श्री विष्णुधर्मः अध्यायः 31-40

श्री विष्णुधर्मः अध्यायः 31-40

एकत्रिम्शोऽध्यायः

अनन्तव्रतम्

दाल्भ्य उवाच –

सर्वकामानवाप्नोति समाराध्य जनार्दनम् |
प्रकारैर्बहुभिर्ब्रह्मन् यान्यानिच्छति चेतसा || १ ||
नॄणाम् स्त्रीणाम् च विप्रर्षे नान्यच्छोकस्य कारणम् |
अपत्यादधिकम् किंचिद्विद्यते ह्यत्र जन्मनि || २ ||
अपुत्रता महद्दुःखमतिदुःखम् कुपुत्रता |
अपुत्रः सर्वदुःखानाम् हेतुभूतो मतो मम || ३ ||
धन्यास्ते ये सुतम् प्राप्य सर्वदुःखविवर्जितम् |
शस्तम् प्रशान्तम् बलिनम् पराम् निर्वृतिमागताः || ४ ||
स्वकर्मनिरतम् नित्यम् देवद्विजपरायणम् |
शास्त्रज्ञम् धर्मतत्त्वज्ञम् दीनानाथजनाश्रयम् || ५ ||
विनिर्जितारिम् सर्वस्य मनोहृदयनन्दनम् |
देवानुकूलतायुक्तम् युक्तम् सम्यग्गुणेन च || ६ ||
मित्रस्वजनसम्मानलब्धनिर्वाणमुत्तमम् |
यः प्राप्नोति सुतम् तस्मान्नान्यो धन्यतरो भुवि || ७ ||
सोऽहमिच्छामि तच्छ्रोतुम् त्वत्तः कर्म महामुने |
येनेदृग्लक्षणः पुत्रः प्राप्यते भुवि मानवैः || ८ ||
पुलस्त्य उवाच –

एवमेतन्महाभाग! पित्रोः पुत्रसमुद्भवम् |
दुःखम् प्रयात्युपशमम् तेन येनेह केनचित् || ९ ||
अत्रापि श्रूयताम् वृत्तम् यत्पूर्वमभवन्मुने |
उत्पत्तौ कार्तवीर्यस्य हैहयस्य महात्मनः || १० ||
कृतवीर्यो महीपालो हैहयानामभूत् पुरा |
तस्य शीलधना नाम बभूव वरवर्णिनी || ११ ||
साध्वीसहस्रप्रवरा……… षी शीलमण्डना |
सा त्वपुत्री महाभागा मैत्रेयीम् पर्यपृच्छत |
गुणवत्पुत्रलाभाय कृतासनपरिग्रहाम् || १२ ||
तया च पृष्टा वै सम्यग् मैत्रेयी ब्रह्मवादिनी |
कथयामास परमम् नाम्नाऽनन्तव्रतम् व्रतम् || १३ ||
सर्वकामफलावाप्तिकारकम् पापनाशनम् |
तस्याः सा पुत्रलाभाय राजपुत्रास्तपस्विनी || १४ ||

मैत्रेय्युवाच –
योऽयमिच्छेन्नरः कामम् नारी वा वरवर्णिनि! |
स तम् समाराध्य विभुम् समाप्नोति जनार्दनम् || १५ ||
मार्गशीर्षे मृगशिरो भीरु यस्मिदिने भवेत् |
तस्मिन् सम्प्राश्य गोमूत्रम् स्नातो नियतमानसः || १६ ||
पुष्पैर्धूपैस्तथा गन्धैरुपहारैः स्वशक्तितः |
वामपादमनन्तस्य पूजयेद्वरवर्णिनि || १७ ||
अनन्तः सर्वकामानामनन्तम्म् भगवान् फलम् |
ददात्वनन्तम् च पुनस्तदेवास्त्वन्यजन्मनि || १८ ||
अनन्तपुण्योपचयम् करोत्येतन्महाव्रतम् |
यथाभिलषितावाप्तिम् कुर्वन् मा क्षयमेतु च || १९ ||
इत्युच्चार्याभिपूज्यैनम् यथावद्विधिना नरः |
समाहितमना भूत्वा प्रणिपातपुरःसरम् || २० ||
विप्राय दक्षिणाम् दद्यादनन्तः प्रीयतामिति |
समुच्चार्य ततो नक्तम् भुञ्जीयात्तैलवर्जितम् || २१ ||
ततश्च पौषे पुष्यर्क्षे तथैव भगवत्कटिम् |
वामामभ्यर्चयेत् कृत्वा गोमूत्रप्राशनम् बुधः || २२ ||
अनन्तः सर्वकामानामिति चोच्चारयेद्बुधः |
भुञ्जीत च तथा विप्रम् वाचयित्वा यथाविधि || २३ ||
माघे मघासु तद्वच्च बाहुम् देवस्य पूजयेत् |
स्कन्धम् च फल्गुनीयोगे फाल्गुने मासि भामिनि! || २४ ||
चतुर्ष्वेतेषु गोमूत्रप्राशनम् नृपनन्दिनि |
ब्राह्मणाय तथा दद्यात्तिलान् कनकमेव च || २५ ||
देवस्य दक्षिणस्कन्धम् चैत्रे चित्रासु पूजयेत् |
तथैव प्राशनम् चात्र पञ्चगव्यमुदाहृतम् || २६ ||
विप्रे वाचनके दद्याद् यवान्मासचतुष्टयम् |
वैशाखे च विशाखासु बाहुम् सम्पूज्य दक्षिणम् || २७ ||
तथैवोक्तयवान् दद्यात्तद्वन्नक्तम् भुजिक्रिया |
कटिपूजाम् च ज्येष्ठासु ज्येष्ठमूले शुभव्रते || २८ ||
आषाढासु तथाषाढे कुर्यात् पादार्चनम् शुभे |
पदद्वयम् च श्रवणे श्रावणे सुभ्रु पूजयेत् || २९ ||
घृतम् विप्राय दातव्यम् प्राशनीयम् तथा दधि |
कार्त्तिकान्तेषु मासेषु प्राशनम् दानमेव च || ३० ||
एतदेव समाख्यातम् देवम् तद्वच्च पूजयेत् |
गुह्यम् प्रोष्ठपदायोगे मासि भाद्रपदेऽर्चयेत् |
तद्वदाश्वयुजे पूज्यम् हृदयम् चाश्विनीषु वै || ३१ ||
कुर्यात् समाहितमनाः स्नानप्राशनशौचवान् |
अनन्तशिरसः पूजाम् कार्त्तिके कृत्तिकासु च || ३२ ||
यस्मिन्यस्मिन्दिने पूजा तत्र तत्र तदा दिने |
नामानन्तस्य जप्तव्यम् क्षुतप्रस्खलितादिषु || ३३ ||
घृतेनानन्तमुद्दिश्य पूर्वमासचतुष्टयम् |
कुर्वीत होमम् चैत्रादौ शालिना कुलनन्दिनि || ३४ ||
क्षीरेण श्रावणादौ तु होमम् मासचतुष्टयम् |
शस्तम् तु सर्वमासेषु हविष्यान्नम् च भोजनम् || ३५ ||
एवम् द्वादशभिर्मासैः पारणम् त्रितयम् शुभे |
पारिते समवाप्नोति सर्वानेव मनोरथान् || ३६ ||
पुत्रार्थिभिर्वित्तकामैर्भृत्यदारान् अभीप्सुभिः |
प्रार्थयद्भिश्च कर्तव्यमारोग्यबलसम्पदम् || ३७ ||
एतद्व्रतम् महाभागे पुण्यम् स्वस्त्ययनप्रदम् |
अनन्तव्रतसम्ज्ञम् वै सर्वपापप्रणाशनम् || ३८ ||
तत्कुरुष्वैव देवि त्वम् व्रतम् शीलधने वरम् |
विशिष्टम् सर्वलोकस्य यदि पुत्रमभीप्ससि || ३९ ||

पुलस्त्य उवाच –
इति शीलधना श्रुत्वा मैत्रेयीवचनम् शुभम् |
चचारैतद्व्रतवरम् सुसमाहितमानसा || ४० ||
पुत्रार्थिन्यास्ततस्तस्या व्रतेनानेन सुव्रत! |
विष्णुस्तुतोष तुष्टे च विष्णौ सा सुषुवे सुतम् || ४१ ||
तस्य वै जातमात्रस्य प्रववावनिलः शिवः |
नीरजस्कमभूद्व्योम मुदम् प्रापाखिलम् जगत्  || ४२ ||
देवदुन्दुभयो नेदुः पुष्पवृष्टिः पपात च |
प्रजगुर्दिवि गन्धर्वा ननृतुश्चाप्सरोगणाः |
धर्मे मनः समस्तस्य दाल्भ्य लोकस्य चाभवत् || ४३ ||
तस्य नाम पिता चक्रे तनयस्यार्जुनेति वै |
कृतवीर्यसुतत्वाच्च कार्तवीर्यो बभूव सः || ४४ ||
तेनापि भगवान् विष्णुर्दत्तात्रेयस्वरूपवान् |
आराधितोऽतिमहता तपसा दाल्भ्य भूभृता || ४५ ||
तस्य तुष्टो जगन्नाथश्चक्रवर्तित्वमुत्तमम् |
ददौ शौर्यबले चातिसकलान्यायुधानि च || ४६ ||
स च वव्रे वरम् देव! वधस्त्वत्तो भवेदिति |
पुरानुस्मरणम्म् ज्ञानम् भीतानाम् चार्तिनाशनम् |
स्मरणादुपकारित्वम्म् जगतोऽस्य जगत्पते || ४७ ||
तमाह देवदेवेशः पुण्डरीकनिभेक्षणः |
सर्वमेतन्महाभाग तव भूप भविष्यति || ४८ ||
यश्च प्रभाते रात्रौ च त्वाम् नरः कीर्तयिष्यति |
(नमोऽस्तु कार्तवीर्यायेत्यभिधास्यति चैव यः |
तिलप्रस्थप्रदानस्य स नरः पुण्यमाप्स्यति || ४९ ||
अनष्टद्रव्यता चैव तव नामाभिकीर्तनैः |
भविष्यति महीपालेत्युक्त्वा तम् प्रययौ हरिः || ५० ||
स चापि वरमासाद्य प्रसन्नाद्गरुडध्वजात् |
पालयामास भूपालः सप्तद्वीपाम् वसुन्धराम् || ५१ ||
तेनेष्टम् विविधैर्यज्ञैः समाप्तवरदक्षिणैः |
जित्वाऽरिवर्गमखिलम् धर्मतः पालिताः प्रजाः || ५२ ||
अनन्तव्रतमाहात्म्यादासाद्य तनयम् च तम् |
पित्रोः पुत्रोद्भवम् दुःखम् नासीत् स्वल्पमपि द्विज! || ५३ ||
एवमेतत् समाख्यातमनन्ताख्यम् व्रतम् तव |
यत् श्रुत्वा राजपत्नी सा कार्तवीर्यमसूयत || ५४ ||
यश्चैतच्छृणुयाज्जन्म कार्तवीर्यस्य मानवः |
स्त्री वा दुःखमपत्योत्थम् सप्त जन्मानि नाश्नुते || ५५ ||

