्धिबाधादिनिरासकयोरुपनयनिगमनयोः प्रयोगो भवद्भिः क्रियमाणो व्यर्थः स्यात् । अपिशब्देन प्रतिज्ञावाक्यादेव साध्यसिद्धेर्हेत्वादिवैयर्थ्यं सूच्यते । किंच किमिदं वाक्यं प्रतिवादिशङ्कायाः प्राक् प्रयोज्यम्? उतानन्तरम्? नाद्य इत्याह -तस्मादिति । उद्धाटिता शङ्का परिहर्तुमुचिता, नानुद्धाटिता, अनाकाङ्क्षितत्वात्; अन्यथा अनाकाङ्क्षिताभिधानदोषस्य जल्पकथायामप्रसङ्गादिति भावः । द्वितीय आह – विशेषादिति । उक्तहेतौ विशेषरूपेण शङ्कायां तर्काप्रयोगे निवृत्त्यसंभवात् तर्कोऽपि प्रयोक्तव्य इत्यावश्यकतर्कादेव तन्निवृत्तेरुक्तवाक्यं व्यर्थमिति भावः । यद्वा विशेषादित्येतत् परिहृतिरुचितेत्यत्र संबध्यते; विशेषं प्राप्येति ल्यब्लोपे पञ्चमी; तथा च विशेषेणोचितेत्यर्थः । अनाकाङ्क्षिताभिधानदोषस्य विजिगीषोरवश्यं परिहरणीयत्वादिति भावः ॥ ५९ ॥ इति आभासोद्धारादेः प्रयोजनाभावः ॥

4.285     तर्को व्याप्याभ्युपेतावनभिमतिपदव्यापकस्य प्रसक्ति-

र्मानप्रत्यूहघातिद्विविषय उदितः पञ्चधाऽऽत्माश्रयादिः ।

विश्रान्तिर्वैपरीत्ये प्रतिहतिविरहोऽनिष्टतोऽनानुकूल्यं

व्याप्तिश्चास्याङ्गमेनं कतिचिदनुमितेस्तादृशं भेदमाहुः ॥ ६० ॥

एवमनुमानमुक्त्वा तदङ्गभूततर्कतत्कर्तव्यतदवान्तरभेदतदङ्गान्याह – तर्क इति ॥ अयमत्र श्लोकार्थः – व्याप्याङ्गीकारेऽनिष्टव्यापकप्रसञ्जनं तर्क इति तर्कलक्षणम् । तत्फलमाह -मानप्रत्यूहघातीति । विपक्षजिज्ञासाविच्छेदक इत्यर्थः । द्विविषय उदित इति तर्कावान्तरभेदकथनम्; प्रामाणिकपरित्यागाप्रामाणिकस्वीकाररूपविषयद्वयोपेत इत्यर्थः ।

स चात्माश्रयान्योन्याश्रयचक्रकानवस्थाकेवलानिष्टप्रसङ्गभेदेन पञ्चविधः । प्रतिबन्दीति तर्कान्तरमाचक्षते केचित्; तच्च केवलानिष्टप्रसङ्गावान्तरभेद इत्यपरे इत्याह – पञ्चधेति । वैपरीत्ये विश्रान्तिः – विपर्यये पर्यवसानम् । प्रतिहतिविरहः – प्रतितर्कपराहत्यभावः । अनिष्टता – प्रसञ्जनीयस्यानिष्टत्वम् । अनानुकृत्यम् – विरुद्धहेवाभासवत् परपक्षसाधकत्वाभावः । स्वपक्षपरपक्षयोर्द्वयोरपि साधारणमिष्टं परस्य, परपक्षस्यैवासाधारणं परस्यानुकृलं, तदुभयरूपविधुरमित्यर्थः । यथाऽनैकान्तिकः स्वपरपक्षसाधारणः, यथा च विरुद्धः परपक्षस्यैवासाधारणः, तदुभयरूपरहितस्तर्क इत्यर्थः । व्याप्तिः पूर्वोक्ता । एतत्परमङ्गं तर्कस्य । इमं च तर्कं केचिदनुमानभेदमाहुरित्याह – एनमिति । नेदं निरात्मकं जीवच्छरीरं प्राणादिमत्त्वप्रसङ्गादित्यनुमानभेदमाचक्षते केचिन्न्यायवादिन इति भावः ॥ ६० ॥ इति तर्कलक्षणफलावान्तरभेदाङ्गादि ॥

4.286     यस्सर्वं नाभ्युपेयात् स्वपरमतविदा केन किं तस्य साध्यं

प्रश्नोऽसावुत्तरं नः कथमनधिकृते कल्पनीयाः कथाः स्युः ।

मध्यस्थोऽप्येतदेवं यदि न न मनुते योजयेन्नात्र वादं

नो चेन्माध्यस्थ्यहानिः परमनधिकृतिस्त[त्र]स्य शिष्याय वाच्या ॥ ६१ ॥

इत्थं तर्कस्वरूपमुक्त्वा दुस्तर्कावलम्बनेन सर्वापलापवादिनः कथानधिकारादिकमाह -यस्सर्वमिति ॥ अत्र कश्चित् पृच्छति – यस्सर्वमपि दूषणभूषणवादिप्रतिवादिस्वपक्षपरपक्षादिविभागं नाङ्गीकरोति स्वपरमतविदा विदुषा केन किं तस्य साध्यमिति । नायं तावत्प्रतिक्षेपः; हेत्वाद्यनुपादानात् । उपादाने वा यस्सर्वं नाभ्युपैतीति वचनस्य नायं विषयः; हेत्वादेरेवाभ्युपगमात् । अतश्शिष्यप्रश्नोऽयमित्यवशिष्यते । तदिदमाह – प्रश्नोऽसाविति । तत्रोत्तरमाह – उत्तरं न इति । कथमुत्तरमित्यत्राह – कथमनधिकृत इति । नहि बालमूकोद्भ्रान्तादिभिर्वादं कुर्वते वादिनः । न च तदकरणात् सर्ववादिनां विदुषामतिशयस्य काचिद्धानिः । एवमनधिकृतैस्सर्वानङ्गीकारवादिभिरव्यवहारे न कश्चिद्विपश्चितां दोष इति भावः । यदि भवतैवमुच्यते तत्ते न गौरवाय, मध्यस्थवचनमेव सर्वनियामकमिति वदतामुत्तरमाह -मध्यस्थ इति । मध्यस्थोऽप्युद्भ्रान्तवदयथायथवादिनां वादाधिकारो नास्तीति यदि न न मनुते – मनुत इत्यर्थः । द्वौ नञौ प्रकृतमर्थं सूचयत इति । यद्येवं जानाति मध्यस्थः वादमेव तेन न प्रवर्तयेत्; न ह्युद्भ्रान्तादिभिर्वादं मध्यस्थाः प्रवर्तयन्ति । यदि पक्षपातात् प्रवर्तयति तर्हि मध्यस्थ एव न स्यादित्याह – नो चेदिति । ननु सर्वानङ्गीकारवादिनो वादानधिकार इति यदि तं प्रति वदसि, तस्य वादाधिकारं स्वयमेवानुमन्यसे; तस्मिन्नेव वादेऽधिकारात् । यद्यन्यं प्रति अन्यस्य प्रतिवादित्वाभावात् कथं व्याघातादिदोषोऽभिधीयेत? न हि दोषाभिधानमन्तरेण वादाधिकारनिराकरणं वस्तुं शक्यते । अत्रोत्तर – परमिति । उद्भ्रान्तवत् सर्वानिर्वचनीयत्ववादिनो दुर्वादिनो वादानधिकारिण इति शिष्यादीनामुपदिश्यते ॥ ६१ ॥ इति कथानधिकारादिः ॥

4.287     निर्दिष्टा व्युत्थितोक्तेर्विततिरिह कथा सा त्रिधा तत्र वादः

कर्तव्यो मानतर्कैरभिमतिनियतैस्तत्त्वसिद्ध्यै विरागैः ।

जल्पाख्याऽन्या जयार्था भवति कथकयोस्साधनाक्षेपवत्त्वे

सैव प्रोक्ता वितण्डा त्यजति परमते साधनं तां द्विधैके ॥ ६२ ॥

अथ वादिप्रतिवादिनोर्विवादस्थानभूतां कथां तद्विशेषानप्याह – निर्दिष्टेति । परस्परविरुद्धवादिनोर्व्यवहारः कथा । सा त्रिधा, वादजल्पवितण्डाभेदात् । वादे प्रमाणतर्कौ साधनम् । प्रामाणिकत्वाभिमानपरिगृहीतौ प्रमाणतर्कावित्यर्थः । प्रयोजनं पुनस्तत्त्वसिद्धिः, तत्त्वज्ञानम् । अधिकारी वीतरागः । वादाज्जल्पस्य विशेषमाह – जल्पेति । जयार्थी जल्पाधिकारी; अत एव न वीतरागः । उभयोरपि वादिनोस्साधनवत्त्वे जल्पः; अन्यतरस्य स्वपक्षसाधनवत्त्वे परस्य दूषणमात्रशरणत्वे वितण्डा । तत्रापि वैतण्डिकस्य दूषणसमर्थनं कर्तव्यम् । अन्यथा वैतण्डिकव्यवहारः प्रलापमात्रमेव स्यात् । एतमेव विभागमाह – सैवेति । जल्परूपा कथैव वितण्डा; अपि तु परमते साधनं त्यजतीत्यर्थः । तां द्विधैक इति । वितण्डायमपि द्वैविध्यमाहुरेके – वीतरागवितण्डा विजिगीषुवितण्डेति । अयं भावः – स्वपक्षसाधनं परपक्षदूषणं साधनदूषणसमर्थनं शब्ददोषवर्जनमिति पञ्चाङ्गो वादः । एकस्मिन् वादे वादिप्रतिवादिनावधिकारिणौ । तत्र वीतरागकर्तृकवादद्वयसमुच्चयेन वीतरागकथारूपो वादः प्रवर्तते । एवं विजिगीषुकर्तृकवादद्वयसमुच्चयेन विजिगीषुकथारूपो जल्पः । जल्पार्धेनैकेनैव वादेन यथा विजिगीषुवितण्डा; तथा वादार्धेनैकेनैव वादेन वीतरागवितण्डेति । अत्र वितण्डाशब्दोऽन्यतरसाधनवत्त्वसाधर्म्यादिति मन्तव्यम् । दृश्यते चेयं वीतरागवितण्डा । आदौ तावदाचार्यो वदति, शिष्यस्सोपपत्तिकमेवानुयुङ्क्ते, आचार्योऽपि सोपपत्तिकमेव परिहरन् शिष्यचोद्यं विनिवर्तयति ॥ ६२ ॥ इति कथातदवान्तरविशेषादि ॥

4.288     कर्तव्यत्वेन यत्तु प्रमितिपरवशैः कल्पितं स्वेच्छया वा

यच्चाकर्तव्यमेवं परिभवनपदं तत्प्रहाणग्रहौ स्तः ।

स्वाचारद्यूतसंयत्प्रभृतिषु च तथा स्वीकृतेयं व्यवस्था

नैनामीषद्वितण्डाऽप्यलमतिपतितुं साधनांशोज्झिताऽपि ॥ ६३ ॥

वितण्डायामपि वादिप्रतिवादिव्यवस्थानुपालनं कर्तव्यमित्याह – कर्तव्यत्वेनेति ॥ कर्तव्यत्वेन प्रमितिपरवशैः कल्पितं स्वपक्षसाधनादि । अकर्तव्यत्वेन कल्पितं छलजातिनिग्रहस्थानादि । स्वेच्छया कल्पितं निरोष्ठ्यव्यवहारः, अदन्त्यव्यवहारः, उक्तशब्दस्य पुनरनभिधानं, लुङ्प्रयोगः, चङ्प्रयोगः, यङ्प्रयोगः, यक्प्रयोगः इत्यादिकं शब्दविषयम् । अनुमानेनैव साधनमागमेनैव साधनं वक्रानुमानेनैव साधनं वैदिकागमेनैव साधनमित्यादिकं प्रमाणविषयम् । एवमन्यदपि वादिप्रतिवादिप्रौढिप्रकाशनार्थं कल्पनं द्रष्टव्यम् । एतत्परित्यागे निग्रह इत्याह -परिभवनपदमिति । नियमातिलङ्घने परिभवनं स्वकुलाचारद्यूतादिष्वपि दृष्टमित्याह -स्वाचारेति । सर्वा चेयं व्यवस्था वादजल्पयोरेव; वैतण्डिकस्य न काचिद्व्यवस्थेत्याशङ्क्य परिहरति – नैनामिति । साधनांशोत्झिताऽपीति । वितण्डायां स्वपक्षसाधनाभावेऽपि दूषणसमर्थनसद्भावात् साऽपि व्यवस्था वैतण्डिकेनाप्यङ्गीकार्येत्यर्थः ॥ ६३ ॥ इति वितण्डायामपि व्यवस्थानुपालनम् ॥

4.289     सद्दोषोक्त्या कथायां परपरिभवनं स्वोक्तहान्यादिनाम्ना

तत्त्वाबोधस्य लिङ्गं विविधमकथयन्निग्रहस्थानमाप्ताः ।

तत्राचोद्यानुयोगं द्विविधमशकनासिद्धिभेदादवोचन्

पूर्वो जातिः परस्तु च्छलमनृतवचः स्यादकालग्रहश्च ॥ ६४ ॥

इत्थं वैतण्डिकस्यापि दोषादोषव्यवस्थानुपालनमुक्त्वा निग्रहस्थानलक्षणतद्विभागादिकं दर्शयति – सद्दोषेति ॥ वादिप्रतिवादिभ्यां दोषत्वेनाङ्गीकृतानामभिधानेन कथायां परेषां परिभवनं – निग्रहो भवेति; प्रतिज्ञाहान्यादिनाम्ना वक्तव्यमित्याह – स्वोक्तेति । निग्रहस्थानलक्षणमाह – तत्त्वेति । अप्रतिपत्तिर्विप्रतिपत्तिश्च निग्रहस्थानमिति निग्रहस्थानलक्षणसूत्रम् । तस्याभिप्रायस्तत्त्वाप्रतिपत्तिसूचकं निग्रहस्थानमिति, अप्रतिपत्तिविप्रतिपत्त्योर्द्वयोरपि तत्त्वाप्रतिपत्तिसूचकत्वादिति । वादेऽपि कथावसानहेतुत्वेनात्यन्तानुपादेयस्य निरनुयोज्यानुयोगस्य विभागान् दर्शयति – तत्रेति । जातिः, छलं, प्रतिज्ञाहान्याद्याभासः, अप्राप्तकाले ग्रहणमिति चतुर्विधो निरनुयोज्यानुयोगः । स च जातिरजातिरिति द्विविधः । अजातिरपि छलमछलमिति । अछलमपि हान्याद्याभासस्तदन्यच्चेति । तत्र छलजात्योर्वेषम्यमाह – अचोद्यानुयोगं द्विविधमशकनासिद्धिभेदादवोचन्निति । सिद्धमपि दूषणासमर्थं जातिः; दूषणसमर्थमप्यसिद्धं छलमिति विभागः । तदिदमाह – पूर्वो जातिः परस्तु च्छलमिति । अनृतवचः – अविद्यमानस्य वचनं हान्याद्याभासवचनम् । अकालग्रहः – अप्राप्तकाले ग्रहणम् ॥ ६४ ॥ इति निग्रहस्थानलक्षणविभागादि ॥

4.290     जातिः स्वव्याहता वागुपधिनियतिभिर्भिद्यतेऽनेकधा सा

युक्तत्यागस्त्वयुक्तग्रहणमविषये वृत्तिरप्यत्र दोषाः ।

स्वव्याघातोऽनुवृत्तश्छलमपि वचसां कल्पितार्थे निषेध-

स्तत्तद्वृत्तिप्रभेदादिदमपि विविधं विस्तरेणालमत्र ॥ ६५ ॥

अथ छलजात्योर्लक्षणविभागमाह – जातिरिति । ‘स्वव्याघातकमुत्तरं जातिः’ ‘दूषणाशक्तमुत्तरं जातिरिति मतभेदेन पूर्वमुक्तम् । सा जातिरवान्तरलक्षणनियतिभिः प्रतिधर्मसमादिभेदेनाऽनेकधा भिद्यत इति दर्शयति – उपधीति । जातिषु विशेषदोषान् कथयति – युक्तेति । युक्ताङ्गत्यागोऽयुक्ताङ्गस्वीकारोऽविषयवृत्तित्वं चेति हि जातिदोषविशेषाः । सर्वजात्यनुवृत्तस्तु दोषः स्वव्याघातः । छललक्षणमाह – छलमपीति । कल्पितदूष्यदूषणाभिधानं छलमित्यर्थः । इदं च छलं तत्तच्छब्दप्रवृत्तिभेदात् मुख्योपचारतात्पर्यवृत्तिभेदेन त्रिविधम् । अस्यार्थस्यानेकेषु ग्रन्थेषु प्रसिद्धत्वात्किमत्र विस्तरेणेति विस्तरानादरः ॥ ६५ ॥ इति जात्यादिलक्षणविभागादि ॥

4.291     यस्मिन्मानप्रवृत्तिस्तदिदमशरणैरभ्युपेत्यं हि सर्वै-

व्याघातो यत्र दृष्टस्तदपि न शरणं साधने दूषणे वा ।

इत्थं सिद्धे कथानां रहसि कथकयोस्सावधानत्वभूम्ने

षट्पक्ष्यन्ता सदुक्तिः परिषदनुमता रुद्धरोधावकाशा ॥ ६६ ॥

उक्तदोषेष्वन्यतमस्यापि संभवे द्वितीयादिकक्ष्यायामेव वादविच्छेदः स्यात्, किमनया षट्पक्षीकल्पनयेत्याशङ्कमानस्योत्तरं वदति – यस्मिन्निति ॥ अयमर्थः – यत्प्रमाणेन प्रतीयते तत्सर्वैरपि वादिभिरङ्गीकार्यम् । यत्र पुनस्साधने दूषणे वा व्याघातो दृश्यते तदपि न शरणमेव – स्वपक्षसाधने परपक्षदूषणे वाऽनुपाय इत्यर्थः । इत्थं कथानां तिसृणामपि सिद्धे रहस्ये यद्यपि द्वितीयादिकक्ष्यायामेव दूषणं मध्यस्थैरवलोक्यते; तथाऽपि कथकयोस्तावधानत्वसिद्ध्यर्थं षट्पक्षीपर्यन्ता पुनरसदुक्तिर्मव्यस्थैरनुमता भवति । तत्र हेतुमाह – रुद्धेति । षट्पक्षीपर्यन्तं मध्यस्थानां निवारणावकाशाभावादित्यर्थः । तथा हि – द्विविधा हि कथा; सत्साधनोपक्रमा तावदेका; अपरा पुनरसत्साधनोपक्रमा । पर्यनुयोज्योपेक्षणं च मध्यस्थैर्वक्तव्यम्; उभयोरपि वादिनोर्दुष्टत्वात् । अन्यतरदोषमात्रकथने माध्यस्थ्यमेव हीयेत । तथा च सत्साधनोपक्रमकथायां वादी न दुष्टः । असदुत्तरकथने द्वितीयकक्ष्यायां प्रतिवादी दुष्टः । तत्र वादिना तृतीयकक्ष्यायां दुष्टवचनपरिग्रहे वादिनः पर्यनुयोज्योपेक्षणम् । अयमेव मध्यस्थानां वक्तुमवसरः । अथ मध्यस्थाः प्रतिवादिनो यथावस्थितवचनसंभवमपेक्षन्ते, स पुनरयथैव भाषते; तत्र चतुर्थकक्ष्याप्रवृत्तिः । ततो वादिनमपेक्षन्ते, सोऽप्ययथैव भाषते; अत्र पञ्चमकक्ष्या प्रवर्तते । अथ वादिप्रतिवादिनाः स्तम्भे सभापतिप्रश्रमपेक्षन्ते; स पुनर्न पृच्छति । तस्मिन्नवसरे प्रलाप एव प्रतिपादित इति षष्ठी कक्ष्या । सत्साधनोपक्रमकथायां षट्पक्षी; असत्साधनोपक्रमकथायां पञ्चैव पक्षाः; द्वितीयकक्ष्यायामेव पर्यनुयोज्योपेक्षणस्य प्रवृत्तेरिति विभागः । ततः षट्पक्षादिकमनुसृत्य मध्यस्था निवारयन्तीति न्याय्यमेतत् ॥ ६६ ॥ इति षट्पक्षीसंभवः ॥

4.292     वाक्यार्थो यस्त्वपूर्वो न खलु किमपि तद्व्याप्यमस्मिन् पदादौ

साङ्गत्यं बोधकत्वादधिकमनुमितौ ग्राह्यमत्रैतदेव ।

वक्तृज्ञानानुमानादिकमपि न भवेदन्ततो व्याप्त्यभावा-

त्तत्तल्लिङ्गाप्रतीतावपि मतिजननाद्वक्त्रभावाच्च वेदे ॥ ६७ ॥

इत्थं प्रमाणाभासप्रवृत्तिरूपां षट्पक्षीमुक्त्वा सौगतसमयानुवर्तिना येनकेनापि परिकल्पितस्य वाक्याद्वाक्यार्थानुमानस्य प्राभाकरवैशेषिकपरिकल्पितयोश्च वक्तृज्ञानानुमानयोराभासत्वं वक्तुमारभते – वाक्यार्थ इति ॥ कृत्स्नस्यापि वाक्यस्यानुमानरूपतामाहुः सौगता वैशेषिकाश्च । प्राभाकरास्तु लौकिकवाक्यमात्रस्य । कथं तत्रानुमानप्रवृत्तिरिति पृच्छामः । विप्रतिपन्नानि पदानि स्मारितार्थसंसर्गज्ञानपूर्वकाणि पदत्वादिति यदि वदसि, तदा न विशेषसिद्धिः । यदि संसर्गविशेषज्ञानपूर्वकाणि संसर्गविशेषवन्तीति वा, तदा संसर्गविशेषो न प्रसिद्धः, कथं व्याप्तिग्रहः? अनेनैव वाक्येन प्रसिद्धश्चेदन्योन्याश्रयः; अव्युत्पन्नेषु च पदेषु व्यभिचारः । न ह्यव्युत्पन्नानि पाठमात्रावगतानि पदानि स्मारितार्थसंसर्गज्ञानपूर्वकाणि । व्युत्पन्नपदत्वादिति चेत् केयं व्युत्पत्तिः? अभिधानशक्तिग्रहणमिति चेत्; तर्हि पदसङ्घातेनैव वाक्यार्थसिद्धिः; किमनयाऽनुमानकुसृष्ट्या? वाक्याद्वाक्यार्थप्रतिपत्तिरिति हि लौकिका मन्यन्ते । पूर्वमनुमानं पश्चाद्वाक्यार्थप्रतिपत्तिरनुवादरूपतयेति चेन्न; अदर्शनात् । न हि प्रयुक्ते वाक्ये द्विवारमर्थप्रतिपत्तिर्दृश्यते । अतो वेदवल्लोकेऽपि वाक्यादेवार्थप्रतिपत्तिरिति प्राभाकरस्योत्तरम् । वैशोषकस्याप्युपलम्भविरोधः । सर्वे हि व्यवहर्तारः शब्दादेव साक्षादर्थप्रतीतिमुपलभन्ते । कल्पनागौरवं चोत्तरम् । शब्दादर्थप्रतीतिरिति कल्पने लाघवम्, वक्तृज्ञानानुमानपृष्ठलग्नवाक्यार्थप्रतीतिकल्पने गौरवम् । संबन्धभेदादपि प्रमाणभेदमाह – साङ्गत्यमिति । शब्दे केवलबोधकत्वमात्रं संबन्धः; अनुमाने व्याप्तिरिति विभागः । एतदेव बोधकत्वम् । उक्तमर्थं सङ्कलय्य विशदयति – वक्तृज्ञानेति । यदि वा पूर्वं वाक्यादर्थानुमानं परास्तम्, अत्र वक्तृज्ञानानुमानपूर्वकमर्थसिद्धिर्निरस्यत इति न पौनरुक्त्यशङ्का । बुद्धप्राभाकरवैशेषिकाणां निराकरणे न्यायतौल्यात् साधारण्येनास्माभिर्व्याख्यातं पूर्वमिति न दोषः । तत्र हेतुमाह – व्याप्त्यभावादिति । हेत्वन्तरमप्याह – तत्तदिति । तत्तद्वाद्युक्तलिङ्गाप्रतीतावपि वाक्यार्थप्रतीतिप्रसिद्धिप्राचुर्यादिति । वैशेषिकस्य विशेषदूषणं प्रदर्शयति – वक्त्रभावाच्च वेद इति । ईश्वरानुमानं निरस्तमिति भावः ॥ ६७ ॥ इति आगमस्यानुमानाद्बहिर्भावः ॥

4.293     प्रत्येकं स्वानुभूतात्तदुभयमधिकं संस्कृतिद्वन्द्वयोगात्

स्मृत्यारूढं विजानन्त्यनुमितिवचसोर्वेद्यमप्येवमस्तु ।

पारोक्ष्यं तत्स्मृतित्वादनधिकमिति न प्रागनिर्धारितांश-

ज्ञानस्य स्पष्टदृष्टेः परिहितहरितस्त्वेतदस्पष्टमाहुः ॥ ६८ ॥

अत्र कश्चिदाह – आगमजन्यमनुमानजन्यं वा परोक्षज्ञानमिति किंचिन्नास्ति; किंतु नानासंस्कारजन्यस्मृतिसमुच्चयमात्रमेव । यथा प्रत्येकमनुभूतानां वृक्षादीनां समुच्चयेन सेनावनादिस्मरणं स्मरणमेव, एवं प्रत्येकानुभूतपदार्थस्मरणमेवागमजन्यं ज्ञानं; तथाऽनुमानजन्यमपीति, न स्मरणादतिरिच्यते परोक्षम् । तदिदमाशङ्कते – प्रत्येकमित्यारभ्य अनधिकमित्यन्तेन ॥ परिहरति – नेति । तत्र हेतुमाह – प्रागनिर्धारितेति । अयमत्र भावः – वाक्यार्थे तावत्प्रागविदितस्संसर्गविशेषस्सिध्यति; अतो न स्मृतित्वम् । एवमनुमानेऽपि पक्षनिष्ठं साध्यं सिध्यति । अतोऽपूर्वार्थप्रतीत्या न स्मृतित्वसिद्धिरिति । अयमत्र निर्णयः – संस्कारे सत्यप्यपूर्वार्थप्रतिपत्तौ न स्मृतित्वम्; अन्यदा पुनः स्मृतित्वमिति । अनुभव एव परोक्षापरोक्षविभागं बाह्या अप्याहुरित्याह – परिहितेति । क्षपणकाः खलु प्रत्यक्षपरोक्षविभागं स्पष्टमस्पष्टमिति विभज्य व्याचक्षते ॥ ६८ ॥ इति परोक्षानुभवासिद्धिपरिहारः ॥

