श्री:
कवितार्किकसिंह-सर्वतन्द्र-स्वतन्त्र श्रीमद्वेदान्तदेशिक विरचितं महाकाव्यम्
।। यादवाभ्युदयः ॥
तृतीयः सर्गः
3.1 अथ जगन्ति बभूवुरनाविलान्यतिमिरा हरितः प्रचकाशिरे।
अभजदेव निशा दिवसश्रियं जननभाजिनि देवदिवाकरे ।।
3.2 ननृतुरप्सरसो दिवि नन्दिताः किमपि गीतमगीयत किन्नरैः ।
श्रुतिसुखैः समतोषयत स्वनैरमरदुन्दुभिरानकदुन्दुभिम् ।।
3.3 दशसु तत्र दिशास्वशरीरिणी जयजयेति बभूव सरस्वती ।
अजितमेकमगोचरयत् स्वयं स्वरसवृत्तिरसावसुरान्तकम् ।।
3.4 अनतिवेलसमीरणचोदितैः शिशिरशीकरशीभरिताम्बरैः।
जलधरैरभितो दिवि दध्वने सुरगजैरिव सूचितमङ्गलैः ।।
3.5 ववुरथो मरुतस्त्रिदशाङ्गनावदनसौरभसारभृतः शुभाः ।
मुदितनिर्जरमुक्तसुरद्रुमप्रसववृष्टिमधुद्रवमेदुराः ।।
3.6 मधुरिपोरवतारमहोत्सवे मुमुदिरे मधुरापुरदेवताः।
यदभिगन्तरि भक्तजने वरं ददुरशेषमतन्द्रितचेतसः।।
3.7 अवदधीनधियो मुनयस्तदा यदनधीतमधीतवदञ्जसा।
निगमजातमशेषमवेक्ष्य तन्निरविशन्निव मुक्तिमयीं दशाम् ।।
3.8 प्रसदनं शरदागमसंभवं नभसि मासि मदीभिरुपाददे ।
महितयोगविदां मतिभिः समं श्रुतिभिरग्यनुपप्लवनीतिभिः ।।
3.9 निखिलचेतनमानसनिःसृताः कलुषताः समुदे (पे) त्य किल क्षणात्।
विविशुरम्भ इव स्वयमापगाः जलनिधेरिव भोजपतेर्मनः ।।
3.10 असुरवीरगृहाणि पृथग्विधैरशुभशंसिभिरानशिरे मुहुः।
अमरराजपुरेषु जजृम्भिरे शुभनिमित्तशतानि पुनः पुनः ।।
3.11 चरमतश्च ऋणादिव देवकीपतिरमुच्यत शृङ्खलतः स्थिरात् ।
निखिलबन्धनिवर्तकसंनिधौ विगलनं निगलस्य किमद्भुतम् ।।
3.12 उदितमात्मनि देवकसंभवा दनुजभेदनमङ्कगतं दधौ ।
कमपि काञ्चनभूभृदधित्यका हरिहयोपलशृङ्गमिवाद्भुतम् ।।
3.13 विधृतशङ्खरथाङ्गगदाम्बुजः शबलितः शुभया वनमालया ।
पितुरसूत मुदं पृथुकस्तदा जलधिडिम्भनिभो जननीधृतः ।।
3.14 पितरमब्जभुवामनपायिनं प्रियतमाङ्कगतं परिपश्यता ।
स विभुरानकदुन्दुभिना महान् अवितथैः स्वगुणैरभितुष्टुवे ।।
3.15 प्रणिपतामि भवन्तमनन्यधीरखिलकारणमाश्रिततारणम् ।
अनुगमादनिदम्प्रथमा गिरः किमपि यत्पदमेकमधीयते ।।
3.16 विषमकर्मविपाकपरम्पराविवशवृत्तिषु देहिषु दुस्तरम्।
करुणया तव देव कटाक्षिताः कतिचिदेव तरन्ति भवार्णवम् ।।
3.17 त्वदनुभावमहोदधिशीकरैरवशपातिभिराहितशक्तयः।
