श्री विष्णुधर्मः अध्यायः 61-70

श्री विष्णुधर्मः अध्यायः 61-70

एकषष्टितमोऽध्यायः

गोप्रदानम्

भगवानुवाच –
लोकाम्स्तु सृजता पूर्वम् गावः सृष्टाः स्वयम्भुवा |
प्रीत्यर्थम् सर्वभूतानाम् तस्मात् ता मातरः स्मृताः || १ ||
तास्तु दत्त्वा सौरभेयीः स्वर्गलोके महीयते |
तस्मात्ता वर्णयिष्यामि दानम् चासाम् यथाविधि || २ ||
यादृशी विधिना येन दातव्या यादृशाय च |
द्विजाय पोषणार्थम् तु होमधेनुकृते न वै || ३ ||
प्रथमा गौरकपिला द्वितीया गौरपिङ्गला |
तृतीया रक्तकपिला चतुर्थी नीलपिङ्गला ||
पञ्चमी शुक्लपिङ्गाक्षी षष्ठी तु शुक्लपिङ्गला |
सप्तमी चित्रपिङ्गाक्षी अष्टमी बभ्रुरोहिणी ||
नवमी श्वेतपिङ्गाक्षी दशमी श्वेतपिङ्गला |
तादृशा येऽप्यनड्वाहः कपिलास्ते प्रकीर्तिताः |
ब्राह्मणो वाहयेत् ताम्स्तु नान्यो वर्णः कदाचन ||
धेनुम् दत्त्वा सुव्रताम् सोपधानाम् कल्याणवत्साम् च पयस्विनीम् च |
यावन्ति रोमाणि भवन्ति धेन्वा दुह्येत कामान्नृप वर्षाणि तावत् || ४ ||
प्रयच्छते यः कपिलाम् सवत्साम् काम्स्योपदोहाम् कनकाग्रशृङ्गीम् |
तैस्तैर्गुणैः कामदुघा हि भूत्वा नरम् प्रदातारमुपैति सा गौः || ५ ||
गोसहस्रम् तु यो दद्यात् सर्वकामैरलङ्कृतम् |
पराम् वृद्धिम् श्रियम् प्राप्य स्वर्गलोके महीयते || ६ ||
दश चोभयतः प्रेत्य मातामहपितामहैः |
गच्छेत् सुकृतिनाम् लोकान् गावो दत्त्वा यथाविधि || ७ ||
दायादलब्धैरर्थैर्यो गवाः क्रीत्वा प्रयच्छति |
तस्यापि चाक्षया लोका भवन्तीह परत्र च || ८ ||
यो वा द्यूतेन धनम् जित्वा क्रीत्वा गावः प्रयच्छति |
स गच्छेद्विरजाम्ल्लोकान् गोप्रदानफलार्जितान् || ९ ||
प्रतिगृह्य तु यो दद्याद्गावः शुद्धेन चेतसा |
स गत्वा दुर्गमम् स्थानममरैः सह मोदते || १० ||
यश्चात्मविक्रयम् कृत्वा गावो दद्याद्यथाविधि |
स गत्वा विरजाम्ल्लोकान्सुखम् वसति देववत् || ११ ||
सङ्ग्रामे यस्तनुम् त्यक्त्वा गावः क्रीत्वा प्रयच्छति |
देहविक्रयमूल्यस्ताः शाश्वताः कामदोहनाः || १२ ||
रूपान्विताः शीलवयोपपन्नाः सर्वाः प्रशस्ता हि सुगन्धवत्यः |
यथा हि गङ्गा सरिताम् वरिष्ठा तथार्जुनीनाम् कपिला वरिष्ठा || १३ ||
अन्तर्जाताः सुक्रयज्ञानलब्धाः प्राणाम्स्त्यक्त्वा सोदकाः सोद्वहाश्च |

तिस्रो रात्रिर्नोपयोज्या हि पात्रा

कृच्छ्रोत्सृष्टाः पोषणीयाभ्युपेता द्वारैरेतैर्गोविशेषा वरिष्ठाः || १४ ||
तिस्रो रात्र्यश्चाप्युपोष्येह दाता तृप्ता गावै तर्पितेभ्यः प्रयच्छेत् |

(तिस्रो रात्रिर्नोपयाज्येह दाता तृप्ता गावो तर्पितेभ्यः प्रयच्छेत्)
वत्सैः पीताः सोपधानास्त्र्यहम् च दत्त्वा गावो गोरसैर्वर्तितव्यम् || १५ ||
लोके ज्येष्ठा लोकवृत्तान्तवृत्ता

वेदैर्गीताः सोमनिष्यन्दभूताः |
सौम्याः पुण्याः कामदाः प्राणदाश्च

गावो दत्त्वा सर्वदा सन्ति सन्तः || १६ ||
न चैवासाम् दानमात्रम् प्रशस्तम् पात्रम् कालो गोविशेषो विधिश्च |
दृष्ट्वा गावः पावकादित्यभूताः स्वाध्यायाढ्ये पात्रवर्ये विशिष्टे || १७ ||
वैतानस्थम् सत्यवाक्यम् कृतज्ञम् गोषु क्षान्तम् गोशरण्यम् सुवृत्तम् |
शस्तम् पात्रम् गोप्रदानस्य भूमेः तथा सुवर्णस्य च सर्वकालम् || १८ ||
(भिक्षादानम् चाधिकम् सम्प्रशस्तम् पाथोदानम् चान्नदानम् तथा च |)
भिक्षते बहुभृत्याय श्रोत्रियायाहिताग्नये |
दातव्या गौः प्रयत्नेन एकाऽप्यतिफला हि सा || १९ ||
ताम् चेद्विक्रीणते राजन् वचसा कलुषीकृताम् |
नासौ प्रशस्यते विप्रो ब्राह्मणो नैव स स्मृतः || २० ||
तस्याधर्मप्रवृत्तस्य लुब्धस्यानृतवादिनः |
हव्यकव्यव्यपेतस्य न देया गौः कथञ्चन || २१ ||
जीर्णाम् चैवोपभुक्ताम् च जरत्कूपमिवाफलाम् |
तमः प्रविशते दाता द्विजम् क्लेशेन योजयन् || २२ ||
दुष्टाः कृशाश्चैव पालयतीश्च नैतादृशा दानयोग्या भवन्ति |
क्लेशैर्विप्रम् योऽफलैः सम्युनक्ति गच्छेत् स तिर्यग्विफलाम्श्च लोकान् || २३ ||
अनड्वाहम् सुव्रतम् यो ददाति हलस्य वोढारमनन्तवीर्यम् |
युगन्धरम् बलवन्तम् युवानम् प्राप्नोति लोकान् दशधेनुदस्य || २४ ||
प्रयच्छते यः पुरुषो द्विजाय स्वाध्यायचारित्रगुणान्विताय |
बलेन युक्तम् वृषभम् तु नीलम् षडाङ्गवम् प्रीतिकरम् सुरूपम् || २५ ||
युवानम् बलिनम् श्यामम् हलेन सह यूथपम् |
गवेन्द्रम् ब्राह्मणेन्द्राय भूरिशृङ्गमलङ्कृतम् || २६ ||
वृषभम् ये प्रयच्छन्ति श्रोत्रियायाहिताग्नये |
(ते गत्वा तद्गवाम् लोकम् देवलोकान्महत्तरम् |
तत्र स्थित्वा तु सुचिरम् सर्वकामैः सुतर्पिताः |)
ऐश्वर्ये तेऽभिजायन्ते जायमानाः पुनः पुनः || २७ ||
सदक्षिणाम् काञ्चनरूप्यशृङ्गीम् काम्स्योपदोहाम् कनकोत्तरीयाम् |
धेनुम् तिलानाम् कनकोत्तरीयाम् लोका वसूनामचला भवन्ति || २८ ||
तिलालाभे तु यो दद्याद् घृतधेनुम् यतव्रतः |
स दुर्गात्तारितो धेन्वा ब्रह्मलोके महीयते || २९ ||
घृतालाभे तु यो दद्याज्जलधेनुम् यतव्रतः |
स सर्वम् तरते दुर्गम् जलम् दिव्यम् समश्नुते || ३० ||
ब्राह्मणश्चैव गावश्च कुलमेकम् द्विधाकृतम् |
एकत्र मन्त्रास्तिष्ठन्ति हविरेकत्र तिष्ठति || ३१ ||
उपगम्य तु यो दद्याद्गावः शुद्धेन चेतसा |
यावन्ति तासाम् रोमाणि तावत् स्वर्गे महीयते || ३२ ||
शृणु त्वम् मे गवाम् लोका यादृशो यत्र वा स्थिताः |
मनोज्ञा रमणीयाश्च सर्वकामदुघाः सदा || ३३ ||
पुण्याः पापहराश्चैव गवाम् लोका न सम्शयः |
अत्यन्तसुखिनस्तत्र सर्वपापविवर्जिताः || ३४ ||
प्रमोदन्ते महास्थाने नरा विगतकल्मषाः |
ते व्रजन्ते विमानेषु ग्रहा दिविगता इव || ३५ ||
एवम् यैर्दत्तसत्काराः सुरभ्यश्चार्चिताः सदा |
कामरूपा महात्मानः पूता विगतकिल्बिषाः || ३६ ||
तुल्यप्रभावा देवैस्ते मोदन्तेऽप्सरसाम् गणैः |
गन्धर्वैरुपगीयन्ते गोशरण्या न सम्शयः || ३७ ||
ब्रह्मण्याः साधुवृत्ताश्च दयावन्तोऽनुकम्पिनः |
घृणिनः शुभकर्मणो मोदन्ते तेऽमरैः सह || ३८ ||
यथैव सलिले मत्स्यः सलिलेन सहोह्यते |
गोभिः पापकृतम् कर्म दृढमेव मयोह्यते || ३९ ||
मातरः सर्वभूतानाम् प्रजासम्रक्षणे स्मृताः |
ब्रह्मणा लोकसारेण गावः पापभयापहाः || ४० ||
तासु दत्तासु राजेन्द्र! किम् न दत्तम् भवेदिह |
कृशाय तु विशेषेण वृत्तिग्लानाय सीदते || ४१ ||

इति विष्णुधर्मे गोप्रदानम् नाम एकषष्टितमोऽध्यायः

   

द्विषष्टितमोऽध्यायः

भूमिदानमतुलफलम्

भगवानुवाच –
भूदानेन समम् दानम् न भूतम् न भविष्यति |
इति धर्मविदः प्राहुस्तन्मे निगदतः शृणु || १ ||
षष्टिम् वर्षसहस्राणि स्वर्गे वसति भूमिदः |
आच्छेत्ता चानुमन्ता च तान्येव नरके वसेत् || २ ||
अतिदानम् तु सर्वेषाम् भूमिदानमिहोच्यते |
अचला ह्यक्षया भूमिः सर्वान् कामान् प्रयच्छति || ३ ||
भूमिदः स्वर्गमारुह्य शाश्वतीरेधति समाः |
पुनश्च जन्म सम्प्राप्य भवेद्भूमिपतिर्ध्रुवम् || ४ ||
यथा भूमिः सदा देवी दातारम् कुरुते पतिम् |
एवम् सदक्षिणा दत्ता कुरुते गौर्जनाधिपम् || ५ ||
अपि पापकृतम् प्राप्य प्रतिगृह्णीत भूमिदम् |
महीम् ददन् पवित्री स्यात्पुण्या हि जगती यतः || ६ ||
नाम वै प्रियदत्तेति गुह्यमेतत् सनातनम् |
तदस्याः सततम् प्रीत्यै कीर्तनीयम् प्रयच्छता || ७ ||
यत्किञ्चित् कुरुते पापम् पुरुषो वृत्तिकर्षितः |
अपि गोचर्ममात्रेण भूमिदानेन शुध्यति || ८ ||
सुवर्णम् रजतम् ताम्रम् मणिमुक्तावसूनि च |
सर्वानेतान् महाप्राज्ञ ददाति वसुधाम् ददन् || ९ ||
तपो यज्ञाः श्रुतम् शीलमलोभः सत्यवादिता |
गुरुदैवतपूजा च नातिक्रामन्ति भूमिदम् || १० ||
भर्तुर्निःश्रेयसे युक्तास्त्यक्तात्मानो रणे हताः |
ब्रह्मलोकगताः सन्तो नातिक्रामन्ति भूमिदम् || ११ ||
फलकृष्टाम् महीम् दत्त्वा सोदकाम् सफलान्विताम् |
सोदकम् वापि शरणम् प्राप्नोति मम सम्पदम् || १२ ||
रत्नोपकीर्णाम् वसुधाम् यो ददाति द्विजातये |
मुक्तः स कलुषैः सर्वैः स्वर्गलोके महीयते || १३ ||
इक्षुभिः सन्तताम् भूमिम् यवगोधूमशाड्वलाम् |
ये प्रयच्छन्ति विप्रेभ्यो नोपसर्पन्ति ते यमम् || १४ ||
सर्वकामदुघाम् धेनुम् सर्वसस्यसमुद्भवाम् |
यो ददाति द्विजेन्द्राय ब्रह्मलोकम् स गच्छति || १५ ||
भूमिदानम् नरः कुर्वन् मुच्यते महतो भयात् |
न भूयो भूमिदानाद्धि दानमन्यद्विशिष्यते || १६ ||
पुण्याम् सर्वरसाम् भूमिम् यो ददाति नरर्षभ! |
न तस्य लोकाः क्षीयन्ते भूमिदस्य महात्मनः || १७ ||
यथा जनित्री पुष्णाति क्षीरेण स्वसुतम् नृप |
एवम् सर्वगुणा भूमिर्दातारमनुपुष्यति || १८ ||
अग्निष्टोमादिभिर्यज्ञैरिष्ट्वा विपुलदक्षिणैः |
न तत्फलम् अवाप्नोति यद्दत्त्वा वसुधाम् नृप || १९ ||
मृत्योर्हि किङ्करा दण्डा ह्यग्नितापाः सुदारुणाः |
घोराश्च वारुणाः पाशा नोपसर्पन्ति भूमिदम् || २० ||
पितरः पितृलोकस्था देवलोके दिवौकसः |
सन्तर्पयन्ति दातारम् भूमेः प्रभवताम् वर! || २१ ||
कृशाय कृशभृत्याय वृत्तिक्षीणाय सीदते |
भूमिम् वृत्तिकारीम् दत्त्वा सत्त्री भवति मानवः || २२ ||
सिम्हासनम् तथा च्छत्त्रम् वराश्वा वरवारणाः |
भूमिदानस्य पुष्पाणि फलम् तेजसा दिवि मानवाः || २३ ||

भूमिदः स्वर्गमारुह्य शाश्वतीरेधते समाः |

पुनश्च जन्म सम्प्राप्य भवेत्भूमि पतिर्धृवम्
आदित्या इव दीप्यन्ते तेजसादिविमानवाः |
ये प्रयच्छन्ति वसुधाम् ब्राह्मणायाहिताग्नये || २४ ||
यथा बीजानि रोहन्ति प्रकीर्णानि महीतले |
तथा कामाधिरोहन्ति भूमिदानगुणार्जिताः || २५ ||
आस्फोटयन्ति पितरः प्रवल्गन्ति पितामहाः |
भूमिदो नः कुले जातः स नः सन्तारयिष्यति || २६ ||
आदित्या वसवो रुद्रा ह्यश्विनौ वसुभिः सह |
शूलपाणिश्च भगवानभिनन्दन्ति भूमिदम् || २७ ||
स नः कुलस्य पुरुषः स नो बन्धुः स नो गतिः |
स दाता स च विक्रान्तो यो ददाति वसुन्धराम् || २८ ||
दातारमनुगृह्णाति यथा दत्तेन रोचते |
पूर्वदत्ताम् हरन् भूमिम् नरकायोपपद्यते || २९ ||
विन्ध्याटवीष्वतोयासु शुष्ककोटरवासिनः |
कृष्णसर्पा हि जायन्ते ये हरन्ति वसुन्धराम् || ३० ||
पतन्त्यश्रूणि रुदताम् दीनानामवसीदताम् |
ब्राह्मणानाम् हृतम् क्षेत्रम् हन्यात्त्रिपुरुषम् कुलम् || ३१ ||

