॥ श्रियै नमः ॥
॥ श्रीमते रामानुजाय नमः ॥
पण्डितरत्नम् कुप्पण्णैय्यङ्गार्येण विरचितः
वचस्सुधाविचारः
अव्यादव्याजकारुण्यनिधिरम्बुजलोचनः ।
श्रीयादवाद्रिनिलयः श्रीमान्नारायणस्सदा ॥
श्रीभाष्यकारो जयतादपारकरुणानिधिः ।
यम् भागधेयम् भविनामवतीर्णम् प्रचक्षते ॥
यस्य सूक्तिसुधासार: पायम् पायम् बुधा भुवि ।
तुष्यन्ति तम् कृपासिन्धुम् भाष्यकारम् भजाम्यहम् ॥ श्रीशैललक्ष्मणमुनेः प्रणम्य चरणद्वयम् ।
वचस्सुधाविचारोऽयम् क्रियते विदुषाम् मुदे ॥
तत्र तावत् भगवता भाष्यकृता श्रीभाष्ये *पाराशर्यवचस्सुधाम्* इत्यादि मङ्गळपद्यमनुगृहीतम् ।
तद्घटकश्च *वचस्सुधा* शब्दस्त्रेधा समासप्रदर्शनपूर्वकम् आचार्यैः श्रुतप्रकाशिकायाम् विवृतः । इयम् तत्सूक्तिः, *वचस्सुधाम्, वचश्शब्द-स्यार्थे तात्पर्यम्, यथा *वेदविच्छास्त्रवित्* इत्यादिशब्दानाम्, अर्थाभि-धायकम् हि वाक्यम्, वचसः सुधाम् इति केचिदाचार्याः रूपकप्रकरणात् सुधाशब्दलक्षणाभयाच्च । सुधेव वच इति *उपमितम् व्याघ्रादिभिः* (पा.सू.२-१-५६) इत्यादिना समासमपरे आचार्या आद्रियन्ते । सुधा-शब्देन भोग्यत्वम् अभिप्रेतम्* इति । अत्र वच एव सुधा इति रूपक-समास एव आचार्याभिमतः । तत्पुरुषोपमितसमासौ द्वावप्याचार्यान-भिमतौ । उदाहृतसूक्तौ *वचश्शब्दस्यार्थे तात्पर्यमि*त्यारभ्य *अर्थाभि-धायकम् हि वाक्यमि*त्यन्तम् स्वाभिमतरूपकसमासोपपादकम्; रूपक-प्रकरणात् इत्यादिपञ्चम्यन्तद्वयम् स्वानभिमततत्पुरुषोपमितसमास-दूषणप्रदर्शनपरम् ।
अत्र वचश्शब्दस्य केवलवाक्यसमुदायमात्रपरत्वे सुधाशब्देन भोग्य-त्वम् अभिप्रेतमिति वक्ष्यमाणभोग्यत्वस्य विवक्षितरूपकालङ्कारमूलभूत-सादृश्यप्रयोजकस्य तत्र स्वारसिकान्वयो न सम्भवतीति पर्यालोच्य वचश्शब्दस्यार्थे तात्पर्यम् इत्यनुगृहीतम् । तथा च वचश्शब्दो विवक्षित-पदार्थसम्सर्गविशेषप्रतिपादकवाक्यसमुदायपरः । तादृशवाक्यसमुदायश्च अध्यायचतुष्टयात्मकशारीरकमीमाम्सारूपः । तत्प्रतिपाद्यसर्वकल्याणगुण-विशिष्टब्रह्मणः तदनुबन्धिनाम् च सर्वेषाम् अत्यन्तानुकूलतया सुधाशब्द-विवक्षितभोग्यत्वम् तत्र स्वरसत एव अन्वेति । तथा च अर्थाभिधाय-कम् वाक्यमित्यनुगृहीतरीत्या वचः प्रतिपाद्येऽर्थे तत्प्रतिपादके वचसि च सुधाशब्दविवक्षितभोग्यत्वस्य अन्वयः प्रदर्शितो भवति । समभिव्याहृत-पदार्थस्य विशेषणे-विशेष्ये च अन्वयाङ्गीकारे दृष्टान्तद्वयधाय प्रदर्शयति – *यथा वेदवित् शास्त्रवित्* इत्यादि शब्दानाम् इति ।
अत्र वेदवित् इत्यादौ वेदादिपदसमभिव्याहृत – विदधात्वर्थस्य यथा वेदरूपे शब्दे अर्थे च अन्वयः स्वरसतया प्रतीयते । तथा सुधाशब्द-विवक्षितभोग्यत्वस्य वचसि तदर्थे च अन्वयः स्वरसतया सिद्ध्यति इत्यभिप्रायः । अनुगृहीतम् च आचार्यैरेव श्रुतप्रदीपे वचस्सुधाशब्दस्य रूपकसमासपरत्वम् । *वचसस्सुधामिति निर्वाहो रूपकप्रकरणानुचितः, सुधाशब्दामुख्यत्वञ्च अमृतत्वहेतुत्वात् सुधात्वरूपणम्* इति । श्रीभाष्यव्याख्याने नयप्रकाशिकायाम् अपि रूपकपक्ष एव प्रतिपादितः । अयम् च तद्ग्रन्थः – *पाराशर्यवचस्सुधाम् – कृष्णद्वैपायनसूत्रात्मक-वचस्सुधाम् । अत्र वचश्शब्दः सार्थ – सूत्रपरः । केवलशब्दात्मकसूत्र-गणस्य सुधात्वरूपणानुपपत्तेः तस्यार्थद्वारा हि पुरुषार्थहेतुत्वम्, केवलवचः परत्वे च उत्तरपदानन्वयः । सुधात्वमेव विशिनष्ट्युत्तरपदैः उपनिषदाम् दुग्धाब्धित्वरूपणेन गाम्भीर्यविस्तृतत्वे सूचिते* इत्यारभ्य सम्सार एवाग्निः सम्साराग्निः* इति । तत्त्वटीकायामपि आचार्यैः द्वेधा रूपकपक्ष एवानुगृहीतः । इयञ्च तत्सूक्तिः – *तत्र वचसः सुधा इति विग्रहे सुधाशब्दस्य गौणी वृत्तिः । रूपकप्रकरणानुरूप्येण वा वचश्शब्दलक्षित-स्तदर्थस्सुधात्वेन रूप्यते । यद्वा सूत्रमेव सुधा इति रूपितम् । उपनिषद्विमर्शोत्थन्यायरूपार्थद्वारा आनीतत्वाद्युपपत्तिः* इत्यादिः ।
नन्वत्र निजाक्षरानीतत्त्वादिरूपसामान्यधर्मप्रयोगसत्त्वात् कथम् उपमितसमाससम्भव इत्याशङक्य; *भाष्याब्धिः क्वातिगम्भीरः* इतिवत् विवक्षितभोग्यत्वरूपसामान्यधर्मप्रयोगासत्त्वापमितसमासः सम्भवति इति उपमितसमासस्य समर्थितत्वात् रूपक समासपक्ष आचार्याणामनभिमत एवेति चेत्, मैवम् – उपमितसमासपक्षस्यापि कैश्चिदाचार्यैः अङ्गीकृततया तत्पक्षसाधकयुक्तिप्रदर्शनमात्रपरत्वात् तत्सूक्तैः रूपकसमासस्य तदनभिमतत्वेन स द्वेधासमर्थनपूर्वकम् उत्तरत्र तदुपपादनम् कथम् सङ्गतम् भवेत् ? अयञ्च तदुत्तरग्रन्थः *श्रुतिधेनुसारभूतस्वादुतमरसतया आनन्त्यगाम्भीर्यादिभिश्च दुग्धाब्धित्वोक्तिः । अचिद्भिरेकीकृत्य जन्मादिप्रवाहप्राप्तिः सम्सारः । यद्वा सम्सरत्यनेनेति सम्सारः कर्म; स तु स्वर्गादेरपि तापत्रयमयत्वात् अग्नितयोक्तः* इति । अत्रोपनिषदि दुग्धाब्धित्वस्य सम्सारे, अग्नित्वस्य च स्पष्टतया आचार्याभिमतः इति सुव्यक्तम् प्रतीयते चम्पकेशीये श्रुतप्रकाशिकाव्याख्याने सुस्पष्टम् प्रत्यपादि । अयञ्च तद्ग्रन्थः –
*नन्वर्थस्यैव भोग्यत्वेन वचसोऽभोग्यत्वात् कथम् वचस्सुधात्वेन रूपणमित्याशङ्क्य व्याचष्टे वचश्शब्दस्येति । उच्यतेऽनेनार्थ इति, *असुन् सर्वधातुभ्यः*(उणा.सू.६३८) इति करणे असुन्प्रत्ययः । एवञ्च अर्थप्रतिपादनविशिष्टवाक्यस्यैव वचश्शब्दार्थत्वात् अर्थस्य च भोग्यत्वात् तदवच्छिन्नस्यापि भोग्यत्वम् *सम्श्रवे मधुरम् वाक्यम्* इति न्यायेन उपपन्नम् इति भावः ।