अवधिभेदवतीमुपभुञ्जते स्वपदसंपदमब्जभवादयः ।।
3.18 श्रुतिकिरीटशुभाश्रयविग्रहः परमसत्त्वनिधिः प्रतिपद्यसे ।
जगदनुग्रहमारुतचोदितो विविधरूपतरङ्गविकल्पनाम् ।।
3.19 त्वयि न देव यदायतते न तज्जगति जङ्गममन्यदथापि वा ।
इति महिम्नि तव प्रमिते परं विभजने विविधैः स्थितमागमैः।।
3.20 अखिललोकपितुस्तव पुत्रतामहमयाचमनन्यमनोरथः ।
वरद वाञ्छितदानधृतव्रते त्वयि तदेवमयत्नमपच्यत ।।
3.21 अवनिभारनिराकरणार्थिनां क्रतुभुजामभिलाषमवन्ध्ययन् ।
जितरिपूणि बहूनि दयानिधे विहरणानि विधातुमिहार्हसि ।।
3.22 दनुजमोहनदोहलिना त्वया सहजलाञ्छनसंवरणं क्षमम् ।
तदधुना शमयन्मम साध्वसं यवमिकामधिगच्छ यथेप्सितम्।।
3.23 इति स भीतमवेक्ष्य दयानिधिः स्मितमुखो वसुदेवमभाषत।
त्वमसि मे जनकः किमिहान्यथा किमपि तात मुधा कथितं त्वया ।।
3.24 इयममर्त्यपितुस्तव गेहिनी दिविषदां जननी मम चानघा ।
अभिमतं युवयोरनवग्रहं समयभावि मयैव समर्थ्यते ।।
3.25 यदि बिभेषि भजामि मनुष्यतामथ च मां नय नन्दगृहं क्षणात् ।
दुहितरं च समानय तस्य तां गतभयो भव दूरगते मयि ।।
3.26 अथ निशम्य नियोगमभङ्गुरं मधुजितो मधुराक्षरमन्थरम् ।
हितमिदं प्रतिपद्य तमाददे गुरुतरं कृपया लघुतां गतम् ।।
3.27 श्रुतिसुगन्धितदाननचन्द्रिका मुषितमोहतमा मुनिसंनिभः ।
अधिजगाम स तन्मयतां क्षणादनिमिषत्वमुत प्रतिसंदधे ।।
3.28 तुहिनभानुदिनाकरलोचनं निगमनिःश्वसितं स्वसुतस्य तत् ।
अनुबभूव मुहुर्मुहुरादरादनघमाननमानकदुन्दुभिः ।।
3.29 जिगमिषुः स दिशो दश यादवः सकृदवैक्षत साध्वसविह्वलः ।
अनघवैभवमर्भकमुद्वहन्नमितगुप्तिनिरुद्धगतौ गृहे ।।
3.30 विजघटे सहसैव कवाटिका व्रजमथ व्रजतो यदुभूभृतः ।
उपकल्पमशेरत रक्षकाः सरणिमादिदिशुर्गृहदेवताः ।।
3.31 क्षरदसूनिव यामिकरक्षकान्मुषितमञ्जुगिरः शुकशारिकाः ।
यदुकुलेन्दुरपश्यदमीलितान्परिजनानपि चित्रगतानिव ।।
3.32 उपयतो विशिखां सदनान्तरात्कुवलयाभकुमारतनुत्विषा ।
शतमखोपलमेचकया द्रुतं शमितसंतमसा हरितो बभुः ।।
3.33 श्रुतिमयो विहगः परितः प्रभुं व्यचरदाशु विधूतनिशाचरः ।
अनुजगाम च भूधरपन्नगः स्फुटफणामणिदीपगणोद्वहः ।।
3.34 दिनकरोपमदीधितिभिस्तदा दनुजदेहविदारणदारुणैः।
परिगतः किल पञ्चभिरायुधैर्यदुपतिः प्रजहावसहायताम् ।।