हृते क्षेत्रे हव्यादासप्तमम् कुलम्

ददद्धि भूमिम् साधुभ्यो विन्दते भूमिमुत्तमाम्

पूर्वदत्ताम् द्विजातिभ्यो यत्नाद्रक्ष युधिष्ठिर
साधुभ्यो भूमिमाक्षिप्य न भूतिम् विन्दते क्वचित् || ३२ ||
दत्त्वा हि भूमिम् साधुभ्यो यत्नाद्रक्ष युधिष्ठिर |
महीम् महीभृताम् श्रेष्ठ दानाच्छ्रेयोऽनुपालनम् || ३३ ||
यत्रैषः पठ्यते श्राद्धे भूमिदानस्य सम्स्तवः |
न तत्र रक्षसाम् भागो नासुराणाम् कथञ्चन || ३४ ||
अक्षयम् तु भवेच्छ्राद्धम् पितॄणाम् नात्र सम्शयः |
तस्माद्विश्रावयेदेनम् श्राद्धेषु ब्राह्मणान् सदा || ३५ ||
एवमेतद्यथोद्दिष्टम् पितॄणाम् दत्तमक्षयम् |
भूमिदानम् महाराज सर्वपापापहम् शुभम् || ३६ ||

इति विष्णुधर्मे भूमिदानमतुलफलम् नाम द्विषष्टितमोऽध्यायः

   

त्रिषष्टितमोऽध्यायः

ङ्ग्रामप्रशम्सा

भगवानुवाच –
अग्निष्टोमादिभिर्यज्ञैरिष्ट्वा विपुलदक्षिणैः |
न तत्फलमवाप्नोति सङ्ग्रामे यदवाप्नुयात् || १ ||
इति यज्ञविदः प्राहुर्यज्ञकर्मविशारदाः |
तस्मात्तत्ते प्रवक्ष्यामि यत्फलम् शस्त्रजीविनाम् || २ ||
धर्मलाभोऽर्थलाभश्च यशोलाभस्तथैव च |
यः शूरो वध्यते युद्धे विमृदन् परवाहिनीम् |
तस्य धर्मार्थकामाश्च यज्ञाश्चैवाप्तदक्षिणाः || ३ ||
परम् ह्यभिमुखम् हत्वा तद्यानम् योऽधिरोहति |
विष्णुक्रान्तम् स यजत एवम् युध्यन् रणाजिरे |
अश्वमेधानवाप्नोति चतुरस्तेन कर्मणा || ४ ||
यस्तु शस्त्रमनुत्सृज्य वीर्यवान् वाहिनीमुखे |
सम्मुखो वर्तते शूरः स स्वर्गान्न निवर्तते || ५ ||
राजानम् राजपुत्रम् वा सेनापतिमथापि वा |
हन्यात् क्षत्रेण यः शूरस्तस्य लोकोऽक्षयो ध्रुवः || ६ ||
यावन्ति तस्य शस्त्राणि भिन्दन्ति त्वचमाहवे |
तावतो लभते लोकान् सर्वकामदुघोऽक्षयान् || ७ ||
वीरासनम् वीरशय्या वीरस्था स्थिरा नस्थितिः स्थिरा |

शय्याम् धीरस्थानम् स्थितिम् स्थिराम्
गवार्थे ब्राह्मणार्थे वा स्वाम्यर्थे तु कृतम् च यैः |
ते गच्छन्त्यमलम् स्थानम् यथा सुकृतिनस्तथा || ८ ||
अभग्नम् यः परम् हन्याद्भग्नम् च परिरक्षति |
यस्मिन्स्थिते पलायन्ति सोऽपि प्राप्नोति स्वर्गतिम् || ९ ||
ऊर्ध्वं तिर्यक् च यश्चार्वाक् प्राणान् सन्त्यजते युधि |

गुणस्थितश्चशखस्तवान्
हताश्वश्च पतेद्युद्धे स स्वर्गान्न निवर्तते || १० ||
यस्य चिह्नीकृतम् गात्रम् शरशक्त्यृटतोमरैः |
देवकन्यास्तु तम् वीरम् रमयन्ति रमन्ति च || ११ ||
वराप्सरः सहस्राणि शूरमायोधने हतम् |
त्वरितान्यभिधावन्ति मम भर्ता ममेति च || १२ ||
हतस्याभिमुखस्याजौ पतितस्यानिवर्तिनः |
ह्रियते तत्परैर्द्रव्यम् नरमेधफलम् तु तत् || १३ ||
भूयो गतिम् प्रवक्ष्यामि रणे येऽभिमुखा हताः |
शक्यम् त्विह समृद्धैस्तु यष्टुम् क्रतुशतैर्नरैः || १४ ||
आत्मदेहम् तु विप्रार्थे त्यक्तुम् युद्धे सुदुष्करम् || १५ ||
याम् यज्ञसन्घैस्तपसा च विप्राः स्वर्गैषिणस्तत्र च यैः प्रयान्ति |
क्षणेन तामेव गतिम् प्रयान्ति महाहवे स्वाम् तनुम् सन्त्यजन्तः || १६ ||
सर्वांश्च वेदान् सह षड्भिरङ्गैः सा न् ख्यम् च योगम् च वने च वासम् |

इमाम् गिरम् चित्रपदाम् शुभाक्षरम् सुभाषिताम् वृतभिदाम् दिवौकसाम् || १७ ||
चमूमुखे यः स्मरते दृढस्मृतिर् न हन्यते हन्ति च सोऽरणे रिपून् || १८ ||
एष पुण्यतमः स्वर्ग्यः सुयज्ञः सर्वतोमुखः |
सर्वेषामेव वर्णानाम् क्षत्रियस्य विशेषतः || १९ ||
भूयश्चैव प्रवक्ष्यामि भीष्मवाक्यमनुत्तमम् |
यादृशाय प्रहर्तव्यम् यादृशम् परिवर्जयेत् || २० ||
आततायिनमायान्तमपि वेदान्तगम् रणे |
जिघाम्सन्तम् जिघाम्सीयान्न तेन ब्रह्महा भवेत् || २१ ||
हताश्वश्च न हन्तव्यः पानीयम् यश्च याचते |
व्याधितो दुर्बलश्चैव रथहीनस्तथैव च || २२ ||
भग्नधन्वा च्छिनगुणः प्राणेप्सुः कृपणम् ब्रुवन् |
विमुक्तकेशो धावेद्यो यश्चोन्मत्ताकृतिर्भवेत् || २३ ||
पर्णशाखातृणग्राही तवास्मीति च यो वदेत् |
ब्राह्मणोऽस्मीति यश्चाहम् बालो वृद्धो नपुम्सकः || २४ ||
तस्मादेतान् परिहरेद्यथोद्दिष्टान् रणाजिरे |
हतो न हन्यते सद्भिर्हता अपि हि भीरवः || २५ ||

इति विष्णुधर्मे सङ्ग्रामप्रशम्सा तत्र अहन्तव्याश्च नाम त्रिषष्टितमोऽध्यायः

   

चतुष्षष्टितमोऽध्यायः

अमाम्भक्षणम्

भगवानुवाच –
अमाम्सभक्षणे राजन् यो धर्मः कुरुपुङ्गव |
तन्मे शृणु यथातथ्यम् यश्चास्य विधिरुत्तमः || १ ||
मासि मास्यश्वमेधेन यो यजेत शतम् समाः |
न च खादति यो माम्सम् सममेतद्युधिष्ठिर || २ ||
सदा यजति सत्त्रेण सदा दानम् प्रयच्छति |
सदा तपस्वी भवति मधुमाम्सविवर्जनात् || ३ ||
सर्ववेदा न तत्कुर्युः सर्वदानानि चैव हि |
यो माम्सरसमास्वाद्य सर्वमाम्सानि वर्जयेत् || ४ ||
(दुष्करम् हि रसज्ञेन माम्सस्य परिवर्जनम् |)
चतुर्व्रतमिदम् श्रेष्ठम् प्राणिनाम् मृत्युभीरुणाम् || ५ ||
तदा भवति लोकेऽस्मिन् प्राणिनाम् जीवितैषिणाम् |
विश्वास्यश्चोपगम्यश्च न हि हिम्सारुचिर्यदा || ६ ||
दुष्टराम्स्तरते ….. माम्सस्य परिवर्जनात् |
प्राणा यथात्मनोऽभीष्टा भूतानामपि ते तथा |
आत्मौपम्येन गन्तव्यम् बुद्धिमद्भिर् महात्मभिः || ७ ||
अहिंसा परमो धर्मः सत्यमेव च पाण्डव |
अहिम्सा चैव सत्यम् च धर्मो हि परमः स्मृतः || ८ ||
न हि माम्सम् तृणात् काष्ठादुपलाद्वापि जायते |
जीवादुत्पद्यते माम्सम् तस्माद्गर्हन्ति तद्बुधाः |

(हत्वा जन्तून् भवेत् माम्सम् तस्मात्तदुपवर्जयेत् |)
यदि वै खादको न स्यान्न तदा घातको भवेत् || ९ ||
लोभाद्वा बुद्धिमोहाद्वा यो माम्सान्यत्ति मानवः |
निर्घृणः स हि मन्तव्यः सद्धर्मपरिवर्जितः || १० ||
स्वमाम्सम् परमाम्सेन यो वर्धयितुमिच्छति |
उद्विग्नवासे वसति यत्रतत्राभिजायते || ११ ||
धनेन क्रायको हन्ति उपभोगेन खादकः |
घातको वधबन्धाभ्यामित्येष त्रिविधो वधः || १२ ||
भक्षयित्वा तु यो माम्सम् पश्चादपि निवर्तते |
तस्यापि सुमहान् धर्मो यः पापाद्विनिवर्तते ||
(वरमेकस्य सत्त्वस्य दद्यादक्षयदक्षिणाम् |
न तु विप्रसहस्रस्य गोसहस्रम् सकाञ्चनम् |
यो दद्यात् काञ्चनम् मेरुम् कृत्स्नाम् वापि वसुन्धराम् |
अभक्षणम् च माम्सस्य न तु तुल्यम् युधिष्ठिर |)
इदमन्यत् प्रवक्ष्यामि पुराणमृषिनिर्मितम् || १३ ||
श्रूयते च पुराकल्पे ऋषीणाम् व्रीहयः पशुः |
यजन्ते येन वै यज्ञान् ऋषयः पुण्यकर्मिणः || १४ ||
ऋषिभिः सम्शयम् पृष्टो वसू राजा ततः पुरा |
अभक्ष्यम् भक्ष्यमिति वै माम्समाह नराधिप || १५ ||
आकाशान्मेदिनीम् प्राप्तस्ततः स पृथिवीपतिः |
एतदेव पुनश्चोक्त्वा विवेश धरणीतलम् || १६ ||
कौमुदम् तु विशेषेण शुक्लपक्षे नराधिप |
वर्जयेत् सर्वमाम्सानि धर्मो ह्यत्र विधीयते || १७ ||
चतुरो वार्षिकान् मासान् यो माम्सम् परिवर्जयेत् |
चत्वारि भद्राण्याप्नोति कीर्तिरायुर्यशो बलम् || १८ ||
अप्येकमिह यो मासम् सर्वमाम्सानि वर्जयेत् |
अतीत्य सर्वदुःखानि सुखम् जीवेन्निरामयः || १९ ||
यो हि वर्षशतम् पूर्णम् तपस्तप्येत् सुदारुणम् |
अप्येकम् वर्जयेन्मासम् माम्समेतत्समम् मतम् || २० ||
यो वर्जयति माम्सानि मासम् पक्षमथापि वा |
स वै हिम्सानिवृत्तस्तु ब्रह्मलोके महीयते || २१ ||
सर्वकालम् तु माम्सानि वर्जितानि महर्षिभिः |
मन्वा क्षुपेण श्वेतेन तथैवेक्ष्वाकुणापि च || २२ ||
भृगुणा नलरामाभ्याम् दिलीपरघुपौरवैः |
आयुषा चैव गार्ग्येण जनकैश्चक्रवर्तिभिः || २३ ||
धुन्धुमाराम्बरीषाभ्याम् नहुषेण च धीमता |
गाधिना पुरुकुत्सेन कुरुणा पुरुणा तथा || २४ ||
मुचुकुन्देन मान्धात्रा सगरेण महात्मना |
शिबिना चाश्वपतिना वीरसेनादिभिस्तथा || २५ ||
सन्जयेनाथ भीष्मेण पुष्करेणाथ पाण्डुना |
सुवर्णष्ठीविना चैव दुष्यन्तनृगरोहितैः || २६ ||
एतैश्चान्यैश्च बहुभिः सर्वैर्माम्सम् न भक्षितम् |
शरत्कौमुदिकम् मासम् ततः स्वर्गम् गता नृपाः |
सर्वकामसमृद्धास्ते वसन्ति दिवि सम्स्थिताः || २७ ||
ब्रह्मलोके च पूज्यन्ते ज्वलमानाः श्रियावृताः |
उपास्यमाना गान्धर्वैः स्त्रीसहस्रसमन्विताः || २८ ||
तदेवमुत्तमम् धर्ममहिम्सालक्षणम् शुभम् |
ये रक्षन्ति महात्मानो नाकपृष्ठे वसन्ति ते || २९ ||
मधु माम्सम् च ये नित्यम् वर्जयन्तीह मानवाः |
जन्मप्रभृति मद्यम् च सर्वे ते मुनयः स्मृताः || ३० ||
आपन्नश्चापदो मुच्येद्बद्धो मुच्येत बन्धनात् |
व्याधितो मुच्यते रोगाद् दुःखान्मुच्येत दुःखितः || ३१ ||
यश्चैनम् पठते नित्यम् प्रयत्नाद्भरतर्षभ |
घोरम् सन्तरते दुर्गम् स्वर्गवासम् च विन्दति |

तिर्यग्योनिम् न गच्छेच्च रूपवाम्श्चैव जायते || ३२ ||
एतत्ते कथितम् राजन् माम्सस्य परिवर्जनम् |
प्रवृत्तौ च निवृत्तौ च प्रमाणमृषिसत्तमैः || ३३ ||

इति विष्णुधर्मे अमाम्सभक्षणम् नाम चतुष्षष्टितमोऽध्यायः

   

पञ्चषष्टितमोऽध्यायः

दण्डनीतिः

शौनक उवाच –
गोब्राह्मणहितार्थाय चातुर्वर्ण्यहिताय च |
अशिष्टनिग्रहार्थाय शिष्टानाम् रक्षणाय च |
युधिष्ठिरस्य राजर्षेरेवम् नारायणोऽब्रवीत् || १ ||

भगवान् उवाच –
पञ्च रूपाणि राजानो धारयन्त्यमितौजसः |
अग्नेरिन्द्रस्य सोमस्य यमस्य वरुणस्य च || २ ||
तान्न हिम्सेन्न चाक्रोशेन्नाक्षिपेन्नाप्रियम् वदेत् |
देवा मानुषरूपेण चरन्ति पृथिवीमिमाम् || ३ ||
इन्द्रात् प्रभुत्वम् ज्वलनात् प्रतापम्

क्रौर्यम् यमाद् वैश्रवणात् प्रभावम्
सत्त्वस्थितिम् रामजनार्दनाभ्याम्

आदाय राज्ञः क्रियते शरीरम् || ४ ||
न चापि राजा मन्तव्यो मनुष्योऽयमिति प्रभो |
महती देवता ह्येषा नररूपेण तिष्ठति || ५ ||
स्वयमिन्द्रो नरो भूत्वा पृथिवीमनुशासति |
न हि पालयितुम् शक्तो मनुष्यः पृथिवीमिमाम् || ६ ||
यत् प्रजापालनैः पुण्यम् प्राप्नुवन्तीह पार्थिवाः |
न तत् क्रतुसहस्रेण प्राप्नुवन्ति द्विजोत्तमाः || ७ ||
अधीतहुततप्तस्य कर्मणः सुकृतस्य च |
षष्ठम् लभति भागम् तु प्रजा धर्मेण पालयन् || ८ ||
ग्रामाधिपत्यम् नगराधिपत्यम् देशाधिपत्यम् पृथिवीपतित्वम् |
न प्राप्नुवन्तीह मनुष्यमात्रा ये देवतानाम् न भवन्ति भागाः || ९ ||
न तदस्ति व्रतम् लोके यद्राज्ञश्चरितोपमम् |
न तद्वेदरहस्यम् वा यद्राज्ञः फलतोऽधिकम् |
एवम् वृत्तास्तु राजानो देवभागा न मानुषाः || १० ||
चतुर्वेद्यम् हुतन्च न यो हिम्सेत नराधिपः |
दण्डस्यैते भयाद्भीता न खादन्ति परस्परम् |

