श्री विष्णुधर्मः अध्यायः 81-90
एकाशीतितमोऽध्यायः
बलिप्रह्लादसम्वादः
शौनक उवाच –
एवम् स्तुते ततस्तस्मिन् विष्णुचक्रे सुदर्शने |
पुष्पवृष्टिर्बलेर्मूर्ध्नि निपपातान्तरिक्षतः |
परिहृत्य च दैत्येन्द्रम् ययौ चक्रम् यथेच्छया || १ ||
(भ्रमदेव च दैत्यानाम् ययौ तद्भयमावहत् |)
ततस्तदद्भुतम् दृष्ट्वा चक्रस्यागमनम् हरेः |
पूर्ववत् स्मरणम् प्राप्य सस्मार स्वपितामहम् || २ ||
गच्छता पूर्वमार्येण स्मर्तव्योऽहमितीरितम् |
तम् स्मरिष्यामि दैत्येन्द्रम् स नः श्रेयोऽभिधास्यति || ३ ||
इत्येतदधिसम्स्मृत्य बलिरात्मपितामहम् |
सस्मार दैत्याधिपतिम् प्रह्लादम् भगवत्प्रियम् || ४ ||
सम्स्मृतश्च स पातालमाजगाम महामतिः |
चक्रोद्यतकरः साक्षाद्भगवानिव केशवः || ५ ||
तमागतमथोत्थाय यथावत् स महामतिः |
अभिवाद्य बलिर्भक्त्या निवेद्यार्घमभाषत || ६ ||
बलिरुवाच –
ताताङ्घ्रिदर्शनादद्य पावितोऽस्म्यपकल्मषः |
दिवश्च्युतोऽप्यहम् मन्ये शक्रादात्मानमुत्तमम् || ७ ||
त्रैलोक्यहरणादुग्रम् यद्दुःखम् हृदये मम |
तच्छान्तम् पादसम्पर्कमुपेत्य भवतोमम || ८ ||
शौनक उवाच –
इति सम्स्तूय दत्त्वा च वरासनमुदारधीः |
पर्युपासत राजेन्द्रो दैत्यानाम् स्वपितामहम् || ९ ||
तमुपासीनमनघः प्रह्लादो दैत्यपुङ्गवः |
प्रत्युवाच महात्मानम् बलिम् वैरोचनिम् नृप || १० ||
प्रह्लाद उवाच –
बले ब्रूहि यदर्थम् ते स्मृतोऽहमरिसूदन |
तवोपकारणे विद्धि धर्मे माम् सततोद्यतम् || ११ ||
बलिरुवाच –
तातेनाहम् पुराऽऽज्ञप्तो भ्रष्टराज्येन ते बले |
सम्स्मर्तव्योऽस्म्यसन्दिग्धम् श्रेयो वक्ष्याम्यहम् तदा || १२ ||
सोऽहम् राज्यपरिभ्रष्टो विषयासक्तिहृषितः |
इन्द्रियैरवशस्तात यत्कार्यम् तत्प्रशाधि माम् || १३ ||
प्रह्लाद उवाच –
यदि मद्वचनम् तात श्रद्धधासि हितम् बले |
तम् देवदेवमनघम् प्रयाहि शरणम् हरिम् || १४ ||
शब्दादिष्वनुरक्तानि तवाक्षाण्यसुराधिप |
शब्दादयश्च गोविन्दे सन्त्येव व्यवहारतः || १५ ||
गीतकैर्गीयताम् विष्णुर्मनोहारिभिरात्मनः |
अन्यालम्बनतश्चित्तमाकृष्याधत्स्व केशवे || १६ ||
गन्धानुदारान् भक्षाम्श्च स्रजो वासाम्सि चासुर |
प्रयच्छ देवदेवाय यच्छेषाण्युपयुञ्ज च || १७ ||
यत्र यत्र च ते प्रीतिर्विषये दितिजेश्वर |
तत्तमच्युतमुद्दिश्य विप्रेभ्यः प्रतिपादय || १८ ||
सर्वभूतेषु गोविन्दो बहुरूपो व्यवस्थितः |
इति मत्वा महाबाहो सर्वभूतहितो भव || १९ ||
आत्मानमच्युतम् विद्धि शत्रुम् च रिपुमात्मनः |
