श्री:
कवितार्किकसिंह-सर्वतन्द्र-स्वतन्त्र श्रीमद्वेदान्तदेशिक विरचितं महाकाव्यम्
।। यादवाभ्युदयः ॥
सप्तदशः सर्गः
17.1 आतपत्रमथ तत् प्रचेतसो मन्दरस्य मणिशृङ्गमुन्नतम्।
सावरोघमपि सात्त्वतां पतिं लीलयैव गरुडो वहन् ययौ।।
17.2 तं क्षिपन्तमधिकेन रंहसा मारुतस्य मनसोपि शीघ्रताम्।
वालखिल्यसुकृतं विपक्त्रिमं प्राणमैक्षत बहिश्चरं प्रभुः।।
17.3 लोकतः खगरथेन मध्यमादुत्पतन्तमवनम्य माधवम्।
निर्जराः स्तुतिभिरभ्यपूजयन् पुष्कलाभिरपि पुष्पवृष्टिभिः।।
17.4 पाञ्चजन्यनिनदोपहूतया पर्यचारि परितोषनिघ्नया।
भक्तिभारनतया सदोन्नतः स्वर्गिणां परिषदा यदूद्वहः।।
17.5 प्राप्य यादवपतिस्त्रिविष्टपं देवमातुरुपनीतकुण्डलः।
अग्रजेन हरिणा हरिःस्वसंभावितेन समभाव्यतोचितम्।।
17.6 भागधेयपरिपाकतस्तदा वासवो वसतिमभ्युपागतम्।
देनदानवसमानदैवतं पर्युपास्त परिकल्पितार्हणः।।
17.7 तत्र संमदवतीभिरञ्जसा लोकपालमहिषीभिरर्चिताम्।
देहिनीमिव जयश्रियं निजां बह्वमंस्त दयितां बलानुजः।।
17.8 सप्रसादमभिनन्द्य सन्नतान् नाकिनो नरकभीतिवर्जितान्।
कृत्यशेषविधये कृती भुवः प्रतेयपद्यत निवृत्तिपद्धतिम्।।
17.9 स्वप्रभावविनिवृत्तसाध्वसां सोतिपत्य नगरीं सुपर्वणाम्।
पुष्पधन्वन इवोपकारिकां प्रैक्षतोपवनसम्पदं पुरः।।
17.10 वर्तते दशशतेक्षणोपि सन् एकचक्षुरिव यन्निरीक्षणे।
तत्र दत्तनयनो वियद्वने विश्वदृष्टिरनघो विसिष्मिये।।
17.11 दर्शयंस्तदनु रामणीयकं नन्दनस्य वसुदेवनन्दनः।
इत्युवाच मधुरस्मितेक्षणां प्रेयसीं प्रणयपेशलाक्षरम्।।
17.12 पुण्यकृद्भिरभिकाङ्क्षितं त्वया पौरुहूतमनुभूतमास्पदम्।
अस्य सम्पदमनेकशाखयत् प्रेक्ष्यतामिदमिहान्यदद्भुतम्।।
17.13 अञ्चितस्मितमकेवलेक्षणं भङ्गुरभ्रु परिवर्तिताननम्।
किञ्चिदत्र तरलाक्षि तावकीं नन्दनं नयनवृत्तिमर्हति।।
17.14 विश्वमेतदवधेव जेष्यतः षट्पदज्यधनुषोधनुर्भृतः।
अत्र नित्यमृतुभिस्सहोदितैः षड्विधं बलमिवैकतां गतम्।।
17.15 ऐकमुख्यममरेन्द्रतुष्टये संश्रितैरिह वसन्तपूर्वकैः।
शोभते सुनयने गुणैरिव स्वानुरूपफलसम्पदाहिता।।
17.16 जम्बुचूतरसजग्धिरञ्जितैः स्निग्धकण्ठि कलकण्ठनिस्वनैः।
त्यक्तगेहदमनाय निष्पतन् पुष्पकेतुरिह घुष्यते ध्रुवम्।।
17.17 अर्दितान् मकरकेतुसायकैरत्र देवि दयिताने पदाश्रितान्।