तस्मात्  सर्वप्रयत्नेन राजा दण्डम् प्रकल्पयेत् ||
दण्डभयात्के न कुर्वन्ति हि पानेकम् |
यमदण्डभयादन्ये न कुर्वन्ति परस्परम् |
नाभीतो यजते कश्चिन्नभीतो दण्डमिच्छति |
य एव देवा हन्तारस्ताम्ल्लोकोऽर्चयते भृशम् |
हन्ता शक्रश्च रुद्रश्च हन्ता वैश्रवणो यमः |
वरुणो वायुरादित्यः पर्जन्योऽग्निर्बृहस्पतिः || ११ ||
(एतान् देवान्नमस्यन्ति प्रतापप्रणता जनाः |
न ब्रह्माणम् न धातारम् न पूषाणम् कथञ्चन || १२ ||)
दण्डग्रस्तम् जगत्सर्वम् वश्यत्वमनुगच्छति |
नायम् क्लीबस्य लोकोऽस्ति न परः पार्थिवोत्तम || १३ ||
न हि पश्यामि जीवन्तम् राजन् कञ्चिदहिम्सया |
उदके जन्तवो नित्यम् पृथिव्याम् च फलेषु च |
न हत्वा लिप्यते राजा प्रजा धर्मेण पालयन् || १४ ||

(वृकवत् क्षपयेयुश्च यो यस्य बलवत्तरः |

तस्मात्प्राणिहिते दण्डे हिम्सादोषो न बाधते || १५ ||)
यदि दण्डो न विद्येत दुर्विनी तास्ततो नराः
हन्युः पशुम् मनुष्याम्श्च यज्ञियानि हवीम्षि च
नैवोष्ट्रा न बलीवर्दा नाश्वाश्वतरगर्दभाः |
युक्ताः वहेयुर्यानानि दण्डश्चेन्नोद्यतो भवेत् || १६ ||
सत्यम् किलैतद्यदुवाच शक्रो दण्डः प्रजा रक्षति साधुवृत्तः |
यस्याग्नयः प्रतिमासस्य भीताः सन्तर्जिताः दण्डभयाज्ज्वलन्ति || १७ ||
यत्र श्यामो लोहिताक्षो दण्डश्चरति पापहा |
प्रजास्तत्र न मुह्यन्ते नेता चेत् साधु पश्यति || १८ ||
दण्डनीतौ सुनीतायाम् सर्वे सिध्यन्त्युपक्रमाः |
दण्डश्चेन्न प्रवर्तेत विनश्येयुरिमाः प्रजाः || १९ ||
वृकवद्भक्षयेयुश्च यो यस्य बलवत्तरः |
काकाद्याश्च पुरोडाशम् श्वा चैवावलिहेद्धविः || २० ||
स्वाम्यम् च न स्यात् कस्मिम्श्चित् प्रवर्तेताधरोत्तरम् |
चातुर्वर्ण्यविमोक्षाय दुर्विनीतभयाय च || २१ ||
दण्डेन नियतो लोके धर्मस्थानम् च रक्षति |
सर्वो दण्डजितो लोको दुर्लभो हि शुचिर्जनः || २२ ||
दण्डस्य हि भयाद्भीता नरास्तिष्ठन्ति शासने |
तिऽपि भोगाय कल्पन्ते दण्डेनोपरि पीडिताः || २३ ||
गुरुरात्मवताम् शास्ता शास्ता राजा दुरात्मनाम् |
इह प्रच्छन्नपापानाम् शास्ता वैवस्वतो यमः || २४ ||
पापानामथ मूढानाम् परद्रव्यापहारिणाम् |
परदाररता ये च ये च पातकसम्ज्ञिताः |
तेषाम् तु शासनार्थाय मयैतत् समुदाहृतम् || २५ ||
ब्राह्मण्यम् दुष्करम् ज्ञात्वा तस्य दण्डम् निपातयेत् |
कर्मानुरूपो दण्डः स्याद्गोहिरण्यादिको भवेत् |
अवध्यो ब्राह्मणो राजन् स्त्री वृद्धो बाल एव च || २६ ||
यश्चरेदशुभम् कर्म पापम् राजविगर्हितम् |
पातकेषु च वर्तेत निग्रहम् तस्य कारयेत् || २७ ||
शिरसो मुण्डनम् कृत्वा गोमयेनानुलेपयेत् |
खरयानेन नगरम् डिण्डिमेन तु भ्रामयेत् |
राजनिर्दिष्टदण्डस्य प्रायश्चित्तम् न विद्यते || २८ ||
एष ते कथितो दण्डो ब्राह्मणस्य युधिष्ठिर |
क्षत्रियस्य तु यो दण्डस्तम् वक्ष्याम्यानुपूर्वशः || २९ ||
परद्रव्यादिहरणे परदाराभिमर्दने |
पातकेषु च सर्वेषु यो हि वर्तेत क्षत्रियः |
तस्य दण्डम् प्रवक्ष्यामि तन्मे निगदतः शृणु || ३० ||
हस्तपादपरिच्छेदम् कर्णनासावकर्तनम् |
सर्वस्वहरणम् कृत्वा परराष्ट्राय प्रेषयेत् || ३१ ||
राज्यम् काङ्क्षेत यो मूढो राजपत्नीमथापि वा |
शरैस्तु राजा विध्येत शक्तिचक्रगदादिभिः  || ३२ ||
क्षत्रियस्य तु दुष्टस्य दण्ड एष विधीयते |
वैश्यस्यापि च यो दण्डस्तम् प्रवक्ष्यामि भारत |
पातकेष्वेव क्रूरेषु यस्तु वैश्यः प्रवर्तते |
परदारे परद्रव्ये तस्य निग्रहमादिशेत् || ३४ ||
शूलायाम् भेदनम् तस्य वृक्षशाखावलम्बनम् |
एतद्वैश्यस्य निर्दिष्टम् शूद्रस्याप्यनुपूर्वशः || ३५ ||
शूले शूद्रस्य यो दुष्टस्तस्यैकस्य वधः स्मृतः |
कुञ्जरेणाभिमर्देत मीनीयामथ पाचयेत् |

र्देन सीतायामथ वापयेत् रावीयामथवा पयेत्
एतच्छूद्रस्य निर्दिष्टम् नान्यो दण्डो विधीयते || ३६ ||
नैकस्यार्थे कुलम् हन्यान्न राष्ट्रम् न च ग्रामकम् |
(धनलोभान्न मोक्तव्यो रागाद्वा शासनम् विना |)
एकम् सुशिक्षितम् कृत्वा शेषम् कोशम् प्रवेशयेत् || ३७ ||

शौनक उवाच –
युधिष्ठिरस्य राजर्षेरेवम् नारायणोऽब्रवीत् |
समासेन यथान्यायम् दण्डनीतिमनुत्तमाम् || ३८ ||
उत्तमाधमकार्येषु समेषु विषमेषु च |
राजधर्माम्स्तु पश्येत विष्णुना समुदाहृतान् || ३९ ||

इति विष्णुधर्मे दण्डनीतिर्नाम पञ्चषष्टितमोऽध्यायः

षट्षष्टितमोऽध्यायः

चण्डालयुधिष्ठिरम्वादः

शौनक उवाच –
एतान् धर्माञ्जगन्नाथः पाण्डुपुत्राय पृच्छते |
जगाद पुरुषव्याघ्र किमन्यच्छ्रोतुमिच्छसि || १ ||

शतानीक उवाच –
भगवन् वहताम् भक्तिम् देवदेवे जनार्दने |
यत्फलम् कथितम् तज्ज्ञैस्तन्मे विस्तरतो वद || २ ||

शौनक उवाच –
यत्फलम् वहताम् भक्तिमच्युते भवति प्रभो |
न तद्वर्णयितुम् शक्यम् हरिः सर्वेप्सितप्रदः || ३ ||
यादृक् सत्त्वम् मनुष्याणाम् तादृगाराध्य केशवम् |
फलमिच्छन्ति तादृक् च लभ्यते तैर्नरेश्वर || ४ ||
मुक्तिकामा नरा मुक्तिम् स्वर्गम् देवत्वमीप्सवः |
गन्धर्वयक्षसिद्धानाम् वृण्वन्त्यन्ये सलोकताम् || ५ ||
वर्षेष्वभीप्सवो विष्णुम् पातालेषु तथापरे |
भोगान् अभीप्सवो विष्णुम् तोषयण्ति नराधिप || ६ ||
तथापरे नरैश्वर्यमारोग्यम् गुणवद्भुवि |
प्रार्थयन्त्यच्युतम् देवमाराध्य जगतो गतिम् || ७ ||
धर्मोपदेशवेलायाम् वहन् भक्तिम् जनार्दने |
सशरीरो गतः स्वर्गम् धर्मपुत्रो युधिष्ठिरः || ८ ||
तथैव जनकः कृष्णे विनिवेश्य स्वमानसम् |
अवाप परमाम् सिद्धिम् वसुः प्रायात् त्रिविष्टपम् || ९ ||
अन्ये च ये ये मुनयो ये ये च वसुधाधिपाः |
अवापुरतुलान् कामाम्स्ते ते सन्तोष्य केशवम् || १० ||
अनाराध्य जगन्नाथम् सर्वपापहरम् हरिम् |
सद्गतिः केन सम्प्राप्ता भोगाश्चापि मनोरमाः || ११ ||
द्रौणिब्रह्मास्त्रनिर्दग्धस्तव राजन् पितामहः |
विष्णोः कार्यमनुष्यस्य दर्शनादुत्थितः पुनः || १२ ||
नामसन्कीर्तनाद्यस्य पापमन्यैरुपद्रवैः |
समम् विनाशमायाति देवः कोऽभ्यधिकस्ततः || १३ ||
राष्ट्रस्य शरणम् राजा पितरौ बालकस्य च |
धर्मः समस्तमर्त्यानाम् सर्वस्य शरणम् हरिः || १४ ||
मुक्तिहेतुमनाद्यन्तमजमक्षयमच्युतम् |
नमस्यन् सर्वलोकस्य नमस्यो जायते नरः || १५ ||
न हि तस्य गुणाः सर्वे सर्वैर्मुनिगणैरपि |
वक्तुम् शक्या वियुक्तस्य सत्त्वाद्यैरखिलैर्गुणैः || १६ ||

शतानीक उवाच –
श्रुतम् मया यथा पूर्वमार्यको मे युधिष्ठिरः |
सशरीरो गतः स्वर्गम् जितमात्मीयकर्मभिः || १७ ||
यत्त्वेतद्भगवानाह स यथा पाण्दुपूर्वजः |
धर्मोपदेशाद्गोविन्दमाराधयत तद्वद || १८ ||

शौनक उवाच –
पुरा शासति धर्मज्ञे धर्मपुत्रे युधिष्ठिरे |
तस्यैव वैश्वदेवान्ते चण्डालोऽभ्यागमत् किल || १९ ||
समुपेत्य गृहम् तस्य धर्मपुत्रस्य विस्मितः |
उवाच श्वपचो द्वाःस्थम् प्रश्रयावनतः स्थितः || २० ||

चण्डाल उवाच –
कस्यैतद्भवनम् दिव्यम् मणिरत्नविभूषितम् |
शुद्धस्फटिकसोपानम् मणिकाञ्चनतोरणम् || २१ ||

प्रतीहार उवाच –
अष्टाशीतिसहस्राणि ब्राह्मणानाम् दिने दिने |
युधिष्ठिरमृते भूपम् भुञ्जते कस्य वेश्मनि || २२ ||
कथमेतन्न जानीषे चन्द्रबिम्बमिवापरम् |
युधिष्ठिरस्य भवनम् देवराजगृहोपमम् || २३ ||

चण्डाल उवाच –
अबलस्य बलम् राजा बालस्य रुदितम् बलम् |
बलम् मूर्खस्य वै मौनम् तस्करस्यानृतम् बलम् || २४ ||
गच्छ जल्प स्व राजानम् प्रतीहार वचो मम |
दुःखार्तः कार्यवान् राजम्श्चण्डालो द्वारि तिष्ठति || २५ ||
(केनापि हेतुमात्रेण भवन्तम् दुष्टमागतः |)

शौनक उवाच –
इत्युक्तो धर्मराजस्य प्रतीहारो यथोदितम् |
निवेदयामास तथा धर्मराजोऽब्रवीदिदम् || २६ ||

युधिष्ठिर उवाच –
किम् रूपम् कीदृशम् शीलम् कोऽस्यार्थः किम् प्रयोजनम् |
ब्रूहि द्वाःस्थम् यथावन्मे नरस्तिष्ठति कीदृशः || २७ ||

प्रतीहार उवाच –
काककोकिलकृष्णाङ्गो भग्ननासारुणेक्षणः |
यवमध्यः कृशग्रीवो वक्रपादो महाहनुः || २८ ||

युधिष्ठिर उवाच –
ब्रूहि गच्छ दुराचारम् चण्डालम् पापकर्मिणम् |
देवकार्यस्य वेलायाम् दुतस्त्वम् प्रत्युपस्थितः || २९ ||
चण्डालपतितौ दृष्ट्वा नरः पश्येत भास्करम् |
स्नातस्त्वेतावथालोक्य सचैलस्नानमर्हति || ३० ||

शौनक उवाच –
इत्याज्ञप्ते तथोक्तस्तु चण्डालस्तेन वै ततः |
प्रत्युवाच प्रतीहारमीषन्मन्युपरिप्लुतः || ३१ ||

चण्डाल उवाच –
किं देवकार्येण नराधिपस्य कृत्वा हि मन्युम् विषयस्थितानाम् |
तद्देवकार्यम् स च यज्ञहोमो यदश्रुपाता न पतन्ति राष्ट्रे || ३२ ||
इदम् वचनमव्यग्रम् प्रतीहार त्वरा मम |
निवेदय स्वराजेन्द्रम् यथेष्टम् स करोतु वै |

पापिनः किम् विचारेण गुणवन्निर्गुणेष्वपि

समम् वर्षति पर्जन्यः सस्येष्वपि तृणेष्वपि

निर्गुणेष्वपि सन् एषु दयाम् कुर्वन्ति साधवः

नहि सम्हरते ज्योत्स्नाम् चन्द्रश्चण्डालवेश्मसु
कथयामास तत्सर्वम् चाण्डालेन यदीरितम् |
सुशोभनमिदम् वाक्यम् न भवेदन्त्यजातिषु |
चिन्तयित्वा ततो राजा निर्जगाम युधिष्ठिरः |
इत्येतद्वचनम् श्रुत्वा निर्जगाम युधिष्ठिरः |
प्रत्युवाच च चण्डालमीषत्कोपसमन्वितः || ३३ ||

युधिष्ठिर उवाच –
कुतस्ते भयमुत्पन्नम् येन त्वम् गृहमागतः |
आवाधाकारणम् सर्वम् यथावत्कथयस्व मे || ३४ ||
(तदहम् ते प्रतिज्ञाय चण्डकर्मकरक्षणम् |
अपास्य देवकार्यार्थम् प्रविश्याम्यन्तरम् पुनः || ३५ ||)

चण्डाल उवाच –
न भुञ्जते ब्राह्मणा मे सर्वाश्चोद्विजते जनः |
प्राणिहिम्सा च नो वृत्तिर्देव पुष्णाति मेऽनृतम् || ३६ ||
अनेकजन्मसाहस्रीम् प्राप्य सम्सारपद्धतिम् |
मानुष्ये कुत्सिताम् जातिमापन्नो मुषितोऽस्मि भोः || ३७ ||
कर्मभूमिमिमाम् राजन् प्रार्थयन्ति दिवौकसः |
ताम् सम्प्राप्य वृथाजन्मा मुष्टोऽस्मि कुरुसत्तम || ३८ ||
दुःखे दुःखाधिकान् पश्येत् सुखे पश्येत् सुखाधिकान् |
आत्मानम् शोकहर्षाभ्याम् शत्रुभ्यामिव नार्पयेत् || ३९ ||
सोऽहमिच्छामि विज्ञातुमतिदुष्कृतकर्मकृत् |
वक्तुमर्हसि धर्मज्ञ कः पापिष्ठतरो मया || ४० ||