इति ज्ञानवतः कोपस्तव कुत्र भविष्यति || २० ||
शब्दादयो ये विषया विषयी यश्च पुरुषः |
तदशेषम् विजानीहि स्वरूपम् परमात्मनः || २१ ||
परमात्मा च भगवान् विष्वक्सेनो जनार्दनः |
तद्भक्तिमान् भागवतो नाल्पपुण्यो हि जायते || २२ ||
भगवच्छासनालम्बी भगवच्छासनप्रियः |
भगवद्भक्तिमादाय वत्स! भागवतो भव || २३ ||
भगवान् भूतकृद्भव्यो भूतानाम् प्रभवो हि यः |
भावेन तम् भजस्वेशम् भवभङ्गकरम् हरिम् || २४ ||
भजस्व भावेन विभुम् भगवन्तम् महेश्वरम् |
ततो भागवतो भूत्वा भवबन्धाद्विमोक्ष्यसे || २५ ||
सर्वभूते मनस्तस्मिन् समाधाय महामते |
प्राप्स्यसे परमाह्लादकारिणीम् परमाम् गतिम् || २६ ||
(यत्रानन्दपरम् ज्ञानम् सर्वदुःखविवर्जितम् |
तत्र चित्तम् समावेष्टुम् न शक्नोति भवान्यदि |
तदभ्यासपरस्तस्मिन् कुरु योगम् दिवानिशम् || २७ ||
तत्राप्यसामर्थ्यवतः क्रियायोगो महात्मना |
ब्रह्मणा यः समाख्यातस्तन्मनाः सततम् भव || २८ ||
करोषि यानि कर्माणि तानि देवे जगत्पतौ |
समर्पयस्व भद्रम् ते ततः कर्म प्रहास्यसि || २९ ||
क्षीणकर्मा महाबाहो शुभाशुभविवर्जितः |
लयमभ्येति गोविन्दे तद्ब्रह्म परमम् महत् || ३० ||
भोक्तुमिच्छसि दैत्येन्द्र कर्मणामथ चेत्फलम् |
ततस्तमर्चयेशेशम् ततः कर्मफलोदयः || ३१ ||
योऽर्थमिच्छति दैत्येन्द्र स समाराध्य केशवम् |
निःसम्शयमवाप्नोति धुन्धुमारो यथा नृपः || ३२ ||
अत्रिगेहसमुद्भूतम् दत्तात्रेयस्वरूपिणम् |
राज्यमाराध्य गोविन्दम् कार्तवीर्यस्तथाऽऽप्तवान् || ३३ ||
धर्मम् कृष्णप्रसादेन मुद्गलो जाजलिः कुणिः |
प्रापुरन्ये तथा कामान्नरेन्द्रा नहुषादयः || ३४ ||
जनकः सुध्वजो नाम जनकः समितिध्वजः |
धर्मध्वजस्तथा मुक्तिम् केशवाराधनाद्गतः || ३५ ||
तथान्ये मुनयो दैत्य राजानश्च सहस्रशः |
प्रापुर्मुक्तिम् महाभागाः कृत्वा भक्तिम् जनार्दने || ३६ ||
यथा हि ज्वलितो वह्निस्तमोहानिम् तदर्थिनाम् |
शीतहानिम् तथान्येषाम् स्वेदम् स्वेदाभिलाषिणाम् || ३७ ||
करोति क्षुधितानाम् च भोज्यपाकम् तथोत्कटम् |
तथैव कामान् भूतेशः स ददाति यथेप्सितान् || ३८ ||
तदेतदखिलम् ज्ञात्वा यत्तवेष्टम् शृणुष्व तत् |
कल्पद्रुमादिव हरेर्यत्ते मनसि वर्तते || ३९ ||
इति विष्णुधर्मे बलिप्रह्लादसम्वादो नाम एकाशीतितमोऽध्यायः
द्वयशीतितमोऽध्यायः
उत्क्रान्तिस्मरणम्
शौनक उवाच –
एतत् प्रह्लादवचनम् निशाम्य दितिजेश्वरः |
प्रत्युवाच महाभागम् प्रणिपत्य पितामहम् || ४० ||
सम्प्राप्तस्यामृतस्येव तव वास्यसय्नास्थि मे |
