यतीन्द्रमतदीपिका

श्रीः

श्रीमते रामानुजाय नमः

 

श्रीमद्वाधूलकुलतिलक-श्रीमन्महाचार्य-प्रधानशिप्य-श्रीनिवासाचार्य-विरचिता
यतीन्द्रमतदीपिका


प्रथमोऽवतारः
उपोद्धातः

श्रीवेङ्कटेशम् करिशैलनाथम् श्रीदेवराज घटिकाद्रिसिम्हम् ।
कृष्णेन साकं यतिराजमीडे स्वप्ने च दृष्टान् मम देशिकेन्द्रान् ।। १ ।।
यतीश्वरम् प्रणम्याहम् वेदान्तायम् महागुरुम् ।
करोमि बालबोधार्थम् यतीन्द्रमतदीपिकाम् ।।२।।

१. श्रीमन्नारायण एव चिदचिद्विशिष्टाद्वैततत्त्वम् भक्तिप्रपत्तिभ्याम् प्रसन्नः स उपायः, अप्राकृतदेशविशिष्ठ: स एव प्राप्य इति वेदान्तवावयैः प्रतिपादयताम् श्रीव्यासबोधायन-गुहदेवभारुचिब्रह्मनन्दिद्रमिडाचार्य श्रीपराङ्कुशनाथयामुनमुनियतीश्वरप्रभृतीनाम् मतानु- सारेण बालबोधार्थम् वेदान्तानुसारिणी यतीन्द्रमतदीपिकाख्या शारीरकपरिभाषा महाचार्यकृपावलम्बिना मया यथामति सङ्ग्रहेण प्रकाश्यते ।

२. सर्वम् पदार्थजातम् प्रमाणप्रमेयभेदेन द्विधा भिन्नम् । प्रमाणानि त्रीण्येव । प्रमेयम् द्विविधम् – द्रव्याद्रव्य भेदात् । द्रव्यम् द्विविधम् – जडमजडम् चेति । जडम् तु द्वि- विधम् – प्रकृतिः कालश्चेति । प्रकृतिश्चतुर्विम्शतितत्त्वात्मिका । कालस्तु उपाधिभेदात् त्रिविधः ।

३. अजडम् तु द्विविधम् – पराक् प्रत्यक् चेति । अजडम् परागपि तथा – नित्यविभूति- धर्मभूतज्ञानम् चेति ।

४. प्रत्यगपि द्विविधः- जीवेश्वरभेदात् । जीवस्त्रिविधः- बद्धमुक्तनित्यभेदात् । बद्धोऽपि द्विविधः – बुभुक्षुमुमुक्षुभेदात् । बुभुक्षुर्द्विविधः – अर्थकामपरो धर्मपरश्चेति । धर्मपरो द्विविधः –  देवतान्तरपरो भगवत्परश्चेति । मुमुक्षुर्द्विविधः- कैवल्यपरो मोक्षपरश्चेति । मोक्षपरो द्विविधः – भक्तः प्रपन्नश्चेति । प्रपन्नो द्विविधः – एकान्ती परमैकान्ती चेति। परमैकान्ती द्विविधः – दृप्तार्त भेदात् ।

५. पञ्चधावस्थित ईश्वरः – परव्यूहविभावन्तर्यावतारभेदात् । पर एकधा । व्यूहश्च- तुर्द्धा – वासुदेवसङ्कर्षणप्रद्युम्नानिरुद्धभेदात् । केशवादि व्यूहान्तरम् । मत्स्यादयो विभवाः पुनरनन्ताः । अन्तर्यामी प्रतिशरीरमवस्थितः । अर्चावतारस्तु – श्रीरङ्ग- वेङ्कटाद्रिहस्तिगिरियादवाद्रिघटिकाचलादिषु सकलमनुजनयनविषयताम् गतो मूर्तिविशेषः ।

६. अद्रव्यम् तु सत्त्वरजस्तमःशब्दस्पर्शरूपरसगन्धसम्योगशक्तिभेदाद्दशधैव ।

७. एवमुद्दिष्टानामुद्देशक्रमेण लक्षणपरीक्षे क्रियेते । तत्र प्रमाकरणम् प्रमाणम् । प्रमाणम् लक्ष्यम् । प्रमाकरणत्वम् लक्षणम् । यथावस्थितव्यवहारानुगुणज्ञानम् प्रमा। प्रमा लक्ष्यम् । यथावस्थितव्यवहारानुगुणज्ञानत्वम् लक्षणम् । “ज्ञानम् प्रमा” इत्युक्ते शुक्तिकायाम् “इदम् रजतम्” इति ज्ञाने अतिव्याप्तिः; अत उक्तम् “व्यवहारानुगुणम्” इति । एवमपि तत्रैवातिव्याप्तिः; भ्रान्तिदशायामपि “इदम् रजतम्” इति व्यवह्रियमाण-त्वात् । अत उक्तम् “यथावस्थितम्” इति । “यथावस्थित” इति पदेन सम्शयान्यथा-ज्ञानविपरीतज्ञानव्यावृत्तिः ।

८. धर्मिग्रहणे मिथोविरुद्धानेकविशेष स्मरणम् सम्शयः । यथा ऊर्द्धता विशिष्टे “स्थाणुर्वा पुरुषो वा” इति ज्ञानम् । अन्यथाज्ञानम् नाम धर्मि विपर्यासः । यथा कर्तृत्वेन भासमाने आत्मनि कुयुक्तिभिः कर्तृत्वस्य भ्रान्तत्वोपपादतम् । विपरीत-ज्ञानम् नाम धर्मिविपर्यासः । यथा बस्तुनो वस्त्वन्तरज्ञानम् ।

९.  लक्षणस्य त्रीणि दूषणानि सन्ति । अव्याप्त्यतिव्याप्त्यसम्भवभेदात् । लक्ष्यैकदेशे लक्षणस्यावर्तमानत्वमव्याप्तिः। “कपिलवर्णवत्त्वम् गोर्लक्षणम्” इति लक्षणे कृते शुक्ला- यामव्याप्तिः । लक्ष्यादन्यत्र प्रवर्तमानत्वमतिव्याप्तिः । लक्ष्ये क्वाप्यविद्यमानत्वमसम्भवः । यथा – “चक्षुर्विषयो जीव” इत्युक्ते असम्भव एव ।
अत्रोक्तदूषणत्रयाभावात् प्रमालक्षणम् स्वस्थम् ।

१०. साधकतमम् करणम् । अतिशयितम् साधकम् साधकतमम् । यस्मिन् सति अविलम्बेन ज्ञानमुत्पद्यते तत् “अतिशयितम्”   इत्युच्यते । तेन प्रमाकरणम् प्रमाण-मिति सिद्धम् । अनधिगतार्थ –  गन्तृ प्रमाणमित्यादिकम् तु तत्तद्वादिभिरेव निरस्त-त्वादनादरणीयम् ।

प्रत्यक्षम्

११. तानि प्रमाणानि प्रत्यक्षानुमानशब्दाख्यानि त्रीणि ।

१२. अत्र साक्षात्कारप्रमाकरणम् प्रत्यक्षम् । अनुमानादिव्यावृत्त्यर्थम् “साक्षात्कार” इति। दुष्टेन्द्रियजव्यावृत्त्यर्थम् “प्रमा” इति ।

१३. तच्च प्रत्यक्षम् द्विविधम् – निर्विकल्पकसविकल्पकभेदात् ।  निर्विकल्पकम् नाम गुणसम्स्थानादिविशिष्टप्रथमपिण्डग्रहणम् । सविकल्पकम् तु सपत्यवमर्शम् गुण-सम्स्थानादिविशिष्ट द्वितीयादिपिण्डग्रहणम् । उभयविधमपि एतद् विशिष्टविषयमेव । अविशिष्टग्राहिणो ज्ञानस्यानुपलम्भादनुपपत्तेश्च ।

१४. ग्रहणपकारस्तु – आत्मा मानसा सम्युज्यते, मन इन्द्रियेण, इन्द्रियमर्थेनिति । इन्द्रियाणाम् प्राप्यप्रकाशकारित्वनियमात् । अतो घटादिरूपार्थस्य चक्षुरादिरूपेन्द्रि-यस्य च सन्निकर्षे सति “अयम् घटः” इति चाक्षुषज्ञानम् जायते । एवमेव स्पार्श- नप्रत्यक्षादयोऽपि ।

१५. द्रव्यग्रहणे सम्योगः सम्बन्धः । द्रव्यगतरूपादिग्रहणे समवायानङ्गीकारात् सम्युक्ताश्रयणसम्बन्धः ।

१६. निर्विकल्पकसविकल्पकभिन्नम् प्रत्यक्षम् द्विविधम् – अर्वाचीनम् अनर्वाचीनम् चेति । अर्वाचीनम् पुनर्द्विविधम् – इन्द्रियसापेक्षम् तदनपेक्षम् चेति । तदनपेक्षम् च द्विविधम् – स्वयम्सिद्धम् दिव्यम् चेति । स्वयम् सिद्धम् योगजन्यम् । दिव्यम् भगवत्प्रसादजन्यम् । अनर्वाचीनम् तु इन्द्रियानपेक्षम् मुक्तनित्येश्वरज्ञानम् । अनर्वाचीनम्म् तु प्रसङ्गादुक्तम् । एवम् साक्षात्कारप्रमाकरणम् प्रत्यक्षमिति सिद्धम् ।

१७, ननु यथावस्थितव्यवहारानुगुणज्ञानम् प्रमेत्युक्तम् । एवञ्च स्मृतेरपि यथाव-स्थितव्यवहारानुगुणत्वेन प्रामाण्यात् स्मृतेरपि प्रमाणत्वेन परिगणनाच्च त्रीण्येव प्रमाणानीति कथम् प्रतिपाद्यते? इति चेत्, उच्यतेः – स्मृतेः प्रामाण्याङ्गीकारेऽपि सम्स्कारसापेक्षत्वात् तस्य प्रत्यक्षमूलत्वात् मूलभूतप्रत्यक्षेऽन्तर्भाव इति न पृथक् प्रमाणत्वकल्पनम् । अतस्त्रीण्येवेति प्रमाणानि सम्भवन्ति ।

१८. स्मृतिर्नाम पूर्वानुभवजन्यसम्स्कारमात्रजन्यम् ज्ञानम् । सम्स्कारोद्वोधश्च “सदृशादृष्टचिन्ताद्याः स्मृतिबीजस्य बोधकाः”  इत्युक्तप्रकारेण  कचित्सदृशदर्शनाद्भवति, कचिददृष्टात्, कचिच्चिन्तया । आदिशब्देन साहचर्यस्यापि ग्रहणात्तेनापि च भवति ।

१९. सादृश्यजा यथा – देवदत्तयज्ञदत्तयोः सदृशयोर्देवदत्तदर्शनेन यज्ञदत्तस्मृतिः। द्वितीया यथा – यादृच्छिकी कालान्तरानुभूतश्रीरङ्गादिदिव्यदेशस्मृतिः। तृतीया यथा – चिन्त्य-माने सति श्रीवेङ्कटेशस्य कमनीयदिव्यमङ्गलविग्रहस्मृतिः । चतुर्थी तु सहचरितयो- र्देवदत्तयज्ञदत्तयोर्मध्ये अन्यतरदर्शनेन तदन्यतरस्मृतिः ।

२०, सम्यक् पूर्वमनुभूतस्य सर्वस्य स्मृतिविषयत्वनियमः । क्वचित्कालदैर्ध्यात् व्याध्यादिना वा सम्स्कारप्रमोषात् स्मृत्यभावः ।

२१. यथा स्मृतेः प्रत्यक्षेऽन्तर्भावस्तथा “सोऽयम् देवदत्त” इति प्रत्यभिज्ञायाम् अपि प्रत्यक्षेऽन्तर्भावः । अस्मन्मते अभावस्य भावान्तररूपत्वात् तज्ज्ञानस्यापि प्रत्य- क्षान्तर्भावः । भूतले घटात्यन्ताभावो भूतलमेव । घटप्रागभावो नाम मृदेव । घटध्वम्सश्च कपालमेव ।

२२. प्रायः पुरुषेण अनेन भवितव्यम् इत्येतदूहः । पुरः किं-सम्ज्ञकोऽयम् वृक्ष इति अनध्यवसायो ज्ञानम् सम्शय उक्तः । एतयोरपि प्रत्यक्षेऽन्तर्भावः । पुण्यपुरुषनिष्ठा प्रतिभापि प्रत्यक्षेऽन्तर्गता ।

२३. सर्वम् विज्ञानम् यथार्थमिति वेदान्तविदाम् मतमित्युक्तत्वात्, भ्रमादिप्रत्यक्ष- ज्ञानम् यथार्थमेव ।

२४. अख्यात्यात्मख्यात्यनिर्वचनीयताख्यात्यन्यथाख्यात्यसत्ख्यातिवादिनो निरस्य सत्ख्यातिपक्षस्वीकारात् ।

२५. सत्ख्यातिर्नाम ज्ञानविषयस्य सत्यत्वम् । तर्हि भ्रमत्वम् कथम्? इति चेत्, विषयव्यवहारबाधात् भ्रमत्वम् । तदुपपादयामः- पञ्चीकरणप्रक्रियया पृथिव्यादिषु सर्वत्र सर्वभूतानाम् विद्यमानत्वात् । अत एव शुक्तिकादौ रजताशम्स्य विद्यमानत्वा-

ज्ज्ञानविषयस्य सत्यत्वम् । तत्र रजताम्शस्य स्वल्पत्वात् तत्र न व्यवहार इति तज्ज्ञानम् भ्रमः । शुक्त्यम्शभूयस्त्वज्ञानात् भ्रमनिवृत्तिः ।

२६. स्वप्नादिज्ञानम् तु सत्यमेव । तत्तत्पुरुषानुभाव्यतया तत्तत्कालावसानान् रथादीन् परमपूरुषः सृजतीति श्रुत्याऽवगम्यते ।

२७. “पीतः शङ्ख” इत्यादौ नयनवर्तिपित्तद्रव्यसम्युक्ता नायनरश्मयः शङ्खादिभिः सह सम्युज्यन्ते । तत्र पित्तगतपीतिमाभिभूतः शङ्खगतशुक्लिमा न गृह्यते। अतः सुवर्णा- नुलिप्तशङ्खवत् “पीतः शङ्ख” इति प्रतीयते । सूक्ष्मत्वात् पीतिमा स्वनयननिष्कान्त-तया स्वेनैव गृह्यते, न तु अन्यैः ।

२८. जपाकुसुमसमीपवर्तिस्फटिकमणिरपि “रक्त” इति गृह्यते । तज्ज्ञानम् सत्यमेव ।

२९. मरीचिकायाम् जलज्ञानमपि पञ्चीकरणप्रक्रियया पूर्वोक्तवदुपपद्यते । पञ्ची- करणप्रक्रिया तु उत्तरत्र वक्ष्यते ।

३०. दिग्भ्रमोऽपि तथैव । दिशि दिगन्तरस्य विद्यमानत्वात् अवच्छेदकमन्तरेण दिगिति द्रव्यान्तरानङ्गीकाराच्च ।

३१. अलातचक्रादौ तु शैघ्रयात्तदन्तरालाग्रहणात्तत्तद्देशसम्युक्ततत्तद्वस्तुन एव चक्राकारेण ग्रहणम् । तदपि सत्यमेव ।

३२. दर्पणादिषु निजमुखादिप्रतीतिरपि यथार्था । दर्पणादिप्रतिहतगतयो नायनरश्मयो दर्पणादिग्रहणपूर्वकम् निजमुखादि गृह्णन्ति । तत्राप्यतिशघ्रयादन्तरालाग्रहणात् तथा प्रतीतिः ।

३३. द्विचन्द्रज्ञानादावपि अङ्गुल्यवष्टम्भतिमिरादिभिर्नयनतेजोगतिभेदेन सामग्रीभेदात् सामग्रीद्वयमन्योन्यनिरपेक्षम् चन्द्रद्वयग्रहणे हेतुर्भवति । सामग्रीद्वयम् पारमार्थिकम्, तेन द्विचन्द्रज्ञानम् भवति ।

३४. अतः सर्वम् ज्ञानम् सत्यम् सविशेषविषयम् च । निर्विशेषवस्तुनोऽग्रहणात् ।

३५. एवम्भूतम् प्रत्यक्षम् प्रथमतो भेदमेव गृह्णाति । भेद इति व्यवहारे तु प्रतियोग्य- पेक्षा न स्वरूपे । तेन अनवस्थान्योन्याश्रयदोषोऽपि नास्ति । उपर्युपर्यपेक्षाऽनवस्था । परस्परापेक्षोऽन्योन्याश्रयः ।

३६. ननु “दशमस्त्वमसि” इत्येतदपि प्रत्यक्षम् किम् न स्यात्? इति चेत्, न। “त्वम्” इत्येतस्य प्रत्यक्षत्वेऽपि “दशमोऽहम्” इत्यस्य वाक्यजन्यत्वात् । यदि “दशमोऽहम्” इत्यस्य प्रत्यक्षविषयत्वम् तर्हि “धर्मवॉस्त्वमसि” इत्येतस्यापि प्रत्यक्षत्वम् स्यात् । अङ्गीकारे  अतिप्रसङ्गात् । अत एव ‘तत्त्वमसि’ इति वाक्यस्य नापरोक्षज्ञानजनक- त्वम् ।

३७. एतेन प्रत्यक्षप्रमाकरणम् प्रमाणम् । प्रमा च आत्मचैतन्यमेव । चैतन्यम् च त्रिविधम् – अन्तःकरणावच्छिन्नचैतन्यम्, अन्तःकरणवृत्त्यवच्छिन्नचैतन्यम्, विषया- वच्छिन्नचैतन्यम् चेति । यदा त्रयाणामैक्यम् तदा साक्षात्कारः । सोऽपि निर्विशेष- विषय एव अभेदमेव गृह्णातीत्यादिकुदृष्टिकल्पना निरस्ता ।