मुद्रयन्ति चकितान् सुरस्त्रियः पत्रभङ्गमकरैः स्तनार्पितैः।।
17.18 कैश्चिदत्र कृतिभिः कृतास्पदैः निर्ममैर्मनसिजो निरस्यते ।
सम्भवन्त्युपवने वनेपि वा सावधानमनसां समाधयः।।
17.19 पल्लवैरधरकान्तिरंशतः स्मेरकुड्मलरुचा स्मितं च ते ।
वल्लरीभिरिह दोर्लतागुणश्चोरितानि निहितानि वा त्वया।।
17.20 वादितेषु विहदेष्वनुक्षणं मञ्जु गायति च षट्पदव्रजे ।
मारुतेन चतुरेण नर्तिता लास्यमत्र परिचिन्वते लताः।।
17.21 मन्थरश्वसनसौरभोल्बणा वल्लरीः स्फुरितपल्लवाधराः।
मन्मथेन क्रतुसङ्गमात् इमा निर्वृता इव निशामयाद्भुताः।।
17.22 केलिशैलमणिमेखलापदादुद्गतामिह तमालवाटिकाम्।
पश्य नन्दनभुवः सुमध्यमे रोमराजिमिव मध्यसंश्रिताम्।।
17.23 सम्भ्रमेण वनपालदारिकाः सामिलङ्घितपरागरोधसम्।
आलवालवलयेषु शाखिनां वाहयन्ति मकरन्दवाहिनीम्।।
17.24 चक्रवाकमिथुनोदितस्तनी वीक्ष्यतामिह विहारवापिका।
पुष्परेणुरुचिरा मधुश्रियः पुत्रिकेव पुरुहूतसम्मता ।।
17.25 दिव्यपद्मवदना मणिप्रभा दीर्घिकेयमसिताब्जलोचना।
अन्तरिक्षमणिदर्पणान्तरे बिम्बितेव भवती विभाव्यते ।।
17.26 अप्सरस्सु निखिलास्वलक्षितां रूपसम्पदमसौ तवाद्भुताम्।
पश्यतीव पुरुहूतवापिका भृङ्गतारकितपद्मलोचना।।
17.27 बिभ्रती त्वदभिलापचेतसोः स्वादुतां प्रसदनं च शाश्वतम्।
दृष्टिरुत्पलवनं दिशत्वसौ दीर्घिकापयसि दीर्घलोचने ।।
17.28 शोणकुड्मलमुखी सरोजिनी शोभते हरितपत्रशालिनी।
संवृता त्रिदशपादपैरसौ शारिकेव मणिपञ्जरस्थिता।।
17.29 व्याहृतिक्षमदशातिवर्तिनीं विप्लुताम्बुजरुचिं रजःकणैः।
सेवते मधुमदेन मोहितः पुष्पितां भ्रमर एष पद्मिनीम्।।
17.30 एष चात्र समया सरोजिनीमेकतानयति चित्तचक्षुषी।
पिदपैरभिगतश्चतुर्विधैः पारिजात उदधीन्द्रसम्भवः।।
17.31 पद्मरागरमणीयपल्लवं पश्य कोमलहरिन्मणिच्छदम्।
पुष्पभूतवरशिल्पभूषणं तप्तहेमरुचिरत्वचं तरुम्।।
17.32 नम्रतामुपदतः फलैरसौ वल्गुभृङ्गविरुतैरभिष्टुवन्।
आर्द्रभावसुभगो विभाव्यते कामकिङ्कर इवोचितक्रियः।।
17.33 अक्षदामरचनोचितैः फलैर्देवतानुगुणपुष्पसम्पदा।
वल्कलैश्च वसनैश्च विन्दते वीतरागधृतरागहृद्यताम् ।।
17.34 त्वत्सगन्धतुलसीसहोदरः पुण्य एष पुरुहूतपादपः।
प्राणिनां यदवलोकनक्षणे पूर्वजातिषु भवत्यनुस्मृतिः।।
17.35 एष कल्पलतिकापरिष्कृतः प्रत्यवेक्षयति पल्लवारुणः।