3.35 प्रगुणमिन्दुनिवेदितपद्धतिर्यदुकुलेन्दुरथो यमुनानदीम् ।
परमपूरुषमक्षतपौरुषः पतगराज इवाशु वहन्ययौ ।।
3.36 तनुतरङ्गपृषत्कणशीतलः सुरभिकैरवसौहृदवासितः।
अभिसमेतमसेवत मारुतो यमुनया प्रहितो यदुपुंगवम्।।
3.37 पवनकम्पितपल्लवपाणिका प्रहितपुष्पभरा पदवीमुखे ।
उपजुहाव किल भ्रमरस्वनैर्यदुपतिं यमुनोपवनस्थली ।।
3.38 निमिषितासितनीरजलोचना मुकुलिताब्जमुखी सवितुः सुता ।
ललितदीनरथाङ्गयुगस्वना कुहकदैन्यमशोचदिव प्रभोः ।।
3.39 विकचकैरवतारकिताकृतिं तनुमतीमिव शारदयामिनीम् ।
त्वरितमम्बुनिधेरभिसारिकां तरितुमैहत सत्यसमीहितः।।
3.40 भवति किं नु भविष्यति वा किमित्यनवधरितशौरिविहारया ।
चकितयेव विरोचनकन्यया विधुतवीचिकरं किल विव्यथे ।।
3.41 घनतमःपरिपाकमलीमसैर्गुरुभिरूर्मिगणैरनुपप्लुतः ।
अतिततार दिनाधिपतेः सुतामनघयोगमना इव संसृतिम् ।।
3.42 यदुपतेर्यमुना त्वरितं यतः प्रतियतश्च समर्पितपद्धतिः।
स्वयममर्त्यमदावलमज्जनी चरणलङ्घ्यजला समजायत ।।
3.43 अजनि पश्चिमतो भृशमुन्नता रविसुता पुरतः स्थलशेषिता ।
अधिरुरोह पदं किमसौ हरेः प्रतिययौ यदि वा पितरं गिरिम् ।।
3.44 अकृतसेतुमनाकलितप्लवां जननसिन्धुदृढप्लवमुद्वहन् ।
रविसुतामतिलङ्घ्य रमापतिं सपदि घोषसमीपमुपानयत् ।।
3.45 अथ कयाचन कारणनिद्रया विवशसुप्तजनं व्रजमाविशत् ।
धनदपत्तनसंपदि यत्र सा स्वसितमग्र्यमसूयत रोहिणी ।।
3.46 उपगते वसुदेवसुतेन्तिकं नरकवैरिणि नन्दकुटुम्बिनी ।
अरणिसंभवपावकसंगमादभजताध्वरवेदिरिव श्रियम् ।।
3.47 न्यधित नन्दवधूसविधे सुतं द्रुतमुपादित गोपकुमारिकाम् ।
अथ निनाय च देवकनन्दनीशयनमानकदुन्दुभिराशु ताम् ।।
3.48 अनवबुद्धजनार्दनकन्यकाविनिमयस्त्वथ भोजगणेश्वरः ।
दृषदि तामभिहन्तुमपातयत्प्रतिजघान च सा चरणेन तम् ।।
3.49 नृपतिराशु पदा निहतस्तया निपतितोदितकन्तुकवद्भवन् ।
दवसमावृतशैलनिभः क्रुधा दरनिमीलितदृष्टिरदूयत ।।
3.50 उदपतद्दिवमुग्रघनस्वना युवतिरूपयुगात्ययशर्वरी ।
असुरघातिभिरष्टभिरायुधैरलघुभिश्चपलाभिरिवाश्रिता ।।
3.51 अथ च भोजनियन्तुरयन्त्रिता दनुजहन्तुरुदन्तमुदैरिरत् ।
पटुगभीरमुदारमनाकुलं हितमविस्तरमर्थ्यमविप्लवम् ।।
3.52 अहमशेषसुरासुरमोहनी यवनिका मधुकैटभमर्दिनः ।
प्रबलशुम्भनिशुम्भनिषूदने प्रणिहिता हतया तव किं मया ।।
