श्री:
कवितार्किकसिंह-सर्वतन्द्र-स्वतन्त्र श्रीमद्वेदान्तदेशिक विरचितं महाकाव्यम्
।। यादवाभ्युदयः ॥
एकोनविंशः सर्गः
19.1 नित्यप्रबुद्धमपि निर्मलया स्वदृष्ट्या निद्राणवत् दरनिमीलितनेत्रपद्मम्।
प्राबोधिकीभिरुपसेदुरितीव वाग्भिः स्वाधीनमर्त्यतनयं श्रुतिवन्दिनस्तम् ।।
19.2 यामिन्यपैति यदुनाथ विमुञ्च निद्रां उन्मेषमृच्छति तवोन्मिषितेन विश्वम् ।
जातः स्वयं खलु जगद्धितमेव कर्तुं धर्मप्रवर्तनधिया धरणीतले त्वम् ।।
19.3 अश्रान्तसन्ततिभिराभरणप्रकाशैः आरात्रिकं प्रमुखयन्त्य इवोपचारम्।
इच्छन्ति ते प्रथमदृष्टिमनन्यलभ्यां पद्माननाः पदनिवेशनधन्यहस्ताः।।
19.4 वृद्धाः कथञ्चिदररं व्यतिभिद्य हैमं दौवारिकास्तव गृहीतसुजातवेत्राः।
निर्गच्छतः प्रविशतश्च निशामयन्तो नाथ त्वदेकहृदया न भजन्ति तन्द्रीम् ।।
19.5 विश्वैकतीर्थभजनेन विशुद्धिमन्तो निद्रोज्झिता निगमसीम्नि निशात्यये च ।
वैतानिकान् विधिवशेन विहृत्य वह्नीन् पुण्याशयाः परिचरन्ति पुरोधसस्ते ।।
19.6 निद्रावशेन निभृतेक्षणमुत्थितानां द्वित्राणि मन्थरपदान्यपगत्वरीणाम्।
काले गृहीतमुचिते रशनाः कथंचित् मौनव्रतं जहति मुग्धवधूजनानाम् ।।
19.7 सन्त्यज्यते तरलमौक्तिकजालदृश्यैः तारागणैस्त्रिदशवर्त्म तमालनीलम् ।
पद्मापतेरमृतनिर्मथनावसाने दुग्धाम्बुराशिपृषतैरिव रूपमग्र्यम् ।।
19.8 नाथ स्फुरन्त्युपयति द्युमणिप्रकाशे न ज्योतिरिङ्गणगणा न च तारकाद्याः।
तेजस्विनोपि तमसैव समृद्धिमन्तः त्वत्सन्निधौ मुषितभास इव त्वदन्ये ।।
19.9 आनर्तितान् सललितं दिवसावसाने वाचालरत्नवलयैर्निजहस्ततालैः।
निद्रालसान् मृगदृशो गृहनीलकण्ठान् आवासयष्टिशिखरादवरोहयन्ति।।
19.10 नृत्यन्त्युदीरितघनस्तनितामकाण्डे नेदीयसीं तव निशम्य विभातनान्दीम् ।
चित्रातपत्रपरिमण्डलचारुबर्हाः शृङ्गारयोनिशरपत्ररुचो मयूराः।।
19.11 निर्गत्य चित्रगरुतो निलयान्तरेभ्यः तारस्वनास्तरुणविद्रुमताम्रचूडाः।
रत्नाङ्कणेषु रमणीभिरवेक्ष्यमाणाः क्रीडारणं विदधते कृकवाकुवर्याः।।
19.12 प्राप्तास्तुलां हरातकोमलबाह्यपत्रैः किञ्चित्परिस्फुरितशोणमुखैः सरोजैः।
वामभ्रुवां वलयपङ्क्तिषु सञ्चरन्त्यो मञ्जु क्वणन्ति मणिपञ्चरशारिकास्ते।।
19.13 प्रत्यक्षिते तमसि यास्यति विप्रकर्षं सञ्छन्नभानुमति सम्प्रति जीवलोके ।
गङ्गायमानसलिलं निजरश्मियोगात् सिष्णासयेव सितभानुरुपैति सिन्धुम् ।।