सागरेन्द्रसुतया समन्वितं धाम कौस्तुभमयूखरञ्जितम्।।
17.36 पश्य जालकितपल्लवाधरैर्मौक्तिकैरमृतबिन्दुनिर्मलैः।
सूचितस्मितरुचिं सुरद्रुमं बालचन्द्रमणिराजसोदरम्।।
17.37 असाच नूनममृताधिकैः फलैः सेवितैरनुदिनं दिवौकसाम्।
न प्रसक्तिरपवर्गनन्दथौ नक्षुधा न च जरा न च व्यथा।।
17.38 त्वामिह त्रिदिवदर्शनागतां मञ्जरीभिरवनम्य भूरिभिः।
मानयत्ययमसौ सुरद्रुमो मन्मथोपवनदेवतामिव।।
17.39 द्वारकापरिषदं प्रयास्यतो दूरवर्त्मपथिकस्य मे दृशा ।
प्रातराशवदिहास्य भुज्यते सप्तलोकतिलकस्य चारुता।।
17.40 गाढबद्धनयना त्वमीहसे कामधेनुसहजन्मनि द्रुमे।
नूनमस्य मणिभूभृता सह स्थापनं निजनिवेशनिष्कुटे।।
17.41 व्युत्थितेषु विमुखेषु वा स्वयं निर्निमेषनयनेषु नाकिषु।
त्वद्विवक्षितमतः परं कथं पुष्पमस्य बिभृयात् पुलोमजा।।
17.42 शङ्खपद्मसुरपादपादिभिः श्लाघितां त्रिदिवतो गुणाधिकाम्।
माननीयचरिता मया सह द्वारकां त्वमधिवत्स्यसि प्रिये।।
17.43 दुग्धसिन्धुदुहितुः सहोदरे वासमेयुषि वदान्यपादपे।
शक्रदारवदनेपि दुर्लभां लप्स्यते तव विहारभूः श्रियम्।।
17.44 इत्थमादिकविना समीरिता सान्वभावि किल सत्यभामया ।
सामरस्यमिव तेन जग्मुषी सौकुमार्यसुभगा सरस्वती ।।
17.45 योजितोथ यदुवंशकेतुना ख्यातकीर्तिरमृतापहारतः।
उत्क्षिपन् खगपतिः सुरद्रुमं पक्षपङ्क्तिविपिने न्यवीविशत्।।
17.46 एतमश्रुतचरं पुरन्दर शुश्रुवान् क्षणमुदन्तमैश्वरम्।
भीतिकोपसमवायरूपया दोलयेव समकृष्यत द्विधा।।
17.47 अप्रतिक्रियमपि प्रभोरिदं चेष्टितं प्रतिचिकीर्षता तदा।
मन्युरेव शतमन्युना रहान् आगृहीतमनसाभ्यमन्यत।।
17.48 दीप्तदृष्ट्यचिररश्मिसन्ततिर्वज्रघोषपरुषो मरुत्सखः।
चित्रचापशरवर्षवांस्ततः प्रत्यदृश्यत मरुत्वदम्बुदः।।
17.49 न्यस्तकर्बुरकुथोत्तरं निजं वारणेन्द्रमधिरुह्य वासवः।
नैकधातुमति रौप्यभूधरे शोभते स्म निजरत्नशैलवत्।।
17.50 अप्रतक्र्यवृजिनोत्थमासुरं भामावस्थितवता वलद्विषा ।
दुर्जयोपि विजिगीषितो विभुः सस्मितः समरसम्मुखोभवत्।।
17.51 देवराजयदुराजयोरिदं द्वैरथं प्रतिभयं दिदृक्षवः।
वेधसा सह सनन्दनादयस्त्यक्तसंयमधियोवतस्थिरे।।
17.52 भीषणप्रलयमेघसन्निभं कृष्णमेघमथ मेघवाहनः।
आपतन् असुरभेदकंक्षणादाचकर्ष ऋजुरोहितं धनुः।।
