[highlight_content]

तत्त्वमुक्ताकलापः सर्वार्थसिद्धिसमेतः -अद्रव्यसरः

॥अद्रव्यसरः पञ्चमः ॥ 5

4.361  तत्तद्द्रव्येषु दृष्टं नियतिमदपृथक्सिद्धमद्रव्यजातं

तद्वद्विश्वं परस्य व्यवधिनियमनान्न स्वरूपेऽस्य दोषः ।

इत्थं निर्धार्य भाव्ये भगवति विविधोदाहृतिव्यक्तिसिद्ध्यै

निर्बाधान् द्रव्यधर्मान्निरनुगतिगलद्दुर्नयान्निर्णयामः ॥ १ ॥

इत्थं द्रव्यवर्गं विचार्य अद्रव्यं विचारयिष्यंस्तद्विचारस्य प्रधानप्रयोजनमाह – तत्तदिति ॥ तेषुतेषु द्रव्येषु दृष्टं नियतिमत् – यस्य द्रव्यस्य यदुचितं तत्तत्रैव नियतमित्यर्थः । तच्च तत्रतत्रापृथक्सिद्धमद्रव्यजातम् । तद्वदेव विश्वमपि परस्यापृथक्सिद्धम् । एवं च सति विशेषणगतानां विकारदीनां व्यवधिनियमनात् – तत्तद्द्रव्यव्यवधानेन भगवद्विशेषणत्वात् न स्वरूपे भगवतो दोषः – न विकारादिसंबन्धं इत्यर्थः । इत्थं निर्धार्य भाव्ये – ध्यातव्ये भगवति विविधोदाहरणव्यक्तिसिद्ध्यै निर्बाधान् – प्रामाणिकान् बाधकप्रमाणविधुरांश्च द्रव्यधर्मान् । निरनुगतिगलद्दुर्नयान् अनुगतिः – व्याप्तिः; निरनुगतिः – अव्याप्तिः; व्याप्त्यभावेन स्वयमेव गलद्दुर्नयान्निर्णयामः ॥ १ ॥ इति अद्रव्यविचारप्रधानप्रयोजनम् ॥

5.362     व्याख्यातं द्रव्यषट्कं व्यतिभिदुरमथाद्रव्यचिन्ताऽस्य सत्ता-

धीभेदादेः पुरोक्ता निजगदुरनुपादानतां तस्य लक्ष्म ।

द्रव्यादत्यन्तभिन्नं त्विदमनुपधिकं तद्विशिष्यात् स्वभावात्

दृष्टे न ह्यस्त्ययुक्तं न कथमितरथा विश्वतत्त्वापलापः ॥ २ ॥

इत्थं द्रव्यषट्के व्याख्याते तदनुबन्ध्यद्रव्यप्रमाणादिकमुच्यत इत्याह – व्याख्यातमिति ॥ द्रव्यषट्कं – चिदचिदीश्वरधर्मभूतज्ञानकालनित्यविभूतिरूपम् । व्यतिभिदुरं -परस्परलक्षणासङ्करेण भिन्नस्वभावम् । अथाद्रव्यचिन्ता प्रवर्तते । अस्याद्रव्यस्य सत्ता बुद्धिभेदादेः प्रागेवोक्ता । तस्य चाद्रव्यस्यानुपादानत्वं लक्षणं निजगदुः – अवस्थावद् द्रव्यम्, तद्व्यतिरिक्तमद्रव्यम् । आगन्तुरपृथक्सिद्धधर्मोऽवस्थेति प्रागेवोक्तम् । इदं चाद्रव्यं द्रव्यादत्यन्तभिन्नम्, न पुनः कौमारिलजैनादिवद् भिन्नाभिन्नम् । इदं चानुपधिकं समवायादिसंबन्धाभावेन स्वभावादेव तत् – द्रव्यं विशिष्यात् । यथा समवायः स्वयं संबन्धान्तराभावेऽपि स्वभावादेव तावेव संबन्धिनौ संघटयति नान्यौ, नापि स्वयंसंबद्धः । एवमेव द्रव्याद्रव्ये स्वभावादेव विशिष्टव्यवहारमातन्वाते; अपर्यनुयोज्यत्वाद्वस्तुस्वभावानाम्, स्वभावो नाम प्रामाणिकं रूपम् । अपृथक्सिद्धविशेषणत्वेनोपलभ्यन्ते द्रव्यं प्रत्यद्रव्याणि । अन्यथा भवताऽपि कथमवश्यमेकमपराश्रितमेवावतिष्ठत इत्यादिकमुद्धुष्यते । अयमर्थः – भवता ययोरयुतसिद्ध्या समवायः कल्प्यते तयोरयुतसिद्धिरेव संबन्धः, न पुनस्तत्कल्पनीयः समवायः; कल्पनागौरवात्, स्वाभाविकापृथक्सिद्धिव्यतिरेकेण समवायस्यानुपलम्भात् । अतः स्वभावादेव द्रव्याद्रव्ययोरुपश्लेषः । न हि दृष्टेऽनुपपन्नं नाम । दृष्टापलापे विश्वमपि लोलुप्येत । दृष्टमित्येव दृष्टं तावद्गृह्यते । अनुमेयमपि दृष्टसजातीयत्वेन । तत्रापि विशेषतोदृष्टं दृष्टमेव । सामान्यतोदृष्टमपि सामान्याकारेण दृष्टमेव । अतो दृष्टानुरोधित्वमनुमानस्यापि । आगमोऽपि व्युत्पत्त्यादिसमये दृष्टमपेक्षते । इत्थं साधनसमये दृष्टानतिलङ्घनमुक्तम् । एवं दूषणसमयेऽपि दूषणमप्यभिधीयमानं दृष्टानुरोधि चेद्भवत्येव दूषणम् । न चेद्दषणमेव न भवति । व्याघातो हि सर्वदूषणानां सीमाभूमिः । स च दृष्टविरुद्धाभिधानेन ख्याप्यते । अतीतमस्ति, सर्वं मिथ्या, माता मे वन्ध्या, यावज्जीवमहं मौनीत्यादिषु व्याघातवचनं दृष्टविरोधोत्पादनमेव । अतो दर्शनानुरोधानङ्गीकारे सर्वापलापप्रसङ्गः ॥ २ ॥ इति अद्रव्यप्रमाणादि ॥

5.363     अद्रव्यं द्रव्यसिद्धौ तदुपहिततया तच्च लक्ष्येत तस्मा-

देकासिद्धौ द्वयं नेत्यपि न सदुभयान्योन्यवैशिष्टयदृष्टेः ।

आधारे द्रव्यशब्दस्तदधिकरणकेनाश्रये त्वन्यदित्थं

व्युत्पत्तिर्विश्वहृद्या न तदपलपति स्वर्गकर्णीसुतोऽपि ॥ ३ ॥

अत्र कश्चिद्विश्वापलापवादी द्रव्याद्रव्यविभागमप्यपलपति – अद्रव्यमिति ॥ द्रव्यसिद्धावेव अद्रव्यसिद्धिः; अद्रव्यस्य द्रव्यप्रतियोगित्वेन तदसिद्धावसिद्धेः । तथा द्रव्यमप्यद्रव्यसिद्धिपूर्वकमेव । अवस्थावद्द्रव्यमिति हि द्रव्यं लक्ष्यते । अवस्था चाद्रव्यमेव । तथा चान्योन्यसापेक्षत्वाद् द्रव्यमद्रव्यं च द्वयमपि न सिध्यतीति । तदेतदनुभाषितं सर्वापलापहेतुत्वादसदिति दूषयति – न सदिति । अयमभिसन्धिः – किं द्रव्याद्रव्ययोरुपलम्भानुपपत्तिरन्योन्यापेक्षयोच्यते, उत व्यवहारानुपपत्तिः? उभयमपि नास्ति; एकस्मिन्नेव क्षणे विशेषणविशेष्ययोरेकज्ञानग्रहणयोग्ययोर्विशेषणविशेष्यभावेनोपलम्भात् । तदिदमाह – उभायान्योन्यवैशिष्ट्यदृष्टेरिति । एवं व्यवहारेऽपि नान्योन्याश्रयः । व्युत्पत्त्यायत्तो हि व्यवहारः, व्युत्पत्तिश्च द्रव्याद्रव्यशब्दयोर्विशेषणविशेष्यविषययोर्युगपदेव, उपलभ्यमानयोराधाराधेययोरनयोरनुक्रमाद् द्रव्याद्रव्यशब्दौ वाचकाविति । आधाराधेयौ च युगपदुपलभ्येते; तच्छब्दौ च युगपदेव व्युत्पद्येते । अतो द्रव्याद्रव्यशब्दयोर्व्युत्पत्तौ व्यवहारे तत्प्रतिपत्तौ च परस्परपौर्वापर्याभावान्न विरोधः । तदिदमाह – आधार इति । अनाश्रये – स्वयमाश्रयव्यतिरिक्त इत्यर्थः । इयमेव हि व्युत्पत्तिः पामराणामपि व्यवहारे निदानम् । बालाः खलु विशेषणविशेष्यभावेन वस्तुस्वरूपं युगपदुपलभन्ते । अनादौ च संसारे पूर्वपूर्वव्यवहारैर्युगपदेव शिक्ष्यन्ते । अन्यथा कथमिव तेषां व्यवहारनियमः प्रवृत्तिनियमो वा? न चान्योन्याश्रयादिबिभीषिकेयं लोकव्यवहारनियमं निरोद्धुं शक्नोति । एवं व्यवहारादेव व्युत्पन्नाः पश्चाद्वाक्येनापि व्युत्पाद्यन्ते । अतो लोकदृष्टेयं व्युत्पत्तिरित्याह – व्युत्पत्तिरिति । न चात्यन्ताव्युत्पन्नाश्शास्त्रैर्व्युत्पाद्यन्ते । अपि तु लोकेनैव व्युत्पन्नाः व्युत्पत्तिविशेषपरिपूरणाय शास्त्रेष्वधिकुर्वते । अतो लोकदृष्टविशेषणविशेष्यादिविभागानुसारेण द्रव्याद्रव्यादिविभागपरिकल्पनं न्याय्यम् । अन्यथा सर्वापलापवादिनस्स्वव्याधातादिदोषोपघातेन वादित्वमेव भज्येतेति । न हि वादिनः प्रमाणप्रमेयविभागं वाच्यवाचकविभागं वा वादिप्रतिवादिविभागं वा परिहृत्य वादिना भवन्ति; न च प्रमाणनिरूपणे प्रमेयनिरूपणं प्रमेयनिरूपणे प्रमाणनिरूपणमित्यादिकं प्रलप्य वा प्रतिपद्य वा तूष्णीमासते । अतः सर्वेऽपि भेदाः सेनावनतारामण्डलादिविभागदर्शनन्यायेन युगपदुपलभ्यन्ते, युगपच्च व्यवह्रियन्ते । केवलं वाचः क्रमवृत्तित्वाद्भावाभावाधाराधेयवाच्यवाचकादिव्यवहारेषु क्रमोपलम्भः । अभावो हि क्वचिद् भावपूर्वकोपलम्भेऽपि योग्यदशायां युगपदेवोपलभ्यते । यथा घटसद्भावासद्भावविशिष्टभूतलयोर्युगपदिन्द्रियसन्निकर्षे केवलं घटाभावोल्लेखनं घटोल्लेखननान्तरीयकमित्यविनाभावात्प्रतियोगिग्रहणसध्रीची प्रतीतिः न पुनः प्रतियोगिग्रहणस्य पूर्वभावित्वनिर्बन्धः । एवं चौपाधिकसंबन्धानां विशेषणविशेष्यभावप्रमाणप्रमेयभाववाच्यवाचकभावादीनां निर्वाहाभावेऽप्यन्ततो दूष्यदूषणभावमपि निर्वोढुं न शक्नोति दुर्वैतण्डिकः । अतो लक्ष्यलक्षणादिखण्डनचण्डचण्डमारुतो व्याघातशेषफणिमुखसहस्रेण परिपीतो जाठरदहनेन भस्मीभवतीति सर्वमवदातम् । स्वर्गकर्णीसुतोऽपि – अत्रत्या लुण्टाकाः शून्यवादिप्रभृतयः, अतोऽपि विशिष्टो यद्यस्ति स्वर्गवासी सोऽपीति भावः ॥ ३ ॥

5.364     सामान्यात्मा विशेषाकृतिरपि यदि न स्वीकृतो धर्भवर्गः

स्यातां न भ्रान्तिबाधौ न किमपि कथकास्साधयेयुः स्वसाध्यम् ।

यस्मिन् बाधानवस्थे क्वचन न खलु तं नीतिरन्यत्र दृष्टे

नो चेन्निश्शेषकुक्षिम्भरिरुपनिपतन् दुस्तरश्शून्यपक्षः ॥ ४ ॥

धर्मधर्मिभावानङ्गीकारे सकललोकव्यवहारविरोध इत्यद्रव्यवर्गस्य सर्वैर्दुरपह्नवत्वं द्रढयति – सामान्यात्मेति ॥ यदि सामान्यात्मा विशेषाकृतिश्च न स्वीकृतो धर्मवर्गस्सामान्याभावाद्भ्रान्त्यभावः; विशेषाभावाद्बाधाभावः । तदुभयाभावे कथका वादिनः स्वसाध्यमपि न साधयेयुः । एक एव धूमवत्त्वादिको हेतुः पक्षसपक्षयोस्सामान्यम्; विपक्षाच्च विशेषः । इत्थं साधर्म्यवैधर्म्यात्मानस्सर्वे धर्माः, तानेवावलम्ब्य साध्यसाधनभावो बाध्यबाधकभावश्च प्रवर्तते । अन्यथा मौनमेव शरणं वादिनामिति भावः । ननु यथा द्वितीयसत्ताभेदादिपरिकॢप्त्यभावेऽपि व्यवहारनिर्वाहः, एवं प्रथमसत्ताभेदादिपरित्यागेऽपि व्यवहारनिर्वाहः स्यात्; तथा च सर्वधर्मोच्छेद इति कश्चिदाह । तं प्रतिक्षिपति – यस्मिन्निति । अयमर्थः – द्वितीयसत्ताभेदादिकॢप्तावनुपलम्भस्तावद्बाधकः, अनवस्था च । तन्नीतिरन्यत्र दृष्टे – प्रत्यक्षदृष्टे प्रथमसत्ताभेदादौ न भवति; अनुपलम्भबाधाभावात्, अनवस्थाप्रसञ्जकत्वाभावाच्च । सजातीयापेक्षायामेवानवस्था न तूपलब्धस्य प्रथमस्यापि स्वीकारे । अतः प्रथमधर्मापलापः कर्तुं न शक्यत इत्यर्थः । यस्मिन्क्वचन द्वितीयसत्तादौ बाधानवस्ये भवतः, न तन्नीतिरन्यत्र दृष्टे प्रमाणप्रतिपन्ने प्रथमसत्तादावपीति शब्दयोजना । इत्थं प्रथमस्यापि धर्मस्यानङ्गीकारेण सर्वधर्माणां सांवृतत्वकल्पने धर्म्यपलापोऽपि तेनैव सांवृतत्वेन कल्पयितुं शक्यत इति शून्यवाद एव परिशिष्येतेत्याह – नो चेदिति ॥ ४ ॥

5.365     चादीनां वृत्तियोग्यं यदुत पदविदोऽसत्त्वमद्रव्यमाहु-

र्नैतावत्तन्मृषात्वं गमयति न च तद्बाधकं किंचिदस्ति ।

तात्पर्यं चान्यदत्र स्फुटविदितमतस्तत्र सत्त्वेतरत्वा-

दन्यः कश्चिन्नञर्थः परमिह निपुणैर्द्योतकत्वादि चिन्त्यम् ॥ ५ ॥

ननु सत्त्वं द्रव्यमसत्त्वमद्रव्यमिति पदविद्भिरभिहितत्वादद्रव्याणां मृषात्वमिति यदि कश्चिन्मनुते तदमनूद्य प्रतिक्षिपति – चादीनामिति ॥ कुत इत्यत आह – च तदिति । बाध एव ह्यसत्त्वे कारणम्; न च चाद्यर्थानां समुच्चयादीनां बाधोऽस्ति । तदभावेऽपि तन्मिथ्यात्वे सर्वपदार्थानां मिथ्यात्वं स्यादिति भावः । कस्तर्हि पदविदां वाक्याभिप्राय इत्यत्राह – तात्पर्यमिति । किं तत्तात्पर्यमित्यत्र सामान्येन तात्पर्यार्थमाह – अत इति । प्रमाणबलात् सत्त्वेतरत्वादन्यत्रैव तात्पर्यमिति सामान्यतो निर्णीतमित्यर्थः । तात्पर्यविशेषं प्रकाशयति – परमिहेति । द्योतकत्वादि चिन्त्यम् – चादीनां द्योतकत्वमन्येषां वाचकत्वम्; यत् द्योत्यं तस्य विशेषणसंबन्धानर्हत्वम्; यद्वाच्यं तस्य विशेषणसंबन्धार्हत्वमित्यादिविभागो यथाप्रमाणं चिन्तनीयः । अतोऽसत्त्वशब्दकथनमात्रादद्रव्याणां मिथ्यात्वप्रसङ्गाभाव इत्यर्थः ॥ ५ ॥

5.366     आहुर्द्रव्येषु धर्मान् कतिचन गुणपर्यायवैषम्यभिन्नान्

पर्यायाणां गुणत्वे स्थितवति सहजागन्तुतामात्रमेतत् ।

मिथ्याभूतान् विकारानभिदधति परे सत्यरूपान् स्वभावान्

तानेकद्व्यादिरूपानभिदधतु कथं निर्गुणानां क्षणानाम् ॥ ६ ॥

अत्र क्षपणका गुणपर्यायभेदेन गुणानेव विभजन्ते; तन्न युक्तमित्याह – आहुरिति ॥ सहजागन्तुतामात्रमेतदिति । सहजा धर्मा गुणा इत्युच्यन्ते, आगन्तवः पर्याया इति क्षपणकपरिभाषा । गुणत्वे तुल्ये किमनेन विशेषकथनेनेत्यर्थः । बौद्धास्तु केचित् सर्वानप्यवस्थाभेदान् गुणशब्दाभिधेयान्मिथ्याभूतानभिदधति । तेष्वेवापरे सत्यभूतान् स्वभावांस्तांश्चैकद्व्यादिरूपान् – रूपरसगन्धस्पर्शस्वभावा पृथिवी, रूपरसस्पर्शस्वभावं जलम्, रूपस्पर्शस्वभावं तेजः, स्पर्शस्वभावो वायुरिति । एतत्सर्वं निर्गुणानां न घटत इत्याह – अभिदधत्विति । आरोपो हि सगुणेष्वेव; तिरोहितातिरोहितस्वरूपसापेक्षत्वात् । रूपरसादीनां स्वभावमात्रत्वे धर्मधर्मिणोर्भिन्नेन्द्रियग्राह्यत्वविरोधात्, भिन्नेन्द्रियग्राह्याणां रूपरसादीनां बहूनां स्वभावानामेकवस्त्वात्मकत्वे बहुविरोधसंकलनाच्च सगुणत्वमेव न्याय्यमिति द्रव्याद्रव्यविभागोऽनतिलङ्घनीय इत्यर्थः ॥ ६ ॥

5.367     बाह्येऽर्थे बौद्धतोकाः किल जननजराभङ्गरूपान् विकारा-

नाद्यन्तौ चित्तचैत्तेष्वपि जगदुरमी तत्स्वरूपं न वा स्युः ।

पूर्वस्मिन्नक्रमः स्यादुपरि तु न कथं तस्य धर्मास्त एते

तन्मिथ्यात्वे तु नित्यं निखिलमपि भवेत्तुच्छमेवान्यदा स्यात् ॥ ७ ॥

बाह्यार्थ इति ॥ अत्र केचित् बौद्धाभासा बाह्यार्थेषु जननजराभङ्गरूपान् विकारानाहुः । चित्तचैत्तेषु जननभङ्गावेव द्वौ विकारौ । तत्र विकल्पनीयम् – एतद्विकारजातं वस्तुनः स्वरूपं, धर्मो वा? तत्र पूर्वस्मिन् पक्षे जननादीनां क्रम एव न स्यत् । न हि स्वरूपं क्रमेण भवति; स्वरूपत्वव्याघातात् । उत्तरत्र धर्मधर्मिभावं स्वयमेव वदसीत्याह – उपरीति । तर्हि जननादयो मिथ्येति चेन्नेत्याह – तन्मिथ्यात्व इति । जननादीनां मिथ्यात्वे तस्य वस्तुनो नित्यत्वमेव स्यात्; यदि वा तुच्छत्वमिति । यथाऽहुः – ‘नित्यं सत्त्वमसत्त्वं वाऽहेतोरन्यानपेक्षणात् । अपेक्षातो हि भावानां कादाचित्कत्वसभवः’ ॥ इति । अत्राहेतोरित्युपलक्षणम्; अजननस्येत्यर्थः, हेतोरपि जनन एवोपयोगात् । अन्यथा जननादीनां मिथ्यात्वे सत्येकदा नित्यत्वम्; अन्यदा तुच्छत्वमेवेत्यर्थः । स्यादेव न स्यादेव वा नतु कदाचित्स्यादिति ह्याहुः ॥ ७ ॥ इति अद्रव्यवर्गस्य सर्वैर्दुरपह्नवत्वम् ॥

5.368     आदावैक्येन बुद्धिर्द्वयमपि मिलितं गृह्णती व्यक्तिजात्यो-

भैदाभेदाविरोधं दिशति यदि न तत्तद्विशिष्टैक्यबुद्धेः ।

इत्थंत्वेदंत्वशून्यं न हि किमपि कदाऽप्यर्भकोऽपि प्रतीया-

त्तद्वैशिष्ट्यप्रतीतिर्निरुपधिरपृथक्सिद्धिमात्रेण सिध्येत् ॥ ८ ॥

एवमद्रव्यं साधयित्वा द्रव्यादव्ययोर्भेदाभेदवादस्याप्रामाणिकत्वमाह – आदाविति ॥ प्रथमपिण्डग्रहणेषु भेदेनाप्रत्ययात्, मत्वर्थीयप्रत्ययनिरपेक्षसामानाधिकरण्यात्, सहोपलम्भनियमात्, एकशब्दानुविद्धप्रत्ययाच्च भेदाभेदं समर्थयन्ते । तत्र भेदाभेदयोः किं प्रत्यक्षगम्यत्वमुतानुमानगम्यत्वमिति विकल्प्य प्रत्यक्षगम्यत्वपक्षमनुवदति, गौरयमित्यैक्येन बुद्धिरुत्पद्यमाना मिलितामेव जातिं व्यक्तिं च गृह्णती भेदाभेदयोर्विरोधमुपशमयतीति । तन्निराचष्टे – न तदिति । तत्र हेतुमाह – तद्विशिष्टेति । तद्विवृणोति – इत्थंत्वेति । इदमित्थमिति हि सर्वा प्रतीतिरुपजायते । तत्रेदमंशो धर्मी इत्थमंशो धर्मः । अर्भकेऽपीति । बालिशादपि बालिशो भवानित्यर्थः । कथं तर्ह्यत्यन्तभिन्नयोर्धर्मधर्मिणोर्वैशिष्ट्यप्रतीतिः? समवायाङ्गीकारे चापसिद्धान्तप्रसङ्गादित्याशङ्क्याह – तदिति । तत् – तस्मात् । निरुपधिः उपाधित्वेन स्वीकृतसमवायाभावेऽपि स्वाभाविकापृथक्सिद्धिमात्रेण वैशिष्ट्यप्रतीतिः सिध्येदिति ॥ ८ ॥ इति प्रत्यक्षभेदाभेदभङ्गः ॥

5.369     व्यक्त्या जातेरभेदं यदि वदसि पृथक्सिद्ध्यभावादिलिङ्गै-

र्भेदाभावोऽक्षबाध्यस्तव च न हि मतो नान्यथाऽत्रास्य युक्तिः ।

धर्म्यैक्यादेकवाक्स्यान्न तु भवति ततो धर्मधर्म्यैक्यबुद्धि-

स्तद्बोधश्चाप्युपाधिर्न स इह भवता दृश्य इत्यभ्युपेते ॥ ९ ॥

लिङ्गादपि भेदाभेदवादो न सिध्यतीति वक्तुं परोक्तानुमानान्यनुवदति – व्यक्त्येति ॥ पृथक्सिद्ध्यभावादिलिङ्गैः – सहोपलम्भनियमादिलिङ्गैः । धर्मधर्मिणोरभेदः कालात्ययापदिष्ट इत्याह – भेदाभाव इति । तवाप्ययं दोषोऽभिमत इत्याह – तव चेति । अन्यथा सहोपलब्धिनियमयुक्तिरेव न स्यादित्याह – नान्यथेति । साहित्यं भेद एव नियतम्, अभेदगन्धमपि न सहत इति भावः । कथं तर्हि मत्वर्थीयप्रत्ययनिरपेक्षसामानाधिकरण्यमित्याशङ्क्य सामानाधिकरण्यलक्षणानुरोधे[न]नैव परिहरति – धर्म्यैक्यादिति । न पुनस्सामानाधिकरण्यात् धर्मधर्मिणोरैक्यबुद्धिरित्याह – न तु भवतीति । यत्र पुनरैक्यं तत्र तद्बुद्धिरेव उपाधिः; न स इह – बुद्धिरूपोपाधिर्नास्तीत्यर्थः । नन्वदृश्यविषये बुद्धिमन्तरेणाप्यर्थोऽस्ति, तत्कथं बुद्ध्यभावादर्थाभाव इत्याशङ्क्याह – भवता दृश्य इत्यभ्युपेत इति । दृश्यत्वेनैव हि भवता धर्मधर्मिणावुभावपि परिगृह्येते । तथा च धर्मधर्मिणोरैक्यमपि यद्यस्ति योग्यत्वादुपलभ्येत; न चोपलभ्यते, तस्मान्नास्ति । एतेनैवैकशब्दानुविद्धप्रत्ययोऽपि निरस्तः; एको दण्डीतिवत् एकशब्दस्य विशिष्टविषयत्वादिति ॥ ९ ॥ इति अनुमेयभेदाभेदभङ्गः ॥

5.370     सत्त्वान्नैकान्तमाहुर्विमतमितरवत् केऽपि तद्धीविरुद्धं

न ह्यत्राकारभेदात् परिहृतिरनवस्थानदोषप्रसङ्गात् ।

स्वव्यापारोक्तिचर्यासमयनियतयोऽप्येवमेवाकुलाः स्यु-

र्दृष्टान्तेऽपि ह्युपाधिद्वयवति नियतस्थौल्पसौक्ष्म्यादियोगः ॥ १० ॥

अत्रानेकान्तवादी प्रत्यवतिष्ठते – सत्त्वादिति ॥ सर्वमनेकान्तं सत्त्वात् घटाकाशमहाकाशवदिति । तत्प्रतीतिविरुद्धमित्याह – तद्धीविरुद्धमिति । सामान्याकारेणाभेदः व्यक्त्याकारेण भेद इति विरोधं परिहराम इत्याशङ्क्य निराकरोति – नहीति । कुत इत्यत आह – अनवस्थानेति । व्यक्तीनामभेदनिर्वाहार्थं जातिः परिगृह्यते । जातिव्यक्त्योरत्यन्तविरुद्धस्वभावयोरभेदनिर्वाहार्थं धर्मान्तरस्वीकारेऽनवस्था । अस्वीकारे विरुद्धाकारेण प्रतिभासमानयोः कथमभेदः? उक्तार्थबाधकाननिष्टप्रसङ्गानाह – स्वव्यापारेति । सर्वत्रानेकान्तवादे व्यापारनियमो व्यवहारनियमस्सिद्धान्तनियम इत्यादयस्सर्वे नियमा व्याकुलीभवेयुः । आकाशेऽपि घटकरकाद्यवच्छेदकभेदेनैव स्थूलसूक्ष्मादिव्यवहारः । तत्रोपाधीनां भिन्नत्वमेव, उपाधिमतः पुनरभिन्नत्वमेव; केवलमुपाधिगतो भेद उपाधिमत्पर्यन्तमुपाधिद्वारेण व्यवह्रियत इति न विरोधः ॥ १० ॥

5.371     स्यादस्ति स्याच्च नास्ति द्वितयमनुभयं स्यात्त्रिभिश्चान्तिमं त्रि-

स्सैषोक्ता सप्तभङ्गी जिनसमयजडैर्द्रव्यपर्यायवर्गे ।

इष्टां सार्वत्रिकीं तां स्वपरमतकथातत्फलादौ विवक्षन्

कक्षीकुर्वीत धूतः कथकपरिषदा कां दिशं कान्दिशीकः ॥ १२ ॥

इत्थमनेकान्तवादप्रतिक्षेपमसहमानोऽनेकान्तवादी सप्तभङ्गी पुरस्कुरुते । ‘स्यादस्ति, स्यान्नास्ति, स्यादस्ति च नास्ति च, स्यादस्ति नास्ति विलक्षणम्, अस्ति स्यादस्ति नास्ति विलक्षणम्, नास्ति स्यादस्ति नास्ति विलक्षणम्, अस्ति च नास्ति स्यादस्ति नास्ति विव्यणमिति सप्तभङ्ग्या संवलितमेव विश्वमिति । द्रव्यं हि वस्तुस्वरूपम् । पर्यायश्चागन्तुकधर्मः । द्रव्यपर्यायात्मना सदसद्रूपे च जगति सर्वमपि रूपमन्वयव्यतिरेकाभ्यां संघटत इति । तदिदमनुभाषते – स्यादस्तीति ॥ स्यात्त्रिभिश्चान्तिमं त्रिरिति । अन्तिमम् – अनुभयं त्रिभिः – स्यादस्तीत्यादिभिस्त्रिभिः प्रत्येकमन्वितमित्यर्थः । अस्ति नास्ति विलक्षणं प्रत्येकं स्यादस्तीत्यादिभिस्त्रिभिरन्वितमिति पक्षत्रयम् । पूर्वं चत्वारः पक्षाः । अतस्सप्तभङ्गी । सैषा सप्तभङ्गी द्रव्यपर्यायवर्गेऽनेकान्तवादिभिरुक्ता । जिनसमयजडैरिति । अस्यार्थस्य उपक्षेप एव वक्तॄणां जाड्यं प्रकटयतीत्यर्थः । अत्रोत्तरमाह – इष्टामिति । अनियतार्थोपपादनस्वभावामेनां सप्तभङ्गी विवक्षन् परस्परविरुद्धभाषणेन विद्वद्भिर्न्निष्कासितः शुष्कतर्कवादी कान्दिशीकः – भयद्रुतः कां दिशं कक्षीकुर्वीत – न कांचिदपि दिशं प्राप्नुयादित्यर्थः । अनियतवादिनां हि स्वपक्ष एव परपक्षः; दूषणमेव भूषणम्; विजय एव पराजयः; व्यवहार एव मौनमिति सर्वो व्याघातस्संपनीपद्येतेति भावः ॥ १२ ॥ इति सप्तभङ्गीभङ्गः ॥

5.372     स्यादस्ति स्याच्च नास्ति द्वितयमनुभयं स्यात्त्रिभिश्चान्तिमं त्रि-

स्सैषोक्ता सप्तभङ्गी जिनसमयजडैर्द्रव्यपर्यायवर्गे ।

इष्टां सार्वत्रिकीं तां स्वपरमतकथातत्फलादौ विवक्षन्

कक्षीकुर्वीत धूतः कथकपरिषदा कां दिशं कान्दिशीकः ॥ १२ ॥

इत्थमनेकान्तवादप्रतिक्षेपमसहमानोऽनेकान्तवादी सप्तभङ्गी पुरस्कुरुते । ‘स्यादस्ति, स्यान्नास्ति, स्यादस्ति च नास्ति च, स्यादस्ति नास्ति विलक्षणम्, अस्ति स्यादस्ति नास्ति विलक्षणम्, नास्ति स्यादस्ति नास्ति विलक्षणम्, अस्ति च नास्ति स्यादस्ति नास्ति विव्यणमिति सप्तभङ्ग्या संवलितमेव विश्वमिति । द्रव्यं हि वस्तुस्वरूपम् । पर्यायश्चागन्तुकधर्मः । द्रव्यपर्यायात्मना सदसद्रूपे च जगति सर्वमपि रूपमन्वयव्यतिरेकाभ्यां संघटत इति । तदिदमनुभाषते – स्यादस्तीति ॥ स्यात्त्रिभिश्चान्तिमं त्रिरिति । अन्तिमम् – अनुभयं त्रिभिः – स्यादस्तीत्यादिभिस्त्रिभिः प्रत्येकमन्वितमित्यर्थः । अस्ति नास्ति विलक्षणं प्रत्येकं स्यादस्तीत्यादिभिस्त्रिभिरन्वितमिति पक्षत्रयम् । पूर्वं चत्वारः पक्षाः । अतस्सप्तभङ्गी । सैषा सप्तभङ्गी द्रव्यपर्यायवर्गेऽनेकान्तवादिभिरुक्ता । जिनसमयजडैरिति । अस्यार्थस्य उपक्षेप एव वक्तॄणां जाड्यं प्रकटयतीत्यर्थः । अत्रोत्तरमाह – इष्टामिति । अनियतार्थोपपादनस्वभावामेनां सप्तभङ्गी विवक्षन् परस्परविरुद्धभाषणेन विद्वद्भिर्न्निष्कासितः शुष्कतर्कवादी कान्दिशीकः – भयद्रुतः कां दिशं कक्षीकुर्वीत – न कांचिदपि दिशं प्राप्नुयादित्यर्थः । अनियतवादिनां हि स्वपक्ष एव परपक्षः; दूषणमेव भूषणम्; विजय एव पराजयः; व्यवहार एव मौनमिति सर्वो व्याघातस्संपनीपद्येतेति भावः ॥ १२ ॥ इति सप्तभङ्गीभङ्गः ॥

5.373     भेदे वस्तुस्वरूपे भ्रम इह न भवेद्धर्मपक्षेऽनवस्था

स्याद्वाऽन्योन्याश्रयादिस्तदयमनृत इत्युक्तिबाधादिदुःस्थम् ।

धर्मः क्वापि स्वरूपं क्वचिदिति च यथादृष्टि नोक्तप्रसङ्गौ

यद्दृष्ट्या यत्र यस्याध्यसनपरिहृतिस्सोऽस्य तस्मात्तु भेदः ॥ १३ ॥

इत्थं भेदाभेदवादे निरस्ते भेदोऽपि तद्वदेव निरस्यतामिति वदतः परपक्षवादिनः पक्षमनुवदति – भेद इति ॥ तन्निराकरोति – उक्तीति; अयमत्र पूर्वपक्षसिद्धान्तयोरनुक्रमः – किं भेदो वस्तुनः स्वरूपम्? अथवा धर्मः? यदि स्वरूपम्, स्वरूपभूते भेदे गृहीते सत्यध्यासो न स्यात् । अथ न गृह्यते, तथाऽप्यध्यासो न स्यात्; धर्मिग्रहणमन्तरेणाध्यासाभावात् । तथा च स्वरूपभूतभेदस्य ग्रहणाग्रहणयोरध्यासाभाव इति स्वरूपभेदवादनिरासः । किंच स्वरूपस्यैव भेदत्वे स्वरूपं भेद इति व्यवह्रियेत, न पुनर्भिन्नमिति; स्वरूपस्य प्रतियोगिनिरपेक्षत्वात्, भेदस्य तत्सापेक्षत्वाच्च । विरुद्धधर्माध्यासोऽपि स्वरूपभेदवादमपाकरोति । नापि धर्मो भेदः; तस्य धर्मिप्रतियोगिभ्यामभेदे व्याघातः; धर्मधर्मिभावादेर्भेदनिष्ठत्वात् । भेदे पुनरात्मनैव भेदाङ्गीकारे तावदात्माश्रयः । द्वितीयभेदमङ्गीकृत्य परस्परभेदकत्वकथने परस्पराश्रयः । तृतीयादिभेदमङ्गीकृत्य परिवर्तने चक्रकम्; उत्तरोत्तरमपि धावने अनवस्था । उत्तरोत्तरभेदानां पूर्वपूर्वभेदेभ्यो भेदानङ्गीकारे द्वितीयादीनां भेदानां प्रथमभेदाद्व्यतिरेकाभावेन तदङ्गीकारानङ्गीकारयोरविशेष इति धर्ममेदोऽपि दुर्वचः । किंच किं धर्मिप्रतियोगिग्रहणपूर्वको भेदग्रहः, उत स्वतन्त्रः? यदि स्वतन्त्रः; भेदग्रहणमेव तन्न स्यात्, कस्य कस्मात् भेद इति । यदि धर्मिप्रतियोगिग्रहणपूर्वकः, तत्रापि विकल्पयामः, किं धप्रितियोगिनौ परस्परविलक्षणत्वेन गृह्यमाणौ तथा भवतः? उताविलक्षणत्वेन? यद्यविलक्षणत्वेन, घटाद्धटो भिन्न इत्येव स्यात् । न च तद्युक्तम् । विलक्षणत्वेन चेदन्योन्याश्रयकुक्षिनिक्षेपणेन निर्दह्यते भेदवादः; भेदे गृहीते सति धर्म्यादिग्रहणम्, तद्ग्रहणे सति भेदग्रहणमिति । अत्रोत्तरम् – उक्तिबाधादिदुःस्थमिति । अयमत्र भावः – यस्तु भेदस्स्वरूपं धर्मो वेति विकल्पयति स पुनस्तृतीयकोट्यङ्गीकारेण विकल्पयति? किं वा तदनङ्गीकारेण विकल्पयति? यद्यङ्गीकारेण अयावत्संभवी तावदयं विकल्पयतीति न्यूनं नाम निग्रहस्थानम् । संभवन्ति च स्वरूपधर्मव्यतिरिक्तास्सहस्रमप्यर्थाः; न हि घटस्य स्वरूपं नापि धर्मः पटकुड्यसकुसूलादयः । तृतीयकोटितयाऽपि भेदं वदन्ति भेदवादिनः; ज्ञानाभावसंबन्धानां विषयप्रतियोगिसंबन्धिभिरेव व्यावृत्तव्यवहारात्, तेषामपि भेदलक्षणलक्षितत्वस्य भवद्भिरप्यङ्गीकार्यत्वात् । यदि तृतीयकोट्यनङ्गीकारेण वैयर्थ्याद्विकल्पयति, तथाऽपि तर्काभासोऽयं प्रसङ्गः; स्वरूपं चेदेवं स्यात्; न चैवम्, तस्मान्न स्वरूपम् । धर्मश्चेदेवं स्यात्; न चैवम्, तस्मान्न धर्म इति परस्परविरुद्धयोस्तर्कयोर्विपर्यये पर्यवसानं यद्यस्ति तदा मिथो विरोधात्तर्काभासत्वम् । यदि नास्ति तथाऽपि तर्काभासत्वम्; विपर्यये पर्यवसानाभावेनाङ्गशून्यत्वात् । उभयोरपि तृतीयकोटौ पर्यवसानमस्त्विति चेत्, अहो नु भवानात्मोक्तमेव प्रस्मरति! तृतीयकोट्यसद्भावेन हि भवानालपति । यदि कोट्यन्तरमस्ति, अस्माकमपि तद्रपेणोपतिष्ठतां भेदः । अतो न भेदतत्त्वापलापः । तथा च न विवक्षितार्थसिद्धिः । स्वरूपं चेदध्यासानुपपत्तिः स्यादिति भवतां मूलशैथिल्पम्, अनृतजडपरिच्छिन्नव्यावृत्तीनां ब्रह्मस्वरूपत्वेऽपि भवद्भिरेव प्रपञ्चाध्यासाङ्गीकारात् । व्यावृत्तीनां धर्मत्वे भवतैव धर्मभेदवादोऽङ्गीकृत इति धर्मभेदवादप्रतिक्षेपकाणां तर्काभासानामङ्गान्यतमवैकल्यं भवतैव प्रतिपादितं स्यात् । आस्तामयं तर्काभासप्रसङ्गः; प्रतिबन्द्याऽपि दूषयामः । अभेदः स्वरूपं, धर्मो वा? धर्मश्चेदनवस्था, स्वरूपात्रिक्तस्य धर्मस्याभेदत्वव्याघातश्च । आत्माश्रयान्योन्याश्रयचक्रकाश्रयाद्यभिधानमस्माभिरप्यत्राभिधातुं शक्येत । स्वरूपं चेदभेदः; अभेदो ब्रह्मेति स्यात्, न पुनरभिन्नं ब्रह्मेति । किंचाभेद[रूपस्य नित्यस्वभावत्वेन] स्वरूपस्य नित्यस्वप्रकाशत्वेन भेदप्रपञ्चाध्यासो न स्यात् । स्वरूपान्तरमभेद इति चेद्भेदवादमेवोद्गिरसि । किंच स्वस्य रूपं स्वरूपमिति यदि वदसि, सोऽपि च भेद एवावसीयते । स्वमेव रूपमिति वचने स्वरूपातिरिक्ताभेदानभिधानादध्यासानुपपत्तिस्तदवस्थैव । अतो भेदवदभेदस्यापि त्वदुक्तेनैव दूषणकलापेन दुर्निरूपत्वात्स्वरूपधर्मयोर्भेदत्वानुपपत्तिरिति रिक्तं वचः । कस्तर्हि भेदः? अनृतजडपरिच्छिन्नव्यावृत्तीनां स्वरूपत्वे स्वरूपभेदवादमङ्गीकृत्य मूकीभव; धर्मत्वे पुनर्धर्मभेदवादमङ्गीकुर्वन् निर्वैरमेव संचर । अथापि कथं भेदस्य भेदाभावे स्वरूपसिद्धिरिति चेत्, स्वस्य स्वयमेव भेदः, स्वपरनिर्वाहकत्वात्; यो हि यत्र यदध्यासविरोधी स तस्माद्भेदः । तथा च स्वाश्रये पटादावध्यासविरोधी शौक्ल्यादिधर्म एव स्वस्मिन्नपि कार्ष्याद्यध्यासविरोधित्वात्स्वस्यापि स्वयमेव भेदः । तथा च धर्मिप्रतियोगिभ्यामपि शौक्ल्यादेः स्वरूपमेव भेदः; स्वरूपस्यैव स्वात्मनि तत्तदध्यासविरोधित्वात् । यत्पुनरुक्तम् – भेदग्रहणस्य धर्मिप्रतियोगिग्रहणपूर्वकत्वात्परस्पराश्रय इति, तदपि चानिरूपकाणामाघोषणम् । घटपटौ हि गृह्यमाणौ युगपदेव घटत्वपटत्वाश्रयावेव गृह्येते । तावेव धर्मौ भेदौ, इतरेतराध्यासविरोधित्वात् । स्वस्मिन्नपि तत्तदध्यासविरोधित्वात् स्वात्मनोरपि भेदस्तावेव । अतो नान्योन्याश्रयणशङ्काऽप्यङ्कुरति । कथं तर्हि प्रतियोगिनिरपेक्षाणां धर्माणां भेदत्वमिति चेत्; इत्थम् – यदा क्रत्वकृष्णत्वादयः स्वरूपेण प्रतीतिविषयाः परस्पराध्यासं व्यावर्तयन्ति, तदा शुक्लत्वकृष्णत्वादय इति व्यवह्रियन्ते । कुर्वन्ति चाध्यासनिवृत्तिं तेनैव स्वरूपेण । यदा पुनरध्यासनिवर्तकत्वरूपधर्मान्तरवैशिष्ट्येन व्यवह्रियन्ते, तदा भेदा इत्युच्यन्ते । तेन तेषामेव धर्माणां [वस्तु] स्वरूपेण व्यवह्रियमाणानां न प्रतियोगिसापेक्षत्वम्; अध्यासनिवर्तकत्वरूपधर्मान्तरवैशिष्ट्येन व्यवह्नियमणानां प्रतियोगिसापेक्षत्वमिति न कश्चिद्विरोधः । यथा घटे दण्डादीनां व्याप्रियमाणानां दण्डादिव्यवहारे न प्रतियोग्यपेक्षा, घटकारणत्वव्यवहारे प्रतियोग्यपेक्षेति । एतेन ग्राहकानुपपत्तिप्रलापोऽपि दूरोत्सारितः; जात्यादीनामेव भेदत्वात्, तेषां वस्तुना सह युगपदेव ग्रहणेन स्वरूपभेदयोर्ग्रहणपौर्वापर्याभावात् । अतः प्रत्यक्षमेव युगपदुभयं गृह्णाति । अतो भेदस्य न विकल्पग्राह्यत्वम् । तदिदं सर्वमभिप्रेत्याह – धर्भः क्वापीति । घटादीनां धर्मो भेदः स्वरूपम् । क्वचित् भेदे पुनः स्वरूपमेव भेदः । यथादृष्टि – यथादर्शनमित्यर्थः । तेन नोक्तप्रसङ्गौ – न स्वरूपभेददूषणम्, नापि धर्मभेददूषणम् । उक्तस्यार्थस्योपपत्त्यर्थं भेदलक्षणमेव परिशोधयति । यस्य दृष्ट्या यत्र यदध्यासनिवृत्तिः स तस्य तस्मात् भेद इति । अतः शौक्ल्यादिरसाधारणो धर्म एव भेदः । अतस्तदतिरिक्तभेदकल्पनमल्पबुद्धीनां कल्पनागौरवहेतुत्वादनादरणीयमेवेति भावः । तदयं संक्षेपः – भेदप्रतीत्यपलापे तवापसिद्धान्तः, प्रतीत्यभावे कथं बाधार्थं प्रयतसे? तत्कारणापलापे भेदप्रतीतेः कार्यत्वमेव परिपन्थि; न ह्यकारणं कार्यमुत्पद्यते । कारणनिरूपणापलापे कार्यविशेष एव कारणविशेषं निरूपयति; तत्तत्कार्यविशेषसमुचितत्वेनैव कारणविशेषस्य प्रतीतेः । भेदप्रतीतेर्विषयापलापे भेदप्रतीतिर्निर्विषयेति व्याघातः; प्रतीतेस्सविषयत्वनियमात् । न हि निर्विषयं ज्ञानमिति जाघटीति । विपरीतज्ञानमपि सविषयमेव; अपि तु बाधितविषयमिति विशेषः । अतो भेदज्ञानस्य विषयबाधोपपादनमेव तवावशिष्यते । तत्र प्रत्यक्षेण बाधोपपादने सर्वस्यापि प्रत्यक्षस्य सविशेषविषयत्वान्न बाधकत्वम् । अनुमानं चेत्सुतरां सविशेषविषयमेव; पक्षहेतुदृष्टान्तसाध्यत्ज्ञानादिबहुभेदसंवलितत्वात् । आगमोऽपि पदपदार्थवाक्यवाक्यार्थादिभेदगर्भः । एवं तर्कोऽपि व्याप्याङ्गीकारे व्यापकानिष्टप्रसञ्जनम्, व्याप्यव्यापकभावश्च भेदात्मक एव, अङ्गपञ्चकोपेतत्वाच्च । अतो भेदखण्डनप्रसङ्ग एव भेदमुपपादयति । एतेन प्रत्यक्षं धर्मिग्राहि? उत भेदग्राहि? उतोभयग्राहि? स्वरूपग्राहित्वेऽस्मत्पक्ष एव । भेदग्राहित्वे धर्मिप्रतियोगिसापेक्षस्य भेदग्रहणस्य तद्ग्रहणमन्तरेण ग्रहणं न स्यात् । उभयग्राहित्वेऽपि युगपदुभयग्राहि वा, क्रमेण वा? युगपद्ग्रहणं न संभवति; ‘सापेक्षनिरपेक्षयोर्यौगपद्यायोगात् । क्रमेणोभयग्राहित्वेऽपि भेदपूर्वकं धर्मिग्रहणं न संभवति; सापेक्षस्य पूर्वभावित्वायोगात् । धर्मिग्रहणस्य पूर्वभावित्वे तस्मिन्नेव क्षणे प्रत्यक्षस्य नष्टत्वात् न तद्भेदग्राहकम् । न च प्रत्यक्षान्तरं भेदग्राहकम्; परस्परवार्तानभिज्ञत्वात् । अतो भ्रान्तिरेवाप्रत्यक्षं चापि भेदं गृह्णातीति दत्तोत्तरम् ॥ १३ ॥ इति भेददूषणनिस्तारः ॥

