श्री:
कवितार्किकसिंह-सर्वतन्द्र-स्वतन्त्र श्रीमद्वेदान्तदेशिक विरचितं महाकाव्यम्
।। यादवाभ्युदयः ॥
एकविंशः सर्गः
21.1 वासुदेव इति नाम दधानः पौण्ड्रकस्तदनु भूरिमदान्धः।
मानुषत्वकवचान्तरितेन स्पर्धते स्म हरिणा हतचित्तः।।
21.2 हेतिपञ्चकमधारयत श्रीवत्सकौस्तुभमुखानि च मूढः।
ऐश्वराणि चरितानि च पूर्वाणयात्मनः स्वयमजूघुषदाप्तैः।।
21.3 इन्द्रजालकुहनादिषु दाक्ष्यात् ईश एष इति मोहितलोकः।
अध्यशेत भुजगेश्वरशय्यां आरुरोह विहगेन्द्रविवर्तम् ।।
21.4 अन्वहं च महतीं वनमालां माल्यकृद्भिरुपकल्प्य बभार।
नामधेयमदिशत् सचिवानां नाकनायकविशेषनिरूढम् ।।
21.5 बद्धकृत्रिमभुजान्तरयुग्मं शस्यमानमनुजीविजनेन ।
विश्वकर्तुरवतार इति स्वं बह्वमंस्त बधिरे निगमेषु।।
21.6 इत्थमीश्वरविडम्बनरूपं नाटकीयमनुरुध्य विहारम् ।
शोच्यतामपि परावरविद्धिः हास्यतामपि जगाम जगद्भिः।।
21.7 मस्तकस्थितदुरत्ययमृत्योः तस्य दूत उपसृत्य जगाद ।
कृत्यशेषविनिवेशितचित्तं निर्भयो नृपतिसंसदि नाथम् ।।
21.8 कृष्णकृष्ण गदतो गिरमर्थ्यां संशृणुष्व महतीमिह मत्तः।
अप्रमत्तमतिभिस्सह मित्त्रैः आप्तवाक्यमवधीर्य न सिद्धिः।।
21.9 अस्ति कश्चिदवधारितभूमा पूरुषः श्रुतिगणेषु पुराणः।
स क्षितिं परिगृहीतविहारः पौण्ड्रकत्वमधिगम्य भुनक्ति।।
21.10 तस्य नित्यनिरुपाधिकभूम्नो विश्वभोक्तुरधिगम्य तितिक्षाम् ।
भुज्यते नियतकर्मविपाकैः युष्मदादिभिरिला बहुभागा।।
21.11 अर्थतत्त्वमिदमश्रुतपूर्वं शृण्वतात्र भवता भवितव्यम् ।
निश्चलीकृतहिताहितसीम्ना जिष्णुना यदुकुलस्य विभूत्यै।।
21.12 आदिशत्यखिललोकनियन्ता त्वामसौ भजनसौ हृदनिघ्नः।
ईशितव्यगणनालिखितस्त्वं मा कृता वितथमीश्वरमानम् ।।
21.13 बाह्यवर्त्मनि परावरतत्त्व व्यत्ययेन विनिवृत्तसतत्वे ।
चित्तवृत्तिमधिरोप्य विमूढाः श्रेयसो हि बहिरेव भवन्ति।।
21.14 ईश्वरस्त्वमसि चेत् कुत एवं न त्वदग्रज इति प्रमितिः स्यात्।
द्वौ युवां परम इत्यपि दुःस्थं कस्ततो विषम एव न चान्यः।।
21.15 अर्थवादकुहनाभिरपि स्वान् ईश्वान् विगणयन्ति सुरेन्द्राः।
निष्प्रमाणजनुषो जनवादात् कःस्विदीश इति विश्वसिति स्वम्।।
21.16 गोपिकाभिरपि कर्मभिरास्तां बद्ध एव यदि मुक्तिविधाता ।
अद्भुतस्थितिरनान्तरबाह्यः सप्तमस्तु समयोयमपूर्वः।।
21.17 इष्ट एव तु मदीश्वरभावः त्वन्मुखैर्न खलु शक्यनिरोधः।