तृप्तिरेतदहम् तात श्रोतुमिच्छामि विस्तरात् || ४१ ||
अक्षीणकर्मा पुरुषो मरणे समुपस्थिते |
कीदृशम् लोकमायाति यः सम्स्मरति केशवम् || ४२ ||
यथा च वासुदेवस्य स्मरणम् तात मानवैः |
मुमूर्षुभिः प्रकर्तव्यम् तन्ममाचक्ष्व विस्तरात् || ४३ ||
किम् जप्यम् कीदृशम् रूपम् स्मर्तव्यम् च हरेस्तदा |
कथम् ध्येयम् च विद्वद्भिस्तदाचक्ष्व यथातथम् || ४४ ||
प्रह्लाद उवाच –
साधु वत्स त्वया प्रश्नः सुगुह्योऽयमुदाहृतः |
तपसाम् तात सर्वेषाम् तपो नानशनात् परम् || ४५ ||
कथ्यते च महाबाहो सम्वादोऽयम् पुरातनः |
भगीरथस्य राजर्षे ब्रह्मणश्च प्रजापतेः || ४६ ||
अतीत्यामरलोकम् च गवाम् लोकम् च मानद |
ऋषिलोकम् च योऽगच्छद्भगीरथ इति श्रुतः || ४७ ||
तम् दृष्ट्वा स वचः प्राह ब्रह्मा लोकपितामहः |
कथम् भगीरथागास्त्वमिमम् देशम् दुरासदम् || ४८ ||
न हि देवा न गन्धर्वा न मनुषा भगीरथ |
आयान्त्यतप्ततपसः कथम् वै त्वमिहागतः || ४९ ||
भगीरथ उवाच –
निःशङ्कमन्नमददम् ब्राह्मणेभ्यः
शतम् सहस्राणि सदैव दायम् |
ब्राह्मणम् व्रतम् नित्यमास्थाय विद्वन्
न त्वेवाहम् तस्य फलादिहागाम् || ५० ||
दशैकरात्रान् दश पञ्चरात्रान् एकादशैकादशकाम्स्तथैव |
ज्योतिष्टोमानाम् च शतम् यदिष्टम् फलेन तेनापि न चागतोऽहम् || ५१ ||
नाऽरिः पुनर्नाच तेनाः गतोऽहम्
यच्चावसम् जाह्नवीतीरनित्यः शतम् समास्तप्यमानस्तपोऽहम् |
प्रदाय तत्राश्वतरीसहस्रम् फलेन तस्यापि न चागतोऽहम् || ५२ ||
(दश धेनुसहस्राणि मणिरत्नविभूषिताः |)
दशार्बुदानि चाश्वानामयुतानि च विम्शतिः |
पुष्करेषु द्विजातिभ्यः प्रादाम् गाश्च सहस्रशः || ५३ ||
सुवर्णचन्द्रोत्तमधारिणीनाम् कन्योत्तमानामददम् स्रग्विणीनाम् |
षष्टिम् सहस्राणि विभूषितानाम् जाम्बूनदैराभरणैर्न तेन || ५४ ||
दशार्बुदान्यददम् गोसवे यास्त्वेकैकशो दश गा लोकनाथ |
समानवत्साः पयसा समन्विताः सुवर्णकाम्स्योपदुहा न तेन || ५५ ||
अहन्यहनि विप्रेषु एकैकम् त्रिम्शतोऽददम् |
गृष्टीनाम् क्षीरदात्रीणाम् रोहिणीनाम् शतानि च || ५६ ||
दोग्ध्रीणाम् वै गवाम् चैव प्रयुतानि दशैव तु |
प्रादाम् दशगुणम् ब्रह्मन्न च तेनाहमागतः || ५७ ||
कोटीश्च काञ्चनस्याष्टौ प्रादाम् ब्रह्मन् दश त्वहम् |
एकैकस्मिन् क्रतौ तेन फलेनाहम् न चागतः || ५८ ||
वाजिनाम् श्यामकर्णानाम् हरितानाम् पितामह |
प्रादाम् हेमस्रजाम् ब्रह्मन् कोटीर्दश च सप्त च || ५९ ||
ईषादन्तान् महाकायान् काञ्चनस्रग्विभूषितान् |