इति विष्णुधर्मे अनन्तव्रतम् नाम एकत्रिम्शोऽध्यायः

द्वात्रिम्शोऽध्यायः

देवगृहलेपनविधिः

दाल्भ्य उवाच –
रूपसम्पत्समाख्याता स्त्रीपुम्साम् जायते शुभा |
समुपोष्य जगन्नाथम् नक्षत्रपुरुषम् हरिम् || १ ||
वासोऽतिशोभनम् चारुवस्त्राद्याभरणोज्ज्वलम् |
गृहम् सर्वगुणोपेतमशेषोपस्करान्वितम् || २ ||
कर्मणा येन विप्रर्षे तोषितो मधुसूदनः |
ददाति भगवान् कर्म तन्नो विस्तरतो वद || ३ ||

पुलस्त्य उवाच –
यन्माम् पृच्छसि दाल्भ्य त्वम् गृहोपस्करभूषणम् |
नराणाम् जायते येन तत्सर्वम् कथयामि ते || ४ ||
नन्दा भद्रा जया रिक्ता पूर्णा च द्विजसत्तम |
तिथयो वै समाख्याताः प्रतिपत्क्रमसम्ज्ञया || ५ ||
पञ्चमी दशमी चैव तथा पञ्चदशी तिथिः |
पूर्णा एताः समाख्यातास्तिथयो मुनिसत्तम || ६ ||
मृदा धातुविकारैर्वा वर्णकैर्गोमयेन वा |
विष्णोरायतने तासु यः करोत्युपलेपनम् || ७ ||
प्रवातावातगुणवद्वर्षास्वतिमनोरमम् |
अनुलिप्तम् शुभाकारम् सुगृहम् लभते मुने || ८ ||
पूर्णम् धान्यहिरण्याद्यैर्मणिमुक्ताफलोज्ज्वलम् |
प्रत्यासन्नजलाभोगम् गृहमाप्नोति शोभनम् || ९ ||
साम्नतः स्वजनानाम् यत्सर्वेषामुत्तमोत्तमम् |
तदाप्नोति गृहम् ब्रह्मन्ननुलेपनकृन्नरः || १० ||
येनानुलिप्ते तिष्ठन्ति विष्ण्वायतनभूतले |
ब्राह्मणक्षत्रियविशः शूद्राः साध्व्यस्तथा स्त्रियः |
तस्य पूण्यफलम् दाल्भ्य! श्रूयताम् यत् प्रजायते || ११ ||
अप्सरोगणसन्कीर्णम् मुक्ताहारगणोज्ज्वलम् |
श्रेष्ठम् सर्वविमानानाम् स्वर्गे धिष्ण्यमवाप्नुते || १२ ||
यावत्यस्तिथयो लिप्तम् दिव्याब्दाम्स्तावतो द्विज! |
तस्मिन् विमाने स नरः स्त्री वा तिष्ठति सत्तम || १३ ||
सुगन्धगन्धसद्वस्त्रसर्वभूषणभूषितः |
गन्धर्वाप्सरसाम् सङ्गैः पूज्यमानः स तिष्ठति || १४ ||
लिप्तं च यावतो हस्तान् विष्णोरायतनम् द्विज |
तावद्योजनविस्तीर्णस्वर्गस्थानाधिपो हि सः || १५ ||
पूज्यमानः सुरगणैः शीतोष्णादिविवर्जितः |
मनोज्ञगात्रो विप्रेन्द्रस्तिष्ठत्यस्ताघसम्हतिः || १६ ||
च्युतस्तस्मादिहागम्य विशिष्टे जायते कुले |
ततोऽस्य सद्गृहवरम् मर्त्यलोकेऽभिजायते || १७ ||

अत्युत्कृष्टस्य गृहम् प्राप्य मर्त्यलोकेऽभिकाङ्कितम् |

न तत्र तावद्दारिद्र्यम् नोपसर्गा न वा कलिः |
न चापि मृतनिष्क्रान्तिर्यावज्जीवत्यसौ द्विज! || १८ ||
विष्णुः समस्तभूतानि ससर्जैतानि यानि वै |
तेषाम् मध्ये जगद्धातुरतीवेष्टा वसुन्धरा || १९ ||
कृते सम्मार्जने तस्यास्तथैवोपरि लेपने |
प्रयाति परमम् तोषम् वैष्णवीयम् मही यतः || २० ||

दाल्भ्य उवाच –
ब्रह्मन् येन विधानेन देवागारोपलेपलम् |
कर्तव्यम् पुरुषैः सम्यक् स्त्रीभिर्वा तदुदीरय || २१ ||

पुलस्त्य उवाच –
रिक्तायास्तु तिथेर्मध्ये कुर्यात् सङ्कल्पमात्मनः |
उपलेपनकृद्विप्रो विष्णोरायतने भुवि || २२ ||
द्वितीयेऽह्नि ततो देवम् प्रणम्य यतमानसः |
धरणीपितरम् विष्णुमिदम् वाक्यमुदीरयेत् || २३ ||
त्वम् सर्वभूतप्रभवो जगत्पते त्वय्येतदीशेश! जगत् प्रतिष्ठितम् |
त्वमेव भूतानि यतस्ततोऽहम् त्वाम् पूजयाम्यद्य महीस्वरूपम् || २४ ||
त्वम् मही जगताम् नाथ! सर्वनाथ! नमोऽस्तु ते |
शुश्रूषितः प्रसीदेश! भुवो लेपनकर्मणा || २५ ||
इत्युच्चार्य क्षितौ क्षिप्त्वा प्रथमम् धारणीतले |
पुष्पाणि वा द्विजश्रेष्ठ यः करोत्यनुलेपनम् |
न तस्य जायते भङ्गो गार्हस्थ्यस्य कदाचन || २६ ||
या च नारी करोत्येवम् यथावदनुलेपनम् |
नाप्नोति सा च वैधव्यम् गृहभङ्गम् कदाचन || २७ ||
कृत्वोपलेपनम् भूयः प्रणिपत्य जनार्दनम् |
स्नातो विष्णुम् समभ्यर्च्य इदम् वाक्यमुदीरयेत् || २८ ||
प्रसीद भूधरानन्त मया यदुपलेपनम् |
कृतम् तेन समस्तम् मे नाशमभ्येतु पातकम् || २९ ||
एवम् सम्पूज्य भुञ्जीयादपराह्ने द्विजोत्तम |
स्वनुलिप्ते महाभागे भुक्त्वा लिम्पेच्च तत्पुनः || ३० ||
पक्षे पक्षे त्रिरात्रम् तु यः करोत्युपलेपनम् |
सर्वपापविनिर्मुक्तः स्वर्गम् गच्छत्यसम्शयम् || ३१ ||
तत्क्षयात् स्वर्गलोके तु जातो गृहवरम् यथा |
समाप्नोति यथाख्यातम् तत्सर्वम् तव सत्तम || ३२ ||
सर्वाभरणसम्पूर्णम् सर्वोपस्करधान्यवत् |
गोमहिष्यादिसम्भोगम् गृहमाप्नोति मानवः || ३३ ||
तस्मादभीप्सता सम्यग् गार्हस्थ्यमविखण्डितम् |
विष्णोरायतने कार्यम् सर्वदैवोपलेपनम् || ३४ ||
सप्तद्वीपवतीम् कृत्स्नाम् यथेन्द्रस्त्रिदिवम् तथा |
अल्पोपलेपनाद्यस्य मान्धाता सकलाम् महीम् |
अवाप विष्ण्वायतनम् नोपलिम्पेत को हि तत् || ३५ ||

इति विष्णुधर्मे देवगृहलेपनविधिर्नाम द्वात्रिंशोऽध्यायः

त्रय त्रिम्शोऽध्यायः

दीपदानविधिः

पुलस्त्य उवाच –
दीपम् प्रयच्छति नरो विष्णोरायतने हि यः |
सदक्षिणस्य यज्ञस्य फलम् प्राप्नोत्यसम्शयम् || १ ||
कार्त्तिके तु विशेषेण कौमुदे मासि दीपकम् |
दत्त्वा यत्फलमाप्नोति दाल्भ्य तत्केन लभ्यते || २ ||

सम्मार्जने च यत्पुण्यम् गोश्च:……..पनेन च |

धूपगन्धस्य दानेन तथा जागरणस्य च |

घृत दानेनयत्पुण्यम् क्षीराम्भस्नापनेन च
दाल्भ्यान्यदपि वक्ष्यामि पुरावृत्तमिदम् शृणु |
विदर्भराजतनया ललिता यदुवाच ह || ३ ||
विदर्भराट् चित्ररथो बभूवास्त्रविशारदः |
तस्य पुत्रशतम् राज्ञो जज्ञे पञ्चदशोत्तरम् || ४ ||
एकैव कन्या दाल्भ्यासील्ललिता नाम नामतः |
सर्वलक्षणसम्पूर्णा भ्रातॄणाम् पितुरेव च || ५ ||
समस्तभृत्यवर्गस्य मातॄणाम् स्वजनस्य च |

प्रिया च भृत्यवर्गस्य बन्धुवर्गस्य नित्यशः
तथैव पौरवर्गस्य यश्चान्यो ददृशे शुभाम् |
तस्य तस्यातिचार्वङ्गी बभूवेष्टा द्विजोत्तम || ६ ||

प्रिया पाठ वर्गस्य तथैव पितुरेव च

सपत्नीनाम् प्रिया नित्यम् श्वश्रूश्वशुरयोस्तदा

योऽयम् पश्यति ताम् सुभ्रूम् तस्य त बभूव ह ||
ताम् ददौ काशिराजाय स पिता चारुवर्मणे |
उपयेमे च ताम् सुभ्रूम् चारुवर्मा महीपतिः || ७ ||
शतान्यन्यानि भार्याणाम् त्रीण्यासम्श्चारुवर्मणः |
तासाम् मध्येऽग्रमहिषी ललिता तस्य चाभवत् || ८ ||

सा च नित्यम् जगद्धातुर्देवदेवस्य चक्रिणः |
दीपवर्तिपरा तद्वत्तैलस्याहरणोद्यता || ९ ||
विष्णोरायतने तस्याः सहस्रम् द्विजसत्तम |
दीपानाम् वै प्रजज्वाल दिवारात्रमतन्द्रितम् || १० ||
तस्या द्युतिपराभूतास्तस्या लावण्यनिर्जिताः |
सर्वाः सपत्न्यो ललिताम् पप्रच्छुरिदमादितः || ११ ||

सपत्न्य ऊचुः –

ललिते वद भद्रम् ते भद्रम् ते ललिते वद |
कौतूहलपराः सर्वा यत् पृच्छामस्तदुच्यताम् || १२ ||

ललितोवाच –
विषये सति वक्तव्यम् यन्मया तदिहोच्यताम् |
नाहम् मत्सरिणी भद्रा न च रागादिदूषिता || १३ ||
भवत्यो मम सर्वासाम् भवतीनामहम् तथा |
अपृथग्भर्तृसामन्या देवलोकाभिकामुकाः || १४ ||