मत्सुखादिषु कथं विशयानैः मत्परत्वमपदं प्रतिषेध्यम् ।।
21.18 नामधेयमनपायि मदीयं त्यज्यतां प्रथय दासतया वा ।
चिह्न धारणमनेन गतार्थं कल्पनेन कथमीश्वरभावः।।
21.19 तादधीन्यनियमं यदि बुद्ध्वा सोहमित्यनुबुभूषसि तत् स्यात् ।
अन्यथा तु निगृहीतिरलङ्घ्या राजभावतृषितैरिव भृत्यैः।।
21.20 पाप्मनां तमसि पातयुतृणां आत्मचौर्यमधिराजपदस्थम् ।
चोदितेन नियतोपि हृतात्मा चोरदण्डमवशादुपयाति ।।
21.21 अभ्युपेतबडिशामिषनीतिं प्राप्तुमिच्छुरधिकारमयोग्यम् ।
इष्टमर्थमनवाप्य वराकः प्रत्यवैति सहसा परतन्त्रः।।
21.22 नापराध्यति क एव नियत्या पण्डितस्तु विनिवृत्य समिन्धे ।
अस्ति चाद्य शरणागतिरर्थ्या मत्परस्य तव जीवितुमिच्छोः।।
21.23 इत्युदीरितवति प्रणिधौ तं प्रत्युवाच विहसन् प्रभुराद्यः।
पथ्यमद्य वचनं तव मन्ये यद्ब्रवीषि चिरलिप्सितमेतत् ।।
21.24 उग्रसेनभृतका वयमेते नेशितार इति विभ्रमवन्तः।
सम्प्रति त्वदुपदेशमहिम्ना भावयेमहि तवेश्वरभावम् ।।
21.25 त्वय्यनीश्वरमति न च कुर्मः त्वं परोसि नियमेन परस्मात् ।
त्वां दिदृक्षव इमे वयमाशु त्वत्पदं गतभियः प्रतियामः।।
21.26 त्वादृशं प्रमितिमत्तमदृष्ट्वा त्वय्यनादरवतामतिलोके ।
यामिमां वदसि वाचमनूचीं भागधेयमिव पक्वमिदं नः।।
21.27 द्रक्ष्यते शरणमेत्य विभुस्ते क्षेप्यते च न मयैव न चक्रम् ।
गच्छ शीघ्रमभिधत्स्व तमीशं त्वामुपैति कुकुरध्वजिनीति।।
21.28 आत्तहेतिरपसर्पनिवृत्तौ चिन्तिताप्तमधिरुह्य सुपर्णम् ।
प्रास्थित प्रतिबलावसथाय प्राणितत्रिदशभूतिरनन्तः।।
21.29 साहसैकरसिकेन ततोसौ पौण्ड्रकेण युयुधे यदुवीरः।
तत्सखित्वमुपगम्य च पार्ष्णि गृह्णता सपदि काशिनृपेण।।
21.30 तत्र वैरिपृतने समकालं पूर्वपश्चिमतया प्रपतन्त्यौ ।
भावयन्नुभयतोमुखभावं प्रत्यविध्यदधिसायकधन्वा ।।
21.31 वैरिसैन्यविततेषु समन्तात् दिङ्मुखेषु सममेव पृषत्कैः।
तस्य दीप्तरुचिभिर्विनिपेते मध्यगस्य किरणैरिव पूष्णः।।
21.32 विद्विषौ युगपदुत्थितवन्तौ सागराविव विलङ्घितवेलौ।
रूपिणी इव रजस्तमसी द्वे सत्त्ववृत्तिरनघः स जघान ।।
21.33 अस्तमेवमवयद् यदुभास्वान् तावुभौ जगदुपद्रवहेतू ।
पूर्वतश्य परतश्य भवन्तौ दुर्ग्रहाविव दुरासददीप्तिः।।
21.34 तस्य तावुभयतो निपतन्तौ भग्नबाहुविटपायुधपुष्पौ।
जग्मतुः पृथुकभावविहारक्षिप्यमाणयमलार्जुनकक्ष्याम् ।।
21.35 नामचिह्नवसनाभरणाद्यैः नाथसम्पदनुकारनिरूढैः।