३८. निर्विकल्पकम् नाम जात्यादियोजनाहीनम् वस्तुमात्रावगाहि किञ्चिदिदमित्यादि- नैयायिकमतमपि निरस्तम् ।

३९. ननु “काणादम् पाणिनीयम् च सर्वशास्त्रोपकारकम्”

इत्युक्तत्वात् कथं गौतममतनिरासः? इति चेत्, उच्यते । नास्माभिः कात्स्र्न्येनास्य मतस्य निरासः क्रियते । यावदिह युक्तियुक्तम् तावत्

स्वीक्रियते । परकल्पिततटाकोपजीवनवत् न खलु तटाकस्थः पङ्कोऽपि स्वीक्रियते ।

४०. अतः परमाणुकारणत्ववेदपौरुषेयत्वेश्वरानुमानिकत्वजीवविभुत्वानि, सामान्यसम-वायविशेषाणाम्  पदार्थत्वेन स्वीकारः, उपमानादेः पृथक् प्रमाणत्वकल्पनम्, संख्या- परिमाणपृथक्त्वपरत्वापरत्वगुरुत्वद्रवत्वादीनाम् पृथक् गुणत्वकल्पनम्, दिशोऽपि द्रव्यत्वकल्पनमित्यादिसूत्रकारादिविरुद्धा प्रक्रिया नास्माभिः स्वीक्रियते इति न विरोधः ।

इति श्रीवाधूलकुलतिलकश्रीमन्महाचार्यस्य प्रथमदासेन श्रीनिवासदासेन

विरचितायाम् यतीन्द्रमतदीपिकायाम् प्रत्यक्षनिरूपणम्

नाम प्रथमोऽवतारः ॥

द्वितीयोऽवतारः

अनुमानम्

१. अथानुमानम् निरूप्यते । व्याप्यस्य व्याप्यत्वानुसन्धानात् व्यापकविशेष- प्रमितिरनुमितिः । तत्करणमनुमानम् । व्याप्यस्य धूमस्य अग्निव्याप्यत्वानु- सन्धानात् व्यापकविशेषप्रमितिर्वह्निप्रमितिः ।

२. अनधिकदेशकालनियतम् व्याप्यम् । अन्यूनदेशकालवृत्ति व्यापकम् तदिदम- विनाभूतम् व्याप्यम्; तत्प्रतिसम्बन्धि व्यापकमिति ।

३. तेन निरुपाधिकतया नियतसम्बन्धो व्याप्तिरित्युच्यते । सेयम् “यत्रधूमस्तत्र वह्निः” इति व्याप्तिर्भूयोदर्शनात् गृह्यते ।

४. व्याप्तिर्द्विविधा – अन्वयव्यतिरेक भेदात् । साधनविधौ साध्यविधिरूपेण प्रवृत्ता व्याप्तिरन्वयव्याप्तिः । यथा – “यो यो धूमवान् स सोऽग्निमान्” इति । साध्यनिषेधे साधननिषेधरूपेण प्रवृत्ता व्याप्तिर्व्यतिरेकव्याप्तिः । यथा – “योऽनग्निः स निर्धूम”

इति ।

५. सेयमुभयविधा व्याप्तिरुपाधिसम्भवे दुष्यति । साध्यव्यापकत्वे सति साधना- व्यापकत्वम् उपाधिः । यथा वह्निना धूमे साध्यमाने आर्द्रेन्धनसम्बन्ध उपाधिः । मैत्रीतनयत्वेन इयामत्वे  साध्यमाने शाकपाकजत्वमुपाधिः ।

६. स चोपाधिर्द्विविधः – निश्चितः शङ्कितश्चेति। निश्चितो यथा – “विप्रतिपन्ना सेवा दुःखहेतुः, सेवात्वात्, राजसेवावत्” इत्यत्र पापारब्धत्वमुपाधिः । अयन्तु ईश्वरसेवायां नास्तीति निश्चयादयं निश्चितोपाधिः । शङ्कितो यथा – “विप्रतिपन्नो जीव एतच्छरीरा- वसाने मुक्तिमान्, निष्पन्नसमाधित्वात्, शुकादिवत्” इत्यत्र कर्मात्यन्तपरिक्षय उपाधिः। स च निष्पन्नसमाधौ विप्रतिपन्ने जीवे, अस्ति नास्तीति सन्दिग्दधत्वात् शङ्कितोपाधिः । अतो निरुपाधिकसम्बन्धवत् व्याप्यमिति सिद्धम् ।

७. व्याप्यम् साधनम् लिङ्गम् इत्यनर्थान्तरम् ।

८. तस्य द्वे रूपे अनुमित्यङ्गभूते – व्याप्तिः पक्षधर्मता चेति । पञ्चरूपाण्यपि सन्ति। तानि च पक्षसत्त्वम् सपक्षसत्त्वम् विपक्षात् व्यावृत्तिः अबाधितविषयत्वम् असत्प्रति-पक्षत्वम् चेति ।

९. सिसाधयिषितधर्मविशिष्टो धर्मी पक्षः । यथा अग्निमत्त्वादिसाधने पर्वतादिः ।

१०. सिसाधयिषितसजातीयधर्मवान् सपक्षः । यथा महानसादिः ।

११. साध्यतज्जातीयशून्यो विपक्षः । यथा महाह्रदः ।

१२. प्रबलेन प्रमाणेन पक्षे निश्चितसाध्याभाववत्त्वम् बाधितविषयत्वम् । यथा – “महाह्रदोऽग्निमान्” इत्यादि । तदभावस्तु अबाधितविषयत्वम् ।

१३. समबलतया प्रतीयमानप्रमाणोपरोधाभावोऽसत्प्रतिपक्षत्वम् ।

१४. एवम्भूतम् व्याप्यम् द्विविधम् – अन्वयव्यतिरेकिकेवलान्वयिभेदात् ।

१५. पूर्वोक्तपञ्चरूपोपपन्नम् व्याप्यम् अन्वयव्यतिरेकि । यथा – “पर्वतोऽग्निमान् धूमवत्त्वात्, यो यो धूमवान् स सोऽग्निमान्, यथा “महानसः” “योऽग्निः स निर्धूमः, यथा महाह्रद” इति ।

१६. तादृशमेव विपक्षरहितम् व्याप्यम् केवलान्वयि । यथा – “ब्रह्म शब्दवाच्यम्, वस्तुत्वात्, घटवत्” । विपक्षाभावात् केवलान्वयि चतूरूपोपपन्नम् ।

१७. केवलव्यतिरेकिणि साध्याप्रसिद्धेस्तद्व्यतिरेकव्याप्तिर्ग्रहा । अतः केवलव्यतिरेकि- निरासः ।

१८. केवलान्वयिनि अन्वयव्यतिरेकिणि च अत्यन्तातीन्द्रियार्थगोचरता निरस्ता ।

१९. तदेतदनुमानम् स्वार्थर्म् परार्थम् चेति द्विधा विभज्य केचिदाहुः ।

२०. सर्वेषामनुमानानाम् स्वप्रतिसन्धानादिबलेन प्रवृत्ततया स्वव्यवहारमात्रहेतुत्वमिति स्वार्थानुमानमेव इत्यपरे ।

२१. तदनुमानबोधकवाक्यम् प्रतिज्ञाहेतूदाहरणोपनयनिगमनरूपपञ्चावयवसम्युक्तम् ।

२२. तत्र पक्षवचनम् प्रतिज्ञा । यथा – “पर्वतोऽग्निमान्” इति ।

२३. लिङ्गस्य वचनम् हेतुः । यथा – “धूमवत्त्वात्” इति ।

२४. व्याप्तिनिर्देशपूर्वकम् दृष्टान्तवचनमुदाहरणम् । तत् द्विधा – अन्वयव्यतिरेकभेदात्। यथा – “यो यो धूमवान् स सोऽग्निमान्, यथा महानस” इत्यन्वयोदाहरणम् । ‘योऽन- ग्निः स निर्धूमः, यथा महाह्रद” इति व्यतिरेकोदाहरणम् ।

२५. दृष्टान्तनिदर्शनेन व्याप्ततया पक्षे हेतूपसम्हारवाक्यमुपनयः । सोऽपि द्विविधः – अन्वयव्यतिरेक भेदाद् । “तथा धूमवान्” इति अन्वयोपनयः । ‘अयम् च न तथा निर्धूम” इति व्यतिरेकोपनयः ।

२६. हेतुपूर्वकम् पक्षे साध्योपसम्हारवाक्यम् निगमनम् । एतदपि द्विविधम् । यथा –“तस्मादग्निमान्” इति अन्वयेन निगमनम् । “तस्मादयम् निरग्निर्न भवति” इति व्यतिरेकेण ।

२७. एवम् पञ्चावयववादिनो नैयायिकाः ।

२८. प्रतिज्ञाहेतूदाहरणरूपत्र्यवयववादिनो मीमाम्सकाः ।

२९. उदाहरणोपनयरूपावयवद्वयवादिनः सौगताः ।

३०. अस्माकम् त्वनियमः । क्वचित् पञ्चावयवः क्वचित्त्र्यवयवः क्वचित् द्वय-वयवः। उदाहरणोपनयाभ्यामेव व्याप्तिपक्षधर्मतयोः सिद्धत्वात् तावतैव अनुमित्युपप-त्तेश्च । मृदुमध्यमकठोरधियाम् विस्तरसङ्ग्रहाभ्याम् व्यवहार उपपद्यते इत्यनियम एव। एवम् पञ्चावयवसम्युक्तः सद्धेतुरेव वह्नयनुमापकः । सद्धेतुरित्युक्तत्वात् धूमसदृश- धूलीपटलान्न वह्नयनुमितिः ।

३१. अन्ये हेतुवद्भासमाना हेत्वाभासाः । ते च असिद्धविरुद्धानैकान्तिकप्रकरण-समकालात्ययापदिष्टभेदेन पञ्चप्रकाराः ।

३२. तत्र असिद्धस्त्रिविधः – स्वरूपासिद्ध आश्रयासिद्धो व्याप्यत्वासिद्धश्चेति ।

३३. स्वरूपासिद्धो यथा – “नित्यो जीवः, चाक्षुषत्वात्, घटवत्” इति ।

३४. आश्रयासिद्धस्तु – “व्योमारविन्द सुरभि अरविन्दत्वात्, सरोजारविन्दवत्” इति । व्योमारविन्दमाश्रयः । स चासिद्धः ।

३५. व्याप्यत्वासिद्धो द्विविधः – एको व्याप्तिग्राहकप्रमाणाभावात्, अपरस्तु उपाधि- सद्भावात् । आद्यो यथा – “यत् सत् तत् क्षणिकम्” इति । क्षणिकत्वसत्त्वयोः व्याप्ति- ग्राहकप्रमाणासिद्धेः। द्वितीयो यथा – “अग्नीषोमीया हिम्सा अधर्मसाधिका हिम्सात्वात्, क्रतुबाह्यहिम्सावत्” इति । अत्र निषिद्धत्वमुपाधिः । अतो हिम्सात्वहेतुः सोपाधिकः ।

३६. साध्यविपरीतव्याप्तो हेतुविरुद्धः । तद्यथा – “नित्या प्रकृतिः, कृतकत्वात्, कालवत्”। कृतकत्वहेतुः साध्याभावव्याप्तः ।

३७. सव्यभिचारोऽनैकान्तिकः । स च द्विविधः – साधारणोऽसाधारणश्चेति ।

३८. पक्षसपक्षविपक्षवृत्तिः साधारणः । यथा – “शब्दो नित्यः, प्रमेयत्वात्, कालवत्” । असाधारणस्तु विपक्षसपक्षव्यावृत्तः । यथा- “भूमिर्नित्या, गन्धवत्त्वात्” इति ।

३९. प्रकरणसमस्तु साध्यविपरीतसाधकहेत्वन्तरवान् । यथा – “ईश्वरोऽनित्यः, नित्यधर्मरहितत्वात्” । “ईश्वरो नित्यः, अनित्यधर्मरहितत्वात्” इति । अयमेव सत्प्रतिपक्षः ।

४०. कालात्ययापदिष्टो यथा – यस्य हेतोः साध्याभाववान् पक्षः स कालात्ययापदिष्टः

यथा – “अग्निरनुष्णः, पदार्थत्वात्, जलवत्” । अयम् च प्रत्यक्षेण उष्णत्वाव- धारणात् बाधितः ।

४१. एवमनुमाने निरूपिते उपमानादेरनुमानादावन्तर्भावः । यथा अतिदेशवाक्यार्थ- स्मरणसहकृतगोसादृश्यविशिष्टपिण्डज्ञानम् उपमानम् । गवयमजानन्नपि “यथा गौः तथा गवय” इति कुतश्चिदारण्यकवाक्यात् श्रुत्वा वनम् गतो वाक्यार्थम् स्मरन् यदा गोसादृश्यविशिष्टपिण्डम् पश्यति तदा तद्वाक्यार्थस्मरणसहकृतसदृशपिण्डज्ञानम् जायते। तदुपमानमित्युच्यते । स्मरणरूपत्वात् तस्य प्रत्यक्षेऽन्तर्भावः। व्याप्तिग्रहणा-पेक्षत्वादनुमाने अन्तर्भावः। वाक्यजन्यत्वात् शब्दे वा अन्तर्भाव ऊह्यः ।

४२. अर्थापत्तिर्नाम दिवा अभुञ्जानस्य पुरुषस्य पीनत्वदर्शनात् रात्रौ भोजनम् कल्प्यते । एतस्या अनुमाने अन्तर्भावः ।

४३. तर्को नाम व्याप्याङ्गीकारेण व्यापकप्रसञ्जनम् । तद्यथा – “पर्वतो वह्निमान्, धूमवत्त्वात्” इत्यनुमाने, “धूमोऽस्तु वह्निर्मास्तु’ इत्युक्ते, “यदि वह्निर्न स्यात् तर्हि धूमोऽपि न स्यात्” इति; एतस्य प्रमाणानुग्राहकत्वम् ।

४४. तर्कानगृहीतप्रमाणपूर्वकत्वावधारणम् निश्चयः ।

४५. वीतरागकथा वादः ।

४६. पक्षद्वयसाधनवती विजिगीषुकथा जल्पः ।

४७. स्वपक्षस्थापनहीना तु वितण्डा ।

४८. अविवक्षितशब्दार्थारोपेण दूषणम् छलम् ।

४९. स्वव्यापि दूषणम् जातिः । असदुत्तरम् जातिरिति वा ।

५०. पराजयहेतुर्निग्रहस्थानम् । इत्येषामनुमानाङ्गत्वादनुमाने अन्तर्भावः ।

५१. क्वचित् क्वचित् नैयायिकमतानुसारेण उक्तमिति न विरोधः । इत्यनुमानम् निरूपितम् ।

इति श्रीवाधूलकुलतिलकश्रीमन्महाचार्यस्य प्रथमदासेन श्रीनिवासदासेन

विरचितायाम् यतीन्द्रमतदीपिकायाम् अनुमाननिरूपणम्

नाम द्वितीयोऽवतारः ॥

 

तृतीयोऽवतारः

शब्दः

१. अनुमाननिरूपणानन्तरम् शब्दो निरूप्यते । अनाप्तानुक्तवाक्यजनिततदर्थविज्ञानम् शाब्दज्ञानम् । तत्करणम् शब्दप्रमाणम्। “अनाप्तानुक्त” इत्युक्तत्वात् वेदस्य पौरुषेयत्व- मतनिरासः । कारणदोषबाधकप्रत्ययाभाववत् वाक्यम् वा ।

२. सर्गादौ भगवान् चतुर्मुखाय पूर्वपूर्वक्रमविशिष्टान् वेदान् स्मृत्वा स्मृत्वा उपदिश-तीत्युवत्या वेदस्य नित्यत्वमपौरुषेयत्वम् च सिद्धमिति करणदोषाभावो बाधकप्रत्यया- भावश्च ।

३. ननु वेदवाक्यानाम् मीमाम्सकैः कार्यपरतयैव प्रामाण्यस्वीकारात् सिद्धब्रह्म-परवाक्यानाम् व्युत्पत्त्यसम्भवाच्च कथम् प्रमाण्यम्? इति चेत्, न। सिद्धब्रह्मपरवाक्या- नामपि उपासनान्वयस्वीकारात् । “पिता ते सुखमास्ते” इति लौकिकसिद्धपरवाक्य-स्यापि बोधकत्वदर्शनात् बालानाम् लोके मातापितृप्रभृतिभिःअम्बातातमातुलचन्द्रादीन् अङ्गुल्या निर्दिश्य तदभिधायकशब्दान् प्रयुञ्जानैः क्रमेण भूयः शिक्षितानाम् तत्तदर्थ-बुद्धयुत्पत्तिदर्शनात् वेदेऽपि परिनिष्पन्नेऽप्यर्थे शब्दस्य बोधकत्वम् सम्भवतीति न अप्रामाण्यशङ्कावकाशः ।

४. तर्हि अभिचारादिप्रतिपादकवेदाम्शस्य कथम् प्रामाण्यम् इति न शङ्कनीयम् । तस्य दृष्टफलदर्शनेन अदृष्टस्वर्गादिफलसाधनादौ प्रवृत्तिप्रयोजकत्वात् ।

५. यूपादित्यवाक्यम् तु आदित्यवद्यूपप्रकाशनपरम् । अतः कृत्स्नस्य वेदस्य प्रामाण्यम् ।

६. स च वेदः कर्मब्रह्मप्रतिपादकपूर्वोत्तरभागाभ्याम् द्विधा भिन्नः । आराधनकर्म-प्रतिपादकम् पूर्वकाण्डम् । आराध्यब्रह्मप्रतिपादकमुत्तरकाण्डम् । उभयोर्मीमाम्स-योरैकशास्त्र्यम् ।