3.53 वसति नन्दगृहे विबुधद्विषां दमयिता वसुदेवसमुद्भवः ।
अयमसौ तव नाशयितेति सा दरमुदीर्य जगाम यथेप्सितम् ।।
3.54 मधुहिरण्यनिभो मधुरापतिर्दिनहुताशनदीनदशां गतः ।
श्वसितजल्पितवेपितहुंकृतैररतिमायतभीतिरसूचयत् ।।
3.55 जडमतिः स जनार्दनमायया विहसितस्त्रपया जनितव्यथः ।
अपकृतं वसुद्वममोचयद्दयितया सह दीनविलापया ।।
3.56 किमपि चिन्तितमागतमन्यथा किमिदमित्यवशादुपजातया।
विषविदूषितयेव मनीषया मुहुरदूयत मोहविचेष्टितः ।।
3.57 अविषये विपदामसुरान्तके पुनरियेष निकारपरम्पराम् ।
नियतिरेकमुखी दुरतिक्रमा कृतधिया किमुतानिलचेतसा ।।
3.58 परिबभूव चुकोप विसिष्मिये परिजहास हरिं प्रजगर्ज च ।
परिणतेन भवान्तरवासनाग्रहगुणेन भजन्भवितव्यताम् ।।
3.59 क्वचन धामनि कंसनिवेदिते सभयमानकदुन्दुभिरावसत् ।
स्मृतिगतेन सुतेन सजीविता दिनशतानि निनाय च देवकी ।।
3.60 विगतकन्यकया च यशोदया नियतिसंभृतनिर्भरनिद्रया ।
चिरसमागतजागरयान्तिके हरिरपत्यमदृश्यत धन्यया ।।
3.61 यदवबुद्धनिराकुलनीतिभिर्मुनिगणैरधुनापि विमृग्यते ।
तदिदमागममौलिविभूषणं विधिवशादभवद्व्रजभूषणम् ।।
3.62 अनघवत्समनाकुलधेनुकं प्रचुरदुग्धमचोरभयोद्भवम् ।
व्रजमनामयविश्वजनं विभुः कृतयुगास्पदकल्पमकल्पयत् ।।
3.63 अजनि गोपगृहेषु मनोरमैरमितकान्तिभिरप्सरसां गणैः ।
यदनुभूतिरसेन समेष्यतः शरणयादवशैशवयौवने ।।
3.64 सुरमहीसुरतोषणमादरान्नवमुपादित नन्द उदारधीः ।
तरलगोपगणागमसंकुलं तनयजन्ममहोत्सवमद्भुतम् ।।
3.65 अधिचकार वदान्यमणेः श्रियं व्यधित कल्पतरोरनुकल्पताम् ।
अजनयच्च सुतप्रसवोत्सवे महति मेघविकत्थनमोघताम् ।।
3.66 निधिमनन्तमिव स्वयमुत्थितं निरवधिं निजभागमिवोदितम् ।
व्रजभुवः प्रतिलभ्य रमापतिं जहसुरैन्द्रमसारतरं पदम् ।।
3.67 पुत्रं प्रसूय तपसा पुरुषं पुराणं कालं चिरं विधिवशात्कृतविप्रकर्षौ ।
शङ्काकलङ्कितधियावपि दम्पती तौ तद्वैभवस्मरणशान्तरुजावभूताम् ।।
3.68 नन्दसद्मनि नवेम्दुसंनिभौ वासमेत्य वसुदेवनन्दनौ ।
वृद्धिमापतुरनेहसा स्वयं स्वादुभोगजननीं सुपर्वणाम् ।।
इति श्रीकवितार्किकसिंहस्य सर्वतन्त्रस्वतन्त्रस्य श्रीमद्वेङ्कटनाथस्य वेदान्ताचार्यस्य कृतिषु यादवाभ्युदये महाकाव्ये श्रीकृष्णस्य नन्दगृहप्राप्तिवर्णनं नाम तृतीयः सर्गः ।।