चण्डालो ह्यभवम् राजन् सर्ववर्णबहिष्कृतः

अभक्ष्यम् नास्ति मे किञ्चित् कः पापिष्ठतरो मया  |

युधिष्ठिर उवाच –
अध्वानमुपरि श्रान्तम् ब्राह्मणम् गृहमागतम् |
अनर्चयित्वा यो भुङ्क्ते स पापिष्ठतरस्त्वया || ४१ ||
मातरम् पितरम् चैव विकलम् नेत्रदुर्बलम् |
यो नाभ्युद्धरते पुत्रः स पापिष्ठतरस्त्वया || ४२ ||
गोधनस्य तृषार्तस्य जलार्थम् परिधावतः |
विघ्नमाचरते यस्तु स पापिष्ठतरस्त्वया || ४३ ||
विवाहयित्वा यः कन्याम् कुलजाम् शीलमण्डनाम् |
विना त्यजति दोषेण स पापिष्ठतरस्त्वया || ४४ ||
आशाकारस्त्वदाता यो दातुश्च प्रतिषेधकः |
दत्तम् च यः कीर्तयति स पापिष्ठतरस्त्वया || ४५ ||
बहुभृत्यैर्दरिद्रैश्च धनम् सन्तम् द्विजोत्तमैः |
याचितो न प्रयच्छेद्यः स पापिष्ठतरस्त्वया || ४६ ||
ब्राह्मणः क्षत्रियो वापि वैश्यः शूद्रोऽपि वा नरः |
स्वधर्मम् सन्त्यजेद्यस्तु स पापिष्ठतरस्त्वया || ४७ ||

चण्डाल उवाच –
कृतार्थोऽहम् गमिष्यामि यशो धर्ममवाप्नुहि |
तुष्टोऽस्म्यहम् स्वया योन्या मत्तः प्रोक्तास्त्वयाधमाः || ४८ ||

युधिष्ठिर उवाच –
देवतानामृषीणाम् च पितॄणाम् च कृतम् मया |
साम्प्रतम् देशकालोऽयम् त्वमेवात्र भवातिथिः || ४९ ||

चण्डाल उवाच –
चण्डालोऽहम् महाराज पतितो लोकवर्जितः |
कथम् निहीनो वर्णेभ्यो भोक्ष्यामि भवतो गृहे || ५० ||

युधिष्ठिर उवाच –
चण्डालो भव पापो वा शत्रुर्वा पितृघातकः |
देशकालाभ्युपेतम् त्वाम् भरणीयम् हि वेद्म्यहम् || ५१ ||

चण्डाल उवाच –
दशसूनासमम् चक्रम् दशचक्रसमो ध्वजः |
दशध्वजसमा वेश्या दशवेश्यासमो नृपः || ५२||
दश सूनासहस्राणि कुरुते यो हि सौनिकः |
तेन तुल्यः स्मृतो राजा घोरस्तस्य प्रतिग्रहः || ५३ ||

युधिष्ठिर उवाच –
नानागोत्रादिचरणा भुञ्जते ब्राह्मणा मम |
न ते वदन्ति वाग्दुष्टम् यथैतत् कीर्तितम् त्वया || ५४ ||

चण्डाल उवाच –
लोभात्मानो न जानीयुर्ब्राह्मणा राजकिल्बिषम् |
वरम् स्वमाम्समत्तव्यम् न तु राजप्रतिग्रहम् || ५५ ||
राजकिल्बिषदग्धानाम् ब्राह्मणानाम् युधिष्ठिर |
छिन्नानामिव बीजानाम् पुनर्जन्म न विद्यते || ५६ ||
राजप्रतिग्रहो घोरे मध्वास्वादो विषोपमः |
बुधेन प्रतिहर्तव्यः स्वमाम्सस्येव भक्षणम् || ५७ ||
अधीत्य चतुरो वेदान् सर्वशास्त्रार्थतत्त्ववित् |
नरेन्द्रभवने भुङ्क्त्वा विष्ठायाम् जायते कृमिः || ५८ ||

युधिष्ठिर उवाच –
निन्दसे सर्वराजानो न चात्मानम् प्रशम्ससि |
(धैर्यवान् आत्मनोऽनिन्द्यो नाश्वासार्थम् च पृच्छसि |
विमुक्तक्रोधहर्षश्च कोऽप्यत्र प्रतिभासि नः |
अनिन्द्यो निन्द्यरूपेण महात्मा त्वम् हि मे मतः |
को भवान् ब्रूहि सत्यम्म् मे किमर्थमिह चागतः |)
भवानुपेन्द्रः शक्रो वा शर्वो वा त्वम् पिनाकधृक् |
अथवा निन्द्यरूपेण पिता नस्त्वम् इहागतः || ५९ ||

धर्म उवाच –
ज्ञातोऽस्मि पृथिवीपाल तुष्टश्च तव दर्शनात् |
नन्दन्तु भूमिभागास्ते येषु त्वम् पृथिवीपतिः || ६० ||
निर्जित्य परसैन्यानि क्षितिम् धर्मेण पालय |
स्वल्पमप्यस्तु ते वेलाम् मा गोविन्दोज्झितम् मनः || ६१ ||

युधिष्ठिर उवाच –
किम् मे राज्येन भोस्तात विषयैर्जीवितेन वा |
योऽहम् सूनासहस्रैस्तु दशभिः परवेष्टितः || ६२ ||

धर्म उवाच –
मा विषादम् नरश्रेष्ठ समुपैहि युधिष्ठिर |
यज्ञेश्वरम् यज्ञमूर्तिम् त्वम् च विष्णुम् समाश्रितः || ६३ ||
येषाम् न विषये विप्रा यज्ञैर्यज्ञपतिम् हरिम् |
यजन्ति भूभुजस्तेषामेतत् सूनोदितम् फलम् || ६४ ||
येषाम् पाषण्डसङ्कीर्णम् न राष्ट्रम् ब्राह्मणोत्कटम् |
ते तु सूनासहस्राणाम् दशानाम् भागिनो नृपाः || ६५ ||
येषाम् न यज्ञपुरुषः कारणम् पुरुषोत्तमः |
ते तु पापसमाचाराः सूनापापौघभागिनः || ६६ ||
त्वम् तु मत्प्रभवस्तात विष्णुभक्तस्तथैव च |
इष्टिर्वैश्वानरी पापमुपहम्स्यति तेऽखिलम् || ६७ ||
(अवश्यम् विषये कश्चिद् ब्राह्मणः सम्श्रितव्रतः |
इष्टिम् वैश्वानरीं कॢप्ताम् निर्वपेदब्दपर्यये |
तस्य षड्भागमात्रेण त्वम् पापम् निर्दहिष्यसि || ६८ ||)
स त्वम् वरय भद्रम् ते वरम् यन्मनसेच्छसि |
सम्यक् श्रद्धासमाचारादहमाराधितस्त्वया || ६९ ||
अथ पातकभीतस्त्वम् सर्वभावेन भारत |
विमुक्तान्यसमारम्भो नारायणपरो भव || ७० ||
परः पराणामाद्योऽसौ ज्ञेयो ध्येयो जनार्दनः |
तदर्थमपि कर्माणि कुर्वन् पापम् व्यपोहति || ७१ ||
लोभादिव्याप्तहृदयो यत्पापम् कुरुते नरः |
विलयम् याति तत्सर्वमच्युते हृदये स्थिते || ७२ ||
शमायालम् जलम् वह्नेस्तमसो भास्करादयः |
क्षान्तिः कलेरघौघस्य नामसन्कीर्तनम् हरेः || ७३ ||

युधिष्ठिर उवाच –
प्रसन्नो यदि मे तात वरार्हो यदि चाप्यहम् |
वरम् तदेकमेवैतम् प्राप्तुमिच्छाम्यहम् पितः || ७४ ||
जाग्रत्स्वप्नसुषुप्तेषु योगस्थस्य सदा मम |
या काचिन्मनसो वृत्तिः सा भवत्वच्युताश्रया || ७५ ||
याया जायेत मे बुद्धिर्यावज्जीवाम्यहन्तिः पितः |
सा सा छिनत्तु सन्देहान् कृष्णाप्तौ परिपन्थिनः || ७६ ||
यथा गोविन्दमाराध्य सशरीरः सुरालयम् |
प्राप्नुयामिति मे तात प्रयच्छ प्रवरम् वरम् || ७७ ||

धर्म उवाच –
एवमेतदशेषम् ते मत्प्रसादाद्भविष्यति |
नास्ति गोविन्दभक्तानाम् वाञ्छितम् भुवि दुर्लभम् || ७८ ||

शौनक उवाच –
इति धर्मोपदेशेन सर्वदेववरम् हरिम् |
आराध्य पाण्डवो यातः सशरीरः सुरालयम् || ७९ ||

इति विष्णुधर्मे चण्डालयुधिष्ठिरसम्वादो ना षट्षष्टितमोऽध्यायः

सप्तषष्टितमोऽध्यायः

जनकगीता

शौनक उवाच –
भूयश्च शृणु राजेन्द्र जनकेन महात्मना |
यद्गीतम् वहता भक्तिम् ज्ञानमासाद्य केशवे || १ ||
सर्वत्र समदृष्टिम् तम् जनकम् मिथिलेश्वरम् |
पश्यन्तमच्युतमयम् सर्वम् च सचराचरम् || २ ||

द्विजरूपम् समास्थाय देवदेवो जनार्दनः |
उपतस्थे महाभागम् प्रत्युवाच च पार्थिवम् || ३ ||

देव उवाच –

राजञ्जनक भद्रम् ते यद्ब्रवीमि निबोध तत् |

कुरुष्व च महाबुद्धे यदि साधु मतम् तव || ४ ||
पृथिवीम् पृथिवीपालः पालयित्वा पिता तव |
स्वर्गम् गतस्तथा भ्राता सम्यक् सत्यध्वजो नृपः || ५ ||
त्वम् पुनर्निरभीमानः सर्वत्र समदर्शनः |
रिपुमित्रादिवर्गेषु कथमेतद्भविष्यति || ६ ||
मित्रेषु मित्रवन्न त्वम् नाहितेष्वरिवद्भवान् |
मध्यस्थभाग्न चैव त्वम् तथोदासीनवृत्तिषु || ७ ||
शब्दादयो ये विशयास्ते वैराग्यफला नृप |
नीत्या विहीनस्तु भवान् कथम् राज्यम् करिष्यति || ८ ||
सर्वैर्नीतिम् समास्थाय यथा ते प्रपितामहैः |
कृतम् राज्यम् तथा भूप कुरु मातिजडो भव || ९ ||
तव प्रज्ञा मता ह्येषा मम मोहो महीपते |
त्रिवर्गसाधनम् प्रज्ञा न धर्मादिविरोधिनी || १० ||

जनक उवाच –
सम्यगाह भवान्विप्र वाच्यमेवम् भवद्विधैः |
ममापि श्रूयताम् वाक्यम् भवतो यदि रोचते || ११ ||
यदा सर्वगतो विष्णुः परमात्मा प्रजापतिः |
तदा मित्रादिमध्यस्थसञ्ज्ञा केषु निपात्यताम् || १२ ||
पिता माता तथा भ्राता यदा नान्यज्जनार्दनात् |
पितृमातृमयीम् सञ्ज्ञाम् तदा कुत्र करोम्यहम् || १३ ||
सोऽहम् ब्रवीमि यद्वाक्यम् तन्निबोध द्विजोत्तम |
अनेकरूपरूपोऽयम् विष्णुरेवाखिलम् जगत् || १४ ||
विष्णुः पिता मे जगतः प्रतिष्ठा विष्णुर्माता विष्णुरेवाग्रजो मे |
विष्णुर्गतिर्विष्णुमयस्तथास्मि विष्णौ स्थितोऽस्म्यक्षगतश्च विष्णुः || १५ ||
यो मे ममत्वोपगतः स विष्णुर्यश्चारिभूतो मम सोऽपि विष्णुः |
दिवम् वियद्भूः ककुभश्च विष्णुर्भूतानि विष्णुर्भुवनानि विष्णुः || १६ ||
पश्यामि विष्णुम् न परम् ततोऽन्यत्

शृणोमि विष्णुम् न परम् ततोऽन्यत् |
स्पृशामि विष्णुम् न परम् ततोऽन्यत्

जिघ्रामि विष्णुम् न परम् ततोऽन्यत् || १७ ||
रसामि विष्णुम् न परम् ततोऽन्यत्

मन्ये च विष्णुम् न परम् ततोऽन्यत् |
जिघ्रामि विष्णुम् न परम् ततोऽन्यत्

नमामि विष्णुम् च परम् ततोऽन्यत् |
बुध्यामि विष्णुम् न परम् ततोऽन्यत्

सर्वम् हि विष्णुर्न परम् ततोऽन्यत् || १८ ||
विष्णुः समस्तम् न परम् ततोऽस्ति

विष्णुः समस्तम् न परम् च देवः |
विष्णुः स्थारीयान्न परम् ततोऽस्ति

विष्णुर्लघीयान्न परम् ततोऽस्ति |
विष्णुर्गरीयान्न परम् ततोऽन्यत् || १९ ||

यथा न विष्णुव्यतिरिक्तमन्यच्छृणोमि पश्यामि तथा स्पृशामि |

सत्येन तेनोपशमम् प्रयान्तु दोषा विमुक्तेः परिपन्थिनो ये || २० ||
न मेऽस्ति बन्धुर्न च मेऽस्ति शत्रुर्न भूतवर्गो न जनो मदन्यः |

त्वम् चाहम् अन्ये च शरीरभेदैर्विभिन्नमीशस्य हरेः स्वरूपम् || २१ ||
मूर्तामूर्तिविशेषम् तु पश्यतस्तन्मयम् द्विज |
क्रोधहर्षादयो भावाः स्थास्यन्ति हृदये कथम् || २२ ||
स त्वम् प्रसीद मोहोऽयमथ चेन्मम सुव्रत |
तथापि मा रुषम् कार्षीरचिकित्स्या हि मोहिताः || २३ ||

शौनक उवाच –
बहुरूपस्ततो रूपम् शङ्खचक्रगदाधरम् |
दर्शयामास सुप्रीतो जनकाय जनार्दनः || २४ ||
ततस्तद्दर्शनाद्भूपम् शिरसा प्रणतम् प्रभुः |
आद्यः प्रजापतिपतिः प्रत्युवाचाच्युतो हरिः || २५ ||

भगवान् उवाच –
वरं वरय भूपाल परितुष्टोऽस्मि तेऽनघ |
मय्यर्पितमनोबुद्धेः सदैवाहम् न दुर्लभः || २६ ||

जनक उवाच –
यदि देव प्रसन्नोऽसि सम्यगाराधितो मया |
तद्वृणोमि वरम् भक्तिस्त्वय्येवास्तु सदा मम || २७ ||

शौनक उवाच –
एवम् भविष्यतीत्युक्त्वा गतोऽन्तर्धानमीश्वरः |
सोऽपि लेभे लयम् विष्णौ भक्त्या योगिसुदुर्लभम् || २८ ||
इति कृष्णे नरव्याघ्र कुर्वन् भक्तिम् नरः सदा |
प्राप्नोति पुरुषव्याघ्र मुक्तिम् चाप्यतिदुर्लभाम् || २९ ||

इति विष्णुधर्मे जनकगीता नाम सप्तषष्टितमोऽध्यायः

अष्टषष्टितमोऽध्यायः

जन्मरहस्यम्

शतानीक उवाच –
जगद्धातुरनन्तस्य वासुदेवस्य भार्गव |
ममावतारानखिलाञ्श्रोतुमिच्छा प्रवर्तते || १ ||
यथा यथा हि कृष्णस्य कथेयम् कथ्यते त्वया |
जायते मनसः प्रीतिरुद्भूतपुलकस्तथा || २ ||
मनःप्रीतिरनायासादपुण्यचयसम्क्षयः |
प्राप्यते पुरुषैर्ब्रह्मञ्शृण्वद्भिर्भगवत्कथाम् || ३ ||
स कुरुष्वामलमते प्रसादप्रवणम् मनः |
अवतारान् सुरेशस्य विष्णोरिच्छामि वेदितुम् || ४ ||