17.53 चक्रपाणि विजयाय चक्रितातं भीमघोषदलिताखिलश्रुतेः।
वज्रपाणिधनुषः शरोर्मयः संबभूवुरुदधेरिवोर्मयः।।
17.54 वज्रिणः शरगणः समापतन् वाहने खदपतौ मुरद्विषः।
तस्य तेजसि बभूव भस्मसात् तूलराशिरिव कालपावके।।
17.55 प्लावितो विशिखवृष्टिभिस्तदा जम्भभेदिजलदप्रसूतिभिः।
अन्वदीपि गरुडः प्रतापवान् आज्यसिक्त इव वह्निराध्वरः।।
17.56 वृत्रहन्तुरचमत्क्रियामिमां विश्ववित् स्वविषये विभावयन् ।
पश्यति स्म विबुधेषु काश्यपिः पन्नगेष्विव पराक्रमं क्षमम्।।
17.57 तस्य देहपृतनाविधूतये जृम्भमाणवपुषो महौजसः।
अप्रभूतमभवज्जगत््त्रयं बिभ्रतस्त्रिजगदेकदम्पती।।
17.58 तुङ्गपक्षतिशताङ्गशालिनो भीमनागघटिताकृतेरभूत्।
वाहतां च वहतः सपत्तितां सैन्यतास्य सुरसैन्यवेधिनः।।
17.59 पारिजातपवनोर्मिबृंहितैर्वासुकिप्रभृतिभिर्महोरगैः।
गाढतां हरिरथस्य बिभ्रतः सारथिश्च तुरगाश्च साहसम्।।
17.60 गाढदीप्तगरलानलोष्मला तार्क्ष्यभूषणभुजङ्गफूत्कृतिः।
पीतनिर्भरसुधारसोन्मदाः पाकशासनचमूरमूमुहत् ।।
17.61 अप्रतर्क्यतरसो गरुत्मतः पक्षवेगपवनेन ताडिताः।
आत्मकङ्कटमपोह्य वज्रिणं बभ्रमुर्दशसु दिक्षु मारुतः।।
17.62 तस्य पक्षमरुता निवर्तितैर्वाहिनी दिविषदामशेषतः।
वृत्रशासनशरासनच्युतैः प्रत्यविध्यत शरैरजिह्मगैः।।
17.63 वैनतेयनखरैर्विदारितो बाह्यमान्तरमपि त्यजन् मदम्।
शोणितैर्विरुरुचे सुरद्विषः श्वेतशैल इव धातुनिर्झरैः।।
17.64 क्ष्वेडितेन मुषिताशयानिव प्लोषितानिव दृशा प्रदीप्तया।
दारितानिव पतत्रमारुतैः निर्जरान् अतनुतारुणानुजः।।
17.65 स्वासु दिक्षु समवस्थितास्तदा दिष्टवञ्चितधियो दिवौकसः।
तोयदा इव गुगान्तभास्करं सन्निकृष्य समवृण्वताच्युतम् ।।
17.66 नाजिघांसदपराधिनोपि तान् नाकनायकगणान् जनार्दनः।
आनृशंस्यमथवा न भज्यते तस्य संश्रितजनेषु जातुचित् ।।
17.67 तेषु शिक्षणपरः शिलीमुखान् प्राहिणोत् प्रभुरमर्मभेदिनः।
अङ्कुशेन निशितेन हस्तिपो दुर्मदान् प्रशमयन्निव द्विपान् ।।
17.68 तं समेत्य निरपायतेजसं सप्तसप्तिमिव तारकाग्रहैः।
सद्भिरेव विबुधैरसत्समा कापि दुर्ग्रहदशान्वभूयत ।।
17.69 अष्टभिश्च हरितामधीश्वरैरर्यमप्रभृतिभिश्च संहतैः।
वृष्णिवीरशरखण्डतायुधैर्विह्वलैरजनि वीतशक्तिभिः।
17.70 अक्रमात् दश दिशोवलोकयन् दत्तदृष्टिरभितः क्रमात् वृषा।