पौण्ड्रकस्थितिमवाप्य सृगालोप्यन्वभूत् किल गतिं च तदीयाम् ।।
21.36 विद्विषां विहितवीरगतीनां द्वारकोपगमितैर्द्विरदाद्यैः।
कौरवाध्युषितभागविभक्तेः आहितप्रतिभरा क्षितिरासीत् ।।
21.37 पातितेषु विमतेष्विति नाम प्राप्य यादवपुरं परमेष्ठी।
प्रेयसीभिरविभक्तरसाभिर्वीतरागसुभगो विजहार।।
21.38 जीवयुक्तमितरच्च विचित्रं द्यूतमर्पितपणं विदधानः।
भाविभारतमहाहवसिद्धेः सूचनं वितनुते स्म शुभंयुः।।
21.39 तोषितत्रिनयनस्य नृशंसः काशिराजतनयस्य पुरोधाः।
कल्पिताहुतिरजीजनदुग्रां कालवह्निपदवीमिव कृत्याम् ।।
21.40 साभिपत्य यदुवीरसकाशं हेतिराजविभवेन हताशा।
जन्मधामनि निजे नियमस्थं जञ्जपूकमभिसृत्य जघान ।।
21.41 निर्ददाह मगरीमथ काशीं विस्फुलिङ्ग इव माधवदीप्तेः।
यादवग्रसनकौतुकवत्या कृत्यया सह रथाङ्गकृशानुः।।
21.42 स्यन्दनद्विरदवाजिपदात्प्राज्यसौधपरिपाटिसमृद्ध्या।
चक्रवह्निविभवेन तदाभूत् चन्द्रशेखरविलेपनभूमा।।
21.43 क्षेत्रमेतदविमुक्तसमाख्यं मुक्तियोग्यमुपसृष्टमयोग्यैः।
इत्यवेक्ष्य दहनेन तदर्हां संस्क्रियामिव चकार सुदृष्टिः।।
21.44 अप्रशान्तरुषमद्भुतदीप्तं दग्धवैरिपुरमायुधराजम् ।
निर्जराः प्रतिनिशामयमानाः बिभ्यति स्म जगदुश्च जयोक्तिम् ।।
21.45 दैवतैरपि चतुर्मुखमुख्यैः दत्तसत्कृतिरसौ जितकाशी ।
इष्टनिर्वहणनिर्वृतचित्तं विष्टरश्रवसमभ्युपपेदे।।
21.46 आसुरप्रकृतिकेषु निरस्तेष्वेवमेभिरनुपालितसख्यः।
वानरो भुजबलेन बबाधे दुर्मतिर्जगदिदं द्विविदाख्यः।।
21.47 भूधरान् उदहरद् भुजशाली प्रक्षिपंश्च नगराणि ममर्द।
क्षोभयन् जलनिधीन् अनुवेलं प्लावयंश्च वसुधां प्रजहर्ष ।।
21.48 अन्यवीररहितामिव मत्वा वारिराशिरशनामवलिम्पन् ।
आत्मनः सदृशमाद्रियतैकं धेनुकप्रमथनेन नियुद्धम् ।।
21.49 एकदा हलधरस्य विहारे संपतन् अमितचापलचेष्टः।
द्वारकोपवनपादपभेदी विश्वतः किलकिलां विततान ।।
21.50 तालकेतुयुवतीर्विहरन्तीः त्रालसयन् मुखविकारविशेषैः।
क्रीडनोपकरणानि विभिन्दन् क्ष्वेडितानि विदधे विधिलूनः।।
21.51 तं प्रवृत्तकपित्यमदुरात् बाधितप्रतिबलो बलदेवः।
जङ्गमस्फटिकभूधरकल्पो रुक्मशैलरुचिरं निरुरोध।।
21.52 वानरेण सुपहृदा दनुजानां यातुधानसमरप्रथितेन ।
प्रेषितां द्रुमशिलोच्चयवृष्टिं निष्पिपेष मुसलेन हलास्त्रः।।
21.53 आपतन् अपसरन्नपि भेजे ग्राह्यतामिव च दुर्ग्रहतां च ।
अग्रतोभवदलक्ष्यत पश्चात् अप्रतर्क्यरभसो हरिवीरः।।