७. भागद्वयात्मको वेद ऋग्यजुःसामाथर्वणरूपेण चतुर्धावस्थितः । पुनरनन्तप्रकारश्च।

८. ऋगादिबहुप्रकारवान् वेदो मन्त्रार्थवादविधिरूपेण त्रिविधः ।

९. अनुष्ठेयार्थप्रकाशको मन्त्रः ।

१०. विध्यधीनप्रवृत्त्युत्तम्भकवाक्यविशेषोऽर्थवादः ।

११. हितानुशासनवाक्यमिह विधिः । स च त्रिविधः- अपूर्वपरिसङ्ख्यानियमभेदात् । ते पुनर्नित्यनैमित्तिकाभ्यादिभेदात् बहुविधाः ।

१२. “व्रीहीन् प्रोक्षति” (ते. ब्रा.) इति अपूर्वविधिः ।

१३. मनोमयत्वाद्युपासनविधिर्विशिष्टविधिः ।

१४. “इमामगृभ्णन्” इति अश्वरशनाविधिः परिसङ्ख्याविधिः ।

१५. गुर्वभिगमनादिविधिर्नियमविधिः ।

१६. सन्ध्योपासनादिर्नित्यविधिः ।

१७. जातेष्टयादिविधिनैमित्तिकविधिः ।

१८. ज्योतिष्टोमादिविधिः काम्यविधिः ।

१९. एवम् विध्यर्थवादमन्त्रात्मकस्य वेदस्य छन्द: कल्प: शिक्षा निरुक्तम् ज्योतिषम् व्याकरणम् इत्येतान्यङ्गानि ।

२०. छन्द: अनुष्टुत्रिष्टुबादिप्रतिपादनरूपः ।

२१. श्रौतस्मार्तप्रयोगप्रतिपादनपरः कल्पः ।

२२. शिक्षा वर्ण निर्णयात्मिका ।

२३. निरुक्तम् अपूर्वार्थ प्रतिपादकम् ।

२४. ज्योतिषम् अध्ययनतदर्थानुष्ठानकालनिर्णयात्मकम् ।

२५. व्याकरणम् तु सुशब्दस्वरादिसमर्थनपरम् ।

२६. एवम् साङ्गस्य वेदस्य प्रामाण्यम् सिद्धम् ।

२७. अथ श्रुत्यविरुद्धाचारव्यवहारप्रायश्चित्तादिप्रतिपादिका आप्तप्रणीता स्मृतिः प्रमाणम्।

२८. हिरण्यगर्भादीनामाप्तत्वेऽपि तेषाम् गुणत्रयवश्यत्वसम्भवात् तत्कर्तृकयोग- कपिलादिस्मृतीनाम् मन्वादिस्मृत्यविरुद्धाम्श एव प्रमाणम् । तत्त्वविपर्यासात् विरुद्धाम्शोऽप्रमाणम् ।

२९. वेदोपबृम्हणरूपेतिहासपुराणयोरपि प्रामाण्यम् स्वतः – सिद्धम् ।

३०. तत्र भारतरामायणयोः क्वचित् क्वचिद्विरोधभानेऽपि तत्त्वाम्शे वेदान्तवाक्य- वदविरोधो ज्ञेयः ।

३१. सर्गादिपञ्चकप्रतिपादकपुराणेष्वपि सात्त्विकराजसतामसभेदभिन्नेषु तत्त्वाम्शे विरोधाभावात् विरुद्धाम्शोऽप्रमाणम्, अन्यत् सर्वम् प्रमाणम् । पशुपताद्यागमा अपि तथैव ।

३२. आगमदिव्यतन्त्रतन्त्रान्तरसिद्धान्तभेदभिन्नस्य श्रीपाञ्चरात्रागमस्य क्वचिदपि वेदविरोधाभावात् कात्स्न्येन प्रामाण्यम् । एवम् वैखानसागमस्यापि ।

३३. धर्मशास्त्राणामपि तथैव । शाण्डिल्यपराशरभारद्वाजवसिष्ठहारीतादयो धर्मशास्त्र-प्रणेतारः ।

३४. शिल्पायुर्वेदगान्धर्वभरतादिकमप्युपयुक्ताम्शे तथैव ।

३५. शिल्पो नाम कर्षणादिगोपुरप्राकारनिर्माणादिप्रतिपादकः ।

३६. आयुर्वेदो वैद्यकम् ।

३७. गान्धर्वो नाम गानादिनिरूपकः ।

३८. भरतागमो नृत्यादिनिरूपकः ।

३९. पुनश्चतुःषष्टिकलारूपेषु शास्त्रेषु तत्त्वोपायपुरुषार्थोपयुक्तानि प्रमाणानि ।

४०. बकुलाभरणादिसूरिसूक्तयः कार्त्स्न्येन प्रमाणतराः ।

४१. श्रीमद्रामानुजाचार्यप्रभृतिभिः प्रणीताः श्रीभाष्यादिप्रबन्धाः प्रमाणतमाः ।

४२. पुरुषस्वातन्त्र्याधीनरचनाविशेषविशिष्टम् पौरुषेयम् । एतेन काव्यनाटकालङ्का-रादीनामपि लक्षणमुक्तम् स्यात् ।

४३. एवम् आकाङ्क्षायोग्यतासन्निधिमल्लौकिकवाक्यान्यपि प्रमाणानि । यथा-“नद्यास्तीरे पञ्चफलानि सन्ति” इत्यादीनि ।

४४. एवम् वैदिकलौकिकसाधारणम् वाक्यम् द्विविधम् -मुख्यवृत्तिगौणवृत्तिभेदात् ।

४५. मुख्यवृत्तिरभिधावृत्तिः । यथा – सिम्हशब्दस्य मृगेन्द्रे ।

४६. सा अभिधावृत्तिः योगरूढयादिभेदेन बहुविधा।

४७. मुख्यार्थबाधे सति तदासन्नेऽर्थे वृत्तिरौपचारिकी । सा द्विविधा – लक्षणा- गौणीभेदात् । प्रथमा यथा – “गङ्गायाम् घोष” इत्यत्र घोषाधिकरणस्य बाधात् तीरे लक्षणा । द्वितीया यथा – “सिम्हो देवदत्त” इत्यत्र देवदत्ते शौर्यादिगुणयोगः ।

४८. एवम् वैदिकलौकिकरूपम् सर्वम् वाक्यजातम् सविशेषविषयकम् भेदविषयकम् च।

४९. शरीरवाचकशब्दानाम् यथा शरीरिणि पर्यवसानम्, एवम् भगवच्छरीरभत-ब्रह्मरुद्राग्नीन्द्रादिचिद्वाचकशब्दानाम् तथा तच्छरीरभूतप्रकृतिकालाकाशप्राणाद्य-चिद्वाचशब्दानाम् च शरीरिणि परमात्मनि श्रीनारायणे पर्यवसानमुपपादयन्त्याचार्यः ।

५०. वेदान्तज्ञानात् व्युत्पत्तिः पूर्यत इत्युक्तम् ।

५१. नारायणस्य सर्वशब्दवाच्यत्वम् सर्वशरीरकत्वमित्यादिकम् तु उपरि ईश्वर- निरूपणे प्रतिपादयिष्यामः ।

५२. इति शब्दो निरूपितः ।

इति श्रीवाधूलकुलतिलकश्रीमन्महाचार्यस्य प्रथमदासेन श्रीनिवासदासेन

विरचितायाम् यतीन्द्रमतदीपिकायाम् शब्दनिरूपणाम्

नाम तृतीयोऽवतारः ॥

 

 

चतुर्थोऽवतारः

प्रकृतिः

१. प्रमाणनिरूपणानन्तरम् प्रमेयम् निरूप्यते । प्रकर्षेण मेयम् प्रमेयम् । तच्च द्विविधम् – द्रव्याद्रव्यभेदात् । द्रव्यम् उपादानम् । अवस्थाश्रयमुपादानम् ।

२. ननु “द्रव्यगुणकर्मसामान्य” – इत्यादिना मतान्तरस्थैः षोढा परिगणनात् कथम् द्रव्याद्रव्यभेदेन द्विधा समर्थनम्? इति चेत्, उच्यते ।

३. उत्क्षेपणापक्षेपणाकुञ्चनप्रसारणगमनभेदात् कर्म पञ्चधावस्थितमिति कल्पने गौरवात् “चलनात्मकम् कर्म” इति एकधा एव उपपत्ते तस्यापि सम्योगमादायैवोपपत्तेः, सम्स्थानमेव जातिरिति सम्स्थानातिरेकिसामान्यानङ्गीकारात्, समवाये समवायान्त-

राङ्गीकारे अनवस्थानात्, तस्यापि सम्युक्तविशेषणतयवोपपत्तेः, जीवेश्वरयोरणुत्वविभु- त्वादिविभाजकधर्ममन्तरेण “विशेष” इति किञ्चित्पदार्थान्तराङ्गीकारे गौरवाच्च कर्म- सामान्यविशेषसमवायानाम् पृथक्तवेनानङ्गीकारात् द्रव्यमद्रव्यमिति द्विधा विभाग

उपपद्यते।

४. एतेन अभावः सप्तमपदार्थ इत्यपि निरस्तम् । अभावस्य भावान्तररूपत्वात् । प्रागभावो नाम पूर्वावस्थापरम्परा । प्रध्वम्साभावो नाम उत्तरावस्थापरम्परा अत्यन्ता- भावान्योभावी तु धर्म्यन्तरस्वरूपावेव । एतस्य प्रत्यक्षेऽन्तर्भावः पूर्वमुक्तः । उपादानम्  द्रव्यमित्युक्तम् । गुणाश्रयो द्रव्यमिति सामान्यलक्षणम् सम्भवति ।

५. तानि च द्रव्याणि षट् – प्रकृतिकालशुद्धसत्त्वधर्मभूतज्ञानजीवेश्वरभेदात् ।

६. तत्र जडाजडरूपयोर्विभक्तयोर्मध्ये जडलक्षणमुच्यते – अमिश्रसत्त्वरहितम् जडमिति । तत् द्विविधम् – प्रकृतिकालभेदात् ।

७. तत्रम् सत्त्वरजस्तमोरूपगुणत्रयाश्रयरूपा प्रकृतिः । सा नित्या अक्षरा अविद्या मायेति शब्दवाच्या च । तस्या भगवत्सङ्कल्पाधीनगुणवैषम्यात् कार्योन्मुखावस्था अव्यक्तशब्देनोच्यते । तस्मान्महानुत्पद्यते । स महान् सात्त्विकराजसतामसभेदात् त्रिधावस्थितः । महतोऽहङ्कार उत्पद्यते । सोऽपि सात्त्विकाहङ्कारो राजसाहङ्कार- स्तामसाहङ्कारश्चेति त्रिविधो भवति । एतेषाम् त्रयाणाम्  वैकारिकस्तैजसो भूतादिरिति नामान्तराण्यपि सम्भवन्ति । तेषु वैकारिक इति प्रसिद्धाद्राजसाहङ्कारसहकृतात् सात्त्विकाहङ्कारादेकादशेन्द्रियाणि जायन्ते ।

८. सात्त्विकाहङ्कारोपादानकम् द्रव्यमिन्द्रियम् इति इन्द्रियलक्षणम् । इन्द्रियम् द्विविधम् – ज्ञानेन्द्रियम् कर्मेन्द्रियम् चेति ।

९. ज्ञानप्रसरणशक्तमिन्द्रियम् ज्ञानेन्द्रियम् । तत् षोढा – मनः श्रोत्रचक्षुर्घ्राणरसना- त्वग्भेदात् ।

१०. स्मृत्यादिकरणम् इन्द्रियम् मनः । तच्च हृदयप्रदेशवृत्ति बुद्धयहङ्कारचित्तादिशब्द- वाच्यम् बन्धमोक्षहेतुभूतम् च ।

११. शब्दादिपञ्चके शब्दमात्रग्रहणशक्तमिन्द्रियम् श्रोत्रम् । तन्मनुष्यादीनाम् कर्णशा- कुल्यवच्छिन्न प्रदेशवृत्ति । द्विजिह्वानाम् नयनवृत्ति ।

१२. एवम् रूपमात्रग्रहणशक्तमिन्द्रियम् चक्षुः । तत् सर्वेषाम् नयनवृत्ति ।

१३. गन्धमात्रग्रहणशक्तमिन्द्रियम् घ्राणम् । नासाग्रवृत्ति ।

१४. रसमात्रग्रहणशक्तमिन्द्रियम् रसनेन्द्रियम् । जिह्वाग्रवृत्ति।

१५. स्पर्शमात्रग्रहणशक्तमिन्द्रियत्र त्वगिन्द्रियम् । सर्वशरीरवृत्ति । नखदन्तकेशादिषु प्राणमान्द्यतारतम्यात् स्पर्शानुपलम्भः ।

१६. श्रोत्रादीन्द्रियाणाम् भौतिकत्वप्रतिपादनम् भूताप्यायितृत्वेनौपचारिकम् ।

१७. एतेषाम् विषयसम्बन्धः क्वचित् सम्योगः क्वचित् सम्युक्ताश्रयणमिति वृद्ध-सम्प्रदायः ।

१८. उच्चारणादिषु अन्यतमक्रियाशक्तत्वम् कर्मेन्द्रियसामान्यलक्षणम् । तच्च वाक्पाणिपादपायूपस्थ भेदात् पञ्चधाव स्थितम् ।

१९.  वर्णोच्चारणकरणमिन्द्रियम् वाक् । सा च हृत्कण्ठजिह्वामूलतालुदन्तोष्ठनासा- मूर्द्धरूपस्थानाष्टकवृत्तिः । मृगादिषु अदृष्टविरहात् तदभावः ।

२०. शिल्पादिकरणमिन्द्रियम् पाणिः । स च मनुष्यादीनाम् अङ्गल्यादिवृत्तिः । वारणादीनाम् नासावृत्तिः ।

२१. सञ्चरणकरणमिन्द्रियम् पादः । स च मनुष्यादीनाम् चरणवृत्तिः । भुजङ्ग- पतङ्गादीनामुर पक्षादिवृत्तिः ।

२२. मलादित्यागकरणमिन्द्रियम् पायुः । स च तत्तदवयववृत्तिः ।

२३. आनन्दविशेषकरणमिन्द्रियम् उपस्थः । स च मेहनादिवृत्तिः।

२४. एतानीन्द्रियाण्यणूनि। परकायप्रवेशलोकान्तरगमनादिषु च जीवेन सह गच्छन्ति। इन्द्रियाणाम् मुक्तिदशायाम् अप्राकृतदेशगमनासम्भवादिहैव यावत्प्रलयम् स्थितिः । करणविधुरैरन्यैः परिग्रहो वा । कर्मेन्द्रियाणाम् शरीरनाशान्नाश इति पक्षस्तु

श्रीभाष्यादिविरोधेन हेयः ।

२५. एतेन पुरुषेन्द्रियम्, स्त्रीन्द्रियम्, एकेन्द्रियवादः, त्वगिन्द्रियैकत्वस्वीकार इत्यादिविमतपक्षा निरस्ताः ।

२६. राजसाहङ्कारसहकृतात् भूतादिसञ्ज्ञकतामसाहङ्कारात् शब्दादिपञ्चतन्मात्राणि आकाशादिपञ्चमहाभूतनि च उत्पद्यन्ते ।

२७. भूतानामव्यवहितसूक्ष्मावस्थाविशिष्टम् द्रव्यम् तन्मात्रम् भूतोपादानम् ।

२८. विशिष्टशब्दादिविषयादिकरणम् भूतम् ।

२९. तन्मात्राणि शब्दतन्मात्रम्, स्पर्शतन्मात्रम्, रूपतन्मात्रम्, रसतन्मात्रम्, गन्ध- तन्मात्रमिति पञ्च ।

३०. भूतानि च तथा – आकाशवायुतेजोप्पृथिवीभेदात् ।

३१. तत्र तामसाहङ्काराकाशयोर्मध्यमावस्थाविशिष्टम् द्रव्यम् शब्दतन्मात्रम् । क्षीर- दध्नोरन्तरालपरिणामवत् ।

३२. तस्मादाकाशो जायते। अस्पर्शवत्त्वे सति विशिष्टशब्दाधारत्वम् श्रोत्राप्यायिकत्वम् च आकाशलक्षणमिति । स च  प्रत्यक्षः शब्दमात्रगुणकः अवकाशहेतुः । “नीलम् नभ” इति प्रतीतेः पञ्चीकरणप्रक्रियया रूपवाँश्च । एतेनाकाशस्य अजन्यत्वनिरासः।

३३. सूर्यपरिस्पन्दादिभिराकाशस्यैव प्राच्यादिव्यवहारोपपत्तो दिगिति न पृथक् द्रव्यकल्पनम् । दिक्सृष्टिस्तु अन्तरिक्षादिसृष्टिवदुपपद्यते ।

३४. आकाशात् स्पर्शतन्मात्रम् । आकाशवाय्वोर्मध्यमावस्थाविशिष्टद्रव्यम् स्पर्श- तन्मात्रम् ।

३५. तस्माद्वायुः । विशिष्टस्पर्शवत्त्वे सति  रूपशून्यत्वम्, अस्मदादिस्पर्शनैकेन्द्रिय- ग्राह्यद्रव्यत्वम्, अनुष्णाशीतविशिष्टस्पर्शवत्त्वे सति गन्धशून्यत्वमित्यादिकम् वायो- र्लक्षणम्। तस्मिन्नासलिलातपकुसुमाद्यवयवयोगाच्छीतोष्णसौरभादिप्रतीतिः त्वगिन्द्रि- याण्यायकत्वेन उपकरोति । तस्य शब्दस्पर्शै गुणौ ।

३६. तत्र शरीरधारणादिहेतुर्वायुविशेषः प्राणः । स च पञ्चप्रकारः प्राणापानव्यानोदान-समानभेदात् हृदि प्राणो, गुदेऽपानः, सर्वशरीरगो व्यानः, कण्ठे उदानो, नाभिदेशे समान इति नियमः । जङ्गमेष्विव स्थावरेषु च प्राणसम्बन्धस्तुल्य एव । वायोः स्पार्शन- प्रत्यक्षत्वेन अनुमेयवादनिरासः ।