शौनक उवाच –
जगद्गुरुम् जगद्योनिमनन्तमुदकेशयम् |
नारायणम् पुराकल्पे पृष्टवान् कमलेशयः || ५ ||

विनिर्जग्मुर्मुखेभ्यस्तु ब्रह्मणो व्यक्तजन्मनः |

ओम्कारप्रवणा वेदा जग्मुस्ते च रसातलम् || ६ ||
एकार्णवे जगत्यस्मिन् ब्रह्मण्यमिततेजसि |

कृष्णनाभिह्रदोद्भूतकमलोदरशायिनि || ७ ||
भोगिशय्याशयः कृष्णो द्वितीयाम् तनुमात्मनः |

कृत्वा मीनमयीम् सद्यः प्रविवेश रसातलम् || ८ ||
वेदमूर्तिस्ततो वेदान् आनिन्ये ब्रह्मणोऽन्तिकम्

मधुकैटभाभ्याम् च पुनर्भोगिशय्यागतो हरिः |
हृतान् हयशिरा भूत्वा वेदानाहृतवान् रसात् || ९ ||
आहृतेष्वथ वेदेषु देवदेवःपितामहः |
तुष्टाव प्रणतो भक्त्या तस्य चाविर्बभौ हरिः || १० ||
अथामरगुरुम् विष्णुमनन्तमजमव्ययम् |
उवाच प्रकटीभूतम् प्रणिपत्याब्जसम्भवः || ११ ||

ब्रह्मोवाच –
नमः सूक्ष्मातिसूक्ष्माय नमस्तुभ्यम् त्रिमूर्तये |
बहुरूपादिमध्यान्तपरिणामविवर्जित || १२ ||
जगदीशस्य सर्वस्य जगतः सर्वकामद |
अहमात्मभवो देव त्वयाध्यक्षो निरूपितः || १३ ||
सोऽहमिच्छामि तम् ज्ञातुमात्मानम् प्रभवाव्ययम् |
विश्वस्य च विरूपस्य स्थावरस्य चरस्य च || १४ ||
यदि तेऽनुग्रहकृता मयि बुद्धिर्जनार्दन |
तन्माम् भक्त इति ज्ञात्वा कथयात्मानमच्युत || १५ ||

भगवानुवाच –
कथयामि तवात्मानमनाख्यागोचरम् परम् |
न वाचाम् विषये योऽसावविशेषणलक्षणः || १६ ||
प्रसादसुमुखः सोऽहमिमम् यच्छामि ते वरम् |
अनाख्यातस्वरूपम् माम् भवाञ्ज्ञास्यति योगतः || १७ ||
भक्तो माम् तत्त्वतो वेत्ति मयि भक्तिश्च ते परा |
मज्जिज्ञासा परा ब्रह्मम्स्तेन जाता मतिस्तव  || १८ ||

शौनक उवाच –
एवमुक्तस्ततो ब्रह्मा विष्णुना प्रभविष्णुना |
विष्णोः स्वरूपम् जिज्ञासुर्युयोजात्मानमात्मना || १९ ||
स ददर्शातिसूक्ष्मम् च सूक्ष्मज्योतिष्यजम् विभुम् |
नियुतार्धार्धमात्रेण व्याप्ताशेषचराचरम् || २० ||
आत्मानमिन्द्ररुद्रार्कचन्द्राश्विवसुमारुतान् |
खादीन्यथ च शब्दादीन् ददृशे च स तन्मयान् || २१ ||
ये व्यक्ता ये तथाऽव्यक्ता भावा ये चापि पौरुषाः |
तांश्च तत्रातिसूक्ष्मोऽपि दृष्टवानखिलान्विभुः || २२ ||
ततः प्रणम्य देवेशमजमार्तिहरम् हरिम् |
पितामहः प्रह्वतनुर्वाक्यमेतदुवाच ह || २३ ||

ब्रह्मोवाच –
ज्ञातम् स्वरूपमज्ञातस्वरूप भगवम्स्तव |
मया न यद्वाग्विषये तत्रस्थम् चाखिलम् जगत् || २४ ||
धन्योऽस्म्यनुगृहीतोऽस्मि स्वरूपम् यन्मया तव |
भगवञ्ज्ञातमज्ञातमनन्ताज नमोऽस्तु ते || २५ ||
यदि प्रसादम् देव त्वम् प्रकरोषि ममापरम् |
परमम् चावतारेषु यद्रूपम् तद्वदस्व मे || २६ ||
केषु केषु मया ज्ञेयः स्थानेषु त्वमधोक्षज |
सम्भूतयो ममाचक्ष्व या भविष्यन्ति ते भुवि || २७ ||
देवलोके नृलोके वा पाताले खेऽन्यतोऽपि वा |
सम्भूतयो यास्तु भवान् करिष्यति वदस्व ताः || २८ ||
त्वम् कर्ता सर्वभूतानाम् सम्हर्ता चेश्वरेश्वरः |
तवापि कर्ता नान्योऽस्ति स्वेच्छया क्रीडते भवान् |
(अहम् वेद्मि भवन्तम् हि न तवान्योऽस्ति वेदिता || २९ ||)

भगवानुवाच –
यन्माम् त्वम् पृच्छसि ब्रह्मन् अवताराश्रितम् परम् |
तत्ते सम्यक् प्रवक्ष्यामि निबोध मम सुव्रत || ३० ||
मम प्रकृत्या सम्योगः स्वेच्छया सम्प्रवर्तते |
देवेषु नॄषु तिर्यक्षु स्थावरेषु चरेषु च |
ममावताराः कार्यार्थम् जगतश्चोपकारिणः || ३१ ||
यदा यदा हि धर्मस्य ग्लानिः समुपजायते |
अभ्युत्थानमधर्मस्य तदात्माङ्गम् सृजाम्यहम् || ३२ ||
परित्राणाय साधूनाम् विनाशाय च दुष्कृताम् |
धर्मसम्स्थापनार्थाय सम्भवामि युगे युगे || ३३ ||
पूर्वोत्पन्नेषु भूतेषु नृदेवादिषु चाप्यहम् |
अनुप्रविश्य धर्मस्य करोमि परिपालनम् || ३४ ||
प्रविश्य च तथा पूर्वम् तनुम् धर्मभृताम् वर |
जगतोऽस्य जगत्सृष्टिम् करोमि स्थितिपालनम् || ३५ ||
देवत्वे देविका चेष्टा तिर्यक्त्वे मम तामसी |
इच्छया मानुषत्वे च विचरामि नृचेष्टया || ३६ ||
प्रतिक्षणम् च भूतेषु सृजामि जगतः स्थितिम् |
करोमि विद्यमानेषु धर्मसम्स्थापनेषु च || ३७ ||
यद्वै धर्मोपकाराय यच्च दुष्टनिबर्हणम् |
चरितम् मानुषादीनाम् तद्वै जानीहि मत्कृतम् || ३८ ||
यच्च पृच्छसि माम् ब्रह्मन् काः काः सम्भूतयस्तव |
ताः शृणुष्व समासेन या भविष्यन्ति साम्प्रतम् || ३९ ||
मत्स्येन भूत्वा पातालात्तव वेदाः समुद्धृताः |
मधुकैटभाभ्याम् च हृता दत्ताश्वशिरसा मया || ४० ||
त्वमप्यत्र महाभाग मदम्शः कमलोदरात् |
मन्नाभिसम्भवाज्जातः प्रजासृष्टिकरः परः || ४१ ||
एकार्णवम् च यदिदम् ब्रह्मन् पश्यस्यशेषतः |
अस्मिन् वसुमतीम् देवीम् मग्नाम् पातालमागताम् || ४२ ||
वेदपादो यूपदम्ष्ट्रः क्रतुदन्तश्चितीमुखः |
अग्निजिह्वो दर्भरोमा ब्रह्मशीर्षो महातपाः || ४३ ||
अहोरात्रेक्षणधरो वेदाङ्गश्रुतिभूषणः |
आज्यनासः स्रुवस्तुण्डः सामघोषस्वरो महान् || ४४ ||
प्राग्वम्शकायो द्युतिमान्नानादीक्षाभिराचितः |
दक्षिणाहृदयो योगी महासत्त्रमयो महान् || ४५ ||
उपकर्मेष्टिरुचिरः प्रवर्गावर्तभूषणः |
नानाच्छन्दोगतिपथो ब्रह्मोक्तिकर्मविक्रमः || ४६ ||
भूत्वा यज्ञवराहोऽहमिति ब्रह्मन्रसातलात् |
पृथिवीमुद्धरिष्यामि स्थापयैष्यामि च स्थितौ || ४७ ||
पर्वतानाम् नदीनाम् च द्वीपादीनाम् च या स्थितिः |
ताम् च तद्वत् करिष्यामि शैलादीनामनुक्रमात् || ४८ ||
हिरण्याक्षम् च दुर्वृत्तम् कश्यपस्यात्मसम्भवम् |
तेनैव घातयिष्यामि रूपेणाहम् प्रजापते || ४९ ||
उत्पाद्य पृथिवीम् सम्यक् स्थापयित्वा यथा पुरा |
सृष्टिम् ततः करिष्यामि त्वामाविश्य प्रजापतिम् || ५० ||
(जानासि कापिलम् रूपम् प्रथमम् पौरुषम् मम |
सर्वविद्याप्रणेतारम् त्वया वेदेषु दर्शितम् |
रविमण्डलमध्यस्थमग्नेर्यत्परमम् पदम् |)
तत उत्सृज्य रूपाणि अमरादिविभेदतः |
व्यापयिष्यामि लोकाम्स्तु भूलोकादीन् अशेषतः || ५१ ||
सृष्टम् जगदिदम् देवमानुष्यादिविशेषणम् |
हिरण्यकशिपुर्दैत्यस्तापयिष्यति विक्रमात् || ५२ ||
व्यम्सयित्वा वराम्स्तस्य तैस्तैर्हेतुभिरात्मवान् |
नृसिम्हरूपम् कृत्वाऽहम् घातयिष्यामि तम् रिपुम् || ५३ ||
क्षीराब्धौ कूर्मरूपोऽहम् देवानाम् कमलोद्भव |
मन्दरम् धारयिष्यामि पृष्ठेनामृतमन्थने || ५४ ||
हरिष्यति च देवानाम् यज्ञभागान् यदा बलिः |
तदाहम् वामनो भूत्वा गत्वा तस्य महाध्वरम् || ५५ ||
वञ्चयित्वाऽसुरपतिम् करिष्यामि त्रिविष्टपम् |
बलिम् चापि करिष्यामि पातालतलवासिनम् || ५६ ||
अत्रेर्दत्त्वा वरम् चैव तस्य पुत्रत्वमागतः |
दत्तात्रेयो भविष्यामि निहम्स्यामि तथाऽसुरान् || ५७ ||
सत्त्वानाम् उपकाराय प्रधानपुरुषान्तरम् |
दर्शयिष्यामि लोकेषु कापिलम् रूपमास्थितः || ५८ ||
कार्तवीर्यादिभिश्चान्यैश्चतुर्दशभिरन्विताः |
भविष्यन्ति मदम्शेन त्रेतायाम् चक्रवर्तिनः || ५९ ||
ततश्च भार्गवो रामो गृहीतपरशुर्द्विजः |
भूत्वा क्षत्रियहीनाम् च करिष्यामि वसुन्धराम् || ६० ||
पुनश्च राघवो रामो भूत्वा दशरथात्मजः |
बद्ध्वा महोदधिम् कर्ता राक्षसानाम् कुलक्षयम् || ६१ ||
(उत्तीर्य च परम् पारम् लङ्कामासाद्य दुर्जयाम् |
निहत्य रावणम् वीरम् वरदानेन दर्पितम् |
मायाविनाम् महावीर्यम् रक्षसाम् वनशायिनाम् |
लक्ष्मणानुचरो रामः करिष्यामि कुलक्षयम् |)
अष्टाविम्शतिमे प्राप्ते द्वापरे कम्समुच्छ्रितम् |
केशिनम् धेनुकम् चैव शकुनिम् पूतनाम् तथा |
अरिष्टम् च हनिष्यामि मुरुम् नरकमेव च || ६२ ||
निशुम्भम् सहयग्रीवम् तथाऽन्याम्श्चासुरेश्वरान् |
हनिष्यामि सुदुर्वृत्ताम्ल्लोकानाम् हितकाम्यया || ६३ ||
प्रवर्षति सदेवेन्द्रे महोभङ्गविरोधिते |
गोवर्धनम् गिरिवरम् धारयिष्यामि बाहुना || ६४ ||
भाराक्रान्तामिमामुर्वीम् धनञ्जयसहायवान् |
घातयित्वाऽखिलान् भूपाम्ल्लघ्वीम् कर्तास्मि सत्तम || ६५ ||
प्राप्ते कलियुगे कृत्स्नमुपसम्हृत्य वै कुलम् |
द्वारकाम् प्लावयिष्यामि उत्स्रक्ष्यामि मनुष्यताम् || ६६ ||
द्वितीयो यो ममाम्शस्तु रामोऽनन्तः स लाङ्गली |
सोऽपि सम्त्यज्य वसुधाम् रसातलमुपेष्यति || ६७ ||
ततः कलियुगे घोरे सम्प्राप्तेऽब्जसमुद्भव |
शुद्धोदनसुतो बुद्धो भविष्यामि विमत्सरः || ६८ ||
बौद्धम् धर्ममुपाश्रित्य करिष्ये धर्मदेशनाम् |
नराणामथ नारीणाम् दयाम् भूतेषु दर्शयन् || ६९ ||
रक्ताम्बरा ह्याञ्जिताक्षाः प्रशान्तमनसस्ततः |
शूद्रा धर्मम् प्रवक्ष्यन्ति मयि बुद्धत्वम् आगते || ७० ||
एडूकचिह्ना पृथिवी न देवगृहभूषिता |
भवित्री प्रायशो ब्रह्मन् मयि बुद्धत्वमागते || ७१ ||
(स्कन्ददर्शनमात्रम् हि पश्यन्तः सकलम् जगत् |
शूद्राः शूद्रेषु दास्यन्ति मयि बुद्धत्वमागते || ७२ ||)
अल्पायुषस्ततो मर्त्या मोहोपहतचेतसः |
नरकार्हाणि कर्माणि करिष्यन्ति प्रजापते || ७३ ||
स्वाध्यायेष्ववसीदन्ता ब्राह्मणाः शौचवर्जिताः |
अन्त्यप्रतिग्रहादानम् करिष्यन्त्यल्पमेधसः || ७४ ||
न श्रोष्यन्ति पितुः पुत्राः श्वश्रूश्वशुरयोः स्नुषाः |
न भार्या भर्तुरीशस्य न भृत्या विनयस्थिताः || ७५ ||
वर्णसम्करताम् प्राप्ते लोकेऽस्मिन् दस्युताम् गते |
ब्राह्मणादिषु वर्णेषु भविष्यत्यधरोत्तरम् || ७६ ||
धर्मकञ्चुकसम्वीता विधर्मरुचयस्तथा |
मानुषान् भक्षयिष्यन्ति म्लेच्छाः पार्थिवरूपिणः || ७७ ||
ततः कलियुगस्यान्ते वेदो वाजसनेयकः |
दश पञ्च च वै शाखाः प्रमाणेन भविष्यति || ७८ ||
ततोऽहम् सम्भविष्यामि ब्राह्मणो हरिपिङ्गलः |
कल्की विष्णुयशःपुत्रो याज्ञवल्क्यपुरोहितः || ७९ ||
म्लेच्छानुत्सादयिष्यामि गृहीतास्त्रकुशायुधः |
स्थापयिष्यामि मर्यादाश्चातुर्वर्ण्ये यथोदिताः || ८० ||
तथाश्रमेषु सर्वेषु ब्रह्मचारिव्रतादिकाः |
स्थापयित्वा ततः सर्वाः प्रजाः सद्धर्मवर्त्मनि |
कल्किरूपम् परित्यज्य दिवमेष्याम्यहम् पुनः || ८१ ||
ततः कृतयुगम् भूयः पूर्ववत् सम्प्रवर्त्स्यते |
वर्णाश्रमाश्च धर्मेषु द्वेषु स्थास्यन्ति सत्तम || ८२ ||