4.294     प्रत्यक्षादीव मानं विमतिपदवचो हेतुदोषाद्यभावा-

द्वाक्यत्वादप्रमाणं विमतमिति यदि स्वोक्तिबाधादयः स्युः ।

अव्युत्पन्नस्य बोधं न जनयति वचस्संगतिज्ञानहाने-

र्लिङ्गं व्याप्तिप्रतीतेः पुरत इव न चावद्यमेतावताऽस्य ॥ ६९ ॥

सर्वं वाक्यमप्रमाणभ्रमिति वादिनं प्रतिक्षिपति – प्रत्यक्षादीति ॥ विप्रतिपन्नं वाक्यं प्रमाणम् कारणदोषबाधकप्रत्यया[द्य]भावादिति हेतुः, दृष्टान्तः प्रत्यक्षमनुमानं वा । अत्र प्रत्यनुमानमाशङ्क्य परिहरति – वाक्यत्वादिति । स्वोक्तिबाधः – स्वाभ्युपगमबाधः, स्वप्रवृत्तिबाध इत्यादिकमूह्यम् । सर्ववाक्याप्रामाण्ये स्वाचार्यवचनस्यापि सर्वशब्दार्थत्वेन स्वमतपरमतविभागो न स्यादित्यर्थः । यदि शब्दः प्रमाणम्, अव्युत्पन्नस्याप्यर्थं बोधयेत् प्रदीपवत्; न हि दीपो व्युत्पन्नाव्युत्पन्नविभागेनार्थमवबोधयतीत्याशङ्क्य परिहरति -अव्युत्पन्नस्येति । सङ्गतिज्ञानहानेरिति । वाच्यवाचकभावसंबन्धप्रतिपत्तिरागमस्यैवार्थावबोधनाङ्गम्, न तु प्रत्यक्षस्य; अतः सहकार्यभावादव्युत्पन्नस्य शब्दोऽर्थं नावबोधयतीति न दोषः । तत्र दृष्टान्तमाह -लिङ्गमिति । यथा व्याप्तिप्रतीतिशून्यस्य लिङ्गं साध्यप्रतीतिं न जनयति, नैतावता लिङ्गस्य दोषः; एवमागमस्येति ॥ ६९ ॥ इति निर्दोषवाक्यप्रामाण्यम् ॥

4.295     वक्त्री व्युत्पत्तितः प्राग्यदि निजविषयं वाग्विभक्त्यन्वयाद्यैः

किं व्युत्पत्त्या तिरश्चामपि न कथमितो बालकानां च बोधः ।

स्वा[र्थे]र्थश्शब्दस्तथा चेत्तदपि न विषयैस्तस्य साम्यात्तदन्यै –

रव्युत्पन्नत्वतो वा स्वमपि न गमयेदेष तद्वत्स्ववाच्यम् ॥ ७० ॥

अत्र शब्दस्य बोधकत्वशक्तिसमर्थनेन संतुष्टः कश्चिदाह – अव्युत्पन्नोऽपि शब्दोऽर्थप्रत्यायक् इति, तं प्रतिब्रूते – वक्त्रीति ॥ अत्र वक्रीति किं शक्तिमात्रमभिधीयते, किं वा वचनक्रियासंबन्धः? पूर्वस्मिन् पक्षे नास्माकमपि विप्रतिपत्तिः, शब्दशक्तेर्नित्यत्वात् । उत्तरं पक्षमनुवदति – वक्त्री व्युत्पत्तितः प्रागिति । विभक्त्यन्वयाद्यैरिति वचनहेतुः । प्रकृतिप्रत्ययादिभेदेन व्युत्पन्नो हि शब्दोऽर्थं प्रत्याययतीति भावः । अनूदितमर्थं प्रतिक्षिपति – किं व्युत्पत्त्येति । स्वयमेव शब्दोऽर्थ प्रत्याययति चेत्, व्युत्पत्तिर्निरर्थिकैव स्यात् । अव्युत्पन्नच्छब्दात्तिरश्चां बालमूकानां च बोधः कथं न स्यात्? नन्वव्युत्पन्नानामपि शब्दः स्वरूपं प्रतिपादयति; अतः शब्दस्याव्युत्पन्नस्यापि बोधकत्वं स्वस्वरूपे दृष्टमिति, तदिदमाह – स्वार्थ इति । दूषयति – तदपि नेति । तत्र हेतुमाह – विषयैरिति । अयं भावः – यथा विषयेषु व्युत्पन्नः शब्दोऽर्थमवगमयति, एवं स्वबोधकत्वेनापि व्युत्पन्नश्शब्दः स्वात्मानमवगमयति । अन्यथा स्वात्मनि व्युत्पत्त्यभावात् स्वात्मानमपि नावबोधयेत् । उक्तमर्थमनुमानेनाप्युपपादयति – अव्युत्पन्नत्वत इति । स्वात्मन्यव्युत्पन्नश्शब्दः स्वात्मानं नावगमयेत्, यथा स्वविषये अव्युत्पन्नश्शब्दः स्वविषयं नावगमयति । अयमत्र भावः – शब्दस्य द्वयी शक्तिः; अर्थप्रकाशकत्वं स्वस्वरूपप्रकाशकत्वं चेति । अर्थप्रकाशनशक्तिः स्वयमगृहीता नार्थप्रकाशनाङ्गं भवति । एवं शब्दप्रकाशनशक्तिः स्वयमगृहीता चेत्, न स्वप्रकाशनाङ्गं भवति । तस्माच्छब्दः स्वार्थवत् स्वस्मिन्नपि व्युत्पन्नः स्वप्रतीतिं जनयतीति । अतश्शक्तस्यापि शब्दस्य तत्तदर्थप्रकाशनशक्तिप्रतिसन्धानमन्तरेण नार्थप्रतिपत्तिजनकत्वमिति ॥ ७० ॥ इति अव्युत्पन्नशब्दबोधकत्ववादभङ्गः ॥

4.296     शब्दस्संकेतितोऽर्थं गमयति विमतोऽपीति शास्त्रप्रतीपं

तत्कर्ताऽद्य ह्यसिद्धस्स च दुरधिगमस्सृष्टिकालेऽनुमानैः ।

श्रुत्या चेत्प्रत्युतैतद्विभुरपि तनुते वेदतो नामरूपे

व्याकृत्यादेर्विरुद्धौ क्रमजनिविलयौ क्षुद्रभाषासु नैवम् ॥ ७१ ॥

सर्वस्यापि शब्दस्य संकेतपूर्वकत्वं कश्चिदाह विप्रतिपन्नश्शब्दः सांकेतिकः शब्दत्वात् भाषाशब्दवदिति । तदेतदनुवदति – शब्द इति ॥ परिहरति – शास्त्रप्रतीपमिति । ‘वाचा विरूपनित्ययेत्यादिश्रुतिविरुद्धत्वात् कालात्ययापदिष्टमित्यर्थः । संकेतकर्ता किमाधुनिकः? किं विश्वजगत्सृष्टिकालस्थः? आधुनिकश्चेन्न दृष्टः; ईश्वरश्चेदीश्वरानुमाननिरासेन प्रागेव निरस्त इत्याह – तत्कर्तेति । श्रुतिप्रसिद्धस्संकेतकर्तेति चेत्, तद्विरुद्धमेव भवतः; ‘धाता यथापूर्वमल्कयत्’ ‘नामरूपं च भूतानां कृत्यानां च प्रपञ्चनम् । वेदशब्देभ्य एवादौ देवादीनां चकार सः’ ॥ इति नामरूपव्याकरणस्य वेदपूर्वकत्वश्रवणात् । कथं तर्हि काठकादिसमाख्या? कथं व्याहृत्यादेः क्रमादुपदेशः? कथं वा ऋग्वेदादेरनुक्रमादुपदेशः पुराणेषु व्यवह्रियते? सर्वं चैतदभिव्यूक्तिविशेषादित्याह – व्याकृत्यादेरिति । प्रवर्तनविशेषादेरित्यर्थः । उत्पत्तिविलयौ ‘नामरूपे व्याकरोदिति श्रुतिविरुद्धौ । तर्हि भाषान्तरेऽप्यसांकेतिकत्वं स्यादित्याशङ्क्य परिहरति – क्षुद्रेति ॥ ७१ ॥ इति सर्वशब्दसांकेतिकत्वभङ्गः ॥

4.297     व्युत्पत्तिः कार्य एव प्रथमसमुदिता वृद्धवाक्यात्प्रवृत्तौ

तत्सर्वास्तत्पराः स्युर्गिर इति यदि न क्वापि सिद्धेऽपि सिद्धेः ।

स्याद्वा कार्यैकलक्ष्या प्रथममिह कुतश्शब्दशक्तिं नियच्छे-

त्तात्पर्यं चान्यथाऽपि ह्यनितरशरणैर्लोकवेदप्रयोगैः ॥ ७२ ॥

एवं व्युत्पत्तिं प्रसाध्य सिद्धे व्युत्पत्तिं साधयितुमारभते । तत्र प्राभाकरमतमनुवदति -व्युत्पत्तिरिति ॥ पूर्वं सर्वशब्दानां सांकेतिकत्वं निरस्तम् । अत्र सर्वशब्दानां कार्ये व्युत्पत्तिं वदन् प्राभाकरो निरस्यते । स ह्येवं मनुते – व्युत्पत्त्यायत्तं शब्दस्य प्रामाण्यम्; आद्या व्युत्पत्तिः कार्य एव । वृद्धव्यवहारो हि व्युत्पतिबीजम्; प्रयोजकवृद्धो हि गामानयेति वाक्यं प्रयुङ्क्ते; प्रयोज्यश्चानयति; व्युत्पित्सुरन्योऽनेन वाक्येनानुमानसध्रीचा व्युत्पाद्यते । इत्थं ह्यनुमिनोति व्युत्पत्तिः – विप्रतिपन्ना प्रयोज्यप्रवृत्तिः कार्यताबुद्धिपूर्विका चेतनप्रवृत्तित्वात् अस्मत्प्रवृत्तिवत् । विप्रतिपन्ना कार्यताबुद्धिः प्रयोजकवाक्यजन्या तदन्वयव्यतिरेकानुविधायित्वात् । यद्यदन्वयव्यतिरेकानुविधायि तत्तज्जन्यं यथा संप्रतिपन्नमिति । एवं सामान्यतः कार्यपरत्वे प्रयोजकवाक्यस्य निश्चिते, गामानय गां बधान अश्वमानय अश्वं बधानेत्यादिषु वाक्येषु आवापोद्वापवशाद्विशेषव्युत्पत्तिरपि जायते । अतः कार्य एव शब्दानां व्युत्पत्तिः । तस्मान्न सिद्धरूपे ब्रह्मणि वेदान्तवाक्यानां प्रामाण्यमिति । एतदनुभाषते – व्युत्पत्तिरिति । परिहरति – नेति । तत्र हेतुमाह – क्वापीति । सिद्धे व्युत्पत्तिप्रकार उपरितनग्रन्थे विस्तरेण प्रतिपादयिष्यते । तत्तावत्तिष्ठतु; अन्वारुह्यापि वदामः । कार्य एव व्युत्पत्तिरस्तु; तथापि सिद्धेऽपि तात्पर्यं स्यादित्याह – स्यादिति । अयं भावः – चत्वारो ह्यर्थाश्शब्दस्य मुख्यगौणलाक्षणिकतात्पर्यवृत्तिभेदेन । तत्र मुख्यवृत्तेरेकत्रावस्थानेऽपि तात्पर्यवृत्तिरन्यत्रापि संक्रमते । अन्यथा कथमृत्विक्पत्नीयजमानादिभेदेन कर्तृविभागः?

स्फ्यकपालपुरोडाशादिभेदेन करणविभागः? स्वर्गस्वाराज्यपशुपुत्रादिभेदेन फलविभागः? अतः कार्यशेषतया सिद्धस्यापि कार्यवाक्येषु तात्पर्यभूमित्वात् व्युत्पत्तेः कार्यपरत्वनिर्बन्धो निर्निबन्धनः ॥ ७२ ॥ इति सर्वशब्दानां कार्यपरत्वभङ्गः ॥

4.298     कोऽसौ पाञ्चाल इत्याद्यनुभवतु वचस्सिद्धतात्पर्ययोगं

शास्त्रं कार्यैकशेषं गमयति निखिलं सिद्धमित्यर्धरम्यम् ।

यत्र ज्ञानं पुमर्थस्तदवधिवचनं तत्र बाधोऽपि नास्मि-

न्नातो नाट्यादिनीतिर्निधिवचननयादन्यथा स्याद्विरोधः ॥ ७३ ॥

इत्थं कार्य एव व्युत्पत्तिरिति नियमाङ्गीकारेण कार्यशेषतया सिद्धेऽपि तात्पर्यमुक्तम् । इदानीं सिद्ध एव प्राधान्येन तात्पर्यं संभवति; कोऽसौ पाञ्चाल इत्यादिषु तथा दृष्टेरिति वदन्तं सिद्धपरवादिनं तत्पक्षानुवादपूर्वकं प्राभाकरं प्रतिक्षिपति – कोऽसाविति ॥ अयमस्य भावः – लौकिकवाक्यं सिद्धपरमस्तु, वैदिकवाक्यं सर्वमपि कार्यपरमेव; सिद्धं तु कार्यशेषतया वदतीति । तद्दूषयति – अर्धरम्यमिति । कानिचित्सिद्धपराणि कानिचित्कार्यपराणीति विभागस्य दर्शनादर्धरम्यत्वमुच्यते । पुरुषार्थपर्यवसायित्वं हि वाक्यस्य प्रामाण्ये तन्त्रम्; तच्च तव गृहे निधिरस्तीत्यादौ प्रतिपत्तिमात्रेण; ज्योतिष्टोमादिवाक्येषु स्वर्गादिफलप्रतीत्या । अतो ब्रह्मज्ञाने स्वरूपेण पुरुषार्थत्वान्न पुरुषार्थान्तरापेक्षा । तर्हि बालोपच्छन्दनादिवाक्यवदर्थतथात्वं न स्यादिति चेत्; न स्यात्, बाधाभावेन स्वतःप्रामाण्यस्यैव न्यायप्राप्तत्वात् । अत एव न नाट्यादिनीतिः । नाट्यादावर्थानुकारमात्रेण प्रीतिः । नात्रानुकारप्रतीत्या प्रीतिः; अपि तु स्वगृहे निहितनिधिसद्भावप्रतीत्या । इत्थं बाधविधुरेष्वर्थतत्त्वेषु प्रामाण्यानङ्गीकारे कार्यवाक्येऽपि प्रामाण्यं न स्यादिति कण्ठगतजीवितमेव वेदप्रामाण्यमिति भावः ॥ ७३ ॥ इति सिद्धस्वरूपादिपरवाक्यानां विधिशेषत्वमन्तरेण प्रामाण्यनिरूपणम् ॥

4.299     कस्भैचिज्ज्ञापयैतत्त्वमिति परकृतां वीक्ष्य चेष्टां तदन्य-

स्तस्मै ब्रूते ततस्तद्गमकमिह वचो वेत्ति चेष्टाविदन्यः ।

तत्तद्वाच्येषु शब्दैर्हितविदभिहितैरङ्गुलीयोगपूर्वं

जानन्नन्यत्र तत्तत्स्वहितजनकृति शिक्षणार्थामवैति ॥ ७४ ॥

इदानीमाद्यव्युत्पत्तिः प्रकारत्रयेण सिद्धार्थेऽपि कर्तुं शक्येति वक्तुमारभते – कस्मैचिदिति ॥ एषा किल काचित्प्रक्रिया – पुत्रस्ते जात इति देवदत्ताय ज्ञापयेति केनचिच्चेष्टया चोद्यमानः कश्चित् गत्वा तस्मै देवदत्ताय तं वक्ति; तेन सह गतः कश्चिदन्यो व्युत्पित्सुर्मूकवच्चेष्टाविशेषज्ञस्तद्वाक्यं श्रुत्वा व्युत्पद्यते एतद्वाक्यं पुत्रजन्मरूपार्थप्रतिपादकमिति । तदिदमाह – ततस्तदिति । प्रकारान्तरेण प्रतिपदव्युत्पत्तिनिरूपणेन सिद्धे व्युत्पत्तिं दर्शयति – तदिति । तत्तच्छब्दवाच्येपु शिशुपशुपक्षिमृगादिष्वम्बातातमातुलादिभिर्हितविद्भिरभिहितैश्शशिपश्वादिशब्दैस्साकमङ्गुलीनिर्देशपूर्वकं जानन् – प्रतिपद्यमानस्तत्तत्स्वहितप्रवृत्तिमन्यत्रापि शिक्षणार्थां – व्युत्पादनार्थामवैति । अयमत्र क्रमः – शिक्षको जनः कञ्चित्कालमङ्गुलीनिर्देशपूर्वकं तेषुतेष्वर्थेषु तत्तच्छब्दान् प्रयुङ्क्ते; पश्चादङ्गुलीनिर्देशमन्तरेण वदति । व्युत्पित्सुस्तच्छृणोति, चेष्टापरिज्ञानवत्त्वाद्व्युत्पादकानां प्रवृत्ति व्युत्पादनार्थां जानाति; ततश्चेष्टामन्तरेणापि शब्दमात्रादेव स्वप्रतिपत्तिं दृष्ट्वा शब्दस्य बोधकत्वशक्तिं जानाति । अयं शब्द इममर्थं बोधयति, शब्दार्थयोस्संबन्धान्तरं न दृश्यते; संकेतयिता चान्यो न दृष्टः; परिशेषाद् बोध्यबोधकभोवनैवायं शब्द इममर्थं बोधयतीति व्युत्पद्यते ॥ ७४ ॥

4.300     कश्चित् कस्यापि पुंसस्सुतजनिमिह तत्प्रीतिकृत्त्वं च जानन्

तज्जन्मोक्तिप्रहृष्टे पितरि सुतजनेर्वेत्ति तद्वाच्यभावम् ।

शक्यं तद्धर्षहेतुस्स इति नियमनं सन्निधानादियुक्ते-

रासीदत्सु प्रसूत्याद्यनियतिकथनं क्रार्यवाक्येऽपि शक्यम् ॥ ७५ ॥

अयं चान्यः प्रकारः – देवदत्तस्य पुत्रे जाते कश्चिद्गत्वा पुत्रस्ते जात इति वदति । तत्पश्यन् बालकस्तन्मुखविकासेन तस्यानुकूलबुद्धिं, जानन्नेतद्वाक्यं सन्निहितानुकूलरूपपुत्रजन्मप्रतिपादकमिति व्युत्पद्यते । तदिदमाह – कश्चिदिति ॥ अयमत्रान्वयः – कस्यापि पुंसस्सुतजनिं – पुत्रजननं तस्य च प्रीतिकृत्त्वं – प्रीतिहेतुत्वं च जानन् तज्जन्मवाक्यप्रहृष्टे पितरि सुतजनेः – पुत्रजननस्य तद्वाच्यभावं – शब्दवाच्यभावम् वेत्ति – जानाति । बहुष्वपि हर्षहेतुषु सत्सु पुत्रजननमेव हर्षहेतुरिति विशेषनियमनं सन्निधानादिलिङ्गैश्शक्यम् । आसीदत्सु बहुषु प्रीतिहेतुषु सुखप्रसूत्याद्यनियतिकथनं कार्यव्युत्पत्तावपि शक्यते वस्तुम् – तत्राप्यवान्तरबहुव्यापारसंभवादनियतिर्वक्तुं शक्या ॥ ७५ ॥ इति सिद्धार्थेऽप्याद्यव्युत्पक्षपपत्तिः ॥

4.301     शब्दस्यैतस्य वाच्यस्त्वयमिति च तथा वाचकोऽसावमुष्ये-

त्येवं शिक्ष्येत पश्चात् कतिपयवचसां मूर्वनिर्ज्ञातशक्तिः ।

इत्थं व्युत्पन्नतत्तत्सहपठितिवशाद्वाचकान् वेत्ति कांश्चि-

द्ये लोके ते हि वेदे समधिकमिह यत्तत्तु तत्रैव वेद्यम् ॥ ७६ ॥

इत्थं सिद्धार्थे प्रथमां व्युत्पत्तिमभिधाय द्वितीयामपि व्युत्पत्तिं तत्रैव वदति – शब्दस्येति ॥ अस्य शब्दस्यायमर्थो वाच्यः, अस्यार्थस्यायं शब्दो वाचक इति हि काव्यादिशिक्षाप्रकारः । लोकव्यवहारोऽप्येवमेव ज्ञापयति । इमां व्युत्पत्तिं पूर्वार्धेन दर्शयित्वा व्युत्पत्त्यन्तरमुत्तरार्धेन दर्शयति – इत्थमिति । अयमर्थः – प्रभिन्नकमलोदरे मधूनि मधुकरः पिबतीति वाक्यं श्रुत्वा प्रभिन्नेत्यादिशब्दानां पूर्वव्युत्पन्नाद्व्युत्पन्नपदसहपठनसामर्थ्यात् पूर्वमव्युत्पन्नं मधुकरपदमौचित्यादिना भ्रमरपरतया व्युत्पद्यत इति कांश्चिद्भ्रमरादिशब्दान् । तर्हि लौकिकशब्दानामेवं व्युत्पत्तिरस्तु, न वैदिकानामित्याशङ्क्याह – य इति । ‘य एव लौकिकास्त एव वैदिका इति हि लोकवेदाधिकरणन्याय’ इति भावः । कथं तर्हि वैदिकप्रयोगेषु वैषम्यम्? अत आह – समधिकमिति । यल्लौकिकशब्दाद्वैदिकशब्देषु समधिकं वैषम्यं तत् प्रातिशाख्यादिव्याकरणविशेषावगम्यमित्यर्थः । अतः कार्ये व्युत्पत्तिसिद्धेः व्युत्पत्त्यादिभिर्बहुभिर्लोकव्यवहारसहितैरभिधानपठितैर्व्याकरणप्रक्रियादिभिः प्रातिशाख्यादिभिरसाधारणहेतुभिस्सिद्धे वा कार्ये वा सर्वत्रापि व्युत्पत्तिस्समानस्वभावेति नैकत्र व्युत्पत्तिनियमः कार्य इत्यर्थः ॥ ७६ ॥ इति सिद्धार्थे द्वितीयादिव्युत्पत्तिप्रकारः ॥

4.302     व्युत्पाद्यं नाप्रतीतं प्रसजति विदिते नैरपेक्ष्यं श्रुतीना-

मिन्द्राद्यर्थे पदानामिति दुरधिगमा नामतेत्यप्ययुक्तम् ।

अप्रत्यक्षेषु सिंहप्रभृतिषु वचनैः कैश्चिदारण्यकोक्तैः

व्युत्पद्यन्ते हि पौराः स्वयमपि च वदन्त्येवमत्रापि वार्ता ॥ ७७ ॥

अस्तु प्रत्यक्षेषु पदार्थेषु एतादृशी व्युत्पत्तिः । अप्रत्यक्षेष्विन्द्रादिषु सिद्धेषु व्युत्पत्तिर्न युज्यत इत्याशङ्कते – व्युत्पाद्यमिति ॥ किमप्रतीते व्युत्पत्तिरुत प्रतीते? अप्रतीतं तावद्व्युत्पाद्यं न प्रसजति – न भवतीत्यर्थः । प्रतीते व्युत्पाद्ये प्रतीतत्वादेवाप्राप्तार्थप्रत्यायकश्रुतिनैरपेक्ष्यप्रसङ्ग इति । इत्थं सतीन्द्राद्यर्थे पदानां नामता दुरधिगमेति । एतदयुक्तमित्याह – इत्यपीति । अयुक्तिमेवोपपादयति – अप्रत्यक्षेष्विति । सिंहादिष्वागमाद्व्युत्पत्तिर्नास्ति; अपि तूपमानात् । अत एवोक्तमुपमानवादिभिः – ‘सादृश्यस्यानिमित्तत्वान्निमित्तस्याप्रतीतितः । समयो दुर्ग्रहः पूर्वं शब्देनानुमयाऽपि वा’ ॥ इति चेत्; दुरुक्तं तु तत्, तादृशस्योपमानस्यैवाभावात्; अन्यथा वैदिकेन्द्रादिशब्दानां नित्याव्युपत्तिप्रसङ्गात् नित्यादृष्टत्वादिन्द्रादिजातेः । कथं तर्ह्यप्रत्यक्षे गवयत्वे गवयशब्दव्युत्पत्तिः? कथं वा प्रत्यक्षत्वप्रसङ्गविधुरेन्द्रादिसामान्ये? तत्र वक्तृभिप्रायमाश्रित्य व्युत्पद्यते । अयं खलु वक्तुरभिप्रायः – सहस्राक्षत्वाद्युपलक्षिता काचिज्जातिरिन्द्रशब्दार्थ इति । तदन्यत्रापि समानम् गोसादृश्योपलक्षिता काचिज्जातिर्गवयशब्दार्थ इति । किं च वक्त्रभिप्रायानङ्गीकारे प्रत्यक्षेऽपि घटादौ व्युत्पत्तिर्न स्यात् । तथा हि । कश्चित्को घट इति पृच्छति । व्युत्पादकः पुनः अयं घट इति व्यक्तिविशेषं दर्शयति; व्युत्पित्सुश्च तावता व्युत्पद्यते । तत्रैकस्यां व्यक्तौ व्युत्पन्नस्य व्यक्त्यन्तरे घटप्रतीतिर्न स्यात् । वक्रभिप्राय एव तत्र शरणम् । एतज्जातीयो घट इति वक्तुरभिप्रायः । तेन तज्जातीये व्युत्पद्यते तदभिप्रायाभिज्ञो व्युत्पित्सुरिति । एवं तर्कसहस्तेन वक्त्रभिप्रायपरिशोधनेन गवयत्वादौ गवयादिशब्दं व्युत्पद्यते व्युत्पित्सु; किमिह निरर्थकोपमानकल्पनेनेति । न केवलं सिंहादिशब्दव्युत्पत्तिः, व्यवहारोऽपि दृश्यत इत्याह – स्वयमिति । दृष्टान्तदृष्टमर्थं पक्षे योजयति – एवमिति । वार्ताप्रवृत्तिः ॥ ७७ ॥ इति अप्रत्यक्षपदार्थव्युत्पत्तिप्रकारः ॥

4.303     व्यक्तिः शब्दैर्न बोध्या यदि न खलु भवेदन्वितज्ञप्तिसिद्धि-

स्तच्छक्तिर्व्यक्तिमात्रे न च भवति यतः स्वोपलम्भादिबाधः ।

धर्मो धर्मी च नैकं किमपि न च तयोर्भिन्नयोरप्यभेद-

स्तस्मात्तां तद्विशिष्टामभिदधति पदान्यन्यथा गत्यभावात् ॥ ७८ ॥

यदि जातिवाचकत्वं शब्दस्य तर्हि विशिष्टविषयत्वं न स्यात् इत्याशङ्कते – व्यक्तिरिति ॥ परिहरति – न खल्विति । व्यक्तिविषयत्वाभावे कथमन्वितज्ञप्तिसिद्धिः, अन्वयस्य व्यक्तिनिष्ठत्वात्? यदि व्यक्तिमात्रे शक्तिः, तच्च न भवति, उपलम्भादिबाधात् । व्यक्तिमात्रे शब्दशक्तावनुवृत्तव्यवहारादिबाध इत्यर्थः । तर्हि धर्मो धर्मी चैकम्, अथवा भिन्नाभिन्नमित्याशङ्क्य पक्षद्वयमपि क्रमेण प्रतिक्षिपति – धर्मेति, न चेति च । अतो जातिविशिष्टा व्यक्तिरेव शब्दार्थ इति निगमयति – तस्मादिति । तदेवोपपादयति -अन्यथा गत्यभावादिति । अयमर्थः – केचिच्छब्दा जातिमात्रवाचकाः जातिस्सामान्यमित्यादयः । केचिद्व्यक्तिवाचकाः व्यक्तिस्स्वरूपमित्यादयः । अपरे पुनर्जातिविशिष्टव्यक्तिवाचकाः गौरश्व इत्यादयः । तत्र पूर्वकोटिद्वयविलक्षणतृतीयकोटिवाचकाश्शब्दा जातिविशिष्टव्यक्तिवाचिन इति ॥ ७८ ॥ इति आकृतिशब्दानां विशिष्टवाचित्वम् ॥