19.14 प्रत्यूषघर्मसमयेन समग्रधाम्ना शोषं व्रजत्यमृतरश्मिमयूखपूरे ।
अह्माय कैश्चिदभिघातमवाप्नुवत्यस्ताराः प्रयान्ति विलयं तनुबुद्बुदाभाः।।
19.15 पत्यस्त्विषां प्रजहतः प्रथमाब्धितल्पं सन्ध्यासरोरुहदृशः प्रथमोत्थितायाः।
सीमन्तिते तिमिरकुन्तलमध्यभागे सिन्दूरराजिरिव भाति मयूखरेखा ।।
19.16 ज्योत्स्नापदेशमवधूय सितोत्तरीयं स्तोकावशेषितसदाभरणप्रबन्धा।
अङ्गीकरोत्यरुणभावितमङ्गरागं प्राची दिशा दिनपतिं परिभोक्तुकामा ।।
19.17 निर्णिज्य सम्प्रति निशाङ्गनिवेशलग्नं कालेयपङ्कमिव सन्तमसं कलङ्कम्।
क्षोणीभृतामरुणदीधितयोनुरक्ताः पादान् अलक्तकरसैरिव रञ्जयन्ति ।।
19.18 प्रादुर्भविष्यति चराचरजन्तुवर्गे प्राप्तारुणेन विधुना तमसा च वेला ।
आभाति भावितपरस्परलेशयोगा मायाविपक्तिरिव लोहितशुक्लकृष्णा ।।
19.19 उन्निद्रपद्मनयनः सुभगोत्पलाभः सम्भावितो मुनिगणैरुपपन्नबोधैः।
रागोत्तरां श्रियमवाप्य रथाङ्गशोभी जातः स एष समयो जगदेकसेव्यः।।
19.20 नीतः श्रमं निहतरात्रिवरूथिनीकः चन्द्रातपत्रविनिपातविलुप्तभूमा ।
प्रत्यूषवैरिविभवेन पराहतात्मा कालप्रतीक्ष इव गच्छति कामवीरः।
19.21 योसौ जनस्य दिशतीव सुधानिधानं जातध्वनिः श्रुतिषु जागरदुन्दुभिस्ते।
मन्ये स एव मदनस्य निशाचरस्य स्वच्छन्दसौप्तिकनिवृत्तिमभिव्यनक्ति ।।
19.22 अन्तर्बहिश्च तमसा परिमुच्यमाने जागर्यया जगति सम्प्रति दीप्यमाने ।
पञ्चायुधश्चिरपरिश्रमशान्तिमिच्छन् निद्रामुपैति हृदयेषु नितम्बिनीनाम् ।।
19.23 अग्रे भवन् गुरुरिव स्वयमानकानां आदिष्टसम्पदिव कन्धरया तवैषः।
व्यक्तप्लुतेन निनदेन विशुद्धवर्णः प्रस्तौति नाथ निगमान् प्रतिबोधशङ्खः।।
19.24 मुग्धाः स्वमुष्टिपरिमेयमनोज्ञमध्याः पर्यायचापलतिका इव पञ्चबाणः।
प्रास्थानिकप्रणयदुर्विनयोपशान्त्यै प्रत्यक्षयन् प्रतिनिवर्तयतीव यूनः।।
19.25 अन्तश्चकासदसितोत्पलमङ्कयोगात् भासोन्मदेव परिमीलिततारकार्धा ।
निष्पीतकान्तिमकरन्दरसं प्रतीच्यां नीहारभानुचषकं निदधाति सन्ध्या ।।
19.26 दृष्ट्वा निमीलितवतीं नियतिप्रभावात् आत्मप्रियां कुमदिनीमवधूतधामा ।
च्योतत्तुषारनयनोदकबिन्दुरिन्दुः प्रस्थानमिच्छति महत् प्रतिपन्नदैन्यः।।
19.27 भोक्तुं दिवं निजवियोगविलुप्तदीप्तिं प्रागेव तीव्ररुचिना प्रहितेव सन्ध्या।
मालिन्ययोगमपनीय करावमर्शैः प्रायो यथार्हमनुलिम्पति कुङकुमेन ।।
19.28 अर्धेन पाटलमनूरुकरानुषङ्गात् अर्धान्तरेण मणिमेचकमन्तरिक्षम् ।