न तु अर्थे लक्षणा उच्यते इति भ्रमितव्यम् । एवम् उक्तार्थकवच-श्शब्दस्य प्रयोगम् दर्शयति – यथेति शब्दानाम् इत्यन्तोग्रन्थः । पूर्ववाक्ये स्वाभिप्रेताम् उपपत्तिम् फलतो दर्शयति – अर्थेति । सम्बन्धः प्रदर्श्यते इति मन्तव्यम् । वच एव सुधा वचस्सुधा इति समासः अभिप्रेतः, मयूरव्यम्सकादयश्चेति समासः । तदुक्तम् अलङ्कारसर्वस्वे – *वक्त्रम् चन्द्र इवेति किमुपमा, उत वक्त्रमेव चन्द्र इति मयूरव्यम्सकादित्वात्तु रूपकसमासः मयूरव्यम्सकादेः आकृतिगणत्वात्* इति । व्याख्यानान्तरमनुवदति वचस इत्यादिना । सावयवरूपका-लङ्कारो हि अस्मिन् श्लोके विवक्ष्यते । ततः तत्प्रकरणविरुद्धमिह षष्ठीसमासाश्रयणम् – दूषणान्तरमाह, सुधाशब्देति । सुधाशब्दश्च साध्यवसानलक्षणयाऽर्थे वर्तते । अत एव वचसोऽभोग्यत्वात् कथम् सुधात्वरूपणमिति शङ्कापि न कार्येति तेषाम् आशयः । अथ अन्येषा-मपि व्याख्यानम् दूषयति सुधेव वचः इति । तेषाम् अयमाशयः न तावत् अत्र सुधाशब्दलक्षणाभयम् उपमेयस्य पृथगेव उपादानात् । नापि रूपकप्रकरणविरोधः उपमैव तिरोभूतभेदरूपकम् उच्यते, इति रूपकस्यापि उपमाविशेषत्वात्, रूपकप्रतिनियतसमासान्तरविधायक-शास्त्रान्तराभावाच्च रूपकस्थलेऽपि उपमितसमास एवेति, न तत्प्रकरण-विरोध इति, व्यासार्यास्तु भेदप्रधानोपमायाः अभेदमात्रप्रतिनियतरूप-कालङ्कारस्य च अभेदायोगात्, रूपकस्थले *मयूरव्यम्सकादयश्च*(पा.सू. २-१-७२) इति सूत्रेण समास इत्यभियुक्तैः अलङ्कारसर्वस्वादौ प्रतिपादनात् *उपमितम् व्याघ्रादिभिः*(पा.सू.२-१-५६) इति सूत्रस्य उपमामात्रगोचरत्वस्थापनात् इदमपि व्याख्यानमन्याय्यम् इति मन्यन्ते इत्यादिः । गुरुभावप्रकाशिकायामपि रूपकसमास पक्ष एव अङ्गीकृतः, इयञ्च तत्सूक्तिः *तस्मात् रूपकप्रकरणात् सुधाशब्दलक्षणाभयाच्च वचश्शब्दस्यार्थे तात्पर्यमित्यनुषङ्गेण अन्वयाभ्युपगमेन पूर्ववाक्य एव *मयूरव्यम्सकादयश्च*(पा.सू.२-१-७२) इति सूत्रेण रूपकसमासः आचार्याणामभिमत इति तूलिकासूक्तिसूचितपक्ष एव उचितः* इति ।
इत्थम् च वचस्सुधा इत्यत्र वच एव सुधा वचस्सुधा इति सावयव-रूपकालङकारः प्रतिपादितो भवति । दुग्धाब्धिमध्योद्धरणादिरूपसुधा-सम्बन्ध्यवयवानाम् उपनिषन्मध्योद्धरणादिरूपवचस्सम्बन्ध्यवयवानाम् परस्परमारोपस्य श्रौतस्य प्रतिपादनात् – तदुक्तम् काव्यप्रकाशे *समस्त-वस्तुविषयम् श्रौता आरोपिता यदा; आरोपविषया इवारोप्यमाणा यदा शब्दोपात्ताः तदा समस्तानि वस्तूनि विषयो यस्येति समस्तवस्तुविषयम् आरोपिता इति बहुवचनम् अविवक्षितम्* । यथा –
ज्योत्स्नाभस्मच्छुरणधवळा बिभ्रती तारकास्थी-
न्यन्तर्धानव्यसनरसिका रात्रिकापालिकीयम् ।
द्वीपाद्द्वीपम् भ्रमति दधती चन्द्रमुद्राकपाले
न्यस्तम् सिद्धाञ्जनपरिमळम् लाञ्छनस्य च्छलेन ॥
अत्र अन्तर्धानव्यसनरसिकत्वमारोपितस्य कापालिकीपदार्थस्य धर्म एवेति रूपकपरिग्रहे साधकमस्तीति तत्सङ्कराशङ्का न कार्येति । व्याख्यातमिदम् पद्यम् बालबोधिन्यादौ, *अत्र रात्रिरेव कापालिकी ज्योत्स्नैव भस्म इत्यादि रीत्या *मयूरव्यम्सकादयश्चे*ति(पा.सू.२-१-७२) पाणिनिसूत्रेण समासः । अत एव उपमेयपदस्य पूर्वनिपातः मयूरव्यम्सकादि पदेन सर्वाण्येव रूपकोदाहरणानि गृह्यन्ते मयूख्यम्स-कादेराकृतिगणत्वादि*ति ।
प्रकृते च वचस्सुधा इत्यत्रापि सुमनः कर्तृक – पानकर्मत्वादेः आरोप्य- माणसुधामात्रनिष्ठस्य सत्वाद्रूपकमेव अङ्गीकरणीयम् । न च रूपकस्थले उपमानाभेदस्य उपमेये भासमानतया कथम् उपमान उपमेयस्य अभेदेन अन्वयः सम्भवति इति वाच्यम् । समस्तरूपकस्थले व्युत्पत्तिवैचित्र्येण तथान्वयस्य आलङ्कारिकैः अङ्गीकारात् । तदुक्तम् – रसगङ्गाधरे रूपकप्रकरणे –
*अत्र वदन्ति अभेदस्तावद्विशेषणस्य सम्सर्गो भवति । स च यथा मुखम् चन्द्र इत्यादौ वाक्यगते रूपके स्वप्रतियोगिनः चन्द्रस्य स्वानु-योगिनि मुखे विशेषणताया निर्वाहकः, तथैव समासगते मुखचन्द्र इत्यादौ रूपके स्वानुयोगिनो मुखस्य प्रतियोगिनि चन्द्रे विशेषणतायाः । एवम् च उभयत्रापि वस्तुतः चन्द्राभेद एव सम्सर्गः । क्वचिदनुयोगित्वमुखः, क्वचित्प्रतियोगित्वमुखः विशेष्यविशेषणभाववैचित्र्यात्, न तु मुखचन्द्र इत्यत्र मुखाभेदस्सम्सर्गः । तथा सति चन्द्ररूपकानापत्ते: मुखरूपकापत्तेश्च स्वप्रतियोगिकाभेद एव विशेषणसम्सर्गः, न तु स्वानुयोगिकाभेद इति तु दुराग्रहः* इत्यादि ।
ननु वचस्सुधाशब्दविवरणप्रवृत्तैः आचार्यैः रूपकसमासस्य कण्ठतो अप्रतिपादनेन उपमितसमासस्यैव परेषाम् आदरविषयत्वप्रतिपादनेन च तत्रैव आचार्यणामपि नैर्भर्यमिति प्रतीयत इति चेत् मैवम्, रूपकप्रकर-णात् सुधा शब्दलक्षणाभयाञ्च इत्युक्तदूषणद्वयस्य उपमितसमासपक्षेऽपि सम्भवेन, तत्पुरुषसमासवत् उपमितसमासस्यापि आचार्याभिमतत्व-वर्णनासम्भवात्, उपमितसमासाङ्गीकारे रूपकप्रकरण-विरोधस्य सादृश्य-बोधार्थम् सुधाशब्दे लक्षणायाश्च अवर्जनीयत्वात् ।
अथ; उपमितसमासे अनुशासनाधीना लक्षणा, तत्पुरुषपक्षे तु अनुशास-नानधीनेति, लक्षणाभयादित्यस्य अनुशासनानधीनलक्षणाभयादित्यर्थः । अत एव पूर्वतन्त्रे शेषलक्षणे इन्द्रपीताधिकरणे इन्द्रपीतस्य मधुमत इत्यादौ इन्द्रपीतपदे इन्द्रेण पीत इति तत्पुरुषस्वीकारे पीतपदे पीतापीत- समुदायैकदेशे लक्षणा स्वीकार्या, सा च अनुशासनानधीनेति, इन्द्रेण पीतम् यस्मिन् सवन इति वा । इन्द्रः पीतो यस्मिन् इति वा लक्षणाद्वयगर्भ-बहुव्रीहिरेव आश्रितः । अत उपमितसमासाङ्गीकारे लक्षणाभीतिः नास्तीति चेन्न – अनुशासनपदेन वैयाकरणानामनुशासनविवक्षणम् न सम्भवति तन्मते समासशक्त्यङ्गीकारेण तत्र लक्षणाया अभावात् । अत एव उक्तम् मञ्जूषायाम् – *बहुव्रीहौ विशिष्टशक्तिस्वीकारादेव अरुणाधिकरणम् उपपद्यते । अत एव इन्द्रपीताधिकरणम् सङ्गच्छते* इत्यादिना ।
नैय्यायिकादिभिस्तु सर्वत्र अन्वयानुपपत्त्यादीनामेव लक्षणाबीजतया अङ्गीकाराद्यत्र अन्वयानुपपत्त्यादिकम् अस्ति तत्र लक्षणाङ्गीकारस्य सकलतान्त्रिकसङ्केतसिद्धतया उपमितसमासे सादृश्यबोधार्थम् यथा लक्षणा आवश्यकी तथा रूपकातिशयोक्तिस्थलेऽपि उपमानवाचकपदेन उपमेय – बोधार्थम् आलङ्कारिकसङ्केतसिद्धा साध्यवसानलक्षणा अवश्यम् अङ्गीकरणीयैव इत्युभयोः पक्षयोः तुल्यत्वात् कथम् उपमितसमासस्य निर्दुष्टता ? इन्द्रपीताधिकरणन्यायस्तु भवतो विपरीतफलः । तदधिकरणे अनुशासनाधीनलक्षणायाः प्राबल्यस्य असमर्थितत्वात् तदधिकरणे हि इन्द्रपीतपदस्य तत्पुरुषसमासासम्भवात् बहुव्रीहिसमासः आश्रितः न तु आनुशासनिकलक्षणायाः प्राबल्याङ्गी-कारेण । इदञ्च तदधिकरणशरीरम्, पूर्वतन्त्रे तृतीयाध्याये द्वितीयपादे चरमाधिकरणे, *लिङ्गविशेषनिर्देशौ* इत्यादि । *भक्षे हि मा विश* इत्यादि भक्षानुवाके, मन्द्राभिभूतिः केतुर्यज्ञानाम् वाग्भूषणा सोमस्य तृप्यतु, वसुमद्गणस्य रुद्रवद्गणस्य आदित्यवद्गणस्य सोमदेवते मतिविदः, प्रातस्सवनस्य गायत्रच्छन्दसः इन्द्रपीतस्य मधुमत उपहुतस्य उपहूतो भक्षयामि इति भक्षमन्त्रः पठितः । अत्रैव सम्शयनिष्कर्षः । किमिन्द्र-पीतपदघटितो वसुमद्गणस्य इत्यादिः भक्षयामि इत्यन्तः प्रातस्सवनीय-भक्षमन्त्रः मैत्रावरुणाश्विनाद्य न इन्द्रप्रदानशेषभक्षणेषु सर्वथाप्यनङ्गम्, उतोहेनाङ्गम् अथवा यथाश्रुतरूपेणाङ्गम् ? इति त्रिकोटिकोधिकरणा- ङ्गभूतप्रधानसम्शयः । तदर्थम् मिळित्वा हेतुभूतम् सम्शयद्वयम् उच्यते । किमैन्द्रानैन्द्रप्रदानानाम् प्रकृतिविकृतिभावोऽस्ति उत नेति । किमिन्द्र-पीतस्य इति तत्पुरुषः । उत बहुव्रीहिरिति च, तत्पुरुषत्वे सति प्रकृति-विकृतिभावे च असति सर्वथा नाङ्गमिति प्रथमः पक्षः, तत्पुरुषे प्रकृति विकृतिभावे च सत्यूहेनाङ्गमिति द्वितीयः पक्षः, बहुव्रीहौ च यथाश्रुत-रूपेणाङ्गमिति तृतीयःपक्षः, इति फलफलिभावः, तत्र तत्पुरुषे उत्तरपदे स्वार्थलाभः । बोध्यवाक्यार्थलाघवम् पूर्वपदार्थमात्रलक्षणा, बहुव्रीहौ तु उत्तरपदे स्वार्थलाभः, बोध्यवाक्यार्थगौरवम् पदद्वयलक्षणा, इन्द्रानैन्द्र-प्रदानानाम् एकसोमयागप्रधानकत्वात्, प्रकृतिविकृतिभावप्रयोजकयोः कृत्स्नसन्निपाताङ्गोपदेशवत्वधर्मसाकाङ्क्षत्वयोः तुल्यतया तत्र ऐन्द्राणाम् प्रकृतित्वम् अन्येषाम् विकृतित्वम् इत्यत्र नियामकाभावः इत्यादि पूर्वपक्षयुक्तिः ।