स्रस्तकार्मुकशिरस्त्रकञ्चुकां प्रेक्ष्य देवपृतनामदूयत।।
17.71 अस्त्रशस्त्रविनिपातमोहितान् अर्दितान् असुरवैरिसायकैः।
सत्रपेव सपदि त्रपा जहौ दैन्यमीलितदृशो दिवौकसः।।
17.72 अप्सरोनयनतोयकज्जलैः शोणितैश्च विभुना सुपर्वणाम्।
आत्मकीर्तिसुधया विशोधिते चित्रमम्बरतले व्यलिख्यत।।
17.73 पञ्चवक्त्रवदनस्थमामिषं प्राप्तुकाम इव बालवञ्चकः।
प्रस्थितामभिनिवेशवान् पुनः प्रत्यपद्यत धृतिं पुरन्दरः।।
17.74 वज्रमात्तमरिहन्तृ जिष्णुना विष्णुना च युधि चक्रमुद्यतम्।
दृष्टवन्ति भुवनानि जज्ञिरे कम्पितानि कलुषाणि च क्षणात् ।।
17.75 तौ परस्परजिगीषयोद्यतौ वीक्ष्य निष्प्रतिमवीर्यवैभवौ।
व्योमभित्तिलिखितैरिव स्थितं व्यक्तविस्मयभयैः सुरासुरैः।।
17.76 कस्य केन परिभूतिरापतेत् कश्च वेद रणवर्तनीमिति।
सन्दिहानमनसेव तत्क्षणं मध्यसीम्नि विजयश्रिया स्थितम्।।
17.77 प्रेषितां हरिहयेन भीषणां ह्रादिनीं हृतवति त्रिधामनि ।
लोलिता निववृते परस्परं लोकपालपृतना पराङ्मुखी।।
17.78 कान्तिशीकजितकाशिनोरिमां व्यापृतिं विबुधवृष्णिवीरयोः।
प्रेक्ष्य दुर्मदविवेकयोरिव प्रस्थितेव चकितामरावती।।
17.79 तं तथा समरदैन्यविप्लुतं शान्तदर्पमयथापुरं स्थितम्।
व्यक्तनृत्तहृदयं वलद्विषं वीक्ष्य विश्वमखिलं व्यलज्जत।।
17.80 व्रीडया तरलितैर्विलोचनैर्वेपमानकमलाकरोपमः।
संनतः क्षणमवैक्षि वासवः सापहासमिव सत्यभामया।।
17.81 यादवेन्द्रविबुधेन्द्रयोस्तदा रत्नयोरिव तुलाधिरूढयोः।
गौरवेण ददृशे समुन्नतिर्लाघवेन च नतिस्तदद्भुतम्।।
17.82 यत् प्रभौ नरकमर्दनेभवत् देवदर्पदमने ततोधिकम्।
पुष्यति स्म मकरन्दमेदुरं पुष्पवर्षममृतोग्भवस्तरुः।।
17.83 इत्यनाकलितपूर्वसत्कृतिं वृक्षमात्रकलहोल्बणं विभुः।
निर्जिगाय मिषतां दिवौकसां आत्तशस्त्रममरावतीश्वरम्।
17.84 दीप्यमानमनघेन ताजसा देवकीसुतमवेक्ष्य देवताः।
अस्त्रजालमवधूय सिद्धिदान् अञ्जलीन् अबिभरुः कराम्बुजैः।।
17.85 सोथ संयति पलायनोन्मुखः पाकशील इव पाकशासनः।
सत्यया विहसितोपि सत्त्ववान् प्रत्यबोधि परमेष्ठिनं पुनः।।
17.86 धिक् प्रमादमदिरां विमोहिनीं धिक् परिग्रहविशेषमीदृशम्।
धिक् च मे त्रिदशराजतामिति स्वं जगर्ह मघवा मुहुर्मुहुः।।
17.87 तेन तत्र विहगेन्द्रवाहनो वारणादवनतेन बिभ्यता।