4.304     जातिं व्यक्त्या विहीनां स्पृशति न धिषणा तेन जातौ प्रवृत्ता

शक्तिर्व्यक्तिं स्पृशेच्चेत् स्थित इह वचसां तद्विशिष्टावगाहः ।

जातेर्बोधः स्वहेतोः स्थितिरपि हि भवेत्क्वापि गोत्वोक्तिनीत्या

शब्दात्तत्पारतन्त्र्यं स्फुरति यदि पराबोधने तन्न शक्यम् ॥ ७९ ॥

कौमारिलास्त्वेवं प्राहुः – जातिवाचिनश्शब्दा व्यक्तिं लक्षयन्तीति । तदयुक्तमित्याह -जातिमिति ॥ व्यक्तिशून्यां जातिं कदाचिदपि न स्पृशति धिषणा । तेन जातौ प्रवृत्ता शब्दशक्तिर्व्यक्तिमपि स्पृशतीति वक्तव्यम् । तथा चेद्वचसां जातिविशिष्टव्यक्त्यवगाहनं स्थितमेव । तथा च शक्तिर्विशिष्ट इति भवतैवोक्तं भवति । तदेव विवृणोति – जातेर्बोध इति । जातेः प्रतिपत्तिः स्वकारणात्, अवस्थानं च कुत्राप्याधारविशेषे । तत्र दृष्टान्तमाह – गोत्वेति । यथा गोत्वशब्दे गोर्भावो गोत्वमिति गोशब्दप्रतिपत्तिमन्तरेण प्रतिपत्तिर्न भवति, गोशब्दमन्तरेण भावविषयस्य त्वप्रत्ययस्यानुत्पत्तिः, एवं गोत्वस्य प्रत्ययस्थिती तदाधारभूतो[गो]स्वरूपसापेक्षे इत्यर्थः । अस्तु गोत्वस्य पारतन्त्र्यस्फुरणम्, ततः किं शब्दशक्तेरित्यत आह – शब्दादिति । शब्दाद्गोत्वस्य व्यक्तिपारतन्त्र्यं यदि स्फुरति, तदा परस्य व्यक्तिद्रव्यस्याबोधने जातेस्तत्पारतन्त्र्यं शब्देन बोधयितुं न शक्यम् । अतो गवादिशब्दशक्तिर्व्यक्तिपर्यन्तेति ॥ ७९ ॥ इति विशिष्टवाचिनां विशेषणमात्रे शक्तिनिष्कर्षानुपपत्तिः ॥

4.305     जातौ शक्तिर्लघुत्वात् भवति च वचसां भाषणं जातिमात्रे

भेदो निष्कर्षकेभ्यस्त्विह परमजहल्लक्षणाया निरूढिः ।

इत्युक्तं कैश्चिदेवं यदि भवति तदोपाधिशब्देऽपि नीति-

र्मन्दं वैषम्यमात्रं भवतु च नियतिः प्रत्ययैर्लक्षणायाः ॥ ८० ॥

उक्तमपि दूषणं सम्यगजानानः पूर्वपक्षी लघुत्वावलम्बनेन लक्षणापक्षं पुनर्द्रढयति -जाताविति ॥ अयमर्थः – जातावेव शक्त्यङ्गीकारे शब्दस्य शक्तिलाघवं भवति; अतो वचसां भाषणम् – अभिधानं जातिमात्रे । तर्हि गोत्वशब्दात् गोशब्दस्य जातिवाचित्वे को भेदः? तत्राह – भेद इति । गोत्वशब्दो गोत्वजातिमेव प्राधान्येनाह; गोशब्दस्त्वनिष्कर्षकत्वादजहल्लक्षणानिरूढ्या गोत्ववत् तदाधारभूतां गामपि प्रकाशयति । अयमेव निष्कर्षकानिष्कर्षकभेदः । इमं पक्षमनुवदति – इत्युक्तं कैश्चिदिति । एतत्प्रतिबन्द्या दूषयति – एवमिति । तर्हि उपाधिशब्देऽपीयं नीतिरनुसन्येया; तत्राप्युपाधावेव शब्दशक्तिः उपाधिमति निरूढलक्षणेति । तदेतदाह – तदेति । गवादिशब्दस्तु जातिशब्दः, अन्यस्तूपाधिशब्द इति वैषम्यं मन्दमेव; प्रयोजकं न्यायसाम्ये वैषम्यमात्रस्याप्रयोजकत्वात् । अत उपाधिशब्दवज्जातिशब्दस्यापि धर्मिपर्यन्ताभिधानमपरित्याज्यम् । कथं तर्हि गङ्गायां घोष इत्यादिषु लोके लाक्षणिकव्यवहारनियमः? तत्राह – भवत्विति । प्रतीतिरेव हि सर्वत्र शरणम्; प्रतीतिश्च व्युत्पत्त्यधीना; व्युत्पत्तिश्च व्युत्पादकपारम्पर्यादेव नियता; व्युत्पादकाश्च गोशब्दं गोत्वाधारद्रव्यविषयतया व्युत्पादयन्ति; गोत्वशब्दं पुनर्भावविषयतया । अतो निष्कर्षकानिष्कर्षकनिर्णयसिद्धिरिति ॥ ८० ॥ इति व्यक्तिलक्षणापक्षभङ्गः ॥

4.306     मत्वर्थीयानुशिष्टिर्गुणवचनगणे वैभवात्स्यादसौत्री

शक्तिस्तत्रापि तत्तद्गुणवति नियता जातिशब्दाविशेषात् ।

निष्कृष्यैषां प्रयोगे क्वचिदगतितया द्रव्य[शक्ति]वृत्तिनिरुद्धा

शक्तिस्साम्ये विभक्तेस्तदवधिररुणाधिक्रियायामभाषि ॥ ८१ ॥

एवं जातिशब्दवत् गुणशब्दस्यापि द्रव्यपर्यन्ताभिधानम् । कथं तर्हि गुणवाचिशब्दे मत्वर्थीयप्रत्ययः शुक्लवान्मधुरवानित्यादि? तत्राह – मत्वर्थीयेति ॥ द्रव्यपर्यन्ताभिधानशक्तिमस्तु गुणवचनेषु मत्वर्थीयाभिधानं वैभवादेव; न पुनर्मत्वर्थीयप्रत्ययावश्यंभावात् । असौत्री – तथा सूत्रकारोपदेशाभावादित्यर्थः । यत्र शुक्लवान्मधुरवानिति मत्वर्थीयव्यवहारः, तत्रापि शब्दशक्तिर्धर्मिपर्यन्ता, जातिशब्दाविशेषात्; जातिशब्दवत् गुणवाचिनोऽपि तस्य धर्मिपर्यन्ताभिधानशक्तेरपि विद्यमानत्वात् । द्वयी हि प्रवृत्तिश्शुक्लादिशब्दानां लोकव्यवहारानुरोधेन कदाचित् गुणमात्रपरत्वं शुक्लो गुण इति; कदाचिद्गुणिपर्यन्ताभिधानं शुक्लः पट इति । एषां शुक्लादिशब्दानां निष्कृष्य प्रयोगे द्रव्यपर्यन्ताभिधानशक्तिर्निरुध्यते । तदा मत्वर्थीयप्रत्यययोगः स्यात् । विभक्तेस्साम्ये – समानाधिकरणप्रयोगे पटः शुक्ल इत्यादौ द्रव्यपर्यन्ताभिधानं शारीरकशास्त्रनिर्णीतारुणाधिकरणन्यायेन भाष्यकारैरेवाभाषीत्यर्थः । अत एव ‘गुणो शुक्लादयः पुंसि गुणिलिङ्गास्तु तद्वत्’ इति असौ त्रिलिङ्गनियमोऽप्युपपद्यते ॥ ८१ ॥ इति गुणवचनशब्दानां द्रव्यपर्यन्ताभिधायित्वम् ॥

4.307     जीवं देवादिशब्दो वदति तदपृथक्सिद्धभावाभिधाना-

न्निष्कर्षाभावयुक्ताद् बहुरिह च दृढो लोकवेदप्रयोगः ।

आत्मासंबन्धकाले स्थितिरनवगता देवमर्त्यादिमूर्ते-

र्जीवात्मानुप्रवेशाञ्जगति विभुरपि व्याकरोन्नामरूपे ॥ ८२ ॥

एवं जातिगुणवाचिनोर्द्रव्यपर्यन्तत्वमुक्तम् । इदानीं द्रव्यवाचिनां देवादिशब्दानामात्मपर्यन्तत्वमुच्यते – जीवमिति ॥ देवादिशब्दो जीवं वदति; जीवापृथक्सिद्धदेवादिशरीररूपभावाभिधानान्निष्कर्षकविवक्षाविधुरत्वात् । अत्र किं प्रमाणमित्यत्राह – बहुरिति । सर्वत्रापि शब्दार्थनिर्णये विशिष्टप्रयोग एव शरणम् । अस्ति च देवादिशब्दानामात्मपर्यन्ताभिधाने लोकप्रयोगः; देवो मनुष्यः पशुर्मृग इत्यादि । तथा वेदप्रयोगोऽपि – ‘चत्वारः पञ्चदशरात्रा देवत्वं गच्छन्ति’ इति; ‘वाचिकैः पक्षिमृगतामित्यादिः । अत्रापृथक्सिद्धविशेषणत्वमेव व्यवहारनियमे तन्त्रम् । अस्ति चापृथक् – सिद्धत्वं शरीरिणा शरीरस्य; तदिदमाह – आत्मासंबन्धकाले देवमनुष्यादिमूर्तेः स्थितिरनवगतेति । न हि मृतस्य शरीरं क्षणमपि तत्संस्थानसंस्थितमवतिष्ठते । न केवलं लोकप्रसिद्धिः, ‘जीवात्मानमनुप्रविश्य नामरूपे व्याकरोदीश्वर इति हि वेदप्रसिद्धिः । अतोऽचिच्छरीरको जीवः, अचिज्जीवशरीरक ईश्वर इति चेतनाचेतनशब्दानां भगवत्पर्यन्ताभिधानं युक्तमिति भावः ॥ ८२ ॥ इति देवादिशब्दानां शरीरिपर्यन्तत्वम् ॥

4.308     संस्थानैक्याद्यभावे बहुषु निरुपधिर्देहशब्दस्य रूढि-

लोकाम्नायप्रयोगानुगतमिह ततो लक्ष्म निष्कर्षणीयम् ।

अव्याप्तत्वादिदुःस्थं परमतपठितं लक्षणं तत्र तस्मा-

द्यद्धीतुल्याश्रयं यद्वपुरिदमपृथक्सिद्धिमद्द्रव्यमस्य ॥ ८३ ॥

अत्र देवादिशब्दानां सर्वशरीरित्वेनावस्थितपरमात्मपर्यन्तत्वमुक्त्वा भगवतस्सर्वशरीरित्वसिद्ध्यर्थं शरीरलक्षणं लक्षयति – संस्थानेति ॥ अयमत्र भावः -संस्थानैक्य जात्यैक्यं कारणैक्यं कार्यैक्यमित्यादिनियामकविशेषाभावेऽपि देवमनुष्यपशु[मृग]पक्षिसरीसृपवृक्षगुल्मलतादिषु शरीरशब्दस्य रूढिरुपलभ्यते । अत्र च लोकाम्नायप्रसिद्ध्यनुगुणं लक्षणमिह निष्कर्षणीयम् । इदं तु सर्वसाधारणन्यायप्रदर्शनम् । अत्र ‘चेष्टेन्द्रियार्थाश्रयश्शरीरमिति परमतपठितं लक्षणमव्याप्त्यादिदोषदुष्टम् । तथा हि -प्रयत्नवदात्मसंयोगासमवायिकारणिका क्रिया चेष्टा । यदाहुः – ‘चेष्टा हिताहितप्राप्तिपरिहारार्थः स्पन्द इति । इदं च लक्षणमीश्वरशरीरतया श्रुतिप्रमितेषु कालादिषु नास्तीत्वव्याप्तिः । तथा प्रतिक्षणपरिणामिषु निद्राणकुम्भकर्णादिशरीरेष्वव्याप्तिस्सुप्रसिद्धा । कुम्भकर्णशरीरे जागरावस्थायां चेष्टाऽस्ति चेत् किमनेन, शरीरान्तरमेव तत्; अन्यथाऽऽहारपरिपाकविशेषेण प्रतिक्षणपरिणामकथनस्य भावत्कस्योद्भ्रान्तजल्पितत्वप्रसङ्गात् । चेष्टाश्रयसजातीयत्वं शरीरत्वमिति चेत्, केयं जातिः? शरीरत्वमेवेति चेन्न; शरीरत्वजातेरभावात्; अन्यथा त्वदुक्तजातिसङ्करप्रसङ्गात् । न हि शरीरत्वस्य पृथिवीत्ववत् परापरभावो निरूपयितुं शक्यते । शरीरत्वव्यतिरिक्ता काऽपि जातिरिति चेत्; साऽपि सङ्करदोषेण परास्यते, तुल्यन्यायत्वात् । तर्हि जातिं मुक्त्वा चेष्टाश्रयसालक्षण्यं शरीरलक्षणमिति वदाम इति चेत्; किं तत्सालक्षण्यम्? शरीरलक्षणलक्षितत्वमिति चेन्न; शरीरलक्षणस्यैव निरूप्यमाणत्वात् । न ह्यद्यापि शरीरलक्षणं निरूपितं, येनैतत्परिग्रहान्निद्राणशरीरस्य शरीरत्वमुपपाद्येत । यदा कदाचिच्चेष्टाश्रयत्वं शरीरलक्षणमिति वचनमत्यन्तजघन्यमेव; निद्राणशरीरस्य कदाचिदपि चेष्टाश्रयत्वाभावात् । चेष्टाश्रयत्वार्हत्वमिति चेत्, तदपि न; नित्यानुपलब्धचेष्टस्य निद्राणशरीरस्य चेष्टाश्रयत्वार्हताया अभावात् । अथापि शरीरजातीयत्वादस्त्यर्हतेति चेन्न; जातेर्निरस्तत्वात्; अद्यापि शरीरशब्दार्थानिरूपणेन तज्जातीयत्वस्य वक्तुमेवाशक्यत्वात् । किंच शरीरावयवानां चेष्टाश्रयत्वेन शरीरत्वप्रसङ्गः । अत एवान्त्यावयवीति विशेषयाम इति चेन्न; शरीरोपष्टम्भकेषु भूतान्तरेष्वपि प्रसङ्गात् । तेषामन्त्यावयवित्वं नस्तीति चेन्न; तैरारभ्यस्यावयव्यन्तरस्यादर्शनात् । कालान्तरे भविष्यतीति चेत् तर्हि शरीरारभ्यमप्यवयव्यन्तरं कालान्तरे भविष्यतीति तत्राप्यन्त्यावयवित्वं न स्यात् । तर्ह्युपष्टम्भकानां चेष्टाश्रयत्वमेव नास्तीति चेत्, शरीरस्यापि तर्हि चेष्टाश्रयत्वं न स्यात् । न ह्युपष्टम्भकमन्तरेण शरीरमपि चेष्टते । किंच प्रयत्नवदीश्वरसंयोगासमवायिकारणेषु भूकम्पादिषु पृथिव्यादीनामीश्वरशरीरत्वं भवतैवाङ्गीकृतं स्यात् । तत्रादृष्टवदात्मसंयोगोऽसमवायिकारणम्, अदृष्टवांश्च जीवः । अतो नेश्वरसंयोगासमवायिकारणकत्वमिति चेत्; को ब्रवीति नियमम्? ईश्वरसंयोगस्यापि कारणत्वात्, असमवायिकारणलक्षणोपेतत्वात् । तल्लक्षणलक्षितत्वेऽपि तत्कारणत्वाभावे जीवसंयोगोऽप्यसमवायिकारणं न स्यात् । इत्थं भोगाश्रयत्वमपि दुष्टम्, पूर्वोक्तदूषणकलापदूषितत्वात् । इन्द्रियाश्रयत्वमपि शोधयामः । अत्राश्रयत्वं समवायिकारणत्वं चेदिन्द्रियावयवेषु व्यभिचारः । वस्त्वन्तरसमवायिकारणत्वेऽन्त्यावयवित्वमपि व्याहन्येत । संयोगित्वमात्रं चेत्, पूर्वोक्तदूषणकलापान्न मुच्यते । किंच इन्द्रियान्तरसंबन्धनियते त्वगिन्द्रिये व्यभिचारः; तथा त्वगिन्द्रियसंबन्धिनियतेष्विन्द्रियान्तरेष्वपि व्यभिचारः । उत्पाटितस्याक्ष्णस्त्वगिन्द्रियसंबन्धनियमो नास्तीति चेन्न; उत्पाटनावस्थायामेवाक्ष्णः स्वावयवसंक्षोभेण विनष्टत्वेनाक्ष्णस्सद्भावाभावात् केवलं गोलकमात्रमुपलभ्यते । एवं त्वगिन्द्रियोपष्टम्भकेष्वपि व्यभिचारो वाच्यः । शरीरमेव त्वगिन्द्रियोपष्टम्भकमिति चेत्; तर्हि शरीरोपष्टम्भकेषु व्यभिचारस्तदवस्थ एव । ईश्वरशरीरतया श्रुतिशतप्रसिद्धेषु पृथिव्यादिष्वेतल्लक्षणमस्ति चेत्, अविवाद एव; प्रपञ्चवाचिनां शब्दानां परब्रह्मपरत्वेऽपि विरोधाभावात् । नास्तीति चेत्, श्रुतिविरुद्धत्वादलक्षणमेव । श्रुतिरेव गौणीति चेत् किममूलमेव? अथवा केनचित्प्रमाणेन? अमूलं चेत् शब्दार्थसंबन्धनियमव्यवहारस्यासंबन्धत्वप्रसङ्गः । केनचित्प्रमाणेनेति चेत्, किं तत्प्रमाणम्? श्रुतिप्रयोग इति चेत्, स पुनरस्मदीय एव; विश्वशरीरत्वस्य श्रुतिशतसिद्धत्वात् । अस्मत्कल्पितव्यणविरोधात् श्रुतेर्गौणत्वं कल्पयाम इति चेन्न; परस्पराश्रयात् युष्मल्लक्षणस्य लक्षणत्वे श्रुतेर्गौणत्वम्; तद्गौणत्वे च भवदुक्तलक्षणस्य लक्षणत्वमिति । एवमनेकविधदोषदुष्टत्वात् परकल्पितव्यलक्षणप्रहाणेन सर्वप्रयोगानुगुणं शरीरलक्षणं वाच्यमित्याह – अव्याप्तेति । किं तल्लक्षणमित्यत्राह – तस्मादिति । तथा हि ‘यस्य चेतनस्य यद्द्रव्यं सर्वात्मना स्वार्थे नियन्तुं धारयितुं च शक्यमिति लक्षणद्वयमुक्त्वा, ‘तच्छेषतैकस्वरूपं चेति तृतीयमपि लक्षणमाहुर्भाष्यकाराः । अत्र यस्येति प्रतिसंबन्धिनियमनिर्देशादन्यशरीरस्यान्यं प्रति शरीरत्वं निरस्यते । चेतनस्येति चैतन्यविशिष्टतया प्रतिसंबन्धिनिर्देशात् धर्मभूतज्ञानस्य शरीरत्वं निरस्यते । नहि ज्ञानं ज्ञानविशिष्टस्याधेयविधेयशेषभूतम् । द्रव्यमिति गुणक्रिययोर्निरासः । सर्वात्मनेति दण्डकुण्डलादीनां गर्भदासादीनां च निरासः; तेषां कदाचिदेवाधेयत्वाद्विधेयत्वात् । शक्यमिति योग्यतामात्रकथनेन रुग्णशरीरेऽव्याप्तिपरिहारः । रुग्णस्यापि शरीरस्य धारणादियोग्यताऽस्ति रोगानुबन्धाद्धारणादिकं प्रतिबध्यते; रोगनिवृत्तौ तदेव योग्यत्वं निष्प्रतिद्वन्द्वमवतिष्ठत इति भावः । इत्येषा दिक् ॥ ८३ ॥ इति शरीरलक्षणम् ॥

4.309     शब्दैस्तन्वंशरूपप्रभृतिभिरखिलः स्थाप्यते विश्वमूर्ते-

रित्थंभावः प्रपञ्चस्तदनवगमतस्तत्पृथक्सिद्धमोहः ।

श्रोत्राद्यैराश्रयेभ्यः स्फुरति खलु पृथक्च्छब्दगन्धादिधर्मो

जीवात्मन्यप्यदृश्ये वपुरपि हि दृशा गृह्यतेऽनन्यनिष्ठम् ॥ ८४ ॥

इत्थं शरीरलक्षणमुक्त्वा विश्वस्येश्वरशरीरत्वेन तदपृथक्सिद्धस्य तच्छरीरत्वप्रतिष्ठापनार्थं तदपृथक्सिद्धिमाह – शब्दैरिति ॥ ‘तत्सर्वं वै हरेस्तनुः’, ‘ममैवांशो जीवलोके’, ‘रूपान्तरं तद्द्विज कालसंज्ञम्’, ‘विष्णुशक्तिः परा प्रोक्ता’, ‘यदम्बुवैष्णवः कायः’, ‘यस्यात्मा शरीरम्’ इत्यादिभिविश्वमूर्तेर्विष्णोरित्थंभावः – अपृथक्सिद्धविशेषणं प्रपञ्च’ इति स्मृतिश्रुत्योरभिधीयते; यद्येवमित्थंभावः प्रपञ्चः, कथं तर्हि पृथक्सिद्धिरिति? अत्रोत्तरम् – तदनवगमत इति । ईश्वरस्य विशेष्यभूतस्यावगमाभावाद्विशेषणभूतस्य प्रपञ्चस्य पृथक्सिद्धत्वव्यामोहमात्र पामराणाम्, विदुषां तु परमर्षीणामपृथक्सिद्धत्वेनैव सर्वदा प्रतीतिव्यवहारौ । अमुष्मिन्नर्थे लोकसिद्धं दृष्टान्तमाह – श्रोत्राद्यैरिति । आश्रयग्रहणानर्हैः श्रोत्राद्यैर्यथा शब्दादिकं पृथगेव गृह्यते, एवमीश्वरग्रहणानर्हैरल्पज्ञानां प्रमाणैरीश्वरात् प्रपञ्चस्य पृथक्त्वेन ग्रहणं युक्तमित्यर्थः । उक्तमर्थमुदाहरणान्तरेणापि द्रढयति – जीवात्मनीति । मनोग्राह्ये जीवात्मनि सति चक्षुषा गृह्यमाणं शरीरं न जीवविशेषणत्वेन गृह्यते; जीवस्य चक्षुर्ग्राह्यत्वाभावात् । एवं प्रपञ्चोऽपि पामरबुद्धिभिर्नेश्वरविशेषणत्वेन गृह्यते । नैतावता श्रुतिस्मृत्यादिप्रसिद्धमीश्वरापृथक्सिद्धत्वं न सिध्यतीति ॥ ८४ ॥ इति विश्वस्येश्वरापृथक्सिद्धत्वम् ॥

4.310     निष्कर्षाकूतहानौ विमतिपदपदान्यन्तरात्मानमेकं

तन्मूर्तेर्वाचकत्वादभिदधति यथा रामकृष्णादिशब्दाः ।

सर्वेषामाप्तमुख्यैरगणि च वचसां शाश्वतेऽस्मिन् प्रतिष्ठा

पाकैस्तस्याप्रतीतेर्जगति तदितरैः स्याच्च भङ्क्त्वा प्रयोगः ॥ ८५ ॥

जगतः परमात्मापृथक्सिद्धिमुक्त्वा तद्वाचिनां पदानां निष्कर्षाभिप्रायाभावे परमात्मपर्यन्तत्वमाह – निष्कर्षेति ॥ विप्रतिपन्नानि प्रपञ्चवाचकानि पदानि परमात्मवाचकानि; निष्कर्षकेतरत्वे सति तन्मूर्तिवाचकत्वात् । ये निष्कर्षकेतरत्वे सति भगवन्मूर्तिवाचकास्ते भगवद्वाचकाः यथा रामकृष्णादिशब्दा इति विशेषतो व्याप्तिः । सामान्यतोऽपि ये निष्कर्षकेतरत्वे सति यन्मूर्तिवाचकास्ते तद्वाचकाः यथा देवमनुष्यादिशब्दा इति । इत्थमनुमानम्; आगमोऽप्यस्तीत्याह – सर्वेषामिति । आप्तमुख्यैर्महर्षिभिः सर्वेषां वचसां शाश्वते – भगवति प्रतिष्ठा – पर्यवसानमगणि । ‘वचसां वाच्यमुत्तमम्’, ‘नताः स्म सर्ववचसां प्रतिष्ठा यत्र शाश्वती’ इत्यादीनि प्रमाणानि सहस्रशस्सन्ति; ‘वेदैश्च सर्वैरहमेव वेद्य’ इति स्ववचनमपि । किमनेन स्मृत्युपदेशेन; श्रुतिरेव तावच्छरणं, ‘सर्वे वेदा यत्रैकं भवन्ति’ इत्यादिका बहुशः प्रवर्तते? कथं तर्हि बालिशानां भगवत्पर्यन्तप्रतीतिः सर्वेष्वपि शब्देषु न जायते? अत्रोत्तरम् – पाकैरिति । तस्याप्रतीतेः – भगवत्पर्यन्तत्वाप्रतीतेः, विशेषणमात्रे प्रयोगः । तदितरैः – विद्वद्भिरपि विशेषणमात्रे क्वचित्क्वचिद्भङ्क्त्वा प्रयोगः । विशिष्टवाचिनश्शब्दस्य विशेषणमात्रे विभज्य प्रयोग इत्यर्थः ॥ ८५ ॥ इति जगद्वाचिनां शब्दानां परमात्मपर्यन्तत्वम् ॥

4.311     व्युत्पत्तिर्वाचकानां स्थिरचरविषये लोकतो नेश्वरादा-

वव्युत्पन्नार्थवृत्तिस्त्वधिपतिनयतः स्यादमुख्येति चेन्न ।

व्युत्पत्तेः पूरणं हि श्रुतिशिरसि कृतं नोपरोधः कथंचि-

द्देहित्वं चाधिपत्यात् समधिकमिह खल्वक्षपादप्रणीतात् ॥ ८६ ॥

यदि ब्रह्मणस्सर्वशब्दवाच्यत्वं, तर्हि लोकव्युत्पत्तिविरोधः स्यात्; घटपटादिशब्दानां घटापटादिष्वेव लोके व्युत्पत्तिर्न पुनरीश्वरे; मतः कथं व्युत्पत्तिविरोधस्सोढव्य इत्यक्षिपति – व्युत्पत्तिरिति ॥ कथं तर्हीश्वरे जगद्वाचिनां शब्दानां प्रयोग इत्यत्राह -अव्युत्पन्नेति । यथा राजा राष्ट्रमित्यत्राधिपत्यनिबन्धनं सामानाधिकरण्यम्, एवं जगद्वाचिनामीश्वरे प्रयोगोऽप्याधिपत्यनिबन्धन इत्यर्थः । अत्रोत्तरम् – नेति । अयमत्र भावः – प्रथमव्युत्पत्तेरपूर्णायाः पूरणमेव वेदान्ते क्रियते; न पुनः प्रथमव्युत्पत्तिबाधः । वेदान्तश्रवणेन हि व्युत्पत्तिः पूर्यते । कर्मकाण्डश्रवणेन देहमात्रपरतया पूर्वं व्युत्पन्नस्य देवादिशब्दस्य देहव्यतिरिक्तात्मपरतया व्युत्पत्तिः पूर्यते; एवमत्रापि । तदिदमाह -नोपरोध इति । नन्वीश्वरस्य जगत्कर्तृत्वमक्षपादेनाप्यभिधीयते किमधिकं देहित्वं भवताऽभिधीयते इत्याशङ्क्याह – देहित्वमिति । अयमत्र भावः -यद्यक्षपादोऽपीश्वरस्याधातृत्वविधातृत्वशेषित्वनियमेन शरीरित्वं शरीरवाचिशब्दानां शरीरिपर्यन्तत्वमाह, तमपि वयमनुमन्यामहे । यदि नाह, तमेवानेनोपपादनेन प्रतिक्षिपामः । स खलु केवलमाधिपत्यमक्षपादः प्राह; वयं तु विश्वदेहित्वमीश्वरस्य विश्ववाचिशब्दवाच्यत्वं चेति विभागः ॥ ८६ ॥ इति ब्रह्मणः सर्वशब्दवाच्यत्वे व्युत्पत्तिविरोधपरिहारः ॥