सिद्धान्तस्तु भक्षपेजकायाम् ऐन्द्राग्नाधिकरणे देवतायाः पात्रत्वम् न सम्भवति, किन्तु उद्देश्यत्वमेव इति स्थापितम्, फलदेवतयोश्च इति नावमिकाधिकरणेऽपि तद्दृडीकृतम् । एवञ्च प्रकृते पीतपदस्य दत्तलाक्षणिकतया तत्पुरुषेऽपि उत्तरपदलक्षणाया अविशेषाद्बहुव्रीहिपक्षे उत्तरपदे स्वार्थलाभ: बोध्यवाक्यार्थगौरवम् पदद्वयलक्षणा चेति दूषण-त्रयमलग्नकम् । न चैवमपि विनिगमनाविरहः । किञ्च बहुव्रीहावपि दत्तलक्षणावश्यम्भावेन अन्यपदार्थलक्षणायाम् लक्षितलक्षणाप्रसङ्गः इति वाच्यम् । लक्षितलक्षणायाः तत्पुरुषपक्षेऽपि तुल्यत्वात् । तथा हि *सोमदेवते मतिविदः* इत्यत्र सोमेति सम्बुद्धिश्रुत्या, देवेति सम्बुद्धिश्रुत्या ते इति युष्मत्प्रकृतिश्रुत्या च उपात्तस्य आभिमुख्यस्य पुरोवृत्ति हुतशेष-वृत्तित्वेन तद्विशिष्टवेषेण हुतशेषस्य दत्तान्वयासम्भवेन समुदितवेषेण दत्तस्य भक्षणरूपविधेयान्वयासम्भवेन च तदुभयोपलक्षितस्य तस्य तदुभयान्वये प्रथमश्रुतपदत्रयास्वारस्य प्रसङ्गेन पीतपदस्य दत्तैकदेश-लाक्षणिकत्वम् तत्पुरुषेऽपि आवश्यकम् हुताहुतसमुदायस्यैव इन्द्राय दत्तत्वेन तत्तत्समुदायत्वस्यैव दानान्वयितावच्छेदकत्वात् समुदायपर्याप्त-दानस्य पीतपदलक्ष्यतावच्छेदकस्य भक्षणान्वयितावच्छेदकत्वा-सम्भवाच्च । एवञ्च बहुव्रीहौ पीतपदस्य दत्तलक्षणया इन्द्रपीतपदद्वयस्य इन्द्राय दत्तस्सोमो यस्मिन् इत्येवम् इन्द्रपदार्थोद्देश्यकदानविषयसोमरूप-पीतपदार्थविशिष्टसवनरूपान्यपदार्थे लक्षितलक्षणया च इन्द्राय दत्त इति विग्रहवाक्यैकेदेशेन वाक्यविधयैक- पदार्थविशिष्टापरपदार्थोपस्थितिम् आदाय महावाक्यार्थबोधसम्भवेऽपि तत्पुरुषे पीतपदस्य दत्तलक्षणाम् विना इन्द्राय पीत इति पूर्वपदार्थ-विशिष्टापरपदार्थोपस्थित्यसम्भवेन दत्तलक्षणया विशिष्टार्थोपस्थितौ इन्द्राय दत्तत्वस्य अभिमुखसोमेनान्वयेन भक्षणक्रियाकर्मत्वस्य इन्द्राय दत्तेनान्वयेन च लाक्षणिकेन पीतपदेन विभक्त्यर्थलाक्षणिकेन्द्रपदसहितेन इन्द्रदेवतोद्देशेन दत्तस्य उपस्थितौ पुनः लाक्षणिकपदद्वयेन इन्द्राय दत्तैकदेशस्य आभिमुख्य भक्षणक्रियान्वययोग्यस्योपस्थितौ महावाक्यार्थ- बोधस्य वक्तव्यतया लक्षणात्रयकल्पनापत्तिः इति प्रकृते तत्पुरुषम् विहाय बहुव्रीहिस्वीकारे विनिगमकस्य जागरूकत्वात् न आद्यदोषोपि इत्यादि ।
अत्र च तत्पुरुषे लक्षणात्रयाङ्गीकारप्रयुक्तगौरवात् बहुव्रीहिः आश्रितः । शास्त्रदीपिकायाम् च प्रकारान्तरेणापि तदधिकरणशरीरम् प्रदर्शितम् । इदञ्च तत्र सिद्धान्तसूत्रम् – *सर्वेषाम् त्वैकमन्त्र्यमैतिशायनस्य भक्ति-पानत्वात् सवनाधिकारो हि*(पू.मी.सू.३-२-१९-४३) ॥ स्थितादुत्तरम् यदि तत्पुरुषोऽयम् स्यात्, स्यादनैन्द्रेष्वमन्त्रकम् । भक्षणम् लक्षणादोषात् नायम् तत्पुरुषो मतः । तत्पुरुषत्वे हि सम्बुद्ध्यन्तेन सोमशब्देन, ते, इति प्रत्यक्षविषयेण युष्मच्छब्देन च निर्दिष्टस्य हुतशिष्टस्य पात्रस्थस्य सोमस्य भक्षणार्थम् उद्धृतस्य इन्द्रपीतशब्द इन्द्राय दत्तस्येत्येवम् विशेषणम् स्यात् । न च असौ इन्द्राय दत्तः पूर्वसङ्कल्पितो हि हुताहुत-समुदायः तस्मै दत्तः तदवयवस्त्वयम् उपचारादेव अभिधीयते । न च असौ अयुक्तः । तस्माद्बहुव्रीहिः । इन्द्रेण यस्मिन्सवने पीतस्सोमः तस्य सवनस्य सम्बन्धी यः सोमः तस्य भक्षयामि इति । सर्वे च सोमा एवम् विधसवनसम्बन्धिनः इति सर्वेषाम् यथाम्नातमन्त्रकम् भक्षणमिति । व्याख्यातम् च, इदम् सोमनाथेन *सर्वेषाम् चैकमन्त्र्यम्’ अधिकरणस्य बह्वन्तराचिन्तामिश्रत्वात् सिद्धान्तस्य सुखप्रतिपत्त्यर्थम् सिद्धान्तसूत्रम् इह पठितम्, लक्षणादोषम् विशदयति, तत्पुरुषत्व इति । तत्पुरुषपक्षे वसुमद्गणस्य सोमदेवत इति सम्बुद्ध्यन्तेन षष्ठ्यन्तयुष्मच्छशब्देन च निर्दिष्टो यो भक्षणार्थमास्यसमीपम् प्रत्युद्धृतो हुतशेषः तस्यायम् विशेषणम् स्यादित्यर्थः । न च असौ इति । न च बहुव्रीहेरन्यपदार्थ-लक्षणत्वात् तत्रापि लक्षणादोषस्तुल्य इति वाच्यम् । अरुणाधिकरण-वार्तिके बहुव्रीहे: अन्यपदार्थे शक्तिरेव न लक्षणेति व्यवस्थापि तत्वादिति भावः । तस्मादिति । उत्तरपदार्थप्रधानस्य तत्पुरुषस्य असम्भवात् अन्यपदार्थप्रधानतया जघन्योऽपि बहुव्रीहिरेव स्वीकार्य इति भावः* इति । अत्र लक्षणासामान्यस्य दोष एव प्रतिपादितः । न तु साम्प्रतिक-लक्षणायाः इति स्फुटमेव प्रतीयते । विस्तरस्तु गुरुभावप्रकाशिकादौ द्रष्टव्यः । इत्थम् च लक्षणापक्षस्य दूषिततया रूपकसमासपक्ष एव आचार्याभिमतः ।
ननु रूपकप्रकरणात् सुधाशब्दलक्षणाभयाञ्च इति हेतुद्वयमध्ये सुधाशब्दलक्षणाभयात् इति हेतुः तत्पुरुष – समासानङ्गीकारार्थः । रूपकप्रकरणादिति हेतुः उपमित समासानङ्गीकारार्थः । रूपक-प्रकरणादित्यस्य उपमाप्रकरणात् इत्यर्थः । रूपकशब्दस्य उपमा-लङ्कारपरतायाः आलङ्कारिकैः अङ्गीकृतत्वात् । तदुक्तम् अलङ्कार-सर्वस्वे – *उपमैव तिरोभूतभेदा रूपकम् उच्यते* इति । सरस्वती-कण्ठाभरणे च,
*यदा उपमानशब्दानाम् गौणवृत्तिव्यपाश्रयात् ।
उपमेये भवेद्वृत्तिः तदा तद्रूपकम् विदुः* ॥ इति ।
साहित्यदर्पणे च – *रूपकम् रूपितारोपाद्विषये निरपह्नवे । यत्र तु रूप्यरूपकयोस्सादृश्यमस्फुटम् इति च । किञ्च समस्तरूपकस्थले सर्वत्र उपमितसमासस्यैव आलङ्कारिकैः अङ्गीकारात् । तत्र उपमालङ्कार एव युक्तः । तदुक्तम् अलङ्कारसूत्रवृत्तौ – *मुखचन्द्रादीनाम् तु उपमा समानात् । न चन्द्रादीना । रूपकत्वम् युक्तम्* इति ।
