श्री:
श्रीमते रामानुजाय नमः ।
श्री कैशिकपुराणं
शुक्लांबरधरं विष्णुं शशिवर्णं चतुर्भुजम् |
प्रसन्नवदनं ध्यायेत् सर्वविघ्नोपशान्तये ||
यस्य द्विरदवक्त्राद्याः पारिषद्याः परश्शतम् |
विघ्नं निघ्नन्ति सततं विष्वक्सेनं तमाश्रये ||
एतत् त्रैलोक्य निर्माण त्राण संहार कारणम् |
श्रीमत् श्रीरङ्गनाथस्य शासनं शाश्वतं परम् ||
श्रीमत् श्रीरङ्गनायक्याः श्रियस्त्रैलोक्यमङ्गलम् |
परावरेस्वश्वर शिरः चूडासञ्चारि शासनम् ||
रामानुज दयापात्रं ज्ञानवैराग्य भूषणम् |
श्रीमद्वेङ्कटनाथार्य वन्दे वेदान्तदेशिकम् ||
नमस्तेऽस्तु वराहाय लीलयोद्धरते महीम् |
खुरमध्यगतो यस्य मेरुः कणकणायते ||
प्रलयोदन्वदुत्तीर्णां प्रपद्येऽहं वसुन्धराम् |
महावराह द्रंष्ट्राग्र मल्लीकोश मधुव्रताम् ||
श्रीवराह उवाच
जागरे तु विशालाक्षि जानतो वाऽप्यजानतः |
यो मे प्रगायते गेयं मम भक्त्या व्यवस्थितः || 1 ||
यावन्ति त्वक्षराण्यस्य गीयमाने यशस्विनि |
तावद्वर्षसहस्राणि स्वर्गलोके महीयते || 2 ||
रूपवान् गुणवान् शुद्धः सर्वधर्मभृतां वरः |
नित्यं पश्यति वै शक्रं वज्रहस्तं न संशयः || 3 ||
मद्भक्तश्चापि जायेत इन्द्रेणैकपदे स्थितः |
सर्वधर्मगुणश्रेष्ठः तत्रापि मम लुब्धकः || 4 ||
इन्द्रलोकात् परिभ्रष्टो मम गेयपरायणः |
प्रमुक्तः सर्वसंसारैर्मम लोकं च गच्छति || 5 ||
एवं तु वचनं श्रुत्वा तत्प्रसादाद्वसुन्धरा |
वराहरूपिणं देवं प्रत्युवाच शुभानना || 6 ||
अहो गीतप्रभावो वै यस्त्वया परिकीर्तितः |
कश्च गीतप्रभावेन सिद्धिं प्राप्तो महातपाः || 7 ||
श्रीवराह उवाच
श्रुणु तत्त्वेन ते देवि कथ्यमानं यशस्विनम् |
यस्तु गीतप्रभावेन सिद्धिं प्राप्तो महातपाः || 8 ||
अस्ति दक्षिणदिग्भागे महेन्द्रो नाम पर्वतः |
तत्र क्षीरनदी पुण्या दक्षिणे सागरसङ्गमा || 9 ||
तत्र सिद्धाश्रमे भद्रे चण्डालः कृतनिश्चयः |
दूराज्जागरणे गाति मम भक्त्या व्यवस्थितः || 10 ||
एवं तु गायमानस्य गतास्संवत्सरा दश |
श्वपाकस्य गुणज्ञस्य मद्भक्तस्य वसुन्धरे || 11 ||
कौमुदस्य तु मासस्य द्वादश्यां शुक्लपक्षके |
सप्ते जने गते यामे वीणामादाय निर्ययौ || 12 ||
ततो वर्त्मनि चण्डालो गृहीतो ब्रह्मरक्षसा |
अल्पप्राणः श्वपाको वै बलवान् ब्रह्मराक्षसः || 13 ||
दुःखेन स तु सन्तप्तो न च शक्तो विचेष्टितुम् |
उवाच वचनं मन्दं मातङ्गो ब्रह्मराक्षसम् || 14 ||
गच्छामि सन्तोषयितुमहम् जागरणे हरिम् |
गानेन पुण्डरीकाक्षं ब्रह्मराक्षस मुञ्च माम् || 15 ||
एवमुक्तः श्वपाकेन बलवान् ब्रह्मराक्षसः |
अमर्षवशमापन्नो न च किञ्चित् तमब्रवीत् || 16 ||
आत्मानं प्रतिधावन्तं चण्डालः ब्रह्मराक्षसम् |
किं त्वया चेष्टितव्यं मे य एवं परिधावसि || 17 ||
श्वपाकवचनं श्रुत्वा ततो वै ब्रह्मराक्षसः |
उवाच वचनं घोरं मानुषाहारलोलुपः || 18 ||