निर्जितेन हरिणा हरिः स्वयं पर्यवैक्षि शरणं प्रियासखः।।
17.88 तुष्टुवे च पुरुषं पुरुष्टुतं प्राञ्जलिः परिबृढो दिवौकसाम् ।
रक्तभावविगमौज्ज्वलं मुखं राहुमुक्तमिव चन्द्रमुद्वहन् ।।
17.89 शक्र एष शरणं प्रपद्यते भक्तजीवित भवन्तमीश्वरम् ।
मित्रभावसमुपागतं जनं न त्यजेयमिति नाथ मन्यसे ।।
17.90 मातरं त्रिजगतां तव प्रियां मानुषीति मनुते स्म मद्वधूः।
तेन नुनमनुभूतमीदृशं दैन्यमेतदवशोदितं मया ।।
17.91 निर्जितोहमजितेन यत् त्वया लम्भितोन्नतिरनेन न त्रपे ।
न ह्यजय्यमिह किञ्चिदस्ति ते सर्वनेतुरतिरिक्तमात्मनः।।
17.92 अस्तु मा स्म भवदित्यनन्यया वीक्षया जगदिदं नियच्छता।
नाथ निष्प्रतिघतेजसा त्वया नन्वयं मम पराजयो जयः।।
17.93 आत्मघातिभिरहम्मतिग्रहात् मादृशैस्त्वदितरेषु रागिभिः।
अव्यवस्थितजयेतरक्रमं द्यूतमेतदघृणैर्निषेव्यते।।
17.94 आधिकारिकपदेषु ते वयं स्वेषु यावदधिकारमाहिताः।
प्रापितास्तव परं पदं त्वया निर्विशेम निविशेमहि त्वयि।।
17.95 न क्षिपेदपि तृणं समीरणस्त्वत्प्रयुक्तमनलो न निर्दहेत् ।
न प्रजापशुपती न चेतरे त्वद्विपक्षमभिरक्षितुं क्षमाः।।
17.96 अग्रजे मयि दिवौकसां पितुः पुत्रभावमुपसेदुषा त्वया।
मानितोहमवमानितः स्वयं वानरानुचरितैः स्वचेष्टितैः।।
17.97 मद्विधा विषमवृत्तिशालिनः शान्तघोरसमयातिलङ्घिनः।
पोषयन्ति भवतः क्षमानिधेः प्रायशः प्रहसनोचितं रसम् ।
17.98 अस्मदिष्टमनघास्त्रिविष्टपं दुःखमिश्रमवधार्य दुर्गतिम्।
त्वत्पदं परमनन्यचेतसः संश्रयन्ति निरपायमाश्रयम् ।।
17.99 अल्पमस्थिरमपायदन्तुरं स्वर्गसौधमवधीर्य सूरयः।
निस्तरन्ति जगदेकहेतुना सेतुनेव भवता भवार्णवम् ।।
17.100 त्वत्पदैकदृढभक्तिरूपया मुक्तिवासरविभातसन्ध्यया ।
क्षीयते जगति कस्यचित् प्रभो मोहसन्ततिमयी महानिशा ।।
17.101 देशकालगणनातिलङ्घिभिः मातुमागमगणेन वाञ्छतैः।
भूषितो गुणविभूतिसागरैः त्वत्समस्त्वमितरे मिथस्समाः।।
17.102 का कथा तव समेधिकेपि वा हीन इत्यपि क एव गण्यते।
मेरुसर्षपनिदर्शनं च ते मा स्म भूत् त्वदितरस्य चात्मनः।।
17.103 भूतभव्यभवदात्मनः प्रभो यन्निदानमखिलस्य शाश्वतम् ।
यत् प्रविश्य न पुनर्निवर्तते यत् परं पदमुशन्ति तद्भवान् ।।
17.104 जातिवर्णरचनाविचित्रितं विश्वचित्रमुदमीलयद्भवान्।
आत्मभित्तिनियतस्थिराश्रयस्तूलिकां त्रिगुणलक्षणां वहन्।।