३७. वायुतेजसोर्मध्यमावस्थाविशिष्टम् द्रव्यम् रूपतन्मात्रम् ।

३८. तस्मात् तेजः । उष्णस्पर्शवत्त्वभास्वररूपवत्त्वादिकम् तु तेजसो लक्षणम् । तस्य बहिः पचनादिहेतुत्वम् अग्निसूर्यात्मना । अन्तर्वैश्वानरसञ्ज्ञकजाठराग्निरूपेण दिवा- भीतादिव्यतिरिक्तानाम् चाक्षुषज्ञाने आलोकादिरूपेण सहकारी भवति ।

३९. तच्चतुर्द्धा – भौमदिव्यौदर्याकरजभेदात् ।

४०. तत्र पार्थिवमात्रेन्धनम् तेजो भौमम् ; तत् दीपादि । जलमात्रेन्धनम् दिव्यम् ; तत् सूर्यादि । पार्थिवजलेन्धनम् औदर्यम्; तत् जाठरम् । निरिन्धनम् तेज आकरजम्; तत् सुवर्णादि । सुवर्णस्य द्रव्यान्तरसम्सर्गादुष्णस्पर्शाभावः ।

४१. पुनः सामान्येन प्रभा प्रभावाँश्चेति विभक्तः ।

४२. आवरणसदसद्भावाधीनसङ्कोचविकासः प्रसारितेजोविशेषः प्रभा । सा च प्रभावद्भिः सहोत्पद्यते सह नश्यति । द्रव्यरूपा गुणभूता सावयवा च । अनेन प्रभायाः केवल- गुणत्वमतनिरासः ।

४३. प्रभाविशिष्टम् तेजः प्रभावान् । स चतुर्विध इति प्रतिपादितम् । तत्तेजः शब्दस्पर्शरूपगुणवच्च ।

४४. तेजः सलिलयोर्मध्यमावस्थाविशिष्टम् द्रव्यम् रसतन्मात्रम् ।

४५. तस्मादापः । शीतस्पर्शवत्त्वम् निर्गन्धत्वे सति विशिष्टरसवत्त्वम् इत्यादि अपाम् लक्षणम् । तासाम् शुक्लमधुरशीतैकस्वभावानाम् आश्रयादिसम्सर्गभेदात् रूपरस- स्पर्शवैचित्र्यारोपः । ताः समुद्र सरिदादिरूपेण बहुप्रकाराः । शब्दस्पर्शरूपरसवत्यश्च सेचनपिण्डीकरणादिहेतवः ।

४६. अप्पृथिव्योर्मध्यमावस्थाविशिष्टम् द्रव्यम् गन्धतन्मात्रम् ।

४७. तस्मात् पथिवी । विशिष्टगन्धवत्त्वम् रसवत्त्वे सति विशिष्टस्पर्शवत्त्वमित्यादि पृथिवीलक्षणम् । सा सुरभिर्मधुरा कृष्णादिरूपा अनुष्णाशीतस्पर्शवती च । पाकज- भेदात्तु विचित्रवर्णा विचित्ररसा च । अस्याश्च मनोघ्राणाप्यायकत्वेन उपकारकत्वम् ।

मृत्पाषाणान्नौषधादिबहुप्रकारवती शब्दस्पर्शरूपरसगन्धगुणका धारणहेतुश्च ।

४८. तमसः पृथिव्यामन्तर्भावस्तद्गुणत्वात् तदवस्थान्तरत्वाद्वा । अत एव आलोका- भावमात्रम् द्रव्यान्तरम् वा इत्यादिपक्षा निरस्ताः ।

४९. भूतेषु सर्वत्र पञ्चीकरणप्रक्रियया शब्दादीनाम् गुणानामुपलम्भः ।

५०. पञ्चीकरणप्रक्रिया तु – भगवान् भूतानि सृष्ट्वा एकैकमेव भूतम् द्विधाकृत्य द्वयोर्भागयोः स्वभागमेकम् निधाय भागान्तरम् चतुर्द्धाकृत्य ताँश्चतुर्भागान् भूतान्तरेषु चतुर्षु योजयति । एवम् सर्वेषु भूतेषु क्रियमाणेषु एकैकस्य भूतस्य अर्द्धम् स्वभागः, अर्द्धान्तरम् चतुर्णाम् भूतानाम् भागसमुच्चय इति भवति । तथा च स्वभागस्य

भूयस्त्वात् परभागस्याल्पीयस्त्वाच्च पृथिव्यादिव्यपदेशः ।

५१. वेदे त्रिवृत्करणोपदेशस्तु पञ्चीकरणस्याप्युपलक्षणम् । भूतैः साकम् महदहङ्कारौ मिलित्वा सप्तीकरणमित्यप्याहुः ।

५२. एतेषु चतुर्विम्शतिसङ्ख्याकेषु पञ्चभूतानि प्रकृतिमहदहङ्काराश्च शरीरोपादानानि । एकादशेन्द्रियाणि प्रत्येकमसङ्ख्यातानि प्रतिपुरुष भिन्नानि, आभरणार्पितरत्नानीव शरीरमाक्रम्य तिष्ठन्ति ।

५३. शरीरम् नाम चेतनम् प्रति आधेयत्वविधेयत्वशेषत्वनियमैरपृथक्सिद्धौ द्रव्यविशेष इत्येकम् लक्षणम् । नियमेन यदाधेयम्, नियमेन यद्विधेयम्, नियमेन यच्छेषमिति लक्षणत्रयम् वा योज्यम् । ईश्वरतज्ज्ञानव्यतिरिक्तम् द्रव्यम् शरीरमिति वा तटस्थलक्षणम् ।

५४. एतेन चेष्टाश्रयम् शरीरम्, इन्द्रियाश्रयम् शरीरम्, भोगायतनम् शरीरम्, शिरः- पाणिपादादिमयम् शरीरम् इत्यादीनि परोक्तानि शरीरलक्षणानि निरस्तानि ।

५५. शरीरम् द्विविधम् – नित्यमनित्यमिति । तत्र नित्यम् त्रिगुणद्रव्यकालजीव- शुभाश्रयात्मकमीश्वरशरीरम् । नित्यसूरिणाम् स्वाभाविकगरुडभुजगादिरूपम् च ।

५६. अनित्यम् द्विविधम् – अकर्मकृतम् कर्मकृतम् चेति । प्रथममीश्वरस्य महदादि-रूपम् । तथा अनन्तगरुडादीनाम् च इच्छागृहीतम् तत्तत् रूपम् । कर्मकृतमपि द्वि- विधम् – स्वसङ्कल्पसहकृतकर्मकृतम् केवलकर्मकृतम् चेति । पूर्व महताम् सौभरि-प्रभृतीनाम्, उत्तरम् चान्येषाम् ।

५७. पुनः सामान्यतो द्विविधम् – स्थावरजङ्गमभेदात् । स्थावराः शिलावृक्षगुल्म-लतादयः । जङ्गमश्चतुर्द्धा – देवमनुष्यतिर्यङ्नारकिभेदात् ।

५८. उद्भिज्जस्वेदजजरायुजाण्डजादिभेदा अपि विभागजधर्मः । अयोनिजशरीराण्यपि सन्ति ।

५९. एवम् पञ्चीकृतानाम् भूतानामेवाण्डोत्पादकत्वम् । अण्डोत्पादनात् पूर्वसृष्टिः समष्टिसृष्टिः, अनन्तरसृष्टिर्व्यष्टिसृष्टिः ।

६०. महदादिनामुत्पत्तिर्नाम तालीयपलाशताटङ्कन्यायेन अवस्थान्तरापत्तिरेव । सेनावनराश्यादिव्यवहारवत् ।

६१. पूर्वापरावस्थाविशेषसम्बन्धमात्रेण कार्यकारणभेदव्यवहारः । तत्र पूर्वावस्था-प्रहाणेन विजातीयावस्थान्तरप्राप्तौ तत्त्वान्तरव्यपदेशः पृथिवीपर्यन्त एव ।

६२. इत्थम् प्रकृतिमहदहङ्कारैकादशेन्द्रियतन्मात्रपञ्चकभूतपञ्चकविभागेन चतुर्विम्शति तत्त्वानि वर्णितानि ।

६३. एतेन न्यूनाधिकसङ्ख्यातत्त्ववादिनो बाह्याः पाशुपताश्च निरस्ताः । परमाणु- कारणत्ववादिनोऽपि निरस्ताः ।

६४, प्रकृत्यादय ईश्वरस्य जीवस्य च भोग्यभोगोपकरणभोगस्थानानि च भवन्ति । भोग्यम् विषयाः भोगोपकरणम् चक्षुरादिककरणानि । भोगस्थानानि चतुर्दर्शभुवनान्त- र्वर्त्य॑ण्डजातानि ।

६५. अण्डम् नाम कपित्थफलाकारम् पञ्चीकृतपञ्चभूतारब्धम् प्राकृतद्रव्यम् ।

६६. तद्यथा – पद्माकारा भूः । कर्णिकाकारो मेरुः । मेरोर्दक्षिणतो भारतकिम्पुरुष- हरिवर्षाणि त्रीणि । उत्तरतस्तु रम्यकहिरण्यककुरुवर्षाणि त्रीणि । पुरतो भद्राश्ववर्षम्, पश्चात् केतुमालाख्यम् वर्षम् । मध्यम् तु इलावृतम् ।

६७. एवम् नववर्षयुक्तम् जम्बूद्वीपम् लक्षयोजनविस्तीर्णम् सपरिमाणेन लवणसिन्धु-नावृतम् । स सिन्धुर्द्विगुणेन सप्तवर्षात्मकेन प्लक्षद्वीपेन वेष्टितः । सोऽपि इक्षुसमुद्रेण। सोऽब्धिः शाल्मलीद्वीपेन । स पुनः सुरासमुद्रेण । स कुशद्वीपेन । स सर्पिःसमुद्रेण । सोऽपि क्रौञ्चद्वीपेन । स दध्यर्णवेन । सोऽपि शाकद्वीपेन वेष्टितः । स क्षीरार्णवेन । स वर्षद्वयविभाजकवलयाकारमानसोत्तरपर्वतसहितेन पुष्करद्वीपेन । स शुद्धजलार्णवेन। एवम् द्वीपानामुत्तरोतरद्वैगुण्यम् द्रष्टव्यम् ।

६८. प्लक्षद्वीपादयश्च सप्तवर्षात्मकाः । सप्तद्वीपात्मकोऽयम् द्विगुणया काञ्चन-भूम्यावृतः। काञ्चनभूमिस्तु लोकालोकपर्वतेन। पर्वतस्त्वन्धतमसा । तदन्धतमो गर्भोदकेन । तदण्डकटाहेन ।

६९. एवम् भूमेरधः अतलवितलसुतलरसातलतलातलमहातलपातालभेदात् सप्तलोकाः । अधो नरकाः । ते च पापकर्मणाम् पापानुभवभूमयः । रौरवाद्या मुख्यतया एकविम्श- तिप्रभेदाः । ततस्तमः । ततो गर्भोदकम् । अनन्तरमण्डकटाहः ।

७०, एवम् भूमापरि लक्षयोजनात् मूर्यमण्डलम् । तदेव भुवर्ल्लोकः । तदुपरि चन्द्रमण्डलम् । तस्मादुपरि नक्षत्रबुधशुक्राङ्गारकबृहस्पतिशनिसप्तर्षि मण्डलानि । तदुपरि भुवः । सूर्यमण्डलमारभ्य ध्रुवलोकपर्यन्तम् स्वर्लोकः । चतुर्लक्षादुपरि कोटियोजनोच्छ्रायो महर्लोकः । तस्मात् द्विगुणो जनलोकः । ततश्चतु-र्गुणस्तपोलोकः । तस्मात् द्वादशकोटयुच्छ्रायः सत्यलोकः । ततस्तमो गर्भो-दकम् अण्डकटाहश्च ।

७१. एवम् तिर्यगूर्ध्वप्रमाणेन पञ्चाशत्कोटियोजनत्वम् भूमेरुक्तम् भवति । शत-कोटियोजनविस्तीर्णवादो मानभेदेन । अण्डकटाहस्तु कोटियोजनोच्छ्रायः । तदण्डम् दशोत्तरावरणावृतम् । एतादृशानि अण्डानि अनन्तानि जलबुद्-बुदवत् । युगपदीश्वर-सृष्टानि । ईश्वरस्य चतुर्मुखपर्यन्ता सृष्टिरद्वारिका, तदनन्तरद्वा सद्वारिकेति विवेकः । विस्तरस्तु पुराणरत्नादिषु द्रष्टव्यः । इति प्रकृतिर्निरूपिता ।

इति श्रीवाधूलकुलतिलकश्रीमन्महाचार्यस्य प्रथमदासेन श्रीनिवासदासेन

विरचितायाम् यतीन्द्रमतदीपिकायाम् प्रकृतिनिरूपणम्

नाम चतुर्थोऽवतारः ॥

 

पञ्चमोऽवतारः

कालः

१. अथ अचिद्विशेषः कालो निरूप्यते । कालो नाम गुणत्रयरहितो जडद्रव्यविशेषः । स च नित्यो विभुश्च । भूतभविष्यद्वर्तमानभेदेन त्रिविधः । युगपत्क्षिप्रचिरादिव्य-पदेशहेतुः । निमेषकाष्ठकलामुहूर्तदिवसपक्षमासऋत्वयनसम्वत्सरादिव्यपदेशहेतुश्च ।

२. मनुष्यमानेन मासः पितॄणाम् दिनम् । तेषाम् अमावास्या  तु मध्याह्नम् । मनुष्य- मानेन सम्वत्सरो देवानाम् दिनम् । तेषामुत्तरायणमहः । दक्षिणायनम् रात्रिः। एवम् देवमानेन द्वादशवर्षसहस्रसङ्ख्याकम् चतुर्युगमित्युच्यते ।

३. तत्र चतुःसहस्रवर्षसङ्ख्याकम् कृतयुगम् । तत्र पूर्णो धर्मः । त्रिसहस्रवर्ष-सङ्ख्याकम् त्रिपाद्धर्मवत् त्रेतायुगम् । द्विसहस्रवर्षपरिमितम् द्विपाद्धर्मवत् द्वापरम् । सहस्रवर्षसङ्ख्याकम् एकपादधर्मसम्युक्तम् कलियुगम् । एतेषाम् सन्धिर्द्विसहस्र-सङ्ख्याकः ।

४. एवम् चतुर्युगसहस्राणि ब्रह्मणो दिवसप्रमाणम् । एवम् रात्रिरपि।

५. ब्रह्मणोऽह्नि चतुर्दश मनवो जायन्ते । इन्द्रा अपि तथैव । तथा सप्तर्षयश्च । एकैकमनोरेकसप्ततिचतुर्युगपरिमाणकालः । एवम् ब्रह्ममानेन ब्रह्मणः शतवर्ष-जीवित्वम्।

६. एतत् सर्वम् कालाधीनम् । एवम् नित्यनैमित्तिकप्राकृताः प्रलया अपि कालाधीनाः। कालस्य स्वकार्यम् प्रति स्वस्व उपादानत्वम् ।

७. अखण्डकालो नित्यः । खण्डकालाः पुनरनित्यः ।

८. एवम्भूतः काल ईश्वरस्य क्रीडापरिकरो भवति । लीलाविभूतौ ईश्वरः कालाधीन एव कार्यम् करोति । नित्यविभूतौ तु कालस्य विद्यमानत्वेऽपि स्वातन्त्र्येण ।

९. केचित्तु तत्र कालो नास्तीति वदन्ति । अन्ये तु तामसमहान् काल इति । उभयेषाम् आगमबाधः प्रत्यक्षबाधश्च । पडिन्द्रियवेद्यः काल इत्याचार्याः । तेन अनुमेयवादनिरासः । इति कालो निरूपितः ।

इति श्रीवाधूलकुलतिलकश्रीमन्महाचार्यस्य प्रथमदासेन श्रीनिवासदासेन

विरचितायाम् यतीन्द्रमतबीपिकायाम् कालनिरूपणम्

नाम पञ्चमोऽवतारः॥

षष्ठोऽवतार:

नित्यविभूतिः

 

१. अथ नित्यविभूतिर्निरूप्यते । शुद्धसत्त्वधर्मभूतज्ञानजीवेश्वरसाधारणम् लक्षणम् अजडत्वम् । अजडत्वम् नाम स्वयम्प्रकाशत्वम् । तत्र शुद्धसत्त्वधर्मभूतज्ञान-साधारणम् लक्षणम् – पराक्त्वे सति अजडत्वम् तत्तु स्वयम्प्रकाशत्वे सति परस्मा एव भासमानत्वम् ।

२. शुद्ध सत्त्वम् नाम त्रिगुणद्रव्यव्यतिरिक्तत्वे सति सत्त्ववत्त्वम्; निःशेषाविद्या- निवृत्तिदेशविजातीयान्यत्वम् वा । सा विभूतिरूर्ध्वप्रदेशे अनन्ता । अधःप्रदेशे परिच्छिन्ना अचेतना स्वयम्प्रकाशा च । आनन्दावहत्वादानन्दनामिका । पञ्चो-पनिषन्मन्त्रप्रतिपाद्यतया पञ्चोपनिषदात्मिका । अप्राकृतपञ्चशक्तिमत्तयापञ्च-शक्तिमयीति निगद्यते ।

३. सा विभूतिरीश्वरस्य नित्यानाम् मुक्तानाम् च ईश्वरसङ्कल्पात् भोग्यभोगोप- करणभोगस्थानरूपा च भवति । भोग्यमीश्वरशरीरादि । भोगोपकरणानि चन्दन-कुसुमवस्त्रभूषणायुधादीनि । भोगस्थानानि तु पुरगोपुरप्राकारमण्डपविमानोद्यान-