5.374     भेदो गृह्येत बुद्ध्वाऽधिकरणमवधिं चेति न ह्यक्रमोऽस्मिन्

प्रत्यक्षस्य क्रमोऽपि क्षणभिदुरतया नेति तुल्यं भ्रमेऽपि ।

अक्षान्धादिव्यवस्थाक्षतिरपि युगपद्योग्यधर्मैर्ग्रहोऽत-

स्तद्युक्ते भिन्नशब्दः कथिततदुपधिज्ञप्त्यपेक्षः क्रमात्स्यात् ॥ १४ ॥

भेदग्रहणे पूर्वोक्तां ग्राहकानुपपत्तिं प्रतिबन्द्या दूषयति – भेद इति ॥ धर्मिभेदयोस्सापेक्षत्वनिरपेक्षत्वाभ्यां युगपद्ग्रहणमनुपपन्नम्; प्रत्यक्षज्ञानस्य क्षणिकत्वात् । क्रमग्रहणं च न जाघटीति; परस्परवार्तानभिज्ञत्वात् । प्रत्यक्षान्तरेण ग्रहणमपि न स्यादिति ह्युक्तम् । एतत्काल्पनिकभेदपक्षेऽपि तुल्यम्; कल्पनायामप्यधिकरणप्रतियोगिसापेक्षत्वस्यावश्यंभावित्वात्, धर्मिज्ञानक्षणिकत्वस्य तुल्यत्वात्, कल्पनारूपभेदग्रहणेऽपि परस्परवार्तानभिज्ञत्वस्यानिवारणात् । न हि कल्पनाऽपि धर्मिप्रतियोगिनावन्तरेण भेदं गृह्णाति । नापि धर्मिज्ञानवार्तामभिजानाति; तस्य तस्मात् भिन्नत्वात् । अतः काल्पनिकभेदज्ञानस्य संघटने पारमार्थिकमपि भेदज्ञानं तेनैव न्यायेन संघटेत । तस्यासंघटने काल्पनिकमपि भेदज्ञानं न संघटेतेति वीवधघटन्यायः । तर्हि काल्पनिकमपि भेदज्ञानं मा भूदिति चेत्, तर्हि लोकव्यवहारोच्छेदप्रसङ्गः, कृत्स्नवेदान्तानारम्भप्रसङ्गश्च । भेदप्रतिभासनिरासायैव हि सर्वे वेदान्ता आरभ्यन्त इति ब्रूषे । तदिदमाह – तुभ्यं भ्रमेऽपीति । किंच भेदस्य प्रत्यक्षत्वाभावे सतीन्द्रियव्यवस्था न स्यात् । रूपादिग्रहणमिन्द्रियकृत्यम्; विषयभेदव्यवस्थयैव हि चक्षुरादिव्यवस्थामाहुः । एवमन्धादिव्यवस्थाऽपि न स्यात् । तत्तद्विषयभेदग्राहकेन्द्रियमेदविनाशादेव ह्यन्धादिव्यवस्था । तदिदमाह – अक्षान्धादीति । अतो युगपदेव तत्तद्विशेषणभेदविशिष्टवस्तुग्रहणभिन्द्रियकृत्यम् । ते च विशिष्टा युगपदेव सन्निधाने युगपदेव गृह्यन्ते, यथा सेनावनतारामण्डलादिज्ञान इत्युक्तम् । तथा च पस्स्परासंकीर्णं – नानाधर्मविशिष्टाः पदार्था युगपदेव गृह्यन्ते । घटः पटः शुक्लं कृष्णं चलं निश्चलमित्यादि । तत्र घटत्वपरत्वशुक्लत्वकृष्णत्वादयः स्वरूपेण गृह्यमाणाः परस्पराध्यासं व्यावर्तयन्ति । तच्च व्यावर्तनं तत्तद्धर्मस्वरूपग्रहणकृत्यम् । तेनैव कृत्येन विशेष्यमाणास्त एव धर्माः प्रतियोग्यपेक्षया भेदा इति व्यवह्नियन्त इति प्रागुक्तमेवार्थ प्रतिपत्तॄणां बुद्धिसौकर्याय प्रकटयति – तद्युक्त इति । भेदव्यवहारेऽपि युगपद्व्यवहारे न पौर्वापर्यापेक्षा; यथा पञ्चाप्यङ्गुल्यः परस्परं भिन्ना इति । यत्र पुनः क्रमव्यवहारस्तत्र वाचः क्रमवृत्तित्वादस्तु वाङ्मात्रे पौर्वापर्यम्, अङ्गुष्ठात् कनिष्ठा भिन्नेति । अत्रापि प्रतिपत्तिपौर्वापर्यं न निर्बघ्नीमः । अतो न भेदप्रत्यक्षत्वानुपपत्तिः ॥ १४ ॥ इति मेदप्रत्यक्षत्वानुपपत्तिनिरासः ॥

5.375     अद्रव्ये नैकरूपे ह्यगणिषत गुणाः सत्त्वमुख्या द्विधाऽऽद्यं

शुद्धं तन्नित्यभूतौ त्रितयमिह चतुर्विंशतौ व्याप्तितः स्यात् ।

पञ्चान्ये शब्दपूर्वा अपि परिगणिता भूतवर्गेष्वथान्य-

स्संख्यानादिश्च भेदः परिणमति यथासंभवं द्रव्यवर्गे ॥ १५ ॥

एवं भेदतत्त्वं प्रसाध्य प्रामणिकत्वेनाभिमतान् गुणभेदान् यथाप्रमाणं विभज्य दर्शयति -अद्रव्य इति ॥ तस्मिन्नद्रव्यवर्गे सत्त्वं रजस्तम इति प्रधानभूता गुणाः । सत्त्वं च द्विविधम् – शुद्धसत्त्वं मिश्रसत्त्वं चेति । शुद्धसत्त्वं नित्यविभूतौ । तदिदमाह – शुद्धं तन्नित्यभूताविति । त्रितयमिति । मिश्रसत्त्वं रजस्तमसी चेति त्रितयम् । इदं चतुर्विंशतितत्त्वे सर्वत्रापि स्यादित्याह – व्याप्तितः स्यादिति । एवं शब्दादयः पञ्च गुणाः आकाशादिपञ्चभूतेषु उत्तरोत्तरमाधिक्येन दृश्यन्त इत्याह – पञ्चेति । संख्यादिरन्यो गुणवर्गो यथाप्रमाणमुपलभ्यमानो न्यूनाधिकभावेन तत्रतत्रावतिष्ठत इति दर्शयति – अथान्य इति । यथासंभवमिति । प्रमाणगतिरेव पदार्थपरिकल्पनायां शरणं न पुनर्वैशेषिकादीनां सांकेतिकस्संव्यवहार इत्यर्थः ॥ १५ ॥ इति अद्रव्यावान्तरविभागादि ॥

5.376     स्थित्युत्पत्त्यन्तलीलाविधिषु भगवताऽधिष्ठिताः शास्त्रवेद्या-

स्सत्त्वाद्याः स्थूलसूक्ष्मप्रकृतिगतगुणा हेतुभूतास्सुखादेः ।

साम्ये तेषां त्रयाणां सदृशपरिणतिः स्यादिहान्यान्यथात्वे

कॢप्ताऽन्यैर्द्रव्यतैषां श्रुतिपथविहता कुत्रचित्तूपचारः ॥ १६ ॥

स्थितीति ॥ पूर्वोक्तानां सत्त्वरजस्तमसां स्थित्युत्पत्तिलयेषु विशेषेण भगवताऽधिष्ठितत्वं तेषुतेषु शास्त्रेषूच्यते । ते च स्थूलसूक्ष्मप्रकृतिगतास्सुखदुःखमोहानां हेतवो भवन्तीति च शास्त्रसिद्धम् । तेषां च साम्ये प्रलयावस्थायां सदृशपरिणतिः, वैषम्ये सृष्ट्यवस्थायां विसदृशपरिणतिश्च शास्त्रैकसमधिगम्या । अन्या – विसदृशपरिणतिः । अन्यथात्वे – वैषम्ये । सांख्याः पुनरेषां द्रव्याभेदेन द्रव्यत्वमाहुः । तत् गुणत्वप्रतिपादकश्रुतिस्मृतीतिहासादिविरुद्धम् । प्रमाणेषु च क्वचिद्यद्यस्ति द्रव्याभेदव्यवहारः, स पुनरौपचारिकः । व्यक्तमन्यत् ॥ १६ ॥ इति सत्त्वरजस्तमसामुपयोगादि अद्रव्यता च ॥

5.377     बुद्धित्वादिः प्रधाने समपरिणतिरित्येवमागन्तुधर्माः

द्रव्येष्वन्येषु चान्ये कतिचन कथिताः केचिदध्यक्षसिद्धाः ।

आनन्त्यादर्थमान्द्याद् दुरवगमतया सूक्ष्मवैषम्यभेदै-

रैकैकश्येन चिन्तामिह जहति बुधा निश्चितापेक्षितार्थाः ॥ १७ ॥

प्रधाने बुद्धित्वादीन् कतिचन प्रकारानुक्त्वा, प्रकारान्तराण्यपि अनन्तत्वान्न परिगण्यन्ते, अथापि प्रामाणिकत्वात् प्रधाने कार्यकारणरूपे परिगृह्यन्ते इति दर्शयति – बुद्धीति ॥ प्रधाने बुद्धित्वादयो धर्माः सृष्ट्यवस्थायां विषमरूपाः; प्रलयावस्थायां समपरिणतयः । एवमन्येष्वपि द्रव्येषु कतिचिद्धर्माः शास्त्रसिद्धाः, कतिचिच्च प्रत्यक्षसिद्धाः । अतोऽनुमानशरणानां साधनबाधनयोरत्रानवकाशः । न हि नरशिरःपवित्रत्वाद्यनुमानं शास्त्रप्र[वृत्ति]तिपत्तिशैलीमुल्लिङ्घयिषति । तर्हि सर्वेऽपि धर्माः प्रत्येकं प्रतिपाद्या इत्याशङ्क्य परिहरति – आनन्त्यादिति । अद्रव्यावान्तरभेदानामानन्त्यम् विविच्य प्रतिपादने पुनरर्थमान्द्यात् सूक्ष्मवैषम्यभेदैर्दुरवगमत्वाच्च, निश्चितापेक्षितार्थाः मनीषिणः, ऐकैकश्येन चिन्तामिह जहति – न तावता तेषां प्रकारभेदानामप्रामाणिकत्वमित्यर्थः ॥ १७ ॥ इति विचित्रावस्थानन्त्यम् ॥

5.378     शब्दाद्यास्तत्तदक्षप्रतिनियतिजुषस्सर्वतन्त्रप्रसिद्धा-

स्तैरेकद्व्यादिसंख्यैर्द्युपवनहुतभुग्वारिभूम्यस्समेताः ।

पञ्चीकारादिनैषां विनिमितगुणता व्योमनैल्पादिबोधे

तद्योगात्तत्र तत्तद्गुणजनिरिति चेन्नान्यथाऽत्रोपपत्तेः ॥ १८ ॥

अनन्तरं शब्दादीनां ग्राहकनियममाधारनियमं चोक्त्वा भूतान्तरे तत्तद्गुणप्रतिभासस्योपाधिनियमं चाह – शब्दाद्या इति ॥ शब्दादीनां श्रोत्रादिग्राह्यत्वनियमस्सर्वतन्त्रसिद्धः । शब्दादीनामाकाशादिषु उत्तरोत्तरगुणाधिक्यं शास्त्रप्रसिद्धमुपलम्भसिद्धं च । गुणविनिमयस्तु पञ्चीकरणादिभिरेव स्यात् । तत्रोदाहरणमाह – व्योमेति । गगनतले नैल्यादिप्रतिभासः पञ्चीकृतपृथिव्यादिसंबन्धेनैव स्यात् । एवमुष्णं जलं सुरभिस्समीर इत्यादिषु संसर्गविशेषाद् गुणान्तरप्रतिभासः स्वयमेवोहनीयः । भूतान्तरसंसर्गात् भूतान्तरे तत्तद्गुणोत्पत्तिकल्पनं कल्पनागौरवान्न योयुज्यते । अतो रक्तं नभः धूम्रा दिश इत्यादयो व्यवहारा औपाधिका इति । [पटमलिनिमवत् यथा पटस्य मालिन्याभावेऽपि शङ्खस्य पीतिमाभावेऽपि मलिनः पटः, पीतश्शङ्खः, उष्णं जलमित्यादि] ॥ १८ ॥ इति शब्दादिगुणभेदग्राहकाधारनियमः ॥

5.379     कस्तूरीचम्पकादौ समविषमतया सम्मतस्सौरभादि-

स्तद्वच्छब्दादयोऽमी त्रिगुणतदधिकद्रव्यनिष्ठा गुणाः स्युः ।

निष्कृष्टे शास्त्रदृष्ट्या न कथमपि मिथस्संकरश्शङ्कनीयः

स्वाच्छन्द्याच्छङ्कमानः स्वमिव सुरगुरुं किं न शङ्केत मुग्धम् ॥ १९ ॥

लीलाविभूतिवन्नित्यविभूतावपि शब्दादिसंभवं तस्य च सर्वातिशाय्युत्कर्षशालित्वं चोपपादयति – कस्तूरीति ॥ यथा कस्तूरीचम्पकप्रभृतिषु गन्धसाम्ये सत्यपि सौरभविशेषस्तत्रतत्रोपलभ्यते, एवं त्रिगुणे शुद्धसत्त्वे च शब्दादिसद्भावेऽपि धर्मिग्राहकप्रमाणसिद्धं वैषम्यमनतिलङ्घनीयमेव । न हि वीणावेणुप्रभृतीनामैकरूप्येण स्वरनियमः; सुखविशेषहेतुत्वं चान्यथाऽन्यथोपलभ्यते । एतत् सर्वं प्राकृतेष्वेव । अप्राकृते पुनर्विभूत्यन्तरे श्रुतिस्मृतीतिहासपुराणप्रसिद्धाः प्रकारविशेषाः तत्तदनुभवाधीनानन्दविशेषाश्चापलपितुं न शक्यन्त इति भावः । तदधिकद्रव्यं – त्रिगुणद्रव्याधिकं नित्यविभूति – द्रव्यम् । निष्कृष्ट इत्यादि । शास्त्रदृष्ट्या निर्णीते वैषम्ये सामान्यधर्ममात्रात् संकरो न शङ्कनीयः । अन्यथा सर्वत्रातिशङ्कायां निर्मूलशङ्कायास्सुलभत्वात् । स्वयमिव सुरगुरुरपि मूढ इत्येव शङ्क्येत । अतो विलक्षणस्वरूपे शुद्धसत्त्वद्रव्ये विलक्षणाः शब्दादय इति न संकटं किंचित् ॥ १९ ॥ इति विभूतिद्वयेऽपि शब्दादिसंभवः ॥

5.380     शब्दो नैकेषु युक्त्याऽप्युचित इह पुनः पारिशेष्यं तु मन्दं

वायुश्शब्दस्वभावश्श्रुतिशिरसि यतः स्मर्यते च स्वरात्मा ।

गन्धालोकादिनीतिं यदिह निजगदुर्यामुनाद्यास्ततोऽपि

स्पष्टो भेर्यादिनिष्ठोऽयमिति गतिवचो गन्धवत्तद्वि[शेषे]शिष्टे ॥ २० ॥

अत्र केचित् शब्दस्याकाशमात्राश्रितत्वमाहुः । तन्नेति प्रतिपादयति – इति ॥ युक्त्याऽप्युचित इति । युक्तिरन्वयव्यतिरेकोपलम्भः । पृथिवीजलादावपि शब्दान्वयव्यतिरेकोपलम्भो हि दृश्यते । तेन शब्दः क्वचिदाश्रित इति सामान्येनाधिकरणोपलम्भेऽपि स्वविवक्षिताकाशमात्रपरिशेषो न स्यात्; तादृशस्य परिशेषस्यानियतत्वात् । यथा युक्त्याभासेन द्रव्यान्तरनिषेधः, एवमाकाशनिषेधस्यापि केनापि तादृशेन युक्त्याभासेन कर्तुं शक्यत्वात् । तदिदमाह – इहेति । युक्त्यापीत्यऽपिंशब्देन प्रत्यक्षादिकमपि प्रमाणयति; मेघो गर्जति, शङ्खो नदति, भेरी ध्वनतीत्यादिलोकोपलम्भात् । अस्तु वाऽयमानुमानिकोपलम्भः । अथापि भेर्यादिनिष्ठ एवायमुपलभ्यत इति न केवलमाकाशैकनिष्ठत्वम् । अपि च श्रुतिरेव शब्दस्य भूतान्तरनिष्ठत्वमुपपादयति । अध्ययनोपक्रमपरिपाठ्ये ‘शन्नो मित्र इति’ अस्मिन्मन्त्रे ‘नमस्ते वायो त्वमेव प्रत्यक्षं ब्रह्मासि त्वामेव प्रत्यक्षं ब्रह्म वदिष्यामि’ इति वायोरेव वेदात्मना परिणतिरुपलभ्यते । तत्तु वायोश्शब्दाधारत्वमन्तरेण न संजाघटीति । एवं ‘तस्य ह वा एतस्य महतो भूतस्य निश्वसितमेतद्यदृग्वेद’ इत्यादिकमपि भाव्यम् । स्मर्यते च स्वरात्मा – स्वररूपेण वायुरेव स्मर्यते, ‘वेणुरन्ध्रविभेदेन भेदः षड्जादिसंज्ञितः । अभेदव्यापिनो वायोस्तथाऽसौ परमात्मनः ॥ इति । एवं नाभिदेशादेव निर्गतस्य वायोस्ताल्वादिस्थानसंबन्धेन तत्तच्छब्दपरिणतिहेतुत्वं स्मृत्यादिप्रसिद्धं स्वयमेवानुसन्धेयम् । उपलम्भस्तु पञ्चभूतसाधारणत्वान्नाकाशस्यैव शब्दाश्रयत्वमुपपादयितुं शक्रोति । तर्कोऽपि तादृशः । अनुमानमप्यव्यवस्थितमिति प्रागेवोक्तम् । शब्दस्यापि गन्धवदालोकवच्च स्वाश्रयानुवर्तित्वमशेषदेशव्यापित्वं च लोकदृष्ट्या श्रीयामुनाचार्यादिभिरुपपादितम् । ततः शब्दस्य भेर्यादिनिष्ठत्वमुपपादितं भवति । कथं तर्हि शब्दस्य गतिव्यवहारः भेरीध्वनिरुज्जृम्भते, अध्ययनशब्दश्च सर्वतः प्रवर्तत इति? अयमपि पूर्वोक्तेनैव दृष्टान्तेन संघटते; गन्धाद्याश्रयद्रव्यप्रसरणवत् शब्दाश्रयद्रव्यस्यापि सर्वतः प्रसरणात् । यथा परपक्षे निमित्तकारणभूतवायोः प्रसरणेन सर्वतश्शब्दोपलम्भः; एवं तत्तद्द्रव्यप्रसरणेन तत्तद्द्रव्यनिष्ठशब्दोपलम्भस्यापि संभव इति । आकाशनिष्ठत्वं तु शब्दस्य भूतान्तर्गतत्वेनास्माभिरप्यनुमन्यते ॥ २० ॥ इति शब्दस्य सर्वभूताश्रितत्वम् ॥

5.381     सत्यान् सत्यापयन्तः कतिचन चतुरः स्पर्शरूपादिधातून्

शब्दं स्वार्हाक्षसिद्धं चतुरधिकरणं प्राहुरेभ्यो न भिन्नम् ।

किं तद्भेदाप्रतीतेः प्रबलविहतितस्संमतैक्यप्रमातः

स्वाच्छन्द्याद्देशनाया विभवत इति वा वीक्ष्य शिष्टा विजह्युः ॥ २१ ॥

अत्र केचिद्रूपादिकं चतुष्टयमस्ति । शब्दस्तु तच्चतुष्टय एव वर्तते । स च श्रोत्रगम्यः; तथाऽपि तेभ्यो न भिद्यत इत्याहुः । तदिदमनुभाषते – सत्यानिति ॥ अत्र धातुशब्दः परसिद्धान्तप्रयोगप्रसिद्धमनुवदति । अतिरोहितमन्यत् । अनुभाषितमर्थं विकल्प्य दूषयति – किं तदिति । किं चतुर्भ्यो धातुभ्यो व्यतिरिक्तपदार्थभेदाप्रतीतेः, किं वा प्रबलव्याधातदर्शनात्, यद्वा चतुर्भिरुपरितनानामैक्यप्रतीतेः, यदि वा स्वाच्छन्द्यात्, केवलसुगतगुरूपदेशाद्वा, तादृशं मतं स्वीक्रियते? तत्सर्वमसिद्ध्यादिदोषदूषितत्वाच्चर्भ्यो धातुभ्यो व्यतिरिक्तार्थप्रहाणे हेतुर्न भवतीत्यर्थः ॥ २१ ॥ इति सौगतोक्तशब्दकॢप्तिभङ्गः ॥

5.382     शब्दोऽवस्थाविशेषः श्रुतिभिरभिहितस्तेन नैष स्वनिष्ठो

व्योमादेश्चाविभुत्वात् क्वचिदपि न तु तत्सन्निधिस्तद्विदूरे ।

साक्षादक्षाप्तिसाक्षात्कृत इति घटवद् द्रव्यमित्यप्यसारं

साध्यात् प्राग्धेत्वसिद्धेर्न हि परमतवन्नाभसं श्रोत्रमत्र ॥ २२ ॥

अत्र केचिदाहुः – शब्दस्य गुणत्वमेव नास्ति, अपि तु द्रव्यत्वमेव; यथाऽऽहुः – ‘वर्णात्मकाश्च ये शब्दा नित्यास्सर्वगतास्तथा । पृथग्द्रव्यतया ते तु न गुणाः कस्यचिन्मताः ॥ इति । एतत्तु वाय्वाद्यवस्थाविशेषरूपशब्दप्रतिपादकश्रुतीतिहासपुराणादि- विरुद्धत्वादनादर्तव्यमित्याह – शब्द इति ॥ नैष स्वनिष्ठः – स्वतन्त्रं द्रव्यं न भवतीत्यर्थः । अस्य च शब्दस्य स्वाधारभूतव्योमादेरविभुत्वात् व्योमादिरहिते देशे पुनरसन्निधानं न दोषायेत्याह – व्योमादेरिति । परमाकाशे तु प्राकृतकाशाभावेऽपि शब्दसद्भावो युज्यत इति प्रागेवोक्तम् । तर्हि शब्दो द्रव्यं साक्षादिन्द्रियसंबन्धेन गृह्यमाणत्वात् घटवदित्यनुमानं प्रयुञ्ज्महे इति चेत्, तदप्यसारमित्याह – साक्षादिति । कुत इत्यत्राह – साध्यादिति । अयमर्थः – शब्दस्य द्रव्यत्वे सिद्धे साक्षादिन्द्रियसंबन्धेन साक्षात्कारसिद्धिः; तत्सिद्धौ तत्सिद्धिरितीतरेतराश्रयत्वम् । अथापि द्रव्यत्वसिद्धिमन्तरेण साक्षादिन्द्रियसंबन्धस्सिध्यति, श्रोत्रस्याकाशत्वात् शब्दस्याकाशगुणत्वादिति चेत्, अत्र केचिदाहुः – हेतुसिद्ध्या साध्यसिद्धिर्व्याहन्यत इति । तथा हि – शब्दस्याकाशगुणत्वाङ्गीकारेण साक्षादिन्द्रियसंबन्धस्सिध्यति । तथा च हेतुरेवायं साध्यं व्याहन्तीति । तदिदं सर्वमभिप्रेत्याह – साध्यादिति । हेत्वसिद्धिमुपपादयति – न हीति । अस्मत्पक्षे श्रोत्रस्याकाशत्वायोगात् नैयायिकादिमतवत्साक्षादिन्द्रियसंबन्धप्रसङ्गोऽपि नास्तीत्यर्थः ॥ २२ ॥ इति शब्दद्रव्यत्वभङ्गः ॥

5.383     वर्णानां सध्वनीनामभिदधति हरिद्वाससः पुद्गलत्वं

नाक्षादेस्सिद्धमेतन्न च तदभिमते शब्दितः शब्दशब्दः ।

सूक्ष्मद्रव्ये हि धर्मः श्रुतिविषयदशालक्षणो दुस्त्यजस्तै-

स्तस्मान्नास्मत्समीक्षामतिपतितुममी शक्नुयुस्तद्वदन्ये ॥ २३ ॥

सध्वनीनां वर्णानां पुद्गलरूपत्वमाहुः क्षपणकाः, तदिदमनुवदति – वर्णानामिति ॥ हरिद्वाससः – नग्नाटाः । दूषयति – नाक्षादेरिति । अयमर्थः – न तावत्प्रत्यक्षादिप्रमाणसिद्धत्वादयमर्थोऽवगम्यते । नापि लोकव्यवहारानुरोधेन । उभयमपि नास्ति । तदाह – चेति । तदभिमते पुद्गले न शब्दशब्दः शब्दितः – व्युत्पन्नः; पुद्गलेषु शब्दशब्दस्य व्याकरणाभिधानपाठलोकव्यवहारशिष्टप्रयोगेष्वन्यतमस्याप्यभावात्, उपजीव्यानुमानाभावात्, तदनुग्राहकतर्काभावाच्चेत्यर्थः ॥ २३ ॥ इति शब्दपुद्गलत्वभङ्गः ॥

5.384     वर्णे स्थैर्यं विरुद्धान्वयविरहवति प्रत्यभिज्ञा नियच्छे-

त्तैव्र्यादिव्यञ्जकस्थं भ्रमवशघटितं तत्र कल्प्येत दिग्वत् ।

एकाक्षग्राह्यसंवित्प्रतिनियतिरपि ह्यञ्जनादाविव स्या-

द्वयक्त्या स्यात् कार्यताधीर्यदि न निगदितो नैगमैरस्य नाशः ॥ २४ ॥

वर्णात्मकशब्दस्वरूपनित्यत्वमाहुः कौमारिलाः । तदिदमाह – इति ॥ पूर्वं द्रव्यत्वं निराकृतम्; इदानीं नित्यत्वमिति विभागान्न पौनरुक्त्यम् । ननु तीव्रमन्दादिभेदेन विरुद्धधर्मग्रस्तत्वात्कथमस्मिन्नित्यत्वमित्याशङ्क्याह – विरुद्धान्वयेति । तीव्रमन्दीदिभावो व्यञ्जकस्थ एव; न पुनः शब्दस्थ इत्याह – तैव्य्रादीति । कथं तर्हि शब्दे तैव्र्यादि – प्रत्यय इत्यत्राह – भ्रमवशघटितमिति । तत्र दृष्टान्तं दर्शयति – दिग्वदिति । यथा नित्यविभुशब्दवादिनां पूर्वशब्दोऽपरशब्द इति दिक्प्रत्ययः काल्पनिक एवं तीव्रादिप्रत्ययोऽपीति । अनेनैव दृष्टन्तोपादानेन दिक्प्रत्ययस्यापि शब्दे काल्पनिकत्वं स्थापितं भवति । अथवा अनित्याविभुशब्दवादिनामपि शब्दे दिक्प्रत्ययः काल्पनिक एव । भेर्याद्युपाधीनामेव तत्तद्दिक्संबन्धः, उपाधिसंबद्धाकाशनिष्ठतामात्रेण शब्दे दिक्संबन्धव्यवहारः । ननु कथं ‘समानेन्द्रियग्राह्याणां समानदेशस्थानां’ इत्यादिना प्रतिनियतव्यञ्जकाभिव्यङ्ग्यत्वं प्रतिषिद्धं शब्दानाम्? अतस्ताल्वादिव्यापारोत्पाद्यत्वं शब्दस्येति । तन्न; अञ्जनादिभिर्व्यभिचारात् । दृष्टं खलु प्रतिनियताञ्जनाभिव्यङ्ग्यत्वं पिशाचादौ निहितनिध्यादौ च; तद्वदिहापि ताल्वादिव्यापाराणामकारणत्वेऽपि न दोषः । तदिदमाह – अञ्जनादाविवेति । कथं तर्हि ‘कविः काव्यं निर्ममे’, ‘प्रोवाच ब्रह्मविद्यां’ इति शब्दे कार्यत्वप्रतिपत्तिरित्यत आह – व्यक्त्येति । इत्थमङ्गीकारे श्रुतिविरोधमाह – यदि नेति । श्रुतिस्मृतीतिहासपुराणेषु शब्दस्य विनाश एव सर्वत्र प्रतिपाद्यत इत्यर्थः । नैगमैः – निगमसंश्रयैर्वचनैश्शब्दनाशो निगदितः ॥ २४ ॥

5.385     ध्वन्यात्मा वायुभेदः श्रुतिविषयतयाऽपाठि तौतातिताद्यैः

तद्वत् पञ्चाशदेते समकरणतया वर्णिताः किं न वर्णाः ।

तैव्र्यादिर्वर्णधर्मो नियत इति यथादर्शनं स्थापनीयं

स्पर्शादौ चैवमिष्टं तदिह न सुलभा द्रव्यता नित्यता च ॥ २५ ॥

किंच ये शब्दस्य द्रव्यत्वं नित्यत्वं च वर्णयन्ति तैरेव तौतातिताद्यैः – कौमारिलाद्यैः ध्वन्यात्मा वायुभेद एव श्रुतिविषयतयाऽपाठि । एवमेव पञ्चाशदेते वर्णाः किं न वर्णिताः? समकरणतया – समानेन्द्रियग्राह्यतया समानताल्वादिव्यापारजन्यतया च । तेषामेव वर्णानां वायुभेदानां स्वाभाविक एव तीव्रादिभावः; न पुनरौपाधिकः । यथादर्शनं व्यवस्थापनीयम् – यथा दुरालभास्पर्शस्य दुःखहेतुत्वं दहनस्पर्शस्य दाहहेतुत्वम् । तस्मात् ध्वन्यात्मकशब्दवत् वर्णात्मकोऽपि शब्दो वाय्ववस्थाभेद इति स्वीकारे को विशेषः? अवस्था चागन्तुरपृथक्सिद्धो धर्म इत्युक्तम् । अतो द्रव्यत्वं नित्यत्वं च वर्णानामिति वर्णितमेतदप्रामाणिकमिति वर्णयामः । विस्तरस्त्वन्यत्रानुसन्धेयः ॥ २५ ॥ इति वर्णानित्यत्वम् ॥

5.386     शब्दानित्यत्वतोऽपि श्रुतिषु न विलयः स्यात् क्रमव्यक्तिनीत्या

तन्नित्यत्वे च काव्यादिकमपि न कथं नित्यमित्यभ्युपैषि ।

तस्मान्नित्यैकरूपक्रमनियमवशान्नित्यभावः श्रुतीना-

मीशोऽप्यध्यापको नः पर[मि]मतिचकितैर्वर्णनित्यत्वमुक्तम् ॥ २६ ॥

कथं तर्हि वर्णानित्यत्वे वेदनित्यत्वं सिध्यतीत्यत्यन्तभीतस्यात्यास्तिक्यनिमित्तचोद्यं परिहरति – शब्देति ॥ शब्दानित्यत्वेऽपि श्रुतिषु न विलयः स्यात् – यथा शब्दानां नित्यत्वेऽपि नित्यविभूनां तेषां देशतः कालतो वा कश्चित् क्रमो नास्ति, क्रमविशेषविशिष्टस्यैव शब्दस्य पदत्वं वाक्यत्वं चानुवर्ण्यते; स पुनः क्रमः कीदृग्रूप इति चिन्तने शब्दानां स्याभिव्यक्तिमात्रमेव; अभिव्यक्तिश्चोपलम्भसामग्रीसान्निध्यं वा, तदधीनोपलम्भो वा; तदनुक्रमोऽपि तत्कालपरम्परासंपातः; सर्वमेतदनित्यमेव; एवं च यथा क्रमाभिव्यक्त्या वेदनित्यत्वं भवद्भिरभिव्यक्तिनियममात्रेणाङ्गीक्रियते; एवं क्रमविशेषविशिष्टशब्दोत्पत्तिपारम्पर्यमेवोच्चारणक्रमनियमः; तेनैव वेदनित्यत्वमस्माकं सिध्यति । वर्णनित्यत्वमप्रयोजकमेव; वर्णानामवेदत्वात् । वाक्यसङ्घातविशेषो हि वेदः; पदसङ्घातविशेषो वाक्यम्; पदं च वर्णसङ्घातविशेषः; सर्वमेतदनित्यमेव; वाक्यानां सजातीयत्वमात्रं त्ववशिप्यते, तदेव नित्यत्वमिति । अन्यथा वर्णानां नित्यत्वमात्रेण काव्यादिकमपि नित्यमिति कथं नाभ्युपैषीत्याह – तन्नित्यत्वे चेति । कथं तर्हि वेदनित्यत्वमित्यत्र नित्यत्वे प्रयोजकं निगमयति – तस्मादिति । इदं खलु वेदानां नित्यत्वं यन्नित्यैकरूपक्रमविशेषोच्चार्यमाणत्वम् । स पुनः क्रमो निपुणं निरूपयतामुच्चारणमात्रनिष्ठ एवेति । एतेनाध्यापकानां पूर्वपूर्वाध्यापकाध्ययनानुक्रमानुसरणमेव वेदनित्यत्वमिति सिद्धे सति, ईश्वरोऽपि पूर्वकल्पानुसरण स्वसकल्पसिद्धं स्वयमप्यनुसरतीति, वेदेऽपि पूर्वकल्पोच्चारणानुसरणमनुवर्तयतीति वेदनित्यत्वसिद्धिः । वर्णनित्यत्ववादिभिस्तु तदनित्यत्वे वेदानित्यत्वभ्रान्त्या तद्भ्रान्तिनिबन्धनभीत्या वा वर्णनित्यत्वमुक्तमिति न तानप्यधिक्षिपामः ॥ २६ ॥ इति वर्णानित्यत्वेऽपि वेदनित्यत्वप्रकारः ॥