सपत्न्य ऊचुः –
(पूर्वम् यूयमहम् चैव भवतीनाम् सधर्मिणी |)
न तथा पुष्पधूपेषु न तथा द्विजपूजने |
प्रयत्नम् तव पश्यामो विष्णोरायतने शुभे || १५ ||
यथाऽहनि तथा रात्रौ यथा रात्रौ तथाऽहनि |
तव दीपप्रदानाय यथा सुभ्रु सदोद्यमः || १६ ||

सदा बहुमता च त्वम् अस्मिन् भर्तरि नित्यशः |

किम् कुर्वाणाड्य ते भृत्याः दासी दासाश्च सर्वशः ||

द्विजैश्चान्नकामैश्च तता पौरजनैरपि |

मा – त्वाम् प्रार्ययन्ती मे अर्थिनश्च पृथग्विधाः ||

आशीर्वादैश्च ताम् सर्वे पूजयन्ति सदैव हि |

सन्दर्शनैश्च………. सर्पन्ति नागराः ?
तदेतत् कथयास्माकम् ललिते कौतुकम् परम् |
मन्यामो दीपदानस्य भवत्या विदितम् फलम् || १७ ||
एवमुक्ता ततस्ताभिर्ललिता ललितम् वचः |
व्याजहार सपत्नीस्ता न किन्चिदपि भामिनी || १८ ||
पुनः पुनश्च सा ताभिर्बहुषो दाल्भ्य चोदिता |
दाक्षिण्यसारा ललिता कथायामास भामिनी || १९ ||
कौतुकम् भवतीनाम् चेदतीवाल्पेऽपि वस्तुनि |
तदेषा कथयाम्येतद्यद्वृत्तम् मम शोभनम् || २० ||
सौवीरराजस्य पुरा मैत्रेयोऽभूत् पुरोहितः |
तेन चायतनम् विष्णोः कारितम् देविकातटे || २१ ||
अहन्यहनि शुश्रूषाम् पुष्पधूपोपलेपनैः |
दीपदानादिभिश्चैव चक्रे तत्र स वै द्विजः || २२ ||
कार्त्तिके दीपको ब्रह्मन् प्रदत्तस्तेन वै तदा |
आसीन्निर्वाणभूयिष्ठो देवार्चापुरतो निशि || २३ ||
देवतायतने चासम् तत्राहमपि मूषिका |
प्रदीपवर्तिहरणे कृतबुद्धिर्वराननाः || २४ ||
गृहीता च मया वर्तिर्वृषदम्शो ननाद च |
नष्टा चाहम् तदा तस्य मार्जारस्य भयातुरा || २५ ||
वर्तिप्रान्तेन नश्यन्त्या स दीपः प्रेरितो मया |
जज्वाल पूर्ववद्दीप्त्या तस्मिन्नायतने पुनः || २६ ||
मृताऽहम् च ततो जाता वैदर्भी राजकन्यका |
जातिस्मरा कान्तिमती भवतीनाम् समा गुणैः || २७ ||
एष प्रभावो दीपस्य कार्त्तिके मासि शोभनाः |
दत्तस्य विष्ण्वायतने यस्येवम् व्युष्टिरुत्तमा || २८ ||
असङ्कल्पितमप्यस्य प्रेरणम् यत् कृतम् मया |
विष्ण्वायतनदीपस्य यस्येदम् भुज्यते फलम् || २९ ||
लोभाभिभूता हर्तुम् तम् प्रदीपमहमागता |
अवशेनैव तद्वर्त्या प्रेरणम् तत्र मे कृतम् || ३० ||
ततो जातिस्मृतिर्जन्म मानुष्यम् शोभनम् वपुः |
वश्यः पतिः पृथिवीशः किम् पुनर्दीपदायिनाम् || ३१ ||
एतस्मात् कारणाद्दीपानहमेतान् अहर्निशम् |
प्रयच्छामि हरेर्धाम्नि ज्ञातमस्य हि यत्फलम् || ३२ ||
भवतीनामिदम् सत्यम् मयोक्तम् केशवालये |
मूषिकत्वादहम् येन कर्मणा सिद्धिमागता || ३३ ||

पुलस्त्य उवाच –
एष प्रभावो दीपस्य कार्त्तिके मासि सत्तम |
विष्ण्वायतनदत्तस्य जगाद ललिता यथा || ३४ ||
दिने दिने जगन्नाथ केशवेति समाहितः |
ददाति कार्त्तिके यस्तु विष्ण्वायतनदीपकम् || ३५ ||
जातिस्मरत्वम् प्रज्ञाम् च प्राकाश्यम् सर्ववस्तुषु |
अव्याहतेन्द्रियत्वम् च सम्प्राप्नोति न सम्शयः || ३६ ||
शेषकाले च चक्षुष्मान् मेधावी दीपदो नरः |
जायते नरकम् वापि तमः सम्ज्ञम् न पश्यति || ३७ ||
एकादशीम् द्वादशीम् वा प्रतिपक्षम् च यो नरः |
दीपम् ददाति कृष्णाय तस्यापि शृणु तत्फलम् || ३८ ||
सुवर्णमणिमुक्ताढ्यम् मनोज्ञमतिशोभनम् |
दीपमालाकुलम् दिव्यम् विमानम् सोऽधिरोहति || ३९ ||
तस्मादायतने विष्णोर्दद्याद्दीपम् द्विजोत्तम |
ताम्श्च दत्तान्न हिम्सेत न च तैलवियोजितान् |
कुर्वीत दीपहर्ता तु मूकोऽन्धो जायते यतः || ४० ||
जायते नरकम् चापि तपःसम्ज्ञम् स पश्यति |
अन्धे तामसि दुष्पारे नरके पतितान् किल |
विक्रोशमानान् क्षुत्क्षामाञ्जगाद यमकिङ्करः || ४१ ||
विलापैरलमत्रापि किम् वो विलपिते फलम् |
यदा प्रमादिभिः पूर्वमात्माऽत्यन्तमुपेक्षितः || ४२ ||
पूर्वमालोचितम् नैतत् किमप्यन्ते भविष्यति |
इदानीम् यातनाभोगः किम् विलापः करिष्यति? || ४३ ||
देहो दिनानि स्वल्पानि विषयाश्चातिदुर्धराः |
एतत् को न विजानाति येन यूयम् प्रमादिनः || ४४ ||
जन्तुः जन्मसहस्रेभ्य एतस्मिन् मानुजो यदि |
तत्राप्यतिविमूढत्वात् किम् भोगानभिधावति || ४५ ||
विरुद्धविषयास्वादमुदितैर्हसितम् च यत् |
भवद्भिरागतम् दुःखम् विलापपरिणामिकम् || ४६ ||
अद्यकालिकया बुद्ध्या यदागामि न चिन्तितम् |
परितापाय तज्जातम् दुःखम् कर्मविपाकजम् || ४७ ||
स्वल्पमायुर्मनुष्याणाम् तदन्ते परतन्त्रता |
भुज्यते च कृतम् पूर्वमेतत् किम् वो न चिन्तितम् || ४८ ||
यदभूत् परदारेषु प्रीतयेऽङ्गकुचादिकम् |
यातनादुःखरूपाय नरके च तदागतम् || ४९ ||
परदारमनोहारि यद्भवद्भिरगीयत |
हा मात इत्यादि रुतम् तदिदानीम् विलप्यते || ५० ||
सन्दिग्धपरलोकानामैहिके निहतात्मनाम् |
मृतानाम् स्वकृतम् कर्म पश्चात्तापाय केवलम् || ५१ ||
मुहूर्तार्धसुखास्वादलुब्धानामकृतात्मनाम् |
अनेकवर्षकोटिषु दुःखदम् कर्म जायते || ५२ ||
हा मातस्तात तातेति भवद्भिः किम् विलप्यते |
शुभाशुभम् निजम् कर्म तदद्य ह्यत्र भुज्यते || ५३ ||
पुत्रदारगृहक्षेत्रहिताय सततोद्यताः |
न कुर्वत्नि कथम् मूढाः स्वल्पमप्यात्मनो हितम् || ५४ ||
वञ्चितोऽसौ मया लब्धमिदमस्मादुपायतः |
न वेत्ति कश्चिदात्मार्थम् वेत्ति प्रक्रमतो नरः || ५५ ||
न वेत्ति सूर्यचन्द्रादीन् कालमात्मानमेव च |
साक्षिभूतानशेषस्य शुभस्येहाशुभस्य च || ५६ ||
जन्मान्यन्यानि जायन्ते पुत्रदारादिदेहिनाम् |
तदर्थम् यत्कृतम् कर्म तस्य जन्मशतानि तत् || ५७ ||
अहो मोहस्य माहात्म्यम् ममत्वम् नरकेष्वपि |
क्रन्दते मातरम् तातम् पीड्यमानोऽपि यत्स्वयम् || ५८ ||
एवमाकृष्टचित्तानाम् विषयास्वादतर्षुलैः |
नॄणाम् न जायते बुद्धिः परमार्थावलोकिनी  || ५९ ||
तथा च विषयासक्तिम् करोत्यविरतम् मनः |
कोऽतिभारो हरेर्नाम्नि जिह्वायाः परिकीर्तने || ६० ||
वर्तितैलेऽल्पमौल्येऽपि यदग्निर्लभ्यते मुधा |
अतोऽधिकतरो लोभः को वश्चित्तेऽभवत्तदा || ६१ ||
येनेयम् तेषु हस्तेषु स्वातन्त्र्ये सति दीपकः |
महाफलो विष्णुगृहे न दत्तो नरकापहः || ६२ ||
न वो विलपिते किन्चिदिदानीम् दृश्यते फलम् |
अस्वातन्त्र्ये विलपताम् स्वातन्त्र्येऽतिप्रमादिनाम् || ६३ ||
अवश्यम्पातिनः प्राणा भोक्ता जीवो ह्यहर्निशम् |
दत्तम् च लभते भोक्ता समये विषयानिति || ६४ ||
एतत्स्वातन्त्र्यवद्भिर्वो युक्तमासीत् परीक्षितुम् |
इदानीम् किम् विलापेन सहध्वम् यदुपागतम् || ६५ ||
यद्येतदनभीष्टम् वो यद्दुःखम् समुपस्थितम् |
तद्भूयोऽपि मतिः पापे न कर्तव्या कथञ्चन || ६६ ||
कृतेऽपि पापके कर्मण्यज्ञानादघनाशनम् |
कर्तव्यमव्यवस्थितम् स्मरद्भिर्मधुसूदनम् || ६७ ||

पुलस्त्य उवाच –
नारकाद् तद्वचः श्रुत्वा तामूचुरतिदुःखिताः |
क्षुत्क्षामकण्ठास्तृषया परिस्फुटिततालुकाः || ६८ ||
भो भो साधो कृतम् कर्म यदस्माभिस्तदुच्यताम् |
नरकस्थैर्विपाकोऽयम् भुज्यते यस्य दारुणः || ६९ ||