4.312     न ह्यक्षैः केऽपि वर्णाभ्यधिकमिह विदुर्वाचकं सावधानाः

शब्दादर्थं प्रतीमस्त्विति च जनवचो नैकमन्यद्व्यनक्ति ।

सामग्र्यैक्यादिनीत्या भवति मतिरियं तादृशे वर्णसंघे

संभेदे वा पदानामिति न तदधिकः कोऽपि शब्दोऽपरोक्षः ॥ ८७ ॥

एवं सर्वशब्दवाच्यत्वं ब्रह्मण उपपाद्य शब्दस्वरूपमेव शोधयति । तत्र स्फोटवादिन आहुः – ‘वर्णानां नानात्वात् ते न वाचकाः शब्दादर्थं प्रतीम’ इति ह्येकत्वेनैव शब्दप्रतीतिः । अतो वर्णातिरिक्तः पदस्फोटः पदार्थप्रत्यायकः । एवं पदातिरिक्तो वाक्यस्फोटो वाक्यार्थप्रत्यायकः । न च वर्णसमुदायविवक्षया पदसमुदायविवक्षया वा वर्णानां पदानां च एकत्वं संभवति; देशतः कालतो वा तेषामेकत्वासंभवात् । न तावत्ताल्वादिव्यापारोच्चारितानां देशत एकत्वं संभवति । एककर्णशष्कुलीदेशसंबन्धादेकत्वमिति चेत्, तर्हि सर्ववर्णानामेकादत्वप्रसङ्गः । न च शब्दानामैककाल्यम्, वाचः क्रमवर्तित्वेन क्रमेणैव तदभिधानात् । अतः पदस्फोटो वाक्यस्फोटश्चैकत्वेनोपलभ्यमानः पदार्थं वाक्यार्थं च बोधयतीति । अत्रोत्तरम् -एकार्थप्रतिपादकत्वेन व्याकरणादिव्युत्पन्ना एकबुद्ध्युपग्रहेण संघातभावमापन्ना वर्णा एव पदम् । एवमेकार्थप्रतिपादनरूपकार्यावच्छिन्नानि पदार्थप्रतिपादकानि पदान्येव वाक्यम् । अत्रैक्यमेकबुद्ध्यवस्थितानां संघातभावविषयम्; अतो न विरोधः; पदतत्संघातव्यतिरिक्तस्फोटयोरनुपलम्भात् ऐक्यप्रतीतेरन्यथासिद्धत्वात् । एवं बुद्धिसंगृहीतानां वर्णानां पदानामर्थप्रत्यायकत्वानङ्गीकारे स्फोटाभिव्यञ्जकत्वमपि न स्यात्; तत्रापि किमेकैकस्याभिव्यञ्जकत्वमुत समुदायस्येति वक्तुं शक्यत्वात् । अस्मदुक्तप्रक्रियया समाधाय स्फोटाभिव्यञ्जकत्वाङ्गीकारे किमनेन स्फोटेनादृष्टचरेण? अर्थस्यैव तथा प्रतिपत्तिरस्त्विति । तदेतत्सर्वमभिप्रेत्याह – न हीति ॥ किं प्रत्यक्षात् स्फोट उपलभ्यते? तत्तावन्नास्ति; प्रत्यक्षाभावात् । नाप्यनुपपत्त्येत्याह – शब्दादिति । एकत्वं संघातविषयमित्युक्तम् । तदेव दृष्टान्तेन विवृणोति – सामग्रीति । न हि सामग्रीव्यतिरेकेण कार्यकारणमिति किंचित्कल्प्यते; तद्वदत्र वर्णपदसंघातव्यतिरेकेण पदवाक्यस्फोटाभिधानविषयत्वेन किंचिन्न कल्पनीयमित्यर्थः । अतो वर्णपदातिरिक्तस्फोटो न प्रत्यक्षगम्य इत्याह – नेति ॥ ८७ ॥ इति स्फोटप्रत्यक्षत्वभङ्गः ॥

4.313     यदृग्भिः स्फोटधीस्ते भवति भवतु तैरर्थधीरेव वर्णैः

वर्णेषूक्तो विकल्पस्समगतिरुभयोर्यौगपद्यक्रमादिः ।

वाक्यस्फोटेऽपि तुल्यं तदिदमिह पदैरक्षरैर्वाऽवगम्ये

स्फोटे तद्बुद्धिबोध्ये सति च न घटते तत्तदध्यासकॢप्तिः ॥ ८८ ॥

स्फोटप्रत्यक्षत्वं निरस्य स्फोटकॢप्तिवादं प्रतिबन्द्या विशदं निरस्यति – यादृग्भिरिति ॥ यादृग्भिर्वर्णैस्ते स्फोटधीर्भवति तैरर्थधीरेव भवतु । वर्णेषूक्तो विकल्पः स्फोटाभिव्यक्तावपि समगतिः । उभयोः – वादिप्रतिवादिनोरित्यर्थः । यद्वा पक्षप्रतिपक्षयोः । पदस्फोटोक्तं दूषणं वाक्यस्फोटेऽपि तुल्यमित्याह – वाक्येति । किंच पदैरक्षरैर्वा वाक्यस्फोटः पदस्फोटश्चाभिव्यज्यत इति भवदीया प्रक्रिया । एवं च वर्णपदाभिव्यङ्ग्ये स्फोटे तस्मिंश्च स्फोटबुद्धिबोध्ये सति स्फोटे विश्वस्यापि शब्दविशेषस्याध्यास इति भवदीया कॢप्तिरसमञ्जसैव । तदिदमाह – घटते इति । स्फुटदृष्टे स्फोटे कथं वर्णाध्यासकॢप्तिरित्यर्थः । स्फोटोऽपि कॢप्तिमात्रमिति चेत्; कुत्र कॢप्तिः? शब्दब्रह्मणीति चेत् वर्णातिरेकेण किं तच्छब्दब्रह्म? वर्णानामेव श्रोत्रग्राह्यत्वेन शब्दत्वात् स्फोटस्य चानुपलम्भनिरस्तत्वादिति ॥ ८८ ॥ इति स्फोटकॢप्तिभङ्गः ॥

4.314     शब्दो ब्रह्मेति यत्तन्मुनिभिरभिदधे स ह्यचिद्भेद इष्टः

सूक्ष्माकारस्तु सोऽर्थं न गमयति यतस्सत्तया नैष हेतुः ।

स्फोटस्त्वं वर्णजुष्टस्त्विति यदभिहितं भारते साऽपि शक्तिः

वर्णानां स्यात्तयाऽर्थः स्फुट इति घटते स्फोटशब्दोऽपि तस्याम् ॥ ८९ ॥

आगमिकस्फोटादिशब्दनिर्वाहमाह – शब्द इति ॥ तर्हि शब्दब्रह्मेति तत्रतत्र मुनिभिरभिधीयते, तत्किमित्यत्राह – स हीति । अचिद्भेदः – ऋग्वेदादिरूपं शब्दमात्रम्, यदि वा शब्दस्य सूक्ष्माकारः, शब्दोत्पत्त्यवस्थाविशेषः; स चार्थावगमको न भवति; शब्दस्य सत्तयाऽर्थावबोधकत्वाभावात्, तादृशावस्थापन्नस्य शब्दस्यानुपलम्भविषयत्वात् । तदिदं सर्वमाह – सूक्ष्माकार इति । तर्हि ‘स्फोटस्त्वं वर्णजुष्ट इति भारतोक्तं कथमिति चेत्; इत्थम् – अर्थस्फोटकत्वात् प्रकाशकत्वाद्वर्णानां शक्तिरेव स्फोट इत्यभिधीयते । अतो वर्णानामुत्पत्त्यवस्थाग्रहविशिष्टाचिद्द्रव्यविशेषव्यतिरेकेण शब्दब्रह्मेति किंचिन्नास्ति । अर्थावबोधकशब्दशक्तिव्यतिरेकेण स्फोटशब्दवाच्योऽपि नास्तीत्यर्थः ॥ ८९ ॥ इति आगमिकस्फोटादिशब्दनिर्वाहः ॥

4.315     यत्प्रत्येकादिकल्पे गमकविषययोरप्रतीत्यादिदोषात्

बौद्धाश्शब्दाश्च बुद्धिं कतिचिदभिदधुर्वाक्यवाक्यार्थरूपाम् ।

नैतद्बाह्येन बाह्यो विदित इति मतेर्बाधकोक्तेश्च साम्या-

द्वाक्यादावैक्यबुद्धेस्त्वनुकथितनयादन्यथासिद्धितश्च ॥ ९० ॥

चिन्मात्रविवर्तवत् शब्दब्रह्मविवर्तत्वेन विश्वमपि वदन्तं शाब्दिकं प्रतिक्षिप्य प्रतिमैव वाक्यवाक्यार्थभावेन दृश्यते । न प्रतिभातिरिक्तं किंचिदिति वदन्तौ बौद्धशाब्दिकाभासौ प्रतिक्षिपति – यदिति ॥ तत्र पूर्वार्धेनानुवदति, उत्तरार्धेन परिहारं वदतीति विभागः । अयमत्र भावः – प्रत्येकं वा शब्दवाच्यमर्थः, सर्वो वा? यदि प्रत्येकमर्थः व्यभिचारः स्यात् । सर्वस्याप्यर्थत्वे पुनरानन्त्यम् । एवं प्रत्येकं वा वाचकत्वं शब्दस्य सामस्त्येन वेति विकल्प्य दूषणं वाच्यम् । तथा च गमकविषययोरप्रतीतिर्विरुद्धप्रतीतिर्वा भवेदिति दोषात् बौद्धाश्शाब्दाश्च केचिद् बुद्धिमेव वाक्यवाक्यार्थभावेनारोपितामाहुः । एतद्दूषयति -नैतदिति । कुत इत्यत आह – बाह्येनेति । बाह्येन शब्देन बाह्योऽर्थो विदित इति प्रतीतेः; प्रत्येकादिविकल्पेन दोषोक्तेश्च साम्यात् । वाक्यवाक्यार्थयोः प्रतिभारूपत्वेऽपि किं व्यवस्थितप्रतिभारूपत्वमुताव्यवस्थितप्रतिभारूपत्वम्? अव्यवस्थितरूपत्वे लोकव्यवहारविरोधः; व्यवस्थितरूपत्वे सैव व्यवस्था शब्दार्थयोरप्रतिभारूपत्वे स्यादिति भावः । कथं तर्हि वाक्यपदवाक्यार्थपदार्थादिष्वैक्यबुद्धिरिति चोद्यं पूर्वोक्तन्यायेन समुदायविषयत्वेन परिहतमित्याह – वाक्यादाविति ॥ ९० ॥ इति प्रतिभावाक्यवाक्यार्थत्वभङ्गः ॥

4.316     आचष्टे प्रत्ययश्च प्रकृतिरपि मिथः श्लिष्टमित्यभ्युपेतं

स्पष्टं दण्ड्यादिशब्देष्वपि तदितरथा धीविरोधप्रसङ्गात् ।

अन्योन्यस्मारितार्थान्वितमभिदधति स्वार्थमेवं पदानि

स्यान्नातश्चक्रकादिर्न च पुनरभिधा नापि वाक्यस्य भेदः ॥ ९१ ॥

वाक्यानामर्थवत्त्वे सिद्धे तेषामन्विताभिधायित्वं पदप्रतिबन्द्या समर्थयते – आचष्ट इति ॥ द्विविधं हि वाक्यार्थप्रक्रियाभेदमाहुः तत्तत्तन्त्रनिष्ठाः, अन्विताभिधानमभिहितान्वय इति । तत्र पदैरभिहिताः पदार्था वाक्यार्थं बोधयन्तीत्यभिहितानयः । ‘पदजातं श्रुतं सर्वं स्मारितानन्वितार्थकम् । न्यायसंपादितव्यक्ति पश्चाद्वाक्यार्थबोधकम् ॥ इत्यन्विताभिधानम् । अयमत्र श्लोकार्थः । पदानि तावच्छ्रूयन्ते । श्रुतानि च व्युत्पत्त्यनुसारेण पदार्थस्वरूपाणि परस्परानन्वितानि स्मारयन्ति । स्मृतेषु च पदार्थेष्वाकाङ्क्षादिपरामर्शः । तत्रैव न्यायप्रवृत्तिः, न्यायप्रवृत्त्या च वचनव्यक्तिविशेषाभिव्यक्तिस्संपाद्यते । ततस्सम्यङ्न्यायानुगृहीतानि पदानि नानापदार्थविशिष्टैकप्रधानपदार्थात्मकं वाक्यार्थमभिदधतीति । अभिहितान्वयवादिनस्त्वेवमभ्यदधुः – पदैः पदार्थाः पृथक्पृथगभिधीयन्ते । तच्चाभिधानं विशेषव्यक्त्यभावात् स्मारकान्न विशिष्यते; ‘पदमभ्यधिकाभावत् स्मारकान्न विशिष्यते इति वचनात् । ते चाभिहिताः पदार्था योग्यत्वेन परामृश्यमानाः स्वयमेव विशेषसंसर्गात्मकं वाक्यार्थमवबोधयन्ति । न तत्र पदव्यापारः; अर्थे रेवार्थविशेषसिद्धेः । यथा कविभिरालोच्यमानाः पदार्था एव वाक्यार्थरूपमर्थविशेषं संसर्गात्मकमवबोधयन्ति, पश्चादेव शब्दरचना प्रतिपन्नार्थानुरोधेन; एवमत्राप्यर्था एवार्थविशेषमवबोधयन्तीति । अत्रान्विताभिधानवाद्याह – यथा पदे प्रकृतिप्रत्ययौ सहैवार्थं विशिष्टरूपमभिधत्तः, तथैव वाक्येऽपि सर्वे शब्दाः सहैवार्थं विशिष्टमभिदधति । तदिदमाह – आचष्ट इति ॥ तदिदं मत्वर्थीयप्रत्ययसहितेषु दण्ड्यादि – शब्देष्वपि समानमिति दर्शयति – स्पष्टमिति । उक्तार्थेऽनुग्राहकं तर्कमाह – इतरथेति । उपलम्भविरोधप्रसङ्ग एव हि सर्वेष्वपि तर्केषु सारतमः; यथा पदानि प्रकृतिप्रत्ययविभागेन विभक्तान्यपि विशिष्टमेकं पदार्थं वदन्ति; एवं पदान्यपि परस्परस्मारितार्थविशिष्टमेकमर्थं वदन्ति । अयमर्थः – कार्यपरं चेद्वाक्यं संहतान्येतानि पदानि कारकविशिष्टक्रियामभिदधति । सिद्धपरत्वेऽपि समानाधिकरणवाक्यं नीलमुत्पलमितिवन्नानाविशेषणविशिष्टमेकं विशेष्यं सिद्धमेवाभिदधाति । वैयधिकरण्येऽपि व्यधिकरणविशेषणविशिष्टं सिद्धमसिद्धं वा विशेष्यमाचष्टे – काष्ठैः स्थाल्यामोदनं पचतीति; काष्ठैः स्थाल्यामोदनः पक्व इति वा । अत्रायं सारतमोऽर्थः – योग्येतरान्वितस्वार्थाभिधायीनि सर्वाण्यपि पदानि । तत्रतत्र कारकपदानि क्रियान्वितस्वार्थाभिधायीनि । क्रियापदं तु कारकान्वितस्वार्थाभिधायकम् । एवं सिद्धपरत्वेऽपि विशेष्यपदं विशेषणान्वितस्वार्थाभिधायकम्; विशेषणपदं च विशेष्यान्वितस्वार्थाभिधायकम् । सर्वमेतदन्विताभिधानान्न मुच्यते; गुणप्रधानभावेनैव पदार्थानां प्रतीतेरेकवाक्यत्वं न विरुध्यते इति । एवमभिधानाङ्गीकारे परवाद्युक्तास्सर्वे दोषा निरस्ता इत्याह – स्यादिति । पदैरर्थप्रतीतिः; अनन्तरमाकाङ्क्षादिपरामर्शः; पश्चात्पदैरर्थाभिधानम्; ततोऽर्थप्रतीतिरिति चक्रकम् । आकाङ्क्षादिपरामर्शादर्थाभिधानमर्थाभिधानानन्तरमाकाङ्क्षादिपरामर्श इत्यन्योन्याश्रयः । उभयमपि नास्ति; प्रथममर्थाभिधानाभावात् स्मरणमात्रत्वात्प्रथमं प्रत्येकमर्थानाम् । अत एव न द्विरभिधानप्रसङ्गः । विशेषणानां नानात्वेऽपि सर्वेषामपि पदानां विशिष्टार्थैक्यपरत्वेन वाक्यभेदप्रसङ्गोऽपि नास्ति ॥ ९१ ॥ इति अन्विताभिधानम् ॥

4.317     स्वार्थे शब्दस्स चासावपि मिलितमतौ व्यापृतावित्यनेकाः

कल्प्यास्ते शक्तयः स्यु कथमपि न भवेत्तादृशी शक्तिरेका ।

अर्थेषु स्मारितेषु प्रथममथ च तद्योग्यतादौ विमृष्टे

शब्दैरेवान्विते धीर्मम भवति तव स्वार्थबोधव्यपेतैः ॥ ९२ ॥

इत्थमन्विताभिधानं साधयित्वा स एवान्विताभिधानवादी परैरभिहितमभिहितान्वयवादं दूषयति – स्वार्थ इति ॥ पदानां स्वार्थबोधनशक्तिः, पदार्थानां संसर्गबोधनशक्तिः, पदानामेव पदार्थेषु संसर्गबोधनशक्त्याधानशक्तिरिति शक्तित्रयं कल्प्यमभिहितान्वयवादिनः । स चासाविति – शब्दश्चार्थश्चेत्यर्थः । मिलितमतौ शब्दा अपि व्याप्रियन्त इति वक्तव्यमभिहितान्वयवादिना; अर्थे संसर्गबोधनशक्त्याधानशक्तेश्शब्दनिष्ठत्वादिति भावः । नन्वेकैव शक्तिः अर्थप्रतिपादनं संसर्गप्रतिपादनं च तद्द्वारा करोति, तन्न; तत्तच्छक्तीनां नियतविषयत्वात् । तदिदमाह -कथमपीति । अस्माकं पुनरेकैव शक्तिर्योग्येतरान्वितं स्वार्थमभिदधातीति लाघवम् । प्रथमं स्मरणं, न तत्राभिधानव्यापारः; अथ च परामर्शः, तत्रापि न शब्दव्यापारः, केवलं विशिष्ट एवार्थे शब्दव्यापारः; अत एव शाब्दत्वं वाक्यार्थज्ञानस्यास्मत्पक्षे । युष्मत्पक्षे तु पदार्थप्रतिपादनद्वारेण कथंचिदेव शाब्दत्वम् । अतो जघन्यस्त्वत्पक्ष इत्याह – शब्दैरेवेति ॥ ९२ ॥ इति अभिहितान्वयवादभङ्गः ॥

4.318     संसर्गं वाक्यवेद्यं स्फुटमभिदधते कानिचिद्भाष्यवाक्या-

न्याद्यव्युत्पत्तिरुक्ता प्रतिपदमिह च क्कापि नान्यस्य हानिः ।

इत्थं मत्वा सयूथ्याः कतिचिदभिहितान्योन्यसंसर्गमीषु-

स्तत्तत्स्वारस्यलोकप्रतिपदनुगमात्तच्च नाधिक्षिपामः ॥ ९३ ॥

इत्थमन्विताभिधानमु[क्तम् ।] क्त्वा अभिहितान्वयपक्षेऽपि नास्माकं काचित्क्षतितिरित्याह – संसर्गमिति ॥ संसर्गमेव वाक्यवेद्यं कानिचिद्भाष्यवाक्यान्यभिदधति । तदनुकूलं चाम्बातातमातुलादिभिर्बालानां प्रतिपदव्युत्पत्त्यभिधानं भाष्यकारस्य । तदेतदाह -आद्येति । एतत्पक्षस्वीकारे नान्यस्य प्रधानार्थस्य हानिः । तदिदमाह – इह चेति । यत्तु शक्तित्रयकल्पनागौरवमभिहितं, तदपि नास्ति; पदानामेव पदार्थाभिधानशक्तेः स्वीकारात् । अर्थानां संसर्गबोधनसामर्थ्यं स्वाभाव्यमेव; शब्दाभिधानमन्तरेणापि प्रतीतानामर्थानां संसर्गबोधनसामर्थ्यस्य लोके दृष्टत्वात् । अन्यथा कथमिव कवयः परामृश्यमानैः पदार्थैर्वाक्यार्थं प्रतिपद्य स्वयमेव वाक्यं रचयेयुः? शाब्दत्वं च शब्दान्वयव्यतिरेकाभ्यामेव युज्यते; वाक्यार्थस्याव्यवधाने त्वनादरः; अतोऽभिहितान्वय एव स्यादिति केचिदाचार्याः । तदेतदाह – इत्थमिति । एतदङ्गीकरोति – तत्तदिति । तत्तद्भाष्यस्वारस्याल्लोके बालकानां व्युत्पत्तिसमये पदार्यप्रतिपत्तिपूर्वकं वाक्यार्थप्रतिपत्तिस्वारस्यानुगमादमुमपि पक्षं नाधिक्षिपाम इति । अयमत्र भावः – यद्यप्यन्विताभिधानं, तथाऽपि निर्विशेषब्रह्मवादिनो न वेदवेद्यत्वं निर्विशेषस्य सिध्येत् । यद्यभिहितान्वयस्तथाऽपि तथा; अन्वितस्यान्वयस्य वा मेदगर्भत्वम् । अतो गुरुकुमारिलपरिगृहीतं पक्षद्वयमप्याश्रित्य परपक्षवादिनं प्रतिक्षिपामः, नास्माकं क्वापि निर्बन्ध इति प्रधानार्थविरोधे हि प्रतिक्षेप्यत्वनिर्बन्धः ॥ ९३ ॥ इति अभिहितान्वयपक्षः ॥

4.319     द्वारे भिन्ने समानाधिकरणवचसामैक्यतात्पर्यसिद्धेः

भेदाभेदस्थितानामिदमनुगुणमित्यार्हतादेर्दुराशा ।

वस्तुस्थित्यैकरूप्ये वचनमितरथा बोधयत्स्यान्न मानं

तन्मानत्वाद्द्विधैकं स्थितमिति च न सद्भेद एवोपपत्तेः ॥ ९४ ॥

इत्थं वाक्यस्याभिधानप्रकारभेदमुक्त्वा समानाधिकरणवाक्यानां भेदाभेदपरत्वं प्रतिक्षिपति – द्वार इति ॥ इत्थं खल्वार्हतादीनामालापः – यत्र समवायमिच्छन्ति समवायवादिनः, तत्र भेदाभेदमेव वयमन्विच्छामः । स च भेदाभेदात्मा धर्मविशेषस्सामानाधिकरण्येनैव सिद्धः, भेदे सति मत्वर्थीयदर्शनात् सामानाधिकरण्यस्य; दण्डी कुण्डली गोमांनश्ववानिति । अतो मत्वर्थोयनिरपेक्षसामानाधिकरण्यं भेदाभेदमेवोपपादयति । अत्यन्तभेदे सामानाधिकरण्यानुपपत्तेः, घटः पट इतिवत्; अत्यन्ताभेदे च सामानाधिकरण्यं न संभवति, घटो धट इतिवत् । यत्र भेदाभेदौ तत्रैव सामानाधिकरण्यम्, नीलमुत्पलमिति । अतो नीलत्वोत्पलत्वादीनां द्रव्यात्मना भवत्यैक्यम्, पर्यायात्मना भेदः । पर्यायशब्देन धर्मा उच्यन्ते । अतस्सामानाधिकरण्यं भेदाभेदानुगुणमिति । तदेतदनुभाष्य दूषयति – आर्हतादेर्दुराशेति । भिन्नप्रवृत्तिनिमित्तानां शब्दानामेक[त्र]स्मिन्नर्थे वृत्तिस्सामानाधिकरण्यमिति प्रवृत्तिनिमित्तभेदेनैकार्थनिष्ठत्वलक्षणत्वात्सामानाधिकरण्यस्य, तेनैव सामानाधिकरण्येन भेदाभेदसिद्धिरिति वचनं विरुद्धभाषणत्वात् दुराशामूलमेव । यदि भेदाभेदं बोधयेत् सामानाधिकरण्यम्, प्रमाणविरुद्धार्थप्रतिपादकत्वात्प्रमाणमेव न स्यादित्याह – वस्त्विति । नह्यतीतमस्तीति बोधयितुमेव शक्रोति वचनम् । वचनबलाद्वस्तुस्थितिमप्यन्यथयाम इति चेत्, तन्नेत्याह – तन्मानत्वाद्द्विधैकं स्थितमिति च न सदिति । कुत इत्यत आह – भेद इति । भेदपक्ष एव सामानाधिकरण्यस्योपपत्तेर्भवत्पक्षविरुद्धं सामानाधिकरण्यमित्यर्थः । किंच सामानाधिकरण्यस्यानेकान्तपरत्वे भेदाभेदसिद्धिः, तत्सिद्धौ सामानाधिकरण्यस्यानेकान्तनिष्ठत्वमित्यन्योन्याश्रय इति भावः ॥ ९४ ॥ इति सामानाधिकरण्ये भेदाभेदप्रसङ्गपरिहारः ॥