5.387     नैवोष्णौ नापि शीतौ क्षितिसततगती तत्र तोयादियोगात्

शीतत्वादिप्रतीतिस्तदुपधिकतया तत्रतत्रैव दृष्टेः ।

आयुर्वेदे तुषारो मरुदिति कथनं त्वद्भिराप्यायिकाभि-

र्वृद्धिद्वासौ समाद्यैर्भवत इति परं तच्चिकित्सानियत्यै ॥ २७ ॥

एवं शब्दं निरूप्य स्पर्शे विशेषान् निरूपयति – नैवेति ॥ यथोपलन्ममनुष्णाशीतस्पर्शौ पृथिवीवायू, तत्र तोयादियोगात् शीतत्वादिप्रतीतिः, शीतं स्थलं शीतो वायुरित्यादि । तत्र हेतुमाह – तदुपधिकतयेति । दर्शनं हि सर्वत्र व्यवस्थापकम्, उष्णा भूरुष्णं जलमित्यादिष्वातपाद्युपाधिवशादेव तत्रतत्रौष्ण्यादेर्दर्शनात् । कथं तर्हि आयुर्वेदे ‘तुषारो मरुत्’ इत्युच्यते? तुषारः शीत इत्यर्थः; तत्तु आप्यायिकाभिरद्भिरेव । कथं वा तर्हि वृद्धिह्रासौ समाद्यैर्भवत इति तुल्यगुणयोगेन विरूपाणामपि तत्रैवायुर्वेदे साम्यादिकमुच्यते? तत्पुनश्चिकित्सानियमार्थम् । अयमत्र भावः – अस्य धातोरनेन हेतुनाऽभिवृद्धिः, अनेन च परिक्षय इत्यादि शास्त्रसिद्धं दृष्टं च । सर्वेषां धातूनां यथोचितं चिकित्सा अनादिसिद्धा । शास्त्रेण तत्रतत्र चिकित्साविशेषनियमसिद्ध्यर्थ तानितानि रूपाणि कल्पितान्यकल्पितानि व्यवह्रियन्त इति, नैतावता पदार्थतत्त्वनियमसिद्धिरिति ॥ २७ ॥ इति अनुष्णाशीतस्पर्शाधारनियमः ॥

5.388     स्यादुष्णः कृष्णवर्त्मा सलिलमपि तथा शीतमस्तु प्रकृत्या

स्पर्शोऽन्योऽप्यत्र दृष्टस्स तु भवतु रुमाक्षिप्तलावण्यवच्चेत् ।

मैवं संसृष्टवस्तूपधिनियततया तद्विवेकस्य युक्तेः

प्रायश्शीतो भवेतिप्रभृतिकमपि तद्दाहकत्वादिरोधात् ॥ २८ ॥

एवं शीतोष्णभूतनियमोऽपि यथोपलम्भं द्रष्टव्य इति दर्शयति – स्यादिति ॥ उष्णः कृष्णवर्त्मा, तथैव जलमपि शीतमित्युपलभ्यते प्रकृत्या । अत्र कश्चिदाह – अन्योऽपि स्पर्शो दहने सलिले च कदाचिदुपलभ्यते । स तु रुमाक्षिप्तकाष्ठादिलवणत्वन्यायेन तस्यैव परिणतिविशेष इति । तदिदमाह – स्पर्श इति । तन्निराकरोति – मैवमिति । रुमाक्षिप्तकाष्ठादेर्लवणत्वपरिणतिः प्रत्यक्षसिद्धगुणवैषम्यनियमेन युक्ता । अत्र त्वग्न्यादिसंसर्ग एव जलादेरौष्ण्यं तथा सलिलसंसर्ग एव भूतान्तरे शैत्यमित्युपाधिसंसर्गो दृश्यत इति विशेषः । इदमेव स्फोरयति – संसृष्टेति । कथं तर्हि ‘शीतो भव हनूमत’ इति वह्नेरपि शीतत्वमित्याशङ्क्याह – प्राय इति । अयमत्र भावः – पुनर्वह्नेश्शीतत्वं जायते; अपि तु सीतासंकल्पविशेषेण दाहकत्वमेवोपरुध्यत इति ॥ २८ ॥ इति शीतोष्णभ्रमनियमः ॥

5.389     पीता भूः श्वेतमम्भो हुतवहपवनौ रक्तधूम्रौ तथा द्यौ-

र्नीलेति क्वापि शिष्टं तदिह न नियतां वर्णसत्तां ब्रवीति ।

ध्यानार्थं मन्त्रवर्णेष्विव कथितमिदं व्योमवातौ ह्यरूपौ

पीतैकान्त्यं भुवोऽक्षश्रुतिहतमथ तत्प्राचुरी साऽस्तु मा वा ॥ २९ ॥

एवं रूपमपि परिशोधयति – पीतेति ॥ अत्र कश्चिदचूचुदत् । पीता भूमिः श्वेतमम्भः वह्निपवनौ रक्तधूम्रौ द्यौर्नीलेति मन्त्रशास्त्रे वर्णविशेषो विविच्यते; तच्च शास्त्रं नाग्रहनिबन्धनम्; अतस्तदनुसारेण नियता वर्णसिद्धिरनुसुरणीयेति । तदिदं निराचष्टे – तदिहेति । कथमित्यत आह – ध्यानार्थमिति । केवलं ध्यानार्थमेव तत्तद्वर्णकथनं तेषुतेषु भूतेषु । तनु दृष्टान्तमाह – मन्त्रवर्णेष्विवेति । अत्रैव हेतुमाह – व्योमेति । अरूपावेव ह्याकाशवायू रूपवत्तयाऽत्र निर्दिश्येते । किंच अनेकरूपयुक्ताया भुवः पीतैकान्त्यवचनं प्रत्यक्षविहतं श्रुतिविहतं च; श्रूयते हि ‘यदग्रे रोहितं रूपं तेजसस्तद्रपं यच्छुक्लं तदपां यत्कृष्णं तदन्नस्येति’ । तर्हि प्राचुर्यविशेषात्तत्तद्वर्णकॢप्तिरिति चेत्; साऽप्यस्तु मा वा; नास्माकं काचिद्धानिरित्याह – प्राचुरीति ॥ २९ ॥ इति भूतपञ्चकवर्णोक्तिनिर्वाहः ॥

5.390     कृष्णामाम्नासिषुः क्ष्मां तदिह न विरहं वक्ति रूपान्तराणां

प्रत्यक्षादेर्विरोधात्पचनविषमितं स्पर्शगन्धादि चास्याः ।

पाथस्तेजोविशेषे स्फुरति वसुमती भागतो वर्णभेदो

न ह्यम्भः क्वापि दृष्टं विपरिणतगुणं पाकसंस्कारतोऽपि ॥ ३० ॥

तर्हि कथं श्रुत्या पृथिव्याः कृष्णत्वनियम इत्याशङ्क्य परिहरति – कृष्णामिति ॥ ‘यत्कृष्णं तदन्नस्येति’ श्रुतिर्न पृथिव्या रूपान्तरविरहं वक्ति, प्रत्यक्षादिविरोधात्; उपलभ्यते हि रूंपान्तरमपि पृथिव्याम् । एवं पाकभेदविषमितः स्पर्शगन्धादिनियमोऽप्यङ्गीकार्य इति दर्शयति – वचनविषमितमिति । क्वचित्तु कलुषजलादौ पलालवह्न्यादौ च पृथिवी – संसर्गविशेषात् वर्णभेदो दृश्यते; सोऽपि संसर्गविशेषकृत इति यथोपलम्भमङ्गीकार्य इत्याह – पाथ इति । अम्भसि पुनः पाके सत्यपि गुणविपरिणतिर्न क्वाप्युपलभ्यत इति युक्तमैकरूप्यमेव तत्राभिधातुमिति । दृष्टप्रक्रियामात्रानुसरणेन सर्वमेतदुपपादितमिति दर्शयति – न ह्यम्भ इति ॥ ३० ॥ इति पाकजापाकजरूपादिविभागः ॥

5.391     आरब्धं रूपभेदैरवयवनियतैश्चित्ररन्यत्तु रूपं

काणादाः कल्पयन्तः क्व तदिति कथयन्त्वंशतस्तद्विकल्पे ।

नांशेष्वेतत्तदिष्टं न च तदभिहितः कश्चिदंशीति तूक्तं

स्वाधारव्यापकत्वं सुगममिह तथा स्पर्शगन्धादिचैत्र्यम् ॥ ३१ ॥

एवमुक्तेपु शुक्लकृष्णादिषु [रूपादिषु] चित्रमिति किमपि रूपा[द्य]न्तरमस्तीति केचिन्मन्यन्ते । तदनुभाषते – आरब्धमिति ॥ तद्विकल्पयति – क्वेति । अवयवरूपादिभिरारब्धं चित्ररूपं क्व वर्तते? अंशेषु वा, अंशवति वा? विकल्पितमर्थं दूषयति – नाशेष्विति । अंशेषु चित्ररूपं वर्तत इति काणादानामेव नेष्टम्; तेषां प्रागेव रूपवत्त्वात्, तस्य च रूपस्यानिवृत्तेः । तस्मादवयविनि चित्रं रूपादि वर्तत इति वक्तव्यम् । तदपि नेत्याह – चेति । अवयविभङ्गस्य प्रागेव कृतत्वादित्यर्थः । कथं तर्ह्यशनिष्ठानां रूपभेदानां स्वाधारभूतपटव्यापकत्वमिति चेत्; तदस्माकमेव सुगमम्, पटस्याभावात्; अंशनिष्ठानां रूपभेदानां तत्तदंशव्यापकत्वाच्च । उक्तमर्थं स्पर्शदावपि तुल्यमिति निगमयति – तथेति । यथा चित्रं रूपं तथैव चित्रस्स्पर्शः चित्रो रसः चित्रो गन्ध इति व्यवहारोऽपीति । तत्तदंशे वैचित्रीभेदान्नापूर्वरूपादि – कॢप्तिरिति सर्वमप्यर्थं समुच्चित्य निगमितवान् ॥ ३१ ॥ इति अतिरिक्तचित्ररूपादिभङ्गः ॥

5.392     स्नेहः प्रत्यक्षसिद्धो यदुपधिरुदके स्निग्धधीस्सद्रवत्वा-

त्तोयत्वाच्चातिरिक्तः क्वचिदिह यदसौ भाति ताभ्यां विनाऽपि ।

सौवर्णादिद्रवाणां न च भवति यतः पांसुसंग्राहकत्वं

पर्यायानुक्तिरस्मिन् भवति विषमता चेति केचिद् गृणन्ति ॥ ३२ ॥

अत्र केचित् स्नेहाख्यगुणान्तरमस्तीत्याहुः । अपरे पुनस्तद्रूपादावन्तर्भावयन्ति । उभयमपि पक्षमनुक्रमादुपपादयति; उभयोरपि पक्षयोरेकदेशिमतत्वेन स्वीकारात् । तत्र प्रथमपक्षे प्रत्यक्षं प्रमाणयति – स्नेह इति ॥ यदुपधिरुदके स्निग्धधीरिति – उदके स्निग्धधीर्यद्गुणोपाधिकेत्यर्थः । नन्वसौ स्नेहो द्रवत्वात्तोयत्वाच्च नातिरिक्त इति कश्चित् । तन्नेत्याह – अतिरिक्त इति । तत्र हेतुमाह – क्वचिदिति । असौ – स्नेहः । क्वचित् -पृथिव्याम् । ताभ्यां – द्रवत्वतोयत्वाभ्यां विनाऽपि प्रतिभातीति यतः, अतः द्रवत्वतोयत्वाभ्याामतिरिच्यते स्नेह इत्यर्थः । अयं चात्र हेतुः – द्रवत्वमेव स्नेहश्चेत् सौवर्णादिद्रवाणां पांसुसंग्राहकत्वं स्यात् । न च तत् दृश्यते । अतो द्रवत्वादतिरिक्तः स्नेहः । तदिदमाह – सौवर्णादीति । अपि च पर्यायानुक्तिरपि द्रवत्वस्नेहयोर्भेदं साधयति; यत्रयत्र स्निग्धत्वं तत्र सर्वत्र द्रवत्वमिति व्यवहाराभावात् । यथा मणिकृपाणदर्पणादौ सुवर्णे च स्नेहाभावस्य द्रवत्वस्य च भवतैवोक्तत्वात् । विषमता चेति द्रवत्ववैषम्ये स्नेहवैषम्यं नास्ति; स्नेहवैषम्ये द्रवत्ववैषम्यं चास्तीति केषांचित् पक्षः ॥ ३२ ॥ इति स्नेहाख्यगुणान्तरसद्भावपक्षः ॥

5.393     अन्ये स्नेहं तु रूपं किमपि निजगदुः स्निग्धवर्णोक्त्यबाधात्

दृष्टत्वात् दुस्त्यजं तद्भवति खलु भिदा काऽपि गन्धादिकेऽपि ।

अप्त्वादेः पांसुसङ्गस्सुगममिदमयस्कान्तजात्यादिनीत्या

न ह्यन्यत्तत्र कॢप्तं न च न दृढमितं पार्थिवे पिच्छिलत्वम् ॥ ३३ ॥

अन्ये पुनरन्यथा आहुरित्याह – अन्य इति ॥ इत्थं किल ते मन्यन्ते – स्निग्धवर्णोस्त्यबाधात् स्नेहाख्यं रूपं किमप्यधिगच्छाम इति । तदेवोपपादयति – दृष्टत्वादिति । अथापि रूपसामान्यात् स्नेहाख्यरूपविशेषे वैषम्यं दृश्यत इत्याशङ्क्य तत् प्रतिबन्द्या निराकरोति – भवतीति । दृष्टं खलु गन्धादिष्वपि तत्तद्धर्मिग्राहकप्रमाणसिद्धं वैषम्यम् । न हि कस्तूरीकरीषादिष्वेकरूपो गन्धः; न च दुरालभाशतपत्रादिष्वेकरूपः स्पर्शः । एवं रसादिष्वपि द्रष्टव्यम् । कथं तर्हि स्नेहमन्तरेण पांसुसंग्रह इत्यत्राह -अप्त्वादेरिति । अप्त्वं स्नेहश्च समानाधिकरणमिति हि भवता प्रतिपाद्यते । तथा च सत्यप्त्वमेव स्नेहकार्यपांसुसंग्रहे नियामकमस्तु । कथं जातिरेव गुणविशेषमन्तरेण कार्यविशेषनियामिकेत्यत्र दृष्टान्तमाह – अयस्कान्तजात्यादिनीत्येति । अयस्कान्तजातिविशेष एवायस्संग्रहणे निमित्तम्; न ह्यन्या तत्र कारणकॢप्तिः । एवमत्रापि तोयत्वजात्यतिरिक्तस्नेहरूपगुणकॢप्तिर्न युक्तेत्यर्थः । किंच स्नेहो जलैकनियत इति स्नेहवादिभिरभिधीयते । अथापि पार्थिवे पिच्छिलत्वं दृश्यते । अतस्तत्तद्वस्तुनियतरूपविशेषाद्यतिरेकेण स्नेहो नाम कश्चिन्नास्तीत्यपरेषां पक्षः ॥ ३३ ॥ इति स्नेहस्य रूपविशेषान्तर्भावपक्षः ॥

5.394     मासृण्यादिप्रभेदोपहितगुरुतयाऽवादिनिम्नाभिमुख्यं

माषव्रीह्यादिराशौ भवति च पतने तादृशं तारतम्यम् ।

किंचादृष्टान्यकॢप्तिर्ज्वलनपवनयोर्न क्रियायां तथाऽस्मि-

न्नित्येकेऽन्ये तु दृष्ट्वा गुणमधिकमुशन्त्यादिमस्यन्दहेतुम् ॥ ३४ ॥

एवं द्रवत्वेऽपि पक्षभेदावाह – मासृण्यादीति ॥ मासृण्यादिप्रभेदावच्छिन्नगुरुत्वमेवाबादीनां निम्नाभिमुख्ये कारणम्, न पुनर्द्रवत्वं नाम कश्चिद्गुणः । इदं च पतने तारतम्यं माषव्रीह्यादिराशौ दृष्टमिति यथादर्शनमेवानुसरामः । न हि माषादिराशौ पतनाद्यर्थं गुणान्तरं परिकल्प्यते भवद्भिः । किंचाग्नेरूर्ध्वज्वलनं वायोस्तिर्यग्[गमन]- पवनमित्यत्रादृष्टातिरेकेण गुणान्तरं भवद्भिर्न कल्प्यते । एवं सलिलस्यापि निम्नाभिमुख्येन सरणमित्यत्रादृष्टव्यतिरेकेण न गुणान्तरं कल्पनीयम् । तदिदमाह – किंचेति । दृष्टान्तदृष्टं पक्षे योजयति – तथेति । एवमेकदेशिनां पक्षं परिसमाप्यान्येषां पक्षमनुवदति – अन्ये त्विति ॥ ३४ ॥ इति द्रवत्वान्तर्भावबहिर्भावपक्षौ ॥

5.395     तोये दृष्टं स्वभावाद् घृतकनकमुखे पाकजन्यं द्रवत्वं

तैलादौ नैव पाकानुगम इति भवेत्तादृशावंशकॢप्तिः ।

भस्मीभावाद्यनर्हे यदुत कणभुजा सूत्रितं तैजसत्वं

हैमादिश्लिष्टभौमावयवनयविदामित्थमेतन्न हृद्यम् ॥ ३५ ॥

उक्तस्य द्रवत्वस्य स्वाभाविकास्वाभाविकादिविभागं दर्शयति – तोय इति ॥ स्वभावादेव तोये द्रवत्वं दृष्टम्; घृतकनकमुखे पाकजन्यं द्रवत्वं दृष्टम्; उभयमपि तथैवाङ्गीकर्तव्यम् । तैलादौ पाकानुगमो न दृष्ट इति तादृशावंशकॢप्तिः । एवं दृष्टप्रक्रियामुक्त्वा कणभुगभिमतमर्थान्तरमनूद्य दूषयति – भस्मीभावादिति । अत्यन्तानलसंयोगेऽनुच्छिद्यमानद्रवत्वेन हेमादीनां तैजसत्वमुक्तं कणभुजा । तद्धेमादिश्लिष्टभौमावयवे व्यभिचारात् दुःस्थमेव । तुल्यं खलु हेम्ना तच्छिलष्टभौमावयवानामत्यन्ताग्निसंयोगेऽपि भस्मीभावानर्हत्वम्; अथापि यथा तेषां भौमत्वं तद्वद्धेम्नोऽपि तैजसत्वमेव साधयितुं न शक्यत इत्यर्थः । अन्यत् सर्वं न्यायपरिशुद्धौ विस्तरेणोक्तमस्माभिरिति नेह प्रतन्यते ॥ ३५ ॥ इति सांसिद्धिकपाकजद्रवत्वाधारनियमादिः ॥

5.396     पातस्तुल्योऽम्बुभूमेयोः पवनदहनयोस्तिर्यगूर्ध्वप्रवृत्त्या

पाते भेदात् पलादिप्रत्तिनियतिरपि ह्यंशवैषम्यतः स्यात् ।

भागानां तारतम्याञ्जलशिखिमरुतां स्यन्दनादे[र्भिदेष्टा]र्विशेष-

स्तस्मात् सर्वोऽप्यदृष्टादिह भवतु न चेत् स्याद् गुणोऽन्योऽनलादौ ॥ ३६ ॥

गुरुत्वाख्यस्य गुणस्यानुमानगम्यत्वं प्रतिबन्धा प्रतिक्षिपति – पात इति ॥ ‘अग्नेरूर्ध्वज्वलनम्’ इत्यादिना पवनदहनयोस्तिर्यक्प्रवृत्तिरूर्ध्वप्रवृत्तिश्च यथाकेवलमदृष्टात्परिकल्प्यते; एवमम्बुभूम्योरपि पातः केवलमदृष्टादेवास्तु, किमनेन कल्पितेन गुरुत्वेन, तत्कल्पने गौरवात्? कथं तर्हि गुरुत्वाभावे मानवेलायां द्विपलादिव्यवहारः पातभेदात् परिकल्प्येत? तदपि चांशवैषम्याद्योयुज्यत इत्याह – पाते भेदादिति । पञ्चपणनिक्षेपाद्दशपणनिक्षेपे हि पातवैषम्यं दृश्यते; तत्तदाधिक्यमन्तरेण न भवति । निष्कनिक्षेपेऽप्यंशाधिक्यमस्त्येव; निष्कार्धनिक्षेपात्, अन्यथा गुरुत्वाधिक्यस्याप्ययोगात् । तथा च तेनैवांशवैषम्येण पातभेदः । तथा च किमजागलस्ततनवदप्रयोजकेन गुस्त्वाधिक्येन? दृष्टा च भूतान्तरेषु गुणान्तरकल्पनामन्तरेणांशाधिक्यादेव कार्यभिदा; यथा – अग्नेरूर्ध्वज्वलनादौ । जाज्वल्यते हि वह्निरंशाधिक्ये; सदभावे केवलं ज्वलति । एवं पोपवीति च मरुत् अंशाधिक्ये, तदभावे केवलं पवते । एवं जलमप्यंशाधिक्ये क्रियासमभिहारेण स्यन्दते, तदभावे स्यन्दत एव । तस्मात् सर्वोऽप्यदृष्टादेव भवतु; अन्यथा अग्न्यादावपि गुणान्तरं कल्प्यं स्यादित्याह – न चेदिति । न ह्यग्न्यादावूर्ध्वज्वलनादिकारणं भवद्भिः कल्प्यते; अतो गुरुत्वस्यानुमानिकत्वमनुमानवार्तानभिज्ञतानिबन्धनमिति ॥ ३६ ॥ इति गुरुत्वाख्यगुणानुमानभङ्गः ॥

5.397     त्वक्संवेद्यं गुरुत्वं कतिचिदभिदधुस्तत्तु तेषां गुरुत्वं

नोर्ध्वं स्पृष्ट्वा प्रतीमस्तदिह परधृते नाप्यधस्तात्स्पृशन्तः ।

न ह्यन्यालम्बितोऽर्थो भवति लघुतरः स्पर्शनं नोपरुद्धं

तेनाक्रान्तौ प्रणुत्तिक्रम इति गुरुणा तर्कितस्तोलनाद्यैः ॥ ३७ ॥

तर्हि गुरुत्वस्य प्रत्यक्षत्वमस्त्विति वदन्तमपि प्रतिक्षिपति – त्वक्संवेद्यमिति ॥ त्वचा गुरुस्त्वं संवेद्यत इति ये ह्यभिदधुः तत्तु तेषां गुरुत्वमित्याधिक्षेपवादः । तत्र हेतुमाह -नोर्ध्वमिति । यदि गुरुत्वं त्वचा गृह्येत, रुचकादिष्वधः – स्पर्शवदूर्ध्वस्पर्शेऽपि गुरुत्वं प्रतीयेत । न च तथा प्रतीमः । किंचाधस्तादपि स्पर्शनेन क्वचित् गुरुत्वं न प्रतीयते । न हि परधृते वस्तुन्यधस्तादपि स्पृशन्तो गुरुत्वं प्रतियन्ति । नन्वन्यालम्बिते लघुत्वमेव तदा जातमिति वक्तुं न शक्यते; अन्यस्य प्रयासेन धारणाभावप्रसङ्गात् । अस्तु गुरुत्वमनुवर्तत इति; अथाऽप्यन्यालम्बिते स्प्रष्टुः स्पर्शनमुपरुद्धमिति च वक्तुं न शक्यमित्याह -स्पर्शनमिति । स्पर्शनेन्द्रियोपरोधे गुणान्तरोपलम्भस्याप्यभावप्रसङ्गादित्यर्थः । कथं तर्हि लोके गौरवतारतम्यं हस्तेन परीक्ष्यत इत्यत्राह – तेनेति । गुरुणा द्रव्येण हस्ताद्याक्रान्तौ प्रणोदनक्रमविशेषस्य उपलब्धत्वात् हस्ततोलनाद्यैः प्रणोदनक्रमस्तर्कित इत्यर्थः । यदि गुरुत्वमस्ति, तदा गुरुत्वनिमित्तकः प्रणोदनक्रमः । यदि वा गुरुत्वं नास्ति, तदा गुरुत्वाश्रयत्वेन परिकल्पितद्रव्याधिक्यनिबन्धनः प्रणोदनक्रमः; सर्वथा गुरुत्वप्रत्यक्षत्वं नास्तीति भावः ॥ ३७ ॥ इति गुरुत्वप्रत्यक्षत्वभङ्गः ॥

5.398     क्षित्यादौ सांख्यदृष्ट्या यदि किमपि तमस्कार्यमिदं गुरुत्वं

तद्वत् कल्प्येत वह्निप्रभृतिषु न कथं सत्त्वकार्यं लघुत्वम् ।

यादृग्भूताद् गुणात्तद्वदसि च पतनं तादृशादस्तु तस्मात्

कॢप्तिस्त्वन्यस्य गुर्वीं भवतु तदधिकं काममाप्तोपदेशात् ॥ ३८ ॥

इत्थमनुमानगम्यत्वं प्रत्यक्षगम्यत्वं च गुरुवस्य प्रतिक्षिप्तम् । एवं तर्हि गुरुत्वमेव प्रतिक्षिप्तं भवति; तथा चागमविरोधः । सांख्यास्तु ‘गुरुवरणकमेव तम इति तमःकार्यत्वेन गुरुत्वमुपपादयन्ति । यत्सांख्योक्तं न तत्सर्वमपि प्रतिक्षिप्यते; अनुकूलमविरुद्धं चाङ्गीक्रियते वेदवादिभिरिति । एतत्प्रतिबन्द्या निराकर्तुमनुवदति – क्षित्यादावित ॥ तदेव प्रतिबन्द्या प्रतिक्षिपति – तद्वदिति । यदि सांख्योक्तमिति गुरुत्वं स्वीक्रियेत, तर्हि ‘सत्त्वं लघु प्रकाशकं’ इति तैरेवोक्तं सत्त्वकार्यं लघुत्वमपि वह्न्यादौ स्वीक्रियेत । न च तथा स्वीकृतमिति भावः । किंच पतनानुपपत्त्या हि गुरुत्वं कल्प्यते प्रकृतिपरिणामविशेषे पृथिव्यादौ । तच्च गुरुत्वं यादृग्भूतात्तमसो भवतीति वदसि । तादृशादेव तस्मात् तमसः पतनमस्तु, किमनेन मध्ये परिकल्पितेन गुरुत्वेनेत्याह – यादृग्भूतादिति । अन्यथा लघुत्वमपि परिकल्प्येतेति प्रतिबन्द्यनुवर्तते; तस्मादधिकस्य गुरुत्वस्य परिकॢप्तिर्लघुत्वकॢप्तिवत् गुर्वी । अथापि तेषुतेषु शास्त्रेषु माषसर्षपादीनामन्येषामपि पर्वतपरमाण्वादीनां गौरवतारतम्यव्यवहारो दृश्यत इति चेत्, तर्हि आगमिकमेव गुरुत्वमङ्गीकुर्महे । अतो नास्माकं क्वचिद्विरोधः । अविरोधमेवाह – काममिति । आगमप्रामाण्यावलम्बनेन अतिरिक्तगुरुत्वाङ्गीकारे[ऽपि] नास्माकं काचित् क्षतिः । तस्याप्यागमस्य पूर्वोक्तप्रक्रियया विषयभेदाङ्गीकारेऽपि नास्माकं प्रधानार्थविरोधः ॥ ३८ ॥ इत्यागमिकगुरुत्वनिर्वाहः ॥

5.399     एकद्व्यादिप्रतीतिव्यवहृतिविषयो यो गुणस्सा तु संख्या

क्वाप्यैक्यं नित्यसिद्धं क्वचिदवयवगैर्जन्यते तत्तदैक्यैः ॥

द्वित्रित्वाद्यं त्वनेकावगतिसहकृतैकैकनिष्ठैक्यजन्यं

तत्तत्पुंमात्रदृश्यं क्षणिकमिति कथा काऽपि कौतस्कुतानाम् ॥ ३९ ॥

अथ संख्यायाः परिशोधनार्थं प्रागेव संरव्याविषयां प्रक्रियामनुवदति – एकेति ॥ एकद्व्यादिप्रतीतिव्यवहारविषयो यो गुणस्सा संख्या । सा पुनः क्वापि – परमाण्वादौ नित्यसिद्धा, क्वचित् – द्व्यणुकत्र्यणुकादौ तत्तत्कारणगतैरैक्यैर्जन्यते । द्वित्वत्रित्वादिकं तु अनेकावगतिसहकृतैकैकनिष्ठैक्यजन्यम् । तादृशी चावगतिरपेक्षाबुद्धिरित्यभिधीयते । सा चापेक्षाबुद्धिः तत्तत्पुरुषमात्रनिष्ठेति तज्जन्यं द्वित्वत्रित्वादिकं तत्तत्पुरुषैरेव दृश्यते; तत्कालमात्रभावित्वात् । तच्च क्षणिकमिति कौतस्कुतानां तार्किकाणां – कथा; काऽपि श्रूयत इति शेषः ॥ ३९ ॥ इति कणादोक्तसंरव्याप्रक्रिया ॥

5.400     तत्र द्वित्वाद्यपेक्षामतिविषयभिदामात्रमेवास्त्वभीष्टं

द्वित्वाद्युत्पत्तिमूलं यदभिलपसि तद्व्याहृतेरस्तु मूलम् ।

द्वित्वादिप्रागभावैर्ध्रुवमिह हि विना धीविशेषोऽभ्युपेयः

तन्मूलं निर्गुणानां विगणनमपि च स्थापनीयं गुणानाम् ॥ ४० ॥

अनूदितेऽर्थे द्वित्वादिकं निराकरोति – तत्रेति ॥ यादृशादपेक्षाबुद्धिविषयात् द्वित्वाद्युत्पत्तिं वदसि तादृशापेक्षाबुद्धिविषयवस्तुविशेषोपलम्भ एव द्वित्वादिव्यवहारमातनोतु; किमनेन द्वित्वादिकल्पनेन? तदिदमाह – द्वित्वाद्युत्पत्तिमूलमिति । अयं भावः – ह्यपेक्षाबुद्धिर्निर्विषया; अज्ञानत्वप्रसङ्गात् । नापि प्रकृतानुपयोगिवस्तुविषया, प्रकृतासंगतिप्रसङ्गात् । तथा सविषयत्वे प्रकृतसंगतविषयत्वे च सिद्धे कोऽयं विषयविशेष इति निरूपणीयमित्यवशिष्यते । स पुनर्विषयविशेष एव द्वित्वादिस्थाने निविश्य द्वित्वादिव्यवहारमातनोत्विति । तर्हि द्वित्वादिप्रागभाव एव विशेषः, स एव द्वित्वाद्युत्पत्तौ मूलम्; स चाभावत्वादेव भावमपेक्षते । न हि द्वित्वादिकमन्तरेण द्वित्वादिप्रागभावो व[क्तुमपि]क्तुं, शक्यत इति चेत् तदपि मन्दम्; प्रागभावस्यानादित्वेन द्वित्वादेरनादित्वप्रसङ्गात् । तर्ह्यनेकोवगतिसहकृतैकनिष्ठैक्यप्रतीतिरपेक्षाबुद्धिरिति विशेषयाम इति चेत्तर्हिप्रागभावातिरिक्तो विषयविशेषो भवद्भिरेवाभ्युपेय इति, तदेव द्वित्वादिकमस्त्विति पुनरायातम् । तदिदमाह – धीविशेषोऽभ्युपेय इति । अभ्युपेयते च भवद्भिरप्ययमर्थो गुणादीनां गणनाविशेष इति प्रतिबन्दी पुरस्कुरुते – तन्मूलमिति । नहि गुणादीनां द्वित्वादिकं भवद्भिरभ्युपगम्यते; गुणानां गुणाभावात् । नच द्रव्यगतेन संख्याविशेषेण गुणानां संख्यैकार्थसमवायेन द्वित्वत्रित्वादिव्यवहार इति वाच्यम्; विरुद्धत्वात् संख्यायाः । नव द्रव्याणि, चतुर्विंशतिर्गुणाः, पञ्च कर्माणि, द्वे सामान्ये इत्यादिर्हि भवद्व्यवहारः । ते च परस्परविरुद्धाः कथं गुणेषु संघटेरन्? अथापि द्रव्यावान्तरेषु घटपटादिषु चतुर्विंशतित्वमप्यस्ति; तदेव गुणेषु व्यवह्रियते; पञ्चत्वमपि कुत्रचिदङ्गुलिप्रभृतिषु । तत् कर्मस्विति नियमोऽस्त्विति चेन्न; अनियमात् । नहि चतुर्विंशतित्वमेव गुणेषु व्यवहर्तव्यम्, पञ्चत्वमेव कर्मस्विति नियामकमस्ति । संख्याया अभावात् । अथापि बहुलक्षणविशेषपरिगृहीतेषु गुणेषु चतुर्विंशतित्वव्यवहारः, कतिपयलक्षणपरिगृहीतेषु पञ्चत्वव्यवहार इति [मावोचः] चेन्न; लक्षणबहुत्वस्य लक्षणाल्पत्वस्य च तत्तदपेक्षाबुद्धिविषयत्वव्यतिरेकेण निरूपयितुमशक्यत्वात्; अन्यथा मुख्यसंख्याङ्गीकारप्रसङ्गात् । एवं च सति तत्तदपेक्षाबुद्भिविषयतारतम्यमात्रेण त्रिचतुरादिव्यवहारो गुणादिष्विव द्रव्येष्वपीत्यभ्युपेत्य इति निर्णयः ॥ ४० ॥ इति परोक्तद्वित्वादिनिरासः ॥

5.401     कैवल्यं नैकसंख्यापरविरहतया नापि मुख्यान्यभावौ

सङ्घातैक्यं तु राशिक्रममवयवि तु प्राङ्निरस्तं ततोऽन्यत् ।

तेनासङ्घातरूपे क्वचन निरुपधिः स्यादसावेकसंख्या

स्वाधारैकायुरेषा परमुपचरिता सेयमद्रव्यवर्गे ॥ ४१ ॥

एवं द्वित्वादिसंख्या निरस्य एकत्वसंख्या स्वरूपतः परिशोधयति – कैवल्यमिति ॥ ‘मुख्यान्यकेवलेष्वेकमिति बहुषु विषयेषु एकशब्दं प्रयुञ्जते प्रयोक्तारः । तत्र कैवल्यं नैकत्वसंख्या; परविरहरूपत्वात् कैवल्यस्य । न ह्येकत्वसंख्या वस्त्वन्तरवैधुर्यरूपतया प्रतीयते; एकमिति भावत्वेनैव प्रतीयमानत्वात् । नापि मुख्यत्वमेकत्वसंख्या; अमुख्येप्वप्येकव्यवहारदर्शनात् । नाप्यन्यभाव एकत्वम्; स्वस्मिन्नप्येकव्यवहारात् । अतो मुख्यत्वमन्यत्वमसहायत्वं चापहायान्यदेव किंचिदेकत्वम् । तच्च नावयविनि वर्तते; अवयविन एवाभावात् । संघातैक्यं तु राशिवदौपचारिकमेव । तदिदमाह -संघातैक्यमित्यादिना, ततोऽन्यदित्यन्तेन । असंघातरूपे परमाण्वादौ निरुपाधिरसावेकत्वसंख्या स्वीक्रियते । एषा चैकत्वसंख्या स्वाधारैकायुः – यावद्द्रव्यभाविनीत्यर्थः । अद्रव्येषु कथमेकत्वसंख्येति चेत्तत्राह – परमिति । द्विविधो ह्येकत्वव्यवहारो मुख्य औपचारिक इति । परमाण्वादौ मुख्यः; संघातरूपे पुनरवयव्यादौ औपचारिकः; औपाधिकत्वात्तद्व्यवहारस्य । एवमद्रव्येष्वेकव्यवहार औपचारिकः; अन्यथा अनवस्थादिदोषप्रसङ्गादिति । अयमत्र निर्णयः – द्वित्वादिकं नास्त्येव; अपेक्षाबुद्धिविषयतामात्रेण प्रतीतिव्यवहारयोरन्यथासिद्धत्वात् । एकत्वं तु विद्यते, तत्पुनर्यत्र बाधोऽस्ति गुणादौ, तत्र त्वौपचारिक इति ॥ ४१ ॥ इति एकत्वसंख्यास्वरूपाश्रयादिनिरूपणम् ॥

5.402     ऐक्यं स्वाभेदमाहुः कतिचन न भिदाऽस्त्येकमेवेति दृष्टे-

र्भेदादृष्ट्यैक्यमोहस्तदिति च वचनं तत्रतत्राभ्युपेतम् ।

अन्ये त्वेतत्स्वसत्त्वं विदुरितरसमुच्चित्यवस्थानुवृत्तं

तत्पक्षेऽपि स्वरूपादधिकमिदमिह द्वित्वमोहादिसिद्धेः ॥ ४२ ॥

इत्थमेकत्वं प्रसाध्य तस्य मतभेदेन स्वरूपमेव विविच्य दर्शयति – ऐक्यमिति ॥ आचार्याः केचित् स्वाभेदमेवैक्यमाहुः । तत्र हेतुमाह – न भिदाऽस्त्येकमेवेति दृष्टेरिति । अयं भावः – ऐक्यविवरणे प्रवृत्ता निर्णेतारो भेदाभावरूपतयैव ह्यैक्यं विवृण्वन्तीति । व्यवहारान्तरमप्यत्रानुकूलमित्याह – भेदेति । ऐक्यभ्रमो भेदादर्शनादभूदिति भ्रान्तिविषये व्यवहरन्ति व्यवहर्तारः; तच्चैक्यस्य भेदाभावरूपत्वानुकूलं तत्रतत्राभ्युपेतमितीदृशो व्यवहारो भूयान् । स च व्यवहारस्सर्वैरप्यभ्युपेयः । अतो भेदाभाव एवैक्यमिति केचिदाचार्या निरणैषुः । अन्ये तु स्वसत्त्वमेवैक्यम्; इतरसद्भावेऽपि तद्वर्तते; तच्च स्वसत्त्वं स्वरूपादधिकमेव; अन्यथा स्वरूपे प्रकाशमाने द्वित्वादिमोहानुपपत्तेः । एकत्वे तिरोहिते हि द्वित्वादिव्यामोहः; द्वौ चन्द्रमसावित्यत्र स्वरूपं प्रकाशते; एकत्वं तिरोहितमिति वाच्यम् । तथा चैक्यस्य भेदाभावरूपत्वे[ऽपि] स्वसत्त्वरूपत्वेऽपि स्वरूपादतिरेकः स्वीकार्यः; अन्यथा द्वित्वादिव्यामोहायोगादिति ॥ ४२ ॥ इति एकत्वविषयमतभेदः ॥

5.403     अन्यत् गृह्णात्यभिज्ञा तदिदमिति पुनः प्रत्यभिज्ञाऽन्यदैक्यं

कालक्षेत्रादिभेदग्रहजनितभिदाभ्रान्तिशान्तिस्ततः स्यात् ।

मोहस्तत्रैकताधीर्ज्वलन इव भवेत् प्रत्यभिज्ञा त्वतश्चेत्

स्वव्याघातोऽनुमाया भ्रम इह निखिला स्यादभिज्ञाऽपि तद्वत् ॥ ४३ ॥

अतःपरम् अभिज्ञाप्रत्यभिज्ञाविषययोरेकत्वयोर्वैषम्यमाह – अन्यदिति ॥ इदमिति ग्रहणं तावदभिज्ञा; सा खल्वेकदेशकालवर्तिनः स्वस्मिन्नैक्यं गृह्णाति; तदिदमिति पुनः प्रत्यभिज्ञा देशकालभेदप्रसक्तभेदविरो[ध्यन्यदैक्यं]ध्यैक्यं गृह्णाति । अतो विषयभेदाद् भेदभ्रस्तिशान्तिः स्यात् । ननु विप्रतिपन्ना प्रत्यभिज्ञा भ्रान्तिः प्रत्यभिज्ञात्वात् प्रदीपप्रत्यभिज्ञावदिति प्रत्यभिज्ञायास्सार्वत्रिकं भ्रान्तित्वमाशङ्कते – मोह इति । परिहरति – स्वव्याघात इति । तथा च अयमिति ह्यनुमानं प्रवर्तते । तत्रापि प्रतिसन्धानरूपत्वेन स्वव्याघातः प्रसज्यत इति भावः । बाधाबाधविवेकाभावेन प्रत्यभिज्ञामात्रतया सर्वत्रापि भ्रान्तित्वसाधने शुक्तिरजताभिज्ञावत् स्वलक्षणाभिज्ञायामपि भ्रान्तित्वं साधयितुं शक्यत इत्याह – भ्रम इहेति ॥ ४३ ॥ इति अभिज्ञाप्रत्यभिज्ञाविषयैकत्वविशेषसत्यत्वम् ॥

5.404     अद्रव्येऽप्यस्ति संख्याव्यवहृतिबलतस्सा ततोऽन्या गुणादे-

र्मैवं संख्यासु संख्याव्यवहृतिवदियं स्यात्त्विहोपाधिसाम्यात् ।

नो चेत्प्राप्ताऽनवस्थाव्यवहृतिनियतिस्थापनं तुल्यचर्चं

तस्मात् काणादकॢप्तिर्गुरुमतकथकैर्युक्तमत्रापि सोढुम् ॥ ४४ ॥

वैशेषिकोक्तसंख्यातो व्यतिरिक्तसंख्यावादिनं प्राभाकरं प्रतिबन्द्या प्रतिक्षेप्तुमारभते – अद्रव्य इति ॥ इत्थं किल तेषामाशयः – संख्याव्यवहृतिरद्रव्येऽप्यस्ति । अतो व्यवहारबलात् सा संख्या पुनरद्रव्याद् गुणादेरन्येति । तत् दूषयति – मैवमिति । तत्र प्रतिबन्दीमाह -संख्यास्विति । अद्रव्यत्वे समानेऽपि संख्यासु संख्याव्यवहारो भवद्भिरप्यङ्गीकार्यः । द्रव्यत्ववैधुर्यं ह्यद्रव्यत्वम्; तत्तु संख्यायामपि समानम् । तथा च संख्यायां संख्याव्यवहारवत् अन्येष्वप्यद्रव्येषु संख्याव्यवहार औपाधिकः स्यादेवेति । तत्र हेतुमाह – उपाधिसाम्यादिति । स्वाभाविकसंख्याङ्गीकारे पुनरनवस्थेत्याह – नो चेदिति । गुणादाविव संख्यायामपि संख्याव्यवहारो मुख्यः स्यादिति भावः । संख्यायाममुख्यसंख्याव्यवहृतिनियमस्थापनं चेत्, तद्गुणादावपि तुल्यचर्चमित्याह – व्यवहृतिनियतिस्थापनमिति । उक्तमर्थं निगमयति – तस्मादिति । काणादकॢप्तिमङ्गीकुर्वाणस्य प्राभाकरस्य संख्यायामपि तत्कॢप्तिरङ्गीकार्येत्यर्थः ॥ ४४ ॥ इति प्राभाकरोक्तसंख्यानिरासः ॥