अत एव तत्पुरुषपक्षे केचिदित्यस्वरस । सूचयित्वा उपमितसमास-पक्षे; आद्रियन्ते इत्यनुगृहीतम् । इत्थञ्च वचस्सुधा इत्यादौ उपमित-समासाङ्गीकार एव उचित इति चेत्, मैवम्, बुहुषु अलङ्कारग्रन्थेषु अभेदप्रधाने रूपकालङ्कारे प्रसिद्धस्य रूपकपदस्य कतिपयग्रन्था-वलम्बनेन उपमापरत्वाङ्गीकारो बहुग्रन्थविरोधात् अनादरणीय एव । *भूयसाम् स्याद् बलीयस्त्वम्* इति न्यायेन अल्पतरग्रन्थविरोधस्य अकिञ्चित्करत्वात् । उदाहृतसरस्वतीकण्ठाभरणोक्तकारिकायाम् – *उपमैका शैलूषी सम्प्राप्ता चित्रभूमिकाभेदान् रञ्जयति काव्यरङ्गे नृत्यन्ति तद्विदाञ्चेतः ॥ इति न्यायेन, भेदाकरम्बितसादृश्यस्य रूपकत्वप्रतिपादनेऽपि न तथाविधसादृश्यम् उपमालङ्कारः । तस्य भेदप्रधानत्वात् । अयमेव अर्थस्साहित्यदर्पणादौ स्पष्टतया उक्तः – *रूप्यरूपकयोः सादृश्यमस्फुटम्* इति । समासस्थले च रूपकालङ्कारः काव्यप्रकाशादौ प्रतिपाद्यते । तथाहि – दशमोल्लासे – *स्पष्टोल्लसत्किरणकेसरसूर्यबिम्ब-
विस्तीर्णकर्णिकमथो दिवसारविन्दम् ।
श्लिष्टाष्टदिग्धळकलापमुषावतार-
बद्धान्धकारमधुपावळि सञ्चुकोच* । इति ।
अत्र अरविन्द एव प्रसिद्धस्य सङ्कोचविशेषस्य प्रतिपादनाद्रूपकसमास एव अङ्गीकरणीयः । काव्यचन्द्रिकायामपि –
*अभेदो भासते यस्मिन् उपमानोपमेयेयोः ।
रूपकम् कथ्यते सद्भिरलङ्कारोत्तमम् यथा* ॥ इति रूपकलक्षणमुक्त्वा,
*तन्वि युष्मन्मुखाम्भोजम् लोलालकमधुव्रतम् ।
न कस्य हरते चेतो लसद्धशनकेसरम्* ॥ इति समस्तमेवोदाहरणम् प्रदर्शितम् ।
वैय्याकरणमञ्जूषायामपि, मुखचन्द्र इति समासस्थले रूपकसमास-मङ्गीकृत्य रूपकालङ्कार एव अङ्गीकृतः । अयञ्च तद्ग्रन्थः । *मुख-चन्द्र इत्यादावपि मयूरव्यम्सकादिसमास एव । तस्य पूर्वपदार्थप्रधान-त्वात् चन्द्ररूपकव्यवहारः परवल्लिङ्गतापि । तत एवेति – न च *उपमैव तिरोभूतभेदा रूपकम् उच्यते* इति कारिकया रूपकस्य उपमान्तर्भावप्रतिपादनात् रूपकमपि उपमाप्रभेद एवेति वाच्यम् । रूपकस्य सादृश्यमूलकत्वेऽपि उपमाप्रभेदत्वासम्भवात् । सादृश्यस्य यत्र शक्तिनिरूढलक्षणान्यतरप्रतिपाद्यत्वम्; तत्र उपमा । यत्र तु सादृश्यस्य वृत्त्यन्तरप्रतिपाद्यत्वम् तत्र रूपकादिरलङ्कार इत्यालङ्कारिकसिद्धान्तात् । रूपकस्थले च सादृश्यम् व्यङ्ग्यमेव इति कथम् तत्रोपमाप्रसक्तिः ।
किञ्च समासस्थले रूपकालङ्कारासम्भवम् मन्वानेन खलु रूपक-पदस्य; रूपकम् रूपितारोपादिति साहित्यदर्पणे उदाहृतकारिकोदाहरण-पूर्वकम् उपमापरत्वम् साधितम् । तस्मिन्नेव ग्रन्थे समासस्थले रूपकस्य, बहुधा प्रपञ्चितत्वात् तत्साधनमपि विपरीतफलमेव । अयञ्च तद्ग्रन्थः ।
*रावणावग्रहक्लान्तमिति वागमृतेन सः ।
अभिवृष्यमरुत्सस्यम् कृष्णमेघस्तिरोदधे ॥
अत्र कृष्णस्य मेघत्वारोपे वागादीनाम् अमृतत्वात् आरोपितत्त्वम् । राज-नारायणम् लक्ष्मीस्त्वामालिङ्गति निर्भरम् इत्यादि । तत्रैव उपमानमात्रे स्वरसतयाऽन्वययोग्यविशेषणसत्त्वे रूपकम् उपमेये तत्सत्वे उपमा इति स्पष्टमुक्तम् । इत्थम् च समासस्थलेऽपि रूपकालङ्कारस्य अनेकालङ्का-रिक – सम्मततया कस्यचिद्ग्रन्थकृतो विपरीतलेखनम् इत्यादिवत् समासस्थले उपमालङ्कारपक्षो निर्युक्तिक एव । ननु रूपकालङ्कारस्थले उपमानपदार्थस्य उपमेये; अभेदेन अन्वयानुपपत्त्या लक्षणावश्यकीति न तत्र सादृश्यस्य व्यङ्ग्यता । तथा च उपमितसमासाविशेषात् रूपक-स्यापि उक्तदोषो दुर्वार एवेति चेन्न, रूपकस्थले लक्षणाम् विनैव उपमानो- पमेययोः अभेदभानस्य समभिव्याहारबलादेव सम्भवात् न, तत्र लक्षणा-सम्भवः । तदुक्तम् रसगङ्गाधरे रूपकप्रकरणे – *नामार्थयोः अभेद-सम्सर्गेण अन्वयस्य व्युत्पत्तिसिद्धत्वात् चन्द्राभिन्नम् मुखम् इति लक्षणाम् विनैव बोध: । फलस्य अन्यथैव उपपत्तेः लक्षणाकल्पनस्य अन्याय्यत्वादि*ति ।
न च रूपकस्थल इव उपमितसमासेऽपि समभिव्याहारादेव उपमाना-भेदबोध उपपद्यत इति वाच्यम् । उपमालङ्कारस्य भेदप्रधानतया तत्र तथाविधाभेदभानस्य आलङ्कारिकैः अनङ्गीकारात् । रूपकस्य अभेद-प्रधानतया तत्समभिव्याहारस्य तथाविधभेदभानौपयिकत्वस्य आवश्य-कत्वाच्च । तदुक्तम् रसगङ्गाधरे रूपकप्रकरणे –
*सुविमलमौक्तिकतारे धवलाम्शुकचन्द्रिकाचमत्कारे ।
वदनपरिपूर्णचन्द्रे सुन्दरि राकासि नात्र सन्देहः ॥
इति श्लोकव्याख्यानावसरे, *सोऽयमभेदो यत्रानुयोगित्वम् मुखः तत्र रूपकस्य विधेयता । यत्र च प्रतियोगित्वमुखः तत्रानुवाद्यत्वमिति दिक्* इति ।
अत्र च रूपकस्य अभेदप्राधान्यम् प्रतिपादितम् । काव्यप्रकाशे च *साधर्म्यमुपमा भेदे* इत्युपमालङ्कारस्य भेदप्राधान्यम् उक्त्वा, *तद्रूपकमभेदो यः उपमानोपमेययोः* इति रूपकस्य अभेदप्राधान्यम् उपवर्णितम् । इत्थम् च वचस्सुधा इत्यत्र उपमितिसमासाङ्गीकारे सुधाशब्दस्य लक्षणायाः आवश्यकत्वेन तत्पुरुषपक्षोक्तदूषणस्य अत्रापि सम्भवेन न तत्पक्षे नैर्भर्यमाचार्याणामिति प्रतीयते ।
किञ्च वचस्सुधाम् इत्यत्र उपमितसमास एव न सम्भवति । दुग्धाब्धिमध्योद्धृतत्वनिजाक्षरानीतत्त्वादि सामान्यधर्मप्रयोगवत्त्वात् । *उपमितम् व्याघ्रादिभिः सामान्याप्रयोगे*(पा.सू.२-१-५६) इति सूत्रे सामान्यधर्माप्रयोगस्थले एव तत्समासस्वीकारात् । न च सामान्या-प्रयोग इत्यस्य विवक्षितसामान्याप्रयोग इत्येवार्थः । अत एव कैय्यटेन *भाष्याब्धिः क्वातिगम्भीरः* इत्यत्र गाम्भीर्यादिधर्मसद्भावेऽपि उपमित-समास आदृत इति; अत्रापि विवक्षितभोग्यत्वरूपसामान्यधर्मस्य अप्रयुक्त-त्वात् उपमितसमास उपपद्यते एवेति वाच्यम् । *भाष्याब्धिः क्वाति-गम्भीरः* इत्यत्र शेखरकृता रूपकसमासस्यैव अङ्गीकारात् । अयञ्च तद्ग्रन्थः *भाष्याब्धिः क्वातिगम्भीरः इत्यत्र सामान्यधर्मप्रयोगेऽपि लिङ्गभेदेऽपि मयूरव्यम्सकादित्वात् सिद्धम् । न च, राजान्तरम् इत्यादौ पूर्वपदार्थप्रधानोऽपि दृष्टः । परवल्लिङ्गतापि तत्पाठेनैव विशेषणसमासे तु न सिद्धिः । उपमानस्य विशेषणतया पूर्वनिपातापत्तेः । एवञ्च भाष्याब्धिः इत्यादौ रूपकमेव ।
यत्तु; अनुपात्तधर्मेण साम्यविवक्षणात् अनेन समास इति । तन्न, एतदुपादानवैय्यर्थ्यापत्तेः । उपात्तधर्मसत्त्वे तेनैव साम्यप्रतीतेः अनुभवात् । *सकलकलः पुरचन्द्रो राजते* इत्यादौ उपात्तधर्मातिरिक्तधर्मस्य साम्य-प्रयोजकस्य अभावाच्च इति दिक् इति ।