किङ्कर उवाच –
युष्माभिर्यौवनोन्मादमुदितैरविवेकिभिः |
द्यूतोद्योताय गोविन्दगृहाद्दीपः पुरा हृतः || ७० ||
तेनास्मिन्नरके घोरे क्षुत्तृष्णापरिपीडिताः |
भवन्तः पतितास्तीव्रशीतवातविदारिताः || ७१ ||

पुलस्त्य उवाच –
एतत्ते दीपदानस्य प्रदीपहरणस्य च |
पुण्यम् पापम् च कथितम् केशवायतने द्विज || ७२ ||
सर्वत्रैव हि दीपस्य प्रदानम् द्विज शस्यते |
विशेषेण जगद्धातुः केशवस्य निवेशने || ७३ ||
येऽन्धा मूका निःश्रुता निर्विवेका हीनास्तैस्तैः साधनैर्विप्रवर्य |
तैस्तैर्दीपाः साधुलोकप्रदत्ता देवागारादन्यतो विप्रणीताः || ७४ ||

इति विष्णुधर्मे दीपदानविधिर्नाम त्रयस्त्रिम्शोऽध्यायः

चतुस्त्रिम्शोऽध्यायः

देवद्वजादिप्रशम्सा

दाल्भ्य उवाच –

आह्लादम् चक्षुषः प्रीतिम् करोति मनसस्तथा |
केषांचिद्दर्शनम् ब्रह्मन् मनुष्याणामहर्निशम् || १ ||
उद्वेजनीया भूतानामनिमित्तम् तथापरे |
वदन्ते विप्रियम् नैव प्रीतिम् कुर्वन्ति मानवाः || २ ||
एतद्यस्य फलम् ब्रह्मन् दानस्य तपसोऽथवा |
उपवासस्य वा तन्मे यथावद्वक्तुमर्हसि || ३ ||
अप्रीतिदस्य विप्रर्षे विपाको यस्य कर्मणः |
मनुष्याणामशेषम् वै तन्ममाचक्ष्व सत्तम || ४ ||

पुलस्त्य उवाच –
देवब्राह्मणवेदेषु यज्ञेषु च नराधमैः |
यैर्जुगुप्सा कृता दाल्भ्य मनसाऽप्यतिमानिभिः || ५ ||
तेषाम् सन्दर्शनात् सर्वो न सुखम् विन्दते द्विज |
वदन्त्यप्यनुकूलानि न तेषु प्रीयते जनः || ६ ||
स्पर्शादुद्विजते लोकः कटु तेषाम् च दर्शनम् |
सम्भाषणम् च निन्दा वै कृता वेदद्विजातिके || ७ ||
तस्मान्न निन्दाम् वेदादौ न जुगुप्साम् च पण्डितः |
यज्ञादौ च नरः कुर्याद्य इच्छेच्छ्रेय आत्मनः || ८ ||
यैस्तु प्रीतिः समस्तेषु वेददेवद्विजातिषु |
यज्ञादिके चैव कृता दाल्भ्य तद्दर्शनम् नृणाम् || ९ ||
आह्लादश्चक्षुषः प्रीतिर्मनसो निर्वृतिः परा |
सम्भाषणे तथाह्लादः सर्वलोकस्य जायते || १० ||
स्तुताः प्रशस्ताः सम्प्रीत्या पूजिता बहुमानतः |
श्रेयः परम् प्रयच्छन्ति देवा वेदा मखा द्विजाः || ११ ||
लोकद्वयेऽपि चाप्रीतिम् पशुपुत्रधनक्षयम् |
कुर्वन्ति द्विजशार्दूल एत एव विनिन्दिताः || १२ ||
एत एव समाख्याताः स्तवादिग्रहणे गुणाः |
निन्दायाः श्रवणे दोष एतेषामेवमेव हि || १३ ||
तस्मात् स्तव्याः प्रशम्स्याश्च देवा वेदा द्विजातयः |
यज्ञाश्च मनसाऽप्येषाम् न निन्दामाचरेद्बुधः || १४ ||

इति विष्णुधर्मे देवद्वजादिप्रशम्सा नाम चतुस्त्रिम्शोऽध्यायः

पञ्चस्त्रिम्शोऽध्यायः

किलद्वादशी  kila or tila check change start or end as needed

दाल्भ्य उवाच –
अनायासेन भगवन् दानेनान्येन केनचित् |
पापम् प्रशममायाति येन तद्वक्तुमर्हसि || १ ||

पुलस्त्य उवाच –
शृणु दाल्भ्य महापुण्याम् द्वादशीम् पापनाशनीम् |
यामुपोष्य परम् पुण्यम् प्राप्नुते श्रद्धयाऽन्वितः || २ ||
माघमासे तु सम्प्राप्ते आषाढार्क्षम् भवेद्यदि |
मूलम् वा कृष्णपक्षस्य द्वादश्याम् नियतस्तदा || ३ ||
गृह्णीयात् पुण्यफलदम् विधानम् तस्य मे शृणु |
देवदेवम् समभ्यर्च्य सुस्नातः प्रयतः शुचिः || ४ ||
कृष्णनाम्ना च संस्तूय एकादश्याम् महामते |
उपोषितो द्वितीयेऽह्नि पुनः सम्पूज्य केशवम् || ५ ||
सम्स्तूय नाम्ना च ततः कृष्णाख्येन पुनः पुनः |
दद्यात् तिलाम्स्तु विप्राय कृष्णो मे प्रीयतामिति |
स्नानप्राशनयोः शस्तास्तथा कृष्णतिला मुने || ६ ||
तिलप्ररोहे जायन्ते यावत्सम्ख्यास्तिला द्विज |
तावद्वर्षसहस्राणि स्वर्गलोके महीयते || ७ ||
जातश्चेहाप्यरोगोऽसौ नरो जन्मनि जन्मनि |
नान्धो न बधिरश्चेह न कुष्ठी न जुगुप्सितः |
भवत्येतामुषित्वा तु तिलाख्याम् द्वादशीम् नरः || ८ ||
विष्णोः प्रीणनमत्रोक्तम् समाप्ते वर्षपारणे |
पूजाम् च कुर्याद्विप्राय भूयो दद्यात्तथा तिलान् || ९ ||
अनेन दाल्भ्य विधिना तिलदानादसम्शयम् |
मुच्यते पातकैः सर्वैर्निरायासेन मानवः || १० ||
(उद्भूतपुलकः सर्वान्निरायासेन मानवः |)
दानविधिस्तथा श्रद्धा सर्वपातकशान्तये |
नार्थः प्रभूतो नायासः शारीरो मुनिसत्तम || ११ ||

इति विष्णुधर्मे तिलद्वादशी नाम पञ्चस्त्रिम्शोऽध्यायः

षट्त्रिम्शोऽध्यायः

अर्जुनस्तवः

दाल्भ्य उवाच –
अनन्तस्याप्रमेयस्य व्यापिनः परमात्मनः |
नाम्नाम् नक्षत्रभेदेन तिथिभेदेन वा द्विज || १ ||
दानभेदेन चाख्यातो विभिन्नफलदस्त्वया |
विशेषः क्षेत्रभेदेन कथ्यताम् यदि विद्यते || २ ||
यथार्क्षतिथिभेदेन तेषामेव पुनः पुनः |
विशेषः कथितो नाम्नाम् विशेषफलदायकः |
तथा क्षेत्रविशेषेण भेदम् नामकृतम् वद || ३ ||

पुलस्त्य उवाच –
शृणु दाल्भ्य यथाऽऽख्यातमर्जुनाय महात्मने |
प्रणिपातप्रसन्नेन विष्णुना प्रभविष्णुना || ४ ||
कृते भारावतरणे निवृत्ते भारते रणे |
आगम्य शिबिरम् विष्णू रथस्थः प्राह फाल्गुनम् || ५ ||
इषुधीगाण्डिवम् चैव समादाय त्वरान्वितः |
अवतीर्य रथाद्वीर दूरे तिष्ठ धनञ्जय || ६ ||
अवरोक्ष्याम्यहम् पश्चादवतीर्णे ततस्त्वयि |
एतत्कुरु महाबाहो मा विलम्बस्व फाल्गुन || ७ ||

पुलस्त्य उवाच –
एवमुक्तस्तथा चक्रे वाक्यम् पार्थो गदाधृतः |
अवारोहत्ततः पश्चात् स्वयमेव जनार्दनः || ८ ||
अवतीर्णे जगन्नाथे स्वसमुत्थेन वह्निना |
जज्वाल स रथः सद्यो भस्मीभूतश्च तत्क्षणात् |
सोपस्करपताकोऽथ सध्वजः सह वाजिभिः || ९ ||
सच्छत्त्रो वह्निना सद्यो रथो भस्मलवीकृतम् |
वह्निना च यथा काष्ठम् सद्यो भस्मलवीकृतम् || १० ||
तदद्भुतम् महद्दृष्ट्वा पार्थः पप्रच्छ केशवम् |
हृष्टरोमा द्विजश्रेष्ठ भयविस्मयगद्गदः || ११ ||

आश्चर्यम् पुरुषव्याघ्र किमेतन्मधुसूदन! |
विनाऽग्निना रथोऽयम् मे दग्धस्तृणचयो यथा || १२ ||

भगवानुवाच –
भीष्मद्रोणकृपादीनाम् कर्णादीनाम् च फाल्गुन |
दग्धोऽस्त्रैर्विविधैरेष पूर्वमेव रथस्तव || १३ ||
मदधिष्ठितत्वात्कौन्तेय! न शीर्णोऽयम् तदाऽभवत् |
प्रत्यहन्निशि चक्रेण मया न्यस्तेन रक्षितः || १४ ||
सोऽयम् दग्धो महाबाहो! त्वय्यद्य कृतकर्मणि |
मयाऽवतारिते चक्रे मा पार्थ! कुरु विस्मयम् || १५ ||

अर्जुन उवाच –
कम् भवन्तमहम् विद्यामतिमानुषचेष्टितम् |
कर्मणाऽत्यद्भुतेनाग्निर्धूमेनैवेह सूचितः || १६ ||

भगवानुवाच –
पूर्वमेव यथाख्यातम् रणारम्भे तवार्जुन! |
कालोऽस्मि लोकनाशाय प्रवृत्तोऽहम् यथाऽधुना || १७ ||
तन्मया साधितम् कार्यम् त्रिदशानाम् तथा भुवः |
भारावतरणार्थाय मम जन्म महीतले || १८ ||