वर्णाश्रमा स्वधर्मेषु ते वत्स्यन्ति स्थास्यन्ति सत्तम
एवम् सर्वेषु कल्पेषु सर्वमन्वन्तरेषु च |
ममावताराः शतशो ये भवन्ति जगद्धिताः || ८३ ||
सङ्कर्षणात्मजश्चैव कल्पान्ते च रसातला |
समुत्पत्स्येत्तदा रुद्रः कालाग्निरिति यः श्रुतः || ८४ ||
ततः क्षयम् करिष्यामि जगत्स्थावरजङ्गमम् |
भूयश्चैव हि स्वप्स्यामि जगत्येकार्णवे स्थिते |
त्वद्रूपी च ततो भूत्वा जगत् स्रक्ष्याम्यह ङ्क पुनः || ८५ ||
एतत्सन्क्षेपतो ब्रह्मन् मयाख्यात ङ्क यथातथम् |
अम्शावतरणम् सर्वम् मत्तः सन्क्षेपतः शृणु || ८६ ||
यद्दृश्यम् यच्च वै स्पृश्यम् यद्धेयम् रस्यते च यत् |
यच्छ्रव्यम् यच्च मन्तव्यम् बोधव्यम् चाहमम्शगः || ८७ ||
यत्तु बुद्धेः परतरमनाख्येयमनोपमम् |
तदहम् ब्रह्म निर्द्वन्द्वम् यद्वै पश्यन्ति सूरयः || ८८ ||
इदम् जन्मरहस्यम् मे यो नरः कीर्तयिष्यति |
सुलभोऽहम् भविष्यामि तस्य जन्मनि जन्मनि || ८९ ||
पठन्नेतद्ब्रह्महा तु सुरापो गुरुतल्पगः |
स्तेयी कृतघ्नो गोघ्नश्च सर्वपापैः प्रमुच्यते || ९० ||
गर्भिणी जनयेत् पुत्रम् कन्या विन्दति सत्पतिम् |

लभन्तेऽभिमतान् कामान्नरास्ताम्स्तान् यथेप्सितान् || ९१ ||

शौनक उवाच –
इति देवातिदेवेन ब्रह्मणो व्यक्तजन्मनः |
रहस्यमिदमाख्यातम् तवापि कथितम् मया || ९२ ||
विष्णुः सर्वगतोऽनन्तः सर्वम् तत्र प्रतिष्ठितम् |
स च सर्वमिदम् राजन्न ततो विद्यते परम् || ९३ ||
एतत्पवित्रम् पठितम् तथा दुःस्वप्ननाशनम् |
जातिस्मरत्वम् प्रज्ञाम् च ददाति पठताम् नृणाम् || ९४ ||

इति विष्णुधर्मे भगवतोजन्मरहस्यम् नाम अष्टषष्टितमोऽध्यायः

एकोनसप्ततितमोऽध्यायः

गजेन्द्रमोक्षणस्तवः

शतानीक उवाच –

मया हि देवदेवस्य विष्णोरमिततेजसः |
श्रुताः सम्भूतयः सर्वा गदतस्तव सुव्रत || १ ||
यदि प्रसन्नो भगवान् अनुग्राह्योऽस्मि वा यदि |
तदहम् श्रोतुमिच्छामि नॄणाम् दुःस्वप्ननाशनम् || २ ||
स्वप्ना हि सुमहाभाग दृश्यन्ते ये शुभाशुभाः |
फलानि ते प्रयच्छन्ति तद्गुणान्येव भार्गव || ३ ||
यद्यत्पुण्यम् पवित्रम् च नॄणामतिशुभप्रदम् |
दुःस्वप्नोपशमायालम् तन्मे विस्तरतो वद || ४ ||

शौनक उवाच –
इदमेव महाराज पृष्टवाम्स्ते पितामहः |
भीष्मम् धर्मभृताम् श्रेष्ठम् धर्मपुत्रो युधिष्ठिरः || ५ ||

जितन्ते पुण्डरीकाक्ष नमस्ते विश्वभावना |

नमस्तेस्तु ऋषीकेश महापुरुषपूर्वीज || ६ ||

आद्यम् पुरुषम् ईशानम् पुरुहूतम् प्ररुष्टुतम् |

ऋतमेकाक्षरम् ब्रह्म व्यक्ताव्यक्तम् सनातनम् || ७ ||

असच्वच्वैव च यद्विश्वम् सदसत् ततः परम् |

परावराणाम् स्रष्टारम् पुराणम् परमव्ययम् || ८ ||

मङ्गल्यम् मङ्गलम् विष्णुम् वरेण्यम् अनघम् शुचिम् |
नमस्कृत्य हृषीकेशम्  चरचरगुरम्  हरिम् || ९ ||

नास्ति नारायणसमम् नभूतम् न भविष्यति |
पितेन सत्यवाक्येन सर्वार्थान्  साधयाम्यहम् || १० ||

किमन्यैर्बहुभिर्मन्त्रैः शास्त्रैर्वा बहुविस्त्रुतैः |

नमो नारायणायेति मन्त्रः सर्वार्थसाधकः || ११ ||

पद्मासनम् पद्मसमाननश्च पद्मस्वयोनिम् चतुराननम् च |

षङ्गवैदैश्च विभूषिताङ्गम् पितामहम् तम् प्रणतोऽस्मि नित्यम् || १२ ||

मुनिम् स्निग्धाम्बुदाभासम् वेदव्यासमकल्मषम् |

सरस्त्वत्यावासम् वेदव्यासम् नमाम्यहम् || १३ ||

महर्षेस्सर्वलोकेषु पूजितस्य महात्मनः |
प्रवक्ष्यामि मतम् कृत्स्नम् व्यासस्यामिततेजसः || १४ ||

जज्ञे महायज्ञ परम् ह्युदारम् यद्वीपमध्ये सुवमात्मवत्तः |

पराशरात्गन्धवती महर्षीं तस्मै नमोऽज्ञानतमौनुदाय || १५ ||

नमो भगवते तस्मै व्यासायाऽमिततेजसे |

यस्यप्रसादात् वक्ष्यामि नारायणकथामिमाम् || १६ ||

जनमेजय उवाच –

किम् जपन् मुच्यते ब्रह्मन् किम् जपन् सुखमश्रुते |

दुस्वप्रनाशनम् पुण्यम् श्रोतुमिच्छामि मानद || १७ ||

वैशम्पायन उवाच –

देवव्रतम् महाप्राज्ञम् सर्वशास्त्रविशारदम् |
विनयेनोपसङ्गम्य पर्यपृच्छद्युधिष्ठिरः || १८ ||

युधिष्ठिर उवाच –
दुःस्वप्नदर्शनम् घोरमवेक्ष्य भरतर्षभ |
प्रयतः किम् जपेज्जप्यम् विबुद्धः किमनुस्मरेत् || १९ ||
पितामह महाबुद्धे बुद्धेर्भेदो महान् अयम् |

पितामह प्रसादेन यज्ज्ञातम् नृपसत्तम
तदहम् श्रोतुमिच्छामि ब्रूहि मे वदताम् वर || २० ||

भीष्म उवाच –
शृणु राजन् महाबाहो वर्तयिष्यामि तेऽखिलम् |
दुःस्वप्नदर्शने जप्यम् यद्वै नित्यम् समाहितैः || २१ ||
अत्राप्युदाहरन्तीममितिहासम् पुरातनम् |
गजेन्द्रमोक्षणम् पुण्यम् कृष्णस्याक्लिष्टकर्मणः || २२ ||
सर्वरत्नमयः श्रीमाम्स्त्रिकूटो नाम पर्वतः |
सुतः पर्वतराजस्य सुमेरोर्भास्करद्युतेः || २३ ||
क्षीरोदजलवीच्यग्रैर्धौतामलशिलातलः |
उत्थितः सागरम् भित्त्वा देवर्षिगणसेवितः || २४ ||
अप्सरोभिः समाकीर्णः श्रीमान् प्रस्रवणाकुलः |
गन्धर्वैः किन्नरैर्यक्षैः सिद्धचारणपन्नगैः |
विद्याधरैः सपत्नीकैः सम्यतैश्च तपस्विभिः |
मृगैर्द्वीपैर्द्विजैश्चैव वृतः सौवर्णराजतैः |

(मृगैर्द्विजैर्गजेन्द्रैश्च वृतगात्रो विराजते)
पुन्नागैः कर्णिकारैश्च पुष्पितैरुपशोभितः ||
चूतनीपकदम्बैश्च चन्दनागरुचम्पकैः |
शालैस्तालैस्तमालैश्च कुटजैश चार्जुनैस्तथा || २५ ||

वकुलैः पाटलैश्चैव सरलैर्देवदारुभिः

मन्दारकुरुवैश्वापि पारिजातैश्च सर्वशः
एवम् बहुविधैर्वृक्षैः सर्वतः समलङ्कृतः |
नानाधातूज्ज्वलैः शृङ्गैः प्रस्रवद्भिः समन्ततः || २६ ||
मृगैः शाखामृगैः सिम्हैर्मातङ्गैश्च सदामदैः |
जीवज्जीवकसन्घुष्टम् चकोरशिखिनादितम् || २७ ||
तस्यैकम् काञ्चनम् शृङ्गम् सेवते यद्दिशाकरः |
नानापुष्पसमाकीर्णम् नानागन्धसमाकुलम् || २८ ||
द्वितीयम् राजतम् शृङ्गम् सेवते यन्निशाकरः |
पाण्डुराम्बुदसङ्काशम् तुषारचयसन्निभम् ||२९ ||
वज्रेन्द्रनीलवैडूर्यतेजोभिर्भासयन्नभः |
ऋतीयम् ब्रह्मसदनम् प्रकृष्टम् शृङ्गमुत्तमम् || ३० ||
न तत्कृतघ्नाः पश्यन्ति न नृशम्सा न नास्तिकाः |
नातप्ततपसः शैलम् तम् वै पश्यन्ति मानवाः || ३१ ||

तपसो लोके ये वै पापकृता जनाः
तस्य सानुमतः पृष्ठे सरः काञ्चनपङ्कजम् |
कारण्डवसमाकीर्णम् राजहम्सोपशोभितम् || ३२ ||
मत्तभ्रमरसन्घुष्टम् फुल्लपङ्कजशोभितम् |
कुमुदोत्पलकल्हारपुण्डरीकोपशोभितम् || ३३ ||
उत्पलैः शतपत्त्रैश्च काञ्चनैः समलङ्कृतम् |
पत्त्रैर्मणिदलप्रख्यैः पुष्पैः काञ्चनसन्निभैः |
गुल्मैः कीचकवेणूनाम् समन्तात् परिवारितम् || ३४ ||

दशयोजन विस्तीर्णम् शतयोजनमायतम्
तस्मिन् सरसि दुष्टात्मा विरूपोऽन्तर्जलाशयः |
आसीद् ग्राहो गजेन्द्राणाम् दुराधर्षो महाबलः || ३५ ||
अथ दन्तोज्ज्वलमुखः कदाचिद्गजयूथपः |
आजगामासिताभ्राभः करेणुपरिवारितः || ३६ ||
मदस्रावी महारौद्रः पादचारीव पर्वतः |
वासयन् मदगन्धेन गिरिमैरावतोपमः || ३७ ||
स गजोऽञ्जनसङ्काशो मदाच्चलितमानसः |
गन्धहस्तीति विख्यातः सरः समभिगम्य तत् || ३८ ||
तृषितः स जलम् प्राप्य कुसुमाकरशीतलम् |
अपिबत्सहसा राजन्करेणुपरिवारितः |
सलीलम् पङ्कजवने यूथमध्यगतोऽव्रजत् || ३९ ||
गृहीतस्तेन रौद्रेण ग्राहेणाव्यक्तमूर्तिना |
पश्यन्तीनाम् करेणूनाम् क्रोशन्तीनाम् च दारुणम् || ४० ||
क्रियते पङ्कजवने ग्राहेणातिबलीयसा |
वारुणैः सम्यतः पाशैर्निःप्रयत्नगतिः कृतः |
वेष्ट्यमानः सुघोरैस्तु पाशैर्नागो दृढैस्तथा || ४१ ||
विस्फुर्ज्य च यथाशक्ति विक्रुश्य च महारवान् |
व्यथितः सन्निरुत्साहो गृहीतो घोरकर्मणा || ४२ ||

(गजश्चाकर्षते तीरम् ग्राहश्चाकर्षते जलम् |
द्वन्द्व महायुद्धम् दिव्यवर्षसहस्रिकम् |)
परमापदमापन्नो मनसाचिन्तयद्धरितम् |
स तु नागवरः श्रीमान्नारायणपरायणः || ४३ ||
तमेव परमम् देवम् गतः सर्वात्मना तदा |
एकाग्रम् चिन्तयामास विशुद्धेनान्तरात्मना || ४४ ||

एकात्मा त्रिविधेनापि एकात्मा निग्रहीतात्मा
जन्मजन्मान्तराभ्यासाद्भक्तिमान्गरुडध्वजे |
आद्यम् देवम् महात्मानम् पूजयामास केशवम् || ४५ ||
नवमेघप्रतीकाशम् शङ्खचक्रगदाधरम् |

अमृतात्मक मेधाभम् अमृतात्मा तमेवाङ्गम्
सहस्रशुभनामानमादिदेवमजम् परम् || ४६ ||
(दिग्बाहुम् सर्वमूर्धानम् भूपादम् गगनोदरम् |
आदित्यचन्द्रनयनम् समग्रम् लोकसाक्षिणम् |
भगवन्तम् प्रसन्नोऽहम् विष्णुमप्रतिमौजसम् |)
प्रगृह्य पुष्कराग्रेण काञ्चनम् कमलोत्तमम् |
आपद्विमोक्षमन्विच्छन्गजः स्तोत्रमुदैरयत् || ४७ ||

गजेन्द्र उवाच –
ॐ नमो मूलप्रकृतये अजिताय महात्मने || १ ||
अनाश्रिताय देवाय निःस्पृहाय नमो नमः || २ ||
नम आद्याय बीजाय शिवाय च प्रशान्ताय || ३ ||
आर्षेयाय प्रवर्तिने निश्चलाय यशस्विने || ४ ||
अनन्तराय चैकाय सनातनाय पूर्वाय || ५ ||
अव्यक्ताय नमो नमः पुराणाय नमो नमः || ६ ||
नमो गुह्याय गूढाय || ७ ||

गुणायागुणवर्तिने || ८ ||
अतर्क्यायाप्रमेयाय || ९ ||

अनन्ताय नमो नमः || १० ||
नमो देवातिदेवाय || ११ ||

अप्रभाय नमो नमः || १२ ||
नमो जगत्प्रस्थिताय गोविन्दाय नमो नमः || १३ ||
नमोऽस्तु पद्मनाभाय साङ्ख्ययोगोद्भवाय च || १४ ||
विश्वेश्वराय देवाय शिवाय हरये नमः || १५ ||
नमोऽस्तु तस्मै देवाय निर्गुणाय गुणात्मने || १६ ||
नारायणाय विश्वाय देवानाम् परमात्मने || १७ ||

नमो नमः कारणवामनाय नारायणायामितविक्रमाय |
श्रीशार्ङ्गचक्रासिगदाधराय नमोऽस्तु तस्मै पुरुषोत्तमाय || ४८ ||
आद्याय वेदनिलयाय महोदराय सिम्हाय दैत्यनिधनाय चतुर्भुजाय |

गुह्याय वेदनिकयाय महोदराय…………….
ब्रह्मेन्द्ररुद्रमुनिचारणसम्स्तुताय |

देवोत्तमाय वरदाय नमोऽच्युताय || ४९ ||
नागेन्द्रभोगशयनासनसुप्रियाय |

गोक्षीरहेमशुकनीलघनोपमाय |
पीताम्बराय मधुकैटभनाशनाय |
विश्वाय चारुमुकुटाय नमोऽक्षराय
भक्तिप्रियाय वरदीप्तसुदर्शनाय || ५० ||

नाभिप्रजातकमलस्थचतुर्मुखाय |
क्षीरोदकार्णवनिकेतयशोधनाय |

नानाविचित्रमुकुटाङ्गदभूषणाय |
सर्वेश्वराय वरदाय नमो वराय || ५१ ||

विश्वात्मने परमकारणकारणाय |
फुल्लारविन्दविमलायतलोचनाय |

देवेन्द्रदानवपरीक्षितपौरुषाय |
योगेश्वराय विजयाय नमो वराय || ५२ ||

लोकायनाय त्रिदशायनाय ब्रह्मायनायात्मभवायनाय |
धर्मायनायैकजलायनाय महावराहाय सदा नतोऽस्मि || ५३ ||

नारायणायात्महितायनाय महावराहाय नमस्करोमि |

अचिन्त्यमव्यक्तमनन्तरूपम् नारायणम् कारणमादिदेवम् |

कूटस्थम्मव्यक्तमचिन्त्यशक्तिम् रूपम्

युगान्तशेषम् पुरुषम् पुराणम् तम् वासुदेवम् शरणम् प्रपद्ये || ५४ ||

योगेश्वरम् चारुविचित्रमौलिमाज्ञेयमौख्यम् प्रकृतेः परस्थम् |

चाद्य लिम् ज्ञेयम् स्वमान्यम् प्रकृ……………..