अस्पृष्टतापमधिरोहति निस्तमस्कं संवीतपीतवसनेन तुलां त्वयैव ।।
19.29 पद्मापदाम्बुरुहयावकपिङ्गभासा भासा नितान्तमुदयान्तरितस्य भानोः।
आरज्यते गगनमद्य जगत्प्रसूतेः नाभीसरोरुहभुवा रजसेव गात्रम् ।।
19.30 दग्धुं तमो दनुजबृन्दमिवाम्बुराशेः उत्तस्थुषो मधुरिपोरिव तिग्मधाम्नः।
उन्मेषिणी सुमनसामुदिता पुरस्तात् चक्रप्रभामनुकरोति मरीचिमाला ।।
19.31 दृष्टिद्वयं नियतकालमिदं प्रजानां एका निमीलति तयोरितराप्यलक्ष्या ।
तत्तादृशोस्तव दृशोर्युगपत्प्रबोघात् आलोकयोगमनघं भजतां त्रिलोकी ।।
19.32 प्राचीनशेलविषये प्रचुरांशुरेखां सन्ध्यादशामरुणरागधृतावसिक्ताम् ।
कालो निधाय सृजतीव शनैस्तदन्ते तिग्मद्युतिं त्रिभुवनैकमहाप्रदीपम् ।।
19.33 पर्याप्तरश्मिनिकरेण सुवृत्तभूम्ना सूर्येन्दुबिम्बयुगलेन समस्थितेन ।
आभाति कालवणिजा परिकल्प्यमाना नक्तंदिवक्षणतुलेन नभस्थलश्रीः।।
19.34 नैशं तमः क्षिपति नन्दितचक्रवाके पद्मान् प्रबोधयति भावितमित्रभावे।
दृष्टिं प्रसादयति दर्शितसत्पथेस्मिन् दोषोल्बणा कुमुदिनी बहुमानशून्या ।।
19.35 पादस्पृशां दिशति भूमिभृतां प्रकाशं सत्त्वं समेधयति सद्भिरुदीरितार्घ्यः।
तेजोगणानपि तिरस्कुरुते स्वदीप्त्या चक्रप्रियस्त्वमिव सम्प्रति चण्डभानुः।।
19.36 आजानपाण्डरतनुः परभागमृच्छन् नीलाम्बरद्युदिमुषा निजलाञ्छनेन ।
स्फीताकृतिः परिगतो मदरागलक्ष्म्या वीर त्वदग्रज इवैष विभाति चन्द्रः।।
19.37 सन्ध्योपरागसमयं प्रतिलभ्य पुण्यं स्नातुं निशा गगनसौधतलावतीर्णा ।
आरक्तरूपमवलम्बयता कराग्रं पत्या सह प्रविशतीव परं समुद्रम् ।।
19.38 देव त्वयीव दिवसागमजागरूके संरक्तविश्वमुदयं सवितर्युपेते ।
अस्तं शनैरभिपतन् भजते मृगाङ्कः त्वद्वैरिवारवनितावदनेन्द्ववस्थाम् ।।
19.39 राजास्तमेति सुहृदा मदनेन सार्धं दीनाकृतिः कुमुदिनी दृढबद्धकोशा ।
वैरी समेति विषमाश्व इतीव भीता छायाच्छलेन भजते गगनं त्रियामा।।
19.40 आमृश्य रात्रिमरुणोदयजातपुष्पां प्राप्तानुताप इव सत्पथलङ्घनेन
ज्योत्स्नांशुकं द्विजपतिः परिधाय नूनं व्रीडानतो विशति वारिनिधिं विवर्णः।।
19.41 अभ्येति भानुरुदयाद्रिमसह्यतेजाः स्थातुं स एष समयो न ममेति पश्यन् ।
प्रायः समाश्रयति पाशभृताभिगुप्तं तारापतिश्चरमसागरतोयदुर्गम् ।।
19.42 मूले मनाग् भवति मुञ्चति पूर्वभागं शैथिल्यमृच्छति तमालरुचिस्त्रियामा ।
आकृष्यते चरमशैलवने विहर्तुं सीरायुधेन यमुनेव सुधांशुनेयम् ।।