4.320     ऐकाधार्याद्विगीतं तदिदमिति नयाल्लक्षयेन्निर्विशेषं

मैवं बाधातिचारस्ववचनहतिभिः स्वोक्तदृष्टान्तदौस्थ्यात् ।

तत्तेदन्ताविरोधो वचसि न हि भवेत्तादृशाध्यक्षनीत्या

नो चेत् स्याद्वस्समस्तं क्षणिकमिह पुनर्देशभेदः क्रमात् स्यात् ॥ ९५ ॥

मा भूद्भेदाभेदपरं सामानाधिकरण्यम्; अन्यथाऽप्यनुमानबलान्निर्विशेषोपलक्षकमस्त्वित्याह । तथा हि – तत्त्वमित्यादिसामानाधिकरण्यं निर्विशेषोपलक्षकम्, सामानाधिकरण्यात्मकत्वात्; सोऽयं देवदत्त इत्यादि सामानधिकरण्यवदिति । तदेतदनुभाषते – ऐकाधार्यादिति ॥ दूषयति – मैवमिति । कृत इत्यत आह – बाधेति । तत्त्वमिति विशेषणद्वयविशिष्टविषयतयोपलब्धस्य निर्विशेषपरत्वे स्फुट एव बाधः । अतिचारोऽपि नीलमुत्पलं दण्डी कुण्डलीत्यादौ सविशेषपरत्वात् । स्ववचनहतिः -तदिदमिति समानाधिकरण्यमिति च मेदव्यवहारं कुर्वाणस्य निर्विशेषपरत्वकथनं स्ववचनविरुद्धमेव । स्वोक्ते च सोऽयं देवदत्त इत्यत्र निर्विशेषपक्षत्वदृष्टान्तेऽपि दौःस्थ्यमेव; सोऽयमिति सामानाधिकरण्यस्य तत्तेदन्ताविशिष्टवस्तुपरत्वात् । ननु तत्तेदन्तावैशिष्ट्यमेकस्य, कथमुच्यते? तत्तेदन्तयोः परस्परविरुद्धत्वादिति; तन्न; विरोधाभावात् । यदि तत्तेदन्तयोरेकत्र विरोधः, तर्हि सोऽद्य देवदत्त इति प्रत्यक्षोपलम्भविरोधः स्यात् । तदिदमाह – तत्तेदन्तेति । तर्हि प्रत्यक्षेऽपि वचनवद्विरुद्धमेव स्यादित्याशङ्क्याह – नो चेदिति । एकस्य कालद्वयसंबन्धानङ्गीकारे क्षणभङ्गवाद एव प्रसज्येत । अतो न कालविरोधः । देशद्वयसंबन्धविरोधस्तु कालभेदेन परिहृत इत्याह – इहेति । प्रत्यभिज्ञायां देशमेदः कालभेदादेव परिहृत इत्यर्थः । अयमत्र निर्णयः – कालद्वयमेकस्याविरुद्धम्; अक्षणिकत्वाङ्गीकारात् । स्वप्रागभावस्वप्रध्वंसकालौ स्वस्य विरुद्धौ । स्वकालस्तु सर्वोऽपि स्वकालत्वादेव स्वस्याविरुद्धः । स्वकालांशौ च तदेतत्कालौ स्वस्याविरुद्धावेव । तत्कालस्तत्काले वस्तुनि संबध्यते; एतत्कालोऽप्येतत्काले । कालस्य स्वपरनिर्वाहकत्वेन कालान्तरानपेक्षणान्नानवस्थादोषः, नाप्यात्माश्रयदोषः । अन्यथा स्थिरवादानङ्गीकारेण क्षणभङ्गप्रसङ्गादिति ॥ ९५ ॥ इति निर्विशेषोपलक्षणसामानाधिकरण्यभङ्गः ॥

4.321     सत्याद्युक्तिः प्रकृष्टद्युतिरुदुपतिरित्यादिवद्वस्तुमात्रं

ब्रूते लक्ष्मोक्तिभावादिति यदि न तथा स्वोक्तिबाधादिदोषात् ।

रोधस्सद्वाक्यभावाद्भवति च कथितोदाहृतिस्साध्यहीना

प्रश्नोक्तेश्चाविशिष्टं न विषय इति नापृष्टजल्पोपहासः ॥ ९६ ॥

उक्तमर्थमसहमानो मृषावादी प्रत्यवतिष्ठते – सत्यादिवाक्यमखण्डपरम् लक्षणवाक्यत्वात् प्रकृष्टप्रकाशश्चन्द्र इति – वाक्यवत् । न चैतद्वाक्यं स्वरूपपरं न भवतीति वक्तुं शक्यते; स्वरूपस्यैव प्रकृष्टत्वात् । कश्चन्द्र इति यदेव पृष्टं तदेव प्रतिवक्तव्यम् । अन्यथा ‘आम्रान् पृष्टः कोविदारानाचष्ट इति न्यायस्स्यादिति । तदेतदनुवदति – सत्येत्यादिना यदीत्यन्तेन ॥ दूषयति – नेति । तत्र हेतुमाह – स्वोक्तीति । लक्ष्मोक्तिभावादिति वदसि, वस्तुमात्रं ब्रूत इति च; परस्परविरुद्धमेतत्; असाधारणधर्मो लक्षणम्, तद्वाचिनः कथं निर्विशेषवाचित्वमिति । एवं स्वाचार्यादिवचनबाधः श्रुतिबाध इत्यादिकमादिशब्दार्थः । सत्यादिवाक्यं सविशेषं वक्ति सद्वाक्यत्वादित्यादिभिः प्रतिरोधश्चानुमानस्य, बाधो वा; तेषामेवानुमानानां तर्कानुग्रहणेन प्राबल्यादिति भावः । तदिदमाह – रोध इति । दृष्टान्तोऽपि साध्यविकल इत्याह – भवति चेति । प्रकृष्टप्रकाशश्चन्द्र इति वाक्यस्य सविशेषपरत्वात्, अन्यथा लक्षणसंबन्धाभावेन चन्द्रप्रतीतिः सिध्येत् । अपृष्टोत्तरत्वचोद्यस्य किमुत्तरम्? अभाव एवोत्तरम्; न ह्यपृष्टस्यैवोत्तरं दीयते । प्रष्टा खलु सामान्यतश्चन्द्रशब्दार्थं प्रतिपद्य तद्विशेषप्रतिपत्त्यर्थं चन्द्रस्यासाधारणलक्षणमप्राक्षीत्; वक्ता च तदसाधारणलक्षणं प्राहेति न कश्चिद्विरोधः । अतः प्रश्नोऽपि सविशेषविषय एव, उत्तरमपि तथेति ॥ ९६ ॥

4.322     एकत्रार्थे समानाधिकरणवचसां वृत्तिरुक्ता ततोऽत्र

स्थाप्ये तत्तन्निमित्ते प्रसजति हि भिदा धर्मिणोऽपीति चेन्न ।

नेतव्यं लक्ष्मवाक्यं प्रतिपदनुगुणं साऽत्र सिद्धा विशिष्टे

व्युत्पत्तेस्तादृशत्वाद्भवति तु विहतेः क्वापि भिन्नं विशेष्यम् ॥ ९७ ॥

अत्र चोदयति – एकत्रेति । एकस्मिन्नर्थे समानाधिकरणपदानां प्रवृत्तिरुक्ता तर्हि विशेषणभेदाद् विशेष्यभेदोऽवर्जनीयः; तत्तन्निमित्ते तत्तद्विशेषणे खण्डत्वादिवदिति भावः । [एवं] विशेषणभेदाद्विशेष्यभेदमाशङ्क्य तदेव प्रतिक्षिपति – नेति । तदुपपादयति -नेतव्यमिति । प्रतीत्यनुगुणं हि सर्वं वाक्यं प्रतिपादयति । लक्षणवाक्येऽपि प्रतीतिर्विशिष्ट एव; अन्यथा लक्षणानुपपत्तेः । व्युत्पत्तिरपि तथैव, ‘भिन्नप्रवृत्ति’ इत्यादिना समानाधिकरणपदानां विशिष्ट[पर]वाचित्वस्यैव निर्णयात् । यथैव व्युत्पत्तिस्तथैवार्थं[व वाक्यं] प्रतिपादयति । तथैव श्रोतॄणां प्रतीत्युत्पत्तिः । व्युत्पत्तिश्च यथादर्शनम् । दर्शनं चानेकेषां विशेषणानामेकवस्तुनिष्ठत्वेन । अतो यत्र नीलमुत्पलमित्यादौ विशेषणमेकवस्तुनिष्ठत्वेन तत्र तथैवाङ्गी – कर्तव्यम् । यत्र पुनः खण्डो मुण्ड इत्यादौ विरुद्धानां विशेषणानां भिन्नवस्तुनिष्ठत्वेन तत्र तथैवाङ्गीकर्तव्यमिति विभागः । तदिदमाह – भवतीति । क्वापि – खण्डो मुण्ड इत्यादौ ॥ ९७ ॥

4.323     नानाधर्मप्रणाड्या बहुभिरपि पदैर्धर्मिणोऽत्रैक्यसिद्धौ

नान्योन्याधारतैक्ये प्रसजत उचितज्ञापनैकप्रवृत्तेः ।

बोध्ये सर्वैर्विशिष्टे न च वचनभिदा तच्च सूत्रादिसिद्धं

तात्पर्यं च स्वरूपे क्वचिदपि न भवेन्निर्निमित्तेऽनुपाख्ये ॥ ९८ ॥

नन्वनेकधर्मविशिष्टैकार्थाभिधाने किं क्रमेणाभिधानम्? युगपद्वा? क्रमेणाभिधाने पूर्वविशेषणविशिष्टे वस्तुनि उत्तरविशेषणाभावात् विशेषणानां च पाठे क्रमनियमाभावादन्योन्यसमवायप्रसङ्गः । युगपदभिधाने पुनरन्योन्यैक्यप्रसङ्गः, विशेषणानामपि विशिष्ट [प्रातिपदि] प्रतिपादकगतसमानविभक्तेर्विशेष्यवद्विशेषणेऽप्यैक्यप्रतिपादनावश्यंभावात् । न हि विशेषणं मुक्ता विशिष्टमिति किंचित् प्रतिपाद्यत इत्याशङ्क्य परिहरति – नानाधर्मेत्यादिना प्रसजत इत्यन्तेन ॥ अयमत्र भावः – अन्योन्यसमवायैक्ययोः प्रसञ्जनमव्युत्पन्नानां वादः । सामानाधिकरण्यलक्षणानवधारणेनैव ह्येवमुच्यते । भिन्नानामर्थानाम् एकत्र धर्मिणि वृत्तिरर्थसामानाधिकरण्यम् । भिन्नप्रवृत्तिनिमित्तानां शब्दानाम् एकस्मिन्नर्थे वृत्तिः -प्रवृत्तिः, पर्यवसानं शब्दसामानाधिकरण्यमित्युक्तम् । तथा च क्रमाभिधाने युगपदभिधाने च नान्योन्यसमवायप्रसङ्गः । नाप्यन्योन्यैक्यप्रसङ्गः । कुत इत्यत आह – उचितेति । आकाङ्क्षासन्निधियोग्यतापरामर्शपूर्वकमेव शब्दार्थं प्रतिपद्यन्ते श्रोतारः । तथा च योग्यमेव परामृश्यते नायोग्यं, न ह्यग्निना सिञ्चेदिति अग्निसेकयोः कार्यकारणभावं परामृशन्ति । यथैव परामृते तथैव प्रतिपादयन्ति पदानि । नहि विशेषणानामन्योन्यसमवायो योग्यकोटिभाटीकते । तथाऽन्योन्यैक्यभपि । तेनोचितज्ञापनैकप्रवृत्तं वाक्यमनेकविशेषणविशिष्टमेकमाश्रयं प्रतिपादयति । तत्र च परामर्शदशायामेव प्राप्ताप्राप्तविभागसिद्ध्यर्थं पौर्वापर्यपरिकल्पनं विभागः । वाक्यार्थप्रतिपादनावस्थायामेकबुद्धिसमावेशेन सहितानि पदानि विशेषणविशेष्यभावेन युगपदेव विशिष्टमर्थं प्रतिपादयन्ति; अन्यथा सामानाधिकरण्यलक्षणमेव संभज्येतेति भावः । तर्हि विशेषणभेदाङ्गीकारे कथमेकवचनप्रवृत्तिरिति मन्दस्य चोद्यमाशङ्क्य परिहरति – बोध्य इति । तदुपपादयति – तदिति । सामानाधिकरण्यप्रतिपादकसूत्रभाष्यवाक्यादिसिद्धत्वादनवद्येमास्माकी प्रक्रिया । शब्दादर्थप्रतिपत्तिर्माभूत्; तात्पर्यादेव निर्विशेषसिद्धिरित्याशङ्क्याह – तात्पर्यमिति । तात्पर्यमपि शब्दानां वृत्तिरेव । तच्च प्रतिपत्त्यर्हे वस्तुनि; न तु तदनर्हे । प्रतिपत्त्यर्हं च सविशेषमेव; अतो निर्विशेषे नाभिधा, नापि लक्षणा, नच गौणी वृत्तिः, नापि तात्पर्यमिति शब्दाविषयत्वमेव । निर्विशेषशब्दस्तु यदि प्रामाणिस्सदा केनचिद्विशेषणेन विशिष्टस्य विशेषणान्तरनिवारणार्थः; निर्विशेषं नगरमितिवत् । न हि नगरस्य यो गजरथतुरगादिसंबन्धः, सोऽपि निषिध्यते निर्विशेषशब्देन । अपि त्वतिपातग्रहदाहाद्युपघात एव । एवं ब्रह्मणि निर्विशेषशब्दः । यद्यप्रामाणिकप्रयुक्तोऽयं निर्विशेषशब्दः, किमस्यार्थवत्त्वगवेषणेन, नैरर्थक्यस्यैव तादृशवचनदूषणत्वात्? न ह्यप्रामाणिकवचनमनर्थकमित्यस्माकं काचिद्धानिरिति ॥ ९८ ॥

4.324     बोध्यं चेन्निर्विशेषं बहुभिरपि पदैरेकतोऽन्यद्वृथा स्या-

दन्यव्यावृत्तिमेदात् फल्मभिदधतः स्यादखण्डत्वहानिः ।

व्यावृत्तिश्चेत्स्वरूपं भ्रम इह न भवेद्भासमाने तु तस्मिं-

स्तस्मात् स्वार्थेषु मुक्तेष्वखिलपदगता लक्षणैवात्र लाभः ॥ ९९ ॥

इदानीं निर्विशेषबोध्यत्वं प्रकारान्तरेणापि [विकल्प्य] दूषयति – बोध्यमिति ॥ यदि बहुभिरपि सत्यज्ञानादिपदैरेकं निर्विशेषं बोध्यम्, एकमेव पदमर्थवत्; अन्यत् सर्वं वृथैव स्यात् । ननु विधिरूपार्थपराणि सत्यज्ञानादिपदानि मा भूवन्, किंतु निषेधपराणीति यदि वदसि, तदाऽप्यखण्डवाक्यार्थभङ्गः; व्यावृत्तिरूपैरेव विशेषणैर्ब्रह्मणस्सखण्डत्वात्; तर्हि व्यावृत्तिर्ब्रह्मस्वरूपमेव । तथा च व्यावृत्तिभेदेनार्थवत्त्वं व्यावृत्तीनां स्वरूपत्वादैक्यं चोपपन्नमिति चेत्, तच्च न; स्वरूपभूताया व्यावृत्तेर्नित्यस्वयंप्रकाशत्वेन प्रपञ्चभ्रमो न स्यात् । तदिदमाह – भ्रम इति । कथं तहिं शौक्ल्यादीनां स्वरूपमेव भेदः? इत्थम् -शौक्ल्यादीनां स्वरूपप्रतिभासे कार्ष्ण्याद्यध्यासाभावात् । शौक्ल्यादयो हि स्वपरनिर्वाहकधर्माः । तेषां प्रतिभासे च न कार्ष्ण्याद्यध्यासः । अतो युक्तं स्वस्यैव भेदत्वं शौक्ल्यादिषु । ब्रह्म तु न धर्मः; नापि च ब्रह्मप्रतिभासे प्रपञ्चाध्यासनिवृत्तिः । अतः कथं व्यावृत्तिरूपत्वं ब्रह्मणः? तदयमर्थः – ब्रह्मस्वरूपस्यैव व्यावृत्तिरूपत्वे प्राभाकरस्यैव शिष्योऽसि । तथा च स्वरूपभेदखण्डनबिभीषिकाभङ्गः; धर्मस्य कस्यचिद्व्यावृत्तिरूपत्वे कणभक्षाक्षपादादिमतमवलम्बसे; तथा च धर्मभेदवादखण्डनगर्वो निर्वापित इति दुर्वैतण्डिकतां मुञ्चसीति कथमखण्डवाक्यार्थ इति । यान्यत्र वक्तव्यान्यन्यानि दूषणानि भाष्य एव विस्तरेणानुसन्धेयानीत्यस्माभिरुपरम्यते ॥ ९९ ॥ इति अखण्डवाक्यार्थभङ्गः ॥

4.325     बाधार्थं यत्समानाधिकरणवचनं नाविशिष्टं वदेत्

त्तत्रैकोऽध्यासयोग्याकृति वदति परो भेदयुक्तं तु शब्दः ।

निर्दिष्टे वस्तुमात्रे भवतु कथमिहारोपितं बाधनीयं

भ्रान्तिर्भेदाप्रतीतौ विरमतु च कथं हेतुपौष्कल्ययुक्ता ॥ १०० ॥

नन्वस्मत्पक्षे बाधार्थसामानाधिकरण्याङ्गीकारान्न विशिष्टविषयत्वसिद्धिः । यथा चोरः स्थाणुरिति, तथैव ‘पुरुष एवेदं सर्वम्’, ‘तत्त्वमसि’ इत्यादिकमिति; तदेतदप्यसमञ्जसमित्याह – बाधार्थमिति ॥ यदिदं बाधार्थं सामानाधिकरण्यमित्युच्येत तद्विशिष्टमेव वदति । तत्कथमित्यत्राह – तत्रेति । बाधार्थे सामानाधिकरण्येऽप्येकश्शब्दोऽध्यासयोग्याकृति वस्तु वदति, यश्चोरत्वेन प्रतिपन्न इति । परस्तु शब्दो भेदयुक्तं वस्तु वदति स्थाणुरिति । तथा च य एतावन्तं कालं चोरत्वेन प्रतिपन्नः स स्थाणुरिति चोरप्रतीतिविषयत्वं स्थाणुत्वं चैकवस्तुनिष्ठमेव प्रतीयते; तथा च सविशेषविषयत्वमेव । चोरत्वस्थाणुत्वयोः परस्परविरुद्धत्वात्, चोरत्वबाधेन बाधार्थमित्युच्यते; यदि स्थाणुत्वमपि मिथ्या कथं चोरत्वं बाध्येत? अतो विरुद्धघर्मसद्भावस्तद्विरोधिघर्मबाधाङ्गम् । न हि शुक्तित्वसद्भावमन्तरेण रजतत्वं बाध्यते । तदिदमाह – पर इति । ननु वस्तुमात्रप्रतीतिरेव बाधकमस्तु, किमनेन तदतिरिक्तेन धर्मेणेति मा वोचः; वस्तुप्रतीतेरध्यासावस्थायामपि सद्भावादित्याह – निर्दिष्ट इति । बाधाभावे भ्रान्तिर्नित्यमेवानुवर्तेत; बाधश्च भेदग्रहणमन्तरेण नोपपद्यत इत्याह – भ्रान्तिरिति । हेतुपौष्कल्ययुक्ता – भेदाप्रतीतिरेव भ्रान्तेर्हेतुपौष्कल्यम्; तथा च कथं भ्रान्तिर्विरमेत्? अयमर्थः – यथा चोरत्वस्य स्थाणुत्वं बाधकम्, एवं तत्तत्पदार्थगतासाधारणधर्मदर्शनमेव प्रपञ्चबाधहेतुः । अन्यथा बाध्यबाधकभाव एव न स्यादिति ॥ १०० ॥ इति बाधार्थसामानाधिकरण्यस्यापि विशिष्टार्थत्वम् ॥

4.326     मानं बाधाद्यभावान्निगम इतरवद्वक्तृदोषस्तु नास्मिन्

बाधोऽप्यस्यानुमाद्यैरपि न हि सुवचस्तद्बलेनैव बाध्यैः ।

संदिग्धा नात्र बुद्धिर्न च न समुदिता तेन विज्ञानसिद्धा-

वुत्सर्गाम्नानमेतन्मतिकलुषजयः स्याच्च मीमांसयैव ॥ १०१ ॥

अत्र कश्चिदाह – मा भून्निर्विशेषपरत्वं वाक्यस्य; अथापि वेदप्रामाण्यमेव नास्तीति । तं प्रतिब्रूते – मानमिति ॥ वेदः प्रमाणं कारणदोषबाधकप्रत्ययविधुरत्वे सति वाक्यत्वात्संप्रतिपन्नवाक्यवत् । न चायं विशेषणासिद्धो हेतुरित्याह – वक्तृदोष इति । वक्त्रभावादेव वक्तृदोषो नास्ति; बाधकप्रत्ययोऽपि न तावदनुमानेन, अनुमानस्यैवागमबाधितत्वेनाप्रमाणत्वादित्याह – बाधोऽपीति । आगमेन चेद्बाधः, स चागमो वेदश्चेद्वेदप्रामाण्याङ्गीकारः । स्मृत्यादिकं चेद्वेदमूलत्वान्न वेदबाधकम् । वेदविरुद्धस्मृतिः पुनर्वेदानुकूलस्मृतिविरोधादप्रमाणमिति शारीरकस्मृत्यधिकरणे स्थापितम् । लौकिकं चेद्वाक्यं बाधकं तस्यालौकिकविषये प्रवृत्त्यभावादबाधकत्वमेवेति भावः । तर्हि वेदवाक्यजनितस्य ज्ञानस्य बाधितत्वाभावेऽपि संदिग्धत्वादप्रमाणत्वमुपवर्णयाम इति चेत्, तन्न; असंदेहरूपत्वात् ज्ञानस्येत्याह -संदिग्धेति । [नच] ज्ञानमेव वेदवाक्यान्न जायत इत्यनुत्पत्तिलक्षणाप्रामाण्यमपि नेत्याह – न चेति । अतो विज्ञानस्य सद्भावे सति प्रामाण्यस्य स्वतस्त्वाद्वेदवाक्यमुत्सर्गात्सामान्यात् प्रमाणमेव । अप्रामाण्यशङ्कानिराकरणं मीमांसया सिध्यतीत्याह – मतिकलुषेति ॥ १०१ ॥ इति वेदप्रामाण्यम् ॥

4.327     मानं वेदोऽपि वक्तुर्गुणत इति परं न्यायवित्साधयिष्यन्

सामान्याद् बुद्धिहेतोः प्रमितिमधिकतस्साधयत्यन्यनीत्या ।

कार्यत्वं भेदकं स त्विह वदतु कथं धीविशेषत्वहेतौ

सिद्धेऽसिद्धेऽपि नित्यप्रमितिमति विभौ निष्फलत्वादमुष्य ॥ १०२ ॥

इत्थं किल परतःप्रामाण्यवादिनो वदन्ति – वक्तृर्गुणत एव मानं वेद इति । तस्यायमनुमानाभिप्रायः – प्रमा ज्ञानहेत्वतिरिक्तहेत्वधीना कार्यत्वे सति तद्विशेषत्वादप्रमावदिति सामान्याद्बुद्धिहेतोः । अधिकतः – अधिकेनाप्तोक्तत्वेन हेतुना । अन्यनीत्या – अप्रमादृष्टान्तेन; यथा अप्रामाण्यमनाप्तोक्तत्वेनाधिकेन हेतुना जायते, एवं प्रामाण्यमप्याप्तोक्तत्वेनाधिकेन हेतुना भवतीत्यर्थः । अत्रोत्तरम् – कार्यत्वमिति । धीविशेषत्वहेतौ – तद्विशेषत्वादित्यस्मिन् हेतौ । कार्यत्वम् – भेदकं विशेषणम् । स तु – स वादी; कथं वदतु – वक्तुमशक्यमित्यर्थः । तदेवोपपादयति – सिद्धेऽसिद्धेऽपीति । यदि नित्यप्रमितिमानीश्वरस्सिद्धः, तदा स्वतःप्रामाण्यमेव सिद्धं भवति; ईश्वरप्रमितेर्नित्यत्वेन प्रामाण्यकारणाभावात् । तथा चेश्वरप्रमीतेः पक्षकोटनिवेशे कार्यत्वे सतीति विशेषणमसिद्धम् । पक्षकोटिनिवेशाभावे क्वचित् स्वतःप्रामाण्यमेव सिध्यति । नित्यप्रमितिमत ईश्वरस्यासिद्धावपि कार्यत्वे सतीति विशेषणं व्यर्थं व्यवच्छेद्याभावादित्यर्थः ॥ १०२ ॥ इति परतः – प्रामाण्योत्पत्त्यनुमानभङ्गः ॥

4.328     संवित्तीनां यथावस्थितनिजविषयोल्लेख औत्सर्गिकः स्या-

द्वह्न्यादेर्दाहकत्वप्रभृतिवदुपधेरन्यथात्वं भ्रमांशे ।

नित्यज्ञानप्रमात्वं वदसि च निरुपाध्येव निर्हेतुकत्वा-

द्दोषाभावात् प्रमा चेच्छ्रुतिरपि जयिनी दोषदूरोज्झिता नः ॥ १०३ ॥

इत्थं वेदप्रामाण्यमुपपाद्य तत्प्रसङ्गागतं बुद्धीनां स्वतःप्रामाण्यमाह – संवित्तीनामिति ॥ अयमर्थः – ज्ञानानां यथावस्थितार्थप्रकाशकत्वं सामान्यमेव; भ्रान्तस्यापि ज्ञानस्य धर्मिण्यभ्रान्तत्वत् । अतो वह्नयादेर्दाहकत्ववत् ज्ञानानां प्रामाण्यं स्वाभाविकमेव । उपधेः – मणिमन्त्रवद्दोषोपाधिवशादप्रमाणत्वं भ्रमांशे । किंच भवानपि नित्यस्येश्वरज्ञानस्य कारणाभावेन निरुपाधिकमेव प्रमात्वमाचष्ट इत्याह – नित्येति । ईश्वरज्ञाने दोषाभाव एव प्रमात्वनियामक इति चेत्; तच्छ्रुतावपि तुल्यमित्याह – श्रुतिरपीति । यथा नित्यमीश्वरज्ञानं कारणदोषाभावात् प्रमणम्; एवं वेदवाक्यमपि कारणदोषाभावात् प्रमाणम्; तद्वाक्यजनितं ज्ञानमपि निर्दोषवाक्यजनितत्वात् प्रमैवेति । इत्थं च स्वतःप्रामाण्यं निर्वहति । घटोऽस्तीति ज्ञानमुत्पद्यते । तत्र विषयास्तित्वमेव प्रामाण्यम् । तत्तु तेनैव ज्ञानेन प्रतीयते । अतः स्वतःप्रामाण्यं प्रतीयते । यत्र पुनः शुक्तौ रजतज्ञानमुत्पद्यते तत्रापि रजतमस्तीति रजतास्तित्वमेव प्रतीयते; न पुनर्नास्तित्वं तेनैव ज्ञानेन प्रतीयते । अतो विषयास्तित्वं स्वेन, नास्तित्वं बाधकेन प्रतीयत इति स्वतः प्रामाण्यप्रतीतिः, अप्रामाण्यप्रतीतिः परत इति विभागः । शेष विस्तरभयान्न लिख्यते ॥ १०३ ॥

4.329     सर्वं साक्षात्करोति स्वत उपधिगणैरुज्झितस्संप्रसादः

प्रामाण्यं तत्र नोपाध्युपनतमिति तत्तुल्यताऽन्यत्र युक्ता ।

आत्मस्वात्मांशयोश्च क्वचिदपि न भवेद् भ्रान्तिरंशान्तरेऽपि

स्यादेषा न स्वरूपे क्वचन परमसौ द्विप्रकारे प्रकारे ॥ १०४ ॥

किंच स्वतःप्रामाण्यं श्रुत्यर्थानुधाविना दुस्त्यजमिति दर्शयति – सर्वमिति ॥ ‘सर्वं ह पश्यः पश्यति’ इत्यादिश्रुतिः उपधिगणैरुज्झितः – मुक्तः संप्रसादः – जीवः सर्वं साक्षात्करोतीति वदति । तत्र प्रामाण्यमुपाधिस्तं परप्रयुक्तमिति वक्तुं न शक्यते; स्वाभाविकत्वात्तज्ज्ञानस्य । अतोऽन्यत्रापि तत्तुल्यता युक्ता – स्वाभाविकत्वमेव युक्तमिति भावः । किंच भ्रान्त्यभ्रान्तिविभागाभावेन सर्वेष्वपि ज्ञानेषु आत्मस्वात्मांशयोः क्वचिदपि भ्रान्तिर्न भवति; अतः स्वाभाव्यमेव प्रामाण्यस्य समुचितम् । अंशान्तरेऽपि – विषयांशेऽपि । एषा – भ्रान्तिः स्वरूपे क्वचन न स्यात्, सर्वं ज्ञानं धर्मिण्यभ्रान्तमिति वचनात्; तथा च विषयेऽपि स्वरूपांशे सर्वज्ञानसाधारण्यात् प्रामाण्यस्य स्वाभाविकत्वमेव युक्तमित्यर्थः । तर्हि कुत्र भ्रान्तिरित्यत आह – परमिति । असौ – भ्रान्तिः । द्विप्रकारे प्रकारे – द्विप्रकारे स्वरूपनिरूपकधर्मे निरूपितस्वरूपविशेषकधर्मे चेत्यर्थः । इदं रजतमित्यत्र स्वरूपनिरूपकधर्मवैपरीत्यम् । पतिश्शङ्ख इत्यत्र निरूपितस्वरूपविशेषकधर्मकैरीत्यमिति विभागः ॥ १०४ ॥ इति बुद्धीनां स्वतःप्रामाण्यम् ॥