17.105 अप्रयच्छति दुरत्ययक्रमे त्वय्यशेषजगदेकधातरि।
इष्टमन्यदुभयं च मिश्रितं कस्य केन किमिवोपपद्यते ।।
17.106 आयतन्त भुवनान्यशेषतस्त्वय्यतस्त्वमनुपाधिरीश्वरः।
वर्धनीयविभवा वयं पुनः त्वत्प्रदिष्टपुरपत्तनेश्वराः।।
17.107 जन्मकर्मभिरसौ निबध्यते तानि यस्तव न वेत्ति तत्त्वतः।
त्वत्कथामृतरसं पिबन्ति ये ते भवेयुरपुनस्स्तनन्धयाः।।
17.108 कथ्यते चिदचिदन्तरात्मनः शास्त्रशुद्हृदयैर्मनीषिभिः।
सुष्टिसंहरणरक्षणेषु ते विश्वरूप ननु कर्मकर्तृता।।
17.109 आकुमारमनुभावमीदृशं नाथ लोकविदितं तव क्षिपन्।
हन्त नूनमहिमांशुमण्डलं तस्करस्तमसि गोप्तुमिच्छति ।।
17.110 पक्षपातपरिहारशुद्धया पश्यति प्रणिदधानया धिया ।
यत्पृषन्ति निगमाः स्पृशन्ति तं त्वत्प्रभावमनपायमात्मवान्।।
17.111 मानुषत्वमनदगच्छता त्वया मोहितैस्त्वमवधीर्यसे जनैः।
तेन नस्त्रिगुणतन्त्रचेतसामागतेयमसमीक्ष्यकारिता।।
17.112 शर्वरीदिवसवत् विघूर्णयन् स्वापजागरदशा विधेरपि।
किं पुनस्तदितरस्य तन्मया मोहबोधविवशेन भूयते ।।
17.113 योसि सोसि च यथा तथासि च त्वां त्वमेव खलु वेत्सि वान वा ।
तस्य ते न खलु तत्त्ववेदिनो वारिधेरिव वयं तटस्थिताः।।
17.114 त्वत्प्रतीपचरणात् दिवौकसां दानवायितवतां त्वयाधुना ।
स्थान एव परिभूतिराहिता नासुरो न च सुरो गुणान्तरे।।
17.115 अर्चनीयचरणाम्बुजे भवत्याततायिपदवीमुपेयुषाम् ।
न्यस्तशस्त्रपरिकर्मणामसौ निष्कृतिस्त्वदुपसत्तिरेव नः।।
17.116 किं तदस्ति कुशलेषु यन्न ते तच्च किं त्वदितरेषु यत् तव।
ईदृशस्य भवतः किमीदृशा तस्थुषा त्रियुग जग्मुषापि वा ।।
17.117 अल्पसत्त्व मवलेपयन्त्रितं बल्बजेषु बहमानशालिनम्।
त्वत्कृपैकपरिहार्यविपिलवं प्रत्यवेक्षणपदं प्रतीहि माम्।।
17.118 मृष्यतां मम विभो व्यतिक्रमः विस्मृतत्वदुपकारपद्धतेः।
क्षुद्रकोपविवशस्य देहिनः कस्य नाम न भवत्यपक्रिया ।।
17.119 त्रातुमेव शरणागतान् सुरान् आसुरान् अभिजाघांसता त्वया ।
रागरोषरहितात्मना स्वयं दैत्यशत्रुरिति नाम गृह्यते ।।
17.120 त्वद्गृहीतगुणसूत्रसन्दितान् दारुपुत्रनयतः प्रवर्तिनः।
निर्गुणानपि निसर्गकिङ्करान् स्वीकुरुष्व कृपया स्वयैव नः।।
17.121 वासवस्य वचनं निशम्य तत् भावशुद्धिपरिकर्मिताक्षरम्।