5.405     देशाधिक्यादिसिद्धावुपधिभिरिह तद्युक्तसंयोगभेदात्

देशव्याप्तिप्रभेदः परिमितिरिति चेन्नोपधीनां मितत्वात् ।

देशैस्तन्न्यूनतादौ प्रसजति हि मिथस्संश्रयस्तत्स्वतस्सा

मन्तव्या क्वापि राशिप्रभृतिषु तु परं देशसंबन्धभेदः ॥ ४५ ॥

अत्र कश्चिदाह – गुणेषु संख्याव्यवहारवत् द्रव्येष्वपि परिमाणव्यवहारोऽप्युपाधिभेदादेव स्यात्; न पुनः स्वाभाविकं परिमाणमिति । तदाह – देशाधिक्यादीति ॥ उपाधिभिर्मणिकघटकरकादिभिराकाशदेशाधिक्यादिसिद्धौ तत्तदुपाधियुक्ताकाशदेशसंयोगतारतम्यात्तत्तदन्तर्गतानां द्रव्याणां तत्तद्देशव्याप्तिप्रभेद एव परिमाणम्, न पुनः परिमाणमिति गुणान्तरमिति चेत्, तन्न; उपाधीनामेव मणिकादीनां स्वभावतः परिमितत्वात् । अतः स्वाभाविकं परिमाणम् उपाधिष्विवान्यत्राप्यङ्गीकरणीयमित्यर्थः । ननु देशैरेवोपाधीनां परिमणमस्त्विति यदि वदसि, तर्हि परस्पराश्रयः; आकाशादिदेशैरुपाधिद्रव्यपरिमाणम्, उपाधिभिश्चाकाशादिदेशपरिमणमिति । उक्तमर्थं निगमयति – तदिति । स्वतः क्वापि सा परिमितिर्मन्तव्या । क्वापीत्यसंघातरूपद्रव्यमुच्यते । संघातरूपेषु राशिप्रभृतिषु देशसंबन्धविशेषमात्रमेव परिमाणव्यवहारकारणमित्याह – राशीति । नहि क्वचिदौपचारिकत्वे सर्वत्राप्यौपचारिकत्वमित्यर्थः ॥ ४५ ॥ इति परिमाणसिद्धिः ॥

5.406     बौद्धास्तुच्छामणूनामभिदधति परिच्छित्तिमाकाशधातुं

वस्तुस्थित्या परिच्छित्त्यभवनवशतस्स्यादमीशां विभुत्वम् ।

अन्यत्रासत्त्वरूपा परिमितिरिति हि स्थापितं सा मृषा चेत्

प्राप्तं सर्वत्र सत्त्वं प्रथमसरगता स्मर्यतां व्योम्नि युक्तिः ॥ ४६ ॥

अत्र बौद्धपरिकल्पितां तुच्छरूपां परिमितिं दूषयति – बौद्धा इति ॥ बौद्धाः खल्वाकाशधातुरूपत्वादाकाशस्य च तुच्छत्वादणूनां परिमितिं तुच्छरूपामभिदधति । आकाशपरिवृतत्वमेवाणूनां परिमितिः; आकाशं चाभावरूपतया तुच्छमेव । अत्रोत्तरम् – वस्तुस्थित्येति । एवं तर्ह्यणूनां परमार्थतः परिच्छित्यभाववशात् विभुत्वमेव स्यादित्यर्थः । न हि परस्परविरोधे कोट्यन्तरमस्ति; द्रव्यस्य सतः परिमाणावश्यंभावात् । उक्तमर्थं विवृणोति – अन्यत्रेति । बौद्धपक्षे हि एकत्र देशेऽवस्थितस्य देशान्तरासत्त्वमेव हि परिमाणम् । सा चेन्मृषा परिमितिस्तर्हि देशान्तरेऽपि सत्त्वं स्यात् । तर्हि कथमाकाशादौ परिमितत्वमपरिमितत्वं[वे] चेत्यादिचोद्यं प्रथमसर एव परिहृतमुपाधिभेदादिति; तदत्रापि स्मर्यतामित्यर्थः ॥ ४६ ॥ इति सौगतोक्ततुच्छपरिमितिनिरासः ॥

5.407     स्थूलाणुह्रस्वदीर्घेतरदुपनिषदि स्थापितं ब्रह्म तस्मिन्

सर्वोत्कृष्टं महत्वं श्रुतमपि तदिह स्थूलतान्या निषिद्धा ।

अन्ये त्वाहुर्विभूनामपरिमितवचःप्रत्ययान्मित्यभावं

भावैकात्मन्यभावे परिमितिविरहोऽप्यत्र भावान्तरं स्यात् ॥ ४७ ॥

ननु सर्वपरिमाणनिषेधो ब्रह्मणि दृश्यते ‘अस्थूलमनण्वह्रस्वं’ इति । तत्कथं विरुद्धपरिमाणनिषेधसमुच्चय इति कश्चिच्चोदयति – स्थूलेति ॥ तत्र परिहारमाह – तस्मिन्निति । सर्वोत्कृष्टं महत्त्वं ब्रह्मणि श्रुतम् । विहितव्यतिरिक्तविषयो निषेध इति न्यायसिद्धम् । तेन ब्रह्मणि अस्थूलता पर्वतादितुल्यपरिमाणराहित्यमेव, न पुनस्सर्वव्यापित्वरूपपरिमाणराहित्यम्; विषयभेदेन व्यवस्थासिद्धौ विरुद्धार्थकल्पनायोगादिति । विभुत्वरूपं परिमाणं भावरूपमेवाङ्गीकृत्य केचिदाचार्याः प्राहुः । अन्ये पुनर्विभूनामपरिमितवचोविषयत्वात् परिमाणाभावमेव विभुत्वं प्रतिपादयन्ति, सर्वव्यापिनः परस्य ब्रह्मणः परिमितौ मानाभावादिति । अभावरूपपदार्थाङ्गीकारेणायं निर्वाहः । भावान्तराभाववादे तु परितो मानविरहोऽपि भावात्मक एवेत्याह – भावेति । भावैकात्मन्यभावेऽपि भावरूपतया स्वीकृते सतीत्यर्थः ॥ ४७ ॥

5.408     नात्यन्ताणोर्महत्ताऽस्त्यवयविनि हते मध्यमं क्वास्तु मानं

तद्धेतुष्वेव तद्धीरपि तव घटते लाघवोत्कण्ठितस्य ।

एवं त्यक्ते महत्त्वे परममहदपि त्याज्यमेवेति चेन्न

त्यागाभावात्तदिष्टादधिकमनधिकं वाऽस्तु न क्वापि दोषः ॥ ४८ ॥

ननु तव मते महत्त्वमेव न संजाघटीतीति [कश्चित्] चोदयति – नात्यन्तेति ॥ अत्यन्ताणोर्जीवस्य न तावन्महत्ताऽस्ति; अवयविवादानङ्गीकारात्; त्र्यणुकाद्यभावेन मध्यमपरिमाणरूपं महत्त्वमपि भवतां नास्ति । तदिदमाह – अवयविनीति । घटादिषु महत्त्वप्रतीतिश्च लाघवोत्कण्ठितस्य तव पक्षे पटघटादिहेतुषु तन्तुकपालादिसंघातेष्वेव घटते । एवं मध्यममहत्त्वे त्यक्ते परममहत्त्वमपि भवतः परित्याज्यं स्यात् । परमशब्दव्यवच्छेद्याभावेन विशेषप्रतीतेरभावादिति चेत्, अनूदितमर्थं दूषयति – नेति । तत्र हेतुमाह – त्यागाभावादिति । तदेवोपपादयति – तदिति । तन्महत्त्वं परेष्टान्महत्त्वपरिमाणादधिकं वाऽस्तु; अनधिकम् – तदेव वा परिमाणम् । सर्वथा तावन्न परित्यज्यते परिमाणरूपं वस्तुतत्त्वमिति न क्वाप्यस्माकं दोष इत्यर्थः ॥ ४८ ॥ इति परममहत्त्वनिरूपणम् ॥

5.409     द्रव्यं कृत्स्नं स्वभावात् परिमितिरहितं व्यापकैकत्वयुक्ते-

रौपाधिक्यंशकॢप्तिर्घटगगननयात्स्यादवस्था ह्युपाधिः ।

स्वाभावैर्वेष्टितत्वं घटत इह घटाद्याकृतौ द्रव्यधर्मे

पार्श्वोक्तिस्तावता स्यादिति न सदवधेरन्यथाऽप्यत्र सिद्धेः ॥ ४९ ॥

अत्र कश्चिदाह – द्रव्येष्वणुमहदादिप्रक्रियाभेदेन परिमाणं स्वाभाविकमस्ति, अपि त्ववस्थाभेद एव तत्सर्वमिति । तदेतदनुवदति – द्रव्यमिति ॥ तत्र हेतुमाह -व्यापकैकत्वयुक्तेरिति । एकैव सर्वव्यापिका प्रकृतिरिति ह्युच्यते – ‘अचेतना परार्था चेत्यादिभिर्वचनैः । युक्तियुक्तं चैतत्; एकस्यैव नानावस्थायोगेन नानात्वे लाघवात् । अशकॢप्तिस्तु कथमिति चेत्तत्राह – औपाधिकीति । तत्र दृष्टान्तं कथयति – घटेति । यथाऽऽकाशे घटाद्युपाधिभेदादंशकॢप्तिरित्यर्थः । तत्र घटादिरेवोपाधिः । इह पुनः कोऽयमुपाधिरिति चेत्, तत्राह – अवस्था ह्युपाधिरिति । सैवावस्था तत्रतत्र परिणता नानात्वव्यवहारे निदानमित्यर्थः । तर्हि परिमितद्रव्याभावे घटादिषु स्वाभाववेष्टितत्वं कथमित्याशङ्क्य परिहरति – स्वाभावैरिति । घटादीति स्वाभाववेष्टितं किमपि द्रव्यान्तरं न पश्यामः । अपि तु प्रकृतौ परिणता धटाद्याकृतिरेव स्वाभाववेष्टिता प्रतिभति । अनेनैव न्यायेन घटादौ पार्श्वोक्तिरपि संघटत इति वदति – पार्श्वोक्तिरिति । घटाद्याकृतावेव परितः पार्श्वोक्तिव्यवहारः । अतः परिमाणं नाम किमपि द्रव्ये न परिकल्प्यमिति । तन्निषेधति – न सदिति । तत्र हेतुमाह – अवधेरिति । उपलब्धिरेव हि सर्वत्र प्रमाणम् । परिमितत्वरूपेण उपलभ्यमानेषु घटपटादिषु न ह्यवधिसापेक्षं तत्तत्परिमाणमुपलभ्यते । तत्सापेक्षत्वे पुनः, अवधेरपि निरपेक्षपरिमाणशालित्वमकामेनापि स्वीकर्तव्यमिति भावः ॥ ४९ ॥

5.410     अव्यक्ते स्यादणुत्वप्रभृतिपरिणतिः स्तम्भकुम्भादिनीत्या

नाणुत्वं पूर्वसिद्धं नरमृगरचनाद्यप्यवस्थाक्रमेण ।

इत्युक्तं सांख्यशैवप्रभृतिसमयिभिस्तत्तथैवास्तु मा वा

नित्याणौ जीवतत्त्वे न कथमपि भवेदण्वस्थाप्रसूतिः ॥ ५० ॥

इत्थं सामान्येन परिमाणं प्रसाध्य स्वाभाविकमात्मनोऽणुत्वं प्रसाधयितुं विशेषतोऽप्यणुपरिमाणं शोधयति – अव्यक्त इति ॥ अणुत्वप्रभृतयो हि धर्माः प्रकृतिद्रव्य एव परिणामभेदाद्युज्यन्ते, यथा स्तम्भत्वकुम्भत्वादयः; अतोऽनादिसिद्धमणुत्वं नाम किंचिन्नास्ति । यथा एकस्यैव प्रदेशभेदेन नरमृगादिविरुद्धधर्मरचना । अथवा एकस्यैव क्रमेण पूर्वं नररूपेणावस्थितस्य पश्चान्मृगरूपेणावस्थानम् । एवं कालभेदेनाणुत्वेनावस्थितस्यैकस्यैव महत्त्वम्; महत्त्वेनावस्थितस्याणुत्वम् । इत्थं सांख्यशैवप्रभृतिभिरुक्तम् । एतद्युक्तमयुक्तं वाऽस्तु; उभयथाऽपि नास्माकं क्षतिः; यदि कारणावस्थायां महती प्रकृतिः कार्यावस्थायां कालभेदेन परिणतिवशादणुत्वं भजति; यदि वा कारणवस्थायां त्रसरेणुसंघातरूपेणावस्थिता प्रकृतिरनुपलभ्यमानस्वरूपभेदा कार्यावस्थायां कालभेदाधीनभागोपलम्भेन त्रसरेण्वादिरूपेणोपलम्यत इति; उभयधाऽपीश्वरकारणत्वादिरूपप्रधानार्थविरोधाभावादुच्यमानस्य चार्थत्यानुपपत्तिविशेषस्फोट्याभावात्तत्र न विप्रतिपद्यामहे । अयमत्र विशेषः – प्राकृतपरमाणौ यथातथा वाऽस्त्वणुपरिमाणम्, जोवतत्त्वे न कथमपि भवेदाण्ववस्थाया उत्पत्तिः, जीवस्यानाद्यनन्तत्वेनैव प्रमाणसिद्धत्वादित्याह – न कथमपीति ॥ ५० ॥ इति अवस्थामात्रपरिमाणवादभङ्गः ॥

5.411     चर्चा तुल्यैव भिन्नं पृथगितरदिति प्रत्यये तत्पृथक्त्वं

भेदाख्यो नीलपीतप्रभृतिरभिमतः किं मुधाऽन्यस्य कॢप्तिः ।

नाप्यज्ञातावधीनां पृथगिदमिति धीर्नापि भिन्नादिवाचां

साकं क्वापि प्रयोगो न च पृथगिति धीर्द्रव्य एवेति सिद्धम् ॥ ५१ ॥

इत्थं परिमाणं संशोध्य पृथक्त्वमपि शोधयति – चर्चेति । व्यवहार एव खल्वर्थतत्त्वविभागे निदानम्; यद्भिन्नमिति व्यवह्रियते, तदेव पृथगिति; यत्पृथगिति तदेवेतरदिति च व्यवह्नियते । अत एषां शब्दानां पर्यायत्वात् भेदातिरेकेण पृथक्त्वं नाम न कश्चिद्धर्मः कल्पनीयः । किंच भेदश्च नीलपीतादिरसाधारणो धर्म एवाभिमतः । तथा च पृथग्व्यवहारस्यान्यथासिद्धत्वे किं मुधाऽन्यस्य पृथक्त्वस्य परिकॢप्त्या? ननु पृथक्त्वं भावरूपं प्रतियोगिनिरपेक्षम्, भेदस्तु प्रतियोगिसापेक्ष इति वैषम्यमाशङ्क्य परिहरति – नापीति । न ह्यवधिपरिज्ञानाभावे सतीदमस्मात् पृथगिति व्यवहरन्ति । यदि पृथक्त्वमसाधारणधर्मरूपाद्भेदादन्यत्, तर्हि तद्वाचकशब्दस्य भेदवाचकशब्देन सामानाधिकरण्यं प्रसज्येत । न च तथोपलभ्यते; न हि पृथगित्युक्त्वा भिन्नमिति वदन्ति; भिन्नमिति चोक्त्वा पृथगिति वा । तदिदमाह – नापीति । न च पृथगिति धीर्द्रव्य एव नियता; गुणादीनामपि पृथक्त्वेनोपलम्भात् । अतः परस्परव्यावर्तकासाधारणधर्म एव सर्ववस्तूनां पृथक्त्वम्; तदेव लक्षणम्; स एव भेद इति सर्वमवदातम् ॥ ५१ ॥ इति पृथक्त्वाख्यगुणान्तरकॢप्तिभङ्गः ॥

5.412     तन्त्वादीनां पटादिव्यवहृतिनियता दृश्यते काऽप्यवस्था

सा चेद् द्रव्यस्वरूपं भवति विफलता कारकव्यापृतीनाम् ।

तत्रासंयुक्तवुद्धिः कथमिव च भवेत् स्थैर्यवादस्थितानां

नैरन्तर्यं च भावो मम तदघटितं मध्यमेवान्तरं च ॥ ५२ ॥

संयोगस्यान्तरालाभावत्ववादिनं बौद्धं निराकर्तुं तस्यानन्यथासिद्धप्रमाणप्रतिपन्नत्वेन स्वीकर्तव्यत्वमाह – तन्त्वादीनामिति ॥ पटादिव्यवहृतिनियता – तन्त्वादीनामवस्थैव पट इति वेदान्तिनः । येऽपि चावस्थाव्यतिरेकेण द्रव्यान्तरं स्वीकुर्वन्ति, तेषामप्यसमवायिकारणावस्थाविशेषत्वेन स पुनः स्वीकार्यः । तथा च संयोगस्सिद्धः । साऽवस्था द्रव्यस्वरूपमेवेति चेत्, तर्हि? कारकव्यापाराणां विफलता च स्यात् । किंचापूर्वसंयु[क्तावस्थास्वीकाराभावे सति]क्तत्वरूपावस्थानङ्गीकारे विभक्तेषु तन्तुषु असंयुक्तत्वबुद्धिः कथं स्यात्, स्थिरवादिनां संयुक्ततन्तुस्वरूपस्यानपायात्? प्रतिक्षणं तन्तव उत्पद्यन्त इति चेत्; निरस्त एव क्षणभङ्गवाद इत्यभिप्रायेणाह – स्थैर्यवादस्थितानामिति । ननु नैरन्तर्यं संयोगः; स चान्तरालाभावः । अभावश्च शुन्यमेवेति चेत्तन्न; अभावस्यापि भाववदशून्यत्वात् । निषेधकप्रमाणगोचरो ह्यभावः; स कथं शून्यतामनुभवति? किंच भावान्तराभाववादिनामस्माकं पक्षे नैरन्तर्यमपि भाव एव । किं तर्ह्यन्तरम्? तदपि भाव एव । द्वयोरपि पदार्थयोर्मध्यमेव नन्वन्तरमित्युच्यते । अतोऽन्तरालमन्तरालाभावरूपतया भवत्परिकल्पितसंयोगोऽपि भावरूप एवेति न शून्यगन्धावकाशः ॥ ५२ ॥ इति संयोगसिद्धिः ॥

5.413     सर्वं द्रव्यं सभागं न यदि कथमुपाध्यन्वयो भागतः स्यात्

कार्त्स्न्येनोपाधियोगे कथमणुविभुनोस्सूक्ष्मतादीति जैनाः ।

सामग्रीशक्तिभेदप्रजनितविविधोपाधियोगस्वभावा

दौपाधिक्यंशकॢप्तिः कथमिव न भवेद् द्विष्ठसंबन्धदृष्टेः ॥ ५३ ॥

एवं संयोगस्य सिद्धिमुक्त्वा तस्य संयोगस्य वस्तुन्येकदेशवर्तित्वसामर्थ्यात् सर्वस्यापि द्रव्यस्य सांशत्वं वदतो जैनस्य पक्षमनूद्य प्रमाणानुरोधेन परिहरति – सर्वमिति ॥ इत्थं किल ते मन्यन्ते – परमाण्वादि सर्वमपि द्रव्य सभागमेव; पदार्थान्तरसंयोगस्य पार्श्वषट्कमन्तरेणानुपपत्तेः । यदि पार्श्वपरिकॢप्तिरुपाधित इति वदन्ति, तच्च न; निरवयवद्रव्यस्य उपाधिसंयोगेऽप्यनधिकारात् । मध्यस्थस्य हि परमाणोः परितःस्थितषडुपाधिसंसर्गोऽपि षड्भिरेव पार्श्वैरुपपद्यते । अन्यथा कथमुपाधिसंसर्गस्तत्रतत्रेत्यौपाधिकोऽपि पार्श्वनियमः सिध्येत्? तर्हि निरवयवस्य कार्त्स्न्येनोपाधिसंसर्गं वदाम इति चेत्, तर्हि परमाण्वाकाशयोः परस्परसंसर्गे परमाणुरपि विभुः स्यात्; आकाशो वा परमाणुः स्यात् । तदिदमाह – कार्त्स्न्येनेति । इत्थमनूदितं पक्षं प्रमाणानुरोधेन परिहरति – सामग्रीति । अयमर्थः – दृश्यते तावत्संयोगः; स च क्वाचित्कतया उपलभ्यते । स यदि संसर्गः प्रदेश एव न वस्तुनीत्यभिधीयेत, तथा सति तस्यापि प्रदेशस्य प्रदेशान्तरपरिकॢप्त्या कस्मिंश्चिदपि वस्तुनि संबन्धो न स्यादेव । दृश्यमानस्य च संबन्धस्याधारतया परिदृष्टमेव वस्तु परिग्राह्यम् । तत्तु निरवयवं चेत् औपाधिकांशभेदकॢप्त्या निर्वाह्यम् । ननु तादृशस्योपाधिसंबन्धेऽप्यनधिकार इत्युक्तमिति चेत् द्विष्ठसंबन्धदृष्टिबलादुपाधिसंबन्धस्य स्वपरनिर्वाहकत्वेन निर्वाहः कल्प्यः । तदिदमाह – औपाधिकीति । एव च सत्यणुरपि स्वधर्मिग्राहकबलादणुत्वेनैव सिद्धः; विभुरपि विभुत्वेन; [उभयमपि निरवयवम् । अथापि तत्तद्धर्मिग्राहकप्रमाणबलाद्विभुत्वाणुत्वयोः प्रतिनियतिः ।] द्वयोरपि निरवयवत्वम्, औपाधिकांशकॢप्तिश्चेति सङ्गतमेतत् ॥ ५३ ॥ इति निरवयवेष्वेकदेशसंयोगप्रकारः ॥

5.414     नैरन्तर्यं विभूनामपि भवति ततोऽन्योन्ययोगोऽपि योग्यः

केचित्तं हेत्वभावाञ्जहति विहतिकृन्नित्यधीकल्पने तत् ।

स्याद्वा तत्सिद्ध्यसिद्ध्योरनुमितिरपटुर्बाधहानेर्विपक्षे

शास्त्रैरन्यद्विभुः स्यात् परधृतमपृथक्सिद्धिरेवं ततोऽस्य ॥ ५४ ॥

अस्तु संयोगः; अथापि विभूनां परस्परसंयोगो नास्तीति काणादादयः । तान्निषेधति – नैरन्तर्यमिति ॥ निरन्तराणां हि पदार्थानामन्योन्यसं[सर्ग]योग उपलभ्यते; विभूनामपि नैरन्तर्यमस्ति; अतोऽन्योन्यसंयोगयोग्यताऽस्ति । तदेतदाह – तत इति । केचित्तु हेत्वभावात् संयोगं जहति; अन्यतरकर्मोभयकर्म वा संयोगो वा संयोगस्य हेतुः, त्रितयमपि विभुषु न घटत इति । तत्र दूषणामाह – विहतिकृदिति । ईश्वरज्ञानादीनां कारणाभावादभाव इति परवादिभिरुक्ते कार्यभूतस्य ज्ञानादेः कारणापेक्षा न नित्यज्ञानादेरिति काणादादयः परिहरन्ति । तुल्यमेतदजसंयोगकल्पनेऽपि । अनित्यसंयोगस्यैव कारणाभावादभावो वक्तुं शक्यते । नित्यस्य तु कारणसापेक्षत्वाभावेन तदभावात् अभावो वक्तुं न शक्यत इति । इमामेव प्रतिबन्दीमभिप्रेत्याह – नित्यधीति । तर्ह्यजसंयोगसाधने [किमनुमानम् किं मानम्? उक्तमेव नैरन्तर्यम् । परोक्तमन्वारुह्यापि परिहरति – स्याद्वेति । अजसंयोगसाधने तावदनुमानं शक्तमशक्तं वा भवतु; विपक्षे बाधकाभावात् । शास्त्रं पुनः ‘सर्वाधारं धाम विष्णुसंज्ञं इत्यादिकं परस्य ब्रह्मणः कृस्नप्रपञ्चाधारत्वमावेदयति । तदाधारत्वं च तदपृथगवस्थानमेव । अतो विभूनामपि परमात्मसंबन्धस्य शास्त्रप्रमितत्वात् बाधकाभावाच्च युक्त एवायमजसंयोगः इति ॥ ५४ ॥ इति अजसंयोगनिरूपणम् ॥

5.415     संयोगाद्विश्वसृष्टिः प्रकृतिपुरुषयोस्तादृशैस्तद्विशेषैः

ब्रह्मादिस्तम्बनिष्ठा जगति विषमता यन्त्रभेदादयश्च ।

अक्षाणामर्थयोगाद्विविधमतिरबाद्यन्वयादङ्कुरादिः

शुद्धाशुद्धादियोगान्नियतमपि फलं न्यायतत्त्वेऽन्यघोषः ॥ ५५ ॥

संयोगस्य सार्वत्रिकोपजीवनेन सर्वैरनपोद्यत्वं दर्शयति – संयोगादिति ॥ प्रकृतिपुरुषयोस्संयोगाद्विश्वसृष्टिः, तादृशैरेव संयोगविशेषैर्ब्रह्मादिस्तम्बपर्यन्तं जगद्वैषम्यम् । आलानयन्त्रादयः सुप्रसिद्धास्संयोगरूपाः । अक्षाणामर्थसंयोगाद्विविधा मतिर्दृश्यते । अबाद्यन्वयाद् बीजादिकमङ्कुरति । शुद्धाशुद्धात्मकाभ्यां कपिलानरास्थिसंस्पर्शाभ्यां नियतमपि फलमनुशो – श्रूयामहे । अतस्संयोगविशेषास्सर्वत्रापलभ्यन्ते इति न्यायतत्त्वे संयोगस्य घोष इति ॥ ५५ ॥ इति संयोगवैचित्र्यप्रदर्शनम् ॥

5.416     संयुक्ते द्रव्ययुग्मे सति समुपनतो यस्तु संयोगनाशः

संग्राह्योऽयं विभागव्यवहृतिविषयस्सोऽपि तद्धेतुतस्स्यात् ।

त्वन्निर्दिष्टे विभागे गतवति च सतोः स्याद्विभक्तप्रतीतिः

भूयस्संयोगसिद्धौ कथमिति तु यथा त्वद्विभागान्तरादौ ॥ ५६ ॥

विभागस्य संयोगनाशादर्थान्तरत्वं प्रतिक्षिपति – संयुक्त इति । पूर्वं परस्परसंयुक्ते द्रव्यद्वये विद्यमाने सति समुपनतो यः संयोगनाशस्स एव विभागव्यवहारविषय इति संग्राह्यः । तर्हि संयोगविनाशकत्वेन विभागं स्वीकुर्म इति चेत्, तन्न; संयोगविनाशस्य विभागकारणत्वेन कल्पितात्कर्मण एव सिद्धिः स्यात् । तदिदमाह – सोऽपि तद्धेतुत इति । ननु विभागस्य संयोगनाशरूपत्वे संयोगनाशस्यानन्त्यात् भूयस्संयोगसिद्धावपि विभक्तप्रतीतिः स्यादेवेति चेत्, तर्हि त्वन्निर्दिष्टे विभागे तस्मिन्नेव क्षणे गतवति विभागप्रध्वंसमात्रमेव सतोर्द्रव्ययोरनुवर्तते । तेनैव तत्र विभक्तव्यवहारानुवृत्तौ भूयस्संयोगेऽपि तवापि विभक्तव्यवहारः स्यादिति प्रतिबन्दीमाह – त्वन्निर्दिष्ट इति । पृच्छति – कथमिति । उत्तरम् – यथेति । यथा त्वद्विभागान्तरे सति पूर्वविभागप्रध्वंसानुवृत्त्या विभक्तप्रतीतिः, एवं मध्ये संयोगकालेऽपि विभक्तप्रतीतिः स्यात् । ननु तत्र उत्तरविभागात् विभक्तप्रतीतिः; मध्ये संयोगकाले तत्प्रागभावात् । विभक्तप्रतीतिर्नास्तीति चेत्, एवं तर्हि मध्यगतसंयोगस्य विभक्तप्रतीतिपरिपन्थित्वात् तस्मिन् काले विभक्तप्रतीतिर्नास्ति, । भूयः संयोगप्रध्वंसकाले तस्यैव संयोगस्य प्रध्वंसेन तस्मिन्नेव काले विभक्तप्रतीतिरस्तीति ममापि समानमिति भावः ॥ ५६ ॥ इति परोक्तविभागभङ्गः ॥

5.417     कोऽसौ संयोगनाशस्तव मत इति चेत् सोऽयमन्यत्र योग-

स्तस्य प्राचा विरोधात् स तु मिषति तथाऽऽलोचितस्त[स्य]द्विनाशः ।

अज्ञातप्राच्ययोगः परमभिमनुते स्वेन रूपेण चैनं

सर्वोऽप्येवं ह्यभावः स्फुटमिह न पुनः कश्चिदन्योऽस्ति दृष्टः ॥ ५७ ॥

एवं संयोगनाशस्य विभागत्वं समर्थ्य संयोगनाशस्य स्वरूपं चोद्यपूर्वकं शोधयति -कोऽसाविति ॥ सोऽयमन्यत्र योगः – उत्तरदेशसयोग एव पूर्वदेशसंयोगस्य विनाशः । तत्र हेतुमाह – तस्येति । अयमर्थः – उत्तरदेशसंयोगस्य पूर्वदेशसंयोगेन विरोधात् । स तु – एवोत्तरदेशसंयोग एव । तथाऽऽलोचितः – पूर्वदेशसंयोगविरुद्धत्वेनालोचितः । तद्विनाशो मिषति – पूर्वदेशसंयोगनाश इति परिस्फुरति । कथं तर्ह्युत्तरदेशसंयोग इति भावरूपेण प्रतिपत्तिरित्यत्राह – अज्ञातेति । द्विविधा हि उत्तरदेशसंयोगस्य प्रतीतिः; ज्ञातपूर्वदेशसंयोगस्य तद्विरुद्धत्वेन काचित्, स्वरूपेण चापरा । तत्र ये स्वरूपेण प्रतिपद्यन्ते ते भावरूपेणाभिमन्यन्ते; ये पुनः पूर्वदेशसंयोगविरुद्धत्वेन प्रतिपद्यन्ते ते त्वभावरूपेणेति विभागः । उक्तमर्थं सार्वत्रिकत्वेनोपपादयति – सर्व इति । भावान्तराभाववादिनां सर्वोऽप्यभावो न भावान्तरादतिरिच्यत इति भावः । एवं सर्वत्रापि भावस्यापलापे कुत्रापि भावो न स्यादित्याशङ्क्याह – स्फुटमिति । यत्र स्फुटदृष्टो भवति भावरूपः पदार्थः, तत्र तथैव स्वीकार्यम् । यत्र पुनरितराभावतया निर्वोढुं शक्यते तत्र तथैव निर्वाह्यः । सर्वेऽपि वादिन इत्थमेव खलु भावाभावविवेकं परिल्पयन्तीति भावः ॥ ५७ ॥ इति संयोगनाशस्वरूपशोधनम् ॥

5.418     स्पन्दावृत्त्यादिभेदात् परमपरमिति प्रत्ययौ तत्तदर्थे

कालाधिक्यादिमात्रान्न खलु समधिकं शक्नुयातां विधातुम् ।

दृष्टिर्नान्यस्य कॢप्तिर्भवति गुरुतरातिप्रसङ्गोऽन्यथा स्यात्

किं न स्यातां गुणाद्यैः परतदितरते पूर्वभावादि चान्यत् ॥ ५८ ॥

अत्र परत्वापरत्वे प्रमाणाभावाद् दूषयति – स्पन्देति ॥ न तावत् परत्वापरत्वे वस्तुनः स्वरूपकृते, परापरव्यतिरेकाभावप्रसङ्गात् । अतो बुद्धिकृते इत्येव हि भवद्भिस्सिद्धान्तितम् । सा च बुद्धिरपेक्षाबुद्धिरित्यभिधीयते । सा बुद्धिर्न निर्विषया; बुद्धेर्निर्विषयत्वायोगात् । नापि सामान्येन यत्किंचिद्विषया; सर्वासामपि बुद्धीनामपेक्षाबुद्धित्वप्रसङ्गात्, परत्वापरत्वयोरन्योन्यवैषम्याभावप्रसङ्गाच्च । अतो विषयविशेषविशेषितेयं बुद्धिः परत्वापरत्वहेतुरिति स्वीकर्तव्यम् । तथैव च भवद्भिरपि स्वीक्रियते । तथा चापेक्षाबुद्धिविषयरूपत्वमन्तरेणाधिकपरत्वापरत्वयोरदर्शनात्, अनपेक्षितकल्पने गौरवाच्च, अपेक्षाबुद्धिविषयभाव एव परत्वापरत्वे स्त इति तात्पर्यार्थः । पदार्थस्तु -स्पन्दावृत्यादिभेदात् – कालकृतपरत्वापरत्वे सूर्यपरिवृत्त्यादिभेदेन कालाधिक्यादिमात्रात् परमपरमिति प्रत्ययौ स्तः । दिक्कृतपरत्वापरत्वे संयुक्तसंयोगाल्पीयस्त्वभूयस्त्वमात्रात् परत्वापरत्वबुद्धी भवतः । इत्थमन्यथासिद्धौ बुद्धिव्यवहारौ समधिकपरत्वापरत्वे विधातुं न शक्नुयाताम् । तदिदमाह – खल्विति । दृष्टत्वादधिकं परिगृह्णीम इति चेत्, नेत्याह – दृष्टिर्नान्यस्येति । न हि किंचित् परत्वमपरत्वं वा पूर्वोक्तादन्यदुपलभामहे; कल्पनं तु गुरुत्वहतम् । अनपेक्षितकल्पनमतिप्रसङ्गदुःस्थ च । किंच गुणादि[भिरपि]ष्वपि परत्वापरत्वव्यवहारो दृश्यते, यथाऽऽभिजात्येन परः, विद्यया परः, वृत्तेन पर इत्यादि । नैतावता तत्र परत्वादि कल्प्यते । किंच कालेन पूर्वः, पश्चाद्भावी, वर्तत इति, देशेनापि प्राग्भावी पश्चाद्भावीत्यादिव्यवहारभेदास्सहस्रशोऽपि दृश्यन्ते । न च तत्र गुणभेदा भवद्भिरपि कल्प्यन्ते । केवलं देशकालविशेषसंबन्धमात्रेण व्यवहारविशेषाः प्रतीयन्त इति हि भवन्तोऽपि वदन्ति । तदन्यत्रापि न दण्डवारितम् । किंच दिक्कालावुपाधीकृत्यापेक्षाबुद्धिः प्रवर्तते इति हि भवत्सिद्धान्तः । तदपि न जाघटीति; दिक्कालयोः परत्वापरत्वपरिणतेः प्रागेवोपलब्धत्वे पश्चादनुमानवैयर्थ्यात्, अनुपलब्धत्वे तु अपेक्षाबुद्धेरेव सुषुप्तिप्रसङ्गात् । इत्येषा दिक् ॥ ५८ ॥ इति बुद्धिजन्यपरत्वापरत्वाख्यगुणान्तरकॢप्तिभङ्गः ॥

5.419     द्रव्यं प्राग् बुद्धिरुक्ता परमिह विषयैस्सङ्गमादिर्निरूप्य-

संयोगं भाष्यकाराः प्रथममकथयन्न्यायतत्त्वानुसारात् ।

तत्संयोगे समेऽपि स्फुरति न निखिलं तेन योग्यत्वमन्यत्

ग्राह्यं संबन्धसाम्ये नियतविषयता दृश्यते हीन्द्रियेषु ॥ ५९ ॥

अथ बुद्धिविषयचिन्ता प्रवर्तते । बुद्धेर्गुणत्ववादिनं प्रत्याह – द्रव्यमिति ॥ बुद्धिसरे बुद्धेर्द्रव्यत्वमुक्तम्; परमिह विषयैस्संबन्धादिर्निरूप्यते । तत्र भाष्यकार न्यायतत्त्वानुसारात् बुद्धेर्विषयैस्सह संबन्धं संयोगमकथयन् । तर्हि सर्वैरपि संयोगात्सर्वं भासेतेति न वाच्यम् । बुद्धेस्संयोगे समेऽपि निखिलं न स्फुरति । तत्र हेतुमाह – योग्यत्वमन्यद्ग्राह्यमिति । संबद्धमपि योग्यमेव बुद्ध्या गृह्यत इत्यर्थः । तत्र दृष्टान्तमाह – संबन्धेति । संबन्धसाम्ये सत्यपि नियतविषयता दृश्यते तद्वदिहेति । इन्द्रियार्थसन्निकर्षे तुल्येऽपि चक्षुषा रूपमेव गृह्यते न पुनः स्पर्शः; स्पर्शनेन स्पर्शः न रूपम् । कुत एतत्? योग्यत्वस्य नियतत्वात् । एवं सर्वेषां बुद्धिसंबन्धे सत्यपि सहकारियोग्यतादिनियमादेकमेव गृह्यते, नान्यदिति नियमो नानुपपन्न इति ॥ ५९ ॥ इति विषयविषयिभावनिरूपणम् ॥

5.420     नित्यं नित्यादिबुद्धिर्निखिलविषयिणी तद्वदेव स्वभावः

शास्त्रैः क्षेत्रज्ञबुद्धेरपि समधिगतः कर्मभिस्तन्निरोधः ।

संकोचोल्लासयोश्च प्रतिनियतिरिह स्यादुपाधिप्रभेदा-

न्निश्शेषोपाधिमोक्षे निखिलविषयतामश्नुवीत स्वभावात् ॥ ६० ॥

इत्थं विषयविषयिभावं निरूप्य तद्वैषम्ये निदानमाह – नित्यमिति ॥ नित्यादिबुद्धिर्निखिलविषयिणी । तद्वदेव स्वभावः ‘यथा न क्रियते ज्योत्स्नेति’ इत्यादि शास्त्रैः क्षेत्रज्ञबुद्धेरपि समधिगतः । [अपि तु] कर्मभिस्तन्निरोधः; तेन सङ्कोचोल्लासयोः प्रतिनियतिरिहोपाधिभेदात् स्यात्, निश्शेषोपाधिमोक्षे सैव बुद्धिर्निखिलविषयतामश्नुवीत । अत्रोपाधिः कर्म; स च निरूपणे भगवन्निग्रह एव । अतो भगवानेव निग्रहानुग्रहाभ्यां बुद्धेः संकोचविकासौ करोति ॥ ६० ॥ इति विषयविषयिभाववैषम्यम् ॥

5.421     मुक्तानां धीः क्रमाच्चेत् प्रसरति न कदाऽप्यन्तमेषाऽधिगच्छेत्

संक्षिप्तायाश्च दूरान्तिकपरिपतने यौगपद्यं न शक्यम् ।

संयोगो भूतभा[वि]व्येष्वपि न हि घटते तद्धि यस्सांप्रतिक्या

इत्याद्यैर्न क्षतिः स्यात् श्रुतिमुखविदिते योग्यतावैभवेऽस्याः ॥ ६१ ॥

मुक्तानां धीविकासानुपपत्तिं विकल्पाभासेन वदतां श्रुतिविरोधं वक्तुं तदुक्तिमनुवदति -मुक्तानामिति ॥ इत्थं किल तेषामाशयः – मुक्तानां धीः क्रमाच्चेत्प्रसरति; न कदाऽपि देशस्यान्तमेषाऽधिगच्छेत्; आनन्त्याद्देशस्य । नापि युगपद् गच्छेद्; न हि संक्षिप्ताया धियो युगपद् दूरान्तिकपरिपतनं युक्तं वक्तुम् । अयमेको दोषः; अन्योऽपि सांप्रतिप्त्या भूतभाविधियो भूतभाविभ्यां संयोगो न घटते; संबन्धान्तरं [नालप्यते] नोपलभ्यते । अतो मुक्तानां सार्वज्ञ्यं न स्यादिति । तन्निराचष्टे – श्रुतीति । श्रुतिमुखविदिते योग्यतावैभवे अस्याः – धियः तत्कर्मसु न क्षतिः स्यादित्यर्थः । अयमर्थः – मुख्यासंभवे गौणग्रहस्साधारणः । तथा च संयोगसंभवे स एव ग्राह्यः, तदभावो[ऽपि] विषयविषयिभावस्तत्स्थानापन्नः स्वीकार्य इति । धर्मभूतज्ञानस्य क्रमयौगपद्याभ्यां