क्षेत्रज्ञमात्मप्रभवम् वरेण्यम् तम् वासुदेवम् शरणम् प्रपद्ये |

अदृश्यमच्छेद्यमनादिमध्यम् महर्षयो ब्रह्मविदः सुरेशम् |

अनन्तमव्ययम् मयम् सनातनम्

वदन्ति यम् वै पुरुषम् सनातनम् तम् वासुदेवम् शरणम् प्रपद्ये || ५५ ||

यदक्षरम् ब्रह्म वदन्ति सर्वगम् निशाम्य यम् मृत्युमुखात् प्रमुच्यते |

तमीश्वरम् तृप्तमनोपमैर्गुणैः परायणम् विष्णुमुपैमि शाश्वतम् || ५६ ||

कार्यम् क्रियाकारणमप्रमेयम् हिरण्यनाभम् वरपद्मनाभम् |

महाबलम् वेदनिधिम् सुरोत्तमम् व्रजामि विष्णुम् शरणम् जनार्दनम् || ५७ ||

विचित्रकेयूरमहार्हनिष्कम् रत्नोत्तमालङ्कृतसर्वगात्रम् |

पीताम्बरम् काञ्चनभक्तिचित्रम् मालाधरम् केशवमभ्युपैमि || ५८ ||

भवोद्भवम् वेदविदाम् वरिष्ठम् योगात्मानम् साङ्ख्यविदाम् वरिष्ठम् |

आदित्यचन्द्राश्विवसुप्रभावम् प्रभुम् प्रपद्येऽच्युतमात्मभूतम् || ५९ ||

श्रीवत्साङ्कम् महादेवम् वेदगुह्यमनुत्तमम् |
प्रपद्ये सूक्ष्ममचलम् भक्तानामभयप्रदम् || ६० ||
प्रभवम् सर्वलोकानाम् निर्गुणम् परमेश्वरम् |

प्रपद्ये मुक्तसङ्गानाम् यतीनाम् परमाम् गतिम् || ६१ ||

भगवन्तम् सुराध्यक्षमक्षरम् पुष्करेक्षणम् |

शरण्यम् शरणम् भक्त्या प्रपद्ये ब्राह्मणप्रियम् || ६२ ||

त्रिविक्रमम् त्रिलोकेशमाद्यमेकमनामयम् |

भूतात्मानम् महात्मानम् प्रपद्ये मधुसूदनम् || ६३ ||

(आदिदेवमजम् शम्भुम् व्यक्ताव्यक्तम् जनार्दनम् |

क्षेत्रज्ञम् पुरुषम् यज्ञम् त्रिगुणातीतमव्ययम् |)

नारायणमणीयाम्सम् प्रपद्ये परमेश्वरम् || ६४ ||

अकूपाराय देवाय नमस्सर्वमहाद्युते

प्रपद्ये देवदेवेशम् अणीयाम्सम् अणोस्सदा

एकाय लोकत्रयाय परतः परमात्मने |

नमः सहस्रशिरसे अनन्ताय महात्मने || ६५ ||

वरेण्यमनघम् देवमृषयो वेदपारगाः |

कीर्तयन्ति च यम् सर्वे तम् प्रपद्ये सनातनम् || ६६ ||

नमस्ते पुण्डरीकाक्ष भक्तानामभयप्रद |

सुब्रह्मण्य नमस्तेऽस्तु त्राहि माम् शरणागतम् || ६७ ||

भीष्म उवाच –

भक्तिम् तस्यानुसञ्चिन्त्य नागस्यामोघसम्स्तवम् |

प्रीतिमान् अभवद्राजञ्शङ्खचक्रगदाधरः |

सान्निध्यम् कल्पयामास तस्मिन् सरसि माधवः || ६८ ||

ग्राहग्रस्तम् गजम् तम् च सङ्गृह्य सलिलाशयात् |

उज्जहाराप्रमेयात्मा तरसैवारिसूदनः || ६९ ||

स्थलस्थम् दारयामास ग्राहम् चक्रेण माधवः |

मोक्षयामास च गजम् पाशेभ्यः शरणागतम् || ७० ||

स हि देवलशापेन हूहू गन्धर्वसत्तमः |

गजत्वमगमत् कृष्णान्मोक्षम् प्राप्य दिवम् गतः |

शापाद्विमुक्तः सद्यश्च गजो गन्धर्वताम् गतः || ७१ ||

आपद्विमुक्तो युगपत् गजो गन्धर्व एव च

ग्राहोऽपि यक्षताम् यातो यः कृष्णेन निपातितः |

तस्यापि शापमोक्षोऽसौ जैगीषव्यकृतोऽभवत् || ७२ ||

प्रीतिमाम्स्त्राति गोविन्दः सद्यः सम्सारसागरात् |

प्रीतिमान् पुण्डरीकाक्षश्शरगतवत्सलः

अभवत्तत्रदेवेशस्ताभ्याम् चैव प्रपूजितः

क्रुद्धोऽपि निघ्नन् देवत्वमरातीनाम् प्रयच्छति || ७३ ||

(तौ च स्वम् स्वम् वपुः प्राप्य प्रणिपत्य जनार्दनम् |

गन्धर्वराट् तथा यक्षः पराम् निर्वृतिमागतौ || ७४ ||

इदम् चैव महाबाहो देवदेवोऽभ्यभाषत |

दृष्ट्वा मुक्तौ गजग्रहौ भगवान् मधुसूदनः || ७५ ||

भजन्तम् गजराजानम् मधुरम् मधुसूदनः

भगवान् उवाच –

यो ग्राहम् नागराजम् च माम् चैव प्रणिधानवान् |

स्मरिष्यति सरश्चेदम् युवयोर्मोक्षणम् तथा || ७६ ||

येमान्म्माम् च सरश्चैव ग्राह्यश्च विदारणम्  |

गुल्मान् चक्रवेणून्नाम् रूपम् मधवत्तदा |

गुल्मम् कीचकवेणूनाम् तम् च शैलवरम् तथा |

अश्वत्थम् भास्करम् गङ्गाम् नैमिषारण्यमेव च || ७७ ||

प्रयोगम् ब्रह्मदुर्गांश्च दण्डकारण्यमेव च

सम्स्मरिष्यन्ति ये मर्त्याः सम्यक् श्रोष्यन्ति वापि ये |

(न ते दुःस्वप्नपापस्य भोक्तारो मत्परिग्रहात् || ७८ ||

सर्वपापैः प्रमोक्ष्यन्ते कल्याणानाम् च भागिनः |

भविष्यन्ति तथा पुण्याम् गतिम् यास्यन्ति मानवाः |

दुःस्वप्नम् च नृणाम् तेषाम् सुस्वप्नम् च भविष्यति || ७९ ||)

कौर्म्यम् मात्स्यम् च वाराहम् वामनम् तार्क्ष्यमेव च |

नारसिम्हम् तथा रूपम् सृष्टिसम्हारकारकम् || ८० ||

एतानि प्रातरुत्थाय सम्स्मरिष्यन्ति ये नराः |
सर्वपापविनिर्मुक्तास्ते यान्ति परमाम् गतिम् || ८१ ||

भीष्म उवाच –

एवमुक्त्वा तु राजेन्द्र देवदेवो जनार्दनः |

अस्पृशद्गजगन्धर्वम् ग्राहयक्षम् च तम् तदा || ८२ ||

त्वा नरश्रेष्ठः नागेन्द्रम् मधुसूधनः

स्पर्शयामास हस्तेन गजम् गन्धर्वमेव च

तेन स्पृष्टावुभौ सद्यो दिव्यमाल्याम्बरान्वितौ |

विमानेऽभिमते प्राप्य जग्मतुस्त्रिदशालयम् || ८३ ||

ततो दिव्यवपुर्भूत्वा हस्तिराट् परमम् पदम्

गच्छति स्म महाबाहो नारायणपरायणः

ततो देवपतिः कृष्णो मोक्षयित्वा गजोत्तमम् |

ऋषिभिः स्तूयमानो हि गुह्यैर्वेदपदाक्षरैः |

गतः स भगवान्विष्णुर्दुर्विज्ञेयगतिः प्रभुः || ८४ ||

गजेन्द्रमोक्षणम् दृष्ट्वा सर्वे चेन्द्रपुरोगमाः |

ब्रह्माणमग्रतः कृत्वा सर्वे प्राञ्जलयोऽभवन् |
ववन्दिरे महात्मानम् प्रभुम् नारायणम् हरिम् |
विस्मयोत्फुल्लनयनाः प्रजापतिपुरःसराः |

य इदम् शृणुयान्नित्यम् प्रातरुत्थाय मानवः |

प्राप्नुयात् परमाम् सिद्धिम् दुःस्वप्नस्तस्य नश्यति |

गजेन्द्रमोक्षणम् पुण्यम् सर्वपापप्रमोचनम् |

श्रावयेत् प्रातरुत्थाय सर्वपापैः प्रमुच्यते || ८५ ||

श्रद्धया हि कुरुश्रेष्ठ स्मृतेन कथितेन च |

गजेन्द्रमोक्षणेनेह दीर्घमायुरवाप्नुयात् || ८६ ||

मया ते कथितम् दिव्यम् पवित्रम् पापनाशनम् |

कीर्तयस्व महाबाहो महादुःस्वप्ननाशनम् || ८७ ||

चरितं पुण्यफलदम् पुष्कलम् तव दर्धते

भक्तिमान् पुण्डरीकाक्षे नरो दुःखात् प्रमुच्यते

भ्रादभिस्सहितो राजन् ब्राह्मणैर्वेदपारगैः

पूजयामास देवाम् प्रार्श्वस्थम् मधुसूधनम्

शौनक उवाच –

कीर्त्यमानम् च विप्रेभ्यः शृणु भक्त्या यथोदितम् |

गजेन्द्रमोक्षणम् श्रुत्वा कुन्तीपुत्रो युधिष्ठिरः |

भीष्माद्भगीरथीपुत्रात् पूजयामास केशवम् || ८८ ||

यदामहाग्राहगृहीतकातरम् सुपुर्पितम् पद्मवने महाद्विपम्

विमोक्षयामास गजम् जनार्दनः स्मरामि दुस्वप्नविनाशनम् हरिम्

परम्पराणाम् परमम् पवित्रम् पुराणमीशम् सर्वलोकनाथम्

सर्वामरैरर्चित पादपद्मम् सनातनम् भक्त…..स्मरामि

वरगजचरणप्रमुक्तिहेतोः पुरुषवरस्य तदेव दिव्यगीतम्

सततमपिपठन्ति ये तु तेषाम् भवमरणान्तर किल्बिषापहम्सयात् |

आकाशाप्तत्पतितम् तोयम् यथा गच्छति सागरम्

सर्वदेव नमस्कारः केशवम् प्रतिगच्छति |

पृथ्वीम् प्रियदत्तेपि गाम्वै सर्वम् सहेति च

विष्णुम् ब्रह्मण्यदेवेति कीर्तयेन्नावसीदति

सर्व देवेषु यत्पुण्यम् सर्व तीर्थेषुयत्फलम्

तत्फलम्समवाप्नोति स्मृत्वा देवम् जनार्दनम्

ब्रह्मण्यो देवकी पुत्रो ब्रह्मण्यो मधुसूधनः

ब्रह्मण्यो पुण्डरीकाक्षो ब्रह्मण्यो विष्णुरच्युतः

मेरुमन्दरमात्रोऽपि राशिः पापस्यकर्मणः

केशवम् वैद्यम् आसाद्य दुर्व्याधिरिव नश्यति

नमो ब्रह्मण्य देवाय गो ब्राह्मण हिताय च

जगद्धिताय कृष्णाय गोविन्दाय नमो नमः

ये चापि पाण्डुपुत्रस्य समीपस्था द्विजोत्तमाः |
तेऽपि भीष्मस्य पार्श्वस्थम् वासुदेवम् प्रणेमिरे || ८९ ||

वरम् वरेण्यम् वरपद्मनाभम् नारायणम् ब्रह्मनिधिम् पुरेशम् |
तम् देवगुह्यम् पुरुषम् पुराणम् ववन्दिरे ब्रह्मविदाम् वरिष्ठम् || ९० ||

एतत्पुण्यम् महाराज नराणाम् पापकर्मणाम् |

दुःस्वप्नदर्शने घोरे श्रुत्वा पापात् प्रमुच्यते |

भक्तिमान्पुण्डरीकाक्षे गजो दुःखाद्विमोचितः || ९१ ||

तथा त्वमपि राजेन्द्र प्रपद्य शरणम् हरिम् |
विमुक्तः सर्वपापेभ्यः प्राप्स्यसे परमाम् गतिम् || ९२ ||

इति विष्णुधर्मे गजेन्द्रमोक्षणस्तवो नाम एकोनसप्ततितमोऽध्यायः

सप्ततितमोऽध्यायः

अनुस्मृतिः

शतानीक उवाच –
महामते महाप्राज्ञ सर्वशास्त्रविशारद |

अक्षीणकर्मबन्धस्तु पुरुषो द्विजसत्तम || १ ||
मरणे यज्जपञ्जप्यम् यच्च भावम् अनुस्मरन् |

परम् पदमवाप्नोति तन्मे वद महामुने || २ ||

शौनक उवाच –
श्रीवत्साङ्कम् जगद्बीजमनन्तम् लोकभावनम् |

पुरा नारायणम् देवम् नारदः पर्यपृच्छत || ३ ||

नारद उवाच –

त्वामक्षरम् परम्ब्रह्म निर्गुरम् तमसः परम्

आह्लस्त्वाम् परम् धाम ब्रह्मादि कमलोद्भवम्
भगवन् भूतभव्येश श्रद्दधानैर्जितेन्द्रियैः |

कथम् भक्तैर्विचिन्त्योऽसि मरणे प्रत्युपस्थिते || ४ ||
किम् वा जप्यम् जपेन्नित्यम् कल्यमुत्थाय मानवः |
स्वपन्विबुध्यन् ध्यायन्श्च तन्मे ब्रूहि सनातनम् || ५ ||

शौनक उवाच –
श्रुत्वा तस्य तु देवर्षेर्वाक्यम् वाक्यविशारदः |

प्रोवाच भगवान्विष्णुर्नारदम् जगतो गतिः || ६ ||

भगवानुवाच –
हन्त ते कथयिष्यामि मुने दिव्यामनुस्मृतिम् |

मरणे यामनुस्मृत्य प्राप्नोति परमाम् गतिम् || ७ ||

यामधीत्य प्रयाणेषु महत्वायोपपध्यते
ओंकारमादितः कृत्वा मामनुस्मृत्य मन्मनाः |

एकाग्रप्रयतो भूत्वा इदम् मन्त्रमुदीरयेत् || ८ ||

ॐ नमो भगवते वासुदेवाय
अव्यक्तम् शाश्वतम् देवमनन्तम् पुरुषोत्तमम् |

प्रपद्ये प्राञ्जलिर्विष्णुमच्युतम् परमेश्वरम् || ९ ||

यामधीत्य प्रयाणेषु महत्वायोपपध्यते

पुराणम् परमम् विष्णुमद्भुतम् लोकभावनम् |
प्रपद्ये पुण्डरीकाक्षमीशम् भक्तानुकम्पिनम् || १० ||
लोकनाथम् प्रपन्नोऽस्मि अक्षरम् परमम् पदम् |
भगवन्तम् प्रपन्नोऽस्मि भूतभव्यभवत्प्रभुम् || ११ ||
स्रष्टारम् सर्वभूतानामनन्तबलपौरुषम् |

