[highlight_content]

श्री कैशिकपुराणं

श्री:

श्रीमते रामानुजाय नमः

श्री कैशिकपुराणं

शुक्लांबरधरं विष्णुं शशिवर्णं चतुर्भुजम् |

प्रसन्नवदनं ध्यायेत् सर्वविघ्नोपशान्तये ||

यस्य द्विरदवक्त्राद्याः पारिषद्याः परश्शतम् |

विघ्नं निघ्नन्ति सततं विष्वक्सेनं  तमाश्रये ||

एतत्  त्रैलोक्य निर्माण त्राण संहार कारणम् |

श्रीमत् श्रीरङ्गनाथस्य शासनं शाश्वतं परम् ||

श्रीमत्  श्रीरङ्गनायक्याः श्रियस्त्रैलोक्यमङ्गलम् |

परावरेस्वश्वर शिरः चूडासञ्चारि शासनम् ||

रामानुज दयापात्रं ज्ञानवैराग्य भूषणम् |

श्रीमद्वेङ्कटनाथार्य वन्दे वेदान्तदेशिकम् ||

नमस्तेऽस्तु  वराहाय लीलयोद्धरते महीम् |

खुरमध्यगतो यस्य मेरुः कणकणायते ||

प्रलयोदन्वदुत्तीर्णां प्रपद्येऽहं वसुन्धराम् |

महावराह द्रंष्ट्राग्र मल्लीकोश मधुव्रताम्   ||

श्रीवराह उवाच

जागरे तु विशालाक्षि जानतो  वाऽप्यजानतः |

यो मे प्रगायते गेयं मम भक्त्या व्यवस्थितः || 1 ||

यावन्ति त्वक्षराण्यस्य गीयमाने यशस्विनि |

तावद्वर्षसहस्राणि स्वर्गलोके महीयते || 2 ||

रूपवान् गुणवान् शुद्धः सर्वधर्मभृतां वरः |

नित्यं पश्यति वै शक्रं वज्रहस्तं न संशयः || 3 ||

मद्भक्तश्चापि जायेत इन्द्रेणैकपदे  स्थितः |

सर्वधर्मगुणश्रेष्ठः तत्रापि मम लुब्धकः || 4 ||

इन्द्रलोकात् परिभ्रष्टो मम गेयपरायणः |

प्रमुक्तः सर्वसंसारैर्मम लोकं च गच्छति  || 5 ||

एवं तु वचनं श्रुत्वा तत्प्रसादाद्वसुन्धरा |

वराहरूपिणं देवं प्रत्युवाच शुभानना || 6 ||

अहो गीतप्रभावो वै यस्त्वया परिकीर्तितः |

कश्च गीतप्रभावेन सिद्धिं प्राप्तो महातपाः || 7 ||

श्रीवराह उवाच

श्रुणु  तत्त्वेन ते देवि कथ्यमानं यशस्विनम् |

यस्तु गीतप्रभावेन सिद्धिं प्राप्तो महातपाः || 8 ||

अस्ति दक्षिणदिग्भागे महेन्द्रो नाम पर्वतः |

तत्र क्षीरनदी पुण्या दक्षिणे सागरसङ्गमा  || 9 ||

तत्र सिद्धाश्रमे भद्रे चण्डालः कृतनिश्चयः |

दूराज्जागरणे गाति मम भक्त्या व्यवस्थितः || 10 ||

एवं तु गायमानस्य गतास्संवत्सरा दश |

श्वपाकस्य गुणज्ञस्य मद्भक्तस्य वसुन्धरे || 11 ||

कौमुदस्य तु मासस्य द्वादश्यां शुक्लपक्षके |

सप्ते जने गते यामे वीणामादाय निर्ययौ  || 12 ||

ततो वर्त्मनि चण्डालो गृहीतो ब्रह्मरक्षसा |

अल्पप्राणः श्वपाको वै बलवान् ब्रह्मराक्षसः || 13 ||

दुःखेन स तु सन्तप्तो न च शक्तो विचेष्टितुम् |

उवाच वचनं मन्दं मातङ्गो  ब्रह्मराक्षसम् || 14 ||

गच्छामि सन्तोषयितुमहम् जागरणे हरिम् |

गानेन पुण्डरीकाक्षं ब्रह्मराक्षस मुञ्च माम् || 15 ||

एवमुक्तः श्वपाकेन बलवान् ब्रह्मराक्षसः |

अमर्षवशमापन्नो न च किञ्चित् तमब्रवीत् || 16 ||

आत्मानं प्रतिधावन्तं चण्डालः ब्रह्मराक्षसम् |

किं त्वया चेष्टितव्यं मे य एवं परिधावसि || 17 ||

श्वपाकवचनं श्रुत्वा ततो वै ब्रह्मराक्षसः |