प्रसरणानुपपत्तिरुदयगिरिशिखरस्थदिवाकरकरप्रसरणवदुन्मीलितचक्षुषो ब्रह्माण्डोदरवर्तिसकलवस्तुग्रहणवदित्यादिभिः प्रागेव परिहृता । भगवतः प्रभावातिशयेन युगपदेव धर्मभूतज्ञानस्य विश्वविषयत्वप्राप्तौ को विरोधः? ॥ ६१ ॥ इति विषयविषयिसंयोगचोद्यपरिहारः ॥

5.422     वेगस्याचिन्त्यरूपो रविशशिनयनाद्यंशुवर्गेषु भूमा

भागानन्त्येऽप्यणूनामतिपतनमतो ह्याहुरन्योन्यमेके ।

इत्थं सर्वैरबाध्यां गतिमनुवदतां मुक्तबुद्धेर्विकासे

युज्यन्ते यौगपद्यप्रभृतय इति तु श्रद्दधीध्वं श्रुतार्थाः ॥ ६२ ॥

किंच त्वदङ्गीकृतदृष्टन्तेन[पि] मुक्तबुद्धेर्व्याप्तिरुपपद्यते इत्याह वेगस्येति ॥ उक्तं हि भवता रविशशिनयनाद्यंशुवर्गेषु वेगस्याचिन्त्यरूपो भूमेति । अत एव काकबाणादिः क्रमेण देशान्तरं गच्छति, रविकरोऽह्नायैव; तद्युगपदतिलङ्घमन्तरेण नोपपद्यते । इत्थमेव जैनैरप्यङ्गीकृतमित्याह – भागानन्त्य इति । परमाणवोऽनेकावयवास्तत्पक्षे; अथाप्यन्योन्यमतिक्रामन्ति परमाणवः । तदेतदनन्तानामंशानां युगपदतिलङ्घनमन्तरेण नोपपद्यते । इत्थं सर्वैरबाध्यां गतिमनुसरतामस्माकं मुक्तबुद्धेर्विकासे यौगपद्यप्रभृतयो युज्यन्त इति । श्रुतार्थाः – श्रुत्यर्थपर्यालोचनवन्तो मनीषिणः श्रद्दधीध्वम् ॥ ६२ ॥ इति मुक्तबुद्धिव्याप्त्युपपत्तिः ॥

5.423     यत्सूक्ष्मं विप्रकृष्टं व्यवहितमपि तद् गृह्णती योगिबुद्धि-

र्भूयिष्ठादृष्टलब्धातिशयकरणवृत्त्यागुण्येन सिद्धा ।

नष्टादिष्वक्षतो धीः कथमिति यदि न प्रत्यभिज्ञादिनीते-

श्चित्रास्संबन्धभेदाः करणविषययोस्तत्रतत्राभ्युपेताः ॥ ६३ ॥

अस्त्वेवम्, तथाऽपि योगिबुद्धेर्नष्टादिविषयत्वं नोपपद्यत इति वदतः पक्षं दूषयितुं तन्मतमनुवदति – यत्सूक्ष्ममिति ॥ सूक्ष्मव्यवहितविप्रकृष्टानर्थान् गृह्णती योगिबुद्धिः भूयिष्ठादृष्टलब्धातिशयकरणवृत्त्यानुगुण्येन सिध्यतु सूक्ष्मादीनां वर्तमानत्वात् । संबन्धोऽपि यथाकथंचिदुपपद्यते । नष्टादिष्वक्षतः – इन्द्रियात् धीः कथं भवतीति चेत्तन्निराकरोति – नेति । हेतुमाह – प्रत्यभिज्ञादिनीतेरिति । यथा प्रत्यभिज्ञा नष्टामपि प्रागवस्थां गृह्णाति । ननु संस्कार एव तत्र कथंचित् संबन्धत्वेन कल्प्यत इति चेत् एवं तर्हि योगिनामप्यतीतादिग्रहणे अदृष्टमेव संबन्धत्वेन कल्प्यतामित्याह – चित्रा इति । ईदृशसंबन्धभेदास्त्वयाऽप्यङ्गीकार्या इत्याभिप्रायिकोऽर्थः । तदिदमाह – तत्रतत्राभ्युपेता इति ॥ ६३ ॥ इति योगिबुद्धेरतीतादिविषयत्वोपपत्तिः ॥

5.424     नित्याया एव बुद्धेस्स्वयमभिदधतः केचिदद्रव्यभावं

संबन्धं धर्मतोऽस्याः कृतकमकथयन् भूषणन्यायसक्ताः ।

स्वाभीष्टद्रव्यलक्ष्यस्मृतिविरहकृतं नूनमेषां तदेतत्

सौत्रं तल्लक्षणं तैरनुमतमिह च स्याद्धि कार्याश्रयत्वम् ॥ ६४ ॥

नित्याया इति ॥ भूषणमतानुसारिणो नित्याया एव बुद्धेरद्रव्यत्वमभिदधत एव; विषयविषयिभावमस्याः कृतकमकथयन्, मुक्तावस्थायां नित्यानन्दाविर्भाववचनात् । आविर्भावो हि नित्येन ज्ञानेन तस्मिन् काले तस्यैवानन्दस्य संबन्धः । स च संबन्धः प्रागभावात् तस्मिन् काले सत्त्वाच्च कार्य एव, तथा च सति स्वाभीष्टद्रव्यलक्षणप्रस्मरणमेषामेतादृशव्यवहारनिदानम् । तदिदमाह – स्वाभीष्टेति । समवायिकारणं द्रव्यमिति द्रव्यलक्षणं तैरनुमतम् । समवायिकारणत्वं च कार्याश्रयत्वमिति चानुमतम् । इह च विषयविषयिभावस्य कार्यत्वे तदाश्रयत्वाद्विज्ञानानन्दयोर्द्रव्यत्वमेव स्यादिति भावः ॥ ६४ ॥ इति अद्रव्यपक्षे नित्यधीविषयत्वस्य कार्यत्वानुपपत्तिः ॥

5.425     प्राकट्यं नाम धर्मं कतिचन विषये बुद्धिसंबन्धजन्यं

मन्यन्ते तन्न दृष्टं व्यवहरणविधावानुगुण्यं तु भानम् ।

क्वापि स्वाभाविकं स्यात् क्वचन भवति धीगोचरत्वात्मकं तत्

भातीत्यादिप्रयोगः स्वदत इति नयात्तत्र कर्मत्वगर्भः ॥ ६५ ॥

बुद्धिरूपप्रकाशातिरेकेण विषयगतं प्राकट्यं नाम धर्मं केचिदूचिरे । तदनुवदति -प्रकट्यमिति ॥ तन्निराकरोति – तन्नेति । कथं तर्हि विषयभानमित्यत्राह – व्यवहरणेति । व्यवहारयोग्यत्वमेव भानमित्यर्थः । तच्च व्यवहारयोग्यत्वं क्वापि – स्वयंप्रकाशे वस्तुनि स्वाभाविकं स्यात् । क्वचन – परप्रकाशे वस्तुनि धीगोचरत्वात्मकं तद्भवति । ननु धीरेव भानं चेत् कथं तर्हि भातीत्यादिरर्थसामानाधिकरण्येन व्यवहार इत्यत्र प्रतिबन्द्या उत्तरमाह – स्वदत इति । यथा देवदत्तास्वादकर्मभूतस्यापि मोदकस्य, देवदत्ताय स्वदते मोदक इति कर्मत्वगर्भः कर्तृ[त्व]व्यवहारः, एवमत्रापि भातीति व्यवहारः ॥ ६५ ॥

5.426     इष्टद्विष्टप्रनष्टादिषु च परगतैः कथ्यतेऽन्यद्विशिष्टं

ज्ञातत्वोक्तावपीत्थं व्यवहृतिनियमास्तावतैवोपपन्नाः ।

प्राकटयेऽस्मिन् गुणादिष्वपि कथमधिकं भूतभव्येषु च स्यात्

कर्मत्वं तु क्रियार्थे सति फल इति च प्रायिकव्याप्तिहानेः ॥ ६६ ॥

इष्टेति ॥ किंच इष्टद्विष्टप्रनष्टादिषु व्यवहारेषु पुरुषादिनिष्ठैरेव इच्छादिभिर्विशिष्टो विषयः कथ्यते । इत्थं ज्ञातो घटः प्रकटो घट इत्याद्युक्तावपि व्यवहारनियमाः तावतैव -आत्मनिष्ठज्ञानेनैव उपपन्नाः । अन्यथा प्राकट्ये गुणादिष्वपि भूतभव्येषु च ज्ञातत्वादिव्यवहारसिद्ध्यर्थं प्राकट्यं कल्प्यं स्यात् । न च तद्युज्यते । ननु क्रियाफलशालित्वं कर्मत्वम् । तत् प्राकट्यभावे कथं स्यादित्याशङ्क्य निराकरोति – कर्मत्वमिति । प्रायिकमिदं लक्षणम्; न तु व्याप्तम् । गमनक्रियायाः फलं ग्रामप्राप्तिः; न च प्राप्तेरपि प्राप्त्यन्तरमुपलभ्यते ॥ ६६ ॥

5.427     आधत्ते धीः क्रियात्वात् किमपि गमनवत् कर्मणीत्यप्य[सारं]युक्तं

दत्तानेकोत्तरत्वान्न च फलमधिकं भाति हानादिमात्रात् ।

हेतुर्धात्वर्थता चेदतिचरणमथ स्पन्दता स्यादसिद्धि-

र्धीस्वारस्यानृशंस्यादनुमतमधिकं कैश्चिदस्मत्सयूथ्यैः ॥ ६७ ॥

तर्ह्यनुमानात् प्राकट्यं साधयाम इति वदतः पक्षमनुवदति – आधत्त इति ॥ ज्ञानं स्वकर्मणि किंचित् करोति, क्रियात्वाद् गमनक्रियावदित्यप्ययुक्तम् । दत्तेति । इष्टद्विष्टादिषु व्यभिचारादेरित्यर्थः । तद्विवृणोति – न चेति । हानोपादानादिबुद्धिव्यतिरेकेण विषयगतं फलं नोपलभ्यत इत्यर्थः । किंच क्रियात्वादिति हेतुर्धात्वर्थतामात्रं चेदतिचारः । न हि सर्वेषामपि धात्वर्थानामुत्तरोत्तरधात्वर्थाः फलम्; अनवस्थानात् । परिस्पन्दनरूपत्वाङ्गीकारे असिद्धिरेव स्यात् । तदिदमाह – असिद्धिरिति । इत्थं प्राकट्यं स्वमतेन निराकृत्य एकदेशिमतेन तदङ्गीकारमप्यनुवदति – धीस्वारस्येति । कैश्चिदित्युक्तिस्तदनङ्गीकारं द्योतयति ॥ ६७ ॥ इति प्राकट्याख्यधर्मान्तरकॢप्तिभङ्गः ॥

5.428     इच्छाद्वेषप्रयत्नाः सुखमितरदपि ज्ञानतो नातिरिक्ता

या धीस्तद्धेतुरिष्टा न तदधिकतया कल्पने कोऽपि लाभः ।

पर्यायत्वं विशेषे न तु भवति यथा प्रत्यभिज्ञादिभेदे

नो चेदीर्ष्याभ्यसूयाभयधृतिकरुणाशद्यन्यदन्यञ्च कल्प्यम् ॥ ६८ ॥

इच्छाद्वेषादीनां ज्ञानादतिरिक्तत्वमाहुरन्ये । तद्दूषयति – इच्छेति ॥ तत्र कल्पनालाघवं प्रमाणमाह – या धीरिति । इच्छादिहेतुभूतानुकूलादिविषया बुद्धिरेव इच्छादिव्यवहारमातनोति; तदतिरिक्तकल्पने न कोऽपि लाभः; गौरवदोष एव लभ्यते । तर्हि ज्ञानेच्छादीनां पर्यायत्वं स्यादित्याशङ्क्य परिहरति – पर्यायत्वमिति । यथा ज्ञानत्वाविशेषेऽपि प्रत्यभिज्ञास्मृत्यनुमित्यनुभवादिभेदे न पर्यायत्वम्; तद्वदिहापीति । नो चेत् ईर्ष्याभ्यसूभयधृतिकरुणाशान्तितुष्ट्यादिकन्द्विशुक्लादि- व्यवहारणामपि विषयलाभार्थभर्थान्तरं कल्प्यमित्यनियतिरेव स्यात् ॥ ६८ ॥ इति इच्छादीनां बुद्धिविशेषातिरिक्तत्वभङ्गः ॥

5.429     चेतःस्रोतस्स्रुतीनां चिदवधिकतया चैत्तसङ्केतभाजां

रागद्वेषादिकानामभिदधतु कथंभावमस्थेमभावाः ।

एतेषां हेतुसाध्यक्रमनियतिमतां सर्वचित्साक्षिकाणां

कथ्येतातथ्यभावे कथमिव कथकद्वन्द्वयुद्धावतारः ॥ ६९ ॥

अत्र बौद्धास्तु चित्तचैत्तरूपेण द्वेधा विभागं वर्णयन्ति । तत्र चित्तमिति विज्ञानसन्ततिरुच्यते; चैत्तमिति चित्तानुबन्धिकं रागद्वेषादिकम् । तदेषां न संघटत इत्याह – चेत इति ॥ विज्ञानस्रोतोविशेषाणां चिदवधिकतया – विज्ञानमात्रवर्तित्वेन चैत्तादिव्यवहारभाजां रागशद्वेषादीनाम् अस्थेमभावाः – क्षणिकत्ववादिनः कथं सद्भावमभिदधतु? विज्ञानस्योत्पन्नापवर्गत्वेन चैत्तरूपावस्थान्तरभावत्वं न संघटत इत्यर्थः । तर्हि चैत्तानां सद्भाव एव नास्तीति वदाम इति चेत्; तच्च नोपपद्यत इत्याह – एतेषामिति । हेतुसाध्यक्रमनियतिमतां – कार्यकारणभावो हि बौद्धानां सत्त्वे नियामकम् । अतश्चैत्तानामपि कार्यकारणभावदर्शनादङ्गीकार्यं सत्त्वम् । सर्वचित्साक्षिकाणां – प्रत्यक्षेण सर्वैरुपलभ्यमानानामित्यर्थः । न हि सर्वज्ञेनाप्युपलब्धानां चैत्तानामबाधितानां [कथमपि च] मिथ्यात्वं वक्तुं शक्यते । तेषां रागादीनामतथ्यभावे कथमिव कथकद्वन्द्वयुद्धावतारः कथ्येत? वादाधिकार एव न स्यादिति स्वप्रवृत्तिविरोधः ॥ ६९ ॥ इति रागद्वेषादिमिथ्यात्वमतभङ्गः ॥

5.430     तत्रेच्छा द्विधोक्ता विषयनियमतो रागविद्वेषनाम्ना

पूर्वस्तीव्रस्तु कामः पर इह भजते तादृशः क्रोधसंज्ञाम् ।

एकैवेच्छा सिसृक्षा भगवत उदिता संजिहीर्षेति चान्यै-

स्तद्वल्लोके न किं स्यादधिकमिह तु चेत्कल्प्यतेऽतिप्रसक्तिः ॥ ७० ॥

रागद्वेषयोरिच्छाभेदत्वमाह – तत्रेति ॥ अनुकूलविषयोपादानेच्छा रागः, प्रतिकूलविषयजिहासा द्वेषः । अतो विषयभेदेनैव नियतिसिद्धौ गुणभेदो न कल्प्यः । तावेव रागद्वेषौ तीव्रभावमासाद्य कामक्रोधाविति व्यपदिश्येते । अत्र प्रतिबन्दीमाह – एकेति । यथा न्यायदर्शने ज्ञानचिकीर्षाप्रयत्नवत ईश्वरस्येच्छैव चिकीर्षा संजिहीर्षा रिरक्षिषेत्यादिव्यपदेशभागिनी विषयभेदेन, एवं लोकेऽपीच्छाया एव विषयभेदेन व्यवहारो भवतु; अन्यथाऽतिप्रसक्तिरित्याह – अधिकमिति । बुभुक्षापिपासाजिहीर्षेत्यादिकं सहस्रमपि कल्पनीयं स्यादित्यर्थः ॥ ७० ॥ इति द्वेषस्यापीच्छाविशेषत्वम् ॥

5.431     इच्छातः कार्यसिद्धौ किमिह यतनमित्यन्तरा कल्प्यतेऽन्य-

त्तन्मोघत्वोपलब्धेरिति यदि यतने कल्पितेऽप्येतदेवम् ।

मैवं व्यावर्तमानादनुगतमधिकं वर्ण्यते मानविद्भि-

र्वाञ्छन्तोऽपि ह्ययत्ना वयमिह पवनस्पन्दनेन्दूदयादौ ॥ ७१ ॥

अत्र कश्चिदाह – यदीच्छातिरिक्तद्वेषपरित्यागः, तर्हीच्छैव प्रयत्नोऽपि भवतु; किमनेन प्रयत्नेनेति । तदिदमाह – इच्छात इति ॥ इच्छायाः कदाचिद्व्याधातोपलब्धेर्यत्नः कल्प्यत इति चेत्, वने कल्पितेऽपि व्याघातोपलब्दिस्तुल्या; नैतावता गुणान्तरं कल्प्यत इति भावः । तदेतन्निराकरोति – मैवमिति । व्यावर्तमानादनुवर्तमानमधिकमिति हि विद्वद्भिर्वर्ण्यते न्यायः । तथा चात्र वाञ्छन्तोऽपि केचिदयत्ना एव वर्तन्ते । यथा चन्द्रोदयमभिवगच्छन्ति न पुनस्तत्र यतन्ते । तस्मादनुदवर्तमानाया इच्छाया व्यावर्तमानो यत्नो बुद्ध्यवस्थाभेदत्वेऽपि विजातीयावस्थान्तरमिति भावः ॥ ७१ ॥ इति इच्छामात्रातिरिक्तप्रयत्नावस्थासिद्धिः ॥

5.432     प्राणस्पन्दस्सुषुप्तिप्रभृतिषु घटते तादृशादृष्टमात्रात्

यत्त्वं यत्ने निदानं वदसि भव[तु]ति तल्लाघवात् प्राणवृत्तौ ।

धीवृत्तिश्चैव यत्नः स्थित इति स कथं काष्ठकल्पे सुषुप्ते

नो चेद् बाह्यानलादेर्ज्वलनमपि ततः कल्प्यतां न त्वदृष्टात् ॥ ७२ ॥

अत्र केचिद्बुद्धिपूर्वकप्रयत्नातिरेकेण जीवनपूर्वकं प्रयत्नान्तरं कल्पयन्ति । तन्न संघटत इत्याह – प्राणेति ॥ सुषुप्त्याद्यवस्थासु प्राणस्पन्दहेकुवेन स प्रयत्नः परिकल्प्यते । स एव प्राणस्पन्दस्तावददृष्टमात्रादेव भवतु । भवताऽपि चैतन्न परिहार्यम्; प्रयत्नस्यैव निदानतया तत्रादृष्टमेव हि भवान् वदति; तदेवादृष्टं लाघवात् प्राणप्रवृत्तौ [निदानं भवतु] कारणं भवेत् । ततो गौरवभिया तत्र प्रयत्नो न कल्प्यः । किंच प्रयत्नोऽपि बुद्धिविशेषतया निर्णीतः । तथा च काष्ठकल्पे सुषुप्ते प्रयत्नो व्याहन्यते । इत्थमनङ्गीकारे तवाग्नेरुर्ध्वज्वलनमित्यादिकमपि प्रयत्नादेव रूप्यं स्यात्; न पुनरदृष्टादित्याह – नो चेदिति ॥ ७२ ॥ इति जीवनपूर्वकप्रयत्ननिरासः ॥

5.433     स्याद् दुःखाभावमात्रं सुखमभिदधतो वैपरीत्यप्रसक्तिः

स्वापादौ दुःखसिद्धिर्न यदि सुखमपि ह्यत्र नैवास्ति तादृक् ।

शीतोष्णातीतनीतेर्द्वितयसमधिकावस्थितिर्दुस्त्यजाऽत-

स्तत्तच्छब्दप्रयोगेष्वनियतिरुचितैस्संघटेतोपचारैः ॥ ७३ ॥

अत्र कश्चिच्चोदयति – एवं यत्नापलापे सुखमप्यलपितुं शक्यत इति । दुःखाभावमात्रमेव सुखं स्यादिति वदन्तं प्रतिबन्द्या निराकरोति – स्यादिति ॥ दुःखाभावमात्रस्यैव सुखत्वे सुखाभावमात्रस्यापि दुःखत्वं स्यादित्यर्थः । स्वापादौ सुखाभावेऽपि दुःखसिद्धिर्नास्तीति चेत् तर्हि तत्र दुःखाभावेऽपि सुखसिद्धिर्नास्तीति तुल्यम् । अतः स्वापे सुखदुःखाभावावुभावपि वर्तेते; अतस्तदतिरिक्तं सुखमपि दुःख[मपि]वत् कल्पनीयमिति भावः । दृष्टं च लोके शीतोष्णातिरिक्तानुष्णाशीतकल्पनम् । एवं सुखदुःखरूपद्वितयावस्थाविरहितसुषुप्त्यवस्था दुस्त्यजेत्याह – शीतेति । तर्हि भारावतरणादिषु सुखशब्दः कथम्? सुखोपभोगाभावमात्रे दुःखशब्दो वा कथं प्रयुज्यते? इत्यत आह – तत्तदिति । औपचारिकाः प्रयोगस्सहस्रशोऽपि सन्तु; न हि शब्दप्रयोगमात्रादुपचारसहादर्थतत्त्वं निश्चाययितुं शक्यत इति भावः ॥ ७३ ॥ इति सुखदुःखोदासीनरूपावस्थात्रयसिद्धिः ॥

5.434     भेदस्त्रेधा मतीनां ह्युपधिनियमितैरानुकूल्यादिधर्मै-

स्तस्यैवात्यन्तहानेर्निरुपधिकसुखस्तादृशो धीविकासः ।

निस्सीमब्रह्मतत्त्वानुभवभवमहाह्लाददुग्धार्णवेऽस्मिन्

निश्शेषैश्वर्यजीवानुभवरसभरो बिन्दुभावोपलभ्यः ॥ ७४ ॥

एवमौपाधिकानां दुःखमिश्राणामनुकूलविज्ञानानामत्यन्तहानेर्निरुपाधिकसुखरूपो मुक्तवस्थायां यो बुद्धिविकासस्तस्मिंस्तादृशानन्दरूपावस्थाविशेषे चतुर्मुखैश्वर्यपर्यन्तस्यैश्वर्यस्य जीवानुभवस्य चात्यन्ताल्पीयस्त्वमेवेति दुग्धार्णवतद्बिन्दुदृष्टान्तेनोपवर्णयति – भेद इति ॥ अक्षरार्थः स्वयमेव भाव्यः ॥ ७४ ॥ इति निरुपाधिकानन्दरूपबुद्ध्यवस्थाविशेषः ॥

5.435     संसारे नास्ति किञ्चित् सुखमिति कतिचित्तद्धटेतोपचारा-

न्नो चेद्व्युत्पत्तिहीनं सुखपदमधिकं तत्सुखं नाभिदध्यात् ।

तस्माद् दुःखोत्तरत्वप्रभृतिभिरिह तद्दुःखमित्युक्तमाप्तैः

क्ष्वेलोपश्लेषदुष्टे मधुनि विषमिति व्याहृतिः किं न दृष्टा ॥ ७५ ॥

केचित्तु संसारेषु सुखमेव नास्तीत्याहुः; तदौपचारिकमित्याह – संसार इति ॥ अन्यथा सुखपदव्युपत्तिरेव न स्यात् । तथा चालौकिकमपि सुखं सुखशब्दो नाभिदध्यादित्याह – नो चेदिति । कथं तर्ह्याप्तैस्संसारस्य दुःखरूपत्वमुच्यत इत्याशङ्क्य परिहरति – तस्मादिति । दुःखोत्तरत्वाद् दुःखत्वमभिधीयत इति परिहारः । तत्र दृष्टान्तमाह – क्ष्वेलेति ॥ ७५ ॥ इति सांसारिकसुखस्य दुःखत्वोक्तिनिर्वाहः ॥

5.436     धर्मोऽधर्मश्च तत्तत्फलकरणतया शास्त्रसिद्धं क्रियादि-

द्वारं त्वेतस्य कालान्तरनियतफले स्यादिहादृष्टमन्यत् ।

आहुस्तत् केचिदन्तःकरणपरिणतिं वासनां चेतसोऽन्ये

पुंधर्मं केचिदेके विभु किमपि परे पुद्गलांस्तत्सयूथ्याः ॥ ७६ ॥

अथ धर्माधर्मलक्षणं तत्साध्यादृष्टस्वरूपं च विभज्य दर्शयति – धर्म इति ॥ ‘चोदनालक्षणोऽर्थो धर्म इति शास्त्रैकसमधिगम्यं श्रेयस्साधनं धर्म इत्युच्यते; स तु क्रियादिरेव; द्रव्यक्रियागुणादीनां धर्मत्वं स्थापयिष्यते इत्याद्यभिधानात् । चिरध्वस्तस्यापि कर्मणः कालान्तरभाविफलानुगुणं किमपि द्वारमन्यददृष्टमुपादेयम् । तच्चान्तःकरणपरिणतिरिति साङ्ख्याः प्राहुः । चेतसो वासनेति सौगताः । पुंधर्म इति न्यायवादिनः । विभुरूपं किमपि तत्त्वान्तरमिति जैनैकदेशिनः । पुद्गलरूपमिति तत्सयूथ्याः । एतस्य सर्वस्य कल्पनामात्रसिद्धत्वात् तत्तत्कर्माचरणपरिणतेश्वरबुद्धिविशेष एवादृष्टमिति तत्त्वविदां संप्रदाय इति हृदयम् ॥ ७६ ॥ इति धर्माधर्मलक्षणतत्साध्यादृष्टस्वरूपमतभेदाः ॥

5.437     तुल्ये सेवादिहेतौ फलभिदुरतया साध्यते चेददृष्टं

हेतोस्सूक्ष्मोऽस्तु भेदो न खलु समुचिता धर्मिणोऽन्यस्य कॢप्तिः ।

व्याख्यातं यत्तु बाह्यैर्विषयसमफलप्रापकत्वं क्रियाणां

तत्सूतेऽतिप्रसक्तिं तदिह न निगमादन्यतोऽदृष्टसिद्धिः ॥ ७७ ॥

अस्त्वदृष्टं यत्किंचिदेव, तत् ‘सेवाध्ययनतुल्यत्वे दृष्टा हि फलभिन्नतेत्युक्तप्रकारेण फलमेदात्परिकल्प्यते, न पुनरागमैकसमधिगम्यमिति केचिदाहुः । तदिदमनुवदति – तुल्य इति ॥ तत्रान्यथासिद्धिमाह – हेतोरिति । दृष्टेष्वपि कारणेषु यत्किंचिद्वैषम्यात् फलभेदोऽस्तु । किमिनेनादृष्टेन? अन्यथा कल्पनागौरवादनौचित्यमेवेत्याह – न खल्विति । अतिरिक्तादृकल्पनायामदृष्टं कल्प्यम्, तस्य च भेदः कल्प्यः; तथा च गौरवम् । अस्माकं तु दृष्टेष्वेव कारणेषु भेद एव कल्प्यः । अतो लाघवमिति भावः । तस्मादागमैकसमधिगम्यमदृष्टमित्याकूतम् । अत्र केचित् यादृशो विषयस्सुखरूपो दुःखरूपो वा, तादृशमेव फलं क्रियाया जायत इति [वदन्ति] । तदिदमतिप्रसक्तिमेव सूते । विषयस्य सुखात्मकत्वे सुखात्मकं फलमिति न नियमः; पापरूपसुखेन दुःखरूपफलस्य प्राप्तेः । एवं दुःखात्मकत्वे दुःखं फलमिति न नियमः; दुःखरूपपुत्रशिष्यादिशिक्षणादिना सुखस्यैव सिद्धेः । अतश्शास्त्रादेवादृष्टसिद्धिः, न पुनस्स्वकपोलकल्पितादनुमानादित्याह – तदिहेति ॥ ७७ ॥ इति अदृष्टस्यागमैकसिद्धत्वम् ॥

5.438     निस्संकोचान्निषेधात् क्वचन फलतयाऽनूदितांहस्तु हिंसा

रून्धे सामान्यमङ्गे विधिरनुमितिरप्यत्र बाधादिदुःस्था ।

स्वल्पो दोषो विमृष्टे सुपरिहर इह क्रत्वनुग्राहके स्या-

दित्युक्तं सांख्यसक्तैः पशुहितवचनान्नेति शारीरकोक्तम् ॥ ७८ ॥

एवमदृष्टस्यागमैकसमधिगम्यत्वे सिद्धे विधिनिषेधव्यापारपरिशोधनेन श्येनाग्नीषोमीयवैषम्यमाह – निस्सङ्कोचादिति ॥ अयमर्थः – श्येनेऽपि हिंसा दृश्यते अग्नीषोमीयपश्वालम्भनेऽपि । प्राणवियोजनफलो व्यापारो हिंसाशब्देनाभिलप्यते । तदुभयत्रापि समानम् । अथापि श्येने हिंसा न विहिता; अपि तु रागप्राप्ता । यदि हिंस्याच्छ्येनेन हिंस्यादिति हि तत्र विधिक्रमः; न पुनः हिंस्यादेवेति । तथा च तत्र हिंसाया रागप्राप्तत्वात् ‘न हिंस्यादिति निषेधवचनं तत्र निस्सङ्कोचम् । तेन फलतयाऽनूदिता हिंसा तत्र निषिध्यते, न पुनः श्येनः; ‘श्येनस्तत्रासिवत् पृथगिति पृथङ्निर्देशात् विहितत्वाच्च । तदिदमाह – अंहस्तु हिंसेति । [सा] रागप्राप्ता हिंसा शास्त्रनिषिद्धत्वात् पापमित्यर्थः । अग्नीषोमीयपश्वालम्भने तु प्राणवियोजनफलव्यापाररूपत्वेन हिंसात्वे सत्यपि, ‘न हिंस्यात्’ इति सामान्यम् ‘आलभेत’ इति विशेषविधिरुपरुन्धे । विशेषविधिप्राप्ते सामान्य[स्य]निषेधस्य रागप्राप्तमात्रविषयतया सावकाशस्य दुर्बलत्वात् । अथापि अग्नीषोमीयहिंसा अधर्म्या हिंसात्वाद् ब्राह्मणहिंसावदित्यनुमितिरागमबाधसोपाधिकत्वाभ्यां दुःस्थेत्याह – अनुमितिरिति । अत्र साङ्ख्या एवं मन्यन्ते – अग्नीषोमीयपश्वालम्भनविधिरालम्भनस्य क्रतूपकारमाह । ‘न हिंस्यात्’ इति तु वाक्यं हिंसाशब्दस्यासङ्कुचित[विषय]वृत्तित्वेन अग्नीषोमीयहिंसामपि गृह्णाति । तथा च अस्या अपि हिंसायाः किंचित् पापहेतुत्वमस्ति; तच्च वैदिकत्वात् सुपरिहरमिति । तत्रैवं शारीरकशास्त्रे परिहार उक्तः – अग्नीषोमीयपश्वालम्भनस्य परदुःखोत्पादकत्वे सत्यपि हिंसाशब्दवाच्यत्वं नास्तीति । न हि व्रणादिशान्त्यर्थं दाहच्छेदादिकारिषु वैद्याम्बष्ठादिषु हिंसकत्वमस्ति । न च पुत्रशिक्षादिकारिषु पित्रादिषु तर्जनादिभिर्हिंसकत्वमुच्यते । अशास्त्रीयकर्मणा परदुःखाधानकारिणामेव हिंसकत्वम् । अत्र पुनश्शास्त्रीयकर्मानुरोधेन प्राणवियोजनेऽपि न हिंसकत्वम्; अपि तु रक्षकत्वमेव, पापफलपरिणतिरूपपशुशरीरविच्छेदेन पशोरेव निरतिशयसुखभोगानुरूपविशिष्टशरीरग्रहणहेतुत्वात् । तदिदं सर्वमभिप्रेत्याह – पशुहितवचनादिति । ‘न वा उ वे तन्मियसे नरिष्यसि’ ‘देवॉं इदेषि पथिभिस्सुगेभिः’ इति मन्त्रवर्णेन पशोर्विशिष्टदेशप्राप्तिरुच्यते । अयमत्र विभागः – अग्नीषोमीयपश्वलम्भनस्य हिंसात्वमभ्युपगम्य ‘आलभेतेति विधिबलात्’ ‘न हिंस्यात्’ इति निषेधस्य सङ्कोचमाहुः केचित् । अपरे पुनः श्रुतिस्मृतिबलाद्धिसात्वमेव नाभ्युपगच्छन्ति; अल्पीयसा दुःखेन अधिकसुखप्राप्तिहेतोरहिंसात्वात्, ‘न म्रियसे नरिष्यति’ तथैव श्रुतत्वाच्चेति ॥ ७८ ॥ इति श्येनाग्नीषोमीयादिवैषम्यम् ॥

5.439     सिध्येद्वा विश्ववृत्तेरनितरफलतास्थापनाद्यैरदृष्टं

तत्सत्ताज्ञप्तिमात्रात्तदुचितनियतानुष्ठितिर्नैव सिध्येत् ।

तस्माच्चर्याविशेषे श्रुतिरिह शरणं स्वर्गमोक्षादिहेतौ

सैवादृष्टखरूपं प्रथयतु बहुधा तत्तदुक्ताद्विविक्तम् ॥ ७९ ॥

इत्थं श्रुतिरेवादृष्टनियमे शरणमिति निर्णीतम् । अन्वारुह्याप्याह – सिध्येदिति ॥ ‘विफला विश्ववृत्तिर्नो’ इत्यादिना हेतुकलापेन अदृष्टसामान्यं सिध्यतु; तथाऽपि तत्सद्भावज्ञानमात्रान्नियतानुष्ठानं न सिध्येत् । तदिदमाह – तत्सत्तेति । स्वर्गस्वाराज्याद्यनन्तफलविशेषहेतुकर्मानुष्ठानविशेषसिद्धिर्नानुमानादिति । तस्मादनुष्ठानविशेषे स्वर्गमोक्षादिहेतौ तदङ्गकलापप्रकारविशेषे च श्रुतिरेव शरणम् । सैव श्रुतिरदृष्टस्वरूपमपि प्रथयतु । तत्तदुक्ताद्विविक्तम् – ‘अन्तःकरणवृत्तिर्वेत्याद्युक्ताद्विविक्तम् ईश्वरसङ्कल्परूपमदृष्टं श्रुतिरेव प्रथयत्वित्यर्थः ॥ ७९ ॥ इति अदृष्टमात्रस्यान्यतस्सिद्धावपि श्रुत्या तद्विशेषनिष्कर्षसिद्धिः ॥

5.440     शक्तिर्यागादिकस्य स्वफलवितरणे संभवे वा फलस्य

स्थाप्या मध्ये तयोरित्यबहुमतिपदं सत्सु तौतातिती वाक् ।

शक्ताभावे हि शक्तिर्न भवति शमितो धर्मधर्म्यैक्यजल्प-

स्तद्द्वारे शक्तिशब्दो यदि भवतु परं कॢप्तिमस्य क्षिपामः ॥ ८० ॥

अथ ‘अन्तःकरणवृत्तिर्वेति’ इत्यादिभिः परमतमनूद्य फले प्रवृत्तयागशक्तिः स्वोत्पत्तौ प्रवृत्तफलशक्तिर्वा अदृष्टपदवाच्यमिति ह्युक्तं कौमारिलैः, तदयुक्तमित्याह – शक्तिरित्यादिना वागित्यन्तेन पूर्वार्धेन ॥ तस्मिन् पक्षे व्याघातमाह – शक्ताभाव इति । यागो नष्टस्तस्य शक्तिरनुवर्तत इति व्याहतम् । फलं भावि तस्यापि शक्तिः प्रागेवास्तीति च व्याहतम् । ननु धर्मधर्मिणोरैक्यात् शक्तिसद्भावे शक्तस्यापि सद्भावोऽस्तीत्यतो न व्याघात इत्याशङ्क्य परिहरति – शमित इति । धर्मधर्मिणोरैक्यं भेदाभेदनिराकरणादेव निरस्तम् । तर्हि द्वारमात्रे शक्तिशब्दं प्रयुञ्ज्मह इति चेत्, भवत्वयमौपचारिकः प्रयोगः; नैतावताऽस्माकं कश्चिद्विरोधः । अपि तु भाट्टोक्तामदृष्टकॢप्तिं प्राभाकरोक्तामदृष्टवाच्यत्वकॢप्तिं च प्रतिक्षिपामः । तदिदमाह – परमिति ॥ ८० ॥ इति क्रियादिशक्तिमात्ररूपादृष्टकॢप्तिनिरासः ॥

5.441     द्वारं तत्तत्फलाप्तेः श्रुतिभिरवधृतौ देवताप्रीतिकोपौ

व्याचक्रे देवपूजा यजनमिति न तन्न श्रुतं वाक्यविद्भिः ।

आम्नातेऽपेक्षितेऽर्थे न च नयनिपुणैरश्रुतं कल्पनीयं

नो चेत्स्याद्दत्ततोयाञ्जलिरिह भवता रात्रिसत्रादिनीतिः ॥ ८१ ॥

अदृष्टस्य देवताप्रीत्यादिरूपत्वं पूर्वोपक्षिप्तं समर्थयते – द्वारमिति ॥ ‘स एवैनं भूतिं गमयति’, ‘स एनं प्रीतः प्रीणाति’, ‘एष एव साधु कर्म कारयति तम्’, ‘क्षिपाम्यजस्रमशुभान्’ इत्यादिभिः प्रमाणशतैः ईश्वरप्रीतिकोपाभ्यां धर्माधर्मफलप्राप्तिरवगम्यते । किंच ‘यज देवपूजयाम्’ इति यजतेर्देवतापूजनवाचित्वं विद्वद्भिरवगम्यते । पूजनं च प्रीतिहेतुभूतस्सेवाविशेष इति सुप्रसिद्धम् । अतो यज्ञाद्याराधितो भगवान् फलं ददातीति वैदिकसिद्धान्तः । न चात्रापेक्षितेऽर्थे साक्षादीश्वरसङ्कल्पात्मनि द्वारे श्रुत्यैव प्रतिपन्ने निरर्थकमेवादृष्टरूपं किञ्चित् कल्पनीयम् । विध्यपेक्षितस्यार्थवादादिप्रतिपन्नस्यार्थस्य स्वीकार एव हि न्याय्य इति मीमांसकमर्यादा । तदिदमाह – आम्नात इति । एवमनङ्गीकारे दोषमाह – नो चेदिति । रात्रिसत्रन्याये हि ‘प्रतितिष्ठन्ति ह वा एते य एता रात्रीरुपयन्तीत्यर्थवादप्रतिपन्ना प्रतिष्ठा फलतयाऽङ्गीक्रियते । ‘स्वर्गकामो यजेत’ इत्यादौ स्वर्गस्वरूपे विधिवाक्यप्रतिपन्नेऽपि स्वरूपविशेषपरिशोधनं ‘दुःखेन यन्न संभिन्नं’ इति अर्थवादवाक्येन क्रियते । तच्च विध्यपेक्षितत्वादनुमन्यते विधिनाऽपि । एवं तेषुतेषुष्वधिकरणेषु विध्यपेक्षितार्थप्रतिपत्तिरर्थवादादिभिरिति मीमांसकनिर्णयः । अतः श्रुता देवताप्रीतिरेव द्वारभूतमदृष्टमिति शिष्टालापः ॥ ८१ ॥ इति अदृष्टस्य देवताप्रीत्यादिरूपत्वम् ॥

5.442     आराध्यादिप्रकाशः स्फुटमुपकुरुते मन्त्रसाध्यो विधीनां

प्राशस्त्यादिप्रतीतिर्न च भवति मृषावर्णनैरर्थवादैः ।

सत्येऽप्याकाङ्क्षितेऽर्थे तदुभयगमिते वाक्यभेदादि न स्या-

ल्लोकेऽप्येवं हि दृष्टं तदनुगतिमुचां सर्वशास्त्रप्रकोपः ॥ ८२ ॥

मन्त्रार्थवादयोराराध्यादिप्रकाशपरत्वेऽपि न वाक्यभेद इत्याह – आराध्यादीति ॥ आराध्यादिप्रकाशो मन्त्रसाध्यो विधीनामुपकुरुते; तेन विध्युपकारकत्वान्नैकवाक्यताभङ्गः । एवमर्थवादसाध्या प्राशस्त्यादिप्रतीतिरप्यर्थस्य मिथ्यात्वे विध्युपकाराय न कल्पते । अतोऽर्थवादप्रतिपन्नार्थतथात्वं प्राशस्त्यमेव दृढीकरोति । तदिदमाह – प्राशस्त्यादीति । न ह्यसौ चतुर्वेदाभिज्ञः मयोच्यमानं मिथ्येत्युक्तौ प्राशस्त्यं प्रतीयते । अतो विध्यपेक्षितार्थद्वये मन्त्रार्थवादाभ्यां याथातथ्येन प्रतिपन्ने न वाक्यभेदशङ्का स्यात् । तदेतदाह – सत्येऽपीति । न चैतद्वेदमात्रनियतम्; लोकेऽपीयमेव गतिरित्याह – लोकेऽपीति । सप्तद्वीपाधिपतिर्महीपतिश्चतुर्दशविद्यास्थानविद् ब्राह्मण इत्यादिलोकव्यवहारः स्वार्थ[प्रामाण्य]मेव पुरस्कुरुते । अन्यथा तत्तदाधिक्यप्रतिपादकानां श्रुतिस्मृतीतिहासपुराणानां साकल्येनाप्रामाण्यप्रसङ्ग इत्याह – तदनुगतिमुचामिति ॥ ८२ ॥ इति मन्त्रादेर्विवक्षितार्थत्वविरोधपरिहारः ॥