19.43 प्रस्थानकालभजनात् परितोषितेन ज्योत्स्नात्मिकां हरिवधूसहजेन दत्ताम् ।
प्रायेण नाकवनितानखदीप्तिलघ्वीं शेषापटीं चरमभूभृदसौ बिभर्ति ।।
19.44 सूक्ष्माभिरामनिजदीधितिसूत्रलम्बी पर्यन्तलग्नतिमिरालकदर्शनीयः।
सिन्दूररञ्जित इवैष विभातलक्ष्म्याः सीमन्तमौक्तिकमणिः प्रतिभाति चन्द्रः।।
19.45 प्रालेयरूषितमिदं प्रथमेतराब्धौ मग्नैकदेशमनुयाति मृगाङ्कबिम्बम् ।
मानच्छिदां मकरकेतनसायकानां शाणोपलं चिरनिघर्षणकर्शितार्धम् ।।
19.46 आदौ वराभमुदितं शरपाण्डु मध्ये पश्चान्मधूकपरिधूसरमिन्दुबिम्बम् ।
सम्पद्यते पुनरदृश्यतमामवस्थां कालार्पितं करजचिह्नमिव क्षपायाः।।
19.47 नैशं तमिस्रमरुणेन विलुप्तसारं निश्शेषयन् अयमुदेति मयूखमाली ।
सत्सेवनेन पुरतो मुषितैकदेशं विद्यावतां वृजिनराशिमिवान्तरात्मा ।।
19.48 उद्गच्छता पुरुषकेसरिणेव पूष्णा काले तमो विदलितं करजैः प्रवालैः।
गाढं हिरण्यकशिपोरिव गात्रमन्यत् सन्ध्याच्छलेन रुधिरं क्षरतीव सान्द्रम् ।।
19.49 प्राप्तोदयस्य तपनस्य तवेव धाम्ना क्षिप्तो गुहान्तरनिरुद्ध इवान्तकारः।
विश्वावलोकननिरोधवियातवृत्तेः अत्याहितस्य परिपाकमिवैष भुङ्क्ते ।।
19.50 मग्ना चिरं महति सन्तमसाम्बुराशौ दंष्ट्राभिरामरुचिना दिवसागमेन
उत्क्षिप्यते दनुजशोणितलोहितेन प्रायो वराहवपुषा विभुनेव भूमिः।।
19.51 निद्रामपास्य तमसा च दृशो निरोधं प्रत्यङ्मुखं प्रथमतः प्रथयन् प्रकाशम् ।
निःश्रेयसप्रतिपदेन निजेन धाम्ना विश्वं समाधिरिव दर्शयते विवस्वान्।।
19.52 आशापरीतमविवेकमिवान्धकारं शङ्काशतास्पदमलक्षितसर्वतत्त्वम् ।।
निर्धूय सम्प्रति निशामिव बाह्यविद्यां तत्त्वावसाय इव भाति विभातकालः।।
19.53 निर्विश्य चन्द्रसितपद्मरसं निशात्मा लोलम्बजातिरभितो लुलितान्यपुष्पा ।
त्वद्वक्त्रचन्द्रनिरपायरसान् इदानीं पद्मान् उपैति परितोषितराजहंसान् ।।
19.54 नात्यन्ततः कुमुदिनी प्रतिपन्ननिद्रा नातीव बोधमुपयाति सरोजिनी च ।
एतेन नूनमनयोरविशेषदृश्या नाथानुवृत्तिनियतेन भवत्यवस्था ।।
19.55 पर्यस्यता सुरभि पद्मपरागजालं पक्षानिलेन परिधूननसम्भवेन ।
संधुक्षयन्ति मकरध्वजहव्यवाहं शान्तं पुनः पुनरमी सरसीषु हंसाः।।
19.56 कालोत्थिताः स्थितिभृतो गुणयन्त्रितत्वात् दानोदकार्द्रकरपुष्करदर्शनीयाः।।
सम्भावयन्त्यभिमुखाः समयोपयातान् भृङ्गान् वनीपकजनानिव वारणेन्द्राः।।