4.330     भ्रान्तिज्ञानेऽपि सत्यं किमपि तव मतेऽप्यस्त्यधिष्ठानपूर्वं

सत्यैकालम्बि चैकं समयिभिरखिलैर्दुस्त्यजं स्वार्थसिद्ध्यै ।

बुद्धेस्तत्पक्षपातः स्वयमपि कथितस्सौगतैरेव कैश्चित्

स्वात्मांशे सत्यता च स्वत इति तदसौ वैदिकोक्ते वृथेर्ष्या ॥ १०५ ॥

अत्र सौगतः पुनरप्रामाण्यमेव स्वाभाविकमित्याह; तन्न युज्यत इति वदति -भ्रान्तिज्ञानेऽपीति ॥ अप्रामाण्यस्वाभाविकत्ववादिनोऽपि तव मते भ्रान्तिज्ञानेऽप्यधिष्ठानांशे प्रामाण्यस्य स्वाभाविकत्वं वाच्यम्; अन्यथा निरधिष्ठानभमप्रसङ्गात् । किंच ‘प्रमाणात्प्रमेयसिद्धिः’, ‘युक्तियुक्तं वचो ग्राह्यमित्यादिकं वचनं सर्वैरपि वादिभिः स्वसिद्धान्तसिद्ध्यै सत्यैकालम्बि भवति’ इति दुस्त्यजम्; सत्यैकालम्बि – सत्यमात्रावलम्बि । अन्यथा व्याघातात् । अतः स्वतःप्रामाण्यं सिद्धमिति भावः । किंच कैश्चित् सौगतैरेव बुद्धेः प्रामाण्यपक्षपातः स्वयमेवोक्तः; निर्विकल्पकस्य वासनोपप्लवाभावेन स्वभावत एव प्रामाण्यात्सविकल्पकस्यापि स्वयंप्रकाशस्य स्वात्मांशे प्रामाण्यस्यावर्जनीयत्वात् । विषयांश एव हि विकल्पस्यावस्तुनिर्भासत्वम्, असंवादः, वासनोपप्लवदूषितत्वं चेति भावः । तदिदमाह – स्वात्मांशे सत्यता चेति । एवं प्रामाण्यस्वाभाविकत्वे स्वस्याप्यवर्जनीये सति वैदिकोक्ते स्वतःप्रामाण्ये वृथैवेर्ष्या अवैदिकस्येति ॥ १०५ ॥

4.331     अप्रामाण्यं स्वभावो गुणत इतरदित्यत्र न ह्यस्ति हेतु-

र्नाभावो हेत्वपेक्षस्त्विति च न नियमादन्यथाऽतिप्रसङ्गात् ।

किंचाभावोऽपि भावान्तरमिति मथने स्वेष्टभङ्गश्च भावी

मुक्तौ शुद्धां हि बुद्धिं वदसि न यदि सा विभ्रमः स्यान्न वा स्यात् ॥ १०६ ॥

यदि प्रामाण्यं स्वभावः अप्रामाण्यमपि स्वभाव एव किंन स्यात्? अथवा स्यादप्रामाण्यमेव स्वभावः; प्रामाण्यं तु गुणतः, अतः प्रामाण्यमेवौपाधिकमिति । एतदनूद्य परिहरति – अप्रामाण्यमिति ॥ न ह्यस्ति हेतुः – प्रामाण्यस्वभावत्वे सार्वत्रिकत्वं हेतुः, अप्रामाण्यस्य पुनरसार्वत्रिकत्वात् किंशुकाद्युपाधिकारुण्यन्यायेनौपाधिकतामेवाश्रयते; अतोऽप्रामाण्यस्य स्वाभाविकत्वे हेतुर्नास्तीत्यर्थः । नन्वभावः शून्यात्मकत्वाद्धेतुनिरपेक्षः; अप्रामाण्यं चाभावत्वाद्धेतुं नापेक्षते । तदेतदनुभाष्य परिहरति – नाभाव इति । कुत इत्यत्राह – नियमादिति । मुद्गरादिप्रहारघटादिध्वंसयोः पौर्वापर्यनियमेनाभावस्य हेतुनैरपेक्ष्यं न घटत इत्यर्थः । विपर्यये बाधमाह – अन्यथेति । अन्वयव्यतिरेके सत्यप्यभावस्य कारणानपेक्षत्वे भावस्यापि कारणानपेक्षत्वं स्यादित्यर्थः । इत्थमभावस्य भावादतिरिक्तत्वपक्षाङ्गीकारेण दूषणमभिधाय भावान्तराभाववादेनापि दूषणमाह – किंचेति । गोत्वाभावोऽश्वत्वादिः, शौक्ल्याभावो नैल्यादिरिति हि भावान्तराभावः; तथा चाभावस्य भावान्तररूपत्वे तस्याभावत्वाभावात्, अप्रामाण्यमभावत्वात् स्वाभाविकमित्यसिद्धो हेतुः । तदयमर्थः -यदभावो भावो वा यस्य स्वरूपानुबन्धि तत्स्वाभाविकम्; यदुपाध्यन्तरसापेक्षं तदौपाधिकम्; प्रामाण्यं च ज्ञानस्य स्वभावानुबन्धि; धर्मिस्वरूपे संशयविपर्ययोरप्यभ्रान्तत्वात् । तथाऽस्तित्वभास्वरोर्ध्वत्वादिसाधर्म्येऽपि प्रामाण्यं दुरपह्नवम् । केवलं धर्ममात्रे वैपरीत्यं सन्देहो वा; अतः प्रमाण्यं स्वतः, अप्रामाण्यं परत इति सिद्धम् ॥ १०६ ॥ इति अप्रामाण्यस्वाभाविकत्वभङ्गः ॥

4.332     मानत्वामानते द्वे स्वत इति वदतस्सांख्यसिद्धान्तिनस्ते

व्यक्तिद्वैतं तयोश्चेत् प्रतिनियततयोपाधिभेदोऽभ्युपेल्वः ।

व्यक्त्यैक्ये व्याहतिः स्यादथ निजविषयेष्वंशतस्ते तथाऽपि

स्याद्धीस्सर्वा तथेति स्वपरसमययोर्द्वेषरागौ जुषस्व ॥ १०७ ॥

प्रामाण्यमप्रामाण्यंच स्वत इति सांख्याः । तन्मतमनूद्य दूष्यति – मानत्वामानते इति ॥ मानत्वामानत्वे द्वे अपि स्वत एव भवत इति वदतस्ते सांख्यस्य तयोर्मानत्वामानत्वयोर्व्यक्तिद्वैविध्यं चेत् – भिन्नाधिकरणवृत्तित्वं चेत् । उपाधिभेदोऽङ्गीकार्यः । कारणदोषात् क्वचिदप्रामाण्यम्, कारणगुणात् क्वचित्प्रामाण्यमिति । तथा च नैयायिकानामयं सिद्धान्तः – एकस्यामेव व्यक्तौ प्रामाण्यमप्रामाण्यं चेत् स्वाभाविकमभ्युपैषि; तदा व्याघातः । न ह्येकमेव विज्ञानमेकविषये स्वत एव प्रमाणमप्रमाणं चेत्यनुन्मत्तो ब्रवीति । तर्हि स्वविषयेष्वंशभेदन प्रामाण्यमप्रामाण्यं चेत्; ते प्रामाण्याप्रामाण्ये । ते इति द्विवचनम् । एवं तर्हि स्वसिद्धान्तजन्यज्ञानमपि प्रमाणाप्रमाणात्मकम्, परसिद्धान्तजन्यज्ञानमपि प्रमाणाप्रमाणात्मकं कृत्वा स्वसिद्धान्तेऽपि द्वेषम्, परसिद्धान्तेऽपि रागं भजस्वेति परिहासेनोत्तरम् ॥ १०७ ॥ इति सांख्यपक्षनिरासः ॥

4.333     ज्ञानं मानं स्वतश्चेत्कथमिव विशयः कस्यचित्क्वापि भावी

मीमांसा चानपेक्ष्येत्यसदुपधिकृताकारशङ्कोपपत्तेः ।

नेत्रालोकादिनीतेर्भवति च निगमोऽप्यत्र मीसांसयाऽर्थी

हेतूनां साध्यसिद्धौ सहकृदनुविधिर्हेतुभावं न हन्ति ॥ १०८ ॥

अत्र चोदयति – ज्ञानमिति ॥ ज्ञानं स्वत एव प्रमाणं चेत्तर्हि कस्यचित्कुत्रचित् प्रमाणमप्रमाणं वेति संशयो न स्यात्, तथा च मीमांसाऽनपेक्ष्या स्यात्; इतीमा शङ्कां निराकरोति – असदिति । अत्र हेतुमाह – उपधीति । प्रामाण्यस्य स्वाभाविकत्वेऽप्युपाधिकृताप्रामाण्यशङ्कायास्सद्भावात्तन्निराकरणार्थं मीमांसाऽपेक्षणीया स्यादिति भावः । दृष्टं चैतत्स्वत एव रूपादिविषये प्रमाणभूतस्यापि नेत्रस्यालोकादिसहकारिसाहित्यापेक्षणम् । तदिदमाह – नेत्रेति । यथा नेत्रमालोकमपेक्षते, एवं निगमोऽप्यर्थतत्त्वावधारणे मीमांसयाऽर्थी – मीमांसासापेक्ष इत्यर्थः । न केवलं प्रमाणानामेव सहकारिसापेक्षत्वम्, अपि तु सर्वेषामपि कारणानाम् । इदं च सापेक्षत्वं कारणानां कारणत्वं न व्याहन्तीत्याह – हेतूनामिति ॥ १०८ ॥ इति स्वतःप्रामाण्यधिरोधितर्कनिरासः ॥

4.334     सर्वज्ञस्य प्रमाया न खलु न विषयः स्यात्स्वकीयं प्रमात्वं

निर्बाधा धीः प्रमेति प्रमितिरपि निजं गाहते मानभावम् ।

मानेऽर्थः स्वात्मनैव स्फुरति न च परं भाति शङ्कानिरासे

भ्रान्त्या स्वार्थान्यथात्वं स्वयमनवगतं बाधकैर्वेद्यतेऽतः ॥ १०९ ॥

उभयवादिसंप्रतिपन्नदृष्टान्तोपादानेन स्वतःप्रामाण्यज्ञप्तिमुपपादयति – सर्वज्ञस्येति ॥ पूर्वं प्रामाण्यस्वरूपस्य ज्ञानेषु स्वतस्त्वमुक्तम् । इदानीं प्रमाज्ञप्तेरपि स्वतस्त्वमुच्यत इति विभागः । ज्ञानस्य स्वप्रामाण्यं स्वत एव गृह्यत इति दृष्टमित्याह – सर्वज्ञस्येति । ईश्वरज्ञानं सर्वविषयत्वात् स्वगतमपि प्रमाण्यं गृह्णाति; अन्यथा सर्वविषयत्वमेव न स्यात् । न केवल्मीश्वरज्ञानमीदृशम्, अस्मदीयमपि ज्ञानं तथेत्याह – निर्बाधेति । प्रमितिः – लक्षणप्रमितिः स्वकीयमपि प्रमितित्वं गृह्णाति । अन्यथा सर्वानुवृत्तलक्षणग्रहणमेव न स्यादिति भावः । अस्त्वेवम्; तथाऽपि कथं प्रामाण्यं स्वतो गृह्यते? कथं वा अप्रामाण्यं परतो गृह्यते? इत्याशङ्क्य क्रमादुभयत्रोपपत्तिमाह – मान इति । प्रमाणज्ञाने घटोऽस्तीति सद्भावविशिष्ट एव घटः प्रतीयते, स एवार्थसद्भावो घटज्ञानस्य प्रामाण्यम् । अतः स्वतो गृह्यते प्रामाण्यम् । नन्वप्रामाण्यशङ्कानिरासकैस्संवादकारणगुणार्थक्रियाज्ञानैः किं क्रियते? तदेव पूर्वप्रतिपन्नं प्रामाण्यं प्रतिष्ठाप्यते । न हि संवादादिज्ञानेषु घटसद्भावातिरेकेण ज्ञाप्यमस्ति । अतः स्वतःप्रतिपन्नमेवार्थतथात्वं तैरपि पुनर्गृह्यत इति प्रामाण्यग्रहणस्य स्वतस्त्वमेव । तदिदमाह – चेति । भ्रान्तिज्ञानेष्वप्रामाण्यं परत एव ज्ञाप्यत इत्याह – भ्रान्त्येति । अर्थान्यथात्वमेव ज्ञानस्यामामाण्यम्; तदन्यैरेव बाधकैरवबुध्यते । न हि रजतज्ञानं रजत[ज्ञान]स्यान्यथात्वमावेदयति । अपि तु कारणदोषादिज्ञानं ज्ञानविषयस्यान्यथात्वं बोधयति । अतोऽप्रामाण्यस्य परतस्त्वमिति विभागः । अत्र वक्तव्यं सर्वमवशिष्टं स्वयमेव भाव्यमन्तेवासिभिः ॥ १०९ ॥ इति स्वतःप्रामाण्यज्ञप्तिप्रकारः ॥

4.335     दृष्टं मान्यालभोगिप्रभृतिषु करणस्थानभेदादिचित्रं

तादृग्द्वीपान्तरादौ श्रुतमपि न मृषा वेदसिद्धे तथा नः ।

यत्रानाप्तोक्तताधीर्न भवति विहतिर्नापि संभावनायाः

किं व्याप्त्याऽत्रोपचारो विहतिमति भवेन्नैव तद्व्याप्तिदौःस्थ्ये ॥ ११० ॥

अस्तु स्वतःप्रामाण्यं प्रमाणस्य, अथापि वेदेष्वद्भुतोक्तीनां न याथात्म्यमित्याशङ्क्य परिहरति – दृष्टमिति ॥ नहि वेद एवाद्भुतदृष्टिः, लोकेऽपि । अद्भुतं नाम अन्यत्रादृष्टस्यापि क्वाचित्कदर्शनम् । दृश्यते हि मान्थालव्यालादीनामन्धकारेऽपि रूपदर्शनम्, मान्थालानामाहारनिर्हारकरणयोरेकस्थानवर्तित्वम्, व्यालानां चक्षुःश्रवस्त्वम्, पक्षिषु च केषुचिदङ्गाराहारत्वम्, ईक्षणध्यानसंस्पर्शैर्मत्स्यकूर्मविहङ्गानां पुत्रपोषणम्, नालिकेरद्वीपवासिनामपक्वान्नेनैव देहधारणम् । तदिदमाह – तादृगिति । दृष्टान्तदृष्टं दार्ष्टान्तिके योजयति – वेदसिद्ध इति । लोकेऽप्यद्भुतार्था[र्थः ?]ङ्गीकारः प्रमाणसिद्धत्वादङ्गीक्रियते, किं पुनर्वेद इत्यर्थः । तर्हि सर्वमप्यघटितं वेदसिद्धमित्यङ्गीकार्यम्? नेत्याह – यत्रेति । अयमत्र नियमः – यत्रानाप्तोक्तत्वज्ञानं नास्ति, प्रतीतेश्च न व्याघातः, तत्र दृष्टान्ताभावेऽपि सोऽर्थोऽङ्गीकार्यः । तदेतदाह – किं व्याप्त्येति । किं दृष्टान्तदर्शनेनेत्यर्थः । उपचारस्तर्हि कुत्रेत्याशङ्क्याह – उपचार इति । व्याघाते सत्युपचारः; नैव तत् उपचरणम् । व्याप्तिदौःस्थ्ये – दृष्टान्तदौःस्थ्ये । अपूर्वार्थस्य प्रमाणेन दर्शने पूर्वदर्शनविरूपता न दोषायेत्यर्थः ‘देवकीजठरे वासः स्वोदरे विश्वदर्शनमित्यादिकं विश्वरूपस्य भगवतो योयुज्यत इत्यर्थः ॥ ११० ॥ इति वेदेष्वद्भुतोक्तियाथात्म्यम् ॥

4.336     वाक्यत्वात् कर्तृमत्यः श्रुतय इति यदि ब्रूहि बाधं विपक्षे

श्रुत्या स्मृत्या च बाध्या त्वदनुमितिरियं कर्तुरत्रास्मृतेश्च ।

त्वं तावत्तिष्ठ लोकैर्नहि पुरुषगुणप्रत्ययात्तद्गृहीति-

स्सन्तश्चापह्नुवीरंस्तमिह न मुनयस्सत्यनिष्ठाः कृतज्ञाः ॥ १११ ॥

एवं वेदानां स्वाभाविकं प्रामाण्यमुपपाद्य तेषामाप्तोक्तत्वेन प्रामाण्यमुपपादयतां पक्षपतिक्षेपार्थं वाक्यत्वात् कर्तृमत्त्वं वेदानामित्यादिकमनुमानं दूषयितुमारभते – वाक्यत्वादिति ॥ तथा हि – वेदवाक्यानि सकर्तृकाणि वाक्यत्वादित्याद्यनुमाने यदि विपक्षे बाधकतर्कोऽस्ति, स वक्तव्यः । न चेदनुग्राहकतर्काभावादप्रयोजकोऽयं हेतुः । वक्त्रभावे वाक्यत्वं हीयत इति चेत्, तन्न; स्वतन्त्रवक्त्रभावेऽपि प्रवक्तृपारम्पर्यमात्रेण वाक्यत्वस्यान्यथासिद्धत्वात् । यथा स [कर्तृ]वक्तृकाणामपि वाक्यानामुच्चारयितृपूर्वपुरुषताल्वोष्ठादिव्यापारपूर्वकत्वमेव हि वाक्यत्वे तन्त्रम् । आदौ कस्यचित्पुरुषस्य स्वातन्त्र्यमङ्गमिति चेन्न; तस्य कादाचित्कसन्दर्भसाजात्य एव नियामकता । यथा भवतां ज्ञानानामनित्यत्वेन कारणगुणपूर्वकत्वेनैव प्रमात्वे सत्यपीश्वरज्ञानस्य नित्यत्वेन तादृशगुणपूर्वकत्वाभावः, एवमागन्तुकसंदर्भस्य स्वतन्त्रपुरुषपूर्वकत्वेऽपि नित्यसन्दर्भसाजात्यस्य स्वतन्त्रपुरुषपूर्वकत्वं न स्यात् । तथा च वाक्यत्वमन्यथासिद्धत्वान्न स्वतन्त्रपुरुषपूर्वकत्वं साधयति । सर्वं वाक्यमनित्यमेव वाक्यत्वादिति चेत्तन्न; सिद्धसाधनत्वात् । तत्र चोच्चार्यमाणवाक्यस्यानित्यत्वात्, तादृशवाक्यपारम्पर्यस्य च नित्यत्वे बाधकाभावात्; तावन्मात्रेणैव अस्माकं वेदनित्यत्वसिद्धेः । न ह्येकरूपवाक्यप्रवाहानादित्वातिरेकेण वेदवाक्यानामनादित्वं प्रतिपद्यामहे । न ह्येकरूपब्रह्माण्डप्रवाहस्यानादित्वे को नाम विप्रतिपद्यते? सावयवत्वाद्ब्रह्माण्डस्य सादित्वे साध्यमाने तज्जातीयब्रह्माण्डस्य पूर्वं सद्भावो न निषिध्यते । एवं प्रत्येकं वाक्यस्य सवक्तृकत्वेऽपि प्रवाहस्यानादित्वे न कश्चिद्विरोधः । किंचेदमनुमानं ‘वाचा विरूपनित्यया’, ‘नामरूपं च भूतानाम्’ इत्यादिश्रुतिस्मृतिविरोधात् कालात्ययापदिष्टम् । तदिदमाह – श्रुत्येति । स्मर्तव्यत्वे सति कर्तृस्मरणाभावाच्च कर्तृशून्यो वेदः । न च जीर्णकूंपारामादिषु व्यभिचारः, उपदेशपारम्पर्ये स्मर्तव्यत्वे च सत्यस्मरणस्य कर्त्रभावनियतत्वात् । मया स्मृतः कर्ता, तत्प्रत्ययाद्वेदप्रामाण्यमिति चेत्तन्न, आग्रहगृहीतस्य भवतो वाक्ये प्रामाण्याभावादित्याह – त्वं तावदिति । न हि मन्वादीनां वेदपरिग्रहः पुरुषगुणप्रत्ययेनेत्याह – न हीति । प्रत्युत वेदस्याकर्तृकत्वमेव परमर्षयः प्रवदन्ति । ननु सर्ववेदकर्तरि भगवति विद्यमानेऽपि मन्वादयस्तदनुविधायिनश्च वेदवक्तारमपलपन्तीति, तन्न; तेषां तदपलापे प्रयोजनाभावात् । न हि सत्यनिष्ठास्तादृशा महात्मानस्तमपि भगवन्तमपलपन्तीति संभवतीत्याह-सन्तश्चेति ॥ १११ ॥

4.337     आदौ वेदैक्यवादस्त्वविभजनवशात्तावता नान्यसृष्टि-

स्सर्वेषामेकवेदान्वयमपि जगदुः कालभेदप्रतिष्ठम् ।

तत्तच्छाखाविभागः प्रवचननियता काठकाद्या समाख्या

द्रष्टा मन्त्रादिकर्ता परिहृत इह चानित्ययोगः प्रवाहैः ॥ ११२ ॥

नन्वादिकाले वेदैक्यं श्रुतम्, अतस्तदातदा नानावेदसृष्टिरित्याशङ्क्य परिहरति – आदाविति ॥ तत्र हेतुमाह – अविभजनेति । तस्मिन्काले सर्वेषां वेदानामेकवेदान्वयकथनं कथम्? तदपि युज्यते कालभेदनियतत्वात् । तदिदमाह – कालेति । अत एव पश्चाच्छाखाविभागकथनमपि कालभेदादेवेत्याह – तद्वदिति । एवं काठकादिसमारव्याऽपि प्रवचनानुबन्धित्वान्न वेदसृष्टिहेतुरित्याह – प्रवचनेति । एवं वेदद्रष्ट्वत्वान्मन्त्रादिकर्तृत्वं च व्याख्येयमित्याह – द्रष्टेति । कथं तर्हि नित्यस्य वेदस्यानित्यैर्योग इत्यत्राह – अनित्येति । अयमर्थः – वेदवाक्यसन्दर्भसाजात्यमनादित्वेन नियतम्; सर्वमप्यनित्यं पदार्थजातं साजात्येन नित्येन वेदेन संबध्यते, स्फ्यकपालपुरोडाशादीनामपि साजात्येनानादित्वात् ॥ ११२ ॥

4.338     भेदो मन्वन्तरादौ भवति च नियतोऽनादिसिद्धे तदंशे

पुंसूक्तादौ श्रुतीनां जनिवचनमपि प्राग्वदाविष्कृतौ स्यात् ।

आज्ञारूपत्वमासां न च गलति विभो[रेकरूपा]रैक्यरूप्याभिसन्धे-

योऽसौ देवः प्रमाणं स च न शिथिलयेच्छक्तिमन्तं क्रमं तम् ॥ ११३ ॥

कथं तर्हि ‘प्रतिमन्वन्तरं चैषा श्रुतिरन्या विवीयत इत्याशङ्क्य परिहरति – भेद इति ॥ अनादिसिद्धानां? वेदांशानामनन्तत्वात् कस्मिंचिन्मन्तरे कश्चिद्वेदांशः प्रवर्तत इत्यर्थः । कथं तर्हि पुंसूक्तादौ ‘ऋचस्सामानि जज्ञिरे इत्यादिवचनम्? तच्च प्रादुर्भावमात्रपरमित्याह – पुंसूक्तेति । अन्यथा ‘यो वै वेदांश्च प्रहिणोति तस्मै इत्यादिवचनशतविरोधात् । कथं तर्हि नित्यानां वेदानामीश्वराज्ञारूपत्वम्? आज्ञावाक्यस्य तदातदाऽन्यथाकरणसंभवादित्याशङ्क्य परिहरति – आज्ञेति । हेतुमाह – विभोरिति । प्रतिकल्पमेकरूपाभिसन्धिरीश्वर एकरूपमेवाज्ञावाक्यं वदति । एतदेव वेदस्य नित्यत्वम्, यदैकरूप्येण सर्वेष्वपि कल्पेषूच्चार्यमाणत्वम्; ईश्वराभिसन्धिविशेषद्योतनत्वादाज्ञारूपत्वमपि न विहन्यत इत्यर्थः । नन्वीश्वरः स्वतन्त्रत्वाद्वेदान् प्रतिकल्पमन्यथयतु? नान्यथयति; अन्यथाकरणे प्रमाणाभावात्, ‘यथापूर्वमकल्पयदिति यथापूर्वकल्पने प्रमाणसंभवाच्च । अतस्तत्तत्क्रमविशेषविशिष्टतया तत्तत्कार्यकारणशक्तं मन्त्रार्थवादविधिरूपं वेदराशिं नेश्वरश्शिथिलयेदिति ॥ ११३ ॥ इति वेदनित्यत्वम् ॥

4.339     प्रेक्षावन्तो महान्तः परिजगृहुरिमं सार्थमङ्गैरनन्तं

नेत्थं बाह्यागमानां प्रसृतिरनुपधेस्तद्गृहीतेरभावात् ।

दृश्यन्ते गत्यभावो नियतिषु लघिमा वञ्चनं तर्कमोहो

वृत्तिस्वास्थ्यादि चैषामुपधिरधिगमे वैपरीत्यं तु वंदे ॥ ११४ ॥

ननु महाजनपरिग्रहाद्वेदप्रामाण्यं प्रतिपद्यन्ते वेदवादिनः । स च परिग्रहो बाह्यागमेष्वपि तुल्य इत्याशङ्क्य वैषम्यमाह – प्रेक्षावन्त इति । अयमर्थः – बहुजनपरिगृहीतत्वं न महाजनपरिग्रहः; अपि तूत्कृष्टजनपरिग्रहः । स तु वेदेष्वेवेति भावः । कथमन्येषामागमानामनुत्कृष्टजनपरिग्रह इत्यत्राह – नेति । प्रसृतिः – मर्यादा । तत्परिग्रहप्रकारपरिशोधने वैषम्यमवगम्यत इत्यर्थः । कथमित्यत्राह – अनुपधेरिति । द्विविधो हि परिग्रहः । आस्तिक्यनिबन्धनः कश्चित्; अल्पाल्पप्रयोजनाभिलाषादपरः । तत्र वेदपरिग्रहः पूर्वकोटौ निविशते; बाह्यागमपरिग्रहस्सोपाधिक इत्यर्थः । उपाधिस्तु दृष्टमेव प्रयोजनम् । उपाधीनेव परिगणयति – दृश्यन्त इति । अनन्ययगतिकत्वम्, कर्तव्याकर्तव्यनियमेषु लाघवम्, परैर्वञ्चनम्, कुतर्काभ्यासव्यामोहः, वृत्तिस्वास्थ्यम् -अशनाच्छादनादिसौकर्यम् । एतादृशमन्यदपि बाह्यागमपरिग्रहे निदानम् । एतद्वैपरीत्यं वेदपरिग्रहे दृष्टमिति न बाह्यपरिग्रहस्य वेदपरिग्रहेण तुल्यत्वमिति भावः । इदमेव न्यायविद्भिरपि ‘हेतुदर्शनादर्शनाभ्यां विवेकात्’ इत्युच्यते ॥ ११४ ॥