5.443     बुद्धिर्मन्त्रार्थवादैर्भवति दृढतरा देवतातद्गुणादौ

बाधश्चातीन्द्रियेऽक्षैर्न हि भवति धियां मानता च स्वतो नः ।

दुःखासंभिन्नदेशादिकमिव फलदा देवता तत्रतत्र

प्राप्या च श्रूयतेऽतः कथय कथमियं शब्दमात्रादिरूपा ॥ ८३ ॥

इत्थं प्रमाणप्रतिपन्ने देवतास्वरूपे सति किमिति तत्तच्छब्दमात्रात्मिका देवताऽभिधीयते किम्पचानैरित्याह – बुद्धिरिति ॥ अयमत्र विकल्पः – किं मन्त्रादिभिः प्रतीतिरेव नोत्पद्यते? उत सा संशयात्मिका? किं वा अवधारणात्मिकाऽपि बाध्यते? अबाधिताऽपि [बौद्ध]बाध्यवत् स्वतोऽप्रमाणरूपिणीति स्वीक्रियते? तत्राद्यं परिहरति – बुद्धिर्मन्त्रार्थवादैर्भवतीति । द्वितीयमप्यपाकरेति – दृढतरा देवतातद्गुणादाविति । तृतीयं च निराचष्टे – बाधश्चातीन्द्रियेऽक्षैर्न हि भवति धियामिति । अयं विकल्पः -मन्त्रार्थवादप्रतिपन्नानामलौकिकानामर्थानां किमिन्द्रियैर्बाधः? किं वा अनुमानेन? न तावदिन्द्रियेण; अलौकिकेऽर्थे खल्विन्द्रियाणां विधिनिषेधयोस्सामर्थ्यमेव नास्ति । नाप्यनुमानेन, आगमविरुद्धस्यानुमानस्य[स्यादृ]दुष्टत्वात् । अबाधितस्यापि स्वत एवाप्रामाण्यमिति चतुर्थः पक्षोऽवशिष्यते; स तु बौद्धानामेव । तदिदमाह – धियां मानता च स्वतो म हति । तर्हि देवताप्रीत्यादौ श्रुतिरेव नास्तीति पञ्चमं पक्षं परिकल्पणं इति चेत्, तद्दृष्टापलापरूपत्वादनुपपन्नमित्याह – दुःखेति । यथा स्वर्गादिश्रुतिः प्रत्यक्षा एवं देवतादिश्रुतिरपि प्रत्यक्षैव श्रूयते । अतः कथमियं शब्दमात्रात्मिका देवतेति कथयसि त्वमिति परपक्षवादिनमाक्षिपति – कथयेति ॥ ८३ ॥ इति देवतानां तत्तच्छब्दमात्रादिव्यतिरेकः ॥

5.444     प्राचीनेन्द्राद्यपाये दिशतु कृतफलं को नु कल्पान्तरादा-

वन्ये तत्तत्पदस्था न तदुपजनकाः प्रागनाराधितत्वात् ।

मैवं यस्य श्रुतिश्च स्मृतिरपि नियतादेशरूपे स एक-

स्सर्वाराध्यान्तरात्मा न हि गलितपदो नापि सुप्तस्तदाऽपि ॥ ८४ ॥

ननु कर्मणां देवताराधनरूपत्वे कल्पान्ते पूर्वकल्पाराधिता देवता भ्रष्टाधिकाराः । कल्पान्तरे पुनरन्ये तत्तत्पदस्था देवताविशेषाः पूर्वकल्पेऽनाराधितत्वात् पूर्वकल्पकृतकर्मफलजनका न भवन्ति । अतः कथमुत्तरकल्पे पूर्वकल्पकृतकर्मफलप्राप्तिरिति चोदयति – प्राचीनेति ॥ उक्तमिदं निराकरोति – मैवमिति । ‘श्रुतिः स्मृतिर्ममैवाज्ञ’ इति यस्य श्रुतिश्च स्मृतिश्च नियतादेशरूपे प्रमाणसिद्धे, स एकस्सर्वकर्मसमाराध्यः पूर्वोत्तरकल्पवर्तिसकलदेवतान्तर्यामी न हि गलितपदो भवति; नापि सुप्तवत् किमपि न जानाति । तेन पूर्वोत्तरकल्पवर्तिनोरधिकारिणोरधिपतिरन्तर्यामी च भगवानेव सर्वं फलं प्रदापयति । यथा पूर्वोत्तराधिकारिणोरधिपतिर्महाराजस्तत्तद्देशवर्तिनां तत्तत्फलप्रदानेन परिपोषक इति लोकदृष्टमेतत् ॥ ८४ ॥ इति कर्मणां कल्पान्तरेष्वपि फलसिद्धिद्वारविशेषः ॥

5.445     अस्त्वेवं कर्मवर्गे स्वयमिह फलदो हव्यकव्यैकभोक्ता

तन्निघ्नैस्तैः किमन्तर्गडुभिरिति च न स्वोक्तिबाधप्रसक्तेः ।

कर्माराध्यत्वमेषां दिशति फलमसौ पूर्वमाराधितस्तैः

श्रद्धेयाः श्राद्धभोक्तुरद्विजवदत इमे निर्जरास्तस्य देहाः ॥ ८५ ॥

तर्हि सर्वाधिपतिस्स एव भगवान् सकलफलप्रदो भवतु; हव्यकव्यैकभोक्तृत्वात्; मध्ये तन्निघ्नैस्तैः किमन्तर्गडुभिरिति, एतत्स्वोक्तिबाधदुःखमित्याह – अस्त्वेवमिति ॥ देवतामुखेन भगवत्समाराधनं हव्यभोक्तृत्वम् । तदेव पितृमुखेन चेत् कव्यभोक्तृत्वमिति शास्त्रप्रसिद्धिः । अतो देवपितृप्रहाणवचनमसङ्गतम् । किंच कर्मभिराराधितो भगवान् सकलमपि फलं ददातीति शास्त्रनिर्णयः । तथा च पूर्वस्मिन् कल्पे तैस्तैरधिकारिभिः कर्मविशेषसमाराधितो भगवान् उत्तरस्मिन् कल्पे तेषा[मपि]मेव कर्माराध्यत्वेन देवतात्वं पितृत्वं च ददाति । तथा च तत्तद्देवतामुखेन भगवत एवाराधनीयत्वम्, तेषामपि च भगवद्विशेषणभूतानां कर्माराध्यत्वमिति न विरोधः । तदिदमाह – कर्माराध्यत्वमिति । ननु देवतानामाराध्यत्वे कथं भगवदाराधनत्वम्? तदाराधने वा कथं देवताराधनत्वमिति? तदेतद् दृष्टान्तोनोपपादयति – श्रद्धेया इति । यथा श्राद्धे निमन्त्रितब्राह्मणभोजने पितृदेवतयोः प्रीतिः, सैव प्रीतिः फलदायिनी, एवमाराध्यदेवतान्तर्यामी भगवान् प्रीतः फलं प्रयच्छति । अत इमे निर्जरास्तस्य देहा इति श्रुतिसिद्धमित्यर्थः ॥ ८५ ॥ इति देवतान्तरप्रीतेरपि भगवत्प्रीत्यर्थत्वम् ॥

5.446     विश्वेशाकूतभेदव्यवहितफलदे वैधघण्टापथेऽस्मिन्

संस्काराणां गतार्था सरणिरपि तथा मन्त्रणप्रोक्षणाद्यैः ।

राजेच्छोपात्तभोग्यप्रभृतिनियमवत्तत्र कार्यान्तरादि-

स्सत्त्वादीनां गुणानां विपरिणतिभिदां तत्फलं केचिदूचुः ॥ ८६ ॥

एवं प्रधानकर्मसु द्वारभूतां देवताप्रीतिं प्रसाध्य संस्कारकर्मस्वपि स एव देवतासंकल्पविशेषो द्वारत्वेन स्वीकार्य इति वदति – विश्वेशेति ॥ यथा यज्ञाद्याराधितः स्वसङ्कल्पेनैव फलं प्रयच्छति भगवान्, एवं मन्त्रणप्रोक्षणादिभिरपि संस्कारकर्मभिराराधितस्तत्तत्संस्कार्यानुबन्धिफलकरणेन तानितानि कर्माणि सगुणयतीति । कथं तर्हि तत्तत्संस्कार्यवस्तुनि नियमेनोत्तरकर्मानुष्ठानं स्यात्? न ह्यप्रोक्षितात्प्रोक्षिते कश्चिदतिशयो भवत्पक्षेऽस्ति; ईश्वरबुद्धिविशेषमन्तरेण व्रीह्यादिषु विशेषास्वीकारादित्याशङ्क्याह – राजेच्छेति । यथा राजच्छया अस्येदं वाहनमायुधं वस्त्रमाभरणमित्यादिनियमकारिण्या परिगृहीतानां तेषां पदार्थानां तन्नियमानुरोधेनैव उत्तरोत्तरमारोहणादिकर्मसूपयोगनियमः, एवं तत्तत्प्रोक्षणादिकर्मविषयीकृतानामेव तेषामुपयोगो भगवदायत्त इति न विरोधः; सहकारिवशादेव सर्वं संपत्स्यत इति हि न्यायवित्संप्रदायः । इत्थं स्वपक्षमभिधाय सयूथ्यानां पक्षमप्याह – सत्त्वादीनामिति । प्रोक्षणादिकर्मभिर्व्रीह्यादिषु सत्त्वादिगुणपरिणतिभेदं केचिदूचुरिति, गुणपरिणतिभेदातिरेकेण प्रोक्षणादिना आधेयशक्तिर्न कल्प्येत्यर्थः । वैभवादयं पक्ष उक्तः; प्राक्तन एव पक्षः प्रामाणिक इति भावः ॥ ८६ ॥ इति शास्त्रीयसंस्काराणां देवताप्रीत्यर्थत्वम् ॥

5.447     कृष्यादौ मर्दनादावपि च न हि परप्रीतिमूला फलाप्ति-

स्तद्वत् स्याच्छास्त्रसिद्धेष्विति न सदफलं ह्यत्र दृष्टान्तमात्रम् ।

दृष्टौ चाज्ञानुवृत्तिप्रभृतिषु फब्दौ शासितुः प्रीतिकोपौ

शिष्टौ चातस्समीची तदुपगतिरिह त्यक्तिरिष्टेऽपि वांशे ॥ ८७ ॥

ननु कृष्यादौ मर्दनादौ च परप्रीत्या फलावाप्तिर्न दृश्यते, तद्वच्छास्त्रसिद्धेष्वपि स्वशक्त्यैव फलप्राप्तिरुचितेत्याशङ्क्य निराकरोति – कृष्यादावित्यादिना न सदित्यन्तेन ॥ केवलं हि दृष्टान्तमात्रं प्रामाणिकार्थप्रतिक्षेपकं न भवति; अन्यथाऽतिप्रसङ्गाकियाह – अफलमिति । अत्र प्रतिदृष्टान्तोऽप्यस्तीत्याह – दृष्टाविति । लोके च राज्ञामाज्ञानुवृत्तिप्रभृतिषु प्रीतिकोपौ दृष्टौ; इष्टौ च तौ फलदाविति सर्वेषाम् । एवं शास्त्रदृष्टत्वात्तावेव प्रोतिकोपौ फलदौ भवतः । अतस्तदुपगतिरेव भवतोऽपि समीची । एवं प्रमाणदृष्टान्ताभ्यां प्रतिपन्नस्यार्थस्य परित्यागे सर्वस्यापि प्रामाणिकत्वेन दृष्टस्यार्थस्य परित्यागः स्यादित्याह – त्यक्तिरिति ॥ ८७ ॥ इति कर्मणां स्वयं फलदत्वौचित्यभङ्गः ॥

5.448     प्रध्वस्तं कर्म कालान्तरभवितृफलासाधकं तल्लिङादे-

र्वाच्योऽर्थः स्थायि कार्यं न यदि कथमिवान्वेतु कामी नियोज्यः ।

तच्चापूर्वं प्रधानं फलजनकमपि स्यान्नियोज्यप्रसिद्ध्यै

नित्ये नैष्फल्यमस्येत्यभिदधुरपरे तेऽपि निर्धूतकल्पाः ॥ ८८ ॥

एवं कल्प्यापूर्वपक्षं निराकृत्य वाच्यापूर्वपक्षेऽपि प्राभाकरोक्ते दूषणं तुल्यमित्यतिदिशति – प्रध्वस्तमिति ॥ इत्थं किल वाच्यापूर्ववादिनामाशयः – चिरध्वस्तं किल कर्म कालान्तरभावि फलसाधनं न भवति । तल्लिङादेर्वाच्योऽर्थः कालान्तरभाविफलसाधकं स्थायिकार्यमपूर्वं भवितुमर्हति । श्लाघं न यदि स्वर्गकामी नियोज्यः कथमस्मिन्वाक्येऽन्वयमर्हति? अन्विताभिधानं हि वाक्यकृत्यम्; न खल्वनन्वितमर्थं कदाचिदपि वाक्यमभिधत्ते । तच्चापूर्वं स्वप्राधानम्; न पुनः कौमारिलकल्पनायामिव द्वारमात्रम् । तच्च भृत्यपोषणन्यायेन नियोज्यप्रसिद्धच्चै फलजनकमपि स्यात् । राजा हि स्वकार्यनिर्वाहाय भृत्यान् पोषयति । एवमपूर्वमपि स्वप्रसिद्ध्यै स्वर्गादिकं नियोज्यफलं प्रयच्छति । न च वाच्यं कामाधिकारे अपूर्वमस्तु, नित्ये फलाभावादपूर्वं मा भूदिति; एकत्र निर्णीतस्य शास्त्रार्थस्यान्यत्राप्यविशेषात् । कामाधिकारे लिङ्वाच्यतया स्वप्राधान्येनापूर्वे निर्णीते नित्ये फलभावेऽपि तदेवापूर्वं लिङ्वाच्यं स्यात् । अन्यथा लिङो वैयर्थं स्यात्; अर्थान्तरकल्पनेनानुवृत्तार्थाभावेन वैरूप्यं स्यादिति । अस्मिन्मते विशेषेण दूष्याभावादेतेऽपि पूर्वोक्तेन कल्पेन निर्धूता इत्याह – त इति । तुल्यं खल्वेतेषां श्रुतदेवताप्रीत्यादि [भा] हानं कल्पनागौरवं चेति भावः ॥ ८८ ॥ इति वाच्यापूर्वपक्षेऽपि कल्प्यापूर्वपक्षोक्तदूषणातिदेशः ॥

5.449     कुत्युद्देश्यं सुखादि स्वत इह न परं स्यादनन्यार्थवेद्यं

कॢप्तिश्चान्यस्य हेतोरपि च परिहृतं तत्परत्वं श्रुतीनाम् ।

नित्ये चापूर्वतोऽन्यत् फलमनघगिरस्सस्मरुर्दुस्त्यजं त-

न्नो चेत् स्वस्मिन्नियोगायुतमपि निपुणान्नैव शक्तं नियोक्तुम् ॥ ८९ ॥

एवं परोक्तं वाच्यापूर्वं निरस्य तत्प्राधान्यवचनमपि निराचष्टे – कृत्युद्देश्यमिति ॥ ‘कृतिसाध्यं प्रधानं यत् तत्कार्यमभिधीयते’ इति यत्प्राधान्यमुच्यते प्रभाकरमतानुवर्तिभिः, तत्सुखादेरिति दर्शयति – सुखादि स्वत इति । अतोऽपूर्वस्यानन्यार्थवेद्यत्वं न स्यादित्याह – परं स्यादनन्यार्थवेद्यमिति । तदेवोपपादयति – कॢप्तिश्चेति । कालान्तरभाविस्वर्गानुकूलतयैव ह्यपूर्वं परिकल्प्यते वाच्यापूर्ववादिभिरपि । ननु कार्य एव वाक्यानां प्रामाण्यमुक्तम्? अस्माभिरपि तत्परिहृतमित्याह – अपि चेति । किंच नित्ये कर्मणि निष्फलत्वं त्वयाऽभिधीयते; तच्चायुक्तम्, अपूर्वव्यतिरेकेणाकरणे प्रत्यवायपरिहारोत्तरकर्माधिकारादिकं फलमनघगिरः – मुनयः खलु सस्मरुः; तच्च भवताऽपि दुस्त्यजमित्याह – दुस्त्यजं तदिति । एवमनङ्गीकारे नित्ये कर्मणि नियोगस्य नियोगत्वमेव वंभज्येत, स्वयं प्रवर्तकत्वाभावादिति दर्शयति – नो चेदिति । स्वयमसुखात्मकस्य नियोगस्य सुखादिहेतुभावेनैव प्रवर्तकत्वं संघटते । तद्धेतुत्वाभावे सहस्रमपि नियोगाः प्रवर्तयितुं न शक्तुवन्तीत्यर्थः ॥ ८९ ॥ इति अपूर्वप्राधान्यभङ्गः ॥

5.450     व्युत्पत्तिश्चेल्लिङादेः स्वयमवगमिते स्यान्मिथस्संश्रयादि-

नान्यैरत्रानुभूतिः स्मृतिरपि न च वस्तद्द्वयान्यो विमर्शः ।

अर्थापत्त्या मिते चेन्न गुरुमतमिदं मन्यसे तत्तथा चेत्

कल्प्येत द्वारमात्रं तदिति न खलु तद्वाच्यभावादिकल्प्यम् ॥ ९० ॥

एवं प्राधान्यं निरस्यापूर्वे लिङादेर्व्युत्पत्तिमपि निराकरोति – व्युत्पत्तिरिति ॥ अयमत्र विकल्पः – किमज्ञातेऽपूर्वे लिङादेर्व्युत्पत्तिः, उत ज्ञाते? न तावदज्ञाते; व्याघातात् । ज्ञाते चेत् किं लिङैव ज्ञाते उतान्यज्ञाते? नाद्यः, अन्योन्याश्रयात्; तदिदमाह – मिथःसंश्रयादिरिति । ज्ञाते च व्युत्पत्तिः, व्युत्पन्ने चाभिधानम्, अभिधानाच्च ज्ञानमिति चक्रकमादिपदार्थः । अन्यैर्ज्ञातत्वे किमन्यदनुभूतिः, स्मृतिर्वा? न तावदनुभूतिः; प्रमाणान्तरागोचरत्वादपूर्वस्येत्याह – नान्यैरत्रानुभूतिरिति । अनुभूतिपरतन्त्रत्वात् स्मृतिरपि नास्तीत्याह – स्मृतिरपीति । तर्हि विमर्शज्ञानेन सिध्यतीति चेत्, तच्च नेत्याह – चेति । अनुभूतिस्मृतिव्यतिरेकेण विमर्शस्य उपपादयितुमशक्यत्वादित्यर्थः । तर्हि अर्थापत्त्या प्रमितमिति पक्षान्तरमनुवदति – अर्थापत्त्येति । तन्निराकरोति – न गुरुमतमिदमिति । कल्प्यापूर्ववादिनः कौमारिला एव । तर्हि तन्मतमेवानुसराम इति पराभिप्रायमनुवदति – मन्यस इति । निराचष्टे – कल्प्येतेति । कुमारिलमतानुसारे कल्प्यापूर्वमेव स्वीकृतं स्यात् । तथा च वाच्यापूर्वसमर्थनाहङ्कारवादो भज्येतेति भावः ॥ ९० ॥ इति अपूर्वविषयलिङादिव्युत्पत्त्यनुपपत्तिः ॥

5.451     देवप्रीत्यादिकं वा विदितमिह विधिप्रत्ययस्यास्तु वाच्यं

नात्रान्योन्याश्रयो न श्रुतपरिहरणं नापि कॢप्तिर्गरिष्ठा ।

प्राधान्यं स्याच्च किञ्चिन्नृपभजननयात् सिद्धमेतच्च शास्त्रे-

रित्थं त्वर्थाविरोधेऽप्यतिगरिमभयान्नेष्यते शब्दशक्तिः ॥ ९१ ॥

यागादिगतं कार्यत्वमेव लिङ्वाच्यम्; तच्चेष्टस्य कृत्यधीनात्मलाभत्वमित्यादिकं वेदार्थसंग्रहादौ विस्तरेण व्याख्यातम् । तदतिरिक्तार्थवाच्यत्वकल्पनायामपि देवताप्रीत्यादिव्यतिरेकेण नान्यस्य कस्यचिदप्रामाणिकसापूर्वादिपदवाच्यस्य लिङ्वाच्यत्वं कल्पनीयमित्याह – देवेति ॥ अस्त्वित्यन्वारुह्यवादत्वं द्योतयति – अतिरिक्तार्थवाच्यत्वेऽपि देव[ता]प्रीत्यादिकमेव वाच्यमस्त्वित्यर्थः । अस्मिन् पक्षे प्रागुक्ता दोषा न सन्तीत्याह – नात्रेति । तान् गणयति – अन्योन्याश्रयः श्रुतहानमश्रुतकल्पनेति । किंच राजसेवान्यायेन राजप्रीतिप्राधान्यवदीश्वरप्रीतिप्राधान्यं चास्मिन् पक्षे वक्तुं शक्यत इत्याह – प्राधान्यमिति । न चैतत् केवलयुक्तिसिद्धम्; शास्त्रेणापि सिद्धमिति नियमयति – सिद्धमेतच्च शास्त्रैरिति । अतः ‘आप्तस्य हितकामस्य नियोगं केचिदूचिरे’ इत्युक्तप्रकारेण ईश्वरनियोगादिकस्य विधित्वे तस्य च लिङ्वाच्यत्वेऽपि नास्माकं कश्चिद्विरोधः । अथापि लिङ्वाच्यत्वे गौरवभयादिष्टस्य कृत्यधीनात्मलाभातिरेकोणार्थान्तरे शब्दशक्तिर्नेष्यत इति निगमयति – इत्थमिति ॥ ९१ ॥ इति अपूर्वस्य लिङादिवाच्यत्वेऽपि देवताप्रीत्याद्यनतिरेकः ॥

5.452     स्वव्यापारं विशेष्ये स्वयमभिदधते नैव शब्दाः कदाचित्

श्रुत्वा लिङ्व्यापृतिं वा कुत इह यतनं स्वोपयोगाद्यबोधे ।

तस्मादास्माकतत्तद्यतनकृदभिधा स्वस्य वाच्या लिङादे-

रित्युक्तिं बह्ववद्याममनिषत बुधास्त्रस्तरीमात्ररूपाम् ॥ ९२ ॥

उक्तार्थस्थेम्ने कौमारिलोक्तां शब्दभावानाया लिङ्वाच्यतामुन्मूलयति – स्वव्यापारमिति ॥ लिङ्व्यापारः – शब्दभावना । तामेवाभिदधाति लिङ्प्रत्ययः, लिङ्व्यापारप्रतिपत्तिरेव पुरुषं प्रवर्तयतीति भावनावाक्यार्थवादिनः । अत्रोभयमपि न संघटते । न खलु शब्दाः कदाचिदपि स्वव्यापारं स्वयमेवाभिदधते । अभिधेयानुबन्धिनी खल्वभिधा; अभिधेयाश्च घटादयः । एवं लिङभिधानमप्यभिधेयार्थानुबन्धित्वान्न स्वात्मानं विषयीकरोति । इत्थं लिङ्व्यापारस्वरूपप्रतीतिः प्रवृत्तिं न करोति । नहि लिङ्व्यापार इति बुध्वा कश्चित् प्रयतते; स्वोपयोगादिबोध एव हि सर्वत्र प्रवर्तकः । इत्थमर्थतत्त्वं निष्कृष्य परोक्तप्रक्रिया परिहासमात्रपदमित्याह – तस्मादिति । आस्माकतत्तद्यतनकृत् – अस्मदीयतत्तद्यागादिप्रयत्नरूपार्थभावनामुत्पादयति केवलं लिङभिधा । शब्दभावना शब्दाभिधेया स्वस्य लिङादेर्वाच्येत्युक्ति बह्ववद्यां – श्रुतहानाश्रुतकल्पनानैरर्थक्यादिबहुदोषदुष्टां बुधास्त्रस्तरीमात्ररूपाममनिषत । त्रस्तरी – परिहासः ॥ ९२ ॥ इति शब्दभावनाया लिङादिवाच्यत्वभङ्गः ॥

5.453     न स्यात् पुंसः प्रवृत्त्यै विदितमपि गिरा स्वेष्टहेतुत्वमात्रं

दुस्साधादावयोगादथ सहकुरुते साध्यतैकार्थयोगः ।

इत्थं शक्तिर्द्वये स्याद्गरिमहतमिदं किञ्चिदत्रार्थतश्चे-

दिष्टोपायत्वमर्थादुचितमिह ततः खण्डिता मण्डनोक्तिः ॥ ९३ ॥

तर्हि मा भूच्छब्दभावना लिङर्थः, इष्टसाधनत्वमेवास्त्विति मण्डनः । तत्पक्षमपि प्रतिक्षिपति – स्यादिति ॥ गिरा विदितमपि हीष्टसाधनत्वं पुरुषाणां प्रवृत्त्यै न भवत्येव । तत्र हेतुमाह – दुस्साधादावयोगादिति । न हि दुस्साधादाविष्टसाधनत्वं प्रतिपन्नमपि पुरुषं प्रवर्तयति । तर्हि न केवलमिष्टसाधनत्वमस्तु प्रवृत्तिकारणम्; तस्य सहकुरुतां साध्यत्वमित्याशङ्कते – अथेति । अत्रोत्तरम् – इत्थमिति । इष्टसाधनत्वं साध्यत्वं चोभयमपि शब्दार्थ इति परिकल्पने गौरवं स्यादित्यर्थः । अत्र शङ्कते – किंचिदिति ।गौरवपरिहारार्थमिष्टसाधनत्वसाध्यत्वयोरन्यतरस्यार्थत्वं स्यादिति भावः । तर्हीष्टसाधनत्वमेवार्थं कार्यत्वं पुनश्शाब्दमेव स्यादिति नेष्टसाधनत्वस्य शाब्दत्वसिद्धिरित्याह – इष्टोपायत्वमिति । अन्तरङ्गं खलु प्रवृत्तेरिष्टोपायत्वात् कार्यत्वम् । अयमिष्टोपायः अतः कार्यमिति कार्यबुद्ध्यैव प्रवर्तन्ते पुरुषा इति लोकसिद्धमेतत् । अतः खण्डिता मण्डनोक्तिः ॥ ९३ ॥ इति लिङादेरिष्टसाधनतार्थत्वभङ्गः ॥

5.454     धात्वर्थस्यैव रूपं किमपि हि कथयन्त्यत्र सर्वे लकाराः

कर्तृव्यापारसाध्यं त्वभिदधति विधिप्रत्ययास्तल्लिङाद्याः ।

वैघट्यं द्वारसिद्धिः प्रशमयति तथा सन्ति लोकोक्तिभेदा-

स्सिद्धं शब्दानुशिष्ट्या त्विदमुचितमिति स्थापितं भाष्यकारैः ॥ ९४ ॥

स्वपक्षे लिङाद्यर्थं निष्कृष्याचष्टे – धात्वर्थस्येति ॥ द्वयं खलु शब्दार्थनिर्णयकारणं विशिष्टप्रयोगो व्याकरणं चेति । उभयमप्यस्मत्पक्षानुकूलम् । लङादयो लकारास्सर्वेऽपि धात्वर्थस्यैव वर्तमानत्वभूतत्वादिकं किमपि रूपमभिदधति । एवं लिङादयोऽपि धात्वर्थस्यैव यागादेः कर्तृव्यापारसाध्यत्वमभिदधतीति समुचितमेतत् । ननु कथं कालान्तरभाविस्वर्गकामस्य चिरध्वस्तो यागः काम्यफलसाधनमिति शङ्काऽवशिष्यते । तदपि देवताप्रीत्यादिद्वारसिद्धिः प्रशमयतीत्याह – वैघट्यमिति । अयं चार्थो राजसेवादौ लोकोक्तिसंशदवानित्याह – तथेति । अयमर्थो न लोकप्रसिद्धिमात्रपरिग्राह्यः, व्याकरणानुकूलत्वाद्विशेषेण परिग्राह्य इति भाष्यसंमतिमाचष्टे – सिद्धमिति ॥ ९४ ॥

5.455     इष्टस्वर्गादिकस्य त्वितरदपि यदा साध्यमुक्तं तदाऽर्थात्

सिद्धं तत्साधनत्वं सुगममिह तदाऽनर्थकत्वं निषेध्ये ।

नित्यत्वेनोपदिष्टेष्वकरणमपि तत्तुल्यमेवार्थलब्धं

सामान्यात् प्राप्तमेतत् फलनियतिरपि व्यज्यते तत्तदुक्त्या ॥ ९५ ॥

ननु स्वर्गकामस्य यागादिस्साध्यतया विधीयत इति हि भवतोच्यते । यागादेरिष्टसाधनत्वं साक्षान्नोच्यते । कथं तर्हि यागादेरिष्टसाधनत्वसिद्धिः? कथं वा पुनरपगोरणादेरनिष्टसाधनत्वसिद्धिः? इत्याशाङ्क्य परिहरति – इष्टेति ॥ अर्थात्सिद्धं तत्साधनत्वं, शाब्दं कार्यत्वमार्थमिष्टसाधनत्वम् । एवमपगोरणादावपि शाब्दमकार्यत्वमार्थं निषिध्यमानस्यानिष्टसाधनत्वमिति विभागः । एवमकृत्यकरणेऽनर्थकृत्त्वमुक्तम् । तथा कृत्याकरणेऽप्यनर्थकृत्त्वप्रतिपत्तिरार्थतुल्येत्याह – नित्यत्वेति । नित्यस्य कर्तव्यत्वं शाब्दं नित्याकरणस्यानर्थकृत्त्वमार्थमित्यत्रापि विभागः । एतत्सर्वं सामान्येनार्थतत्त्ववर्णनम् । इदमेतत्फलं ददाति; एतस्य चानुष्ठाने सति अयमर्थः इत्यादिर्विशेषस्तत्तच्छास्त्रोक्त्याऽवगन्तव्य इति दर्शयति – फलनियतिरिति ॥ ९५ ॥ इति लिङाद्यर्थनिष्कर्षः ॥

5.456     सन्ति ह्यन्ये लिङर्थाः कथयितृपुरुषाकूतभेदास्तथाऽत्रा-

प्याप्तस्याहुर्नियोगं हितमभिलषितं केऽपि भाष्याशयस्थम् ।

शास्त्राज्ञाचोदनात्वं श्रुतिषु विधिपदैरन्वितत्वं नञोऽपि

स्वादेशे चावधूते भवति समुचितः प्रत्यवायः स्वतन्त्रात् ॥ ९६ ॥

इष्टस्य कृत्यधीनात्मलाभत्वमिति स्वपक्षे लिङ्वाच्यत्वं दर्शयित्वा स्वपक्षनिष्ठानामेव केषांचिदीश्वरनियोगरूपविधिपक्षे विविच्य दर्शयति – सन्ति हीति ॥ ‘विधिनिमन्त्रणेत्यादौ विधिः प्रेषणमित्यादयः कथयितृपुरुषाभिप्रायभेदालिङर्थत्वेन प्रतिपादिताः । तथाऽत्राप्याप्तस्य हितकामस्य नियोग एव विधिरिति भाष्यकाराभिप्राय इति केचिन्मन्यन्ते । तच्च वयं न प्रतिक्षिपामः; ‘श्रुतिस्मृती ममैवाज्ञ’ इति, ‘शास्ता विष्णुरशेषस्य’ इति भगवदाज्ञारूपत्वं चोदनाया युज्यते । अ[त्र]तः श्रुतिषु विधिपदैरन्वितत्वं शासितुराज्ञा चोदनारूपत्वमेव । नञोऽपि – नञ्प्रयोगाच्च भगवदाज्ञायामवधूतायां स्वतन्त्रात् – भगवतस्समुचितः प्रत्यवायो भवतीत्युच्यते; तदिदमाह – नञोऽपीति ॥ ९६ ॥ इति वक्तृनियोगस्य लिङादिवाच्यत्वपक्षः ॥

5.457     षाड्गुण्यस्यैव कुक्षौ गुणगण इतरः श्रीसखस्येव विश्वं

षट्स्वन्ये ज्ञानशक्त्योर्विततय इति च व्यक्तमुक्तं हि तज्ज्ञैः ।

निस्सीमानन्दभावस्थिरचरचिदचिच्छासनप्रेरणाद्या

ऐशानज्ञानधर्माः कतिचन नियताः केचिदागन्तवश्च ॥ ९७ ॥

एवं विश्वनियन्तुरीश्वरस्य, ‘तवानन्तगुणस्यापि षडेव प्रथमे गुणाः । यैस्त्वयैव जगत्कुक्षावन्येऽप्यन्तर्निवेशिताः’ ॥ इत्युक्तक्रमेण षाड्गुण्यस्यैवावान्तरभेदास्सर्वे गुणा इत्याह – षाड्गुण्यस्येति ॥ तस्य चेश्वरस्य केचिद्गुणा निस्सीमानन्दादयो ज्ञानावस्थाभेदा नियता नित्यसिद्धाः; केचित्तदातदा संकल्पविशेषादयश्च [इतरैरागन्तुत्वेनावधृता] आगन्तव इति विभागोऽस्तीत्याह – निस्सीमेति ॥ ९७ ॥ इति षाङ्गुण्यनिरूपणम् ॥

5.458     हेतोः कार्योपयुक्तं यदिह भवति तच्छक्तिशब्दाभिलप्यं

तच्चामुष्य स्वधर्मस्तदितरदपि वाऽपेक्षितत्वाविशेषात् ।

विश्वं तद्विष्णुशक्तिर्मुनिभिरभिदधे तत्रतत्रोपयोगा-

दन्या सर्वाद्भुतैकोदधिरगणि न सा तत्स्वरूपादिमात्रम् ॥ ९८ ॥

एवं गुणानां विभागमुक्त्वा शक्तेः स्वरूपं शोधयति – हेतोरिति ॥ कारणस्य कार्योपयोगी सहकारिकलापः शक्तिरित्युच्यते । तच्च स्वधर्मो वा भवतु, अन्यद्वा यत्किञ्चित्; अपेक्षितत्वाविशेषात् शक्तिरित्यभिधीयते । तदिदमाह – हेतोरिति । इत्थं सामान्येन शक्तिशब्दार्थं प्रसाध्य ‘विष्णुशक्तिः परा प्रोक्त’ इत्यादिभिर्मुनिवचनैरभिहितामपि शक्तिमेव तल्लक्षणानुरोधेन व्याचष्टे – विश्वं तदिति ॥ ‘समस्ताः शक्तयश्चैता नृप यत्र प्रतिष्ठिताः । तद्विश्वरूपवैरूप्यं रूपमन्यद्धरेर्महत् ॥ इति या मूर्तिस्सर्वाद्भुतैकोदधिरगणि साऽपि स्वरूपविशेषणत्वात् शक्तिशब्दवाच्यतामर्हति; न पुनस्सा स्वरूपमात्रम् । तस्मिन्नेव विग्रहे अस्त्रभूषणादिरूपेण समस्ताः शक्तयस्समाश्रिताः; तद्विग्रहविशिष्टो भगवान् सर्वाधार इत्यर्थः ॥ ९८ ॥ इति शक्तिशब्दार्थनिष्कर्षः ॥

5.459     यद्भ्रंशान्मन्त्ररुद्धो न दहति दहनश्शक्तिरेषाऽस्तु सोऽयं

हेतुर्मन्त्राद्यभावस्स च गत इति तद्धेत्वभावाददाहः ।

शक्तेर्नाशे किमस्याः पुनरिह जनकं वृत्तिरोधस्तु युक्तो

वह्नेरित्यादिघोषो विरमति विदिते शब्दतश्शक्तितत्त्वे ॥ ९९ ॥

स्वरूपसहकारिव्यतिरिक्तशक्तेर्यद्धोषितं दूषणं न्यायवादिभिः, तदानुमानिकशत्तिकल्पने भवतु, ‘शक्तयस्सर्वभावानामित्याद्यागमसिद्धे शक्तितत्त्वे न दूषणमित्याह – यद्भ्रंशादिति ॥ इत्थं किल शक्तिदूषणप्रक्रिया – यस्य प्रतिबन्धाभावस्य भ्रंशान्मन्त्ररुद्धो दहनो न दहति स एव प्रतिबन्धाभावः शक्तिरस्तु । स च प्रतिबन्धाभावो हेतुरेव; प्रतिबन्धाभावविशिष्टस्य वह्नेर्दाहकत्वात् । तथा च मणिमन्त्रादिप्रतिबन्धे सति सामग्री वैकल्यात् कार्याभावः, न तु तदतिरिक्तशक्त्युपरोधात्; तत्कल्पनायां गौरवात् । तदिदमाह – तद्धेत्वभावाददाह इति । किंचातिरिक्तशक्तिकल्पनायां प्रतिबन्धकेन तन्नाशे पुनरुत्तम्भकावस्थायां किं तस्या जनकमिति वाच्यम् । उत्तम्भकमिति चेत्।, अनियतहेतुकत्वप्रसङ्गः । उत्तम्भकसत्त्वेऽपि शक्तिर्न जन्यते चेत्, पुन[र्दा]र्दहनकार्यं न स्यात् । तदिदं सर्वमभिप्रेत्याह – शक्तेर्नाश इति । तर्हि प्रतिबन्धकेन शक्तिर्न नश्यति किं तूपरुध्यत इति चेत्, तर्हि वह्निरेवोपरुध्यताम्; किमनेन [शक्तिकल्पनेन? गुरुतरेणेत्याह – वृत्तिरोधस्तु युक्तो वह्नेरिति । अयं दूषणवादः शब्देतरप्रमाणगम्यायां शक्तौः [युक्तः]; शक्तितत्त्वे शब्दगम्ये सति न युक्त इत्याह – इत्यादिघोष इति ॥ ९९ ॥ इति शक्तिदूषणपरिहारः ॥

5.460     शब्दादिष्वस्ति शक्तिर्यदि कथमिव न द्रव्यतैषां गुणित्वे

सा चेन्नास्त्येषु कार्यं किमपि कथमितः स्यादितीदं न युक्तम् ।

शक्तिश्शक्ता न वेति स्वयमवमृशतः स्वोक्तदोषप्रसङ्गे

निस्तारश्चेत्स्वभावात् फणिमरणमिह प्रस्तुते किं प्रवृत्तम् ॥ १०० ॥

अत्र शक्तिमद्रव्येषु स्वरूपरूपामुपपादयति – शब्दादिष्विति ॥ इयमत्र पूर्वपक्षप्रक्रिया -शब्दादिषु शक्तिर्यद्यस्ति, कथमिव तेषामद्रव्यता, शक्त्याश्रयत्वेन तेषां गुणित्वात्? यदि शब्दादीनां शक्त्याश्रयता नास्ति, तहिं शब्दादिभिः कार्यं किमपि कथं स्यादिति । तदयुक्तमित्याह – इदं नेति । तदेतद्विवृणोति – शक्तिरिति । अयमत्र विकल्पः – किं शक्तितत्त्वमेव द्रव्येष्व[प्य]पलपसि? अथवा शब्दादीनामद्रव्याणां शक्तिर्नास्तीति? पूर्वत्र क्वचिदपि कार्यसिद्धिर्न स्यादिति व्याघातः । तथा च भवताऽप्यङ्गीकार्या शक्तिः । तथा च सा शक्तिर्यथा शक्त्यन्तरमन्तरेणापि कार्योपयोगिनी, एवं शब्दादयोऽपि स्वगतशक्तिमन्तरेणापि स्वरूपसहकारिभ्यामेव कार्यं कुर्वते, अन्यथाऽनवस्थाप्रसङ्गादिति । फणिमरणमिहेत्यादि । यथा शक्तेश्शक्त्यन्तराभावः, स तु शब्दादावपि तुल्य इत्यर्थः ॥ १०० ॥ इति अद्रव्याणां स्वरूपशक्तिमत्त्वम् ॥

5.461     बाह्याक्षादेरवृत्तौ चिरविदितमपि स्मर्यते येन सोऽयं

संस्कारस्तुल्यदृष्टिप्रभृतिसहकृतश्चेतसस्साह्यकारी ।

नासौ पूर्वानुभूतिः कथमुपकुरुतां सा पुरैव प्रनष्टा

तुल्यादेर्नापि दृष्टिः कथमनवगते सा स्मृतिं नैव कुर्यात् ॥ १०१ ॥

इत्थमद्रव्येषु स्वरूपातिरिक्तां शक्तिं निराकृत्य स्मृतिहेतुसंस्कारं स्वरूपाद्यतिरिक्तं साधयितुमुपक्रमते – बाह्येति ॥ स्मृतिज्ञानस्य तावदिन्द्रियार्थसन्निकर्षादिकं न साधनम्; तदभावेऽपि चिरविदितमपि येन स्मर्यते स एव हि संस्कार इत्युच्यते । स च तुल्यदर्शनादिसहकृतश्चित्तस्य सहकारी भवति, यथाऽऽहुः – ‘सदृशादृष्टचिन्ताद्याः स्मृतिबीजस्य बोधकाः इति । अयं चागन्तुकधर्मः पूर्वानुभूतिरेवेति न वक्तुं शक्यते; तस्याः पुरैव नष्टत्वेनोत्तरकालानुपकारकत्वात् । तदिदमाह – कथमुपकुरुतामिति । तर्हि तुल्यदर्शनादिकमेवाधुनिकसंस्कारोऽस्त्विति च वक्तुं न शक्यते; अनवगतेऽप्यर्थे स्मृतिप्रसङ्गात् । न हि पूर्वानुभवजनितसंस्कारमन्तरेण सदृशदर्शनादिकं कदाचिदपि स्मृतिं कुरुते ॥ १०१ ॥

5.462     यञ्जन्यां संस्क्रिया यत् किमपि नियमतो बोधयिष्यत्यदृष्टं

तत्तद्वेद्यावलम्बिस्मृतिमुपजनयेत् संमतं च द्वयोस्तत् ।

न ह्यन्यद् दृश्यतेऽत्र क्वचन तदधिके कल्पिते गौरवं स्या-

दित्युत्प्रेक्षा न युक्ता न हि परजनिते क्वापि तत्संस्क्रियोक्तिः ॥ १०२ ॥

तर्हि यज्जन्या संस्क्रिया युष्मत्पक्षे येन सदृशदर्शनादिना नियमेनानुबोध्यते तदेव सदृशदर्शनादिकं तद्वेद्यालम्बिनीमेव स्मृतिमुपजनयेदित्याह – यज्जन्यामिति ॥ तथा चाननुभूते स्मृतिप्रसङ्गो नास्ति; संमतं च द्वयोरपि वादिनोस्सदृशदर्शनादि । तदिदमाह -संमतं च द्वयोस्तदिति । न च दृष्टत्वादधिकस्संस्कारोऽङ्गीक्रियत इत्याह – न हीति । अधिककल्पनायां गौरवमपि प्रसञ्जयति – तदधिक इति । तदेतद् दूषयति – उत्प्रेक्षा न युक्तेति । तदुपपादयति – न हीति । लोक एव हि व्यवहारे निदानम् । लोके हि तत्तत्क्रियाजन्यातिशयविशेष एव संस्कारव्यवहारः प्रवर्तते; न पुनर्यस्मिन्कस्मिंश्चित् सहकारिमात्रे । तेन सदृशदर्शनादिमात्रं संस्कार इत्ययं लोकव्यवहारविरुद्ध इत्यर्थः । न च पूर्वानुभवप्रध्वंसमात्रमेव संस्कार इति वाच्यम्; तस्य परपक्षे नित्यत्वेन संस्कारप्रमोषाभावप्रसङ्गात्, अस्मत्पक्षे ध्वंसस्य भावरूपत्वेन पर्यायेण भावस्यैवाभिधानाच्चेति ॥ १०६ ॥ इति स्मृतिहेतुसंस्कारनिरूपणम् ॥

5.463     बुद्धेरर्थेषु पूर्वप्रसरणजनितस्तेषु भूयोऽवगाहे

संस्कारः कारणं तन्मतिगत उचितस्सोऽत्र धीद्रव्यपक्षे ।

आत्माधारस्य तद्धीप्रसरजनकताकॢप्तिरौचित्यहीना

धीनिष्ठेनैव तेन ह्युचितमविकृतेरात्मनः कुण्ठतादिः ॥ १०३ ॥

इत्थं संस्कारसद्भावमुपपाद्य तस्य बुद्धिनिष्ठत्वमुपपादयति – बुद्धेरिति ॥ द्रव्यं हि बुद्धिस्स्वार्थेषु प्रसरतीत्यस्मत्सिद्धान्तः । तेन बुद्धेः पूर्वप्रसरणजनितो भूयो ग्रहणकारणं संस्कार इति सिद्धम् । तथा च तस्य बुद्धिनिष्ठत्वमेव समुचित्तम् । तदिदमाह – मतिगत उचितस्सोऽत्र धीद्रव्यपक्ष इति । आत्माधारत्वं संस्कारस्य किं न स्यादिति परिचोद्यात्मनिष्ठस्य संस्कारस्य धीविकासहेतुत्वेऽनौचित्यमाह – आत्मेति । धीनिष्ठेनैव तेन – संस्कारेण आत्मनः कुण्ठत्वमकुण्ठत्वं च वक्तुमुचितम्, अविकारत्वादात्मन इत्याह – धीनिष्ठेनैवेति । अस्मर्थः – आत्मा निर्विकारः; सविकारं च धर्मभूतज्ञानम्; तच्चात्मनो नित्यासाधारणधर्मः । तेन धर्मभूतज्ञानगतास्सर्वे विकाराः ज्ञानद्वारा ज्ञानाश्रयात्मपर्यन्तं व्यवह्रियन्त इति ॥ १०३ ॥ इति अनुभवजन्यसंस्कारस्य बुद्धिनिष्ठत्वम् ॥

5.464     शीघ्रं यातीति कर्मातिशयसमधिको दृश्यते कुत्र वेग-.