पत्नीवतः सहस्राणि प्रायच्छम् दश सप्त च || ६० ||
अलङ्कृतानाम् देवेश दिव्यैः कनकभूषणैः |
रथानाम् काञ्चनाङ्गानाम् सहस्राण्यददम् दश |
सप्त चान्यानि युक्तानाम् वाजिभिः समलङ्कृतैः || ६१ ||
दक्षिणावयवाः केचिद्देवैर्ये सम्प्रकीर्तिताः |
वाजपेयेषु दशसु प्रादाम् तेनापि नागतः || ६२ ||
शक्रतुल्यप्रभावानामिज्यया विक्रमेण च |
सहस्रम् निष्ककण्ठानाम् प्रददन् दक्षिणामहम् || ६३ ||
विजित्य नृपतीन् सर्वान् मखैरिष्ट्वा पितामह |
अष्टाभ्यो राजसूयेभ्यो न च तेनाहमागतः || ६४ ||
स्रोतश्च यावद्गङ्गायाम् छिन्नमासीज्जगत्पते |
दक्षिणाभिः प्रवृत्ताभिर्मम नागम् च तत्कृते || ६५ ||
वाजिनाम् च सहस्रे द्वे सुवर्णमणिभूषिते |
वारणानाम् शतम् चाहमेकैकस्य त्रिधाददम् |
वरम् ग्रामशतम् चाहमेकैकस्य त्रिधाददम् || ६६ ||
तपस्वी नियताहारः शममास्थाय वाग्यतः |
दीर्घकालम् हिमवति गङ्गायाश्च दुरुत्सहाम् || ६७ ||
मूर्ध्ना धाराम् महादेवः शिरसा यामधारयत् |
न तेनाप्यहमागच्छम् फलेनेह पितामह || ६८ ||
शम्याक्षेपैरयजम् देवदेव तथा क्रतूनामयुतैश्चापि यत्तः |
त्रयोदशद्वादशाहैश्च देव सपुण्डरीकैर्न च तेषाम् फलेन || ६९ ||
अष्टौ सहस्राणि ककुद्मिनामहम् शुक्लर्षभाणामददम् ब्राह्मणेभ्यः |
पत्नीश्चैषामददम् निष्ककण्ठीः तेषाम् फलेनेह न चागतोऽस्मि || ७० ||
हिरण्यरत्नरचितान् अददम् रत्नपर्वतान् |
धनधान्यसहस्राम्श्च ग्रामाञ्शतसहस्रशः || ७१ ||
शतम् शतानाम् गृष्टीनामददम् चाप्यतन्द्रितः |
इष्ट्वानेकैर्महायज्ञैर्ब्राह्मणेभ्यो धनेन च || ७२ ||
एकादशाहैरयजम् सुदक्षिणैर्द्विर्द्वादशाहैरश्वमेधैश्च देव |
बृहद्भिर्द्वादशाहैश्च अश्वमेधैः पितामह |
अर्कायणैः षोडशभिश्च ब्रह्मम्स्तेषाम् फलेनेह न चागतोऽस्मि || ७३ ||
निष्क्रामकम् चाप्यददम् योजनानाम् द्विर्विस्तीर्णम् काञ्चनपादपानाम् |
वनम् चूतानाम् रत्नविभूषितानाम् न चैव तेषामागतोऽहम् फलेन || ७४ ||
तुरायणम् तु व्रतमप्रधृष्यमक्रोधनोऽकरवम् त्रिम्शतोऽब्दान् |
शतम् गवामष्ट शतानि चाहम् दिने दिने प्राददम् ब्राह्मणेभ्यः || ७५ ||
पयस्विनीनाम् अथ रोहिणीनाम् तथैव चाप्यनडुहाम् लोकनाथ |
प्रादाम् नित्यम् ब्राह्मणेभ्यः सुरेश नेहागतस्तेन फलेन चाहम् || ७६ ||
त्रिम्शतम् विधिवद्वह्निमयजम् यच्च नित्यशः |
अष्टाभिः सर्वमेधैश्च नृमेधैर्द्विगुणैस्तथा || ७७ ||
दशभिर्विश्वजिद्भिश्च स्तोभैरष्टादशोत्तरैः |
न चैव तेषाम् देवेश फलेनाहमिहागतः || ७८ ||