ननु उपात्तधर्मसत्त्वे तेनैव साम्यप्रतीतेः अनुभवसिद्धत्वात् सकलकलः पुरचन्द्रो, राजत इत्यादौ, उपात्तधर्मातिरिक्तधर्मस्य साम्यप्रयोजकस्य अभावादिति । शेखरकृता यदुक्तम् तत् –
*परिपन्थिमनोराज्यशतैरपि दुराक्रमः ।
साम्पराये प्रवृत्तोऽसौ राजते राजकुञ्जरः* ॥
इति काव्यप्रकाशोदाहृतधर्मवाचकलुप्तोदाहरणेन विरुद्ध्यते । तत्र राजत इति सामान्यधर्मप्रयोगसत्त्वेऽपि उपमितसमासाङ्गीकारात्, इति चेत्, मैवम् । राजते राजकुञ्जर इत्यादौ समभिव्याहृतपरिपन्थिमनोराज्य-शतदुराक्रमत्वादिविशेषणानाम् उत्तरपदार्थे कुञ्जरेऽन्वयायोगात् रूपक-समासानुपपत्त्या उपमितसमासस्यैव अवश्यम् अङ्गीकरणीयतया उपात्तधर्मे विवक्षाऽसम्भवेन अनुपात्तधर्मेऽपेक्षा । उक्तम् च काव्यप्रकाश-टीकायाम् –
*दुराक्रमत्वम् तु न साधारणम् । परिपन्थिमनोराज्यशतैरपि दुराक्रम-त्वस्य कुञ्जरेऽभावात् । यद्यपि राजत इति साधारणधर्म उपात्त एवास्ति । उपात्तधर्मसत्त्वे तेनैव साम्ये प्रतीतेः अनुभवसिद्धत्वम् । तथापि उपमितम् व्याघ्रादिभिः इति समासस्य साधारणधर्माप्रयोग एव प्रवृत्तिसत्त्वेन सः अविवक्षित इति बोध्यम् । अत्र राजैव कुञ्जरः इति रूपकम् तु न । मनोराज्यशतैः इत्यादेः अनन्वयात्* इति ।
एवञ्च यत्र समभिव्याहृतविशेषणानाम् उत्तरपदार्थेऽन्वययोग्यता तत्र रूपकम् । यत्र तु न तत्र उपमित समास इति प्रतीयते । शेखरकारा-दीनामपि अयमेव अभिप्राय इति गम्यते । प्रकृते निजाक्षरानीत-त्त्वादीनाम् उत्तरपदार्थेऽन्वययोग्यतासत्त्वात् न रूपकसमासानुपपत्तिः ।
न च उपमितसमासप्रदर्शनान्तरम् सुधाशब्देन भोग्यत्वम् अभिप्रेत-मित्यनुगृहीततया भोग्यत्वरूपसामान्यधर्माप्रयोगात् उपमितसमास एव सम्भवतीति स्पष्टतया प्रतीयते इति वाच्यम् । सुधाशब्दस्यैव अत्र उपमानवाचकतया तस्य साधारणधर्मप्रतिपादकत्वासम्भवात् । पुरुषो व्याघ्र इव शूरः इत्यादि उपमानोपमेयभावस्थले उपमानपदातिरिक्त-पदेनैव साधारणधर्मप्रतिपादनदर्शनात् । सुधारशब्देनैव सामान्यधर्मस्यापि प्रतिपादनाङ्गीकारे सामान्यधर्मप्रयोगसत्त्वात् कथम् उपमितसमास-सम्भवः?
सुधाशब्देन भोग्यत्वम् अभिप्रेतम् इति वाक्यस्य अयमभिप्रायः । रूपकालङ्कारप्रतिनियताभेदान्वयप्रयोजकम् भोग्यत्वमिह विवक्षितम् । यथा मरणादिक्लेशनिवर्तकत्वेन स्वादुतमतया च सुधायाः सुमनसाम् भोग्यत्वम्, तथैव समस्तसाम्सारिकदुःखनिवर्तनपूर्वकम् निरतिशया-नन्दजननेन शारीरकमीमाम्सारूपवचः प्रतिपादितार्थस्य अपरिच्छिन्न-गुणविग्रह्मविभूतिविशिष्टस्य परमपुरुषस्य भगवतो नारायणस्य निरतिशयम् भोग्यत्वमस्त्येव इत्युभयोरभेदेन प्रतिपादनौपयिकरूपक-समासः उपपद्यते इति सूचयितुम् तथा निर्देश इति । भगवतो अपरिच्छिन्नानन्दरूपत्वम् सूत्रभाष्यादौ बहुशः प्रपञ्चितम् । *तत्तु समन्वयात्*(ब्र.सू.१-१-४) *आनन्दमयोऽभ्यासात्*(ब्र.सु.१-१-१३) इत्यादौ । किञ्च, तथाविधार्थप्रतिपादकस्य वचसोऽपि –
*क्व नाकपृष्टगमनम् पुनरावृत्तिलक्षणम् ।
क्व जपो वासुदेवेति मुक्तिबीजमनुत्तमम्* ॥
*सन्तोषार्थम् विमृशति मुहुस्सद्भिराध्यात्मविद्याम् ।
इत्यादिना स्वयम् भोग्यत्वम् प्रतिपादितमिति न काप्यनुपपत्तिः । अत एव आचार्यैः तत्त्वटीकायाम् – वचस्यर्थे च सुधात्वारोपणम् समर्थितम् । इत्थञ्च वचस्सुधा इत्यत्र रूपकसमास एव आचार्याणाम् अभिमतः ।
ननु समस्तरूपकस्थले उपमितसमासाङ्गीकारेऽपि न रूपकालङ्कार-विरोधः । तदुक्तम् सरस्वतीकण्ठाभरणे –
*यदोपमानशब्दानाम् गौणवृत्तिव्यपाश्रयात् ।
उपमेये भवेद्वृत्तिः तदा तद्रूपकम् विदुः* ॥
इति लक्षणम् उक्त्वा तच्च त्रेधा विभज्य –
*पाणिपद्मानि भूपानाम् सङ्कोचयितुमीशते ।
त्वत्पादनखचन्द्राणाम् अर्चिषः कुन्दनिर्मलाः* ॥
अत्र *उपमितम् व्याघ्रादिभिः सामान्याप्रयोगे(पा.सू.२-१-५६) इति समासे पद्मानीव पद्मानि, चन्द्रा इव चन्द्राः इत्यभेदोपचारेण उत्पन्न-सादृश्यात् पाणीनाम् नखानाम् च पद्मचन्द्रादिभिः अभिधाने सामान्ये इवादिशब्दाप्रयोगात् उपमानार्थ: तिरोभूत इति सोऽयम् गौणशब्द-व्यपाश्रयसमासहेतुकः समस्तरूपकम् नाम प्रकृतरूपकेषु शब्दभूयिष्ठ-रूपकभेदः* इति ।
तथा च वचस्सुधा इत्यत्र उपमितसमासाङ्गीकारेऽपि रूपकालङ्कार-सम्भवात् तनादरेण समासान्तराङ्गीकारो निर्युक्तिक एवेति चेन्न –
*राजनारायणम् लक्ष्मीः* *रात्रिकापालिकी* पायम् पायम् वचस्सुधाम्* इत्यादौ समभिव्याहृतविशेषणान्वयसौकर्यार्थम् उत्तरपदार्थप्रधानसमासस्यैव सर्वैः अङ्गीकरणीयतया समस्त रूपकस्थले मयूरव्यम्सकादिसमासस्यैव बहुभिः अलङ्कारिकैः अङ्गी-कृतत्वात् । उपमेये उपमानाभेदभानस्य समभिव्याहारबलादेव लाभसम्भवात्, आलङ्कारिकैकदेशिमतावलम्बनेन वचस्सुधा इत्यत्र उपमितसमासनिर्वाहस्सुतराम् अनुपपन्न एव ।
अपि च, मुखचन्द्र इत्यादौ, उपमितसमासमङ्गीकृत्य रूपकालङ्कार-समर्थनमपि दुश्शकम् । उपमितसमासस्थले भेदघटितसादृश्यस्य पूर्व-पदार्थप्राधान्यस्य च आलङ्कारिकैः अङ्गीकृततया समभिव्याहृत-विशेषणान्वयस्य अभेदप्रतीतेश्च अनुपपत्तिः दुर्वारैव । तदुक्तम् रसगङ्गाधरे –
*ननु रूपकप्रतीतेः उपमानाभेदविषयत्वविरहे सिम्हेन सदृशो नायम् किन्तु सिम्हो नराधिपः* इत्यादो निषेध्यविधेययोः असङ्गतिरिति चेन्न । अनुपदमेव प्राचीनमतद्वयेपि रूपके ताद्रूप्यप्रतीतेः स्वीकारस्य प्रतिपादनात् । अथ विधेयकोटौ प्राचाम् मते सादृश्यस्याप्रविष्टतया तन्निषेधानुपपत्तिः तथापि स्थितैव इति चेत्, भेदघटितसादृश्यरूपायाः उपमायाः एव निषेध्यत्वात्, तिरोभूतभेदसादृश्यलक्षणस्य रूपकस्य विधेयत्वाञ्च न अनुपपत्तिः ।
यदप्युक्तम् – रूपके लक्षणा स्वीकारे *राजनारायणम्* इत्यत्र *पादाम्बुजम्* इत्यत्र च उपमारूपकयोः बाधकतया रूपकोपमयोः निर्णायकतया च लक्ष्मीकर्तृकालिङ्गनमञ्जुशिञ्जितत्वयोः अनुपपत्तिः प्राचीनैः उक्ता विरुद्धा स्यात् इत्यादि । तदपि न । रूपके उपमान-तावच्छेदकरूपेण तत्सदृशप्रत्ययस्य उपपादितत्वेन राजनारायणम् इत्यादौ विशेषणसमासायत्तस्य रूपकस्य स्वीकारे प्रधानीभूतोत्तरपदार्थस्य नारायणसदृशस्यापि नारायणत्वेनैव प्रतीते: लक्ष्मीकर्तृकालिङ्गनकर्म-ताया अनुपपत्तेः अभावात् । उपमायाः उपमितसमासायत्तायाः स्वीकारे तु प्रधानीभूतपूर्वपदार्थस्य राज्ञो राजत्वेनैव प्रत्ययात् तादृशकर्मताया: अनुपपत्तेः । पादाम्बुजम् इत्यादावपि रूपकस्य स्वीकारे प्रधानीभूतोत्तर-पदार्थस्य अम्बुज सदृशस्य अम्बुजत्वेनैव प्रतीतेः मञ्जु – मञ्जीर – शिञ्जित मनोहारतायाः अनुपपत्तेः । उपमितसमासायत्तोपमायाम् तु प्रधानस्य पादस्य पादत्वेनैव प्रतीतस्य नास्ति तस्याऽनुपपत्तिरिति न कोऽपि दोषः इति । इत्थम् च सुधेव वचः इत्युपमितसमासाङ्गीकारे पूर्वपदार्थप्रधानतया समभिव्याहृतसुमनःकर्तृकपानकर्मत्वादिरूपवत् अर्थान्वयानुपपत्तिः । भेदघटितसादृश्यस्यैव तत्र प्रतीत्या, अभेदप्रत्य-यानुपपत्तिश्चेत् इत्यादि दूषणम् दुर्वारमेव ।