पद्मनाभम् हृषीकेशम् प्रपद्ये सत्यमव्ययम् || १२ ||
हिरण्यगर्भम् भूगर्भममृतम् विश्वतोमुखम् |
आभास्वरमनाद्यन्तम् प्रपद्ये भास्करद्युतिम् || १३ ||

प्रभो प्रभुम् अनाद्यन्तम् प्रपद्ये सत्यमच्युतम्
सहस्रशिरसम् देवम् वैकुण्ठम् तार्क्ष्यवाहनम् |

प्रपद्ये सूक्ष्ममचलम् वरेण्यमभयप्रदम् || १४ ||
नारायणम् नरम् हम्सम् योगात्मानम् सनातनम् |

शरण्यम् सर्वलोकानाम् प्रपद्ये ध्रुवमीश्वरम् || १५ ||
यः प्रभुः सर्वलोकानाम् येन सर्वमिदम् ततम् |

चराचरगुरुर्देवः स नो विष्णुः प्रसीदतु || १६ ||
यस्माज्जातः पुरा ब्रह्मा पद्मयोनिः पितामहः |

प्रसीदतु स नो विष्णुः पिता माता पितामहः || १७ ||
यः पुरा प्रलये प्राप्ते नष्टे लोके चराचरे |

ब्रह्मादिषु प्रलीनेषु नष्टे लोके चराचरे

अभूतम् सप्लवेत्प्राप्ते प्रलीने प्रकृतौ महान्

एकस्तिष्ठति योगात्मा स नो विष्णुः प्रसीदतु || १८ ||
चतुर्भिश्च चतुर्भिश्च द्वाभ्याम् पञ्चभिरेव च |

हूयते च पुनर्द्वाभ्याम्स नो विष्णुः प्रसीदतु |

पर्जन्यः पृथिवी सस्यम् कालो धर्मः क्रिया फलम् |

गुणाकरः स नो बभ्रुर्वासुदेवः प्रसीदतु || १९ ||

अग्नीषोमार्कताराणाम् ब्रह्म रुद्रेन्द्रयोगिनाम्

स्तैजयसि तेजाम्सि समे विष्णु प्रसीदतु |
योगावास नमस्तुभ्यं सर्वावास वरप्रद |

यज्ञगर्भ महाभाग पञ्चयज्ञ नमोऽस्तु ते || २० ||
चतुर्मूर्ते जगद्धाम लक्ष्म्यावास वरप्रद |

सर्वावास नमस्तेऽस्तु साक्षिभूत जगत्पते || २१ ||

अजस्त्वम् अगमः पन्थाःअमूर्तिर्विश्वमूर्तिभृत्
अजेय खण्डपरशो विश्वमूर्ते वृषाकपे |

त्रिगर्ते पञ्चकालज्ञ नमस्ते ज्ञानसागर || २२ ||
अव्यक्तादण्डमुत्पन्नमव्यक्ताद्यः परः प्रभुः |
यस्मात् परतरम् नास्ति तमस्मि शरणम् गतः || २३ ||

न प्रधानो न च महान् पुरुषश्वेतनोप्यजः|

अनयोर्यः परतरः तमस्मि शरणागतः|

सोमकाग्निमयम् तेजो याचतारामयीद्युतिः |

दिवसम् जायते योऽयम् स महात्मा प्रसीदतु ||

क्षेत्रज्ञ पञ्चधा भुङ्क्ते प्रकृतिः पञ्चभिर्मुखैः

महान् गुणान्न्च यो भुङ्क्ते स महात्मा प्रसीदतु ||
चिन्तयन्तो हि यम् नित्यम् ब्रह्मेशानादयः प्रभुम् |

निश्चयम् नाधिगच्छन्ति तमस्मि शरणम् गतः || २४ ||
जितेन्द्रिया महात्मानो ज्ञानध्यानपरायणाः |

यम् प्राप्य न निवर्तन्ते तमस्मि शरणम् गतः || २५ ||
एकाम्शेन जगत्सर्वम् योऽवष्टभ्य विभुः स्थितः |

अग्राह्यो निर्गुणः शास्ता तमस्मि शरणम् गतः || २६ ||
सूर्यमध्ये स्थितस्सोमः तस्यमध्ये तु या स्थिता |

भूतबाह्व्य या दीप्तिः स मे विष्णु प्रसीदतु ||

गुणादिनिगुणश्वाद्यो लक्ष्मीवानश्चेतनो ह्यजः

सूक्ष्मसर्वगतो  देहि स मे विष्णु प्रसीदतु ||

क्षेत्रज्ञमिति यम् प्राहुः स महात्मा प्रसीदतु || २७ ||

अव्यक्तमनवस्थानो दुर्विज्ञेयः सनातनः |

आस्थितः प्रकृतिम् भुङ्क्ते स महात्मा प्रसीदतु || २८ ||

क्षेत्रज्ञः पञ्चधा भुङ्क्ते प्रकृतिम् बहुभिर्गुणैः |

मनोगुणाम्श्च यो भुङ्क्ते स महात्मा प्रसीदतु || २९ ||
साङ्ख्या योगाश्च ये चान्ये सिद्धाश्चैव महर्षयः |

यम् विदित्वा विमुच्यन्ते स महात्मा प्रसीदतु || ३० ||
नमस्ते सर्वतोभद्र सर्वतोऽक्षिशिरोमुख |

निर्विकार नमस्तेऽस्तु साक्षिभूत हृदिस्थित |

अतीन्द्रिय नमस्तुभ्यम् लिङ्गेभ्यस्त्वम् प्रमीयसे || ३१ ||
ये तु त्वाम् नाभिजानन्ति सम्सारे सम्सरन्ति ते |

रागद्वेषविनिर्मुक्तम् लोभमोहविवर्जितम् |

नान्यभक्ता विजानन्ति न पुनर्मारका द्विजाः

एकान्तिनो हि निर्द्वन्द्वा निराशाः कर्म कारिणः

(ज्ञानाग्निदग्ध कर्माणस्त्वाम् विशन्ति विपश्चितः ||)

अशरीरम् शरीरस्थम् समम् सर्वेषु देहिषु || ३२ ||

कामक्रोध विनिर्मुक्ताः भक्तास्त्वाम् प्रविशन्त्युत

अव्यक्तम् बुद्ध्यहङ्कारौ महाभूतेन्द्रियाणि च |
त्वयि तानि न तेषु त्वम् तेषु त्वम् तानि न त्वयि || ३३ ||

त्वयितानि च ते त्वम् न तेषुत्वम् न ते त्वयि

एकत्वान्यत्वनानात्वम् ये विदुर्यान्ति ते परम्

समोहम् सर्वभूतेषु नमे द्वेष्योस्ति स ह्वियः ||

समत्वम् अभिकाङ्केऽहम् भक्त्याचैवान्य चेतसा

चराचरमिदम् सर्वम् भूतग्रामम् चतुर्विधम्

त्वया त्वय्येव तत्प्रोक्तम् सूत्रे मणिगणा इव

स्पृष्टा भोक्ता च कूटस्थो हि अत्तत्त्व तत्त्व सञ्चितम्

अकर्ता हेतुरचलः पृथगात्मा अवस्थितः
स्रष्टा भोक्तासि कूटस्थो गुणानाम् प्रभुरीश्वरः |

अकर्ता हेतुरहितः प्रभुः स्वात्मन्यवस्थितः || ३४ ||
नमस्ते पुण्डरीकाक्ष पुनरेव नमोऽस्तु ते |

ईश्वरोऽसि जगन्नाथ किमतः परमुच्यते |

भक्तानाम् यद्धितम् देव तद्ध्याय त्रिदशेश्वर || ३५ ||
मा मे भूतेषु सम्योगः पुनर्भवतु जन्मनि |

न ते भूतेषु सम्योगः भूततत्त्वगुणा गतिः

अहङ्कारेण बुद्ध्या वा तथा सत्त्वादिभिर्गुणैः || ३६ ||
मा मे धर्मो ह्यधर्मो वा पुनर्भवतु जन्मनि |

विषयैरिन्द्रियैर्वापि मा मे भूयात् समागमः || ३७ ||
पृथिवीम् यातु मे घ्राणम् यातु मे रसना जलम् |

चक्षुर्हुताशनम् यातु स्पर्शो मे यातु मारुतम् || ३८ ||
शब्दो ह्याकाशमभ्येतु मनो वैकारिकम् तथा |

अहङ्कारश्च मे बुद्धिम् त्वयि बुद्धिः समेतु च || ३९ ||

इन्द्रियाणि गुणाख्यानि स्वासु स्वासु च योनिषु

प्रुथिवीयातु सलिलम् आपोग्निम् अनलोऽनिलम्

वायुराकाशमध्ये तु मन आकाशमेव च

अहङ्कारम् मनो  यातु मोहनम् अर्वा सर्व देहिनाम्

अहन्कारस्तथा बुद्धौ बुद्धिरव्यक्तमप्युत

याते प्रकृति पातेन गुणसाम्ये व्यवस्थिते
वियोगः सर्वकरणैर्गुणैर्भूतैश्च मे भवेत् |

सत्त्वम् रजस्तमश्चैव प्रकृतिम् प्रविशन्तु मे || ४० ||
निष्केवलम् पदम् चैव प्रयामि परमम् तव |

एकीभावस्त्वयैवास्तु मा मे जन्म भवेत् पुनः || ४१ ||
नमो भगवते तस्मै विष्णवे प्रभविष्णवे |

त्वन्मनास्त्वद्गतप्राणस्त्वद्भक्तस्त्वत्परायणः |

त्वामेवानुस्मरे देव मरणे प्रत्युपस्थिते || ४२ ||
पूर्वदेहकृता ये मे व्याधयस्ते विशन्तु माम् |

आर्दयन्तु च दुःखानि प्रविमुञ्चामि यदृणम् || ४३ ||

अनुध्यातोस्मि देवेश न मे जन्म भवेत्पुनः

तस्मात् ब्रवीमि कर्माणि ऋणम् मे न भवेदिति ||
उपतिष्ठन्तु मे रोगा ये मया पूर्वसञ्चिताः |
अनृणो गन्तुमिच्छामि तद्विष्णोः परमम् पदम् || ४४ ||
अहम् भगवतस्तस्य मम चासौ सुरेश्वरः |

तस्याहम् न प्रणश्यामि स च मे न प्रणश्यति || ४५ ||
नमो भगवते तस्मै येन सर्वमिदम् ततम् |

तमेव च प्रपन्नोऽस्मि मम यो यस्य चाप्यहम् || ४६ ||
इमामनुस्मृतिम् नित्यम् वैष्णवीम् पापनाशनीम् |
स्वपञ्जाग्रत्पठेद्यस्तु त्रिसन्ध्यम् वापि यः स्मरेत् || ४७ ||
मरणे चाप्यनुप्राप्ते यस्त्विमाम् समनुस्मरेत् |

अपि पापसमाचारः सोऽपि याति पराम् गतिम् || ४८ ||

कर्मेन्द्रियाणि सम्यम्य पञ्चबुद्धीन्द्रियाणि च

दशेन्द्रियाणि मनसि अहम्-नरे तथा ममः

अहङ्कारम् तथा बुद्धौ बुद्धिम् आत्मनि याजयेत्

इति बुद्धीन्द्रियः पश्येत् बुद्ध्या बद्धये परात्परम्

……. मधूय …..यस्याहम् येन सर्वम् इदम् ततम्

आत्मनात्मनि सम्योज्य परमात्मनि अनुस्मरेत्

ततो बुद्धेः परम् बुद्ध लभते पुनर्भवम्
अर्चयन्नपि यो देवम् गृहे वापि बलिम् ददेत् |

जुह्वदग्निम् स्मरेद्वापि लभते स पराम् गतिम् || ४९ ||

यज्ञम् दानम् तपस्तस्मात् कुर्यादाशाविवर्जितः
पौर्णमास्याममावास्याम् द्वादश्याम् च विशेषतः |

श्रावयेच्छ्रद्दधानम्स्तु ये चान्ये मामुपाश्रिताः || ५० ||
नम इत्येव यो ब्रूयान्मद्भक्तः श्रद्धयान्वितः |

तस्य स्युरक्षया लोकाः श्वपाकस्यापि नारद ! || ५१ ||
किम् पुनर्ये यजन्ते माम् साधवो विधिपूर्वकम् |

श्रद्धावन्तो यथात्मानस्तेमाम् यान्ति मदाश्रिताः

ध्यायन्ति च यथान्यायम् ते यान्ति परमाम् गतिम् || ५२ ||
मामेव तस्मात् देवर्षे ध्याहि सत्यमतन्द्रितः

अवाप्स्यसि ततस्सिद्धिम् द्रक्ष्यसे च परमम् मम ||

अज्ञानाय च यो ज्ञानम् दद्यात् धर्मोपदेशनम्

इष्टम् दत्तम् तपोऽधीतम् व्रतानि नियमाश्च ये |

सर्वमेतद्विनाशान्तम् ज्ञानस्यान्तो न विद्यते || ५३ ||

अश्वमेधसहस्राणाम् यः सहस्रम् समाचरेत् |

नासौ तत्पदमाप्नोति मद्भक्तैर्यदवाप्यते || ५४ ||

यो दद्याद्भगवज्ज्ञानम् कुर्याद्वा धर्मदेशनाम् |

कृत्स्नाम् वा पृथिवीम् दद्यान्न तु तुल्यम् कथञ्चन  || ५५ ||
तस्मात् प्रदेयम् साधुभ्यो धर्म्यम् सत्त्वाभयङ्करम् |
दानादीन्यन्तवन्तीह मद्भक्तो नान्तमश्नुते || ५६ ||
कान्तारवनदुर्गेषु कृच्छ्रेष्वापत्सु सम्भ्रमे |

दस्युभिः सन्निरुद्धश्च नामभिर्माम् प्रकीर्तयेत् || ५७ ||
वराहो रक्षतु जले विषमेषु च वामनः |

रामो रामश्च रामश्च त्रायन्ताम् दस्युदोषतः |

अटव्याम् नारसिम्हस्तु सर्वतः पातु केशवः || ५८ ||
बद्धः परिकरस्तेन मोक्षाय गमनम् प्रति |

सकृदुच्चारितम् येन हरिरित्यक्षरद्वयम् || ५९ ||

स्मरणादेव कृष्णस्य पापसङ्घात पञ्जरम् |

शतधा भेदमायाति गिरिर्वज्रहतो यथा
जन्मान्तरसहस्राणि तपोज्ञानसमादिभिः |

नराणाम् क्षीणपापाणाम् कृष्णे भक्तिः प्रजायते |
गत्वा गत्वा निवर्तने चन्द्रसूर्यादयो ग्रहाः |
अद्यापि न निवर्तन्ते द्वादशाक्षरचिन्तकाः |

न वासुदेवात् परमस्ति मङ्गलम् न वासुदेवात् परमम् पवित्रम् |

न वासुदेवात् परमस्ति दैवतम् न वासुदेवम् प्रणिपत्य सीदति |
तस्मान्मामेव देवर्षे ध्यायस्वातन्द्रितः सदा |
अवाप्स्यसि ततः सिद्धिम् पदम् द्रक्ष्यसि च ध्रुवम् || ६० ||

शौनक उवाच –
एवम् स देवदेवेन नारदः प्रतिबोधितः |

चकार केशवे भक्तिम् तस्मात्त्वम् कुरु भूपते || ६१ ||
यः पठेत् परया भक्त्या स गच्छेद्विष्णुसाम्यताम् |

एतत्पुण्यम् पापहरम् धन्यम् दुःस्वप्ननाशनम् || ६२ ||

इति विष्णुधर्मे अनुस्मृतिर्नाम सप्ततितमोऽध्यायः

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.