स्तद्भेदैर्वेगभेदं कथयसि च समस्तीव्रमन्दक्रमादिः ।

तत्कर्मत्वाद्विगीते प्रथमवदुचिता तद्गुणोत्पन्नता चेत्

बाधो नास्मिन्विपक्षे गुणपरिषदि वा कर्म सत्तत्त्वतः स्यात् ॥ १०४ ॥

ये तु वेगस्य कर्मातिरिक्तत्वं साधयन्ति, तन्मतं प्रतिक्षिपति – शीघ्रमिति ॥ शीघ्रं यातीति कर्मातिशयविशेषादितरो वेगः कुत्रापि न दृश्यते । भवानपि कर्मभेदैर्वेगभेदं कथयति । तथा च यादृशकर्मभेदात् वेगभेदः परिकल्प्यते स एव कर्मभेदो वेग इत्युच्यताम्, तीव्रमन्दादिभेदस्य कर्मण्यपि समानत्वादित्याह – समस्तीव्रमन्दक्रमादिरिति । तर्ह्यधिकं वेगमनुमानेन साधयामः – शरादिगतं द्वितीयादिकर्म शरगुणोत्पन्नम् तत्कर्मत्वात् तन्निष्ठप्रथमकर्मवदिति । कर्म हि प्राथमिकं, यथा संयोगादुत्पद्यते, एवं द्वितीयादिकर्मणां शरगुणोत्पन्नत्वे तद्गुणो वेगस्सिध्यतीति चेत्, तदिदं निराकरोति – बाधो नास्मिन्विपक्ष इति । कर्मणः कारणमात्रमेवापेक्षितम्; तत्तु कारणं गुण एवेति न निर्बन्धे कारणमस्ति; शब्दाच्छब्दान्तरवत् पूर्वकर्मणाऽप्युत्तरकर्मोत्पत्तौ विरोधाभावात् । कल्पनालाघवमत्रानुग्राहकम् । अथवा द्रव्यान्यत्वेन कर्मापि गुणपरिषदि निक्षिप्यताम् । तथा च कर्म तद्गुणोत्पन्नमिति साध्यनिर्देशे सिद्धसाध्यता च वक्तुं शक्येतेत्याह – गुणपरिषदि वेति ॥ १०४ ॥ इति कर्मातिशयातिरिक्तवेगकॢप्तिभङ्गः ॥

5.465     शाखाकोदण्डचर्मप्रभृतिषु सति चाकर्षणादौ कुतश्चिद्

भूयः स्वस्थानयानं भवति स तु गुणः स्यात् स्थितस्थापकश्चेत् ।

मैवं संस्थानभेदस्स भवतु नियतो यद्विशिष्टे तवासौ

तेन द्रौत्यं विलम्बो विरतिरपि परावर्तने जाघटीति ॥ १०५ ॥

वेगातिरिक्तं स्थितस्थापकाभिधानं संस्कारमपि कल्पयन्त्यल्पबुद्ध्यः । तन्नेति वक्तुमनुवदति – शाखेति ॥ शाखाकोदण्डचर्मप्रभृतिष्वाकर्षणादौ सति कुतश्चित्कारणविशेषाद्भूयः स्वस्थानावस्थानं भवति । स तु कारणविशेषः स्थितस्थापक इति चेत्, मैवम्; नियतस्संस्थानविशेष एव स भवतु – स्थितस्थापको भवतु, यत्संस्थानविशिष्टे वस्तुन्यसौ – स्थितस्थापको भवद्भिः कल्प्यते । स्थितस्थापकविशेषाभावे परावर्तने द्रौत्यविलम्बादिकं कथमिति चेत् – तत्तत्स्थितस्थापकविशेषनियामकेन तत्तत्संस्थानविशेषेणैव तज्जाधटीतीत्याह – तेनेति ॥ १०५ ॥ इति संस्थानविशेषातिरिक्तस्थितस्थापकभङ्गः ॥

5.466     प्राग्देशप्रापकोऽसौ किमिति नियमितो मेदिनीमात्रनिष्ठ-

स्तोयाग्न्यादावदृष्टेरिति यदि न पृथिव्येकदेशेऽप्यदृष्टेः ।

भूम्यंशे दृश्यते तत्फलमिति यदि नाबादिभेदेऽपि साम्यात्

भूपष्टम्भादिभेदादिदमिति च विपर्यासकल्पेऽप्यपायात् ॥ १०६ ॥

अत्र नृसिंहराजीयम् – त्यक्तश्लोको व्याख्यायते । वैशेषिका ऊचुः – स्थितस्थापकसंस्कारः पृथ्वीमात्रगत इति । तत्र नियामकाभावान्न नियम इति दूषयति – प्राग्देशेति ॥ प्राग्देशप्रापकः – स्थितस्थापको मेदिनीमात्रनिष्ठ इति किमिति नियमितः? नन्वदर्शनान्नियमनमिति शङ्कते – तोयाग्न्यायादाविति । तर्हि दर्शनाभावः पृथिव्यामपीति चोदयति – पृथिव्येकदेश इति । पाषाणादावदर्शनादिति भावः । ननु कोदण्डादौ क्वचिद्दर्शनात् पृथिव्यामेवेति न व्यवस्थासिद्धिः ॥ १०६ ॥ इति अतिरिक्तस्थितस्थापकसद्भावेऽपि पृथिवीमात्रनिष्ठत्वनिरासः ॥

5.467     केचिद्देशान्तराप्तेर्जनिमभिदधते कर्म या कर्मजेष्टा

नेत्येकेऽम्भःप्रवाहस्थिरवपुषि झषे तत्प्रतीतेरभावात् ।

खादौ स्रोतःप्रदेशान्तरयुतिरुदके खादिदेशान्तराप्ति-

स्तुल्या तल्लौल्यदृष्टिः पयसि तदधिकं कर्म नालम्बते चेत् ॥ १०७ ॥

अथ कर्मस्वरूपं निरूप्यते – केचिदिति ॥ केचिद्देशान्तरप्राप्तेरुत्पत्तिमेव कर्माभिदधते, न पुनस्तदतिरिक्तं कर्म । या खलु देशान्तरप्राप्तिः कर्मजन्येति परेषामिष्टा, न पुनस्तदतिरिक्तं कर्मोपलभ्यत इति भावः । लाघवं चात्र कारणम् । एके तदेतन्नेत्याहुः । तत्र हेतुमप्याहुः – अम्भ इति । न हि जलप्रवाहस्थिरवपुषि मत्स्ये सन्ततं समागच्छत्प्रवाहसंबन्धेऽपि कर्मप्रतीतिः; तेन जल एव कर्म प्रत्यक्षमुपलभ्यत इति भावः । किंच आगच्छति प्रवाहे गगनप्रवाहयोः परस्परसंबन्धाविशेषेण देशान्तरप्राप्तिस्तुल्या । अथापि लौल्यदृष्टिः पयसि, न पुनर्गगने चलत्वदृष्टिः । तस्मादुभयसंबन्धाधिकं कर्मा[व]लम्बते लौल्यादृष्टिः; तेन देशान्तरप्राप्तेरधिकं कर्मेति भावः ॥ १०७ ॥ इति कर्मनिरूपणम् ॥

5.468     कर्मत्वान्नाक्षयोग्यं विमतमिति यदि व्याप्तिशून्यं तदेत-

द्योग्यत्वेऽपि ह्यदृष्टिस्सहकृदपगमादर्यमादिक्रियाणाम् ।

नो चेत्कर्मैव न स्यात् फलमपि हिं भवेत्कर्महेतोस्त्वदिष्टात्

द्विष्ठत्वाद्वा फलस्य द्वितयमपि भवेत्कर्मवत्सर्वदा वः ॥ १०८ ॥

कर्मेति ॥ अत्र केचिदाहुस्सर्वेषामपि कर्मणां नित्यानुमेयत्वम् । देशान्तरप्राप्त्या ह्यनुमीयते कर्मेति; प्रयुञ्जते चैतदनुमानं – विप्रतिपन्नं कर्माप्रत्यक्षम् कर्मत्वात् परमाणुकर्मवदिति । तत्रोत्तरं – व्याप्तिशून्यमिति । कर्मणो नित्याप्रत्यक्षत्वे न कुत्राप्यनुमानस्य व्याप्तिस्सिध्येदिति भावः । तर्हि सूर्यगमनादेरपि प्रत्यक्षत्वं स्यादित्यत्राह – योग्यत्वेऽपि हीति । न हि योग्यास्सर्वेऽपि सहकार्यभावेऽपि गृह्यन्ते । व्यवहितविप्रकृष्टादीनामपि ग्रहणप्रसङ्गात् । सूर्यगमनादिकं तु दूरत्वान्न गृह्यत इति लोकप्रसिद्धमेतत् । कर्मणः प्रत्यक्षत्वं विपक्षे बाधकेनोपपादयति – नो चेदिति । यदि कर्म न प्रत्यक्षं तर्हि कर्मस्वरूपमेव न स्यात्; कर्मफलभूताया देशान्तरप्राप्तेरेव कर्मव्यवहारसिद्धेः । देशान्तरप्राप्तिरेव कथमिति चेत्तत्राह – फलमपि हि भवेत्कर्महेतोरिति । त्वदिष्टात् कर्मकारणादेव देशान्तरप्राप्तिरस्तु; किमन्तर्गडुना कर्मणेति भावः । किंच मल्लयोर्मेषयोर्वा परस्परसंयोगस्य उभयकर्मजत्वात् तद्दृष्टान्तेन स्थाणुश्येनसंयोगस्याप्युभयकर्मजन्यत्वं स्यात् । प्रत्यक्षविरोधस्तत्रेति चेत्, हन्त! तर्हि कर्मणः प्रत्यक्षत्वं भवतैवाभिहितमिति व्याघातमजानानस्य किमुत्तरं देयम्? ॥ १०८ ॥ इति सर्वकर्मणां नित्यानुमेयत्वभङ्गः ॥

5.469     केचित्कर्मादिरूपं जगदुरसमवाय्याह्वयं हेतुभेदं

कि तैरेवं निमित्ताश्रयमिह जनकं नानिमित्तं विभक्तम् ।

तत्प्रत्यासत्तिमात्रं व्यभिचरति यदि स्वावकॢप्तेऽपि तुल्यं

युक्त्या नैयत्यमत्रेत्यपि सममथवा स्वस्ति वः स्वैरवाग्भ्यः ॥ १०९ ॥

एवं कर्मप्रत्यक्षत्वमुक्त्वा कर्मादिष्वसमवायित्वेन व्यवहारभेदं प्रतिक्षिपति – केचिदिति ॥ इत्थं किल वैशेषिकाणां साङ्केतिको व्यवहारः – समवायिकारणं किंचित् । असमवायिकारणं चान्यत्; तच्च समवायिकारणप्रत्यासन्नम् । अपरं पुनरीश्वरकालादिकं निमित्तमिति । तत्प्रतिबन्द्या निराकरोति – किं तैरिति । यदि समवायिकारणप्रत्यासन्नमसमवायिकारणमिति कल्प्यते, तर्हि निमित्तकारणप्रत्यासन्नमनिमित्तकारणमिति चतुर्थं कारणं किमिति न कल्प्यते? अथ निमित्तकारणप्रत्यासत्तिमात्रकाररणेष्वपि विद्यमानत्वाद्व्यभिचारदुःस्थमिति चेत्; समवायिकारणप्रत्यासत्तिमात्रमपि व्यभिचारदुःस्थमित्याह – स्वावकॢप्तेऽपि तुल्यमिति । न हि समवायिकारणप्रत्यासन्नानां सर्वेषामपि धर्माणामसमवायिकारणत्वं भवद्भिरुच्यते । युक्त्या नैयत्यमत्रेत्यपि सममिति । न वयमनवधृतसामर्थ्यानामसमवायित्वं वदामः, अपि त्ववधृतसामर्थ्यानामिति युक्त्या विशेषयाम इति चेत्; तर्हि वयमप्यनवधृतसामर्थ्यानामनिमित्तकारणत्वं न वदामः, अपि त्ववधृतसामथ्यानामिति समस्समाधिः । अतोऽसमवायिकारणवदनिमित्तकारणमिति चतुर्थोऽपि कल्पः कल्प्यताम् । तथा च भवतां स्वैरवाग्भ्यः स्वस्तीति साधिक्षेपमाक्षिपति – अथवेति ॥ १०९ ॥ इति असमवायिकारणविभागकॢप्त्यनौचित्यम् ॥

5.470     कर्मोत्क्षेपादिभेदात् कतिचिदकथयन् पञ्चधा तच्च मन्दं

दिग्भेदात्तस्य भेदे दशविधमपि तत्कल्पनं सांप्रतं स्यात् ।

यत्किञ्चिद्भेदकाच्चेदनवधिकभिदा कर्भहेतुर्ध्रुवाच्चे-

दव्याप्तिर्बुद्धितश्चेदियमितरसमा संकरस्त्वत्र सह्यः ॥ ११० ॥

एवमसमवायिकारणत्वेनावस्थितकर्मप्रसङ्गे परेषां कर्मभेदकॢप्तिरप्यसमञ्जसेत्याह – कर्मेति ॥ उत्क्षेपणादिभेदात् पञ्चविधत्वे तत्तद्दिग्भेदाद् दशविधत्वमपि किं न स्यात्? यत्किञ्चिद्भेदकात्पञ्चविधत्वं वदाम इति चेत्, यत्किंचिच्छब्दस्यानेकार्थत्वादनवधिकभेदः प्रसज्येत । कर्मण्डेध्रौव्यात् भेद इति चेत्, तत्राप्यव्याप्तिरेव दूषणम् । न ह्येकत्र हेतुस्सर्वत्रान्वेति । केवलमुत्क्षेपणादिबुद्धिमात्रेण भेदश्चेत्, तर्हि इतरेष्वपि भ्रमणरेचनादिषु बुद्धिभेदोऽस्तीति तत्रापि नानात्वं प्रसज्येत । किंच बुद्धिभेदोऽपि न नियतः । गमनागमननिष्क्रमणप्रवेशनादिषु सङ्करस्यापि दृष्टत्वात् । अतस्तत्तदुपाधिभेदादानन्त्यमेव कर्मणो न तु पञ्चत्व[नियमः]मिति ॥ ११० ॥ इति कर्मावान्तरभेदनिरूपणम् ॥

5.471     मृत्स्वर्णादिप्रसूते भवति हि घटधीर्नान्यदन्यद् घटत्वं

नैकं बाध्यं समत्वात्तदिह परिहृतिः कुत्रचित्क्वापि योगः ।

पारापर्यं विरोधः परिहरणसमावेशनं चास्त्युपाधौ

तुल्यं चातिप्रसङ्गादिकमिति न यथादृष्टभङ्गः क्वचित्स्यात् ॥ १११ ॥

पूर्वस्मिन् ग्रन्थे सङ्करस्त्वत्र सह्य इति [जाति] सङ्करप्रसङ्गे न विरोध इत्युक्तम् । तदेव समर्थयते – मृत्स्वर्णादीति ॥ समाविष्टानां जातीनां परापरभावः, परस्परपरिहारेण वर्तमानानां विरुद्धानां जातीनां न समावेश इति केषांचित् सङ्केतो न्यायवादिनाम् । तेन सुवर्णादिघटादौ घटत्वमेव नास्तीति तेषामाशयः । तन्नोपपद्यते; अनुवृत्तधीरेव हि सर्वत्र जातिसद्भावे प्रमाणम् । तथा च यथा मृद्घटे घटधीरस्ति, एवं सुवर्णघटेऽपि घटधीरस्ति; तथा च मृत्त्वघटत्वयोः परापरभावानुपपत्तिः; सुवर्णस्य तैजसत्वेन भवद्भिः स्वीकारात् । ननु मृद्धटेऽन्यत् घटत्वं सुवर्णघटेऽन्यत् घटत्वमिति; तद्भवदङ्गीकृतानुवृत्तप्रतीतिविरुद्धमित्याह – नान्यदन्यद्धटत्वमिति । अस्तु तर्ह्येकं घटत्वं बाध्यताम्; तच्च न सङ्घटत इत्याह – नैकमिति । तत्र हेतुमाह – समत्वादिति । यदि पार्थिवघटत्वं बाध्यं भवतामपसिद्धान्तः । यदि सुवर्णघटत्वं तच्च न, समत्वात् – यथा पार्थिवघटे घटत्वबुद्धिव्यवहारौ, एवं सुवर्णघटेऽपि घटत्वबुद्धिव्यवहारयोस्समत्वादित्यर्थः । पार्थिवघटस्य प्रचुरत्वान्मुख्यं घटमिति चेत्, भारतवर्षव्यतिरिक्ते वर्षान्तरे सुवर्णघटस्यैव प्रचुरत्वात्तत्रैव मुख्यत्वं स्यादिति समस्समाधिः । तथा च पार्थिवत्वघटत्वयोः कुत्रचित् सुवर्णघटादौ परस्परपरिहृतिः कुत्रचित् मृद्धटादौ योग इति यथोपलम्भं स्वीकारान्न काचिदनुपपत्तिः । तर्हि गोत्वाश्वत्वयोरपि समावेशप्रसङ्ग इति चेन्न; उपलम्भस्यैव नियामकत्वात् । इयं खलु मर्यादा – केषांचित् पारापर्यं सत्त्वघटत्वादीनाम्, केषांचिद्विरोधः गोत्वाश्वत्वादीनाम्, केषांचित् परिहरणं समावेशनं च पृथिवीत्वघटत्वादीनाम् । यद्येवमप्यतिप्रसङ्गादिव्यवहारस्तदुपाधावपि तुल्यमिति प्रतिबन्द्या निराचष्टे – उपाधाविति । दृष्टत्वादुपाधौ न दोष इति चेत्, तज्जातावपि तुल्यमित्याह – न यथादृष्टभङ्गः क्वचित्स्यादिति । यथोपाधौ दृष्टत्वात् संकरः स्वीक्रियते, तथा जातावपि संकरः स्वीकार्य इत्यर्थः ॥ १११ ॥ इति परापरजातिसमावेशसंभवः ॥

5.472     जातिः प्राणप्रदात्री गुण इह तदनुप्राणिते भेद[कः]कं स्या-

दित्याहुः केऽपि नेत्थं नियतिरुभयथाऽप्यर्थदृष्टेर्निशादौ ।

तेनान्वेष्टव्यभेदप्रतिनियतिमता केनचिन्नित्यरूप्यं

प्राप्ता यादृच्छिकीषु प्रमितिषु [तु] च यथादर्शनं तद्व्यवस्था ॥ ११२ ॥

अत्र केचिज्जातिगुणयोरेवं वैषम्यमाहुः – या वस्तुनः प्राणप्रदात्री – प्रथमं प्रतीयते सा जातिः । गुणस्तु तदनुप्राणिते वस्तुनि भेद[कः]कं – विशेषको धर्म इति पश्चात् प्रतीयत इति । तदेतदनुपपन्नमित्याह – नेत्थं नियत्तिरिति । तत्र हेतुमाह – निशादावुभयथाऽप्यर्थदृष्टेरिति । कदाचित् प्रथममेव जातिः प्रतीयते पश्चात्तद्गुणाः । कदाचित् पुनरन्धकारादौ सामान्यत एव शौक्ल्यादिगुणविशिष्ट वस्तु प्रतीयते, पश्चात्तद्विशेषो जातिरिति । तेनान्वेष्टव्यस्य पदार्थस्य पृथिव्यादेः प्रतिनियतिमता केनचिदसाधारणेन धर्मेण गन्धवत्त्वादिना निरूप्यं यत्पृथिवीत्वादिकं तत्सामान्यम् । ततश्च यादृच्छिकीषु प्रमितिषु विशेषविषयासु सामान्यविषयासु च यथादर्शनं पौर्वापर्यव्यवस्था भवति; तेन गवादिशब्दवाच्येषु प्रवृत्तिनिमित्तत्वेनोपादीयमानं गोत्वादिकं सामान्यमिति भावः ॥ ११२ ॥ इति स्वरूपनिरूपकादिविमर्शः ॥

5.473     भिन्नेष्वेकावमर्शो न तु निरुपधिकस्तेषु चैक्यं विरुद्धं

ज्ञानाकारोऽपि बाह्यो न हि भवति न चासिद्धमारोपणीयम् ।

तस्माद् गोत्वादिबुद्धिव्यवहृतिविषयः कोऽपि सत्योऽनुवृत्त-

स्तस्य त्यागेऽनुमादेः क्षतिरिति कणभुक्तन्यभक्ता गृणन्ति ॥ ११३ ॥

वैशेषिकोक्तजातिपरिकॢप्तिप्रक्रियां, तन्मतपरिज्ञानाय शिष्याणामनुवदति – भिन्नेष्विति ॥ इत्थं किल जातिं साधयन्ति – भिन्नेषु घटादिषु एकावमर्शो न निष्कारणः । तेन सामान्यमङ्गीकार्यम् । न च तेषु स्वरूपैक्यमस्ति विरुद्धत्वादित्याह – तेषु चैक्यं विरुद्धमिति । ज्ञानाकार एव सामन्यमिति चेत्, बाह्यत्वेन प्रतिभासनात् तन्न युज्यत इत्याह – ज्ञानाकारोऽपि बाह्यो न हि भवतीति । बाह्यं समारोपितं सामान्यमिति चेत्, तदपि न युज्यत इत्याह – न चासिद्धमारोपणीयमिति । अन्यत्र सिद्धं ह्यन्यत्रारोप्यम् । सामान्यस्य क्वचिदप्यसिद्धत्वात् आरोपणमपि न युज्यत इति भावः । तस्मात् गोत्वादिबुद्धिव्यवहृतिविषयः कोऽपि सत्योऽर्थो गवादिष्वनुवृत्तः । तस्य त्यागेऽनुमानादेः क्षतिः – व्याप्तिग्रहणाभावादनुमानं न स्यात् । आदिशब्देन सङ्केतग्रहणाभावादागमोऽपि न स्यादिति भावः । कणभुक्तन्वभक्ता गृणन्तीति पर[मत]पक्षप्रस्थानोपन्यासतां द्योतयति ॥ ११३ ॥ इति परोक्तजात्यनुवादः ॥

5.474     मध्ये यद्यस्ति जातिर्मतिविहतमथो नास्ति भिन्ना भवेत् सा

तस्मादन्यत्र वृत्तिर्न च सकलमतिः क्वापि कृत्स्नांशवृत्त्योः ।

धर्मिध्वंसे तु धर्मस्थितिरपि न भवेन्नात्र गत्यादि च स्या-

दित्याद्यैर्बाह्यजल्पैरनितरगतिका संविदक्षोभणीया ॥ ११४ ॥

अत्र सौगता जातिं खण्डयन्तीत्यनूद्य तत्पक्षं प्रतिक्षिपति – मध्य इति ॥ इत्थं किल तेषां जातिखण्डनपरिपाटीव्यक्तिद्वयमध्ये जातिर्यद्यस्ति मतिविहतम् – उपलम्भविरुद्धमित्यर्थः । अय मध्ये नास्ति, भिन्ना सा जातिर्भवेत् । किंच कार्त्स्न्येन वा जातिर्वर्तते? एकदेशेन वा? आद्येऽन्यत्र व्यक्त्यन्तरे वृत्तिरेव न स्यात् । अंशेनोभयत्र वर्तते चेत्तत्र – तत्रोभयत्रापि सकलमतिर्न स्यात् – कार्त्स्न्येन जातिप्रत्ययो न स्यादित्यर्थः । किंच धर्मिरूपव्यक्तिध्वंसे धर्मरूपजातिस्थितिर्न संघटते । ननु पूर्वगोव्यक्तिस्थाया जातेरुत्तरगोव्यक्तौ अद्रव्यत्वेन गमनेन संगतिर्न स्यात् । न च तत्रोत्पत्तिसंभवति; नित्यत्वेन जातेरङ्गीकारादित्याद्यैर्बाह्यजल्पैरनितरगतिका स्वारसिकबाधविधुरा जातिसंविदक्षोभणीयेत्यर्थः । ‘न याति न च तत्रासीदित्याद्युक्तिः प्रत्यक्षविरुद्धत्वाददूषणमिति भावः ॥ ११४ ॥ इति सौगतोक्तजातिखण्डनपरिहारः ॥

5.475     अन्यापोहस्तु गोत्वप्रभृतिरिति तु नेदंतया तत्प्रतीते-

रन्योन्यापोहबुद्ध्या नियतिरिति मिथस्संश्रयस्तत्प्रतीतौ ।

विध्याक्षेपक्षमत्वाद्विषभसमतया बुद्धिनैयत्यसिद्धे-

श्शब्दार्थत्वादपोहो विमतिपदमिति व्याप्तिभङ्गादिदुःस्थम् ॥ ११५ ॥

इत्थं न्यायविदां जातिसमर्थनप्रकारमुक्त्वा सौगतोक्तमपोहरूपसामान्यं दूषयति – अन्यापोह इति ॥ अगोत्वव्यावृत्तिर्गोत्वमनश्वत्वव्यावृत्तिरश्वत्वमिति नेदं युज्यते; इदंतया विधिरूपेणैव सामान्यप्रतीतेः । अन्योन्यापोहबुद्धिप्रतीतौ त्वन्योन्याश्रयप्रसङ्ग इत्याह -अन्योन्येति । गोत्वप्रतीतिसापेक्षमगोत्वमगोत्वप्रतीतिसापेक्षं गोत्वमित्यर्थः । कथं तर्हि गौरेव गौरिति बुद्धिनैयत्यम्? इत्थम् – गोत्वविरुद्धमश्वत्वं विधिरूपमेव गोत्वमाक्षिपति । एवं गौव्यतिरिक्तभावत्वमगोत्वमाक्षिपति । तत्र पूर्वं न्यूनत्वाद्विषमतया, उत्तरं सर्वभाववर्तित्वात्समतया; तेन गोत्वविरुद्धधर्मयोगादेव गौरेव गौरिति बुद्धिनियमसिद्धिरित्यर्थः । तेन भावरूपविरुद्धधर्मसिद्धौ व्यवहारनियमार्थमपोहो न कल्प्य इत्यर्थः । ननु सर्वश्शब्दार्थोऽपोहात्मकः शब्दार्थत्वात् अघटशब्दार्थवदित्यनुमानं व्याप्तिशून्यत्वादिदुःस्थमित्याह – शब्दार्थत्वादिति । नहि स्वलक्षणशब्दोऽपोहपर इति प्रतिबन्द्यभिप्रायेण परिहारः ॥ ११५ ॥ इति अपोहसामान्यवादभङ्गः ॥

5.476     युज्येतोपाधितश्चेदनुगतधिषणा तत्र नेष्टाऽन्यकॢप्ति-

स्तस्मात् संघातवर्गेष्ववयवरचनाभेदतोऽन्यन्न सिध्येत् ।

सौसादृश्यात्तु जातिव्यवहृतिनियमस्तेन नातिप्रसक्ति-

र्नो चेन्मूर्तत्वमुख्यैस्त्वदभिमतिनयाद्व्यज्यतां जातिरन्या ॥ ११६ ॥

एवमपोहसामान्यं निरस्यासाधारणधर्मातिरिक्तं वैशेषिकाद्युक्तं सामान्यं निराकरोति – युज्येतेति ॥ अनुवृत्तप्रत्ययनिर्वाहार्थं खलु सामान्यम्; साऽनुगतधिषणोपाधितश्चेत्तत्रान्यस्य सामान्यस्य कॢप्तिर्नेष्टा । तस्मात् संघातवर्गेषु अवयवरचनाभेदतोऽन्यत् – सामान्यं न सिध्येत् । संघातः – अवयविद्रव्यम् । सादृश्याज्जातिव्यवहारे न पुनरतिप्रसक्तिः, सौसादृश्यस्य विवक्षितत्वादित्याह – सौसादृश्यादिति । सौसादृश्यम् – अत्यन्तसादृश्यम् । एवमनङ्गीकारे सर्वत्रापि जातिसिद्धिरित्यतिप्रसङ्गलक्षणं दूषणमाह – नो चेदिति । सौसादृश्यातिरिक्तजातिस्वीकारे गवादिशब्दवन्मूर्तादिशब्देष्वपि मूर्तत्वाद्यभिव्यङ्ग्यजातिस्वीकारः स्यादिति भावः ॥ ११६ ॥ इति संस्थानविशेषातिरिक्तगोत्वादिजातिभङ्गः ॥

5.477     जातेर्यद्व्यञ्जकं ते तदीय यदि मतं जातितस्संगृहीतं

साऽपि व्यङ्गथान्यतस्स्यात्तदुपरि च भवेज्जातिसंस्थानमाला ।

स्वेनैव व्यञ्जकस्याप्यनुगतिरिति चेत्तर्हि जातिः किमर्था

व्यावृत्तानां स्वभावाद्यदि तदनुगतव्यञ्जकत्वं जितस्त्वम् ॥ ११७ ॥

अस्तु वा परिकल्पिता जातिः, तस्या व्यञ्जकत्वेन परि[कल्पितं] गृहीतं नोपपद्यत इत्याह – जातेरिति ॥ जातेर्व्यञ्जकं यत्तदपि यदि जातितस्संगृहीतं – जात्यन्तरेण परिगृहीतम्, यदि वा न परिगृहीतम्? अपरिगृहीतत्वे तस्यानुवृत्त्यभावात्परिगृहीतत्वमेव वाच्यम् । तथा च साऽपि जातिर्व्यञ्जकान्तरेण व्यङ्ग्या स्यात्; तच्च व्यञ्जकं जातिपरिगृहीतं भवेत्; साऽपि व्यञ्जकान्तरमपेक्षत इति जातिसंस्थानमाला स्यात् – जातितद्व्यञ्जकानवस्था स्यादित्यर्थः । अनवस्थापरिहारार्थं स्वेनैव व्यञ्जकस्य धर्मस्यानुगतिरिति चेत् तर्हि जातिः किमर्था? तेनैव स्वतोऽनुगतेन धर्मेण जातिकार्यनिर्वाहत् । तर्हि व्यावृत्ता एव धर्मा अनुगतां जातिं व्यञ्जयन्तीति चेत्, एवं तर्हि त एव व्यावृत्ता धर्मा अनुगतबुद्धिव्यवहारयोर्निर्वाहका भवन्तु, वस्तुस्वाभाव्यात्; तथा च निरर्थिकां जातिं कल्पयंस्त्वं विजितो भवसि । अयमत्र निर्णयः – यत्र जातिस्तत्र साक्षात्सामान्यमनुवृत्तव्यवहारहेतुः । यत्र पुनरुपाधिस्तत्र गुणक्रियादिनिष्ठं व्यवहितं सामान्यमनुवृत्तप्रतीतिहेतुरिति हि न्यायविद्रहस्यम् । तथा च सति यत्सामान्यव्यवहितं तदुपाधिरूपगुणक्रियानिष्ठं स्वयमप्रतिपन्नं जातिप्रतिपत्तिहेतुर्न भवति । प्रतिपन्नं चेत् तत्प्रतिपत्तौ उपाध्यन्तरप्रतिपत्तिरवश्यंभाविनी । स चोपाधिर्जातिपरिगृहीतः । सा च जातिरुपाध्यन्तरप्रतिपत्तिमूलस्वप्रतिपत्तिरिति व्यवस्थितैवानवस्थितिः ॥ ११७ ॥ इति परोक्तजातिव्यञ्जकानुपपत्तिः ॥

5.478     व्यावृत्तैर्व्यक्तिवन्न व्यवहृतिनियमस्साध्यता नानुवृत्तौ

तद्धर्मस्यानुवृत्तौ मदभिमतमिह स्वीक्रियेतेति चेन्न ।

केचित्संस्थानभेदाः क्वचन खलु मिथो भान्ति सादृश्यरूपा-

स्तस्मादन्योन्यजैकस्मृतिविषयतया तत्तदेकावमर्शः ॥ ११८ ॥

व्यावृत्तैरिति ॥ अत्र कश्चिच्चोदयति – किं व्यावृत्तैरनुवृत्तैर्वा गवाद्यनुवृत्तव्यवहारनियमः? न तावद्व्यावृतैः, व्यक्तिवत्; न हि व्यक्तयोऽनुवृत्तव्यवहारं कुर्वन्ति । एवं व्यावृत्ता धर्मा नानुवृत्तव्यवहारनियमं कर्तुमर्हन्ति । अनुवृत्तैर्धर्मैर्व्यवहारनियमश्चेत्, तदानीं साध्यत्वमेव नास्ति; अनुत्तनियामकधर्मस्वीकारात् । तदिदमाह – साध्यता नानुवृत्ताविति । ननु व्यावृत्ता एव धर्माः स्वयमनुवृत्तधर्मान्तरेण परिगृहीता गवादिव्यवहारमनुवृत्तं निर्वहन्तु । तन्न; प्रथममेव मदभिमतोऽनुवृत्तधर्मः स्वीक्रियेत, मध्ये किमेभिर्व्यावृतैः परिकल्पितैरिति चेत्तन्न; केचिद्धि संस्थानभेदाः क्वचन खलु मिथस्सादृश्यरूपा भान्ति । यैर्भवदीयं सामान्यमन्तिव्यज्यते त एव सौसादृश्यव्यवहारविषयभूतास्सामान्यव्यवहारं निर्वहन्तु । तस्मात्तेषां सर्वेषामन्योन्यसापेक्षैकस्मृतिविषयतया तत्तदेकावमर्शः – तत्तञ्जातीयत्वावमर्श इत्यर्थः । अन्यथा भवतामपि जात्यभिव्यञ्जकोपाधिरूपसौसादृश्यनिरूपणाशक्तेर्जातिरप्युत्सीदेदिति हृदयम् ॥ ११८ ॥ इति संस्थानजात्यनुपपत्तिपरिहारः ॥

5.479     सादृश्यस्यानुवृत्तौ भवति परमता जातिरेवान्यथा चे-

त्तन्मूला नानुवृत्तव्यवहतिरुचितेत्येतदप्यात्तसारम् ।

एकैकस्थं तु तैस्तैर्निरुपधिनियतैस्सप्रतिद्वन्द्विकं स्यात्

धर्माभावप्रतीतिप्रभृतिनियमवद्दुस्त्यजेयं व्यवस्था ॥ ११९ ॥

ननु कथं व्यावृत्तानां संस्थानानां नियतसादृश्यरूपत्वमित्यादिचोद्यमनूद्य परिहरति – सादृश्यस्येति ॥ इयमत्र चोद्यप्रक्रिया – किं सादृश्यमनुवृत्तं भवति तदा पराभिप्रेता सैव जातिः स्यात् । अन्यथा – अननुवृत्तं चेत्, तन्मूला – अननुवृत्तसादृश्यमूला अनुवृत्तव्यवहृतिर्नोचिता स्यात् । एतन्निराकरोति – एतदिति । तत्कथमित्यत्राह – एकैकस्थमिति । यद्यप्येकैकस्थं सास्नादिधर्मस्वरूपम्, तथाऽपि तत् । निरुपधिनियतैः – स्वभावतो नियतैः तैस्तैः – सास्नादिभिरन्यनिष्ठैस्सप्रतिद्वन्द्विकं स्यात् । इदमेवान्योन्य [स] प्रतिद्वन्द्विकं रूपं सादृश्यशब्दवाच्यमभिधीयते । ननु कथं नियामकाभावे तेनैव धर्मेण स धर्मस्सप्रतिद्वन्द्विक इति नियमः स्यात्? स्वभावादेवेति ब्रूमः । स्वभावो हि नाम प्रामाणिकं स्वरूपमेव । यद्यथा प्रतीयते तत्तथैव स्वीक्रियत इति हि न्यायसंप्रदायः । तथा च सास्नादीनामेवान्योन्यसप्रतिद्वन्द्विकत्वम्; न पुनः केसरादीनाम् । केसरादीनां चाश्वादिषु अन्योन्यप्रतिद्वन्द्विकत्वमुपलब्धिनियमादेव स्वीकार्यम् । इत्थमुपलब्धिनियमानङ्गीकारेऽतिप्रसङ्गः । भवद्भिरप्ययं नियमोऽङ्गीकार्य इत्याह – धर्माभावप्रतीतिप्रभृतिनियमवद्दुस्त्यजेयं व्यवस्थेति । अग्नेरेवौष्ण्यं जलस्यैव शैत्यमित्यादिकमुपलम्भनियममन्तरेण नोपाध्यन्तरमपेक्षते । एवं घटाभावोऽपि घटप्रतियोगिक एव पटाभावस्तु पटप्रतियोगिक इत्युपलम्भादेव निषेध्यनिषेधकनियमः स्वीक्रियते । किंच घटव्यक्तीनामेव घटत्वजात्यभिव्यञ्जकत्वं न पुनर्घटपटव्यक्तीनाम्; नापि पटव्यक्तीनामिति नियतमेव दृष्टम् । एवमेकैकस्य सास्नादिधर्माः परस्परसप्रतिद्वन्द्विभावनियमेन सौसादृश्यशब्दार्थतां भजन्त इति निरवद्यम् ॥ ११९ ॥ इति व्यावृत्तानां संस्थानानां सादृश्यरूपत्वम् ॥