उवाच वचनं घोरं मानुषाहारलोलुपः || 18 ||

अद्य मे दशरात्रं वै निराहारस्य गच्छतः |

धात्रा त्वम् विहितो मह्यमाहारः परितो मम || 19 ||

अद्य त्वां भक्षयिष्यामि सवसामांसशोणितम् |

तर्पयित्वा यथान्यायं यास्यामि च यथेप्सितम् || 20 ||

ब्रह्मरक्षोवचः श्रुत्वा श्वपाको गीतलालसः |

राक्षसं छन्दयामास मम भक्त्या व्यवस्थितः || 21 ||

श्रुणु तत्त्वं महाभाग भक्ष्योऽहं समुपागतः |

अवश्यमेतत् कर्तव्यं धात्रा दत्तं यथा तव || 22 ||

पश्चात्खादसि मां रक्षो जागरे विनिवर्तिते |

विष्णोः सन्तोषणार्थाय ममैतत् व्रतमुत्तमम् || 23 ||

रक्ष मां व्रतभङ्गाद्वै देवं नारायणं प्रति |

जागरे विनिवृत्ते तु मां भक्षय यथेप्सितम् || 24 ||

श्वपाकस्य वचः श्रुत्वा ब्रह्मरक्षः क्षुधाऽर्दितम् |

उवाच मधुरं वाक्यं श्वपाकं तदनन्तरम् || 25 ||

मोघम् भाषसि चण्डाल पुनरेष्याम्यहं त्विति |

को हि रक्षोमुखाद्भ्रष्टस्तन्मुखायाभिवर्धते || 26 ||

बहवः सन्ति पन्थानो देशाश्च बहवस्तथा |

आत्मदेशं परित्यज्य परेषां गन्तुमिच्छसि || 27 ||

स्व शरीरविनाशाय न चागच्छति कश्चन |

रक्षसो मुखविभ्रष्टः पुनरागन्तुमिच्छसि || 28 ||

राक्षसस्य वचः श्रुत्वा चण्डालो धर्मसंश्रितम् |

उवाच मधुरं वाक्यं राक्षसं पिशिताशनम् || 29 ||

यद्यप्यहं हि चण्डालः पूर्वकर्मविदूषितः |

प्राप्तोऽहं मानुषं भावं विदितेनान्तरात्मना || 30 ||

श्रुणु तत्समयं रक्षो येनागच्छाम्यहम् पुनः |

दूराज्जागरणं कृत्वा लोकनाथस्य तृप्तये || 31 ||

सत्यमूलं जगत्सर्वम् लोकस्सत्ये प्रतिष्ठितः |

नाहं मिथ्या प्रवक्ष्यामि सत्यमेव वदाम्यहम् || 32 ||

अद्य मे समयस्तत्र ब्रह्मराक्षस तम् श्रुणु |

शपामि सत्येन गतो यद्यहम् नागमे पुनः || 33 ||

यो गच्छेत् परदारांश्च काममोहप्रपीडितः |

तस्य पापेन लिप्येयं यद्यहम् नागमे पुनः || 34 ||

पाकभेदं तु यः कुर्यादात्मनश्चोपभुञ्जतः |

तस्य पापेन लिप्येयं यद्यहम् नागमे पुनः || 35 ||

दत्वा वै भूमिदानं तु पुनराच्छिन्दतीह यः |

तस्य पापेन लिप्येयं यद्यहम् नागमे पुनः || 36 ||

स्त्रियं भुक्त्वा रूपवतीं पुनर्यस्तां विनिन्दति |

तस्य पापेन लिप्येयं यद्यहम् नागमे पुनः || 37 ||

योऽमावास्यां विशालाक्षि श्राद्धं कृत्वा स्त्रियं व्रजेत् |

तस्य पापेन लिप्येयं यद्यहम् नागमे पुनः || 38 ||

भुक्त्वा परस्य चान्नानि यस्तं निन्दति निर्घृणः |

तस्य पापेन लिप्येयं यद्यहम् नागमे पुनः || 39 ||

यस्तु कन्यां ददामीति पुनस्तां न प्रयच्छति |

तस्य पापेन लिप्येयं यद्यहम् नागमे पुनः || 40 ||

पष्ट्यष्टम्योरमावास्याचतुर्दश्योश्च  नित्यशः |

अस्नातानां गतिम् गच्छे यद्यहम् नागमे पुनः || 41 ||

दास्यामीति प्रतिश्रुत्य न च यस्तत्प्रयच्छति |

गतिम् तस्य प्रपद्ये वै यद्यहम् नागमे पुनः || 42 ||

मित्रभार्यां तु यो गच्छेत् कामबाणवशानुगः |