अद्य मे दशरात्रं वै निराहारस्य गच्छतः |
धात्रा त्वम् विहितो मह्यमाहारः परितो मम || 19 ||
अद्य त्वां भक्षयिष्यामि सवसामांसशोणितम् |
तर्पयित्वा यथान्यायं यास्यामि च यथेप्सितम् || 20 ||
ब्रह्मरक्षोवचः श्रुत्वा श्वपाको गीतलालसः |
राक्षसं छन्दयामास मम भक्त्या व्यवस्थितः || 21 ||
श्रुणु तत्त्वं महाभाग भक्ष्योऽहं समुपागतः |
अवश्यमेतत् कर्तव्यं धात्रा दत्तं यथा तव || 22 ||
पश्चात्खादसि मां रक्षो जागरे विनिवर्तिते |
विष्णोः सन्तोषणार्थाय ममैतत् व्रतमुत्तमम् || 23 ||
रक्ष मां व्रतभङ्गाद्वै देवं नारायणं प्रति |
जागरे विनिवृत्ते तु मां भक्षय यथेप्सितम् || 24 ||
श्वपाकस्य वचः श्रुत्वा ब्रह्मरक्षः क्षुधाऽर्दितम् |
उवाच मधुरं वाक्यं श्वपाकं तदनन्तरम् || 25 ||
मोघम् भाषसि चण्डाल पुनरेष्याम्यहं त्विति |
को हि रक्षोमुखाद्भ्रष्टस्तन्मुखायाभिवर्धते || 26 ||
बहवः सन्ति पन्थानो देशाश्च बहवस्तथा |
आत्मदेशं परित्यज्य परेषां गन्तुमिच्छसि || 27 ||
स्व शरीरविनाशाय न चागच्छति कश्चन |
रक्षसो मुखविभ्रष्टः पुनरागन्तुमिच्छसि || 28 ||
राक्षसस्य वचः श्रुत्वा चण्डालो धर्मसंश्रितम् |
उवाच मधुरं वाक्यं राक्षसं पिशिताशनम् || 29 ||
यद्यप्यहं हि चण्डालः पूर्वकर्मविदूषितः |
प्राप्तोऽहं मानुषं भावं विदितेनान्तरात्मना || 30 ||
श्रुणु तत्समयं रक्षो येनागच्छाम्यहम् पुनः |
दूराज्जागरणं कृत्वा लोकनाथस्य तृप्तये || 31 ||
सत्यमूलं जगत्सर्वम् लोकस्सत्ये प्रतिष्ठितः |
नाहं मिथ्या प्रवक्ष्यामि सत्यमेव वदाम्यहम् || 32 ||
अद्य मे समयस्तत्र ब्रह्मराक्षस तम् श्रुणु |
शपामि सत्येन गतो यद्यहम् नागमे पुनः || 33 ||
यो गच्छेत् परदारांश्च काममोहप्रपीडितः |
तस्य पापेन लिप्येयं यद्यहम् नागमे पुनः || 34 ||
पाकभेदं तु यः कुर्यादात्मनश्चोपभुञ्जतः |
तस्य पापेन लिप्येयं यद्यहम् नागमे पुनः || 35 ||
दत्वा वै भूमिदानं तु पुनराच्छिन्दतीह यः |
तस्य पापेन लिप्येयं यद्यहम् नागमे पुनः || 36 ||
स्त्रियं भुक्त्वा रूपवतीं पुनर्यस्तां विनिन्दति |
तस्य पापेन लिप्येयं यद्यहम् नागमे पुनः || 37 ||
योऽमावास्यां विशालाक्षि श्राद्धं कृत्वा स्त्रियं व्रजेत् |
तस्य पापेन लिप्येयं यद्यहम् नागमे पुनः || 38 ||
भुक्त्वा परस्य चान्नानि यस्तं निन्दति निर्घृणः |
तस्य पापेन लिप्येयं यद्यहम् नागमे पुनः || 39 ||
यस्तु कन्यां ददामीति पुनस्तां न प्रयच्छति |
तस्य पापेन लिप्येयं यद्यहम् नागमे पुनः || 40 ||
पष्ट्यष्टम्योरमावास्याचतुर्दश्योश्च नित्यशः |
अस्नातानां गतिम् गच्छे यद्यहम् नागमे पुनः || 41 ||
दास्यामीति प्रतिश्रुत्य न च यस्तत्प्रयच्छति |
गतिम् तस्य प्रपद्ये वै यद्यहम् नागमे पुनः || 42 ||
मित्रभार्यां तु यो गच्छेत् कामबाणवशानुगः |