21.54 तौपरस्परगवेषितरन्ध्रौ कामपालकपिसैनिकपालौ।
याजितोद्धतकरौ युयुधाते दर्पतारुणदिशागजसत्तौ ।।
21.55 तं प्रलम्बदमनः प्लवगेन्द्रं विप्लुतं पुनपि प्लवमानम् ।
कालपाशनिगृहीतमरातिं कल्पमानमभवाय विवेद ।।
21.56 सव्यदक्षिणपरिक्रमणाभ्यां द्रागलातमयचक्रनिरीक्ष्यः।
आततान हलपाणिमदूरादग्निसालवलयस्थमिवारिः।।
21.57 तं गृहीतगरुडानिलवेगं सर्वतो युगपदेव समीक्ष्य ।
लाङ्गली जलधिलङ्घनदक्षं लाघवेन लघयन् विचचार।।
21.58 अन्धकारमिव तं प्रतिरुन्धन् अर्यमेव मुसली निजदीप्त्या।
दिङ्मुखान्यकलुषाणि वितन्वन् विश्वदृष्टिविभवाय बभूव।।
21.59 घर्णिताकुलितकौरवधाम्ना लाङ्गलेन ललितोद्धतलीलः।
यूथनाथमवरुध्य कपीनां मौलिघातमवधीन्मुसलेन ।।
21.60 वज्रपाणिमहिताद्भुतभूम्ना वानरेण निहतेन स रामः।
व्याचकार विनताभयदाता पुर्वरामचरितं पुनरुक्तम् ।।
21.61 धर्ममर्मभिदि दैवविपाकात् उद्धृते द्विविदनामनि शल्ये ।
रेवतीरमणरेचितखेदा नाकिनश्च मुनयश्च ननन्दुः।।
21.62 त्रासितेषु विबुधेषु तदग्रे पीतवन्तममृतं बलभद्रः।
प्रापयत् प्लवगमुख्यमितीव स्वर्गिभिस्सह सुधाशनभावम् ।।
21.63 भूतले हलधराहितगुप्तौ सारभूतसुभटग्रहणेन ।
उञ्छवृत्तिरुदरम्भरिरासीत् तादृशेन तपसैव कृतान्तः।।
21.64 एवमीषदवरोपितभारां भावयन् भुवमतोषयदार्यान् ।
पूर्वदेवजनितान् अभिनिघ्नन् पुर्वजेन सहितो यदुनाथः।।
21.65 भार्गवादिभिरबाधितभूम्नां निर्ममेष्वपि निकारपराणाम् ।
सौभहंसडिभिकप्रभृतीनां सूदनैरलघयच्च धरित्रीम् ।।
21.66 उग्रसेनविनिवेशितराज्यां उन्नमय्य यदुवंशविभूतिम् ।
तस्य दिग्विजयकोतुकमाद्यः सप्तलोकतिलको विततान ।।
21.67 तन्नियोगमथ शेखरयित्वा स्वप्रशासनवशंवदविश्वः।
यावदुक्तनियताखिलवृत्तीन् यादवान् उपनिनाय सुधर्माम् ।।
21.68 आत्मकल्पितधृतेरथ राज्ञः सन्निधौ सचिवपीठनिविष्टः।
मन्त्रणाय महतो यदुमुख्यान् सम्मुखान् प्रतिननन्द मुकुन्दः।।
21.69 अभजत नरपालमुग्रसेनं बहुमनुते स्म यदूंस्तथापि तुङ्गः।
क्वचिदभिलपने विभक्तिशक्त्या स्वगुणविभूतिगुणीभवन्निवैकः।।
21.70 अधिगुणहरिवंशवीरसङ्गात् अपचितवासवसङ्गमाभिलाषा ।
अतिशयरुचिरां वहन्त्यभिख्यां अचकमतेव सभा तदाधिराज्यम् ।।
इति कवितार्किकसिंहस्य सर्वतन्त्रस्वतन्त्रस्य श्रीमद्वेङ्कटनाथस्य श्रीमद्वेदान्ताचार्यस्य कृतिषु यादवाभ्युदयनाग्नि महाकाव्ये पौण्ड्रकादिवधो नाम एकविंशः सर्गः ।