सरय्वाम् बाहुदायाम् च गयायामथ नैमिषे |
गवाम् शतानामयुतमददम् न च तेन वै || ७९ ||
उत्क्रान्तिकाले गोविन्दम् स्मरन्ननशनः स्थितः |
त्यक्तवान् अस्मि यद्देहम् तेनेदृक् प्राप्तवान् फलम् || ८० ||
एवमेतदितीत्याह ब्रह्मा लोकपितामहः |
भगीरथम् महीपालम् पुण्यलोकनिवासिनम् || ८१ ||
तदेतदुक्तम् तपसाम् समस्तानाम् महामते |
गुणैरनशनम् ब्रह्मा प्रधानतरमब्रवीत् || ८२ ||
त्यजत्यनशनस्थो हि प्राणान् यः सम्स्मरन् हरिम् |
स याति विष्णुसालोक्यम् यावदिन्द्राश्चतुर्दश || ८३ ||
अतीतानागतानीह कुलानि पुरुषर्षभ |
पुनात्यनशनम् कुर्वन् सप्त सप्त च सप्त च || ८४ ||
श्लोकाश्चात्र महाबाहो श्रूयन्ते यान् भगीरथः |
जगाद ब्रह्मणो लोकमुपेतः पृथिवीपतिः || ८५ ||
ब्रह्म ब्रह्ममयम् विष्णोर्यः पदम् परमात्मनः |
सम्स्मरम्स्त्यजति प्राणान् स विष्णुम् प्रविशत्यजम् || ८६ ||
यः क्षीणकर्मा भोगेन तपसा वापि सम्स्मरन् |
करोति कालम् कालेन न परिच्छेद्यते हि सः || ८७ ||
अक्षीणकर्मा मरणे सम्स्मरन् देवमच्युतम् |
यथा त्वमेव देवानाम् लोके भोगानुपाश्नुते || ८८ ||
क्षुतितेऽपि कुले कश्चिज्जायेयम् कर्मणः क्षये |
मनुष्यो येन सर्वेशम् चिन्तयेय सदा हरिम् || ८९ ||
तच्चिन्तयाऽधुनाशेषपुण्यपापविवर्जितः |
मरणे तन्मनस्तत्र लयमेत्य तमाप्नुयात् || ९० ||
कर्मभूमौ समस्तानाम् कर्मणामुत्तमोत्तमम् |
यदन्तकाले पुरुषैः स्मर्यते पुरुषोत्तमः || ९१ ||
प्रह्लाद उवाच –
इत्येतानाह राजर्षिः श्लोकानाद्यो भगीरथः |
विष्णुसम्स्मरणात् प्राप्य लोकाननशने मृतः || ९२ ||
एवमत्यन्तशस्तानाम् कर्मणामसुरेश्वर |
नान्यदुत्कृष्टमुद्दिष्टम् तज्ज्ञैरनशनात् परम् || ९३ ||
तस्याहम् लक्षणम् वक्ष्ये यच्च जप्यम् मुमूर्षुभिः |
यादृग्रूपश्च भगवाम्श्चिन्तनीयो जनार्दनः || ९४ ||
आसन्नमात्मनः कालम् ज्ञात्वा प्राज्ञो महासुर |
निर्धूतमलदोषश्च स्नातो नियतमानसः || ९५ ||
समभ्यर्च्य हृषीकेशम् पुष्पधूपादिभिस्ततः |
प्रणिपातैः स्तवैः पुण्यैर्ध्यानयोगैश्च पूजयेत् || ९६ ||
दत्त्वा दानम् च विप्रेभ्यो विकलादिभ्य एव च |
सभाप्रपाब्राह्मणौकदेवौकाद्युपयोगि च || ९७ ||
बन्धुपुत्रकलत्रौकक्षेत्रधान्यधनादिषु |
मित्रवर्गे च दैत्येन्द्र ममत्वम् विनिवर्तयेत् || ९८ ||
मित्रानमित्रान् मध्यस्थान् परान् स्वाम्श्च पुनः पुनः |
अभ्यर्थनोपचारेण क्षामयेत् कुकृतम् स्वकम् || ९९ ||
ततश्च प्रयतः कुर्यादुत्सर्गम् सर्वकर्मणाम् |
शुभाशुभानाम् दैत्येन्द्र वाक्यम् चेदमुदाहरेत् || १०० ||