तस्य पापेन लिप्येयं यद्यहम् नागमे पुनः || 43 ||
गुरुपत्नीं राजपत्नीं ये तु गच्छन्ति मोहिताः |
तेषां गतिम् प्रपद्ये वै यद्यहम् नागमे पुनः || 44 ||
यो वै दारद्वयं कृत्वा एकस्यां प्रीतिमान् भवेत् |
गतिम् तस्य प्रपद्ये वै यद्यहम् नागमे पुनः || 45 ||
अनन्यशरणां भार्यां यौवने यः परित्यजेत् |
तस्य पापेन लिप्येयं यद्यहम् नागमे पुनः || 46 ||
गोकुलस्य तृषार्तस्य जलार्थमभिधावतः |
विघ्नमाचरते यस्तु तत्पापं स्यादनागमे || 47 ||
ब्रह्मघ्ने च सुरापे च चोरे भग्नव्रते तथा |
या गतिर्विहिता सद्भिः तत्पापं स्यादनागमे || 48 ||
वासुदेवं परित्यज्य येऽन्यं देवमुपासते |
तेषां गतिम् प्रपद्ये वै यद्यहम् नागमे पुनः || 49 ||
नारायणमथान्यैस्तु देवैस्तुल्यं करोति यः |
तस्य पापेन लिप्येयं यद्यहम् नागमे पुनः || 50 ||
चण्डालवचनं श्रुत्वा परितुष्टस्तु राक्षसः |
उवाच मधुरं वाक्यं गच्छ शीघ्रं नमोऽस्तु ते || 51 ||
राक्षसेन विनिर्मुक्तश्चण्डालः कृतनिश्चयः |
पुनर्गायति मह्यं वै मम भक्त्या व्यवस्थितः || 52 ||
अथ प्रभाते विमले विनिवृत्ते तु जागरे |
नमो नारायणेत्युक्त्वा श्वपाकः पुनरागमत् || 53 ||
गच्चतस्त्वरितं तस्य पुरुषः पुरतः स्थितः |
उवाच मधुरं वाक्यं श्वपाकं तदनन्तरम् || 54 ||
कुतो गच्छसि चण्डाल दृतम् गमननिश्चितम् |
एतदाचक्ष्व तत्त्वेन यत्र ते वर्तते मनः || 55 ||
तस्य तद्वचनं श्रुत्वा श्वपाकः सत्यसंमतः |
उवाच मधुरं वाक्यं पुरुषम् तदनन्तरम् || 56 ||
समयो मे कृतो यत्र ब्रह्मराक्षससन्निधौ |
तत्राहं गन्तुमिच्छामि यत्रासौ ब्रह्मराक्षसः || 57 ||
श्वपाकवचनं श्रुत्वा पुरुषो भावशोधकः |
उवाच मधुरं वाक्यं श्वपाकं तदनन्तरम् || 58 ||
न तत्र गच्छ चण्डाल मार्गेणानेन सुव्रत |
तत्रासौ राक्षसः पापः पिशिताशी दुरासदः || 59 ||
पुरुषस्य वचः श्रुत्वा श्वपाकः सत्यसङ्गरः |
मरणं तत्र निश्चित्यमधुरं वाक्यमब्रवीत् || 60 ||
नाहमेवं करिष्यामि यन्मां त्वं परिपृच्छसि |
अहं सत्ये प्रवृत्तो वै शीलं सत्ये प्रतिष्ठितम् || 61 ||
ततस्स पद्मपत्राक्षः श्वपाकं प्रत्युवाच ह |
यद्येवं निश्चयस्तात स्वस्ति तेऽस्तु गमिष्यतः || 62 ||
ब्रह्मरक्षोन्तिकं प्राप्य सत्येऽसौ कृतनिश्चयः |
उवाच मधुरं वाक्यं राक्षसं पिशिताशनम् || 63 ||
भवता समनुज्ञातो गानं कृत्वा यथेप्सया |
विष्णवे लोकनाथाय मम पूर्णो मनोरथः |
एतानि मम चाङ्गानि भक्षयस्व यथेच्छया || 64 ||
श्वपाकवचनं श्रुत्वा ब्रह्मरक्षो भयानकम् |
उवाच मधुरं वाक्यं श्वपाकं संशितव्रतम् || 65 ||
त्वमद्य रात्रोउ चण्डाल विष्णोर्जागरणं प्रति | trou
फलं गीतस्य मे देहि जीवितुम् यदि चेच्छसि || 66 ||
ब्रह्मरक्षो वचः श्रुत्वा श्वपाकः पुनरब्रवीत् || 67 ||
यत् त्वया भाषितं पूर्वं मया सत्यं च यत्कृतम् |