पुलस्त्य उवाच –
एवमुक्तोऽर्जुनः सम्यक् प्रणिपत्य जनार्दनम् |

तुष्टाव वाग्भिरिष्टाभिरुद्भूतपुलकस्ततः || १९ ||

अर्जुन उवाच –

नमोऽस्तु ते चक्रधरोग्ररूप
नमोऽस्तु ते शार्ङ्गधरारुणात्र |

नमोऽस्तु तेऽभ्युद्यतखड्ग रौद्र!
नमोऽस्तु विभ्रान्तगदान्तकारिन् || २० ||

भयेन सन्नोऽस्मि सवेपथेन नाङ्गानि मे देव वशम् प्रयान्ति |

वाचः समुच्चारयतः स्खलन्ति केशा! हृषीकेश समुच्छ्वसन्ति || २१ ||

कालो भवान् कालकरालकर्मा येनैतदेवम् क्षयमक्षयात्मन् |

क्षत्रम् समुद्भूतरुषा समस्तम् नीतम् भुवो भारविरेचनाय || २२ ||

प्रसीद कर्तर्जय लोकनाथ प्रसीद सर्वस्य च पालनाय |

स्थितौ समस्तस्य च कालरूप कृतोद्यमेशान जयाव्ययात्मन् || २३ ||

न मे दृगेषा तव रूपमेतद्द्रष्टुम् समर्था क्षुभितोऽस्मि चान्तः |

पूर्वस्वभावस्थितविग्रहोऽपि सम्लक्ष्यसेऽत्यन्तमसौम्यरूप || २४ ||
स्मरामि रूपम् तव विश्वरूपम् यद्दर्शितम् पूर्वमभून्ममैव |
यस्मिन् मया विश्वमशेषमासीद्दृष्टं सयक्षोरगदेवदैत्यम् || २५ ||
सा मे स्मृतिर्दर्शनभाषणादि प्रकुर्वतो नाथ गता प्रणाशम् |
कालोऽहमस्मीत्युदिते त्वया तु समागतेयम् पुनरप्यनन्त! || २६ ||
कर्ता भवान् कारणमप्यशेषम् कार्यम् च निष्कारण कर्तृरूप |
आदौ स्थितौ सम्हरणे च देव विश्वस्य विश्वम् स्वयमेव च त्वम् || २७ ||
ब्रह्मा भवान् विश्वसृगादिकाले विश्वस्य रूपोऽसि तथा विसृष्टौ |
विष्णुः स्थितौ पालनबद्धकक्षो भवान् सम्हरणे प्रजानाम् || २८ ||
एभिस्त्रिभिर्नाथ विभूतिभेदैर् यश्चिन्त्यते कारणमात्मनोऽपि |
वेदान्तवेदोदितमस्ति विष्णोः पदम् ध्रुवम् तत्परमम् त्वमेव || २९ ||
यन्निर्गुणम् सर्वविकल्पहीनमनन्तमस्थूलमरूपगन्धम् |
परम् पदम् वेदविदो वदन्ति त्वमेव तच्छब्दरसादिहीनम् || ३० ||
यथा हि मूले विटपी महाद्रुमः प्रतिष्ठितस्कन्धवरोग्रशाखः |
तथा समस्तामरमर्त्यतिर्यग्व्योमादिशब्दादिमयम् त्वयीदम् || ३१ ||
मुञ्चामि यावत्परमायुधानि वैरिष्वनन्ताहवदुर्मदेषु |
दृष्ट्वा हि तावत्सहसा पतन्तो नूनम् तवैवाच्युत! स प्रभावः || ३२ ||
हता हतास्ते भवतो दृशैव मया पुनः केशव शस्त्रपूगैः |
कः कर्णभीष्मप्रमुखान् विजेतुम् युष्मत्प्रसादेन विना समर्थः || ३३ ||
त्रिशूलपाणिर्मम यः पुरस्तान्निषूदयन् वैरिबलम् जगाम |
ज्ञातम् मया साम्प्रतमेतदीश तव प्रसादस्य हि सा विभूतिः || ३४ ||
यमेन्द्रवित्तेशजलेशवह्निसूर्यात्मको यश्च ममास्त्रपूगः |
नाशाय नाभूत् पतितोऽपि काये त्वत्सन्निधानस्य हि सोऽनुभावः || ३५ ||
बाल्ये भवान् यानि चकार देव कर्माण्यसह्यानि सुरासुराणाम् |
तैरेव जानीम न यत्परम् त्वाम् दोषः स निर्दोषो मनुष्यतायाः || ३६ ||
तालोच्छ्रिताग्रम् गुरुभारसारमायामविस्तारवदद्यजातः |
पादाग्रविक्षेपविभिन्नभाण्डम् चिक्षेप कोऽन्यः शकटम् यथा त्वम् || ३७ ||
अन्येन केनाच्युत! पूतनाया प्राणैः समम् पीतमसृग्विमिश्रम्? |
त्वया यथा स्तन्यमतीवबाल्ये गोष्ठे च भग्नौ यमलार्जुनौ तौ || ३८ ||
विषानलोष्णाम्बुनिपातभीममास्फोट्य को वा भुवि मानुषोऽन्यः |
ननर्त पादाब्जनिपीडितस्य फणम् समारुह्य च कालियस्य || ३९ ||
सुरेशसन्देशविरोधवत्सु वर्षत्सु मेघेषु गवान् निमित्तम् |
दिनानि सप्तास्ति च कस्य शक्तिर्गोवर्धनम् धारयितुम् करेण || ४० ||
प्रलम्बचाणूरमुखान्निहत्य कम्सासुरम् यस्य बिभेति शक्रः |
तमष्टवर्षो निजघान कोऽन्यो निरायुधो नाथ मनुष्यजन्मा || ४१ ||
बाणार्थमभ्युद्यतमुग्रशूलम् निर्जित्य सङ्ख्ये त्रिपुरारिमेकः |
सकार्त्तिकेयज्वरमस्त्रबाहुम् करोति को बाणमनच्युतोऽन्यः || ४२ ||
कः पारिजातम् सुरसुन्दरीणाम् सदोपभोग्यम् विजितेन्द्रसैन्यः |
स्वर्गान्महीमुच्छ्रितवीर्यधैर्यः समानयामास यथा प्रभो त्वम् || ४३ ||
हत्वा हयग्रीवमुदारवीर्यम् निशुम्भशुम्भौ नरकम् च कोऽन्यः |
जग्राह कन्यापुरमात्मनोऽर्थम् प्राग्ज्योतिषाख्ये नगरे महात्मन्! || ४४ ||

इत्तम् भवान् दुष्टवधेन नूनम् विश्वोपकाराय विभो प्रवृत्तः  |
स्थितौ स्थितस्त्वम् परिपासि विश्वम् तैस्तैरुपायैरविनीतभीतैः |
मैत्री न येषाम् विनयाय ताम्स्तान् सर्वान् भवान् सम्हरतेऽव्ययात्मन् || ४५ ||
हिताय तेषाम् कपिलादिरूपिणा त्वयाऽनुशस्ता बहवोऽनुजीवाः |
येषाम् न मैत्री हृदि ते न नेया विश्वोपकारी वध एधव तेषाम् || ४६ ||
स्थितौ स्थितम् पालनमेव विष्णुः करोति हन्त्यन्तगतोऽन्तरुद्रः || ४७ ||
एतानि चान्यानि च दुष्कराणि दृष्टानि कर्माणि तथापि सत्यम् |
मन्यामहे त्वाम् जगतः प्रसूतिम् किम् कुर्म माया तव मोहनीयम् || ४८ ||
त्वम् सर्वमेतत्त्वयि सर्वमेतत्त्वत्तस्तथैतत्तव चेतदीश |
एतत्स्वरूपम् तव सर्वभूतम् विभूतिभेदैर्बहुभिः स्थितस्य || ४९ ||
प्रसीद कृष्णाच्युत! वासुदेव! जनार्दनानन्त! नृसिम्ह! विष्णो |
मनुष्यसामान्यधिया यदीश दृष्टो मया तत् क्षमस्वादिदेव || ५० ||
न वेद्म सद्भावमहम् तवाद्य सद्भावभूतस्य चराचरस्य |
यो वै भवान् कोऽपि नतोऽस्मि तस्मै मनुष्यरूपाय चतुर्भुजाय || ५१ ||
देवदेव! जगन्नाथ! सर्वपापहरो भव |

हेतुमात्रस्त्वहम् तत्र त्वयैतदुपसम्हृतम् || ५२ ||
प्रसीदेश! हृषीकेश! अक्षौहिण्या दशाष्ट च |
त्वया ग्रस्ता भुवो भूत्यै हेतुभूता! हि मद्विधाः || ५३ ||
वयमन्ये च गोविन्द! नराः क्रीडनकास्तव |
मद्विधैः करणैर्देव! करोषि स्थितिपालनम् || ५४ ||
यदत्र सदसद्वाऽपि किञ्चिदुच्चारितम् मया |

सदा सर्वत्र सर्वेश पूजार्होऽसि  मयाऽच्युत
भक्तिमानिति तत् सर्वम् क्षन्तव्यम् मम केशव! || ५५ ||

इति विष्णुधर्मे अर्जुनस्तवो नाम षट्त्रिम्शोऽध्यायः

सप्तत्रिम्शोऽध्यायः

पञ्चपञ्चाशत् क्षेत्रनामानि

पुलस्त्य उवाच –

एवम् स्तुतस्ततः प्राह प्रीतिमाम्स्तम् जनार्दनः |
परिष्वज्य महाबाहुम् समाश्वास्य च फाल्गुनम् || १ ||
(प्रोवाच भगवान् देवः प्रहृष्टेनान्तरात्मना |)

भगवान् उवाच –
यस्त्वाम् वेत्ति स माम् वेत्ति यस्त्वामनु स मामनु |
अभेदेनात्मना वेद्मि त्वामहम् पाण्डुनन्दन! || २ ||
ममाम्शस्त्वम् महाबाहो जगतः पालनेच्छया |
भुवो भारावतारार्थम् पृथक् पार्थ! मया कृतम् || ३ ||
देवदैत्योरगा यक्षाः गन्धर्वाः किन्नराप्सराः |
राक्षसाश्च पिशाचाश्च पशुपक्षिसरीसृपाः || ४ ||
वृक्षगुल्मादयः शैलाः सर्वभूतानि चार्जुन! |
ममैवाम्शानि भूतानि विद्धि सर्वाण्यरिन्दम! || ५ ||

अर्जुन उवाच –
भगवन् सर्वभूतात्मन् सर्वभूतेषु वै भवान् |
परमात्मस्वरूपेण स्थितम् वेद्मि तदव्ययम् || ६ ||
क्षेत्रेषु येषु येषु त्वम् चिन्तनीयो मयाच्युत |
चेतसः प्रणिधानार्थम् तन्ममाख्यातुमर्हसि || ७ ||
यत्र यत्र च यन्नाम प्रीतये भवतः स्तुतौ |