न च उपमित समासाङ्गीकारपक्षे शक्त्या लक्षणया वा भेदघटित-सादृश्यस्य भानेऽपि व्यञ्जनया भेदप्रतिपत्तिः सम्भवति । वैयञ्जनिक-बोधस्य बाधबुद्ध्यप्रतिबद्ध्यत्वात् । तदुक्तम् रसगङ्गाधरे लक्षणा-प्रकरणे *श्लेषस्थल इव अत्रापि एकशब्दोपादानोत्थस्य व्यञ्जनस्य उपायत्वात् वैयञ्जनिकबोधस्य बाधबुद्ध्यप्रतिबध्यत्वाञ्चे*ति इति* वाच्यम् । तथा सति तद्रूपकमभेदो य उपमानोपमेययोः इत्यभेदात्म-कोक्तलक्षणाक्रान्तस्य रूपकालङ्कारस्य व्यङ्ग्यत्वे वाच्यालङ्कारमध्ये तस्य परिगणनानौचित्यापत्तेः ।
न चैवम् व्युत्पत्तिवादे भट्टाचार्यै: मुखम् चन्द्रः इत्यादि रूपकस्थले चन्द्रपदस्य चन्द्रसदृशे लक्षणामङ्गीकृत्य चन्द्र सदृशाभेदबोधस्य प्रतिपादनात् समस्तरूपकस्थलेऽपि चन्द्रपदस्य लक्षणाङ्गीकारावश्य-कतया उपमितसमासपक्ष एव प्रकृते उचित इति वाच्यम् । रूपकस्थले लक्षणाङ्गीकारपक्षे निर्वाहम् प्रदर्श्य लक्षणाम् विनापि निर्वाहक्रमस्य तैरेव परे तु इत्यादिना प्रदर्शिततया लक्षणाम् विनापि तत्र निर्वाह-सम्भवात् । अयञ्च – तद्ग्रन्थः –
*परे तु तादात्म्यातिरिक्तसम्बन्धेन नामार्थयोः न अन्वयबोधः । तादात्म्यम् च प्रकृते तद्वृत्तिधर्मवत्त्वम् । एवञ्च नीलो घटः इत्यादौ स्ववृत्तिनीलत्वादिमत्त्वसम्बन्धेन घटाद्यम्शे नीलपदार्थस्येव, मुखचन्द्र इत्यादौ स्ववृत्याह्लादकत्वादि सम्बन्धेन मुखादौ चन्द्रादेः अन्वयबोधः । तादृशान्वयबोधेऽपि समानविभक्तिकत्वम् तन्त्रम् इत्यतो नातिप्रसङ्ग इति वदन्ति इति* । इत्थञ्च आलङ्कारिकमते लक्षणाम् विनापि रूपक स्थले उपमितसमासमङ्गीकृत्य तत्र लक्षणाङ्गीकारप्रयासो निष्प्रयोजनक एव । एवञ्च मुखचन्द्रयोः आह्लादकत्वादिरूप तादात्म्यवत् वचस्सुध-योरपि भोग्यत्वविशेषरूपतादात्म्यसम्भवात् लक्षणाम् विनैव तत्र परस्परान्वयबोधसम्भवेन सुधाशब्दलक्षणाङ्गीकारपक्षे स्वाभिमतिः नास्तीति सुचयितुमेव आचार्यैः सुधाशब्देन भोग्यत्वमभिप्रेतम् इत्यनुगृहीतम् ।
न च रूपकस्थले आलङ्कारिकैरपि बहुभिः लक्षणायाः अङ्गीकृततया रूपकसमासपक्षेऽपि लक्षणाङ्गीकारप्रयुक्तदोषो दुर्वार एवेति वाच्यम् । रूपकस्थलीयलक्षणातः उपमितस्थलीयलक्षणायाः वैलक्षण्यसद्भावात् । तथाहि – रूपकस्थले आलङ्कारिकैः सारोपलक्षणाङ्गीक्रियते । तादृश-लक्षणाधीनसादृश्यम् तु भेदाघटितम् । उपमितसमासस्थले च इवादि शब्दप्रतिपाद्यभेदघटितसादृश्यविशिष्टे लक्षणाङ्गीक्रियते । तथा च उपमितसमासस्थलीयशाब्दबुद्धौ भेदघटितसादृश्योपस्थितेः कारणत्वम् । रूपकस्थले च तदघटितसादृश्योपस्थितेः कारणत्वमिति कार्यकारणभाववैलक्षण्येन भेदघटितसादृश्य प्रयोजकोपमित-समासपक्षी नादृतः । तदुक्तम् रसगङ्गाधरे लक्षणाप्रकरणे –
*अपरे तु भेदकरम्बितसादृश्यमुपमाजीवातुभूतम् । भेदाकरम्बितम् च गौणसारोपलक्षणायः इति स्फुटे भेदे कृतम् फलकृतवैलक्षण्यपर्यन्तानुधावनेन । पक्षेऽस्मिन् भेदगर्भसादृश्यप्रतिपत्तेः ताद्रूप्यप्रतीतिः कथम् नाम फलम् भवितुमीष्टे? इत्यनुपपत्तिम् परिहर्तुमायासोऽपि न अवतरति इत्यपरमनुकूलम् इत्यप्याहुः* इत्यारभ्य *उपमितसमासस्य भेदघटितसादृश्यविशिष्टोपमेये शक्तेः तद्घटकीभूतोपमानशब्दस्य भेदघटितसादृश्याविशिष्टे निरूढलक्षणाया वा स्वीकाराददोषः* इत्यन्तम् महता प्रबन्धेन* इति ।
अत्र च उपमितसमासस्थले भेदघटितसादृश्यास्यैव समर्थिततया समस्तरूपकस्थले तादृशसमासाङ्गीकारे लक्षणाप्रयोज्यभेदघटित-सादृश्योपस्थितेः कारणात्वाङ्गीकारप्रयुक्तगौरवम् दुर्वारमेव । रूपकस्थले लक्षणाम् विना निर्वाहपक्षस्तु प्रदर्शित पूर्व एव ।
चित्रमीमाम्सायामपि रूपकप्रकरणे लक्षणाम् विनैव तत्र निर्वाहक्रमो विस्तरेण प्रपादितः । अयञ्च तद्ग्रन्थः । *यत्तु सरस्वतीकाण्ठाभरणोक्तम् लक्षणम् –
यदोपमानशब्दानाम् गौणवृत्तिव्यपाश्रयात् ।
उपलक्षमेये भवेद्वृत्तिः तदा तद्रूपकम् विदुः ॥ इति ।
रूपके चन्द्रशब्दस्य मुखे गौणसारोपलक्षणा । चन्द्र इत्यतिशयोक्तौ साध्यवसानलक्षणेत्यालङ्कारिकसिद्धान्तात् ।
वस्तुतस्तु, अतिशयोक्तावेव लक्षणा । न तु रूपके इति शक्यम् व्यवस्थापयितुम् । तथाहि – अतिशयोक्तौ विषयाभिधायिमुखादिपदा-प्रयोगात् चन्द्रादिपदेनैव तत्प्रत्यायनम् कार्यमिति तस्य तत्र लक्षणाऽवश्यमास्थेया । रूपके विषयविषयिणोः स्ववाचकाभिहितयोः अभेदप्रतिपत्तिः सम्सर्गमर्यादयैव सम्भवतीति लक्षणा? किमर्थम् तत्र लक्षणा? इत्यादिना महता ग्रन्थेनेति ।
काव्यादर्शटीकायामपि – *नवीनतरास्तु सादृश्यप्रतीतिपूर्वकत्वमेव । तच्च सादृश्यम् प्रत्यक्षादिप्रमाणान्तरगम्यम, न तु गौणसारोपलक्षणया शब्दप्रमाणगम्यम् तत्र सादृश्यस्य शब्दवेद्यत्वात् । तत्रोपमैव । अत एव आग्नेये –
*उपमानस्य तत्त्वम् यदुपमेये तु रूप्यते ।
गुणानाम् समताम् दृष्ट्वा रूपकम् नाम तद्विदुः । इति ।
अत्र दृष्ट्वा इत्युक्तम् । तस्मात्सादृश्यस्य प्रमाणान्तरवेद्यत्व एव रूपकमिति ।
वृत्तिवार्तिकेऽपि लक्षणाग्रन्थे महता प्रबन्धेन रूपकस्थले लक्षणाभावः प्रतिपादितः । अयञ्च तद्ग्रन्थः –
*तस्मादेतादृशस्थले समभिव्याहारात् अभेदप्रतीत्यभ्युपगमे न कश्चिद्दोष इति व्यर्थो लक्षणोपपादनप्रयासः । न चैवम् विषयविषयिसमानाधिकरणस्थले समभिव्याहारात् अभेदप्रतिपत्तेः वक्तुम् शक्यत्वात् क्वचिदपि सारोपलक्षणा न स्यादिति वाच्यम् । इष्टापत्तेः इत्यादि* ।
ततश्च वचस्सुधा इति रूपके लक्षणाङ्गीकारानावश्यकतया लक्षणाम् विनैव बोधसम्भवात् । लाक्षणिकसमास द्वयमपि आचार्याणाम् अनभिमतमेव ।
न च रूपकाकस्थले लक्षणाविरहस्य आचार्याभिमतत्त्ववचनम् *स्याच्चैकस्य ब्रह्मशब्दवत्* (ब्र.सू.२-३-४) इति सूत्रटीका विरुद्धम् । तत्र हि *तपसा ब्रह्म विजिज्ञासस्व | तपो ब्रह्म (तै.उ.३-२) इत्यादौ ब्रह्मशब्दस्य अमुख्यत्वमेव प्रतिपादितम् । तत्रापि भवदुक्तरीत्या सामानाधिकरण्यबलात् तपसि ब्रह्माभेदारोपसम्भवेन तदुपेक्षाया निर्बीजत्वादिति वाच्यम् । कविसङ्केतसिद्धोपमानोपमेयवाचकपदयोः सामानाधिकरण्यस्यैव अभेदबोधोपयोगितायाः आलङ्कारिकसम्मतत्त्वात् । *तपो ब्रह्म* इत्यादौ तपोब्रह्मणोः उपमानोपमेयभावानङ्गीकारात् तत्र अमुख्यत्वोपपादनम् आचार्याणाम् सङ्गतमेव ।