5.480     सादृश्यं शक्तिसंख्याप्रभृति च कतिचिद्भिन्नमूचुर्गुणादेः

स्यादत्रातिप्रसक्तिः प्रतिगुणमगुणीकारलिङ्गोपलब्धेः ।

साधर्म्यात् संग्रहश्चेत् समभिदमुभयोर्येनकेनापि यद्वा

किं दन्तादन्ति कृत्वा फलमिह बलिभुग्दन्तचिन्तान्तरेऽस्मिन् ॥ १२० ॥

अत्र केचित् शक्तिसंख्यासादृश्यादिकं गुणादेर्विभक्तमाहुः । तन्मतमनूद्य दूषयति – सादृश्यमिति ॥ तत्र हेतुमाह – स्यादत्रातिप्रसक्तिरिति । अतिप्रसक्तिं विवृणोति – प्रतिगुणमिति । यत्किंचिद्वैषम्यात् सादृश्यादीनां गुणादेर्विभागाङ्गीकारे सर्वेषामपि गुणानां प्रतिगुणमाकारभेदोपलब्धेर्गुणव्यतिरेककल्पनाप्रसङ्ग इत्यर्थः । उक्तप्रतिबन्द्याः परिहारमाशङ्कते – साधर्म्यादिति । गुणत्वनियामकसाधर्म्याद्गुणत्वेन संग्रहश्चेत्तदन्यत्रापि सममित्याह – सममिदमुभयोरिति । येनकेनापीत्यनादरः, भवत्कल्पितेनैव धर्मेणान्यत्रापि गुणत्वं वक्तुं शक्यत इत्यर्थः । अथवा सादृश्यादीनां पृथक्त्वापृथक्त्वचिन्तनं जीवपरमात्मयाथात्म्यज्ञानपरे त्रय्यन्तसिद्धान्ते काकदन्तपरीक्षावदनपेक्षणीयमित्याह – यद्वेति ॥ १२० ॥ इति सादृश्यादिपदार्थान्तरकॢप्तिभङ्गः ॥

5.481     गन्धादौ सन्निवेशो न हि भवति न च द्रव्यभेदे निरंशे

तस्माञ्जात्याऽनुवृत्तव्यवहृतिरिति चेदुक्ततुल्योत्तरं तत् ।

तत्तद्वस्तुस्वभावाद् घटत इह मिथस्सप्रतिद्वन्द्विकत्वं

तञ्जात्याधारतादेरपि तव नियतिस्तत्र न ह्यन्यतः स्यात् ॥ १२१ ॥

अत्र कश्चिच्चोदयति – गन्धेति ॥ सौसादृश्यं जातिरिति भवद्भिरुक्तम्; स पुनस्संस्थानभेद इति चाभ्यधायि । तन्नोपपद्यते, गन्धादौ संस्थानभेदाभावात् । न चात्मादौ निरंशे संस्थानभेदोऽस्ति । अवयवरचनाविशेषो हि संस्थानम् । तस्माज्जात्यैवानुवृत्तव्यवहारस्सर्वत्र संघटत इति चोद्यमनूद्योत्तरं वदति – उक्ततुल्योत्तरं तदिति । कथमुक्ततुल्योत्तरत्वमित्यत्राह – तत्तदिति । तत्तद्वस्तुस्वभावनियम एव सर्वत्र नियामकः । तेन स्वभावतः सप्रतिद्वन्द्विकत्वेन प्रमाणसिद्धं तत्तद्वस्त्वेव तत्तदनुवृत्तव्यवहारहेतुभावमनुभवति । एवं वस्तुस्वभावनियमानङ्गीकारे तत्तज्जात्याधारभावो भवन्मते तेषामेव गुणानां कथं स्यादिति चोद्ये स्वभावनियम एव भवताऽपि वाच्यः; अन्यतश्चेदनवस्थादिदोषदुष्टत्वात् । तेन ससंस्थानेषु वस्तुषु संस्थानभेद एव व्यवहारनियामकः, गुणादिषु तत्तदसाधारणलक्षणमेव तत्तद्व्यवहारनियामकम्; तच्च भवताऽपि स्वीक्रियते । अन्यथा तत्तल्लक्षणाभावे तत्तज्जातिनियमो न स्यात् । तथा च तत्तल्लक्षणं भवता यथा कल्प्यते तथैवास्माभिरप्यङ्गीक्रियत इति न कश्चिद्दोषः ॥ १२१ ॥ इति निरवयवेष्वनुवृत्तव्यवहारनिर्वाहः ॥

5.482     सत्तासामान्यमेके त्रिषु परिजगृहुः केऽपि जातावपीदं

प्रख्यादीनां समत्वात्कथय न किमिदं सर्वनिष्ठं गृहीतम् ।

किञ्च प्रामणिकत्वप्रभृतिसमधिकं सत्त्वमन्यन्न दृष्टं

तद्ब्रह्मेत्याश्रितं यैर्ध्रुवमपलपितं तत्तु तैर्धर्मतोक्तेः ॥ १२२ ॥

एवं सामान्येन सामान्यं विचार्य सत्तासामान्यं विशेषतो निरूपयति – सत्तेति ॥ द्रव्यगुणकर्मसु सत्तेति प्रसिद्धमिदम् । अपरे पुनरेवं मन्यन्ते जातावपीति । तत्र हेतुमाह – प्रख्यादीनामिति । प्रतीतिव्यवहारौ हि सर्वत्र जातिकल्पने प्रमाणम् । जातावपि सत्प्रतीतिस्समाना चेत् किमिति तत्रापि सत्ता न कल्प्यत इति भावः । तदिदमाह – न किमिदं सर्वनिष्ठं गृहीतमिति । सत्त्वं सर्वनिष्ठं किं न गृह्यत इत्यर्थः । गोत्वं सदश्वत्वं सदिति हि ग्रहणप्रवृत्तिः । किंच परमर्यादया सत्त्वमन्यदङ्गीकृत्योक्तम् । तत्त्वतो निरूपणे प्रामाणिकत्वाद्यतिरेकेण सत्त्वमन्यन्नास्ति । तच्च प्रामाणिकत्वादिकं प्रामाणिकमेव; स्वपरनिर्वाहकसमाधेरात्माश्रयादिदोषाप्रसङ्गात् । तस्मात्सत्त्वेऽपि न कश्चिद्दोषः; सत्त्वमस्तीत्यौपाधिकधर्माणां यावदुपाधिवृत्तेस्सर्वन्यायवित्संमतत्वात् । अत्राद्वैतवादिनस्सत्त्वं ब्रह्मैवेति संगिरन्ते; तदपरामर्शवचनमेव । सत्त्वं हि धर्म एव, न पुनर्धर्मि । तथा च ब्रह्मणोऽपि धर्मत्वाङ्गीकारे धर्म्यन्तरं कल्प्यम् । एवं च सति वस्त्वन्तरारोपितत्वेन ब्रह्मणोऽपि मिथ्यात्वं प्रसज्यत इति भावः । ध्रुवमपलपितं तत्तु तैरिति । तैः – मृषावादिभिर्ब्रह्मैवापलपितं सत्त्वस्य ब्रह्मत्वोक्तेः ॥ १२२ ॥ इति सत्ताजातिनिरूपणम् ॥

5.483     यञ्जातीयं सदा यद्यदवधिगुणकं यत्र न ह्यन्यदीदृक्

दृष्टैरित्यं विशेषैर्जगति विषमतां वक्ति वैशेषिकोऽपि ।

नित्येष्वत्यन्ततुल्येष्वपि नियतदशाभेदयोगोऽस्ति शास्त्रात्

प्राच्योपाध्यादयो वा विदुरतिभिदुरान् योगिवर्यादयस्तान् ॥ १२३ ॥

एवं सामान्यं निरूप्य वैशेषिकोक्तं विशेषमनर्थकत्वेन दूषयति – यञ्जातीयमिति ॥ लोके हि देशकालादि – विशेषाद्वस्तूनां विशेषो दृश्यते । यज्जातीयमिति जातिः; यदेति कालः; यदिति स्वाभाविको वस्तुविशेषः; यदवधिगुणकमिति गुणविशेषः; यत्रेति देशविशेषः । यद्वस्त्वेतादृशगुणविशिष्टं तद्व्यतिरिक्तवस्तु न हीदृक् । अन्यद्वस्त्वन्यदेशकालादिविशिष्टम्; अन्यच्चान्यदेशकालादिविशिष्टमिति परस्परविभागः । इत्थं दृष्टैरेव विशेषैर्जगति वैशेषिकोऽपि विषमतां वक्ति । तथा च नित्येष्व[प्य]त्यन्ततुल्येष्वपि नियतावस्थायोगश्शस्त्रप्रमाणकानामध्यात्मविदामस्ति; ईश्वरपरतन्त्रस्य जगत्सृष्ट्यादिकृत्यस्य नित्यानुवृत्तत्वात्; मुक्तानामपि ‘जक्षत्क्रीडन् रममाण इत्यादिव्यापारपारम्पर्यस्यानुवृत्तेः । किञ्चामुक्तदशाभाविभिः प्राच्यैरेव धर्मविशेषैरुपलक्षणतयाऽवस्थितैर्मुक्तानामपि भेदो ज्ञातुं शक्यते । तदिदमाह – प्राच्योपाध्यादयो वेति । अस्तूपाधिभेदः; कैरयं भेदो ज्ञायत इत्याशङ्क्याह – विदुरतिभिदुरान् योगिवर्यादयस्तानिति । तान् – उपाधीन् परस्परभिदुरान् योगिप्रभृतयो विदुः – जानन्तीति न दृष्टत्वानुपपत्तिः ॥ १२३ ॥

5.484     मुक्तास्त्वत्पक्षकॢप्ता न हि निगम[दृशां]विदां तादृशाण्वादयो वा

येषामन्योन्यभेदी गजतुरगनयात्कल्प्यतेऽन्यो विशेषः ।

जात्यैक्याद्वः पृथक्त्वैरिह न यदि फलं स्याद्विशेषैः कथं तत्

तेषामप्यस्त्युपाधिस्सम इति न भिदाऽस्त्यत्र संरम्भमात्रात् ॥ १२४ ॥

मुक्ता इति ॥ किंच समानजातीयत्वादिविशेषणविशिष्टाः परमाणवो मुक्तात्मानश्च परस्परव्यावर्तकधर्मवन्तः द्रव्यत्वाद्धटादिवदिति हि विशेषं साधयन्ति वैशेषिकादयः । तत्तद्वस्तुनिष्ठैरेव पृथक्त्वैस्सिद्धसाधनम् । ननु पृथक्त्वानि पृथक्त्वजात्या क्रोडीकृतत्वेन परस्परमैक्यमापन्नानि इतरेतरव्यावर्तनं वस्तूनां न कुर्वन्तीति चेत्, तदिदमनुवदति – जात्यैक्यादिति । तदेतत्प्रतिबन्द्या दूषयति – स्याद्विशेषैः कथं तदिति । पृथक्त्वैर्व्यावर्तनाभावे वस्तूनां विशेषैरपि व्यावर्तनं न स्यात्, तेषामप्येकोपाधिक्रोडीकृतत्वेन व्यावर्तनशक्तेर्भग्नत्वात् । तदिदमाह – तेषामिति । विशेषस्य विशेषलक्षणरूपैकोपाधिक्रोडीकृतत्वेऽपि विशेषकत्वं यदि न भज्येत, पृथक्त्वस्यापि पृथक्त्वजातिक्रोडीकृतत्वेऽपि विशेषत्वं न भ्रश्येदिति प्रतिबन्दीपर्यवसानम् ॥ १२४ ॥

5.485     नास्मद्दृश्या विशेषाः प्रणिहितमनसां तद्धियां क्वोपयोग-

स्तत्तद्वस्तुप्रकाशस्सुलभ इह पुनर्भिन्नधीरस्तु मा वा ।

वि[श्वं]श्व स्रष्टुर्विशिष्टप्रमितिमिह न ते कुर्वते नित्यसिद्धां

तस्मात्तत्सिद्ध्यसिध्योर्न फलमनुमया नागमोऽप्यत्र तादृक् ॥ १२५ ॥

किंच कल्प्यमानस्य विशेषस्य न कुत्राप्युपयोग इत्याह – नास्मदिति ॥ न तावदस्माकं विशेषा उपकुर्वते; तेषामस्मद्दृश्यत्वाभावात् । प्रणिहितमनसामुपकुर्वत इति चेत्, तेषामपि क्वोपयोगः – न क्वाप्युपयोग इत्यर्थः । तदेव विवृणोति – तत्तदिति । योगिनां सर्वज्ञत्वेन सर्ववस्तुप्रकाशोऽस्त्येव । तथा च सति तेषु पदार्थेषु भिन्नधीरस्तु मा वा । अयं भावः -तेषां पदार्थानामन्योन्याभावविशिष्टत्वेन भवत्कल्पितेनैव भिन्नधीसद्भावे किं विशेषकल्पनेन? अथवा भवत्कल्पितैरेव पृथक्त्वैर्भेदधीरस्तु । अतो विशेषकल्पनं प्रणिहितमनसां कुत्रोपयुज्यते? मा वेत्यनादरव्यवहारो विशेषतिरस्कारायैव; न पुनः पृथक्त्वनिमित्तभेदधीतिरस्काराय । तर्हि विश्वस्रष्टुरीश्वरस्य विशेषैस्तत्तद्वस्तुषु विशिष्टधीरित्याशङ्क्य तदपि न युज्यत इत्याह – वि[श्व]श्वं स्रष्टुरिति । ईश्वरस्य तत्तद्विशिष्टबुद्धेर्नित्यत्वेन न तामपि बुद्धिं विशेषाः कुर्वत इत्यर्थः । तस्मादनुमानेन विशेषसिद्ध्यसिद्ध्योर्न किंचित्फलम् । मा भूदनुमानम्, आगमोऽस्त्विति चेत्, तन्नेत्याह – नेति । न हि विशेषसिद्धौ कश्चिदागमो दृश्यते; यदि दृश्यते स पुनर्जातिगुणादिभेदमेव दर्शयतीति न भवदभिमतविशेषसिद्धौ मानमित्याह – तादृगिति ॥ १२५ ॥ इति वैशेषिककॢप्तविशेषभङ्गः ॥

5.486     बन्धं नाध्यक्षयामस्समधिकमपृथक्सिद्धयोस्तत्स्वरूपात्

कल्प्ये तस्यातिरेके तदुपरि च तथेत्यप्रकम्प्याऽनवस्था ।

ताभ्यामेष स्वभावाद्धटित इति कृता भक्तिरस्त्वेतयोस्ते

नो चेत् ज्ञानादिकानां विषयविषयिताद्यापतेदन्यदेवम् ॥ १२६ ॥

एवं विशेषं दूषयित्वा समवायमपि दूषयति – बन्धमिति ॥ अपृथक्सिद्धयोस्समवायाख्यं स्वरूपादधिकं कल्प्यमानं संबन्धं न प्रत्यक्षयामः । अतः प्रत्यक्षात्समवायसिद्धिरिति दूरापास्तम् । विशिष्टव्यवहारानुपपत्त्वा समवायस्य स्वरूपात् व्यतिरेके कल्प्ये, समवायविशिष्टव्यवहारानुपपत्त्या पुनरपि समवायान्तरं कल्प्यमित्यनवस्था स्यात् । अनवस्थापरिहारार्थं ताभ्यां गुणगुण्यादिभ्यामेष समवायः स्वभावात् घटत इति यदि भक्तिर्भवता क्रियते, कृता सा भक्तिर्गुणगुणिनोरेवास्तु । अयमर्थः – गुणगुणिनौ अवयवावयविनौ जातिव्यक्ती परस्परं स्वभावादेव संबध्येते इति । तदिदमाह – ताभ्यामित्यादिना त इत्यन्तेन । नो चेत् – एवमनङ्गीकारे ज्ञानार्थयोरपि विषयविषयिभावादिकं स्वभावातिरेकेण समवायवदन्यदेव संबन्धान्तरं स्यात् । तदिदमाह – आपतेदन्यदेवेति ॥ १२६ ॥

5.487     संबन्धे सर्वतुल्ये प्रसजति गुणजात्यादिसङ्कीर्णभावः

तत्तद्द्वन्द्वस्वभावादनियतिशभने निष्फलाऽन्यस्य कॢप्तिः ।

त्यक्ते तत्तद्विशेषे स्वयमुभयसमे चात्र संबन्धरूपे

नानासंबन्धपक्षेऽप्ययमधिकरणाधेयभेदः कथं स्यात् ॥ १२७ ॥

किंच संबन्धे गुणगुण्यादिसर्वपदार्थसाधारणे सति गोरेव गोत्वेन संबन्धः, अश्वस्यैवाश्वत्वेन संबन्ध इति नियमो न स्यात्; अपि तु गुणजात्यादिसङ्करः स्यात् । तदिदमाह – संबन्ध इति । गोत्वमेव गवा संबध्यते पृथिव्यैव गन्ध इति तत्तत्प्रतियोगिरूपवस्तुद्वयस्वभावादनियतिश्शाम्यतीत्याशङ्क्य परिहरति – तत्तदिति । निष्फलाऽन्यस्य कॢप्तिः – गोत्वादितत्तद्वस्तुस्वभावादेवान्योन्यनियमे मध्ये समवायकॢप्तिर्निष्कलेत्यर्थः । तत्र च तत्तद्विशेषे त्यक्ते – तत्तद्वस्तुगतस्वभावविशेषे परित्यक्ते, संबन्धस्वरूपे अधिकरणाधिकर्तव्ययोर्द्वयोरपि समाने सति, इदमधिकरणमिदमाधेयमिति भेदः कथं स्यादित्याह – त्यक्त इति । अयं भावः – संबन्धस्साधारणः; तत्रैकमधिकरणम्, इतरच्चाधेयम्; तत्राधिकरणाधिकर्तव्ययोः स्वभावादेव इदमधिकरणमिदमधिकर्तव्यमिति नियमः । स्वभावविशेषपरित्यागे अधिकरणमेवाधेयं स्यात्, आधेयमेवाधिकरणं स्यात्; संबन्धस्योभयतुल्यत्वात् । तस्मात् समवायाङ्गीकारवादिनाऽपि संबन्धिनोः स्वभावविशेषः स्वीकार्यः । तथा च मध्ये समवायकॢप्तिर्निरर्थिका । एतद्दूषणं नानासंबन्धपक्षेऽपि तुल्यमित्याह – नानेति । अतः स्वभावादेव गुणगुण्यादिसंबन्धः, समवायस्तु निरर्थक इत्यर्थः ॥ १२७ ॥ इति समवायभङ्गः ॥

5.488     धर्मो धर्मी द्वयं वा कृतकमभिमतं यत्र संबन्धमत्र

प्राहुः कार्यं स्वभावात्तदुभयघटितं केऽपि दत्तोत्तरं तत् ।

सिद्धेऽसिद्धे समं वा तदुदय इति तु प्रेक्ष्य पक्षत्रयेऽपि

प्रागुक्तेभ्योऽतिरिक्तान् प्रणिहितमनसः पश्यत प्रत्यवायान् ॥ १२८ ॥

समवायस्य क्वचिदनित्यत्ववादिनं प्राभाकरं प्रतिक्षिपति – धर्म इति ॥ यत्र धर्मो वा धर्मी वा उभयं वा कृतकमभिमतम्, तत्र समवायं कार्यं प्राहुः प्राभाकराः । तं च स्वभावादेव तदुभयघटितं प्राहुः । तच्च दत्तोत्तरमित्याह – दत्तोत्तरं तदिति । कथं दत्तोत्तरमित्युत्तरं विवृणोति – सिद्ध इति । सिद्धे वा वस्तुनि घटते समवायोत्पत्तिः? असिद्धे वा? समं वा? न तावत् सिद्धे, समवायमन्तरेण घटसिद्धेरभावात् । नाप्यसिद्धे; असिद्धमाश्रित्य समवायोत्पत्तेरयोगात् । नापि समम्; समवायतदाश्रययोर्युगपदुत्पत्त्ययोगात् । पूर्वसिद्धे हि घटादौ रूपादेरुत्पत्तिः । इत्थं प्रागुक्तेभ्यो दूषणेभ्योऽतिरिक्तानेतान् प्रत्यवायान् – दूषणभेदान्, प्रणिहितमनसः – अवहितमनसः पश्यतेति पदानामन्वयः ॥ १२८ ॥ इति अनित्यसमवायपक्षविशेषदूषणम् ॥

5.489     सोऽभावो यः स्वभावं नियमयति दशादेशकालादिभेदो

नैवं सर्वाश्रितानां त्यजनमनितरस्थाप्यधीप्रापितत्वात् ।

तत्तत्प्रत्यर्थिभावस्फुरणसहकृतो नञ्प्रयोगक्षमोऽसौ

नाभावानामभावं त्वमपि कलयसे भावभेदादितोऽन्यम् ॥ १२९ ॥

एवं भावनिरूपणानन्तरमभावमपि निरूपयति – स इति ॥ परे खलु भावातिरिक्तमभावं कल्पयन्ति; तन्नेत्याह – य इति । यस्स्वभावं नियमयति देशकालादिभेदो भवत्पक्षे, स एवाभावव्यवहारं नियमयतु; अतिरिक्ताभावकल्पने गौरवम्, अनुपलब्धत्वादनपेक्षितत्वाच्च । एवं तर्हि सर्वाश्रितानां रूपादीनामपि त्यजनं प्रसज्यत इति चेत्, तन्नेत्याह – नैवमिति । तत्र हेतुमाह – अनितरेति । अनन्यथासिद्धबुद्धिसिद्धत्वेन रूपादीनां त्यागप्रसङ्गो नास्ति । अभावस्य तु भावविशेषैरेवान्यथासिद्धत्वेन त्यागस्समुचित इति भावः । तर्ह्यभावाभावे कथं नञ्प्रयोग इत्यत्राह – तत्तदिति । तत्तत्प्रतियोगिभावस्फुरणसहकृतो देशकालादिभेद एव स्वभावात् नञ्प्रयोगमपि सहते । अभावस्यापि नञ्प्रयोगसहत्वे स्वभाव एव नियामकः । एवं देशकालादिनियमेऽपि विभाव्यम् । ननु भावस्य कथमभावत्वमित्याशङ्क्याभावानामभावं त्वमपि भावमेवाङ्गीकरोषीत्याह – नाभावानामिति । अयं भावः – यथा भावाभावयोः परस्परप्रतिक्षेपात्मकत्वेनान्योन्याभावरूपत्वमपि भवान् वदति, एवं भावानामेव परस्परप्रतिक्षेपात्मकत्वेनान्योन्याभावरूपत्वं वयमपि वदामः । अतिरिक्ताभाववादिना त्वया तदुपष्टम्भकत्वेन देशकालादिनियतोऽभावो विरुद्धस्वभाव एव स्वीक्रियते, स एव भावोऽस्तु अभावव्यवहारविषयः; किमतिरिक्तेनाभावेन कल्पनागौरवपराहतेनेति ॥ १२९ ॥

5.490     प्रध्वंसप्रागभावो द्वितनुरभिमतः प्रागभावात्ययश्च

प्रागूर्ध्वानाद्यनन्तप्रतिनियतदशासन्ततिः स्यात्तथा नः ।

कॢप्तेऽन्यस्मिन्नभावे परमपि च [पु]पराभावपारम्परीत-

स्संपद्येतानवस्था स्वत उपरमणं दृष्ट एवास्त्वभीष्टे ॥ १३० ॥

एवमभावसामान्यं निरूप्य प्राक्प्रध्वंसाभावयोर्विशेषमाह – प्रध्वंसेति ॥ भवत्सिद्धान्ते प्रध्वंसप्रागभावो नाम घटतत्प्रागभावरूपो द्वितनुरभिमतः । एवं घटप्रागभावध्वंसश्च घटतत्प्रध्वंसरूपो द्वितनुः । एवमेवास्मत्सिद्धान्तेऽप्यनादिप्रागवस्थापरम्पराप्रागभावो घटस्य, अनन्त उत्तरावस्थासन्तानः प्रध्वंसः स्यात् । तथा च पूवोत्तरावस्थासन्ततिव्यतिरेकेण न प्राक्प्रध्वंसाभावौ कल्प्यौ । एवमनङ्गीकारेण प्रध्वंसप्रागभावे कॢप्ते प्रागभावप्रध्वंसे च कॢप्ते सत्युत्तरोत्तराभावपारम्पर्यादनवस्था संपद्येत । यदि कुत्रचित् स्वत एवोपरमणमनवस्थायास्तर्ह्यादित एवोपरमणं भवत्वित्याह – दृष्ट एवास्त्वभीष्ट इति । पूर्वोत्तरावस्थाद्वय दृष्टं भवतश्चाभीष्टम्, तत्रैवोपरमणमस्त्वनवस्थायाः । अयमर्थः – पूर्वावस्थापरम्पराप्रागभावः, उत्तरावस्थापरम्परा प्रध्वंस इति दृष्टानुसारपरिकल्पने न कश्चिद्दोषः । पूर्वभावव्यतिरेकेण प्रध्वंसस्य प्रागभावपरिकल्पने तथोत्तरभावव्यतिरेकेण प्रागभावस्य प्रध्वंसकल्पने सत्यनवस्थादौःस्थ्यमिति ॥ १३० ॥

5.491     द्रव्येष्वेव ह्यवस्थाक्रमत उपनता जन्मभङ्गादिरूपा

नावस्थानामवस्थान्वय इति न भवेत् कार्यतादीति चेन्न ।

ता एवान्योन्यवैरव्यतिभिदुरतयाऽन्योन्यनाशादिरूपा-

श्चिन्त्यो जन्मादिषट्कव्यवहृतिविषयस्तत्तदर्थे यथार्हम् ॥ १३१ ॥

अत्र चोदयति – द्रव्येष्विति ॥ द्रव्याणामवस्थान्तरप्राप्त्या जन्मादिरुपपद्यते, अवस्थानां पुनरवस्थान्तरप्राप्त्यभावान्न भवेत् कार्यत्वादीति चेत्, तन्निराकरोति – नेति । तदेव विवृणोति – ता इति । अन्योन्यवैरव्यतिभिदुरतया – अन्योन्यविरोधयुक्ततया, ता एवावस्था अन्योन्यनाशादिरूपा भवन्ति । अयमर्थः – द्रव्यस्यावस्थान्तरप्राप्तिर्विनाशः, अवस्थायाश्च तदेवावस्थान्तरं विनाशशब्दवाच्यतां प्राप्नोति, पूर्वावस्थापेक्षया विरुद्धस्वभावत्वात् । एवं षड्विधविकारेष्वपि परस्परविरोधस्वाभाव्याज्जन्मादिव्यवहारविषयः संचिन्त्य इत्याह – चिन्त्य इति । यथार्हमिति – यथोचितं कल्प्यमित्यर्थः ॥ १३१ ॥ इति भावातिरिक्ताभावभङ्गः ॥

5.492     नाभावः कारणानां कथमपि विषयी निःस्वभावत्वयुक्तेः

नाशोऽप्यस्यानपेक्ष्यः स्वयमसत इति प्रागभावादि नित्यम् ।

स्वाभावग्रस्तमेतन्निखिलमपि जगन्निःस्वभावं ततः स्यात्

मैवं भावान्तरात्मन्यधिकवपुषि वा तत्स्वभावत्वदृष्टेः ॥ १३२ ॥

अत्र कश्चिद्बाह्यमतानुसारेणाभावानां निःस्वभावत्वमाह । तन्मतमनूद्य दूषयति – नाभाव इत्यादिना मैवमित्यन्तेन ॥ अयमत्र पूर्वपक्षिणो भावः – अभावः कारणानां विषयो न भवति निःस्वभावत्वात् । अतः कार्यमेवाभावो न भवति । अस्य चाभावस्य नाशोऽप्यनपेक्ष्यः – असाध्यः; स्वयमसत्त्वात्, न ह्यसतः पुनरसत्त्वमपेक्ष्यते । तस्मादकार्यत्वादनाश्यत्वाच्च प्रागभावादि नित्यमेव । एवं चाभावस्य नित्यत्वे विश्वस्य स्वाभावग्रस्तत्वाद् विश्वमपि जगन्निःस्वभावमेव स्यात्; ततश्च शून्यमेव विश्वमिति । तन्निराकरोति – मैवमिति । तत्र हेतुमाह – भावान्तरात्मनीति [?] भावान्तरात्मनि, अधिकवपुषि वा अधिकरूपे वाऽभावे तत्स्वभावस्य प्रामाणिकत्वात् कार्यकारणभावादिसर्वस्वभावनियमेन भवदुक्तदोषशङ्काऽपि नाङ्कुरतीति भावः ॥ १३२ ॥ इति अभावस्य निःस्वभावत्वभङ्गः ॥

5.493     एतावन्तः पदार्था न तु पर इति तत्सिद्ध्यसिद्ध्योरयुक्तं

मैवं योऽस्त्येष सिद्धान्न पर इति वचस्येष दोषो न तु स्यात् ।

सत्येव स्यात्तवापि ह्यधिकमनधिकं वेति शङ्कावकाशो

नैवं चेन्नैव शङ्का न च परिहरणं भित्तिलाभे हि चित्रम् ॥ १३३ ॥

एवमर्थतत्त्वं सर्वमुपपाद्य पदार्थेयत्तावचनं न युज्यत इति वदतः परवादिनो मतं दूषणायानुवदति – एतावन्त इति ॥ एतावन्त एव पदार्था न पर इति परेषां सिद्धावसिद्धौ च न युक्तम्; सिद्धौ तावद्व्याघातादेव न युक्तम्; सिद्धस्य निषेद्धुमशक्यत्वात् । असिद्धौ च प्रतियोग्यभावान्न युक्तमिति भावः । अनूदितमेतन्निराकरोति – मैवमिति । निराकरणप्रकारं विवृणोति – य इति । यः प्रमाणेन लोके सिध्यति स एतस्मान्न पर इति सामान्यतः प्रमाणसिद्धे वस्तुनि भेदे निषिध्यमाने सति तन्निषेधकवचस्येष भवदुक्तो दोषो न स्यात् । अयमर्थः – सामान्यतः प्रतिपन्ने वस्तुनि प्राङ्निरूपितादर्थादर्थान्तरत्वं प्रतिषिध्यत इति । एवमनङ्गीकारे तवापि ह्यधिकशङ्काया नावकाश इत्याह – सत्येवेति । प्रतिपन्ने वस्तुनि खलु भवताऽपि पूर्वोक्तादधिकमनधिकं वेति शङ्काऽपि कर्तुं शक्यते । नैवं चेत् एवमनङ्गीकारे नैव शङ्का – भवताऽधिकत्वं नाशङ्क्यते । न च परिहरणं – नास्माभिराशङ्कितोऽर्थः परिह्रियते । तत्र दृष्टान्तमाह – भित्तिलाभ इति । अयमर्थः – शङ्कायां सत्यामेवोत्तरं दातुमुचितमिति । अत्रेदं तात्पर्यम् – अधिकमर्थं केनाप्यवगम्याधिकत्वमाशङ्कनीयम् । भवता आशङ्कितं चेत्तत्रोत्तरं दास्यामः; नाशङ्कितं चेदस्माभिरपि सुखेनास्थीयत इति ॥ १३३ ॥ इति पदार्थेयत्तावधारणोपपत्तिः ॥

5.494     इत्थं श्रीवेङ्कटेशः श्रुतममत जगन्मूलकन्दं मुकुन्दं

विस्तारो यस्य विश्वं मुनिभिरभिदधे विस्तरो वाङ्मयं च ।

यन्नास्मिन् क्वापि नैतत् क्षममिह कुहकैरिन्द्गजालं न तैस्तै-

रेकं तत्सर्वसिद्ध्यै कलयत हृदये तत्त्वमुक्ताकलापम् ॥ १३४ ॥

इत्थं निर्मितस्य प्रबन्धस्य वक्तृवैलक्षण्यं, संप्रदायवैलक्षण्यं विषयवैलक्षण्यं च तावदाह – इत्थमिति ॥ श्रीवेङ्कटेश इति वक्तृवैलक्षण्यम् । श्रुतममतेति सत्संप्रदायसिद्धत्वम् । जगन्मूलकन्दं मुकुन्दमिति विषयवैलक्षण्यम् । एतदभिधानं प्रबन्धस्योपादेयतमत्वप्रतिष्ठापनाय । यस्य भगवतो विस्तारोऽपि विश्वं विस्तरो वाङ्मयं चेति सर्वमपि वक्तव्यं संगृहीतमिति द्योतयति । तदेव वदति – यन्नास्मिन् क्वापि नैतदिति । अनेन ‘यदिहास्ति तदन्यत्र यन्नेहास्ति न तत्क्वचित्’ इति वचनं स्मारयति । इह – अस्मिन् प्रबन्धे । तैस्तैः कुहकैर्वादिभिरिन्द्रजालं न क्षममिति प्रबन्धस्याधृष्यत्वमाह । इत्थंभूतं तत्त्वमुक्ताकलापं मङ्गलतमत्वात् हृदये कलयतेति शिष्याणां पुरुषार्थसाधनोपदेशः ॥ १३४ ॥

5.495     निश्शेषां वस्तुवृत्तिं निपुणमिह मया न्यस्यता क्वापि कोणे

यत्रोदासि द्विधा वा समगणि गहने सम्मते सन्मतीनाम् ।

निष्क्रष्टुं कश्चिदन्यः प्रभुरिह भगवल्लक्ष्मणाचार्यमुद्रा-

मक्षुद्राचार्यशिक्षाशतगुणितमतेरप्रमत्तान्न मत्तः ॥ १३५ ॥

निःशेषामिति ॥ अस्मिन् प्रबन्धे निश्शेषां वस्तुवृत्तिं निपुणं न्यस्यता – स्थापयता मया क्वापि कोणे – आभासेऽर्थे यत्रोदासि, गहनेऽर्थे यत्र द्विधा बा समगणि – विकल्पेनाभाणि; तत्र च सन्मतीनां – विदुषां संमतं एव, न पुनः स्वकपोलकल्पित[त्व]मात्रेण । तत्र भगवल्लक्ष्मणाचार्यमुद्रां निष्क्रष्टुमक्षुद्राचार्यशिक्षाशतगुणितमतेरप्रमत्तान्मत्तोऽन्यः कश्चिन्न प्रभुरिच्यन्वयः । अनेन मदुक्तानुसारेणैवान्तेवासिभिरवशिष्टं निष्क्रष्टव्यं न पुनस्तद्विरोधेनेति भावः ॥ १३५ ॥

5.496     दृष्टेऽपह्नुत्यभावादनुमितिविषये लाघवस्यानुरोधा-

च्छास्त्रेणैवावसेये विहतिविरहिते नास्तिकत्वप्रहाणात् ।

नाथोपज्ञं प्रवृत्तं बहुभिरुपचितं यामुनेयप्रबन्धै-

स्त्रातं सम्यग्यतीन्द्रैरिदमखिलतमःकर्शनं दर्शनं नः ॥ १३६ ॥

दृष्ट इति ॥ एतस्य सिद्धान्तस्य दृष्टेऽपह्नुत्यभावात्, प्रत्यक्षसिद्धेऽर्थे मृषावादिप्रभृतिवदपह्नवाभावात्, अनुमितिविषये लाघवस्यानुरोधात्, वैशेषिकादिवदनपेक्षितकल्पनाभावात्, शास्त्रेणैवावसेये प्रमाणबाधविरहिते नास्तिकत्वप्रहाणात् – निरीश्वरमीमांसकवदीश्वरापह्नवप्रभृत्यनर्थकार्थप्रहाणात् । नाथोपज्ञं प्रवृत्तं – नाथमुनिमारभ्य प्रवृत्तम् । बहुभिर्यामुनेयप्रबन्धैरुपचितम् । यतीन्द्रैस्सम्यगेव भाष्यादिप्रबन्धपञ्चकनिर्माणेन परित्रातमिदमेव दर्शनमखिलतमःकर्शनमिति स्वदर्शनस्य सूर्योदयवदशेषार्थप्रकाशकत्वं दर्शयति – दृष्ट इत्यादिना ॥ १३६ ॥

5.497     हृद्या हृत्पद्मसिंहासनरसिकहयग्रीवहेषोर्मिघोष-

क्षिप्तप्रत्यर्थिदृप्तिर्जयति बहुगुणा पङ्क्तिरस्मद्गुरूणाम् ।

दिक्सौधाबद्धजैत्रध्वजपटपवनस्फातिनिर्धूततत्त-

त्सिद्धान्तस्तोमतूलस्तूबकविगमनव्यक्तसद्वर्तनीका ॥ १३७ ॥

एतद्दर्शनप्रवर्तकाचार्यप्रशंसया स्वभक्तिमेवोत्तम्भयन् परपक्षप्रवर्तकानां परागपटलवदाभासत्वमेवाह – हृद्येति ॥ अक्षरार्थो व्यक्तः ॥ १३७ ॥

5.498     अध्यक्षं यच्छ्रुतं वा लघु भवति तदित्यादिमो वादिमोह-

स्तत्त्वोदर्का न तर्कास्तदिह जगति किं मेधया साधयामः ।

तिष्ठत्वेतल्लधिष्ठाः कतिचन दधतो मानसे मानसेतुं

हंहो सभ्यानसभ्यस्थपुटमुखपुटा दुर्जना निर्जयन्ति ॥ १३८ ॥

अध्यक्षमिति ॥ इत्थं सर्वोत्तरे दर्शने विद्यमानेऽप्याभासवादिनः प्रत्यक्षागमप्रमितयोरर्थयोर्लधुत्वमेव प्रतिपद्यन्ते । अयमादिमो वादिमोहः; प्रत्यक्षागमयोरेव प्राबल्यात्, तद्विरुद्धम् चानुमानस्यात्यन्तदौर्बल्यात् । यदि वा तर्कमेव परिशोधयामः – न तत्त्वोदर्कास्तर्काः – केवलं दन्तादन्तिप्रयासमात्रशेषाः; तर्काणामप्रतिष्ठितत्वात् । अत्र तर्कशब्दोऽनुमानं तदनुग्राहकं तर्कमपि संगृह्णाति । एवंभूते जगति किं मेधया साधयाम इति निर्वेदवचनम्; अथवाऽधिक्षेपवादः । इममेवाधिक्षेपवादमुत्तरोत्तरमुद्दीपयति – तिष्ठत्वेतदिति । लघिष्ठाः कतिचन मानसे – मनसि अभिमानस्य सेतुं – परां काष्ठ वहन्तो दुर्जनाः स्वयमसभ्यस्थपुटमुखपुटास्सभ्यान्निर्जयन्ति । किमुक्तं भवति – स्वयं भषणमात्रेणैव भाषमाणा इह जल्पन्तीत्यर्थः । हंहो इति विषादपूर्वाधिक्षेपे ॥ १३८ ॥ इति वक्तृवैलक्षण्यादिनिरूपणम् ॥

5.499     स्यादित्थं शिक्षितार्थो य इह यतिपतिच्छात्रहस्ताग्रनृत्य-

न्नाराचन्यासरेखासहचरितमतिस्सर्वतन्त्रस्वतन्त्रः ।

शुष्कोपन्यासशिक्षापटिमकटुरट[द्भाण्ड]द्वैरिविद्वत्करोटी-

कुट्टाकक्रीडमष्टापदकटकमसौ वामपादे बिभर्तु ॥ १३९ ॥

इत्थमनेन प्रबन्धेन शिक्षितार्थस्सर्वेष्वपि तन्त्रेषु स्वातन्त्र्यं तन्त्रयन् प्रतिभटविद्वत्करोटीकुट्टाकक्रीडाक्षममष्टपदकटकं वामपादे बिभर्त्विति प्रकृतस्य प्रबन्धस्य वैतण्डिकविजयहेतुत्वेनातिशयमाह – स्यादित्थमिति ॥ पदार्थः स्पष्टः ॥ १३९ ॥ इति एतत्प्रबन्धाध्ययनफलनिरूपणम् ॥

5.500     गाथा ताथागतानां गलति गमनिका कापिली क्वापि लीना

क्षीणा काणादवाणी द्रुहिणहरगिरस्सौरभं नारभन्ते ।

क्षामा कौमारिलोक्तिर्जगति गुरुमतं गौरवाद् दूरवान्तं

का शङ्का शङ्करादेर्भजति यतिपतौ भद्रवेदीं त्रिवेदीम् ॥ १४० ॥

सर्वमङ्गलसिद्ध्यर्थं प्रबन्धसमाप्तौ सकलाचार्यदेशिकं श्रीमद्रामानुजाचार्यं प्रतिभटसकलसिद्धान्तध्वान्तनिरासकत्वेन प्रस्तौति, स्तौति च – गाथेति ॥ १४० ॥ इति आचार्यस्तुतिः ॥

॥ इति कवितार्किकसिंहस्य सर्वतन्त्रस्वतन्त्रस्य श्रीमद्वेङ्कटनाथस्य वेदान्ताचार्यस्य कृतिषु सर्वार्थसिद्धिसमेते तत्त्वमुक्ताकलापे अद्रव्यसरः पञ्चमः ॥

॥ समाप्तश्चायं निबन्धः ॥

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.