परित्यजाम्यहम् भोगाम्स्त्यजामि सुहृदोऽखिलान् |
भोजनादि मयोत्सृष्टमुत्सृष्टमनुलेपनम् || १०१ ||
स्रग्भूषणादिकम् गेयम् दानमादानमेव च |
होमादयः पदार्था ये याश्च नित्यक्रिया मम || १०२ ||
नैमित्तिकास्तथा काम्या वर्णधर्मास्तथोज्झिताः |
गुणधर्मादयो धर्मा याश्च काश्चिन्मम क्रियाः || १०३ ||
पद्भ्याम् कराभ्याम् विहरन् कुर्वन् वा कर्म न त्वहम् |
करिष्ये प्राणिनाम् पीडाम् प्राणिनः सन्तु निर्भयाः || १०४ ||
नभसि प्राणिनो ये तु ये जले ये च भूतले |
क्षितेरन्तरगा ये च ये च पाषाणसम्पुटे || १०५ ||
ये धान्यादिषु वस्त्रेषु शयनेष्वासनेषु च |
ते स्वपन्तु विबुध्यन्तु सुखम् मत्तो भयम् विना || १०६ ||
न मेऽस्ति बान्धवः कश्चिद्विष्णुम् मुक्त्वा जगद्गुरुम् |
मित्रपक्षे च मे विष्णुरधश्चोर्ध्वम् तथाऽग्रतः || १०७ ||
पार्श्वतो मूर्ध्नि पृष्ठे च हृदये वाचि चक्षुषि |
श्रोत्रादिषु च सर्वेषु मम विष्णुः प्रतिष्ठितः || १०८ ||
इति सर्वम् समुत्सृज्य ध्यात्वा सर्वत्र चाच्युतम् |
वासुदेवेत्यविरतम् नाम देवस्य कीर्तयन् || १०९ ||
दक्षिणाग्रेषु दर्भेषु शयीत प्राच्छिरास्ततः |
उदच्छिरा वा दैत्येन्द्र चिन्तयञ्जगतः पतिम् || ११० ||
विष्णुम् जिष्णुम् हृषीकेशम् केशवम् मधुसूदनम् |
नारायणम् नरम् कृष्णम् वासुदेवम् जनार्दनम् || १११ ||
वाराहम् यज्ञपुरुषम् पुण्डरीकाक्षमच्युतम् |
वामनम् श्रीधरम् श्रीशम् नृसिम्हमपराजितम् || ११२ ||
पद्मनाभमजम् शौरिम् दामोदरमधोक्षजम् |
सर्वेश्वरेश्वरम् शुद्धमनन्तम् राममीश्वरम् || ११३ ||
विष्णुमनन्तम् अजमीश्वरम्
चक्रिणम् गदिनम् शार्ङ्गिम् शङ्खिनम् गरुडध्वजम् |
किरीटकौस्तुभधरम् प्रणमाम्यहमव्ययम् || ११४ ||
अहमत्र जगन्नाथे मयि चास्तु जनार्दनः |
आवयोरन्तरम् मास्तु समीरनभसोरिव || ११५ ||
अयम् विष्णुरयम् शौरिरयम् कृष्णः पुरो मम |
नीलोत्पलदलश्यामः पद्मपत्त्रोपमेक्षणः || ११६ ||
एष पश्यतु मामीशः पश्याम्यहमधोक्षजम् |
यतो न व्यतिरिक्तोऽहम् यन्मयोऽहम् यदाश्रयः || ११७ ||
इत्थम् जपन्नेकमनाः स्मरन् सर्वेश्वरम् हरिम् |
आसीनः सुखदुःखेषु समो मित्राहितेषु च || ११८ ||
ॐ नमो वासुदेवायेत्येतद्वा सततम् वदन् |
यद्वोदीरयितुम् नाम समर्थस्तदुदीरयन् |
ध्यायेत देवदेवस्य रूपम् विष्णोर्मनोरमम् || ११९ ||
प्रशान्तनेत्रभ्रूवक्त्रम् शङ्खचक्रगदाधरम् |
श्रीवत्सवक्षसम् चैव चतुर्बाहुम् किरीटिनम् || १२० ||
पीताम्बरधरम् विष्णुम् चारुकेयूरधारिणम् |