तस्य पापेन लिप्येयं यद्यहम् नागमे पुनः || 43 ||

गुरुपत्नीं राजपत्नीं ये तु गच्छन्ति मोहिताः |

तेषां गतिम् प्रपद्ये वै यद्यहम् नागमे पुनः || 44 ||

यो वै दारद्वयं कृत्वा एकस्यां प्रीतिमान् भवेत् |

गतिम् तस्य प्रपद्ये वै यद्यहम् नागमे पुनः || 45 ||

अनन्यशरणां भार्यां यौवने यः परित्यजेत् |

तस्य पापेन लिप्येयं यद्यहम् नागमे पुनः || 46 ||

गोकुलस्य तृषार्तस्य जलार्थमभिधावतः |

विघ्नमाचरते यस्तु तत्पापं स्यादनागमे || 47 ||

ब्रह्मघ्ने च सुरापे च चोरे भग्नव्रते तथा  |

या गतिर्विहिता सद्भिः तत्पापं स्यादनागमे || 48 ||

वासुदेवं परित्यज्य येऽन्यं  देवमुपासते |

तेषां गतिम् प्रपद्ये वै यद्यहम् नागमे पुनः || 49 ||

नारायणमथान्यैस्तु देवैस्तुल्यं करोति यः |

तस्य पापेन लिप्येयं यद्यहम् नागमे पुनः || 50 ||

चण्डालवचनं श्रुत्वा परितुष्टस्तु राक्षसः  |

उवाच मधुरं वाक्यं गच्छ शीघ्रं नमोऽस्तु ते || 51 ||

राक्षसेन विनिर्मुक्तश्चण्डालः कृतनिश्चयः |

पुनर्गायति मह्यं वै मम भक्त्या व्यवस्थितः || 52 ||

अथ प्रभाते विमले विनिवृत्ते तु जागरे |

नमो नारायणेत्युक्त्वा श्वपाकः पुनरागमत् || 53 ||

गच्चतस्त्वरितं तस्य पुरुषः पुरतः स्थितः |

उवाच मधुरं वाक्यं श्वपाकं तदनन्तरम् || 54 ||

कुतो गच्छसि चण्डाल दृतम् गमननिश्चितम् |

एतदाचक्ष्व तत्त्वेन यत्र ते वर्तते मनः || 55 ||

तस्य तद्वचनं श्रुत्वा श्वपाकः सत्यसंमतः |

उवाच मधुरं वाक्यं पुरुषम्  तदनन्तरम् || 56 ||

समयो मे कृतो यत्र ब्रह्मराक्षससन्निधौ  |

तत्राहं गन्तुमिच्छामि यत्रासौ ब्रह्मराक्षसः || 57 ||

श्वपाकवचनं श्रुत्वा पुरुषो भावशोधकः |

उवाच मधुरं वाक्यं श्वपाकं तदनन्तरम् || 58 ||

न तत्र गच्छ चण्डाल मार्गेणानेन सुव्रत |

तत्रासौ  राक्षसः पापः पिशिताशी दुरासदः || 59 ||

पुरुषस्य वचः श्रुत्वा श्वपाकः सत्यसङ्गरः |

मरणं तत्र निश्चित्यमधुरं वाक्यमब्रवीत् || 60 ||

नाहमेवं करिष्यामि यन्मां त्वं परिपृच्छसि  |

अहं सत्ये प्रवृत्तो वै शीलं सत्ये प्रतिष्ठितम् || 61 ||

ततस्स पद्मपत्राक्षः श्वपाकं प्रत्युवाच ह |

यद्येवं निश्चयस्तात स्वस्ति तेऽस्तु गमिष्यतः || 62 ||

ब्रह्मरक्षोन्तिकं प्राप्य सत्येऽसौ  कृतनिश्चयः |

उवाच मधुरं वाक्यं राक्षसं पिशिताशनम् || 63 ||

भवता समनुज्ञातो गानं कृत्वा यथेप्सया |

विष्णवे लोकनाथाय मम पूर्णो मनोरथः |

एतानि मम चाङ्गानि भक्षयस्व यथेच्छया || 64 ||

श्वपाकवचनं श्रुत्वा ब्रह्मरक्षो भयानकम् |

उवाच मधुरं वाक्यं श्वपाकं संशितव्रतम् || 65 ||

त्वमद्य रात्रोउ चण्डाल विष्णोर्जागरणं प्रति | trou

फलं गीतस्य मे देहि जीवितुम् यदि चेच्छसि || 66 ||

ब्रह्मरक्षो वचः श्रुत्वा श्वपाकः पुनरब्रवीत् || 67 ||

यत् त्वया भाषितं पूर्वं मया सत्यं च यत्कृतम् |

भक्षयस्व यथेच्छं मां दद्यां गीतफलं न तु || 68 ||