प्रसादसुमुखो नाथ तन्ममाशेषतो वद || ८ ||
भगवानुवाच –

सर्वगः सर्वभूतोऽहम् न हि किञ्चिद्मया विना |
चराचरे जगत्यस्मिन् विद्यते कुरुसत्तम! || ९ ||
तथापि येषु स्थानेषु चिन्तनीयोऽहमर्जुन |
स्तोतव्यो नामभिर्यैस्तु श्रूयताम् तद्वदामि ते || १० ||
पुष्करे पुण्डरीकाक्षम् गयायाम् च गदाधरम् |
लोहदण्डे तथा विष्णुम् स्तुवम्स्तरति दुष्कृतम् || ११ ||
(क्ष्वामाच्ये कुमारम् नेपाले लोकभावनम् |)
राघवम् चित्रकूटे तु प्रभासे दैत्यसूदनम् |
वृन्दावने च गोविन्दम् मा स्तुवन् पुण्यभाग् भवेत् || १२ ||
(मन्दोदपाने वैकुण्ठम् माहन्त्रे माहेन्द्रे चाच्युतम् विभुम् |)
जयम् जयन्त्याम् तद्वच्च जयन्तम् हस्तिनापुरे |
वाराहम् कर्दमाले तु काश्मीरे चक्रपाणिनम् || १३ ||
जनार्दनम् च कुब्जाम्रे मथुरायाम् च केशवम् |
कुब्जके श्रीधरम् तद्वद् गङ्गाद्वारे सुरोत्तमम् || १४ ||
शालग्रामे महायोगिम् हरिम् गोवर्धनाचले |
पिण्डारके चतुर्बाहुम् शङ्खोद्धारे च शङ्खिनम् || १५ ||
वामनम् च कुरुक्षेत्रे यमुनायाम् त्रिविक्रमम् |
वनमालम् च किष्किन्धायाम् कपिलम् पूर्वसागरे || १६ ||
श्वेतद्वीपपतिम् चापि गङ्गासागरसङ्गमे |
भूधरम् देविकानद्याम् प्रयागे चैव माधवम् || १७ ||
नरनारायणाख्यम् च तथा बदरिकाश्रमे |
समुद्रे दक्षिणे स्तव्यम् पद्मनाभेति फाल्गुन! || १८ ||
द्वारकायाम् तथा कृष्णम् स्तुवम्स्तरति दुर्गतिम् |
रामम् नाम महेन्द्राद्रौ हृषीकेशम् तथाऽर्बुदे || १९ ||
अश्वतीर्थे हयग्रीवम् विश्वरूपम् हिमाचले |
नृसिम्हम् कृतशौचे च विपाशायाम् द्विजप्रियम् || २० ||
नैमिषे यज्ञपुरुषम् जम्बूमार्गे तथाच्युतम् |
अनन्तम् सैन्धवारण्ये दण्डके शार्ङ्गधारिणम् || २१ ||
उत्पलावर्तके शौरिम् नर्मदायाम् श्रियः पतिम् |
दामोदरम् रैवतके नन्दायाम् जलशायिनम् || २२ ||
सर्वयोगेश्वरम् चैव सिन्धुसागरसङ्गमे |
सह्याद्रौ देवदेवेशम् वैकुण्ठम् मागधे वने || २३ ||
सर्वपापहरम् विन्ध्ये उड्रेषु पुरुषोत्तमम् |
हृदये चापि कौन्तेय! परमात्मानमात्मनः || २४ ||
वटे वटे वैश्रवणम् चत्वरे चत्वरे शिवम् |
पर्वते पर्वते रामम् सर्वत्र मधुसूदनम् || २५ ||
नरम् भूमौ तथा व्योम्नि कौन्तेय! गरुडध्वजम् |
वासुदेवम् च सर्वत्र सम्स्मरञ्ज्योतिषाम् पतिम् || २६ ||
अर्चयन् प्रणमम्स्तु त्वम् सम्स्मरम्श्च धनञ्जय |
एतेष्वेतानि नामानि नरः पापैः प्रमुच्यते || २७ ||
स्थानेष्वेतेषु मन्नाम्नामेतेषाम् प्रीणनम् नरः |
द्विजानाम् प्रीणनम् कृत्वा स्वर्गलोकेऽभिजायते || २८ ||
नामान्येतानि कौन्तेय! स्थानान्येतानि चात्मवान् |
जयम् वै पञ्चपञ्चाशत् सन्ध्यम् मत्परायणः || २९ ||
त्रीणि जन्मानि यत्पापम् अवस्थात्रितये कृतम् |
तत् क्षालयत्यसन्दिग्धम् जायते च सताम् कुले || ३० ||
द्विकालम् वा जपन्नेव दिवारात्रौ च यत्कृतम् |
तस्माद्विमुच्यते पापात् सद्भावपरमो नरः || ३१ ||
जप्तान्येतानि कौन्तेय! सकृच्छ्रद्धासमन्वितम् |
मोचयन्ते नरम् पापाद् यत्तत्रैव दिने कृतम् || ३२ ||
धन्यम् यशस्यमायुष्यम् जयम् कुरु कुलोद्वह |
ग्रहानुकूलताम् चैव करोत्याशु न सम्शयः || ३३ ||
उपोषितो मत्परमः स्थानेष्वेतेषु मानवः |
कृतायतनवासश्च प्राप्नोत्यभिमतम् फलम् || ३४ ||
उत्क्रान्तिरप्यशेषेषु स्थानेष्वेतेषु शस्यते |
अन्यस्थानाच्छतगुणमेतेष्वनशनादिकम् || ३५ ||
यस्तु मत्परमः कालम् करोत्येतेषु मानवः |
देवानामपि पूज्योऽसौ मम लोके महीयते || ३६ ||

इति विष्णुधर्मे पञ्चपञ्चाशत् क्षेत्रनामानि नाम सप्तत्रिम्शोऽध्यायः

अष्टात्रिम्शोऽध्यायः

वीरभद्रगीताः सुकृतद्वादशीप्रभावः

दाल्भ्य उवाच –
यन्न तापाय वै पुम्साम् भवत्यामुष्मिकम् कृतम् |
तापाय यच्च भवति तदाचक्ष्व महामुने || १ ||
उपवासप्रभावम् च कृष्णाराधनकाङ्क्षिणः |
कथयेह मम ब्रह्मन्! न च तृप्यामि कथ्यते || २ ||

पुलस्त्य उवाच –
श्रूयताम् दाल्भ्य यत्पृष्टाः कौतुकाद्भवता वयम् |
आमुष्मिकम् न तापाय यच्च तापाय जायते || ३ ||
उपोषितप्रभावम् च कृष्णाराधनकाङ्क्षिणः |
कथयामि यथावृत्तम् पूर्वमेव महामते || ४ ||
वैदिशम् नाम नगरम् प्रख्यातमिह सत्तम! |
तत्र वैश्योऽभवत् पूर्वम् वीरभद्र इति श्रुतः || ५ ||
भार्याजामातृदुहितृपुत्रपौत्रस्नुषान्वितः |
प्रभूतभृत्यवर्गश्च बहुव्यापारकारकः || ६ ||
पुत्रपौत्रादिभरणव्यासक्तमतिरेव च |
परलोकम् प्रति मतिस्तस्य चात्यन्तदुर्मुखा || ७ ||
चकारानुदिनम् सोऽथ न्यायान्यायैर्धनार्जनम् |
सर्वत्रान्यत्र निःस्नेहः परस्वे चातितर्षुलः || ८ ||
न जुहोत्युदिते काले न ददात्यतितृष्णया |
बभूव चोद्यमस्तस्य पुत्रादिभरणे परः || ९ ||
नित्यनैमित्तिकानाम् च हानिम् चक्रे स्वकर्मणाम् |
तृष्णाभिभूतो विप्रर्षे! स्ववर्गभरणाधृतः || १० ||
कालेन गच्छता सोऽथ मृतो विन्ध्याटवीतटे |
यातनादेहभृत् प्रेतो ग्रीष्मकालेऽभवन्मुने! || ११ ||
तम् ददर्श महाभागो दिव्यज्ञानसमन्वितः |
वेदवेदान्तविद् विद्वान् पिपीतो नाम वै द्विजः || १२ ||
भास्करस्याम्शुभिर्दीप्तैर्दह्यन्तमनिवारणैः |
प्रतप्तवालुकामध्ये तृषा चात्यन्तपीडितम् || १३ ||
क्षुत्क्षामकण्ठम् शुष्कास्यम् स्तब्धोद्वृत्तविलोचनम् |
निष्क्रान्तजिह्वमङ्गेषु विस्फोटैः सर्वतश्चितम् || १४ ||
निश्वासायासखेदेन विरलास्यमनादरम् |
श्रान्तम् मक्षिकयाऽऽकीर्णम् दुर्दग्धम् चातिदारुणम् |
निजेन कर्मणा बद्धमसमर्थम् पलायने || १५ ||
तम् तादृशमथो दृष्ट्वा गार्दभेयो महामुनिः |
पिपीतः प्राह विप्रर्षिः कारुण्यस्तिमितम् वचः || १६ ||
जानन्नपि तथा प्राप्तम् तदनुष्ठानजम् फलम् |
जन्तोस्तस्योपकाराय सर्वतो ह्लादयन्निव || १७ ||

पिपीत उवाच –
अधः सूर्याम्शुभिस्तप्तैर्बहुभिर्यानपाम्सुभिः |
उपर्यर्ककरैरुग्रैस्तृषा चार्तस्तथा क्षुधा || १८ ||
(अन्यैस्तथाऽऽधिभिर्घोरैरविषह्यैरवारणैः |)

मध्ये तस्यादि निघोरैः अविष्यैस्सुदारुणैः
कथयेह यथातत्त्वमेकाकी दह्यसे कथम् || १९ ||
तस्यैतद्वचनम् श्रुत्वा पिपीतस्य सवेदनम् |
यातनास्थ उवाचेदम् कृच्छ्रादुच्छ्वास्य मस्तकम् || २० ||

वीरभद्र उवाच –
ब्रह्मन्नालोचितम् पूर्वम् कथमन्ते भविष्यति |
अशाश्वते शाश्वतधीस्तेन दह्यामि दुर्मतिः || २१ ||
धनापणगृहक्षेत्रपुत्रदारहिते रतः |
नात्मनोऽहम् हितारम्भी तेन दह्यामि दुर्मतिः || २२ ||
इदम् करिष्ये कृत्वेदम् करिष्याम्यपरम् त्विदम् |
इतीच्छाशतसरोऽहम् तेन दह्यामि दुर्मतिः || २३ ||
जुहोमि यदि तन्नास्ति ददामि यदि सीदति |
कुटुम्बमिति मूढोऽहम् तेन दह्यामि दुर्मतिः || २४ ||
शीतोष्णवर्षाभिभवम् लोभात् सोढः मया शुभम् |
तदेव हि न धर्मार्थम् तेन दह्यामि दुर्मतिः || २५ ||
पितृदेवमनुष्याणामदत्त्वा पोषिता हि ये |
तेऽन्यत्र क्वापि वर्तन्ते दह्याम्येकोऽत्र दुर्मतिः || २६ ||
पुत्रभृत्यकलत्रेषु मम त्वादृतमानसः |
कृत्वा कर्माण्यसाधूनि दह्याम्येकोऽत्र दुर्मतिः || २७ ||
मृते मयि धने तस्मिन्नन्यायोपार्जिते मया |
नूनम् ममेति वर्तन्ते दह्याम्येकोऽत्र दुर्मतिः || २८ ||
न हि नः पूजिता गेहान्निर्गता द्विजसत्तमाः |
स्ववर्गहितकामस्य तेन दह्याम्यहर्निशम् || २९ ||
यन्मे न पूजिता देवाः कुटुम्बम् पोषितम् परम् |
एकाकी तेन दह्यामि ये पुष्टास्तेऽन्यतो गताः || ३० ||
नित्यनैमित्तिकम् कर्म कृते येषाम् न मे कृतम् |
एकाकी तेन दह्यामि तैर्मन्ये क्वापि रम्यते || ३१ ||
यन्मे परिजनस्यार्थे कृतम् कर्म शुभाशुभम् |
एकाकी तेन दह्यामि गतास्ते फलभोगिनः || ३२ ||
दाराः पुत्राश्च भृत्याश्च पापव्याप्त्या मयैधिताः |
एकाकी तेन दह्यामि गतास्ते फलभोगिनः || ३३ ||
पुत्रदारादिभृत्यार्थे मयाऽन्यायार्थसञ्चयाः |
कृतास्तेनात्र दह्यामि भुञ्जतेऽप्यन्यतो गताः || ३४ ||
कृतम् पापम् मया भुक्तमन्यैस्तत्कर्म सञ्चितम् |
दह्याम्येकोऽहमत्यन्तम् त्यक्तस्तैः फलभोगिभिः || ३५ ||
यन्ममत्वाभिभूतेन मया धनमुपार्जितम् |
अन्यस्य तेऽद्य कस्यापि केवलम् मम दुष्कृतम् || ३६ ||
अन्तर्दुःखेन दग्धोऽन्तर्बहिर्दह्यामि भानुना |
नान्तर्दुःखेन वा भानुः पापमेव द्विधा स्थितम् || ३७ ||
कञ्चित् कर्मसमुद्धारम् पश्यस्यसुखसागरात् |
मम येनाहमाह्लादमाप्नुयाम् मुनिसत्तम! || ३८ ||