19.57 गञ्जामुपेत्य मदकुञ्जरगण्डपालिं मत्तान् समीक्ष्य मधुपान् परिघूर्णमानान् ।
शुद्धानि हन्त कुमुदानि तमस्यपेते भूयस्तदन्वयभयादिव संकुचन्ति ।।
19.58 सत्त्वक्क्षमाधिकतया शयिताः पृथिव्यां निद्रामयीं व्यपगमय्य निजामविद्याम् ।
निस्सङ्गवृत्तिनियताः स्थिरसंयमार्हाः मुञ्चन्ति सम्प्रति मदं मुदिता गजेन्द्राः।।
19.59 सैन्यादयस्तव हयाः समये प्रबुद्धाः चत्वार एव निगमास्तव मूर्तिमन्तः।
आवर्तयन्त्यतनुहेषितवीचिभेदैः वैरात्रिकं वटुभिरध्ययनं प्रवृत्तम् ।।
19.60 आयोधने विहरणेप्यवधानवन्तः प्राज्यैः परिच्छदपरिष्करणोपचारैः।
संयोजयन्ति रथयोगविदः शताङ्गं तार्क्ष्यं द्वितीयमिव सारथयस्त्वदीयम् ।।
19.61 निद्रावशेषविगमेपि मदानुषङ्गात् मन्दं दृशौ मुकुलयन्ति मदावलेन्द्राः।
एषामनूरुकिरणैररुणीकृतानां सप्तस्रुतां भवति सान्ध्यपयोदलक्ष्मीः।।
19.62 आकृष्य दूरमवरोधगृहादमुष्मात् स्वाभाविकं वदनमारुतसौरभं ते ।
अम्भोरुहां गुणमपत्रपयन् समीरो मन्दं परिभ्रमति मन्दिरदीर्घिकासु ।।
19.63 आघूर्णितानि मृदुना पवनेन पद्मान्यावेदयन्ति मदलेशमयीमवस्थाम् ।
निर्गच्छतां तव च वारवधूजनानां निद्रावशेषकलुषाणि विलोचनानि ।।
19.64 रेणूत्कराः सरसिजोत्पलकैरवाणां कुर्वन्त्यनूरुतिमिरेन्दुरुचिप्रकाशाः।
प्रायः समुद्रतरुणीपरिकर्मभूतां चर्चां नवीनघुसृणागुरुचन्दनानांम् ।।
19.65 अध्यासितं कुमुदतल्पमपोह्य काले पद्मोत्पलानि शनकैः श्रियमाव्रजन्तीम् ।
संवीजयन्त्यलघुचामरदर्शनीयैः पक्षैः स्वयं परिजना इव राजहंसाः।।
19.66 प्रत्यूषलक्षणरसायनसम्प्रयोगात् प्रालेयरश्मिमहसा जरसेव मुक्ताः।
पद्मोत्पलप्रभृतिभिः परिकर्मवत्यो गृह्णन्ति यौवनदशां गृहदीर्घिकास्ते।।
19.67 औद्यानिकीषु सुमनस्स्वनवाप्तपूर्वं नुनं सरोरुहवनेषु च नूतनेषु ।
आदित्सते वदनमारुतसौरभं ते शय्यानिकाय्यमभितो विहरन् समीरः।।
19.68 अर्च्यस्य सम्प्रति सतामवगाढतीर्था मन्ये प्रगृह्य नलिनी मकरन्दमर्घ्यम् ।
व्यक्तद्विरेफनिनदा विहिताभिमुख्या पत्युस्त्विषां प्रणयतीव करप्रसारम् ।।
19.69 ज्योत्स्नासखीं कुमुदिनीं भ्रमरः प्रहृष्यन् निर्विश्य नित्यपरिशुद्धरुचिं निशायाम्।
रागादुपैति नलिनीं रजसाभिजुष्टां किं नाम नाचरति मन्मथहस्तवर्ती।।
19.70 सन्ध्याछलेन पुरुषोत्तम साम्प्रतं ते सैवाधुना भृगुसुता तमसां निहन्त्री।
भूयस्समुत्थितवती धृतपुण्डरीका भोगाय सागरगृहाद्भुवनैकयूनः।।
19.71 चन्द्रातपत्रिदिवशैवलिनीप्रवाहे मग्नोत्थितां कमलिनीमुपसेवमानाः।