पद्मिन्यादीनि ।

४. तत्र ईश्वरस्य नित्यानाम् च शरीराणि भगवन्नित्येच्छासिद्धानि । मुक्तानाम् शरीराणि तेषाम् पित्रादिसृष्टिः युगपदनेकशरीरपरिग्रहा इत्यादीनि भगवत्सङ्कल्पा- देव भवन्ति ।

५. भगवतो व्यूहविभवार्चावतारशरीराणि अप्राकृतानि । अर्चावतारेषु प्रतिष्ठानन्त-रम् प्रसादोन्मुखेश्वरसङ्कल्पाधीनम् अप्राकृतम् शरीरमत्राविर्भवति । प्राकृताप्राकृत- सम्सर्गः कथमिति न शङ्कनीयम् । रामकृष्णाद्यवतारशरीरवदिति प्रमाणानुसारेण परिहारो द्रष्टव्यः ।

६. मुक्तानाम् शरीरपरिग्रहस्तु बसन्तोत्सववेषपरिग्रहादिवत् स्वामिनः कैङ्कर्यमेव।

७. ईश्वरशरीरस्य षाड्गुण्यमिति व्यवहारः पाड्गुण्यप्रकाशकत्वात्। नित्यनिरवद्य- निरतिशयौज्ज्वल्यसौन्दर्यसौगन्ध्यसौकुमार्यलावण्ययौवनमार्दवार्जवादयो दिव्य-मङ्गलविग्रहगुणाः । तस्य व्यापकत्वम् गीतादिषु प्रसिद्धम् ।

८. मुक्तस्य शरीरादिकम् नास्तीति वचनम् तु कर्मकृतशरीराभावपरम् । तत्रत्येन्द्रियाणाम् नित्यत्वात्, अत एव कार्यकारणभावाभावात् प्राकृतवन्न तत्त्वान्तरव्यपदेशः ।

९. एतेन तत्र शरीरादिकम् नास्तीति मतनिरासः । ‘तमसः परस्तात्’ इत्युक्त्वा प्रकृत्येकदेशवादिमतनिरासः । अप्राकृतशब्दस्पर्शरूपरसगन्धाश्रयत्वात् आकाशा-दिव्यावृत्तिः । ज्ञानात्मकत्वप्रतिपादनात् जडत्वमतनिरासः ।

१०. भगवतोऽप्राकृतदिव्यमङ्गलविग्रहस्तु अस्त्रभूषणाध्यायोक्तसर्वोपाश्रयः । तद्यथा -पुरुषस्य कौस्तुभाकारत्वम्, प्रकृतेः श्रीवत्सरूपत्वम्, महतो गदारूपत्वम्,सात्त्विका – हङ्कारस्य शङ्करूपत्वम्, तामसाहङ्कारस्य शार्ङ्गरूपत्वम्, ज्ञानस्य खड्गरूपत्वम्, अज्ञानस्य तदावरकरूपत्वम्, मनसश्चक्ररूपत्वम्, कर्मज्ञानेन्द्रियाणाम् शररूपत्वम्, सूक्ष्मस्थूलभूतानाम् वनमालाकारत्वम् ।

“चेतश्चक्रति चेतनासिरमतिस्तत्सम्वृतिर्मालिका

       भूतानि स्वगुणरहङ्कृतियुगम् शङ्खेन शार्ङ्गायते ।

बाणाः खानि दशापि कौस्तुभमणिर्जीवः प्रधानम् पुनः

       श्रीवत्सः कमलापते तव गदामाहुर्महान्तम् बुधाः ||”

इति सङ्गृह्योक्तम् पद्यमनुसन्धेयम् ।

११. सा विभूतिः आमोदप्रमोदसम्मोदवैकुण्ठाख्यरूपेण चतुर्विधा पुनरनन्ता त्रिपा-द्विभूतिपरमपदपरमव्योमपरमाकाशामृतनाकाप्राकृतलोकानन्दलोकवैकुण्ठायोध्यादि-शब्दवाच्या च । एतस्याम् विभूतौ द्वादशावरणोपेतम् अनेकगोपुरप्राकारैरावृतम् वैकुण्ठम् नाम नगरम् । तत्र आनन्दनामको दिव्यालयः । तदन्तः रत्नमयानेक-स्तम्भसहस्रैर्विरचिता महामणिमण्डपाख्या सभा । तस्याम् सहस्रफणामणितेजो- विराजितोऽनन्तः । तस्मिन् धर्मादिमयदिव्यसिम्हासनम्। तदुपरि चामरहस्ताभि- र्विमलादिभिः सेवितम् अष्टदलात्मकं पद्मम् । तदुपरि प्रकृष्टविज्ञानधामा शेषः । तदुपरि वाचः परमद्भूतम् । एवम् नित्यविभूतिः निरूपिता ।

इति श्रीवाधूलकुलतिलकश्रीमन्महाचार्यस्य प्रथमदासेन श्रीनिवासदासेन

विरचितायाम् यतीन्द्रमतदीपिकायाम् नित्यविभूतिनिरूपणम्

नाम षष्ठोऽवतारः ।।

 

सप्तमोऽवतारः

धर्मभूतज्ञानम्

१. अथ क्रमप्राप्तम् धर्मभूतज्ञानम् निरूप्यते । स्वयम्प्रकाशाचेतनद्रव्यत्वे सति विषयित्वं, विभुत्वे सति प्रभावद्द्रव्यगुणात्मकत्वम्, अर्थप्रकाशो बुद्धिः । तल्लक्षणम् ।

२. सद्धर्मभूतज्ञानम् ईश्वरस्य नित्यानाम् च सर्वदा नित्यमेव विभु च । बद्धानाम् तिरोहितमेव । मुक्तानाम् पूर्व तिरोहितम् अनन्तरमाविर्भूतम् ।

३. ज्ञानस्य नित्यत्वे “ज्ञानमुत्पन्नम् ज्ञानम् नष्टम्” इति व्यवहारः कथम्? इति चेत्, न । ज्ञानस्य सङ्कोचविकासावस्थामादाय तत्सम्भवात् । दृतेः पात्राद्यथा उदकम् क्षरति तथा ज्ञानमपि इन्द्रियद्वारा निःसृत्य अर्थेन सन्निकृष्यते । अहि- कुण्डलवत् सङ्कोचविकासौ।

४. सर्वम् ज्ञानम् स्वत एव प्रमाणम् स्वयम्प्रकाशम् च । “विप्रतिपन्ना संवित् स्वगतव्यवहारम् प्रति स्वाधीनकिञ्चित्करा, स्वजातीयसम्बन्धानपेक्ष व्यवहार-हेतुत्वात्, अर्थेन्द्रियदीपवत् । न च चक्षुरालोकयोः सजातीयत्वम्, आहाङ्कारिक- तैजसभेदाद्भेदः ।

५. अनेन ज्ञानस्य क्षणिकत्वं, त्रिक्षणावस्थायित्वं, प्रातिभासिकवत् व्यावहारिक-स्यापि मिथ्यात्वम्, परतः प्रामाण्यम्, ज्ञानस्यैव आत्मत्वम् इत्यादिपक्षा निरस्ताः ।

६. “स्तम्भः स्तम्भ” इत्यादिधारावाहिकज्ञानम् तु एकमेव ।

७. ननु आगमबलात् ज्ञानस्य नित्यत्वाङ्गीकारे कथम् जागरसुषुप्त्यादिभेद-सिद्धिः? इति चेत्, न । यथा दाहकस्य वह्नेर्दाह्यसन्निधौ मण्यादिप्रतिबन्धका-द्दाहाभावः तद्वत् ज्ञानस्य तिरोधायकतमोविशेषसन्निधानासन्निधानाभ्याम् स्वापादिसिद्धिः । पुम्स्त्वादिवच्च । पुम्स्त्वादिकम् बाल्येतिरोहितम् यौवने आविर्भवति ।

८. “यो यदाश्रितस्वभावः स तस्य गुणः, विशेषणादिवत्” इति लक्षणलक्षितत्वात् ज्ञानम् गुणः ।

९. यतः सङ्कोचविकासावस्थावत्, अतो द्रव्यमपि भवति । आत्मगुणभूतस्य ज्ञानस्य द्रव्यत्वम् कथमिति न शङ्कनीयम् । प्रभावत् एकस्यैव द्रव्यत्वगुण-त्वयोर्विरोधाभावात् । अवस्थाश्रयो द्रव्यमिति द्रव्यलक्षणम् । स्वाश्रयादन्यत्र वर्तमानत्वमपि प्रभावत् एवोपपद्यते । प्रयोगश्च – “गुणभूता बुद्धिर्द्रव्यम्, प्रभावत्” । “ज्ञानम् द्रव्यम्, सम्योगादृष्टान्यत्वे सति भावनाकारणत्वात्, आत्मवत्” इति ।

१०. मुक्तज्ञानस्य युगपदनन्तदेहसम्योगो नयनसूर्यादितेजोवत् सम्भवति ।

११. ज्ञानम् मतिः प्रज्ञा सम्वित् धिषणा धीः मनीषा शेमुषी मेधा बुद्धिरित्येव-मादयः शब्दा ज्ञानपर्यायाः । बुद्धिरेव उदाधिभेदात् सुखदुःखेच्छाद्वेषप्रयत्नरूपा । सुखादिजनकज्ञानातिरेके प्रमाणाभावात् । “इच्छामि द्वेष्मि” इति व्यवहारस्य “स्मरामि” इत्यादिवत् ज्ञानविशेषेणोपपत्तेः ।

१२. ननु “कामः सङ्कल्पो विचिकित्सा श्रद्धाश्रद्धा धृतिरधृतिर्ह्रीर्धीर्भीरित्येतत् सर्वम् मन एव” इत्युक्तानाम् ज्ञानरूपत्वम् कथम्? इति चेत्, न । ज्ञानस्य मनस्हकारित्वनियमात् मन एवेत्युपचारादुक्तमिति न विरोधः ।

१३. एवम् प्रत्क्षानुमानागमस्मृतिसम्शयविपर्ययभ्रमविवेकव्यवसायमोहरागद्वेष- मदमात्सर्यधैर्यचापल्यदम्भलोभक्रोधदर्पस्तम्भद्रोहाभिनिवेशनिर्वेदानन्दादयः सुसतिदुर्मतिसुप्रीतुष्टियुन्नतिशान्तिविरक्तिरनिमैत्रीदयामुमुक्षालज्जातितिक्षाविचार-णाविजिगीषमुदिताक्षमाचिकीर्षाजुगुप्साभावनाकुहनासूयाजिघाम्सातृष्णादुराशावास-नाचर्चा श्रद्धाभक्तिप्रपत्त्यादयश्च जीवगुणा अनन्ता धर्मभूतज्ञानावस्थाविशेषा एव ।

१४. एवम् ज्ञानशक्तिबलैश्वर्यवीर्यतेजःसौशील्यवात्सल्यमार्दवार्जवसौहार्दसाम्य-कारुण्यमाधुर्यगाम्भीर्यौदार्यचातुर्यस्थैर्यपराक्रमादयो भगवतोऽनन्तकल्याण-गुणाः ज्ञानशक्त्योर्विततिभूताः ।

१५. तत्र ज्ञानम् नाम सर्वसाक्षात्काररूपम् । शक्तिघटितघटनासामर्थ्यम् । बलम् धारणसामर्थ्यम् । ऐश्वर्यम् नियमनसामर्थ्यम् । वीर्यमविकारित्वम् । तेजः पराभिभवनसामर्थ्यम् । महतो मन्दैः सह नीरन्ध्रेण सम्श्लेषस्वभावत्वम् सौशील्यम् । वात्सल्यम् दोषेऽपि गुणत्वबुद्धिः, दोषादर्शित्वम् वा । आश्रितविरहासहत्वम् मार्दवम् । मनोवाक्कायैकरूप्यमार्जवम् । स्वसत्तानपेक्षत- द्रक्षापरत्वम् सौहार्दम्। जन्मज्ञानवृत्तगुणाद्यनपेक्षाया सर्वैराश्रयणीयत्वम् साम्यम् । स्वार्थानपेक्षपरदुःखनिराचिकीर्षा कारुण्यम्, परदुःखासहिष्णुत्वम् वा । क्षीरवत् उपाध्यभावेऽपि स्वादुत्वम् माधुर्यम्। भक्तानुग्रहवदान्यत्वादेरामूलतो दुरवगाहत्वम् गाम्भीर्यम्। अपरिमितं दत्वापि अतृप्तत्वमौदार्यम्। आश्रितदोषगोपनम् चातुर्यम् । अकम्पनीयत्वम् स्थैर्यम् । अभग्नप्रतिज्ञात्वम् धैर्यम् । परबलप्रवेशनसामर्थ्य शौर्यम् । तन्निराकरणम् पराक्रमः इत्याद्यूह्यम् ।

१६. ज्ञानविशेषभूतयोर्भक्तिप्रपत्त्योः स्वरूपम् किञ्चिदुच्यते – भक्तिप्रपत्तिभ्याम् प्रसन्न ईश्वर एव मोक्षम् ददाति । अतस्तयोरेव मोक्षोपायत्वम् ।

१७. मोक्षोपायत्वेन उक्तानाम् कर्मयोगज्ञानयोगप्रभृतीनाम् भक्तिद्वारैव साधनत्वम्।

१८. कर्मयोगो नाम उपदेशात् जीवपरयाथात्म्यज्ञानवता शक्त्यनुसारेण फलसङ्ग- रहितानिषिद्धकाम्यनित्यनैमित्तिकरूपपरिगृहीतकर्मविशेषः । स तु देवार्चनातप-स्तीर्थयात्रा-दानयज्ञादिभेदभिन्नः। अयम् तु जीवगत-कल्मषापनयनद्वारा ज्ञान- योगमुत्पाद्य तद्वारा साक्षाद्धा भक्त्युत्पादको भवति ।

१९. ज्ञानयोगो नाम कर्मयोगान्निर्मलान्तःकरणस्य ईश्वरशेषत्वेन प्रकृतिवियुक्त-स्वात्मचिन्ताविशेषः । एतस्य साक्षाद्भक्त्युपयोगित्वम् । एवम् साधनान्त-राणामपि भक्त्युपयोगित्वमूह्यम् ।

२०. भक्तियोगो नाम यमनियमासनप्राणायामप्रत्याहारधारणाध्यानसमाधि- रूपाष्टाङ्गवाँस्तैलधारावदविच्छिन्नस्मृतिसन्तानरूपः ।

२१. स च विवेकविमोकाभ्यासक्रियाकल्याणानवसादानुद्धर्षरूपसाधनसप्तकजन्यः ।

२२. तत्र विवेको नाम जात्याश्रयनिमित्तादुष्टादन्नात्कायशुद्धिः । विमोकः कामान-भिष्वङ्गः । अभ्यासः पुनः पुनरालम्बनसम्शीलनम् । शक्तितः पञ्चमहायज्ञा- द्यनुष्ठानम् क्रिया । सत्यार्जवदयादानाहिम्सानभिध्याः कल्याणानि । अनवसादो दैन्याभावः । अनुद्धर्षस्तुष्टयभावः । अतिसन्तोषश्च विरोधीत्यर्थः ।

२३. एवम् साधनसप्तकानुगृहीता भक्ति: दर्शनसमानाकारा अन्तिमप्रत्ययावधिका च भवति। स चान्तिमप्रत्यय एतच्छरीरावसाने वा शरीरान्तरावसाने वा भवति ।

२४. वेदनध्यानोपासनादिशब्दवाच्या भक्तिः परभक्तिपरज्ञानपरमभक्तिरूपक्रमवती प्रपत्त्यङ्गिका च ।

२५. सा द्विविधा – साधनभक्तिफलभक्तिभेदात् । उक्तसाधनजन्या साधनभक्तिः । फलभक्तिस्तु ईश्वरकृपाजन्या श्रीपराङ्कुशनाथादिनिष्ठा । “मद्भक्तजनवात्सल्यम्” इत्यादिषु स्तुतिनमस्कारादिषु च भक्तिशब्दप्रयोग औपचारिकः ।

२६. ननु वेदान्तेषु श्रवणमननयोरपि विधानात् कथम् ध्यानमेव विधीयते? इति चेत्, उच्यते । अधीतसाङ्गवेद: पुरुषः प्रयोजनवदर्थावबोधित्वदर्शनात् तन्निर्ण- याय स्वयमेव श्रवणे प्रवर्तते इति श्रवणस्य प्राप्तत्वात् अनुवादः । श्रवणप्रतिष्ठार्थ- त्वात् मननस्यापि अनुवादः । तस्मात् ध्यानमेव विधीयते इति न विरोधः ।

२७. ध्यानशब्दवाच्या भक्तिविद्याभेदात् बहुविधा । ताश्च विद्या द्विविधाः – ऐहिक- फलाः मुक्तिफलाश्चेति । तत्रैहिकफला उद्गीथविद्यादयः । मुक्तिफलास्तु अन्तरक्षि-विद्या, दहरविद्या, सद्विद्या, मधुविद्या, उपकोसलविद्या, शाण्डिल्यविद्या, पुरुषविद्या,

वैश्वानरविद्या, पञ्चाग्निविद्या इत्यादिकाः ब्रह्मविद्याः ।

२८. न्यासविद्या प्रपत्तिः । प्रपत्तिर्नाम –

“आनुकूल्यस्य सङ्कल्पः प्रातिकूल्यस्य वर्जनम् ।

रक्षिष्यतीति विश्वासो गोप्तृत्ववरणम् तथा ।।

आत्मनिक्षेपकार्पण्यम्” इत्यङ्गपञ्चकयुक्ता । एतद्देहावसाने मोक्षप्रदा सकृत्क-र्तव्या न्यास: शरणागतिरित्यादिशब्दवेद्या ज्ञानविशेषरूपा । एषा प्रपत्तिर्गुरुमुखा-द्रहस्यशास्त्रेषु सम्प्रदायतया वेदितव्येति इह बालबोधार्थने प्रवृत्ते ग्रन्थे न प्रकाश्येति विरम्यते ।