भक्षयस्व यथेच्छं मां दद्यां गीतफलं न तु || 68 ||
चण्डालस्य वचः श्रुत्वा हेतुयुक्तमनन्तरम् |
उवाच मधुरं वाक्यं चण्डालं ब्रह्मराक्षसः || 69 ||
अथवाऽर्धम् तु मे देहि पुण्यं गीतस्य यत्फलम् |
ततो मोक्ष्यामि कल्याण भक्षादस्माद्विभीषनात् || 70 ||
ब्रह्मरक्षो वचः श्रुत्वा श्वपाकः संशितव्रतः |
वाणीं श्लक्ष्णां समादाय ब्रह्मराक्षसमब्रवीत् |
भक्षयामीति संश्रुत्य गीतमन्यत् किमिच्छसि || 71 ||
श्वपाकस्य वचः श्रुत्वा ब्रह्मरक्षो भयावहम् |
उवाच मधुरं वाक्यं श्वपाकं संशितव्रतम् || 72 ||
एकयामस्य मे देहि पुण्यं गीतस्य यत्फलम् |
ततो यास्यसि कल्याण सङ्गमम् पुत्रदारकैः || 73 ||
श्रुत्वा राक्षस वाक्यानि चण्डालो गीतलालसः |
उवाच मधुरं वाक्यं राक्षसं कृतनिश्चयः ||74 ||
न यामस्य फलं दद्यां ब्रह्मरक्षस्तवेप्सितम् |
पिबस्व शोणितं मह्यं यत् त्वया पूर्वभाषितम् || 75 ||
श्वपाकस्य वचः श्रुत्वा राक्षसः पिशिताशनः |
सत्यवन्तं गुणज्ञञ्च चण्डालमिदमब्रवीत् || 76 ||
एकं गीतस्य मे देहि यत् त्वया विष्णुसंसदि || 77 ||
निग्रहात्तारयास्माद्वैतेन गीतफलेन माम् |
एवमुक्त्वा तु चण्डालं राक्षसश्शरणं गतः || 78 ||
श्रुत्वा राक्षस वाक्यानि श्वपाकः संशितव्रतः |
उवाच मधुरं वाक्यं राक्षसं पिशिताशनम् || 79 ||
किं त्वया दुष्कृतं कर्म कृतपूर्वं तु राक्षसः |
कर्मणो यस्य दोषेण राक्षसीं योनिमाश्रितः || 80 ||
एवमुक्तः श्वपाकेन पूर्ववृत्तमनुस्मरन् |
राक्षसः शरणङ्गत्वा श्वपाकमिदमब्रवीत् || 81 ||
नाम्ना वै सोमशर्माऽहं चरको ब्रह्मयोनिजः |
सूत्रमन्त्र परिभ्रष्टो यूपकर्मण्यधिष्ठितः || 82 ||
ततोऽहं कारये यज्ञं लोभमोहप्रपीडितः |
यज्ञे प्रवर्तमाने तु शूलदोषस्त्वजायत || 83 ||
अथ पञ्चमरात्रे तु असमाप्ते क्रतावहम् |
अकृत्वा विमलं कर्म ततः पञ्चत्वमागतः || 84 ||
तस्य यज्ञस्य दोषेण मातङ्ग श्रुणु यन्मम |
जातोऽस्मि राक्षसस्तत्र ब्राह्मणो ब्रह्मराक्षसः || 85 ||
एवं तु यज्ञदोषेण वपुः प्राप्तमिदं मम |
इत्युक्त्वा तु तदा रक्षः श्वपाकं शरणं गतम् || 86 ||
ब्रह्मरक्षो वचः श्रुत्वा श्वपाकः संशितव्रतः |
बाढमित्यब्रवीद्वाक्यं ब्रह्मराक्षसचोदितः || 87 ||
यन्मया पश्चिमं गीतं स्वरं कैशिकमुत्तमम् |
फलेन तस्य भद्रं ते मोक्षयिष्यामि किल्बिषात् || 88 ||
श्री वराह उवाच sree varAha uvAcha
यस्तु गायति भक्त्या वै कैशिकं मम संसदि |
स तारयति दुर्गाणि श्वपाको राक्षसं यथा || 89 ||
एवं तत्र वरं गृह्य राक्षसो ब्रह्मसंस्थितः |
जातस्तु विमले वंशे मम लोकञ्च गच्छति || 90 ||
श्वपाकश्चापि सुश्रोणि मम चैवोपगायकः |
कृत्वा तु विपुलं कर्म स ब्रह्मत्वमुपागतः || 91 ||
एतद्गीतफलं देवि कौमुदद्वादशीं पुनः |
यस्तु गायति स श्रीमान् मम लोकञ्च गच्छति || 92 ||
श्रीकैशिकपुराणं समाप्तम्