प्रत्यग्रभिन्नमुकुलप्रसृतैः परागैः उत्थापयन्त्यगुरुधूपमिवोत्पलिन्यः।।
19.72 पौरन्दरीं दिशमनूरुनिबद्धरागां दृष्ट्वा तथा परिणमत्यपरा दिशापि ।
स्त्रीणां गतानुगतिकप्रतिपत्तिभाजां ख्यातं ततो भवति कामितकामिनीत्वम् ।।
19.73 निद्रायते कुमुदिनी चिरसम्प्रबुद्धा सुप्ता प्रबोधमुपयाति सरोजिनी च ।
यामेषु वृत्तिमनयोरधिगम्य नूनं शिष्यायितं त्वदवरोधनितम्बिनीभिः।।
19.74 मित्रस्य लुप्ततमसोप्यतिरागभाजः सम्प्रेक्षणं मम न युक्तमितीव मत्वा ।
मीलत्यसौ कुमुदिनी सह तारकाभिः प्राप्तं व्रतं तदिह राजपरिग्रहाणाम् ।।
19.75 आमोदयोगमवशात् सहसाश्रयन्ते पत्युस्त्विषां तव च पादनिषेवणेन।
क्षिप्तास्त्वया हृदि गृहीतशुचः क्षितीन्द्राः स्वान्तर्निविष्टमधुपाश्च सरोजकोशाः।।
19.76 आविस्स्मितैरमृतसिन्धुतरङ्गकल्पैः आकेकरप्रियतमाजनदृष्टिभोग्यैः।
त्वत्सौखशायनिकसूरिगणेन सार्धं निर्वेशयोगमुपयाम निरीक्षणैस्ते ।।
19.77 अधिगतनिलयानामौपवाह्यद्विपानां मदपयसि वितन्वन् मज्जनोन्मज्जनानि।
प्रवहति पवमानः स्पन्दयन् मन्दमन्दं परिणमदरुणिम्नः पङ्कजारण्यकोशान्।।
19.78 उपवनमधुपानामुन्मदस्वैरगीतैः तनुमरुदुपदिष्टैश्चारुलास्यैर्लतानाम् ।
दरविलुलितदानैर्दन्तिनां कर्णतालैः समयसमुचितं ते भाति सङ्गीतकृत्यम् ।।
19.79 हरति रतिविहारैरर्धविस्रंसितानां युवजनहृदयानि श्रान्तपञ्चायुधानि ।
उपहितगुणमारादुत्थिताभिर्वधूभिः कुटिलनियमिताग्रं गुम्भनं चूलिकानाम् ।।
19.80 क्षितिरियमवधूतध्वान्तनीलोत्तरीया विकसितमुखपद्मा व्यक्तसन्ध्याङ्गरागा।
अभिमतकरदाना निर्व्यपेक्षा त्वदन्यैः अनुभवितुमिव त्वां दर्शयत्यात्मरूपम् ।।
19.81 मधुन इव दयायास्सामरस्यं दधानैः कमलवनमनन्यां कान्तिमध्यापयद्भिः।
फणिपतिरमणीयं देव पर्यङ्कमुज्झन् परिणमय शुभं नः पावनैरक्षिपातैः।।
19.82 दिनमुखमिति नाम श्रावितःसूतपुत्त्रैरभजत जितनिद्रो जागरं यादवेन्द्रः।
सरिदपगमकाले साधु संरक्षणार्थं मुनिभिरिव स एव स्तूयमानो मुकुन्दः।।
19.83 धनमिव निगमानां धर्ममुत्तम्भयिष्यन् त्रिजगदनुविधेयं कर्म निष्पाद्य सान्ध्यम् ।
सितगुणपरिधानैः सेवितो मन्त्रिमुख्यैः अलमकुरुत नाथो हैममास्थानपीठम् ।।
इति कवितार्किकसिंहस्य सर्वतन्त्रस्वतन्त्रस्य श्रीमद्वेङ्कटनाथस्य श्रीमद्वेदान्ताचार्यस्य कृतिषु यादवाभ्युदयनाम्नि महाकाव्ये प्राबोधिकं नाम एकोनविंशः सर्गः ।