२९. भक्तिप्रपत्त्योरेव मोक्षसाधनत्वेन स्वीकारात् परोक्तोपायनिरासः । यथा वेदबाह्यानाम् मध्ये केषाञ्चिन्मते देहातिरिक्तात्मनः अनङ्गीकारात् मोक्षप्रवृत्तिरेव न सम्भवति । अन्येषाम् मते ज्ञानस्य क्षणिकत्वात्, तस्यैवात्मत्वात् कस्य प्रवृत्तिः? । सन्तानस्येति चेत्, न । अन्यं प्रति अन्येन यत्नो न कर्तव्य इति न प्रवृत्तिः अपरेषाम् मते धर्माधर्मादिसप्तभङ्गीरीत्या अनैकान्त्यवादात् न प्रवृत्तिः । वैशेषिकादिपक्षे पाषाणकल्पे मोक्षे प्रवृत्तिः कस्यापि ने सम्भवति । साङ्ख्यादि-पक्षेषु ईश्वरानङ्गीकारात् पुरुषस्य प्रकृतेर्वा मोक्ष इति सम्शयात् न प्रवृत्तिः । मायिमते व्यावहारिकस्य वाक्यस्य पारमार्थिकाभेदज्ञानाजनकत्वात् न प्रवृत्तिः । भास्करयादवयोस्तु कर्मज्ञानसमुच्चयवादोऽपि उक्तादेव निरस्तः । शैवमते तु पशुपतेः प्राप्यत्वस्वीकारात् वेदविरुद्धभस्मधारणादेः साधनत्वेन स्वीकाराच्च तन्निरासः एवम् मतिर्निरूपिता ।

इति श्रीवाधूलकुलतिलकश्रीमन्महाचार्यप्रथमदासेन श्रीनिवासदासेन

विरचितायाम् यतीन्द्रमतदीपिकायाम् धर्मभूतज्ञाननिरूपणम्

नाम सप्तमोऽवतारः ॥

अष्टमोऽवतारः

जीवः

१. अथ जीवो निरूप्यते । प्रत्यक्त्वचेतनत्वात्मत्वकर्तृत्वादीनि ईश्वरजीवसाधार-णानि लक्षणानि । प्रत्यक्त्वम् नाम स्वयमेव स्वस्मै भासमानत्वम् । चेतनत्वम् ज्ञानाश्रयत्वम् आत्मत्वम् शरीरप्रतिसम्बन्धित्वम् । कर्तृत्वम् सङ्कल्पज्ञानाश्रय- त्वम् ।

२. एवम् सामान्यलक्षणलक्षितस्य जीवस्य विशेषलक्षणानि उच्यन्ते – अणुत्वे सति चेतनत्वम्, स्वतः शेषत्वे सति चेतनत्वम् । एवम् आधेयत्वविधेयत्व-पराधीनकर्तृत्वपरतन्त्रत्वादिकमूह्यम् ।

३. स च देहेन्द्रियमनःप्राणादिभ्यो विलक्षणः । यथा “मम शरीरम्” इति प्रतीत्या देहात् व्यावृत्त: । “चक्षुषा पश्यामि”, ”श्रोत्रेण शृणोमि”, “वाचा वदामि” इत्यादि-प्रत्यायत् बाह्येन्द्रियेभ्यो व्यावृत्तः । “मनसा जानामि” इति मनसो ज्ञानकरणत्व-प्रतीतेः, “मम प्राणा” इति व्यतिरेकोक्तेः, “जानामि अहम्” इति ज्ञानाच्च मनःप्राण- ज्ञानेभ्यो व्यावृत्तः ।

४.  स च अणुपरिमाणः । उत्क्रान्त्यादेः श्रवणात् प्रमाणानुसाराच्च । अणुत्वे युगपदनेकविषयानुभवः कथमिति न शङ्कनीयम् । धर्मभूतज्ञानव्याप्त्या उपपत्तेः। एतेनैव सौभरिप्रभृतीनाम् मुक्तानाम् च युगपदनेकशरीरपरिग्रहोऽपि सम्भवति ।

५. स च नित्यः । पूर्वानुभूतार्थप्रतिसन्धानात् । नित्यश्चेत् “जीव उत्पन्नो, जीवो नष्ट” इति प्रतीतिः कथम्? इति चेत, न। जीवस्य देहसम्बन्ध उत्पत्तिः, तद्वियोगो नाश इति प्रतिपादनात् । जीवस्वरूपम् नित्यमेव ।

६. स च प्रतिशरीरम् भिन्नः । एकपरिमाणेषु अनेकेषु सुवर्णघटेषु “एको घट” इति प्रतीतिवत्, व्रीहिराशौ “एको व्रीहिः” इतिवच्च ज्ञानैकारतया एकत्वव्यवहारः । न तु स्वरूपैक्यम्, प्रमाणविरोधात् ।

७. स्वतः सुखी, उपाधिवशात् सम्सारः । अयम् च कर्ता भोक्ता शरीरी शरीरम् च भवति । प्रकृत्यपेक्षया शरीरी, ईश्वरापेक्षया शरीरम् । अस्य प्रत्यक्षश्रुतिभ्याम् स्वयम्प्रकाशत्वम् च सिद्धम् । प्रयोगश्च – ‘आत्मा स्वयम्प्रकाशः, ज्ञानत्वात्, धर्मभूतज्ञानवत्’ इति । ज्ञानत्वाणुत्वामलत्वादय एतस्य स्वरूपनिरूपकधर्माः।

८. एतेन ज्ञानस्य क्षणिकत्वात् क्षणिकसन्तानरूप आत्मेति बौद्धपक्षः, भूतचतुष्ट-यात्मकत्वात् देहस्य देहावधिक आत्मेति चार्वाकपक्षः, गजदेहे गजपरिमाणः पिपीलिकादेहे तन्परिमाणः अतो देहपरिमाण आत्मेति जैनपक्षः, कर्तृत्वभोक्तृ- त्वादिकम् प्रकृतेरेव न तु पुरुषस्येति साङ्ख्यपक्षः, ब्रह्माम्शो जीव इति यादव-पक्षः, सोपाधिब्रह्मखण्डो जीव इति भास्करपक्षः, अविद्याकल्पित एकजीववादपक्षः, अन्तःकरणावच्छिन्नानेकजीववादपक्ष इत्येवमादयो विरुद्धपक्षा निरस्ताः । विभुत्ववादपक्षोऽपि ।

९. ननु जीवस्य विभुत्वानङ्गीकारे अदृष्टजनितदेशान्तरफलोपलब्धिः कथम्? इति चेत्, न । जीवस्य सम्बन्धाभावेऽपि अदृष्टवशादेव उपपद्यते । अदृष्टम् नाम भगव-त्प्रीत्यप्रीतिजनकजीवकर्तृककर्मविशेषजन्यो ज्ञानविशेषः । स विशेषो भगवत्स-ङ्कल्प एव विभुस्वरूपम् भगवन्तमाश्रितः । अतः फलोपलब्धिरेवेति न विरोधः ।

१०. स जीवस्त्रिविधः – बद्धमुक्तनित्यभेदात् । तत्र बद्धा नाम अनिवृत्तसम्साराः । ते चतुर्दशभुवनात्मकाण्डकटाहवर्तिनो ब्रह्मादिकीटपर्यन्ताश्चेतनविशेषाः ।

११. श्रीमन्नारायणनाभिकमलात् उत्पन्नो ब्रह्मा। ब्रह्मणो रुद्रः। पुनर्ब्रह्मणः सनकादि- योगिनो नारदादिदेवऋषयो वसिष्ठभृग्वादिब्रह्मऋषयः पुलस्त्यमरीचिदक्षकश्यपादि- नवप्रजापतयो बभूवुः। तेभ्यो देवा दिक्पालाश्चतुर्दशेन्द्राश्चतुर्दशमनवः असुराः पितरः सिद्धगन्धर्वकिन्नरकिम्पुरुषविद्याधरादयो वसवो रुद्रा आदित्या अश्विनौ च दानव-यक्षराक्षसपिशाचगुह्यकादयः एवम् देवयोनयः ।

१२. मनुष्या अपि ब्राह्मणक्षत्रियवैश्यशूद्रादिजातिभेदात् बहुविधाः । तिर्यञ्चोऽपि पशुमृगपक्षिसरीसृपपतङ्गकीटादिभेदात् बहुविधाः । स्थावरा अपि वृक्षगुल्मलता-वीरुधतृणादिभेदात् बहुविधाः । वृक्षादीनाम् जलाहरणोपयुक्तकिञ्चिज्ज्ञान-सम्बन्धोऽस्त्येव । “अप्राणवत्सु स्वल्पा सा” ग्रयुक्तत्वात् । अतो देवमनुष्य-तिर्यक्स्थावरभेदभिन्ना बद्धाः ।

१३. एते पुनः जरायुजाण्डजोद्भिज्जस्वेदजाश्च भवन्ति । देवमनुष्या जरायुजाः । तेषु ब्रह्मरुद्रादयः सनकादयश्च सीताद्रौपदीधृष्टद्युम्नप्रभृतयोः भूतवेतालादयश्च अयोनिजाः । तिर्यगादयश्च जरायुजा अण्डजाः स्वेदजाश्च भवन्ति । स्थावरादय उद्भिज्जाः।

१४. एवम्भूता बद्धा बीजाङ्कुरन्यायेन विषमप्रवाहतया अनादिकालप्रवृत्ताविद्या- कर्मवासनारुचिप्रकृतिसम्बन्धैः चक्रवत्परिवर्तमानैः गर्भजन्मबाल्ययौवनजागर- स्वप्नसुषुप्तिमूर्छाजरामरणस्वर्गनरकगमनादिविविधविचिन्नावस्थावन्तः अनाद्य-नन्तप्रकारातिदुः – सहतापत्रयाभितप्ताः स्वत: प्राप्तभगवदनुभवविच्छेदवन्तश्च।

१५. ते द्विविधाः – शास्त्रवश्याः तदवश्याच्चेति । तयोर्मध्ये कारणायत्तज्ञानानाम् बद्धानाम् शास्त्रवश्यतास्ति । तिर्यक्स्थावरादीनाम् तन्नास्ति। शास्त्रवश्या द्विविधाः – बुभुक्षवो मुमुक्षवश्चेति । तत्र बुभुक्षवस्त्रैवर्गिकपुरुषार्थनिष्ठा: पुरुषाः । ते द्विविधा: – अर्थकामपरा धर्मपराश्चेति । केवलार्थकामपरा देहात्माभिमानवन्तः । धर्मपराश्च – “अलौकिकश्रेयःसाधनम् धर्मः, चोदनालक्षणोऽर्थो धर्म” इति लक्षणलक्षितयज्ञ-दानतदस्तीर्थयात्रादिनिष्ठाः । ते च देहातिरिक्तात्मनः परलोकोऽस्तीति ज्ञानवन्तः। धर्मपरा द्विविधाः – देवतान्तरपरा भगवत्पराश्चेति । देवतान्तरपरा ब्रह्मरुद्रेन्द्रा-ग्न्याद्याराधनपराः । भगवत्पराश्च – “आर्तो जिज्ञासुरर्थार्थी’ इत्युक्ताधिकारिणः । आर्तो भ्रष्टैश्वर्यकामः अर्थार्थी तु अपूर्वैश्वर्यकामः ।

१६. मुमुक्षवो द्विविधाः – कैवल्यपरा मोक्षपराश्चेति । कैवल्यम् नाम ज्ञानयोगात् प्रकृतिवियुक्तस्वात्मानुभवरूपम् । सोऽनुभवः अर्चिरादिमार्गेण परमम् पदम् गत-वत एव क्वचित् कोणे पतित्यक्तपत्नीन्यायेन भगवदनुभवव्यतिरिक्तस्वात्मानुभव इत्याहुः। केचित् अर्चिरादिमार्गेण गतस्य पुनरावृत्त्यश्रवणात् प्रकृतिमण्डल एव क्वचिद्देशे स्वात्मानुभव इत्यप्याहुः ।

१७. मोक्षपराश्च द्विविधाः – भक्ता प्रपन्नाश्चेति । भक्ताः पुनरधीतसाङ्गसशिरस्क-वेदाः पूर्वोत्तरमीमाम्सापरिचयात् चिदचिद्विलक्षणम् अनवधिकातिशयानन्दस्वरूपम् निखिलहेयप्रत्यनीकम् समस्तकल्याणगुणात्मकम् ब्रह्म अवधार्य तत्प्रप्त्युपायभूताम् साङ्गभक्ति स्वीकृत्य तया मोक्षम् प्राप्तुकामाः ।

१८. भक्तावधिकारस्त्रैवर्णिकानामेव । देवादीनामप्यस्ति । अर्थित्वसामर्थ्ययोः सम्भवात् ।

१९. न शूद्राधिकारः । अपशूद्राधिकरणविरोधात् ।

२०. भक्तिस्वरूपम् तु बुद्धिपरिच्छेदे प्रतिपादितम् । भक्ता द्विविधाः – साधनभक्ति- निष्ठाः साध्यभक्तिनिष्ठाश्च । व्यासादयः साधनभक्तिनिष्ठाः । श्रीपराङ्कुशादयः साध्यभक्तिनिष्ठाः ।

२१. आकिञ्चन्यानन्यगतिकत्वधर्मविशिष्टो भगवन्तमाश्रितः प्रपन्नः । सोऽपि द्विविधः – त्रैवर्गिकपरो मोक्षपरश्चेति । त्रैवर्गिकपरो नाम भगवत एव धर्मार्थकामाभिलाषी। मोक्षपरस्तु सत्सङ्गान्नित्यानित्यविवेके सति सम्सारे निर्वेदात् वैराग्ये उत्पन्ने मोक्षेच्छायाम् जातायाम् तत्सिद्धयर्थम् “आचार्यो वेद- सम्पन्न” इत्याद्याचार्यलक्षणलक्षितम् गुरुम् सम्श्रित्य तद्द्वारा पुरुषकारभूताम् श्रियम् प्रतिपद्य भक्त्याद्युपायान्तरे अशक्तः, अत एवाकिञ्चनानन्यगतिः, श्रीमन्ना- रायणचरणावेव उपायत्वेन यः स्वीकरोति स प्रपन्नः । प्रपत्तिः सर्वाधिकारा।

२२. स च प्रपन्नो द्विविधः – एकान्ती परमैकान्ती चेति । यो मोक्षफलेन साकम् फलान्तराण्यपि भगवत एवेच्छति स एकान्ती । देवतान्तरशून्य इत्यर्थः । भक्ति-ज्ञानाभ्यामन्यत्फलम् भगवतोऽपि यो नेच्छति स परमैकान्ती । स द्विविधः – दृप्त आर्तश्चेति भेदात् । अवश्यमनुभोक्तव्यमिति प्रारब्धकर्म अनुभवन् एतद्देहावसान-समये मोक्षमपेक्षमाणो दृष्तः । जाज्वल्यमानाग्निमध्यस्थितेरिव सम्सारावस्थिते- रतिदुःसहत्वात् प्रपत्त्युत्तरक्षणमोक्षकाम आर्तः ।

२३. मुक्तो नाम उपायपरिग्रहणानन्तरम् नित्यनैमित्तिकभगवदाज्ञाकैङ्कर्यरूपाणि स्वयम्प्रयोजनतया कुर्वन्, भगवद्भागवतापराधाँश्च वर्जयन्, देहावसानकाले सुकृत-दुष्कृते मित्रामित्रयोर्निक्षिपन्, “वाङ् मनासि” इत्यादिप्रकारेण हार्दे परमात्मनि विश्रम्य मुक्तिद्वारभूतसुषुम्नाख्यनाड्याम् प्रविश्य ब्रह्मरन्ध्रान्निष्क्रम्य हार्देन साकम् सूर्यकिरणद्वारा अग्निलोकम् गत्वा दिनपूर्वपक्षोत्तरायणसम्वत्सराभिमानि-देवताभिर्वायुना च पथि सत्कृतः, सूर्यमण्डलम् भित्वा नभोरन्ध्रद्वारा सूर्यलोकम् गत्वा अनन्तरम् चन्द्रविद्युद्वरुणेन्द्रप्रजापतिभिर्मार्गदर्शिभिः आतिवाहिकगणैः सोपचारैः सह तत्तल्लोकानतीत्य प्रकृतिवैकुण्ठसीमपरिच्छेदिकाम् विराजाम् तीर्त्वा सूक्ष्मशरीरम् विहाय अमानवकरस्पर्शात् अप्राकृतदिव्यविग्रहयुक्तः, चतुर्भुजो ब्रह्मा-लङ्कारेणालङ्कृतः, इन्द्रप्रजापतिसञ्ज्ञकनगरद्वारपालकाभ्यनुज्ञया श्रीवैकुण्ठाख्यम् दिव्यनगरम् प्रविश्य गरुडानन्तयुक्तपताकालङ्कृतदीर्घप्राकारसहितगोपुरमतीत्य ऐरम्मदाख्यामृतसरः सोमसवनाख्याश्वत्थम् च दृष्ट्वा “शतम् मालाहस्ता” इत्युक्तपञ्चशतदिव्याप्सरोगणैरुपचरितः, ब्रह्मगन्धादिभिरलङ्कृतः, तत्रस्थानन्त-गरुडविष्वक्सेनादीन् प्रणम्य तैर्बहुमतः, महामणिमण्डपमासाद्य पर्यङ्कसामीपे स्वाचार्यान् प्रणम्य पर्यङ्कसमीपं गत्वा तत्र धर्मादिपीठोपरिकमले अनन्ते विमलादिभिश्चामरहस्ताभिः सेव्यमानं श्रीभूनीलासमेतं  शङ्खचक्रादिदिव्या-युधोपेतम् जाज्वल्यमानकिरीटमकरकुण्डलग्रैवेयहारकेयूरकटकश्रीवत्सकौस्तुभ-मुक्तादामोदरबन्धनपीताम्बरकाञ्चीगुणनूपुराद्यपरिमितदिव्यभूषणभूषितम् अपरिमि-तोदारकल्याणगुणसागरम् भगवन्तम् दृष्ट्वा तत्पादारविन्दयुगले शिरसा प्रणम्य पादेन पर्यङ्कमारुष्य तेन स्वाङ्के स्थापितः, “कोऽसि” इति पृष्टः, “ब्रह्मप्र- कारोऽस्मि” इत्युक्त्वा तेन कटाक्षितः, तदनुभवजनितहर्षप्रकर्षात् सर्वदेशसर्वकाल-सर्वावस्थोचितसर्वविधकैङ्कर्यरतिः, आविर्भूतगुणाष्टकः,उत्तरावधिरहितब्रह्मानुभववान्।