पिपीत उवाच –
अल्पकालिकमुद्धारम् तव पश्याम्यसम्शयम् |
प्रक्षीणप्रायमेतत्ते सुकृतम् चास्ति ते परम् || ३९ ||
अतीते दशमे जन्मन्यच्युताराधनेच्छया |
सुकर्मजयदाम् भद्रद्वादशीम् त्वमुपोषितः || ४० ||
तव तस्याः प्रभावेण पापमत्यन्तदुर्जयम् |
अल्पैरहोभिः सम्क्षीणं नवपात्रे यथा जलम् || ४१ ||
यदन्यः क्षपयेद्वर्षैस्तद्दिनैर्भवतः क्षयम् |
गतम् पापमयम् तस्याः प्रभावोऽत्यन्तदुर्लभः || ४२ ||
शमम् पापस्य कुरुते जयम् सुकृतकर्मणः |
सत्कर्मजयदा ह्येषा ततो वै द्वादशी स्मृता || ४३ ||
यच्चैतद् वेदनार्तेन भवता परिदेवितम् |
तत्तथा नात्र सन्देहो ममता पापहेतुकी || ४४ ||
पापमत्र कृतम् प्रेत्य भद्र तापाय जायते |
आह्लादाय तथा पुण्यमिह पुण्यकृताम् नृणाम् || ४५ ||

पुलस्त्य उवाच –
वीरभद्रम् समाश्वास्य ययावित्थम् महामुनिः |
सोऽप्यल्पेनैव कालेन ततो मोक्षमवाप्तवान् || ४६ ||
एवम् दाल्भ्य! परे लोके यदत्रासुकृतम् कृतम् |
तत्तापाय सुखायोक्तम् यदत्रैव शुभम् कृतम् || ४७ ||
उपवासप्रभावश्च कथितस्ते महामुने! |
येनाल्पैरेव दिवसैर्भूरि पापम् क्षयम् गतम् || ४८ ||
तस्मान्नरेण पुण्याय यतितव्यम् न पातके |
उपवासाश्च कर्तव्याः सदैवात्महितैषिणा || ४९ ||

इति विष्णुधर्मे वीरभद्रगीताः सुकृतद्वादशीप्रभावो नाम अष्टात्रिम्शोऽध्यायः

एकोनचत्वारिम्शोऽध्यायः

आश्वनपुरूरवसंवादः

दाल्भ्य उवाच –
सम्सारासारताम् ज्ञात्वा विषयाम्श्चातितर्षुलान् |
कर्तव्यम् यन्महाभाग पुरुषेण तदुच्यताम् || १ ||

पुलस्त्य उवाच –
सम्सारासारताम् ज्ञात्वा विषयाम्श्चातितर्षुलान् |
गृद्धिस्तेष्वेव सम्त्याज्या तत्त्यागो गुणवान्नृणाम् || २ ||
येषामब्दसहस्राणाम् सहस्रैरपि ना नरः |
भोगात्तृप्तिम् समाप्नोति कस्तैर्भोगैर्विरज्यते || ३ ||

भोगान्न तृप्तिम् अवाप्नोति कस्तद्भोगेषु रम्यते

यावतो वाञ्छते भोगान् अहन्यहनि मानवः |
तेषाम् सहस्रभागेऽपि दाल्भ्य! प्राप्तिम् न विन्दति || ४ ||
अथ चेत्तदवाप्नोति सहस्रगुणितान्नरः |
तथाप्यतृप्त एवान्तमन्तकाले गमिष्यति || ५ ||
तृप्तये ये न सम्प्राप्ताः प्राप्यन्ते ये न वाञ्छिताः |
बुद्धिमान् इन्द्रियार्थेषु तेष्वसङ्गी सदा भवेत् || ६ ||
येषाम् तृप्तिर्न भोगेन त्यागश्चैवोपकारकः |
उपोषितविधानेन भोगान्त्यागस्ततो वरः || ७ ||
कृच्छ्रचान्द्रायणादीनि नरैस्तस्मान्मुमुक्षुभिः |
निष्कामैर्दाल्भ्य कार्याणि फलाय च फलेप्सुभिः || ८ ||
अत्राप्युदाहरन्तीमम् मुनयो मुनिसत्तम |
दस्राभ्याम् सह सम्वादमैलस्य च महात्मनः || ९ ||
ऐलः पुरूरवाः पूर्वम् बभूव मनुजेश्वरः |
चकमे यम् महाभागमुर्वशी सुरसुन्दरी || १० ||
सम्त्यज्य त्रिदशावासम् रूपौदार्यगुणान्वितम् |
भेजे तमुर्वशी दाल्भ्य बुधस्य तनयम् नृपम् || ११ ||
नासत्यदस्रौ रूपेण देवानामधिकौ ततः |
उर्वशीलोभनम् तस्य रूपम् द्रष्टुम् समुत्सुकौ || १२ ||
प्रतिष्ठानम् पुरम् तस्य बुधपुत्रस्य धीमतः |
जग्मतुः सुमहाभागौ तस्य द्वास्थमथोचतुः || १३ ||

अश्विनावूचतुः –
क्षत्तोऽस्मद्वचनादैलम् ब्रूहि त्वम् वसुधाधिपम् |
द्रष्टुम् तवाश्विनौ प्राप्तौ रूपसम्पद्गुणम् नृप! |
तदेह्यत्र महाभाग इहास्मान् सम्प्रवेशय || १४ ||
आश्चर्यभूतम् लोकेषु उर्वशीलोभनम् वपुः |
तत्कौतुकम् न कुरुते कस्य पार्थिवपुङ्गव || १५ ||

पुलस्त्य उवाच –
आवाम् समागतौ तस्मात्त्वाम् द्रष्टुम् मनुजोत्तम! |
द्वास्थस्तथेति तावाह प्रविवेश च सत्वरम् |
आचचक्षे च तद्राज्ञे नासत्यवचनम् द्विज! || १६ ||
तच्छ्रुत्वा वचनम् राजा द्वास्थमाह मुहूर्तकम् |
विलम्ब्यताम् महाभागौ तौ ब्रूहि वचनान्मम || १७ ||
व्यायामतैलसम्सर्गमलिनो न विभूषितः |
प्रसाधनम् च कृत्वाऽहम् निष्क्रमामि त्वरान्वितः || १८ ||

पुलस्त्य उवाच –
निष्क्रम्य स ततो द्वास्स्थो यथोक्तम् भूभृताखिलम् |
समाचष्ट ततो दाल्भ्य तौ च भूयस्तमूचतुः || १९ ||

अश्विनावूचतुः –
अप्रसाधितमेवाशु भवन्तम् वसुधाधिप! |
पश्यावस्तव भूयोऽपि त्वाम् द्रक्ष्यावः प्रसाधितम् || २० ||

पुलस्त्य उवाच –
इत्युक्तो निर्गतस्तूर्णम् भवनादवनीपतिः |
तैलाभ्यक्ततनुर्दाल्भ्य व्यायामपरिधानधृक् || २१ ||
स प्रणामम् तयोः कृत्वा किञ्चिन्नतशिरा नृपः |
प्रोवाच यन्मया कार्यम् भवतोस्तदिहोच्यताम् || २२ ||
सप्तद्वीपवती पृथ्वी पुत्रदारबलम् धनम् |
यच्चान्यदपि तत्सर्वम् युवयोर्मे निवेदितम् || २३ ||

पुलस्त्य उवाच –
इत्युदाहृतमाकर्ण्य नृपतेरश्विनावपि |
अङ्गोपाङ्गादिकम् सर्वम् शनकैस्तावपश्यताम् || २४ ||
शिरोललाटबाहुम् सनयनादिविलोकनम् |
कृत्वा च तम् महीपालमूचतुस्ताविदम् सुरौ || २५ ||
प्रविश्य स्नाहि भूपाल! यथार्थैश्च विभूषणैः |
विभूषितम् तु भूयस्त्वाम् द्रक्ष्यावोऽऽवाम् नरेश्वरः || २६ ||

पुलस्त्य उवाच –

तथेति चोक्त्वा स नृपः प्रविवेश महामुने! |
चक्रे च सकलम् सम्यक् स्नात्वा देहप्रसाधनम् || २७ ||
स्नातोऽनुलिप्तः स्रग्धारी सुवस्त्रः सुविभूषितः |
नासत्यदस्रयोः पार्श्वमियाय वसुधाधिपः || २८ ||
भूयोऽपि तौ यथापूर्वमङ्गोपाङ्गविलोकनम् |
चक्रतुर्नृपतेस्तस्य स्मितभिन्नौष्ठसम्पुटौ || २९ ||
तौ सहासौ समालक्ष्य स तदा वसुधाधिपः |
हासस्य कारणम् देवभिषजौ तावपृच्छत || ३० ||
पृच्छन्तम् न ततो दाल्भ्य नृपतिम् हास्यकारणम् |
यदूचतुर्महाभागौ तच्छृणुष्व वदामि ते || ३१ ||

अश्विनावूचतुः –
शृणु भूपाल सकलम् हासकारणमावयोः |
युष्मद्दर्शनसम्भूतम् क्षणापचयहेतुकम् || ३२ ||
अस्नातस्याभवद्भूपम् यादृशी ते सुरूपता |

साम्प्रतम् तादृशी नेयम् भूषितस्यापि भूषणैः || ३३ ||
स्नातः स्रग्दामधारी त्वम् स्वनुलिप्तः सुभूषितः |
तथाप्यस्नात एव प्राक् शोभनोऽभून्न साम्प्रतम् || ३४ ||