अत एव भट्टाचार्यैः व्युत्पत्तिवादे परे तु इत्यादिना मुख्यचन्द्रादि-पदानाम् सामानाधिकरण्यमेव तादृशाभेदबोध प्रयोजकमिति दर्शितम् । अतो रूपकप्रकरणे लक्षणानङ्गीकारेऽपि न क्षतिः ।
न च रूपकस्थले उपमानवाचकपदस्य लक्षणानङ्गीकारे विशेष-दर्शिनाम् तादृशवाक्यात् कथम् शाब्दबोधः? योग्यताज्ञानविरहात् । शाब्दबुद्धित्वावच्छिन्नम् प्रतियोग्यताज्ञानकारणतायाः सर्वसम्प्रति-पन्नत्वात् इति वाच्यम् । *स्वारस्यमन्यथाख्यातावख्यातौ लाघवम् मतम्* इत्याचार्यानुगृहीतरीत्या अन्यथाख्यात्यङ्गीकर्तॄणाम् मते दोषविशेषजन्यभ्रमात्मकयोग्यताज्ञानसम्भवेन अत्यन्तसादृश्यज्ञान-रूपदोषबलात् उपमानोपमेययोः अभेदधीः भवति इति नानुपपत्तिः । *यथार्थम् सर्वविज्ञानमिति वेदविदाम् मतम्* इत्यनुगृहीतरीत्या ज्ञान-सामान्यस्य यथार्थत्वमङ्गीकर्तॄणाम् सिद्धान्तिनाम् मते उपमानो-पमेययोः असम्सर्गाग्रहपूर्वकम् तद्वाचकपदोपस्थितयोः चमत्कारौप-यिकसादृश्यप्रयोजकधर्मवत्तारूपतादात्म्यस्य भानसम्भवात् । न तत्र ज्ञानयाथार्थ्यानुपपत्तिगन्धः । किञ्च मुखचन्द्र इत्यादिरूपकस्थले शाब्दबुद्धिम् प्रति योग्यताज्ञानस्य कारणत्वम्, बाधज्ञानस्य शाब्दबोध-विरोधित्वम् च नैय्यायिकैरपि नाङ्गीक्रियते । तथा च उक्तम् मधुरा-नाथेन योग्यतावादे मणिव्याख्याने, *केचित्तु मुखम् चन्द्रः इत्यादि-बाधितार्थकरूपकादौ बाधनिश्चयदशायामपि मुखादौ चन्द्रादेः अभेदान्वय-बोधस्यापि अनुभवसिद्धत्वात् शाब्दबोधे बाधनिश्चयो न प्रतिबन्धक इति सत्यमेव, परन्तु योग्यताज्ञानमपि न हेतुर्मानाभावात्* इत्यादिना *प्राहुरि*त्यन्तेन । इत्थम् च रूपकस्थले योग्यताज्ञानाभावेऽपि शाब्दबोधोदयात् तदर्थम् चन्द्रादिपदे लक्षणाङ्गीकारो निष्प्रयोजनक एव ।
किञ्च मीमाम्सकमते इदम् रजतम् इत्यादिभ्रमस्थले सर्वत्र ज्ञान-द्वयस्य तदीयविषयतयोः निरूप्यनिरूपकभावस्य च अङ्गीकारवत् मुखचन्द्र इत्यादावपि ज्ञानद्वयस्य विषयतयोः निरूप्यनिरूपकभावस्य च अङ्गीकारेण विशिष्टव्यवहारोपपादनस्य ज्ञानयाथार्थ्यस्य च सम्भवात् न कापि अनुपपत्तिरिति । अपि च रूपकस्थले उपमानवाचकपदस्य लक्षणा च अङ्गीकर्तुम् अशक्या । तदुक्तम् चित्रमीमाम्सायाम् रूपकप्रकरणे *मुखम् चन्द्र इत्यादौ लक्षणया मुखे प्रवर्तमानम् चन्द्रपदम् केन निमित्तेन प्रवर्तते? मुखत्वेन वा? मुखासाधारणकान्तिविशेषेण वा? चन्द्रत्वेन वा? चन्द्रासाधारणकान्तिविशेषेण वा? मुखचन्द्रोभयानुगत-कान्तिसामान्येन वा? मुखगतचन्द्रसादृश्येन वा? नाद्यः? मुखपदेन पौनरुक्त्यापपत्तेः । मुखत्वस्य शक्यासम्बन्धित्वेन तेन निमित्तेन लक्षणायोगाञ्च । अत एव न द्वितीयः । न तृतीयचतुर्थौ, *मुखावृत्तिधर्मयोः तत्र प्रवृत्ति – निमित्तत्वायोगात् । न पञ्चमः । कान्तिमान् मुखचन्द्र इत्यत्र कान्तिमत्पदेन पौनरुक्त्यापत्तेः । नापि षष्ठः । सादृश्यस्य शब्दप्रतिपाद्यत्वेन अव्यङ्ग्यतया रूपकस्य उपमा पृथग्भावानुपपत्तेः अभेदप्रधानम् रूपकमिति सिद्धान्तविरोधाच्च । तस्मात् रूपके स्वस्वपदाभिहितयोः विषय-विषयिणोः अभेदप्रतिपत्तिः सम्सर्गमर्यादयेत्येव वक्तव्यम् इत्यादि* । अतश्च रूपकस्थले उपमान-वाचकपदस्य तत्सदृशे लक्षणाङ्गीकारे उपमितसमासवत् – पूर्वपदार्थ-प्रधानतया समभिव्याहृत पदार्थान्वयानुपपत्तिः जागरूकैव इति । तस्माल्लक्षणाम् विनैव रूपकस्थले उक्तरीत्या बोधस्य तस्य याथार्थ्य-स्यापि सम्भवात्, तदर्थम् लक्षणाङ्गीकारस्य आवश्यकत्ववचनम् न विचारसहमेव इति । विस्तरस्तु प्राचीनालङ्कारग्रन्थादौ द्रष्टव्यः ।
इत्थम् च *वचस्सुधाम्* इत्यत्र आचार्यैरेव श्रुतप्रदीपे *अमृतत्व-हेतुत्वात् सुधात्वरूपणम्* इति रूपकसमासस्य कण्ठतः प्रतिपादितत्वात् । तत्र लक्षणाम् विनापि बोधस्यालङ्कारिकसम्मततया उपमितसमासे लक्षणायाः आवश्यकत्वात् भौमाः पिबन्त्वन्वहम् इत्यादिसमभिव्याहृत-विशेषणान्वयस्य उत्तरपदार्थप्रधाने रूपकसमास एव सम्भवाच्च । तत्पुरुषौपमितसमासानादरेण रूपकसमासपक्ष एव आचार्याणाम् अभिमत इति सम्प्रदायपरिशीलितः पन्थाः ।
अथ वचस्सुधा इत्यत्र वचश्शब्दस्य अर्थे तात्पर्यम्, यथा वेदवित् शास्त्रवित् इत्यादिशब्दानाम् अर्थाभिधायकम् हि वाक्यम् इत्यत्र वच-श्शब्दस्यार्थे लक्षणा । वेदादिशब्दानामपि तत्प्रतिपाद्ये लक्षणा । *तदधीते तद्वेद*(पा.सू.४-२-५९) इति सूत्रे तथा प्रतिपादनात् । तथा च समभिव्याहृतपदार्थस्य विशेषणे विशेष्ये च अन्वयसम्भवस्य दृष्टान्त-प्रदर्शनपरतया तत्प्रतिपादनम् न सम्भवति इति चेत्, मैवम् । *तदधीते तद्वेद* इति सूत्रे वेदादिशब्दानाम् लाक्षणिकत्वाप्रतिपादनात् । तथा च तत्सूत्रे महाभाष्यम् – *तदधीते तद्वेद । किमर्थम् इमावुभावप्यर्थौ निर्दिश्येते – न योधीते – वेत्त्यप्यसौ । यश्च वेद अधीतेप्यसौ नैतयोरावश्यकः समावेशः । भवति हि कश्चित्सम्पाठम् पठति, न वेत्ति । तथा कश्चिद्वेत्ति न सम्पाठम् पठति* इति ।
अत्र कैय्यटः – *यो हि यम् ग्रन्थम् अधीते स तम् स्वरूपतोऽवश्यम् वेत्ति । यश्च स्वरूपतो वेत्ति सोऽवश्यम् अधीत इति भावः । नैतयोरिति । अर्थावबोधो वेदनम् अभिप्रेतम्; न तु स्वरूपमात्रवेदनम् । तत्र परस्पर-व्यभिचारात् उभयोपादानम् इत्यर्थः । सम्पाठमिति । अर्थनिरपेक्षम् स्वाध्यायम् पठतीत्यर्थ इति । मञ्जूषायाञ्च वेदवित् इत्यादौ वेदादि-शब्दानाम् लक्षणाभावः स्पष्टम् प्रतिपादितः । अयञ्च तद्ग्रन्थः । *वेदत्वम् तु सति सम्भवे शब्दार्थयोः पर्याप्तम् । स्तोभाक्षरे पदार्था-दर्शनात् सति सम्भव इत्युक्तम् । तत्र पठति इत्यादिसमभिव्याहारे वेदशब्दादुपस्थितयोः शब्दार्थयोः मध्ये शब्दे अर्थो विशेषणम् । क्वचिदर्थे शब्दो विशेषणम् । यथा वेदम् व्याचष्टे इत्यादौ । क्वचिदुभयम् समम् । यथा वेदम् जानाति इत्यादौ । इदमेव अभिप्रेत्य *शब्दार्थो काव्यम्* इति प्रकाशकारैः उक्तमिति* । अत्र जानाति इत्यादौ लक्षणाम् विनैव उभयत्रज्ञानविषयत्वप्रतिपादनात् वेदवित् इत्यादावपि लक्षणापेक्षा नास्त्येव इति तद्वाक्यस्य उभयान्वयदृष्टान्तप्रदर्शनपरत्वम् सङ्गतमेव इति ।