4.340     नित्यैरस्पृष्टदोषैर्भवति च निगमैः पौरुषेयेषु बाधः

पाषण्डत्वप्रथैषां जगति न च मृषा पक्षपातप्रहाणे ।

अन्योन्यं चैषु बाधः प्रसजति कृतकेष्वाप्तिमोहादिसाम्यात्

संवादोंऽशेषु तुल्यः परमिह कुहनासिद्धयेऽन्यप्रवेशः ॥ ११५ ॥

किंचैवं प्रमाणत्वेन प्रतिपन्नवेदवाक्याद्बाह्यानां बाधस्थापनमप्रामाण्यहेतुरित्याह – नित्यैरिति ॥ अतस्तेषां पाषण्डत्वप्रसिद्धिरप्यप्रामाण्यनिमित्तं भवतीत्याह – पाषण्डत्वेति । न चैतावदेव, बौद्धचार्वाकार्हतसांख्यादीनां परस्परबाधोऽप्यप्रामाण्यहेतुरित्याह -अन्योन्यमिति । तत्रैकश्चेदाप्तः, अपरोऽप्याप्तः, मूढश्चेन्मूढ इत्याह – आप्तीति । क्वचिद्वेद – संवादात् कुत्रचित्प्रामाण्यमिति चेत् तुल्यमित्याह – संवाद इति । अतस्सिद्धान्तान्तरप्रवेशः कुहनासिद्धये – परवञ्चनादि – सिद्धय इति न बाह्यसिद्धान्तैर्वेदागमस्य तुल्यत्वपसङ्ग इत्यर्यः ॥ ११५ ॥ इति वेदस्य बाह्यागमेभ्यो वैषम्यम् ॥

4.341     संवादे मानवादेः श्रुतिभिरविरले संग्रहे तत्समाने

ताभिश्चाप्तत्वसिद्धौ स्वकथित उचितस्तस्य तन्मूलभावः ।

नाक्षं लिङ्गं नरोक्तिर्भ्रम इह घटते विप्रलिप्साऽपि मूलं

नाज्ञाते भावनाऽपि श्रुतिविषयतया भाति योगे तु धर्मः ॥ ११६ ॥

इत्थं वेदस्य प्रामाण्यमुपपाद्य स्मृतीतिहासादेर्वेदमूलत्वेन प्रामाण्यमुपपादयति – संवाद इति ॥ अयमर्थः – मानवादेः – मन्वादिग्रन्थस्य । श्रुतिभिस्संवादे अविरले – सार्वत्रिके । संग्रहे – परिग्रहे । तत्समाने – श्रुतिभिस्समाने । स्मर्तॄणां मन्वादीनाम् । ताभिः -‘यद्वौ किंच मनुरवदत्’ इत्यादिभिश्श्रुतिभिरेव । आप्तत्वसिद्धौ; स्वकथितः – स्मृतिभिरेव कथितः । तस्य – मानवादेस्तन्मूलभावः । उचितः – प्राप्तः । स्मर्तार एव वेदमूलत्वं स्मृतीनामाहुरित्यर्थः । श्रुतेरेव स्मृतिमूलत्वमुक्त्वा तदन्येषां तन्मूलत्वं निषेधति – नेति । न तावदिन्द्रियं स्मृत्यादिमूलं संभवति; तस्यालौकिकार्थत्वात्, तद्विषये लौकिकस्य प्रत्यक्षस्याप्रवृत्तेः । न चानुमानं तत्र प्रवर्तते; अन्वयव्यतिरेकस्य प्रत्यक्षमूलत्वेन प्रत्यक्षस्य निवृत्तावनुमानस्यापि निवृत्तेः । न च लौकिकं वाक्यं तन्मूलम्; तस्य प्रत्यक्षानुमानमूलत्वेन तन्निवृत्तावसंभवात् । न च भ्रम एव मूलम्; महाजनपरिग्रहासंभवात् । तत एव न विप्रलिप्साऽपि मूलम् । तर्हि भावनैव मूलमिति चेत् तदपि नेत्याह – नाज्ञात इति । तथा च चक्रकमित्यर्थः । ज्ञाते भावना, भावनया च स्मृतिः, स्मृत्या ज्ञानमिति । श्रुत्या ज्ञाने पुनरस्मत्पक्षः । प्रत्यक्षादिभिः स्मृतिविषयज्ञानमत्रैव प्रतिक्षिप्तम् । कथं तर्हि महर्षीणां प्रत्यक्षेण धर्मदर्शनम्? इत्थम् -श्रुत्या धर्मं प्रतिपद्य स्वयमनुष्ठातारो धर्मप्रभावात् प्रभावविशेषमासाद्य पश्चात् ‘चोदनालक्षणोऽर्थो धर्म’ इति श्रुतिविषयत्वेन धर्मान् साक्षात्कुर्वन्ति । नैतावता स्मृतीनां श्रुतिमूलत्वभङ्गः; तैरपि योगिभिर्योगदशायां श्रुतिप्रमाणगम्यत्वेनैव धर्माणामुपलम्भात् । अतो वेदमूलत्वं स्मृत्यादेरुपपन्नमिति ॥ ११६ ॥ इति स्मृतीतिहासादेर्वेदमूलत्वम् ॥

4.342     या मूलं त्वष्टकादेरियमपि मनुजैः क्वाप्यधीता श्रुतित्वात्

सा चेन्नित्यानुमेया प्रसजति न कथं तादृशाध्यक्षकॢप्तिः ।

सर्वस्मिन् पूर्वपूर्वस्मृतिरपि निगमोपज्ञमित्याचरिष्णौ

नित्यादृश्ये च मूले नियतमिह भवेदन्धसन्ताननीतिः ॥ ११७ ॥

इत्थं वेदमूलत्वं स्मृतीनामुपपाद्य अष्टकाद्याचारादेः प्राभाकरोक्तं नित्यानुमेयवेदमूलत्वं प्रतिक्षिपति – या मूलमिति ॥ इदमत्रानुमानम् – अष्टकाद्याचारमूलभूता श्रुतिरन्यत्र क्वचिदधीता श्रुतित्वात् प्रत्यक्षश्रुतिवदिति । नित्यानुमेया सा श्रुतिरिति चेन्न; श्रुतित्वे नित्यानुमेयत्वव्याघातात् । ताल्वादिव्यापौरः क्वचिदुच्चार्यमाणो वर्णसंघातविशेष एव हि श्रुतिः । तस्य कथं नित्यानुमेयत्वम्? उच्चारणदशायां वक्तृश्रोत्रोरुपलम्भात् । यदि च नित्यानुमेया श्रुतिर्मूलभूता स्मृतीनां, तर्हि तादृशं नित्यानुमेयं प्रत्यक्षमपि तन्मूलतया किं न कल्प्यते? प्रमाणाभावादिति चेत्तुल्यम् । स्मृतिरेव मूलसद्भावे प्रमाणमिति चेत् सत्यम् । सा हि स्मृतिर्मूलमेवानुमापयति न पुनर्नित्यानुमेयत्वमपि । मूलभूतस्य वेदस्य मूलान्तराभावादिति चेन्न; विप्रकीर्णैव श्रुतिरस्तु मूलम्; किमनया नित्यानुमेयया श्रुत्या? किंच सर्वेऽपि पूर्वपूर्वस्मृतिमेव प्रमाणीकृत्याचरन्ति । न कश्चिदपि वेदं दृष्टवानिति हि नित्यानुमेयत्वं चेदस्य । तथा च सर्वेषामेव परप्रत्ययमात्रशरणत्वात् सकलस्यापि मूलभूतप्रमाणादृष्टेरन्धपारम्पर्यवदप्रमाणमूल एव स्मृतिपरिग्रह इति प्रसज्येत । अतो नित्यानुमेयवेदमूलत्वं सतीनामप्रामाण्यकारणमिति ॥ ११७ ॥ इति अष्टकादेर्नित्यानुमेयश्रुतिमूलत्वभङ्गः ॥

4.343     शाखोच्छेदस्त्विदानीमिह यदि स मतस्सर्वतश्चेदसिद्धि-

र्व्यासागस्त्यप्रधानैर्भवति च मुनिभिर्भूषिताऽद्यापि भूमिः ।

उच्छिन्ना सा यथैवाचरितुरविदिता तत्तदाचारमूलं

तद्वत्सा विप्रकीर्णा क्रमसमधिगमः कालवद्देशतोऽपि ॥ ११८ ॥

मा भून्नित्यानुमेयवेदमूलत्वम्; उच्छिन्नशाखामूलत्वं स्मृतीनामिति तार्किकाः । तान् प्रत्याह – शाखोच्छेद इति ॥ अयमर्थः – किं शाखोच्छेदं प्रत्यक्षेण साधयति? तत्र प्रत्यक्षमभावादेव निरस्तम् । काव्याद्युच्छेददर्शनाद्वेदोच्छेदमपि वदाम इति चेत्तन्न; न ह्यन्योच्छेद एवान्योच्छेदः । अस्तु वा अन्योच्छेदादन्योच्छेदः; अथापि केनापि हेतुना वेदोच्छेदमनुमिमीषे । स पुनरुच्छेदः किमिदानीमेतस्मिन्नेव देशे उत देशान्तरेऽपि? पूर्वत्र सिद्धसाधनम्, एतद्देशे तत्प्रवृत्त्यभावात्; उत्तरत्र कालात्ययापदेशः, व्यासागस्त्यादेरद्यापि तत्रतत्र विद्यमानत्वात् । असिद्धिः – बाध इत्यर्थः । तर्हि विप्रकीर्णा श्रुतिः कथमत्रत्याचारमूलमिति चेत्, कथं वोच्छिन्ना श्रुतिरत्रत्याधुनिकाचारमूलभिति भवानेव पश्यतु । आचरितुरविदिताऽपि तत्पूर्वविदितत्वात् तदाचारमूलमिति चेत्, तुल्यमत्रत्यैरविदिताऽपि देशान्तरस्थैर्विदिता श्रुतिस्तदुपदेशपारम्पर्यादत्रत्याचारमूलमिति । तदिदमाह – क्रमेति । यथा कालक्रमागतप्रवक्तृपारम्पर्यादधिगमः, एवं देशक्रमागतप्रवक्तृपारम्पर्यादस्माकमप्यधिगम इति ॥ ११८ ॥ इति शिष्टाचारादेरत्यन्तोच्छिन्नशाखामूलत्वभङ्गः ॥

4.344     दृष्टे वेदैर्विरोधे स्मृतिपरिहरणं सूत्रभाष्यादिसिद्धं

तद्वन्नीतिः पुराणप्रभृतिषु भविनां संभवाद्विभ्रमादेः ।

स्यादन्योन्यं विरोधे त्विह बलनियतिस्सात्त्विकत्वादिभेदा-

न्मात्स्यादौ दर्शितं तच्छ्रुतिहतिरहितैस्तत्परैरेव वाक्यैः ॥ ११९ ॥

स्मृतेर्वेदमूलत्वेन श्रुतिविरोधे सत्यप्रामण्यमुक्तम् । तत्पुराणादीनामपि समानमित्याह -दृष्ट इति ॥ तत्र हेतुमाह – भविनामिति । पुरुषाणां भ्रमविप्रलम्भादिसंभवो हि वेदात् स्मृतीनां दौर्बल्ये हेतुः । स च हेतुः पुराणादिष्वपि समान इत्यर्थः । अस्तु श्रुत्या विरोधे पुराणादीनां दौर्बल्यम्; अन्योन्यविरोधे कथमित्यत्राह – स्यादिति । सात्त्विकत्वादिभेदस्य बलाबलहेतुत्वे प्रमाणमाह – मात्स्यादाविति । उक्तं हि मात्स्ये – ‘अग्नेश्शिवस्य माहात्म्यं तामसेषु प्रकीर्त्यते । राजसेषु च माहात्म्यमधिकं ब्रह्मणो विदुः ॥ संकीर्णेषु सरस्वत्याः पितृणां च निगद्यते । सात्त्विकेष्वथ कल्पेषु माहात्म्यमधिकं हरेः ॥ तेष्वेव योगसंसिद्धा गमिष्यन्ति परां गतिम्’ ॥ इति । श्रुतिविरोधरहितैस्तात्पर्यवद्भिर्वाक्यैः प्रतिपन्नत्वादयमर्थस्सर्वैरपि वादिभिरनतिलङ्घनीय इत्यर्थः । अतः श्रुत्यविरोधिना सात्त्विकानामेव पुराणानामुपादेयत्वम्; न पुनः श्रुतिविरोधिनां राजसानां तामसानां च पुराणानामुपादेयत्वम् । तेषां संसारवर्धनाय भगवत्प्रवर्तितैः पितामहादिभिः प्रवर्तितत्वान्न सात्त्विकपरिग्राह्यत्वमिति भावः ॥ ११९ ॥ इति पुराणादिबलाबलविभागः ॥

4.345     भागे वेदाविरुद्धे पशुपतिकपिलाद्यागमास्स्युः प्रमाणं

मोहाद्यर्थं तु शेषं मुनिभिरभिहितं यत्र मज्जन्ति डिम्भाः ।

भूयस्यर्थे प्रधाने विहतिमति सतां संशयश्च क्वचित्स्यात्

श्रुत्वा बाधं न रुन्धे श्रुतिसहपठितिर्हेत्वहन्तव्यता च ॥ १२० ॥

तर्हि पुराणादिवद्वेदाविरुद्धांशे पशुपतिकपिलाद्युक्तीनां प्रामाण्यमस्तु; कथं तर्कपादे तेषां प्रतिक्षेप इत्याशङ्कते – भाग इति ॥ वेदविरुद्धांशस्योपयोगं पूर्वपक्ष्यभिप्रायेणाह -मोहाद्यर्थमिति । असुरमोहनार्थं तत्र वेदविरुद्धांशाभिधानम् । अतः पुराणादिवत् कापिलादिकमपि परिग्राह्यमिति । यत्र मज्जन्ति डिम्भाः – येष्वभिधानेषु बालिशा मुह्यन्तीत्यर्थः । परिहरति – भूयसीति । न हि पुराणादिषु प्रधानार्थविरोधो भूयान् । श्रुत्युक्तमेवानुसरन्ति सत्त्वोत्तराणि पुराणादीनि । तामसानि पुनरप्रमाणान्येव । कापिलपाशुपतादिषु श्रुतिविरोधभूयस्त्वात् सत्त्वोत्तरस्मृतिपुराणादितुल्यत्वं नाङ्गीकुर्महे; विरुद्धस्मृतिपुराणादितुल्यत्वे का नो हानिरिति, वेदविरुद्धांशस्य भूयस्त्वात्क्वचित् सत्त्वोत्तरांशसद्भावेऽपि न सार्वत्रिकविश्वासास्पदत्वमिति भावः । संशयश्च क्वचित्स्यात् -बह्नर्थविरोधे सति संशय एव स्यादित्यर्थः । कथं तर्हि ‘सांख्यं योगः पञ्चरात्रमिति वेदैस्सह कथनम्? कथं वा हेतुबाध्यत्वं पञ्चानां नास्तीति? अत आह – श्रुत्येति । श्रुतिविरोधे पुनर्बाध्यत्वमेव; नहि साधर्म्यमात्रेण वैधर्म्यं निवार्यत इति भावः ॥ १२० ॥ इति पाशुपतादेर्विरुद्धव्यामिश्रत्वम् ॥

4.346     निर्दोषाम्नायमौलिश्रुतनिखिलजगन्मूलसर्वज्ञमूले

हेतुर्व्यूढे चतुर्धा क्वचिदपि न भवेद्विभ्रमः पञ्चरात्रे ।

युक्ता भक्तानुकम्पागरिमसमुदिते विप्रलिप्साऽपि नास्मिन्

वेदाच्छ्रैष्ठ्योक्तिरर्थस्थितिविशदतया भूमविद्यादिवच्च ॥ १२१ ॥

अस्तु तर्हि श्रीपाञ्चरात्रस्यापि पाशुपतादितुल्यत्वमित्याशङ्कमानं प्रतिक्षिपति – निर्दोषेति ॥ तत्र कर्तृवैषम्यं प्रामाण्ये हेतुमाह – निर्दोषेति । अयमर्थः – ‘साख्यं योगः पञ्चरात्रं’ इति सहपठितिनिमित्तसाम्यभ्रमं मन्दानां निवारयितुं भगवता बादरायणेनैव ‘सांख्यस्य वक्ता कपिल’ इत्यादिना सांख्यादीनां संभावितभ्रमकपिलादिकर्तृकत्वेनाप्रामाण्यमभिधाय ‘पञ्चरात्रस्य कृत्स्नस्य वक्ता नारायणः स्वयम्’ । इति भगवदभिहितत्वेन प्रामाण्यमेव प्रतिष्ठापितमिति । अथापि तन्त्रमन्त्रादिसिद्धान्तभेदेन वा ज्ञानादिकाण्डभेदेन वा वासुदेवादिचातुरात्म्यप्रतिपादनभेदेन वा विभक्ते तस्मिन् शास्त्रे सार्वत्रिकाप्रामाण्याभावेऽपि क्वाचित्कमप्रामाण्यं स्यादित्याशङ्क्याह – हेतुर्व्यूढ इति । अत्र कुत्रापि वेदविरोधाभावात् कर्तृसामान्याच्चाप्रामाण्यशङ्का न जायत इत्यर्थः । मा भूद्विभ्रमः, विप्रलिप्सा भगवतस्स्यात्, दृष्टा हि भगवतोऽपि विप्रलिप्सा ‘त्वं हि रुद्र महाबाहो मोहशास्त्राणि कारयेत्’ इत्यादौ, ‘क्षिपाम्यजस्रमशुभान्’ इत्यादौ च । अत्राह – युक्तेति । द्विविधा खलु भगवतः प्रवृत्तिः; असुरमोहनार्थम् आश्रितसंरक्षणार्थं च । पञ्चरात्रे सत्त्वोत्तरजनसंरक्षणार्थमेव प्रवृत्तिः । अत एव सत्त्वोत्तराश्शाण्डिल्यादय एव तच्छास्त्रप्रवक्तारः । अतो नास्मिन् शास्त्रे विप्रलिप्साऽपि कारणम् । तर्हि ‘साङ्गेषु वेदेषु निष्ठामलभमानः शाण्डिल्यः पञ्चरात्रतन्त्रमधीतवानिति वेदाच्छ्रैष्ठ्यवचनं पञ्चरात्रस्य वेदविरोधख्यापकं न कथमित्यत्राह – वेदादिति । द्विधा ह्यत्र गतिः – इतिहासपुराणवदर्थवैशद्यादित्येका; शाण्डिल्यस्य पञ्चरात्रशास्त्राभ्यासपर्यन्तं वेदवाक्यादर्थप्रतिपत्तिर्विशदा नाभूदित्यपरा । तदेव दृष्टान्तेनाह – भूमविद्येति । यथा भूमविद्योपक्रमे भूमविद्याप्रशंसार्थम् ‘ऋग्वेदं भगवोऽध्येमि’ इत्यादिना कृत्स्नस्यापि वेदस्य अनादरेण ज्ञानहेतुत्वाभावमुक्त्वा भूमविद्याया एव ज्ञानहेतुत्वं स्वीक्रियते, नैतावता भूमव्यतिरिक्तविद्यानिन्दा; अपि तु भूमविद्याप्रशंसैव । तद्वदत्रापीति ॥ १२१ ॥

4.347     जीवोत्पत्त्यादिवादो निगमवदिह तन्नित्यतोक्तेश्च साम्या-

ज्जीवाद्याख्यानिरूढिस्त्वभिमतिभिदया स्याच्च संकर्षणादौ ।

मन्वादेश्चोपजीव्यं हिततममिदमित्यादिकं भारतोक्तं

तत्क्वाप्यैक्यं विकल्पः क्वचिदभिमतवत्तादृशाम्नायभेदात् ॥ १२२ ॥

तर्हि ‘वासुदेवात् संकर्षणो नाम जीवो जायत’ इत्यादिना पञ्चरात्रे जीवोत्पत्त्यादिकं वेदविरुद्धमभिधीयत इत्याशङ्क्य परिहरति – जीवेति । निगमवत् – यथा निगम एव ‘इमानि भूतानि जायन्त’ इत्यादिना जीवोत्पत्यादिकमभिधीयते । तद्वत् – ‘नित्यो नित्यानां’ इत्यादिना जीवनित्यत्वादिकमपि निगमे निगद्यत इति चेत्तुल्यम् । अत्रापि ‘अचेतना परार्था च नित्या सततविक्रिय’ इत्यादिना प्रकृतेरपि नित्यत्वमभिधीयते; किं पुनर्जीवस्य नित्यत्वम्; अनित्यत्वं च प्रकारभेदेन घटत इत्यर्थः । द्रव्यस्वरूपनित्यत्वान्नित्यत्वमचेतनस्य; स्वरूपे नामान्तरभजनार्हावस्थान्तरयोगादनित्यत्वम्; जीवस्यापि स्वरूपनित्यत्वेऽपि नानादेहपरिग्रहात्, ज्ञानसंकोचविकासयोगमात्राच्चानित्यत्वमिति । किंच ‘वासुदेवात्संकर्षणो नाम जीवो जायत’ इत्यादिवचनं जीवाद्यभिमानिसंकर्षणाद्याविर्भावपरम् । अतो न विरोध इत्याह – जीवाद्याख्येति । मन्वादेरिति । ‘इदं श्रेय’ इत्यादिना ऋग्यजुस्सामभिर्जुष्टमिदं पञ्चरात्रं मन्वादेरप्युपजीव्यमित्युक्तं महाभारते । ‘सात्त्वतं विधिमास्थाय गतिस्संकर्षणेन यः’ इत्यादिना च ब्राह्मणादीनां सर्वेषामुपजीव्यत्वं च तत्रतत्रोक्तम् । तत्क्वाप्यैक्यम् -अविरुद्धतयैव संप्रतिपन्नस्थले; आपाततो विरुद्धतया प्रतिपन्ने स्थले ग्रहणाग्रहणवद्विकल्प एव । तदिदमाह – अभिमतवदिति । तत्रोभयत्रापि ‘गृह्णाति न गृह्णाति चेति वेदवाक्यमस्तीति चेत्; अत्राप्यस्ति; अत्रापि पञ्चरात्रमूलभूताया मूलश्रुतेरधीयमानत्वादिति तुल्यम् । सा मूलश्रुतिः प्रचुरं नाधीयत इति चेत् किं कुर्मः? अध्येतॄणामेव परिमितत्वेनायं दोषः यथोपनिषदामिति । एतच्चागमप्रामाण्ये भाष्यादौ च विस्तरेणानुसन्धेयम् ॥ १२२ ॥ इति श्रीपाञ्चरात्रप्रामाण्यम् ॥

4.348     सर्वे सर्वज्ञबुद्धेर्ननु विषयतया नित्यसिद्धाः कृतान्ता-

स्तस्मात्तेन प्रवर्त्ये सति समयगणे कस्यचित्को विशेषः ।

मैवं तत्त्वे विकल्पत्यजि विहतिमतामेकशेषत्वमाना-

त्तन्निष्ठा स्यात् कनिष्ठा नमति न विदुषोऽनामिकादिः परस्मै ॥ १२३ ॥

अत्र सिद्धान्तान्तरप्रतिबन्दिमाह – सर्व इति ॥ सिद्धान्तान्तरमीश्वरबुद्धेर्नित्यमेव विषयः । तस्मादीश्वरप्रवर्त्ये सर्वस्मिन्नपि सिद्धान्ते सति कस्यचित् पञ्चरात्रस्य को विशेषः? अत्रोत्तरम् – मैवमिति । परस्परविरुद्धतत्त्वप्रतिपादकेषु ग्रन्थेषु सर्वत्र प्रामाण्यं दुरुपपादम् । अतः क्वचित्प्रामाण्ये पञ्चरात्रस्यैव प्रामाण्यं भगवत्प्रोक्तत्वात् शाण्डिल्यादिसत्त्वोत्तराधिकारिपरिग्रहात्, वेदविरोधाभावात्, अन्यस्मादपि शतशः प्रतिपादिताद्वैषम्यत् सिध्यति । ईश्वरस्य सर्वज्ञत्वेन तद्बुद्धिस्थत्वं वेदानां बुद्धागमादीनामपि समानम्; नैतावतातत्र साम्यम्; तद्वदत्रापीति भावः । अयमर्थः -अप्रमाणत्वेन तन्त्रान्तराणीश्वरबुद्धिस्थानि, प्रमाणत्वेन पञ्चरात्रमिति । अयं च न्यायो वेदबाह्यागमयोरपि समान इति ॥ १२३ ॥ इति परसिद्धान्तप्रतिबन्दिनिस्तारः ॥

4.349     अर्थे पूर्वानुभूते सहमितसदृशख्यात्यदृष्टप्रमेदै-

स्संस्कारानुग्रहे या परिणमति मतिस्सा स्मृतिस्त्रिप्रकारा ।

याथार्थ्येऽपि स्वपूर्वानुभवमनुसरेद्बाह्यशून्या न चैषा

हेतुश्चार्थक्रियादेः स्मृतिवदनुभवोऽप्यस्ति नष्टादिकेषु ॥ १२४ ॥

एवं प्रामाण्यप्रक्रियामुपपाद्य स्मृतेरयाथार्थ्यवादिनं प्रतिक्षेप्तुं स्मृत्युत्पत्तिप्रकारनाह – अर्थ इति ॥ पूर्वानुभूतेऽर्थे सहदृ[ष्टि]ष्टसदृशदृष्ट्यदृष्टभेदैः संस्कारानुग्रहे-संस्कारोद्बोधे । या परिणमति मतिस्सा स्मृतिः । सा च स्वकारणवैविध्यात् त्रिप्रकारा । अथवा स्वकारणभूतप्रमितिभ्रान्तिसंशयानुरोधेन स्वयमपि तादृग्रूपा सती त्रिप्रकारा । अत्र कश्चिदाह – सर्वाऽपि स्मृतिरयथार्थेति । तमुत्तरश्लोके निराकर्तुं स्मृतेः पूर्वानुभवानुसरणमाह – याथार्थ्येऽपीति । यथा स्मृतिरयाथार्थ्येऽपि पूर्वानुभवमनुसरेत्, तथा यार्थार्थ्येऽपीत्यपिशब्दार्थः । अर्थशून्या स्मृतिः कथं यथार्थेत्याशङ्क्य परिहरति – बाह्यशून्येति । स्मर्तव्यस्यापि स्वकाले सत्त्वादित्यर्थः । अर्थक्रियादिहेतुत्वाच्च स्मृतिर्यथार्थेत्याह – हेतुश्चेति । ननु स्मृतिर्नष्टविषया; नष्टं चासदेव; कथं याथार्थ्यं स्मृतेरित्याशङ्क्य प्रतिबन्द्या परिहरति – स्मृतिवदिति । अतीतानागतानुमानागमयोगिप्रत्यक्षेषु नष्टविषयत्वेऽपि याथार्थ्यं भवानेवाङ्गीकरोतीत्यर्थः ॥ १२४ ॥ इति स्मृतिहेतुविभागादि ॥