२४. मुक्तस्य ब्रह्मसाम्यापत्तिश्रुतिस्तु भोगसाम्यमाह । जगद्व्यापारवर्जनस्य प्रतिपादनात् । तस्य नानात्वम् सर्वलोकसञ्चरणम् च सम्भवति ।

२५. ननु मुक्तस्य अनावृत्तित्वप्रतिपादनात् अस्मिन् लोके सञ्चारः कथमिति चेत् न; कर्मकर्तृत्वस्यैव निषेधात् स्वेच्छया सञ्चरणोपपत्तेः । अतो मुक्तोभगवत्स-ङ्कल्पायत्तस्वेच्छया सर्वत्र सञ्चरति ।

२६. नित्या नाम कदाचिदपि भगवदभिमतविरुद्धाचरणाभावेन ज्ञानसङ्कोच-प्रसङ्गरहिता अनन्तगरुडविष्वक्सेनादयः । तेषामधिकारविशेषा ईश्वरस्य नित्येच्छयैव अनादित्वेन व्यवस्थिताः । एतेषामवतारास्तु भगवदवतारवत् स्वेच्छया । एवम् बद्धमुक्तनित्यभेदभिन्नो जीवो निरूपितः ।

इति श्रीवाधूलकुलतिलकश्रीमन्महाचार्यस्य प्रथमदासेन श्रीनिवासदासेन

विरचितायाम् यतीन्द्रमतदीपिकायाम् जीवनिरूपणम्

नाम अष्ठमोऽवतारः ॥

नवमोऽवतारः

ईश्वरः

१. अथ ईश्वरो निरूप्यते । सर्वेश्वरत्वम् सर्वशेषित्वम् सर्वकर्माराध्यत्वम् सर्व-फलप्रदत्वम् सर्वाधारत्वम् सर्वकार्योत्पादकत्वम् स्वस्वज्ञानेतरसमस्तद्रव्य-शरीरत्वम् इत्यादीनि ईश्वरलक्षणानि ।

२ अयमीश्वरः सूक्ष्मचिदचिद्विशिष्टवेषेण जगदुपादानकारणम् भवति; सङ्कल्प-विशिष्टवेषेण निमित्तकारणम् भवति; कालाद्यन्तर्यामिवेषेण सहकारिकारणम् च ।

३. कार्यरूपेण विकारयोग्यम् वस्तु उपादानकारणम् । कार्यतया परिणामयितृ निमित्तकारणम् । कार्योत्पत्त्युपकरणम् वस्तु सहकारि । यद्वा उत्तरोत्तरावस्था-विशिष्टस्वरूपापेक्षया तदनुगुणनियतपूर्वभाव्यवस्थाविशिष्टम् उपादानम् । यथा घटत्वावस्थाविशिष्टमृद्द्रव्यापेक्षया पिण्डत्वावस्थाविशिष्टम् तदेव द्रव्यम् ।

परिणामौन्मुख्यातिरेकेण आकारेण अपेक्षितम् कारणम् निमित्तम् । अस्मिन् पक्षे सहकारिकारणस्य निमित्ते अन्तर्भावः ।

४. एवम् त्रिविधकारणपक्षे कारणद्वयपक्षे च कारणलक्षणलक्षितत्वात् अखिल-जगत्कारणत्वम् भगवतो नारायणस्यैव सम्भवति ।

५. ननु कथम् नारायणे कारणत्वपर्यवसानम् ? इति चेत्, उच्यते । न्यायसहित-वेदान्तवाक्यविचारेण एवम् पर्यवस्यति। तद्यथा – आदौ तावत् प्रकृतेः जगत्कारण- त्वम् नोपपद्यते । ईक्षितृत्वाद्यभावात् । छान्दोग्ये तावत् सदाकाशप्राणशब्द- वाच्यानाम् जगत्कारणत्वम् प्रतीयते । वाजसनेयके ब्रह्मशब्दवाच्यस्य कारणत्वम्

प्रतीयते । सर्वशाखाप्रत्ययन्यायेन कारणवाक्यानाम् एकविषयत्वे प्रतिपादयितव्ये छागपशुन्यायेन सामान्यवाचकानाम् सदादिशब्दानाम् विशेषे ब्रह्मणि पर्यवसानम् वक्तव्यम् ।

६. एवम् उक्तन्यायेन ब्रह्मशब्दवाच्यस्य तैत्तिरीयोक्त आत्मशब्दवाच्ये पर्यवसानम्। आत्मशब्दवाच्यः क इत्याङ्काक्षायाम् श्रुतिप्रसिद्ध इन्द्रो वा, तथा प्रसिद्धोऽग्निर्वा, उपास्यत्वेन प्रसिद्धः सूर्यो वा, कारणत्वेन उक्तः सोमो वा, अभीष्टफलप्रदत्वेन उक्तः

कुबेरो वा, यमो वा, वरुणो वेति विषये, एतेषाम् कर्मवश्यत्वपरिच्छिन्नैश्वर्यवत्त्व- सम्हार्यत्वश्रवणात् न एते जगत्कारणभूताः, किन्तु श्वेताश्वतरे शिवस्य कारणत्वम् भासत इति भाति । एवमथर्वणशाखायाम् शम्भुशब्दवाच्यस्य ध्येयत्वम् कारणत्वम् भासते । तथैव अथर्वशिरसि रुद्रशब्दवाच्यस्य सर्वात्मकता उच्यते । तैत्तिरीये हिरण्यगर्भस्य जगत्कारणत्वम् प्रतीयते । अत्रापि सामान्यविशेषन्यायात् शिवशम्भुरुद्रादिशब्दानाम् हिरण्यगर्भशब्दवाच्यविशेषे पर्यवसानम् युज्यते । शिव-शब्दस्य “शिवमस्तु सर्वजगताम्”, “शिवम् कर्मास्तु”, “पन्थानः सन्तु ते शिवाः” इत्यादिभिर्मङ्गलवाचकत्वम् । रुद्रशब्दस्य अग्निवाचकत्वम् । एवम् महेश्वर-शम्भ्वादिसामान्यशब्दा अपि अवयवशक्त्या चतुर्मुखे पर्यवस्यन्ति ।

७. कारणवाचिशिवादिशब्दानाम् मुख्यवृत्या द्ररुपरत्वम् किन्न स्यात् इति न शङ्कनीयम्। रुद्रस्य चतुर्मुखादुत्पत्तिश्रवणात् अनपहतपात्मत्वश्रवणाच्च कारण-त्वम् । अतो हिरण्यगर्भप्रजापतिस्वयम्भ्वादिशब्दवाच्य चतुर्मुखे शिवादिशब्दाः पर्यवस्यन्ति । एवमपि महोपनिषन्नारायणोपनिषत्सुबालोपनिषन्मैत्रायणीयपुरुष-सूक्तनारायणानुवाकान्तर्यामिब्राह्मणादिषु नारायणस्यैव परमकारणत्वसर्वशब्द-वाच्यत्वमोक्षप्रदत्वजगच्छरीरित्वादेः, प्रतिपादनात् स्वयम्भूहिरण्यगर्भप्रजापति-शब्दानाम् नारायणे पर्यवसान युक्तम्, इति नारायण एक अखिलजगत्कारणम् सर्वविद्यावेद्यश्च ।

८. ननु अन्तरादित्यविद्या रुद्रपरेति शङ्का न कर्तव्या । विष्णुपरत्वस्यैव बहु-प्रमाणेषु सिद्धत्वात् । भर्गश्शब्दस्य सकारान्तत्वप्रतिपादनाच्च ।

९. तर्हि दहरविद्यायाम् आकाशशब्दवाच्यनारायणान्तर्यामितया रुद्रस्य प्रतिपाद-नात् दहरविद्या रुद्रपरा इति न शङ्कनीयम् । नारायणान्तर्वर्तिगुणजातस्यैव उपास्यत्वेन तत्राभिधानात् । एवम् सर्वविद्यास्वपि ऊह्यम् । अतः समस्तकल्याण-गुणात्मकम् प्रकृतिपुरुषाभ्याम् भिन्नम् ताभ्याम् विशिष्टम् परम् ब्रह्म जगत्कारणम् नारायण एव ।

१०. ननु अद्वैतश्रुत्या ब्रह्मैकमेव सत्यम् निर्गुणम् च । तदन्यत् ज्ञातृज्ञेया- दिकम् तस्मिन्नेव परिकल्पितम् सर्वम् मिथ्या । ब्रहौव अविद्यया सम्सरति । तत्त्वम-सीत्यभेदज्ञानम् तन्निवर्तकम् । तस्मान्निर्विशेषचिन्मात्रे ब्रह्माणि वेदान्तानाम् तात्पर्यमिति मतान्तरस्थैः प्रतिपादनात्, कथम् नारायणे तात्पर्यम् तस्य समस्त- कल्याणगुणाकरत्वादिकथनम् च? इति चेत्, उच्यते । कारणत्वप्रतिपादकश्रुतिभि-र्नारायणस्य कारणत्वे सिद्धे, भेदाभेदश्रुत्योर्घटकश्रुत्या विषयभेदेन विरोधे परिहृते, निर्गुणप्रतिपादकश्रुतीनाम् हेयगुणनिषेध-कत्वात्, ज्ञातृज्ञेयादिकल्पकाविद्याया एव अप्रामाण्यात् ब्रह्मकार्यस्य सत्यत्वात्, अविद्यया सम्सारे जीवगतदोषाणाम् ब्रह्म-ण्यपि सम्भवात्, तन्निवर्तकान्तरस्य वक्तुमशक्यत्वात् । अतोऽद्वैतवादस्या-सम्भवात् न निर्विशेषचिन्मात्रब्रह्मसिद्धिः । अतो नारायणस्यैव जगत्कारणत्व-मोक्षप्रदत्वादिगुणयोगः सम्भबतीति सविशेषमेव ब्रह्म।

११. सूक्ष्मचिदचिद्विशिष्टम् ब्रह्म कारणम्, स्थूलचिदचिद्विशिष्टम् ब्रह्म कार्यमिति कारणादनन्यत् कार्यमिति विशिष्टाद्वैतवेदान्तिनाम् सम्प्रदायः ।

१२. एवम् ईश्वराङ्गीकारात् निरीश्वरसाङ्ख्यमीमाम्सकादिमतनिरासः । तस्यैव उपादानत्वस्वीकरात् योगपाशुपतनैयायिकानाम् मतनिरासः । तैः निमित्त- मात्रेश्वराङ्गीकारात् । ईश्वरस्य कार्यम् प्रति उपादानत्वनिमित्तत्ववत् कर्तृत्वप्रेरक-त्वनियन्तृत्वप्रकाशयितृत्वसहकारित्वोदासीनत्वादिकमपि उपपद्यते ।

१३. बाल्ययौवनावस्थादयो दोषा यथा शरीरगताः, न तु शरीरिणि जीवे; एवम् चिदचिच्छरीरिणः परणामात्मनोऽपीति न निर्विकारश्रुतिविरोधः। नियमेन आधेयत्वविधेयत्वशेषत्वादेः शरीरलक्षणस्य जगति विद्यमानत्वात् जगच्छरीरी ईश्वरः तद्गतदोषैरसम्स्पृष्टश्च ।

१४. स च ईश्वरो विभुस्वरूपः । विभुत्वम् नाम व्यापकत्वम् । तच्च त्रिधा -स्वरूपतो धर्मभूतज्ञानतो विग्रहतश्च । स चानन्त इत्युच्यते । अनन्तो नाम त्रिविधपरिच्छेदरहितः । त्रिविधः परिच्छेदस्तु देशतः कालतो वस्तुतः ।

१५. सत्यत्वज्ञानत्वानन्दत्वामलत्वादय इश्वरस्य स्वरूपनिरूपकधर्माः । ज्ञान- शक्त्यादयो निरूपितस्वरूपधर्माः । सर्वज्ञत्वसर्वशक्तित्वादयः सृष्टयुपयुक्ता धर्माः। वात्सल्यसौशील्यसौलभ्यादय आश्रयणोपयुक्ता धर्माः । कारुण्यादयो रक्षणोपयुक्त-धर्माः । एतेषाम् स्वरूपम् बुद्धिपरिच्छेदे निरूपितमिति इह न प्रपञ्च्यते ।

१६. अयमीश्वरः अण्डसृष्टयनन्तरम् चतुर्मुखदक्षकालादिषु अन्तर्यामितया स्थित्वा सृष्टिं करोति । विष्ण्ववताररूपेण मनुकालाद्यन्तर्यामिरूपेण च स्थित्वा रक्षको भवति । रुद्रकालान्तकादीनाम् अन्तर्यामितया सम्हारमपि करोति । अतः सृष्टि-स्थितिसम्हारकर्ता च भवति ।

१७. एवम्प्रकार ईश्वरः परव्यूहविभवान्तर्याम्यर्चावताररूपेण पच्चप्रकारः।

१८. तत्र परो नाम त्रिपाद्विभूतौ कुमुदकुमुदाक्षपुण्डरीकवामनशङ्कुकर्णसर्वनेत्र- सुमुखसुप्रतिष्ठितादिभिः दिव्यायुधभूषणपरिजनपरिच्छदान्वितैः दिव्यनगरपालकैः परिरक्षिते श्रीमद्वैकुण्ठाख्ये पुरे चण्डप्रचण्डभद्रसुभद्र जयविजयधातृविधातृप्रभृतिभिः द्वारपालकैः उपेते श्रीमद्दिव्यालये श्रीमहामणिमण्डपे धर्माद्यष्टपादविरचितसिम्हासने शेषपर्यङ्के दिव्यमङ्गलविग्रहविशिष्टश्चतुर्भुजः, श्रीभूनीलासहितः, शङ्खचक्रादि-दिव्यायुधोपेतः, श्रीमत्किरीटादिदिव्यभूषणभूषितः,अनन्तगरुडविष्वक्सेनादिभि-र्नित्यैः सामगानपरैः अन्यैर्मुक्तैश्च अनुभूयमानः, ज्ञानशक्त्याद्यनन्त-कल्याणगुणविशिष्टः,परब्रह्मपरवासुदेवादिशब्दवाच्यो नारायणः ।

१९. व्यूहो नाम पर एव उपासनार्थम् जगत्सूण्टयाद्यर्थम् च वासुदेवसङ्कर्षण- प्रद्युम्नानिरुद्ध भेदेन चतुर्द्धावस्थितः। तत्र षड्गुणपूर्णः श्रीवासुदेवः। ज्ञानबलाभ्याम् सङ्कर्षणः । ऐश्वर्यवीर्याभ्याम् प्रद्युम्नः । शक्ति तेजोभ्याम् अनिरुद्ध इति गुणविभागः ।

२०. एतेषु चतुर्षु प्रत्येकं त्रयस्त्रयोऽवतीर्णाः केशवादयो व्यूहान्तराणि द्वादश-मासानाम् द्वादशादित्यानाम् च अधिदैवतानि । ऊर्ध्वपुण्ड्रेषु तेषामेव स्थापनम् विधीयते ।

२१. तत्र कनकप्रभः केशवश्चतुश्चक्रधरः । श्यामो नारायणश्चतुःशङ्खधरः । मणि-प्रभाभो माधवश्चतुर्गदाधरः । चन्द्राभो गोविन्दश्चतुःशार्ङ्गधरः । पद्मकिञ्जल्क-सन्निभो विष्णुश्चतुर्हलधरः । अब्जाभो मधुसूधनश्चतुर्मुसलधरः । अग्निवर्णस्त्रि-विक्रमश्चतुःखड्गधरः । बालसूर्याभो वामनश्चतुर्वज्रधरः । पुण्डरीकाभः श्रीधरश्चतु- ष्पट्टीशधरः । तडित्प्रभो हृषीकेशश्चतुर्मुद्गरधरः । सूर्याभः पद्मनाभः पञ्चायुधधरः। इन्द्रगोपनिभो दामोदरश्चतुष्पाशधरः।

२२. विभवो नाम तत्तत्सजातीयरूपेण आविर्भावः । स दशधा – ते च मत्स्याद-योऽवतारविशेषाः ।

२३. तत्र वेदापहारिदैत्यनिरसनद्वारा ब्रह्मणे प्रमाणपदत्वार्थम् अवतीर्णो मत्स्याव-तारः। देवानाम् अजरामृतिहेत्वमृतोत्पादने मन्दराधारत्वेन अवतीर्णः कूर्मावतारः। सम्सारसागरोन्मग्नजनोद्धर्तुकामः स्वमहिषीभूम्युद्धरणार्थम् अवतीर्णो वराहाव-तारः। आश्रितसम्रक्षणार्थम् महासुरम् हन्तुम् स्तम्भे अवतीर्णो नृसिम्हावतारः ।