दीनगुप्तिजननीं पुनर्दयामन्वविन्ददरविन्दलोचनः।।
17.122 उद्धृतं च विभुना सुदर्शनं त्राणदं त्रिदिवसद्मनामभूत्।
तस्य दृप्तदमनेन दीव्यतः शिक्षणैकनियतं हि शासनम् ।।
17.123 आह चैनमनघेन चक्षुषा शोधयन् अमृतसिन्धुशोभिना।
स्वादुसूनृतगभीरया गिरा पारितोषिकमिवार्पयन् प्रभुः।।
17.124 भद्रमस्तु भवते दिवस्पते निर्जराश्च निरपायमासताम्।
आत्मचौर्यदुरिताकरत्यजां मापहार्षुरसुराः पदानि वः।।
17.125 मा स्म भैष्ट मयि गोप्तरि स्थिते भावितानि भविकानि सन्तु वः।
वीतदानवपराभवाश्चिरं त्रातुमर्हथ सुरास्त्रिविष्टपम् ।।
17.126 मन्त्रुपूतमनुपप्लवं हविर्यायजूकपरिषन्निषेवितम्।
अन्तरात्मनि निविष्टमन्तरा विन्दत स्थिरसुधारसान्तरम् ।।
17.127 जन्मतोपि भवतां महीयसामाप्तबन्धुरदितेरहं सुतः।
देवकीतनयभावतोपि मे सैव सम्प्रति सहोदरत्वधीः।।
17.128 आयुधानि पुनरक्षतानि वः सन्तु सत्त्वमपि दैत्यसूदनम्।
पालयन्तु बलिनो जगत््त्रयीं ते भवन्त उपपन्नपौरुषाः।।
17.129 इत्यनाविलमनोज्ञया गिरा निर्मलां निजदयामिवोद्वमन् ।
सौम्यदृष्टिरकरोत् सुधाभुजः पर्यवस्थितधृतीन् परः पुमान् ।।
17.130 ते च तेन गरुडं नियच्छता गम्यतामिति गभीरमीरिताः।
अद्यजातवदनन्यवत्सले प्रश्रिताः सुमनसः प्रतस्थिरे ।।
17.131 गृह्यतां तरुरसाविति स्वयं भामया भगवता च भाषिते ।
आगमिष्यति पुनस्त्वया सहेत्याह दानवरिपुं दिवस्पतिः।।
17.132 शान्तगर्वगरले दिवस्पतौ संनिवेश्य सुरलोकसम्पदम् ।
आप्तुमैच्छदनुजीविरक्षितां स्वां पुरीमथ सुपर्णवाहनः।।
17.133 आत्माधिकारमनुमत्य दिशापतीनां वज्रं प्रदिश्य पुनरप्यनघं मघोने ।
दिव्यद्रुमप्रतिगतिं च परं विधास्यन् दत्ताभयो दनुजशत्रुरवाप तुष्टिम् ।।
17.134 अथ पदविनिकीर्णमन्दारवन्दारुबृन्दारक-
स्तुतिशतबहुमानसत्यापितेहः स सत्यापतिः।
अमरसमरवेगविख्यातदाक्ष्येण तार्क्ष्येण गां
प्रतिजिगमिषितां पुरीं त्रातुमन्वक्समन्वग्रहीत् ।।
17.135 पश्यत्यारादनिमिषगणे पारिजातापहारात्
स्रस्ताकल्पामिव यदुपतिः स्थापयन् स्वर्गलक्ष्मीम् ।
आशापालैरवनतपदस्त्यक्तलज्जैरभीक्ष्णं रामत्रातां खगपतिरथो राजधानीं प्रतस्थे ।।
इति कवितार्किकसिंहस्य सर्वतन्त्रस्वतन्त्रस्य श्रीमद्वेङ्कटनाथस्य वेदान्ताचार्यस्य कृतिषु यादवाभ्युदयनाम्नि महाकाव्ये पारिजातानयनं नाम सप्तदशः सर्गः ।