चण्डालस्य वचः श्रुत्वा हेतुयुक्तमनन्तरम् |

उवाच मधुरं वाक्यं चण्डालं ब्रह्मराक्षसः || 69 ||

अथवाऽर्धम्  तु मे देहि पुण्यं गीतस्य यत्फलम् |

ततो मोक्ष्यामि कल्याण भक्षादस्माद्विभीषनात् || 70 ||

ब्रह्मरक्षो वचः श्रुत्वा श्वपाकः संशितव्रतः |

वाणीं श्लक्ष्णां समादाय ब्रह्मराक्षसमब्रवीत् |

भक्षयामीति संश्रुत्य गीतमन्यत् किमिच्छसि || 71 ||

श्वपाकस्य वचः श्रुत्वा ब्रह्मरक्षो भयावहम् |

उवाच मधुरं वाक्यं श्वपाकं संशितव्रतम् || 72 ||

एकयामस्य मे देहि पुण्यं गीतस्य यत्फलम् |

ततो यास्यसि कल्याण सङ्गमम् पुत्रदारकैः || 73 ||

श्रुत्वा राक्षस वाक्यानि चण्डालो गीतलालसः |

उवाच मधुरं वाक्यं राक्षसं कृतनिश्चयः ||74 ||

न यामस्य फलं दद्यां ब्रह्मरक्षस्तवेप्सितम् |

पिबस्व शोणितं मह्यं यत् त्वया पूर्वभाषितम् || 75 ||

श्वपाकस्य वचः श्रुत्वा राक्षसः पिशिताशनः |

सत्यवन्तं गुणज्ञञ्च चण्डालमिदमब्रवीत् || 76 ||

एकं गीतस्य मे देहि यत् त्वया विष्णुसंसदि || 77 ||

निग्रहात्तारयास्माद्वैतेन गीतफलेन माम्  |

एवमुक्त्वा तु चण्डालं राक्षसश्शरणं गतः || 78 ||

श्रुत्वा राक्षस वाक्यानि श्वपाकः संशितव्रतः |

उवाच मधुरं वाक्यं राक्षसं पिशिताशनम् || 79 ||

किं त्वया दुष्कृतं कर्म कृतपूर्वं तु राक्षसः |

कर्मणो यस्य दोषेण राक्षसीं योनिमाश्रितः || 80 ||

एवमुक्तः श्वपाकेन पूर्ववृत्तमनुस्मरन् |

राक्षसः शरणङ्गत्वा श्वपाकमिदमब्रवीत् || 81 ||

नाम्ना वै सोमशर्माऽहं चरको ब्रह्मयोनिजः |

सूत्रमन्त्र परिभ्रष्टो यूपकर्मण्यधिष्ठितः || 82 ||

ततोऽहं कारये यज्ञं लोभमोहप्रपीडितः |

यज्ञे प्रवर्तमाने तु शूलदोषस्त्वजायत || 83 ||

अथ पञ्चमरात्रे तु असमाप्ते क्रतावहम् |

अकृत्वा विमलं कर्म ततः पञ्चत्वमागतः || 84 ||

तस्य यज्ञस्य दोषेण मातङ्ग श्रुणु यन्मम |

जातोऽस्मि राक्षसस्तत्र ब्राह्मणो ब्रह्मराक्षसः || 85 ||

एवं तु यज्ञदोषेण वपुः प्राप्तमिदं मम |

इत्युक्त्वा तु तदा रक्षः श्वपाकं शरणं गतम् || 86 ||

ब्रह्मरक्षो वचः श्रुत्वा श्वपाकः संशितव्रतः |

बाढमित्यब्रवीद्वाक्यं ब्रह्मराक्षसचोदितः || 87 ||

यन्मया पश्चिमं गीतं स्वरं कैशिकमुत्तमम् |

फलेन तस्य भद्रं ते मोक्षयिष्यामि किल्बिषात् || 88 ||

श्री वराह उवाच sree varAha uvAcha

यस्तु गायति भक्त्या वै कैशिकं मम संसदि  |

स तारयति दुर्गाणि श्वपाको राक्षसं यथा || 89 ||

एवं तत्र वरं गृह्य राक्षसो ब्रह्मसंस्थितः |

जातस्तु विमले वंशे मम लोकञ्च गच्छति || 90 ||

श्वपाकश्चापि सुश्रोणि मम चैवोपगायकः |

कृत्वा तु विपुलं कर्म स ब्रह्मत्वमुपागतः || 91 ||

एतद्गीतफलं देवि कौमुदद्वादशीं पुनः |

यस्तु गायति स श्रीमान् मम लोकञ्च गच्छति || 92 ||

श्रीकैशिकपुराणं समाप्तम्

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.