त्रिविक्रमो भूत्वा स्वपादारविन्दोद्भवेन जलेन जगत्पापहरणेन तद्रक्षणार्थम् अवती-र्णो वामनावतारः । दुष्टक्षत्रियनिरसनार्थम् अवतीर्णः परशुरामावतारः । शरणागत-रक्षणधर्मस्थापनार्थम् अवतीर्णः श्रीरामावतारः । प्रलम्बादिनिरसनार्थम् अवतीर्णो बलरामावतारः । मोक्षोपायदर्शनार्थम् अवतीर्णः श्रीकृष्णावतारः । अर्धर्मिष्ठा-न्निरस्य पूर्णधर्मोत्पादनार्थम् कलिनिर्मोचनार्थम् कल्क्यवतारः ।

२४. एवम् दशावतारेष्वपि एकैकावतारः अनन्तप्रकाराः सन्ति । षट्त्रिम्शद्भेद-भिन्नाः पद्मनाभादयोऽपि । पुनर्दधिभक्तहयग्रीवनरनारायणादयोऽपि । एवम् मुख्यगौणपूर्णाशावेशाद्यवतारा बहुप्रकाराः । तेषु उपास्यानुपास्यविभागो द्रष्टव्यः ।

२५. अवताराणामिच्छैव हेतुः, न तु कर्म । प्रयोजनम् तु दुष्कृतिविनाशपूर्वकम् साधुपरित्राणमेव ।

२६. अन्तर्यामित्वं नाम स्वर्गनरकाद्यनुभवदशायामपि जीवात्मनः सुहृत्त्वेन योगिभिर्द्रष्टव्यतया हृदयप्रदेशावस्थितम् रूपम् । जीवेन साकम् विद्यमानोऽपि तद्गतदोषैः असम्स्पृष्टो वर्तते ।

२७. अर्चावतारो नाम देशकालविप्रकर्षरहित आश्रिताभिमतद्रव्यादिकम् शरीरतया स्वीकृत्य तस्मिन्नप्राकृतशरीरविशिष्टः सन् अर्चकपराधीनस्नानभोजनासनशयन-स्थिति: सर्वसहिष्णुः परिपूर्णो गृहग्रामनगरप्रशस्तदेशशैलादिषु वर्तमानो मूर्ति-विशेषः ।

२८. स च स्वयम्व्यक्तदैवसैद्धमानुषभेदात् चतुर्विधः ।

२९. एवम् उक्तासु पञ्चावस्थास्वपि श्रीविशिष्ट एव भगवान् वर्तत इति श्रुत्यादि-प्रमाणसिद्धोऽर्थः । एतेन एकायनोक्तनिःश्रीकवादो निरस्तः । एवम् ईश्वरो निरूपितः ।

इति श्रीवाधूलकुलतिलकश्रीमन्महाचार्यस्य प्रथमदासेन श्रीनिवासदासेन

विरचितायाम् यतीन्द्रमतदीपिकायाम् ईश्वरनिरूपणम्

नाम नवमोऽवतारः ॥

दशमोऽवतारः

अद्रव्यम्

१. एवम् द्रव्यनिरूपणानन्तरम् क्रमप्राप्तम् अद्रव्यम् निरूप्यते । सम्योगरहितम् अद्रव्यम् । तत् अद्रव्यम् च सत्त्वरजस्तमाम्सि शब्दस्पर्शरूपरसगन्धाः सम्योगः शक्तिरिति दशप्रकारमेव ।

२. तत्र प्रकाशसुखलाघवादिनिदानमतीन्द्रियम् शक्त्याद्यतिरिक्तम् अद्रव्यम् सत्त्वम्। तत् द्विविधम् – शुद्धसत्त्वम् मिश्रसत्त्वम् चेति । रजस्तमशून्यद्रव्यवर्ति सत्त्वम् शुद्धसत्त्वम् । तन्नित्यविभूतौ उपचारात् तत्प्रवर्तकेश्वरे च । रजस्तमः- सहवर्ति सत्त्वम् मिश्रसत्त्वम् । तत् त्रिगुणे तत्सम्बन्धिनि जीवे च उपचारात् इति ज्ञेयम् ।

३. लोभप्रवृत्त्यादिनिदानमतीन्द्रियम् शक्त्याद्यतिरिक्तम् अद्रव्यम् रजः ।

४. प्रमादमोहादिनिमित्तमतीन्द्रियम् शक्त्याद्यतिरिक्तम् अद्रव्यम् तमः ।

५. त्रीण्यपि एतानि यावत्प्रकृतिव्याप्तानि, प्रकृतिवश्यपुरुषसम्बद्धानि, अनित्यानि, नित्यसन्तानानि, प्रलयदशायाम् समानि, सृष्टयादौ विषमाणि, सृष्टिस्थितिसम्हारोप-युक्तानि, ईश्वरसङ्कल्पादिसहकारिभेदात् परस्पराभिभवोद्भवकराणि इत्येतानि साधारणानि ।

६. सत्त्वगुणस्तु सम्यग्ज्ञानसुखादिहेतुः मोक्षप्रदश्च । रजोगुणस्तु रागाद्यात्मकः कर्मसङ्गदुःखादिहेतुः स्वर्गाद्यामुष्मिकप्रदः । तमोगुणस्तु अज्ञानरूप आलस्यादि-हेतुर्नरकप्रदश्च । अतः सत्त्वादयो गुणा न द्रव्यरूपाः ।

७. अस्मदादिश्रोत्रग्राह्यः पञ्चभूतवर्ती शब्द: । स च द्विविधः – वर्णात्मकः अवर्णा-त्मकश्चेति । अकचटतपयादिपञ्चाशदक्षरात्मको वर्णात्मकः । स देवमनुष्या-दीनाम् ताल्वादिव्यङ्गयः। भेर्यादिजन्यः अवर्णात्मकः । एवम्भूतः शब्दः श्रोत्रेन्द्रि- येण गृह्यते । श्रोत्रेन्द्रियगमनाद्वा व्यञ्जकवाय्वागमनात् वा शब्दग्रहः ।

८. ननु श्रुत्या शब्दस्य द्रव्यत्वम् प्रतीयते । अद्रव्यत्वम् कथम् ? इति चेत्, न। अकारादेः प्रणवोत्पादकत्वम् वाच्यद्वारा सम्भवतीति परिहारात् अद्रव्यत्वमुप-पद्यते। इति शब्दः ।

९. अस्मदादिस्पर्शनेन्द्रियग्राह्यविजातीयव्यावृत्तम् अद्रव्यम् स्पर्शः । स च त्रिविधः – शीतोष्णानुभयात्मक भेदात् । अप्सु शीतस्पर्शः । तेजसि उष्णस्पर्शः । क्षिति-पवनयोः अनुष्णाशीतस्पर्शः । स च पुनर्द्विविधः – पाकजः अपाकजश्चेति । पृथिव्याम् पूर्वः, इतरेषु त्रिषु इतरः । तत्र अमृतगरलतूलोपलगोब्राह्मणचण्डालादि-स्पर्शविशेषाः पाकजभेदाः । इति स्पर्शः ।

१०. अस्मदादिचक्षुरिन्द्रियैकग्राह्यविजातीयव्यावृत्तम् अद्रव्यम् रूपम्। तच्चतुर्धा – श्वेतरक्तपीतकृष्णभेदात् । तत्र सलिलकलधौतशङ्खशुक्तिशशाङ्कादीनाम् रूप-विशेषाः श्वेतभेदाः । हुतवहजपादाडिमबन्धुजीवविद्रुमपद्मरागादीनाम् तु रूपविशेषाः रक्तभेदाः । काञ्चनहरितालहरिद्रादीनाम् रूपविशेषाः पीतभेदाः । मरकतमधुकर-जलधरतिमिरतमालदूर्वादीनाम् रूपविशेषाः कृष्णभेदाः । पीतमपि रक्तावान्तर-भेदम् केचिदिच्छन्ति, श्रुत्यनुसारात् । प्रकारान्तरेण रूपम् द्विविधम् – भास्वरा-भास्वरभेदात् । तेजोगतम् भास्वरम् । क्षितिसलिलगतम् अभास्वरम् । एवम् चत्वार्येव रूपाणि । तेन चित्रम् नाम पञ्चमम् रूपमिति मतनिरासः । अत एव चित्रगन्धस्पर्शरसानामपि निरासः । इति रूपम् ।

११. अस्मदादिजिह्वैकग्राह्यविजातीयेतरो रसः । स षोढामधुराम्ललवणतिक्त- कटुकषायभेदात् । तत्र इक्षुक्षीरगुडादिरसा मधुरभेदाः । चूतचिञ्चामलकादिरसा आम्ला: । सैन्धवोषरविकार लवणभेदाः । किम्पाकनिम्बादिरसाः तिक्तभेदाः । शुण्ठीमरीचीसर्षपादिरसाः कटुभेदाः । हरीतकीविभीतकचूताङ्कुरादिरसाः कषाय-भेदाः । इति रसः ।

१२. अस्मदादिघ्राणग्राह्य विजातीयेतरः अद्रव्यविशेषो गन्धः । स द्विविधः – सुरभिः असुरभिश्चेति । पाटीरमृगमदघुसृणचम्पकादिगन्धाः सुरभिभेदाः । तदन्येषु असुरभिगन्धाः । अयम् च गन्धः पृथिव्येकवर्ती पाकभेदात् भिन्नः पवनसलिलादिषु गन्धोपलब्धिः पार्थिवसम्सर्गात् अयो दहतीतिवत् औपचारिकी ।

१३. पञ्चीकरणप्रक्रियया सर्वभूतेषु सर्वगुणानाम् विद्यमानत्वेऽपि प्राधान्याभि-प्रायेण उक्तमिति न विरोधः । पाकात् गुणान्तरोत्पत्तिः । स्वाश्रयनाशाभावादेव उपपत्तेः पीलुपाकवादिमतनिरासः । इति गन्धः ।

१४. सम्युक्तप्रत्ययनिमित्तम् सम्योगः । स च सामान्यगुणः षड्द्रव्यवृत्तिः अस्य च स्वाभावसादेश्यम् उपलभ्यमानम् अम्शभेदप्रयुक्ततया न विरोधावहम् । स कार्याकार्यभेदात् द्विविधः । पूर्वः परिमितानाम् उभयप्रेरणात् । यथा मेषयोर्मल्ल-योर्वा । क्वचित् अन्यतरप्रेरणात् । यथा स्थाणुश्येनयोः सम्योगः । केचित् सम्योगजसम्योगमपि वदन्ति । हस्तपुस्तकसम्योगात् कायपुस्तकसम्योग

इति । तन्न । हस्तसम्योगादेव कायसम्योगस्य जातत्वात् । एतेन विभागज- विभागो निराकृतः । विभागोऽपि सम्योगाभाव एव, न पृथग्गुणः ।

१५. अकार्यसम्योगस्तु विभुद्रव्ययोः । अजद्रव्यसम्योगः श्रुत्या अङ्गीक्रियते । अनुमानादपि अजद्रव्यसम्योगसिद्धिः । यथा – “विभुद्रव्यम् विभुद्रव्यसम्योगवत्, द्रव्यत्वात्, घटवत्” । “विभुद्रव्यम् ईश्वरसम्युक्तम्, द्रव्यत्वात्, घटवत्” । “ईश्वर, कालादिसम्युक्तः, द्रव्यत्वात्, घटवत्” इत्यादिभिः विभुसम्योगसिद्धिः ।

१६. अथ शक्तिः। सर्वकारणानाम् कारणत्वनिर्वाहकः कश्चित् अद्रव्यविशेषः शक्तिः। तर्कागमाभ्याम् तत्सिद्धेः । प्रतिबन्धकमणिमन्त्रादिसन्निधौ स्वरूपसहकारिवैक-ल्याभावेऽपि यदुपरोधात् दहनो न दहति सा ह्यतीन्द्रिया शक्तिः । अयस्कान्तादिषु तत्प्रसिद्धिः । सा शक्तिः षड्द्रव्यवृत्तिः । भगवन्निष्ठत्वम् पुराणरत्नादिषु प्रसिद्धम्। एवम् सर्वत्रापि शक्तिनामकधर्मविशेषसिद्धिः ।

१७. ननु चतुर्विम्शतिप्रकारा गुणा इत्युक्तत्वात् कथम् दर्शवेति निर्दिश्यते ? इति चेत्, उच्यते । जीवात्मविशेषगुणानाम् बुद्धिसुखदुःखेच्छाद्वेषप्रयत्नानाम् षण्णाम् ज्ञानविततिरूपत्वेन ज्ञानान्तर्भावस्य उक्तत्वात् । धर्माधर्मयोरपि ईश्वरप्रीत्यप्रीति-रूपत्वेन ईश्वरज्ञाने अन्तर्भावात् । भावनाख्यसम्स्कारस्य ज्ञानविशेषरूपत्वात् । वेगोत्पादकहेतोरेत वेगाख्यसम्स्कारोपपत्तेः । सम्योगमादाय स्थितिस्थापकस्यापि सम्भवात् । शब्दस्पर्शरूपरसगन्धानाम् पञ्चानाम् प्रत्यक्षसिद्धत्वेन अङ्गीकारात्। विभागपृथक्त्वयोरपि सम्योगाभावमादाय उपपत्तेः । परत्वापरत्वयोः देशकाल-सम्योगविशेषमादाय उपपत्तेः । सङ्ख्यापरिमाणद्रवत्वस्नेहानाम् तत्तद्द्रव्यस्व-रूपमादाय उपपत्तेः । गुरुत्वस्य शक्त्यन्तर्भावस्य वक्तुमुचितत्वाच्च दशैवेति सुष्ठूक्तम् ।

१८. सत्त्वरजस्तमाम्सि प्रकृतिगुणाः तत्सम्बन्धिजीवगुणाश्च । “सत्त्वरूपम् ज्ञानम्”, “सात्विकः कालः” इत्यादिप्रतीतिः उपाधिवशात् औपचारिकी । शब्दादयः पञ्च प्रकृतिकार्यपञ्चमहाभूतगुणत्वेन प्रसिद्धाः । शुद्धसत्त्वम् तु त्रिपाद्विभूत्याम् तत्प्रवर्तकेश्वरे च । सम्योगशक्तिरूपौ गुणौषड्द्रव्यसाधारणौ इति विवेकः । इति अद्रव्यम् निरूपितम् ।

१९. एवम् द्रमिडभाष्य – न्यायतत्त्व – सिद्धित्रय – श्रीभाष्य – दीप -सार- वेदार्थ सङ्ग्रह – भाष्यविवरण – सङ्गतिमाला – षडर्थसन्क्षेप – श्रुतप्रकाशिका – तत्त्व- रत्नाकर – प्रज्ञापरित्राण – प्रमेयसङ्ग्रह – न्यायकुलिश – न्यायसुदर्शन – मानया-थात्म्यनिर्णय – न्यायसार – तत्त्वदीप – तत्त्वनिर्णय – तत्वमुक्ताकलाप – सर्वार्थ- सिद्धि – न्यायपरिशुद्धि – न्यायसिद्धाञ्जन – परमतभङ्ग – तत्त्वत्रयचुलुक – तत्त्व-त्रयनिरूपण – तत्त्वत्रय – चण्डमारुत-वेदान्तविजय –पाराशर्यविजयादिपूर्वाचार्य- प्रबन्धानुसारेण ज्ञातव्यार्थान् सङ्गृह्य बालबोधार्थम् यतीन्द्रमतदीपिकाख्य- शारीरकपरिभाषायाम् अस्या । एते अर्थाः प्रतिपादिताः ।

२०. अध्यात्मशास्त्राणाम्  तत्त्वहितपुरुषार्थप्रतिपादकत्वात् तत्सारे अस्मिन्नपि प्रकृतिजीवेश्वरपरिच्छेदैः तत्त्वस्य निरूपितत्वात्, बुद्धिपरिच्छेदे उपायस्य निरूप-णात्, नित्यविभूतिपरिच्छेदे ईश्वरपरिच्छेदे च पुरुषार्थस्य निरूपणाच्च तत्त्वहित-पुरुषार्था निरूपिता इति निरवद्यम् ।

२१. एकं तत्त्वम् इति प्रतिपादयन्ति सूरयः । “आत्मा अनात्मा” इति विभज्य द्वेधा निरूपयन्ति ऋषयः । श्रुत्यनुसारात् भोक्तृभोग्यनियन्तृरूपम् तत्त्वत्रयम् इति प्रतिपादयन्ति आचार्याः । हेयम्, तस्य निवर्तकम्, उपादेयम्, तस्योपायः इति चतुर्धा विभज्य अनुसन्दधते केचिदाचार्याः । प्राप्यम् प्राप्ता उपायः फलम् विरोधि

इति पञ्चधा निरूपयन्ति अपरदेशिकाः । अर्थपञ्चकमेव सम्बन्धेन साकं षोढा परिगणय्य वर्णयन्ति अन्ये गुरवः । एतेषाम् तत्तद्विभाजकधर्ममादाय अनुसन्धा-नम् उपपद्यते ।

२२. वस्तुतस्तु वेदान्तानाम् चिदचिद्विशिष्टाद्वैतम् तत्त्वम् एकमेव ब्रह्म इति तात्पर्यम् । अत एव चिदचिद्विशिष्टम् ब्रह्म एकमेवेति मत्वा भगवान् बादरायणः “अथातो ब्रह्मजिज्ञासा” इति उपक्रम्य तदेव सप्रकारम् निरूपितवान्। अतः चिदचि- द्विशिष्टः ब्रह्मशब्दवाच्यः विष्ण्वाख्यः परवासुदेवो नारायण एवैकम् तत्त्वम् इति विशिष्टाद्वैतवादिनाम् दर्शनम् इति सिद्धम् ।

इति श्रीवाधूलकुलतिलकश्रीमन्महाचार्यस्य प्रथमदासेन श्रीमद्वेङ्कट-

गिरिनाथपदकमलसेवापरायणस्वामिपुष्करिणीगोविन्दाचार्य-

सूनुना श्रीनिवासदासेन विरचिता यतीन्द्रमत

दीपिकाख्या शारीरकपरिभाषा समाप्ता ॥

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.