राजोवाच –
किम् तु तत्कारणम् येन व्यायाममलिनाम्बरः |
शोभनोऽहमभूत् पूर्वमिदानीम् न विभूषितः || ३५ ||

अश्विनावूचतुः –
दिव्येन चक्षुषा भूप! कालस्यास्य च तस्य च |
वयःपरिणतिम्म् सूक्ष्माम् पश्यावोऽपचयप्रदाम् || ३६ ||
यथा हि नाडिका पूर्णा गलत्यविरतम् नृप |
नृणाम् परिगणतस्तद्वच्छरीरग्रहणादनु || ३७ ||
जन्मतोऽनन्तरम् बाल्यम् पौगण्डत्वम् ततः परम् |
यौवनम् मध्यदेहित्वम् वार्द्धकम् च जरा नृणाम् |
स्थूलदृष्ट्या तु पश्यन्ति न तु ते सूक्ष्मदर्शिनः || ३८ ||
निमेषशतभागस्य सहस्राम्शः क्षणो नृप! |
तस्याप्ययुतभागाम्शो भवत्यपचयो नृणाम् || ३९ ||
सूक्ष्मातिसूक्ष्मापचयी भवत्येष पुमान्नृप |
परिणामम् क्रमाद्याति तृप्तिम् वारि पिबन्निव || ४० ||
तदहर्जातबाल्यस्य बालस्यापचयो हि सः |
प्रतिक्षणांशया वृद्धिर्बालत्वम् हीयते तया || ४१ ||
पौगण्डे यौवने चैव वार्द्धके च महामते! |
हानिक्रमः स एवोक्तो यो बाल्ये कथितस्तव || ४२ ||
कान्तिर्या नृप बालस्य पोगण्डस्य हि सा कुतः |
तत्कान्तिसौकुमार्याद्यैः शून्यमेव हि यौवनम् || ४३ ||
कान्त्यादिसम्पदो हानिः परमा नृप! वार्द्धके |
तत्राप्यनुक्षणम् हानिर्हानिरामृत्युतो नृप || ४४ ||
एवम् प्रतिक्षणाम्शाम्शो नॄणामपचयप्रदः |
कुर्वतः किमु कालस्ते महास्नानप्रसाधनम् || ४५ ||
अस्मद्दृष्टो भवान् यावत् प्रविष्टो निजमन्दिरम् |
तावद्धानिमनुप्राप्तः किमु यामार्धसम्स्थितः || ४६ ||
यादृशोऽद्य भवाम्स्तादृक् त्वम् न रूपी नरेश्वर |
परश्वः शस्तनम् नैव चतुर्थेऽह्नि च तन्मयः || ४७ ||
एवम् समस्तभूतानि स्थावराणि चराणि च |
प्रतिक्षणाम्शापचयम् प्राप्नुवन्ति महीतले || ४८ ||
तस्मान्न कौतुकम् कार्यम् भवता तु नरेश्वर |
यत्ते रूपमभूत् पूर्वमप्रसाधितशोभनम् || ४९ ||

इति विष्णुधर्मे आश्वनपुरूरवस्सम्वादो नाम एकोनचत्वारिम्शोऽध्यायः

चत्वारिम्शोऽध्यायः

आश्विनपुरूरवसम्वादोत्तरभागः

पुलस्त्य उवाच –
राजा पुरूरवा भूयः श्रुत्वा वाक्यमिदम् तयोः |
चिन्तयित्वा वचः प्राह सम्वेगोत्कम्पिमानसः || १ ||

राजोवाच –
अहो भवद्भ्याम् कथितमनवस्थितसम्स्थितम् |
स्वरूपम् जगतो देवौ येन त्रस्तोऽस्मि साम्प्रतम् || २ ||
अज्ञानतिमिरान्धानाम् मद्विधानाम् भवद्विधाः |
प्रदीपभूताः सन्देहो विद्यते नात्र कश्चन || ३ ||
सदाऽपचयदोषेण दुष्टकायैः सुरोत्तमौ |
यत्कार्यं पुरुषैस्तच्च कथ्यताम् हितकाम्यया || ४ ||

अश्विनावूचतुः –
अतिमूढोऽध्रुवे काये सदाऽपचयधर्मिणि |
नरस्तदुपभोग्यानि ध्रुवाणि परिमार्गति || ५ ||
आसनम् शयनम् यानम् परिधानम् गृहादिकम् |
वाञ्छत्यहोऽतिमोहेन सुस्थिरम् स्वयमस्थिरः || ६ ||
मूढोऽध्रुवम् ध्रुवमतिः किमात्मानम् न बुध्यते |
बाल्यात् पौगण्डताम् गत्वा यः पुनर्यौवनम् गतः || ७ ||
भुवः शैलम् समारूढः समारूढस्ततो द्रुमम् |
आरोहणम् स किमन्यदृक्षभीतः करिष्यति || ८ ||

च शाखाया मृत्युस्सर्वम् करिष्यति
बाल्यात्पौगण्डताम् यातो यौवनाद्वृद्धताम् गतः |
वयोऽवस्था ततः काऽन्या यद्भोगाय स्थिरेच्छकः || ९ ||

वस्थान्तरम् कार्यो यद्भोगवस्थिरेच्छकः
तस्मादेतन्मनुष्येण विचार्यात्महितैषिणा |
श्रेयस्यामुष्मिके यत्नः कर्तव्योऽहर्निशम् नृप || १० ||
भोगेष्वसक्तिः सततम् तथैवात्मावलोकनम् |
श्रेयः परम् मनुष्याणाम् कपिलः प्राह पार्थिवः || ११ ||
सर्वत्र समदर्शित्वम् निर्ममत्वमसङ्गिता |
श्रेयः परम् मनुष्याणाम् प्राह पञ्चशिखो मुनिः || १२ ||
आगर्भजन्मबाल्यादिवयोऽवस्थादिवेदनम् |
श्रेयः परम् मनुष्याणामङ्गारिष्ठोऽब्रवीन्नृपः || १३ ||
अध्यात्मिकादिदुःखानामत्यन्तादिप्रतिक्रिया |
श्रेयः परम् मनुष्याणाम् जनको ह्याह मोक्षवित् || १४ ||
अभिन्नयोर्भेदकरः प्रत्ययो यः परात्मनोः |
हिरण्यगर्भस्तच्छान्तिम् श्रेयः परममब्रवीत् || १५ ||
कर्तव्यमिति यत्कर्म ऋग्यजुःसामसम्ज्ञितम् |
क्रियते तत्परम् श्रेयो जैगीषव्योऽब्रवीन्मुनिः || १६ ||
हानिम् सर्वविधित्सानामात्मनः सुखहेतुकीम् |
श्रेयः परम् मनुष्याणाम् देवलोऽप्याह तत्त्ववित् || १७ ||
यद्यत् त्यजति कामानाम् तत्सुखस्याभिपूर्यते |
एतदेव परम् श्रेयो विज्ञानम् हितकामिनाम् || १८ ||
कामानुसारी पुरुषः कामान् अनु विनश्यति |
अश्रेयसाम् परम् चैतद् यद्भूपालातिकामिता || १९ ||
एवम् विज्ञाततत्त्वार्थः सनको योगिनाम् वरः |
नरेन्द्र प्राह विप्राणाम् परमार्थपरम्परम् || २० ||
क्रियाकलापफलदमृग्यजुःसामसम्ज्ञितम् |
अमुष्मिन् मध्यमम् श्रेयः प्राहुः सप्तर्षयो नृप || २१ ||
इहैव फलदम् काम्यम् कर्म यत्क्रियते नरैः |
तदाहुरपरम् श्रेयो ऋचीकच्यवनादयः || २२ ||
द्वे कर्मणी नरश्रेष्ठ ब्रह्मणा समुदाहृते |
प्रवृत्त्याख्यम् निवृत्तम् च स्वर्गमुक्तिफले हि ते || २३ ||
प्रवृत्तमपि मोक्षाय कर्म पार्थिव! जायते |
कर्म स्वरूपतो भ्रष्टमनाकाङ्क्ष्य फलम् कृतम् || २४ ||
सामान्यम् चापरम् श्रेयः सर्ववर्णाश्रमेषु यत् |
तच्छृणुष्व महीपाल वदतो मम तत्त्वतः || २५ ||
सत्यम् वक्तव्यम् नित्यम् मैत्रेण भाव्यम्

कार्यम् च त्याज्यम् नित्यमायासकारि |
लोकेऽमुष्मिन् यद्धितम् च तथाऽस्मिम्श्च

तस्मिन्नात्मा योजनीयोऽनुधीरैः || २६ ||
तीर्थस्नानैः सोपवासैरजस्रम् पात्रे दानैर्होमजापैश्च नित्यम् |
शुद्धिर्नेयो देवताभ्यर्चनैश्च शुद्धोऽप्यात्मा सङ्गदोषादशुद्धः || २७ ||
शुद्धम् वस्त्रम् सङ्गदोषादशुद्धम् भूयः शुद्धिम् शोध्यमानम् प्रयाति |
एतज्ज्ञात्वा न प्रमादो मनुष्यैः शुद्धे ह्यात्मन्यात्मविद्भिर्विधेयः || २८ ||

पुलस्त्य उवाच –
इत्युक्त्वा तौ नरेन्द्रम् तौ तेन चार्घ्यादिना पृथक् |
सम्यक् सम्पूजितौ यातौ नाकपृष्ठमथाश्विनौ || २९ ||
स चाप्यनित्यतामेवमवगम्य नरेश्वरः |
निष्कामोऽनुदिनम् यज्ञैरियाज पुरुषोत्तमम् || ३० ||
भोगासङ्गि मनो दाल्भ्य यदासीत् तस्य भूपतेः |
तदेव भगवद्ध्यानपरम् चक्रे महामुने || ३१ ||
तत्याजार्थेषु ममतामहङ्कारम् तथाऽऽत्मनि |
समताम् सर्वभूतेषु सम्प्राप पृथिवीपतिः || ३२ ||
यस्यात्मन्यपि विप्रर्षे नाहम्मानोऽस्ति कुत्रचित् |
मदावलेपो पूपादौ तस्य स्यादिति का कथा || ३३ ||
एवम् दाल्भ्य मनुष्येण समतामनुतिष्ठता |
सर्वभोगेषु सम्त्याज्यो ध्येयश्च पुरुषोत्तमः || ३४ ||
कुत्र तिष्ठति गोविन्दो बाह्यनिवृतचेतसि |
तस्मान्निःसङ्गचित्तेन शक्यश्चिन्तयितुम् हरिः || ३५ ||
प्रीतिद्वेषादयस्त्यक्त्वा महर्षे यस्य चेतसा |
प्रियातिथिस्तद्धृदये विष्णुर्मोक्षफलप्रदः || ३६ ||

इति विष्णुधर्मे आश्विनपुरूरवस्सम्वादोत्तरभागो नाम चत्वारिम्शोऽध्यायः

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.