किञ्च, यजुर्वेदभाष्ये – *इष्टप्राप्त्यनिष्टपरिहारयोः अलौकिकमुपायम् यो ग्रन्थो वेदयति स वेदः ।
प्रत्यक्षेणानुमित्या वा यस्तूपायो न बुद्ध्यते ।
एनम् विदन्ति वेदेन तस्माद्वेदस्य वेदता* ॥
इति । वेदस्य अलौकिकार्थावबोधकत्वस्य प्रतिपादनात् न वेदपदस्य तत्प्रतिपाद्ये लक्षणा ।
ननु – वचस्सुधा इत्यत्र वचश्शब्दस्य वचः प्रतिपाद्यत्व विशिष्टेऽर्थे निरूढिलक्षणा । सा च अनादितात्पर्यविषयीभूता । तथा च अनुगृहीतम् आचार्यैः तत्त्वटीकायाम् – *वचश्शब्द लक्षितस्तदर्थ* इति । अतः वचश्शब्दस्य अर्थमात्रपरतया समभिव्याहृतसुधाशब्दस्य उभयान्वया-प्रसक्तेः तदुपपादक – दृष्टान्तप्रदर्शनपरत्वम् उक्तवाक्यस्य नोपपद्यते एवेति चेत्, न । निरूढलक्षणास्थले लाक्षणिकशब्दस्य शक्त्या कुत्रचित् प्रयोगे सिद्धे अन्यत्र योगार्थस्य बाधात्प्रयोग-प्राचुर्यस्य सद्भावाच्च शक्यसम्बन्धिनि लक्षणा शास्त्रज्ञैः अङ्गीक्रियते । तदुक्तक्य रसगङ्गाधरे – *तत्र निरूढलक्षणायाः अनुकूलप्रतिकूला-नुलोमप्रतिलोमलावण्यादयः उदाहरणम् । अयम् अनुकूल इत्यादौ मुख्यार्थस्य कूलानुगतत्वादेः बाधात् अनादिप्रयोगप्रवाहवशादेकवस्तु-प्रवणत्वात्मना कूलानुगतादिरूपशक्यस्य सादृश्येन सम्बन्धेन अनुकूलादिशब्दैः अनुगुणादयो लक्ष्यन्त* इत्यादिना ।
काव्यप्रकाशे च *कर्मणि कुशल इत्यादौ दर्भग्रहणायोगात् गङ्गायाम् घोषः इत्यादौ घोषाद्याधारत्वासम्भवात् मुख्यार्थस्य बाधे विवेचकत्वादौ सामीप्ये च सम्बन्धे इत्यारभ्य, मुख्येनामुख्यार्थो लक्ष्यते* इति । तथा च वचश्शब्दस्य शक्त्या केवलपरत्वाङ्गीकारेऽपि समभव्याहृतसुधा-पदार्थान्वयबोधो न सम्भवति इति न ।
*क्व जपो वासुदेवेति मुक्तिबीजमनुत्तमम्* ॥
*हरेर्नामैव नामैव नामैव मम जीवनम्* ॥
*पुरुषार्थो यमेवैको यत्कथाश्रवणे हरेः* ॥
इत्यादिना भगवद्गुणप्रतिपादकस्य केवलशब्दस्यैव भोग्यताप्रतिपादनात् सुधाशब्दविवक्षितार्थान्वयानुपपत्तेः अनवकाशः सुव्यक्तः । तथा च अनुगृहीतम् आचार्यैः तत्त्वटीकायाम् – *यद्वा सूत्रमेव सुधेति रूपितम् । उपनिषद्विमर्शोत्थन्यायरूपार्थद्वारा आनीतत्वाद्युपपत्तिः* इति । एवञ्च लक्षणामूलभूतमुख्यार्थबाधाद्यसम्भवात् अत्र लक्षणाङ्गीकारो न सम्भव-त्येव । वचश्शब्दस्यार्थे तात्पर्यमित्यस्य को वा अभिप्राय इति चेत्, अर्थाभिधायकम् हि वाक्यमित्यनुगृहीततया वचश्शब्दस्यार्थस्य यथा विशेष्यभूते वचस्यन्वयः तथावाक्यविशेषणेऽर्थेऽपि अन्वयो विवक्षित इति सूचनार्थमेव अर्थ तात्पर्यमित्यनुगृहीतम् । सूचितश्च अयमर्थो नयप्रकाशिकायाम् । *अत्र वचश्शब्दस्यार्थसूत्रपरः । केवलशब्दात्मक-सूत्रगणस्य सुधात्वरूपणानुपपत्तेः । तस्यार्थद्वारा पुरुषार्थहेतुत्वमिति* । अस्य वाक्यस्य अस्मिन्नर्थे तात्पर्यम् इत्युक्ते वाक्यघटकतत्तत्पदाभि-धेयेष्वेव अर्थेषु कस्यचित्तात्पर्यविषयत्वम् प्रायेण प्रतीयते । तथा च उक्तम् काव्यप्रकाशे पञ्चमोल्लासे । *ततश्च अदग्धदहनन्यायेन यावदप्राप्तम् तावद्विधीयते । यथा ऋत्विक्प्रचरणे प्रमाणान्तरात् सिद्धे लोहितोष्णीषा ऋत्विजः प्रचरन्ति इत्यत्र लोहितोष्णीषत्वमात्रम् विधेयम् । हवनस्य अन्यतस्सिद्धेः दध्रा जुहोति इत्यादौ दध्यादेः करणत्वमात्रम् विधेयम् । क्वचिदुभयविधिः त्रिविधिर्वा । ततश्च यदेव विधेयम् तत्रैव तात्पर्यम्; इत्युपात्तस्यैव शब्दस्य अर्थे तात्पर्यम्; न तु प्रतीतमात्रे, इति । व्याख्यातम् च इदम् जयन्तभट्टेन । ततश्च यदेव वस्तु विधेयम् साध्यम् तत्रैव – तस्मिन्नेव वस्तुनि तात्पर्यमिति । उपात्तस्यैव – उक्तस्यैव शब्दस्य सम्बन्धिनि अर्थे – अभिधेये तात्पर्यम् पर्यवसान-मिति । ततश्च शब्दाभिधेय एव तात्पर्यस्य तान्त्रिकैः प्रतिपादिततया वचश्शब्दस्यार्थे तात्पर्यम् इत्युक्तिः विशेषणविशेषयोः द्वयोरपि समभिव्याहृतपदार्थान्वयः सम्भवतीति नानुपपत्तिगन्धः ।
न च वचश्शब्दलक्षितेऽर्थे इति तत्त्वटीकावचनविरोध इति वाच्यम् । उक्तरीत्या वचश्शब्दस्य अर्थविशेषविशिष्टवाक्यपरत्वसिद्ध्या वचश्शब्द-लक्षित इत्यस्य वचश्शब्दोपस्थितेत्यर्थाङ्गीकारात् ।
ननु *वचपरिभाषणे*(धा.पा.१०६३) इति धातुनिष्पन्नस्य वाक्य-शब्दस्य वाक्यम् श्रुतम् अर्थो न ज्ञातः इति प्रामाणिकप्रत्ययस्य विद्यमानत्वात् वचश्शब्दः केवलवाक्यपर एवेति चेत्, मैवम् । वाक्यतदर्थज्ञानयोः भिन्नसामग्रीजन्यत्वात् । अत्र वाक्यपदेन विवक्षितपदार्थसम्सर्गविशेषप्रतिपादकशब्दसमुदाय एव विवक्षितः । एतादृशवाक्यत्वम् तु वैय्याकरणानाम् अभिमतम् । तदुक्तम् हरिणा –
*साकाङ्क्षावयवम् भेदे परानाकाङ्क्षशब्दकम् ।
क्रियाप्रधानम् गुणवदेकार्थम् वाक्यमिष्यते* ॥
इति । व्याख्यातम् च इदम् शब्दरत्ने – *साकाङ्क्षेति निराकाङ्क्षाणाम् व्यवच्छेदाय । साकाङक्षेष्वपि पराकाङ्क्षायाम् न वाक्यत्वमित्यतो-ऽभिहितम् परानाकाङ्क्षेति । तेन पश्य मृगो धावति इत्यादौ, मृगो धावति इति पदयोः परस्परसाकाङ्क्षत्वेऽपि पश्यति पदाकाङ्क्षितया न वाक्यत्वम् । अत एव च पदानाम् समूहो वाक्यमर्थसमाप्तौ, इति भाष्ये इतराकाङ्क्षानिवृत्तिरूपायाम् अर्थसमाप्तावेव वाक्यत्वमुक्तमि*ति । नैय्यायिकानामपि एतादृशवाक्यत्वमेव अभिमतम् । तदुक्तम् कुसुमाञ्जलावुदयनाचार्यैः *तत्र पदशक्तिस्तावत् अभिधा । तद्बलायातः पदार्थः । आकाङ्क्षादिमत्त्वे सति च अन्वयशक्तिः पदानाम् पदार्थानाम् वा वाक्यम् । तद्बलायातो वाक्यार्थ* इति । इत्थञ्च अर्थविशेषप्रति-पादक शब्दसमुदायस्यैव तान्त्रिकैः वाक्यत्वाङ्गीकारात् न्यायनिबन्ध-नात्मकस्य सूत्रसमुदायस्य अर्थाभिधायकम् वाक्यम्, इत्यनुगृहीत-वाक्यत्वम् दुरपह्नवमेव ।
किञ्च वचस्सुधा इत्यत्र वचश्शब्दस्य केवलशब्दपरत्वम् अङ्गीकृत्य तत्र उपमितसमासाङ्गीकारे वचश्शब्दस्य वचः प्रतिपाद्ये लक्षणा । सुधा-शब्दस्य तत्सदृशे लक्षणाङ्गीकृता भवेत् । सा च श्रीभाष्यादौ दूषित-त्त्वात् न उपपद्यत इति ।
इत्थञ्च वचस्सुधा इत्यत्र रूपकसमासस्यैव आचार्याभिमततया तद्विरोधि तत्पुरुषोपमितसमासपक्षौ सुधीभिः अनादरणीयावेव । *उपनिषद्दुग्धाब्धि* इत्यादि पदानाम् श्रुतप्रकाशिकोक्तरीत्या अर्थः अनुसन्धेयः ॥
*श्रीभाष्यकारपादाब्जसेवासम्पत्समेधितः ।
श्रीलक्ष्मणमुनीन्द्रोऽयम् जीयादाचन्द्रतारकम् ॥
॥ समाप्तश्चायम् ग्रन्थः ॥
——————-