4.350     पूर्वं श्यामत्वमात्राद्भवति न हि मितिः पाकरक्तेऽपि तद्धी-

स्तत्ताभानं तथा चेत् प्रसजति तदिदं प्रत्यभिज्ञादिकेऽपि ।

याथार्थ्यं पारतन्त्र्यान्न च गलति न चेदभ्युपेतातिवृत्ति-

र्वेदे मानैस्सहोक्ता स्मृतिरपि विफला त्वक्षपादाद्यनुक्तिः ॥ १२५ ॥

उक्तमपि स्मृतियाथार्थ्यं प्रतिवाद्युक्तहेतुप्रतिक्षेपेण स्वाभिमतप्रमाणविशेषेण चोपपादयति -पूर्वमिति ॥ इत्थं किल परवादी स्वमतमाह – नहि पाकरक्ते श्यामतामतिर्यथार्था । इत्थं निवृत्तपूर्वावस्थे वस्तुनि तत्तामुल्लिखन्ती स्मृतिरयथार्थेति । अयं पुनरपरामर्शवादः । न हि स्मृतिर्निवृत्तामपि पूर्वावस्थां कर्तमानत्वेनोल्लिखति, तथा चेदिदमित्येवोल्लिखेत् । अपि तु निवृत्तत्वेनैव; अन्यथा तत्तोल्लेखाभावप्रसङ्गात् । पाकरक्ते तु श्यामताप्रत्ययो निवृत्त[स्यैव]स्यापि श्यामत्वस्य वर्तमानत्वेनोल्लिखति । अतो विषमो दृष्टान्तः । उक्तमर्थं प्रतिबन्द्योपपादयति – तत्तेति । तथा चेत् – वर्तमानत्वेन तत्तायाः स्मृतौ भानं चेत् । प्रत्यभिज्ञायामपि तादृगेव भानमिति तत्राप्ययाथार्थ्यप्रसङ्गः । आदिशब्देनानुवादो गृह्यते; तत्रापि यत्तच्छब्दप्रयोगभूयस्त्वात् । तर्हि पारतन्त्र्यात्स्मृतेरयाथार्थ्यं वदाम इति चेत्, तच्च नेत्याह – याथार्थ्यमिति । उक्तार्थानङ्गीकारे दोषमाह – चेदिति । अभ्युपेतातिवृत्तिः – स्वाभ्युपेतव्याघात इत्यर्थः । न हि प्रत्यक्षपारतन्त्र्यादनुमानमयथार्थम् । नाप्यनुमानपारतन्त्र्यादागमः । नच संस्कारपारतन्त्र्यात् प्रत्यभिज्ञानम् । अन्यदप्येतादृशमुदाहर्तव्यम् । इत्थं स्मृतेर्यायार्थ्यं युक्तिभिरुपपाद्य तत्र प्रमाणमपि वक्ति – वेद इति । ‘स्मृतिः प्रत्यक्षमैतिह्यमनुमानं चतुष्टयमिति वाक्ये स्मृतिः प्रथममेव प्रमाणत्वेनोपादीयते । कथं तर्हि स्मृतेरक्षपादो न प्रामाण्यमाचष्टे तत्राह – विफलेति । न ह्यक्षपादः कणादः कपिल इत्यादयः प्रामाणिकत्वेन परिग्राह्याः । युक्तियुक्तं तु गृह्णीमः; न पुनस्तद्वाक्यगौरवादित्यर्थः ॥ १२५ ॥ इति स्मृतियाथार्थ्योपपत्तिः ॥

4.351     जातः पूर्वानुभूत्या स्मृतिमुपजनयेत्क्वापि संस्कार एव

प्राग्दृष्टव्यक्तिमात्रप्रतिनियतिमती कीदृशादन्वयात्स्यात् ।

मैवं कार्ये त्वबाध्ये ननु तदनुगुणः कल्प्यते हेतुयोग-

स्तज्ज्ञानोत्पाद्यभावस्स इति च विदितः कि तदन्येन नाम्रा ॥ १२६ ॥

अस्तु स्मृतिः, भवतु च यथार्था । तथाऽपि पूर्वानुभूतविषयमात्रत्वे किं नियामकमित्याशङ्कते – जात इति ॥ पूर्वानुभूत्या जातस्संस्कारः क्वापि स्मृतिं जनयेदेव । अथापि सैषा स्मृतिर्दृष्टव्यक्तिमात्रविषयेति कीदृशादन्वयात् – संबन्धात् स्यादिति । अत्रोत्तरम् – मैवमिति । उक्तं हि बहुशः कार्ये निर्बाधेनैव प्रमाणेन स्फुटदृष्टे तदनुगुणो हेतुयोगः कल्प्यत इति । अस्माभिरवगन्तव्यो हेतुरित्यत्राह – तज्ज्ञानोत्पाद्यभावस्स इति च विदित इति । या स्मृतिर्येन ज्ञानेनोत्पद्यते तद्विषयमेव सा गृह्णातीति नियमः । किं तदन्येनेति – हेतुहेतुमद्भावनाम्नि जाग्रति किमन्येन विशेषनाम्नेत्यर्थः ॥ १२६ ॥ इति स्मृतेरनुभूतव्यक्तिनियतविषयत्वम् ॥

4.352     तुल्यात्तुल्यान्तरे धीः स्मृतिरियमिव गौस्सेति बोधोऽनुमानं

यत्तुल्यो यस्य चैतत्सम इति निजयोर्हस्तयोर्व्याप्तिसिद्धेः ।

चिह्नोन्नीते निमित्ते पदमपि विदितं शक्तमाप्तातिदेशे

व्युत्पत्तिर्लक्षणैः स्वैः क्वचिदपि न भवेदन्यथाऽतीन्द्रियेषु ॥ १२७ ॥

इत्थं स्मृतेः प्रामाण्यमुपपाद्य परोक्तोपमानानां स्मृत्याद्यव्यतिरेकमाह – तुल्यादिति ॥ अत्रैवमाहुरुपमानप्रक्रियां केचित् – तुल्यं दृष्ट्वा तत्तुल्यस्य देशान्तरस्थस्य प्रतीतिरुपमानमिति । तत्र विकल्पयामः किं स्वरूपप्रतीतिरुत सादृश्यप्रतीतिरिति । पूर्वत्र सा धीः स्मृतिरित्याह – स्मृतिरिति । उत्तरत्र सादृश्यप्रतिपत्तिरनुमानमित्याह -इयमिवेति । अनेन सदृशी मदीया गौरिति बोधोऽनुमानमेव । इयमिव – इयं गवयव्यक्तिरिवेत्यर्थः । अत्र कथं व्याप्तिग्रह इत्यत आह – यत्तुल्य इति । अयमत्रानुमानक्रमः – गौर्गवयसदृशः गवयस्थसादृश्यप्रतियोगित्वात्, यो यद्गतसादृश्यप्रतियोगी स तत्सदृशः, यथा वामहस्तो दक्षिणहस्तेनेति । अस्तु तर्ह्यन्यदेवोपमानलक्षणं, श्रुतातिदेशवाक्यस्य संज्ञिनि प्रत्यक्षप्रत्यभिज्ञानमुपमानम्; संज्ञासंज्ञिसंबन्धप्रमितिरुपमितिरिति । स च संबन्ध एव उपमानप्रमाणावगम्यः । अतिदेशवाक्यं च त्रिप्रकारम्; गोसदृशो गवय इति साधर्म्योपमाने, गवादिवद्द्विशफो न भवत्यश्व इति वैधर्म्योपमाने, दीर्घग्रीवः प्रलम्बोष्ठः कठोर [ः] कण्टकाशी पशुः क्रमेलक इति धर्ममात्रोपमान इति । तदिदमुपमानमाप्तोदेशान्नातिरिच्यत इत्याह -चिह्नोन्नीत इति । यथाऽयं गौरिति व्यक्तिविशेषे गोशब्दव्युत्पादनेऽपि वक्रभिप्रायमालोच्य न्यायानुसारात् सार्वत्रिकीं गोशब्दव्युत्पत्तिं प्रतिपद्यन्ते बालाः । नहि यावदुक्तमेव गृह्णन्ति निरूपणधुरन्धराः प्रेक्षावन्तः । एवमेवातिदेशवाक्येऽपि प्रेक्षावन्तो न्यायपर्यालोचनेन गोसादृश्यादिचिह्नोन्नीते गवयत्वादौ श्रोतारो व्युत्पद्यन्ते; अतिदेशवाक्यश्रवणकाले गवयत्वादेरप्रत्यक्षत्वात् । यदि शब्दतो व्युत्पत्तिं प्रतिक्षिपति कश्चित् पश्चादुपमानं चापेक्षते; स कथं तैस्तैर्लक्षणैरिन्द्रोपेन्द्रादिशब्दानां व्युत्पत्तिकोटिमाटीकेत? अव्युत्पन्नो वा कथं वैदिकवाक्यार्थान् प्रतिपद्येत? अप्रतिपन्नवाक्यार्थः कथंतरामनुतिष्ठेत्? अननुष्ठानः कथंतमां पुरुषार्थमाप्नुयात्? इति सर्वमपि दुर्वचम् । अतस्तत्तल्लक्षणोपदेशादेव प्रजापतिपशुपतिसुरपतिप्रभूतीनां स्वरूपेषु तत्तदनुबन्धेष्वर्थान्तरेष्वपि व्युत्पत्तिरिति सर्वमवदातम् ॥ १२७ ॥ इति उपमानान्तर्भावः ॥

4.353     अर्थापत्तिः परोक्ता न पृथगनुमितेर्व्याप्तिबोधादिसाम्या-

दव्याप्यानामयुक्तिर्न हि भवति न चाव्यापकाः स्थापकाः स्युः ।

जीवन् क्वापीति बोधो न गृह इति मतिं निश्चितां नोपरुन्धे

नातस्तच्छान्तये सा न यदि सममिदं सम्मते चानुमाने ॥ १२८ ॥

एवमुपमानस्यागमान्तर्भावमुक्त्वा तद्वदेवार्थापत्तेरनुमानान्तर्भावमाह – अर्थापत्तिरिति ॥ व्याप्तिज्ञानादिसाम्यात् परोक्तार्थापत्तिर्नानुमानात् पृथग् भवति । आदिशब्दात् पक्षधर्मत्वमप्याह । जीवन् देवदत्तो बहिरस्ति, विद्यमानत्वे सति गृहे असत्त्वादिति देवदत्तनिष्ठतया हि हेतुरभिधीयते । अत्र व्याप्तिम् ‘अनियाम्यस्य नायुक्तिरित्युक्तप्रकारेण विशदयति’ – अव्याप्यानामिति । जीवनवत्त्वे सति यो यत्र नास्ति स ततोऽन्यत्रास्तीति हि व्याप्तिप्रकारः । तमेवानुस्मृत्यानुपपद्यमानदर्शनादुपपादकभूतार्थान्तरकल्पनमर्थापत्तिरि त्यभिधीयते, अनुपपद्यमानं व्याप्यं, व्यापकमन्तरेण व्याप्यस्यानवस्थानात् । तदिदमाह – अव्याप्यानामयुक्तिर्न हि भवतीति । उपपादकाश्च नाव्यापकाः । तदप्याह – न चाव्यापकाः स्थापकाः स्युरिति । अनेन ‘अनियाम्यस्येत्यादि श्लोके पूर्वार्धं विवृतम् । अनियाम्यस्य – अव्याप्यस्य नायुक्तिः – नानुपपद्यमानता; ‘नानियन्तोपपादकः – नाव्यापक उपपादक’ इत्यर्थः । तथा च व्याप्तिरेव नामान्तरेणानुपपत्तिरित्युच्यतेऽर्थापत्तिवादिभिः । ननु प्रमाणद्वयविरोधपरिहारोऽर्थापत्तिकार्यं, तदर्थमर्थापत्तिरिति किमपि प्रमाणमन्वेषणीयम् । जीवनप्रमाणं तावद्देशसामान्यसंबन्धाद् गृहेऽपि देवदत्तसद्भावमावेदयति, प्रतिक्षिपति च प्रत्यक्षमिति प्रमाणद्वयविरोधः । मैवम्; द्वयोरपि प्रमाणत्वे कथं विरोधः? विरोधे वा कथं प्रामाण्यम्? तदिदमुक्तम् – ‘न मानयोर्विरोधेऽस्तीति । तदेवाचष्टे – जीवन् क्वापीति बोधो न गृह इति मतिं निश्चितां नोपरुन्धे इति । अतः परस्परविरोधाभावाद्विरोधशान्तये असावर्थापत्तिर्नाङ्गीकरणीयेत्याह – नात इति । इत्थमनङ्गीकारे धूमानुमानेऽप्यर्थापत्तित्वं कल्पयितुं शक्यत इत्याह – न यदीति । अयमर्थः पूर्वोक्तसंवादश्लोकान्तिमपादेनोच्यते ‘प्रसिद्धे चाप्यसौ समः’ इति ॥ १२८ ॥ इति अर्थापत्त्यन्तर्भावः ॥

4.354     तत्तद्भावैरभावव्यवहृतिनियतौ मानमन्यत् किमर्थं

स्मर्तव्यस्मृत्यभावात् परमनुमिमते प्रातरश्वाद्यभावम् ।

स्यादक्षाद्भावधीवद्विमतिविषयधीरन्वयादेस्समत्वात्

भावग्राहिण्यभावं तदुचितसहकार्यागमे बोधयन्ति ॥ १२९ ॥

मा भूदर्थापत्तिः; अभाव इति किमपि प्रमाणमन्यदेव परिगृह्यतामित्याशङ्क्य परिहरति – तत्तदिति ॥ भावान्तराभावस्य प्रसाधितत्वात्, भावेषु च भावस्यैव प्रमाणत्वात् अभावप्रमाणापेक्षा नास्तीति । यत्तु प्रातर्गजाद्यभावप्रतिपत्त्यर्थं प्रमाणान्तरमपेक्षन्ते, तदनुभाष्य परिहरति – स्मर्तव्येति । प्रातर्गजाद्यभावः स्मर्तव्यस्य स्मरणाभावादनुमीयते । इदमिहानुमानं – विप्रतिपन्नः प्रदेशः प्रातर्गजवत्तया मयाऽननुभूतः, स्मर्तव्यत्वे सति तद्वत्तया इदानीमस्मर्यमाणत्वादिति । तथा च स्मरणाभावादनुभवाभावः अनुभवाभावाच्च विषयाभाव इति प्रातर्गजाद्यभावसिद्ध्यर्थं न प्रामाणान्तरमन्वेषणीयम् । अभावस्य प्रत्यक्षगम्यत्वे सर्वाविगीतमनुमानमप्याह – स्यादक्षादिति । अभावज्ञानमिन्द्रियजन्यम्, इन्द्रियान्वयव्यतिरेकानुविधायित्वादित्यनुमानम् । ननु भावग्राहिप्रमाणस्य कथमभावग्राहित्वमित्याशङ्क्य परिहरति – भावग्राहिणीति । एकस्यापि कारणस्य सहकारिभेदेन नानाकारणत्ववद् बोधकस्यापि सहकारिभेदेन नानार्थबोधकत्वं योयुज्यत इति भावः ॥ १२९ ॥ इति अभावप्रमाणान्तर्भावः ॥

4.355     ऐतिह्यं वृद्धवाक्यं बहुदिवसगतेर्यत्त्वनिर्द्धार्यमूलं

मानं चेदागमस्तत्तदितरदपि च स्यात्तदाभास एव ।

लक्षादिभ्यश्शतादिप्रमितिरनुमितिर्व्याप्यतादेरबाधा-

च्चेष्टालिप्यादि लिङ्गं शितमतिभिरतश्शिष्टमप्येवमूह्यम् ॥ १३० ॥

एवमैतिह्यस्याप्यागमेऽन्तर्भावः प्रामाण्ये; प्रामाण्याभावे तु प्रमाणाभासत्वमित्याह – ऐतिह्यमिति । मानं चेदागमः; तदितरत् – अमानं चेदाभास एवेत्यर्थः । तदिदमाहुः ‘जगति बहु न तथ्यं नित्यमैतिह्ययुक्तं भवति तु यदि सत्यं नागमाद्भिद्यते तत्’ ॥ इति । लक्षादिभ्यश्शतादिज्ञानं पुनरनुमानमेवेत्याह – लक्षादिभ्य इति । तत्र हेतुमाह – व्याप्यतादेरिति । विप्रतिपन्नं लक्षं शतवत् लक्षत्वादित्यनुमानम् । एतदप्याहुः पूर्वपठितस्यार्धस्य पूर्वार्धेन ‘इह भवति शतादौ संभवाद्यासहस्रे मतिरवियुतिभावात् साऽनुमानादभिन्ना’ । इति । एवं चेष्टया पुरुषाभिप्रायविशेषानुमानम्, सङ्केतविशेषयुक्तया लिप्या लिङ्गभूतया वर्णविशेषबोधनम्, अन्यच्चैतादृशं सर्वं साङ्केतिकं शितमतिभिः – बुद्धिमद्भिः अनुमानविशेषतया भाव्यम् ॥ १३० ॥ इति ऐतिह्यसंभवाद्यन्तर्भावः ॥

4.356     मानत्रित्वे तु मन्वाद्यनुमतिविषये तत्र यत्कैश्चिदाप्तै-

राधिक्यं क्वाप्यधीतं तदपि सुघटितं गोबलीवर्दनीत्या ।

उक्तार्थोदाहृतिर्वा भवतु बहुमुखी शिष्यमेधामहिम्ने

सर्वे च स्वेष्टतन्त्रेष्वनुकथनशतं निर्वहन्त्येवमूहैः ॥ १३१ ॥

ननु ‘आर्षं धर्मोपदेशं च वेदशास्त्राविरोधिना । यस्तर्केणानुसन्धत्ते स धर्मं वेद नेतरः’ ॥ इति प्रत्यक्षादिभेदेन प्रमाणत्रित्वे मन्वादीनामभिमते कैश्चिदाप्तैराधिक्यमप्यभिधीयते; तत्कथमिति चोद्यमनुभाषते – मानत्रित्व इति ॥ तत्परिहरति – तदपीति । अधिककथनं तात्पर्यविशेषेणं गोबलीवर्दन्यायेनाविरुद्धमित्यर्थः । अथवा उक्तस्यवार्थस्य शिष्यमेधामहिम्ने बहुमुखमुदाहरणं तद्भवत्वित्याह – उक्तेति । अयं निर्वाहः सर्वेष्वपि शास्त्रेषु पौनरुक्त्यपरिहारे साधारण इत्याचष्टे – सर्वे चेति ॥ १३१ ॥ इति अधिंकप्रमाणपरिगणननिर्वाहः ॥

4.357     प्रत्यक्षादित्रिकं यत्पृथगभिदधता भाष्यकारेण शेषं

नैव क्षिप्तं न चोपस्कृतमिह न ततः स्यात्तदाधिक्यसिद्धिः ।

रीतिः सर्वोदितानामियमिति हि तथोदासि सङ्ख्याविवादे

तेनान्वारुह्य तत्तत्समधिकगणना स्वीकृता नस्सयूथ्यैः ॥ १३२ ॥

कथं तर्हि भाष्यकारैः प्रमाणत्रयमभिधाय शिष्टं प्रमाणं न प्रतिक्षिप्तम्? तस्मादाधिक्यमिति कश्चिन्मनुते । तस्योत्तरम् – प्रत्यक्षादीति । न चोपस्कृतमिहेति -क्षेपाभाववदुपस्काराभावादाधिक्यं न सिध्यतीत्यर्थः । अत एव सगुणविषयत्वेन प्रमाणत्रयमुपन्यस्य सर्वोदितानां प्रमाणानामियमेव हि रीतिरिति भाष्यकारैरुदासि । अतोऽस्मत्सयूथ्यानामाधिक्यकथनमन्वारुह्य वादो न पुनः स्वपक्ष इति संप्रदायनिर्णयः ॥ १३२ ॥ इति प्रमाणसंख्यानियमसंप्रदायः ॥

4.358     मानं सर्वोपजीव्या प्रथममिह भवेदक्षजन्या मनीषा

तन्मूला चानुमा स्यात्तदुभयजनितस्त्वागमो द्विप्रकारः ।

मूलं न क्वापि बाध्यं क्वचिदधिकबलैर्मूलजातीयबाधः

स्यादेतैः कर्ममालाघटितभवघटीयन्त्रजभ्रान्तिशान्तिः ॥ १३३ ॥

इत्थं प्रमाणत्रयं विविच्य तद्विवेकप्रयोजनमाह – मानमिति ॥ अनुमानागमयोरपि मूलत्वात् सर्वोपजीव्यं प्रत्यक्षमेव प्रथमम् । तन्मूलमनुमानं ततः । तदुभयनियतस्त्वागमः पश्चान्निश्चीयते । स चागमो द्विप्रकारः – दृष्टार्थोऽदृष्टार्थश्चेति । दृष्टार्थः कारीर्यादिप्रतिपादकः; अदृष्टार्थः स्वर्गादिसाधनप्रतिपादकः । अथवा द्विप्रकारः -प्रवृत्तिधर्मप्रतिपादको भागो निवृत्तिधर्मप्रतिपादको भाग इति । अत्राहुर्मृषावादिनः -उपजीव्यमपि प्रत्यक्षमुपजीवकेन बाध्यते, एवमनुमानेनापि; तत्प्रतिक्षिपति – मूलं न क्वापि बाध्यमिति । स्वमूलबाधे स्वस्यैव बाधेन व्याघातादित्यर्थः । कथं तर्हि प्रत्यक्षोपजीविना ज्वालाभेदानुमानेन प्रत्यक्षोपमर्द इत्याशङ्क्याह – क्वचिदिति । अयमर्थः – अधिकबलैर्विजातीयैः प्रमाणैर्मूलजातीयस्यैव बाधः क्रियते; न पुनः स्वमूलस्यैव । न हि ज्वालाभेदानुमानं ज्वालैक्यप्रत्यक्षमुपजीवति; अपि तु वर्तितैलादिसामस्त्यप्रत्यक्षम् । इयं खलु तत्रानुमानप्रक्रिया – विप्रतिपन्ना प्रदीपसामग्री स्वानन्तरभाविप्रदीपवती, प्रदीपसामग्रीत्वात् प्रथमप्रदीपसामग्रीवत् । विप्रतिपन्नः प्रदीपसामग्रीनाशः स्वानन्तरभाविप्रदीपनाशवान् प्रदीपसामग्रीनाशत्वात् चरमप्रदीपसामग्रीनाशवदिति । तत्र यत्प्रत्यक्षमनुमानेनोपजीव्यते न तद्बाध्यते; यत्तु बाध्यते न तदुपजीव्यत इति विवेकः । अतस्तैः प्रमाणैर्निपुणं निरूपितैः कर्ममालाघटितभवघटीयन्त्रजभ्रान्तेरज्ञानस्य शान्तिरित्यर्थः । अयमत्र बाध्यबाधकभावनिर्णयः – द्वयोः प्रमाणयोर्विरोधे यत् संभाव्यमानान्यथासिद्धि तद्बाध्यम्, अनन्यथासिद्धमितरद् बाधकमिति । सावकाशत्वनिरवकाशत्वाभ्याम् अन्यथासिद्ध्यनन्यथासिद्धिविवेकः । सावकाशत्वं च क्वचिदप्रमाणकोटिनिवेशात्, इदं रजतमित्यादौ । क्वचिद्विषयान्तरलाभात् ‘न हिंस्यात् सर्वाभूतानि’ इत्यादौ । निरवकाशत्वं तु तदुभयाभावेन सिध्यति नेदं रजतं, ‘पशुमालभेत’ इत्यत्र । अप्रमाणकोटिनिवेशश्च कारणदोषाद् बाधकप्रत्ययाच्च भवति । उभयं च यत्र नास्ति तत्प्रमाणमेव । अतः प्रपञ्चग्राहिणः प्रत्यक्षस्य काचकामलादिकारणदोषाभावात् काल्पनिकबाधस्य बुद्ध्यादिकल्पितबाधेन मृषावादिपक्षस्याप्युन्मूलहेतुत्वान्निर्दोषमेव प्रत्यक्षादिकमवतिष्ठत इति निर्मूलोऽयं मृषावादिवादः ॥ १३३ ॥

4.359     सर्वं संदिग्धसत्त्वं क्षणिकमगुणकं नित्यमाकस्मिकं वा

बुद्धिः कृत्स्ना न मानं निखिलमपि ततः स्यान्मृषा धीतरद्वा ।

प्रख्योपाख्यादवीयः किमपि नियतिभन्नामरूपं च नेत्या-

द्युद्वेलापार्थजल्पानपहसितुमसौ वर्णितो मानभेदः ॥ १३४ ॥

न केवलं मृषादिवादिवादस्यैकस्यैवोन्मूलनार्थं प्रत्यक्षादिप्रमाणत्रयपरिशोधनम्; सर्वेषामपि तद्गोत्रनिष्ठानां दुर्वादिनामुन्मूलनायेत्याह – सर्वमिति ॥ सर्वं सन्दिग्धसत्त्वमिति विश्वखण्डकः; क्षणिकमिति वैभाषिकसौत्रान्तिकयोगाचाराः । अगुणकमित्यपि त एव; अथवा मृषावाद्यपि । नित्यमिति सांख्याः अवस्थानामप्यनागन्तुकत्वात् । आकस्मिकमिति चार्वाकाः । बुद्धिः कृत्स्ना न मानमिति स एव खण्डकः । निखिलमपि ततः स्यान्मृषेति तद्गुरुर्माध्यमिकः । धीतरद्वे[त्यद्वैतवादी]ति चेतनावादी । प्रख्योपाख्यादवीयः किमपीति स एव माध्यमिकः । प्रख्या – बुद्धिः उपाख्या – व्यवहारः । तच्छिष्यसंप्रदायपातिनोऽन्येऽपि । नियतिमन्नामरूपं च नेत्यनेकान्तवादिनः, इत्याद्युद्वेलसप्तभङ्ग्यादिनानाजल्पानपहसितुमसौ प्रमाणभेदो वर्णितः ॥ १३४ ॥ इति प्रमाणविवेकप्रयोजनम् ॥

4.360     प्रज्ञाव्युत्पत्तिपाकव्यवहरणफलश्रेणिनिश्रेणिकाया-

मारूढा निष्प्रकम्पा प्रमितिगुणकरालम्बनात्सत्परीक्षा ।

मिथ्यालीकादिशापैरपि न न भवति प्राप्तविस्रम्भसौधा

तत्साह्याद्बाह्यपाटच्चरमुषितमिदं सद्धनं प्रत्यनैष्म ॥ १३५ ॥

इत्थं प्रमाणैरर्थपरीक्षणं कृत्वा प्रकृतमर्थं निगमयति – प्रज्ञेति ॥ अत्र प्रज्ञाव्युत्पत्त्यादिर्निश्रेणिका, तस्यामारूढा परीक्षा कथं निष्प्रकम्पा? प्रमितिगुणकरालम्बनात् । इयं परीक्षा फलप्राप्तिविस्रम्भसौधमधिरुह्य मृषावादिप्रभृतिभिरभिहितैर्मिथ्यालीकादिशापैर्न न भवति । तेषां व्यवहारः शापमात्रमेव, न युक्तियुक्तमित्यर्थः । सुरक्षितस्थलेऽवस्थिता तेषां वचनैरनर्थकैर्न न भवति । सुरक्षितपरीक्षासाह्याद्वेदबाह्यपाटच्चरापहृतं तत्त्वज्ञानरूपं सद्धनं प्रत्यनैष्मेत्यर्थः ॥ १३५ ॥ इति परीक्षाफलविशेषः ॥

॥ इति श्रीसर्वार्थसिद्धिसमेते तत्त्वमुक्ताकलापे बुद्धिसरः चतुर्थः ॥ ४ ॥

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.