चिन्तयेच्च तदा रूपम् मनः कृत्वैकनिश्चयम् || १२१ ||
यादृशे वा मनः स्थैर्यम् रूपे बध्नाति चक्रिणः |
तदेव चिन्तयन्नाम वासुदेवेति कीर्तयेत् || १२२ ||
इत्तम् जपन् स्मरन् वेत्थम् स्वरूपम् परमात्मनः |
आ प्राणोपरमाद्वीरस्तच्चित्तस्तत् परायणः || १२३ ||
(निर्विकल्पेन मनसा यः स्मरेत्पुरुषोत्तमम् |)
सर्वपातकयुक्तोऽपि पुरुषः पुरुषर्षभ |
प्रयाति देवदेवेशे लयमीड्यतमेऽच्युते || १२४ ||
यथाग्निस्तृणजालानि दहत्यनिलसङ्गतः |
तथाऽनशनसङ्कल्पः पुम्साम् पापमसम्शयम् || १२५ ||
(विष्णोः सम्स्मरणे प्राप्य लोकमनशने मृतः |)
एवमत्यन्तशस्तानाम् कर्मणामसुरेश्वर |
नास्ति सत्यात् परो धर्मो नास्त्यधर्मः तथानृतात् |
नास्ति विद्यासमम् चक्षुस्तपो नानशनात् परम् || १२६ ||
नास्ति ज्ञानसमम् दानम् न सन्तोषसमम् सुखम् |
न चैवेर्ष्यासमम् दुःखम् तपो नानशनात् परम् || १२७ ||
नास्त्यरोगसमम् धन्यम् नास्ति गङ्गासमा सरित् |
नास्ति विष्णुसमम् ध्येयम् तपो नानशनात् परम् || १२८ ||
बलिरुवाच –
उत्क्रान्तिकाले भूतानाम् मुह्यन्ते चित्तवृत्तयः |
जराव्याधिविधीनानाम् किमु व्याध्यादिदोषतः || १२९ ||
अत्यन्तवयसा वृद्ध्या व्याधिना चातिपीडितः |
यदि स्थातुम् न शक्नोति क्षितिस्थे दर्भसम्स्तरे || १३० ||
तत्किमन्योऽप्युपायोऽस्ति न वानशनकर्मणि |
विफल्यम् येन नाप्नोति तन्मे ब्रूहि पितामह || १३१ ||
प्रह्लाद उवाच –
नात्र भूमिर्न च कुशाः सम्स्तरश्च न कारणम् |
चित्तस्यालम्बनीभूतो विष्णुरेवात्र कारणम् || १३२ ||
भुञ्जन्नभुञ्जन् गच्छम्श्च स्वपम्स्तिष्ठन्नथापि वा |
उत्क्रान्तिकाले गोविन्दम् सम्स्मरम्स्तन्मयो भवेत् || १३३ ||
किम् जपैः किम् भुवा कृत्यम् किम् कुशैर्दैत्यसत्तम |
तथापि कुर्वतो यस्य हृदये न जनार्दनः || १३४ ||
तस्मात्प्रधानमन्त्रोक्तम् वासुदेवस्य कीर्तनम् |
तन्मयत्वेन दैत्येन्द्र तस्योपायश्च विस्तरः || १३५ ||
इत्येतत् कथितम् सर्वम् पृष्टोऽहम् यत्त्वया बले |
उत्क्रान्तिकाले स्मरणम् किम् भूयः कथयामि ते || १३६ ||
इति विष्णुधर्मे उत्क्रान्तिस्मरणम् नाम द्वयशीतितमोऽध्यायः
त्र्यशीतितमोऽध्यायः
वैवस्वतगाथा
बलिरुवाच –
क्रियायोगस्त्वया पूर्वम् ममोक्तो यः पितामह |
तमहम् श्रोतुमिच्छामि फलम् चास्य यथातथम् || १ ||
देवार्चाम् देवतागारे तन्मयत्वेन पूजयन् |
यथावच्चेतसो भूमिम् करोति नियतो हि सः || २ ||
तपसा ब्रह्मचर्येण पुण्यस्वाध्यायसम्स्तवैः |
क्रियायोगः स विद्वद्भिर्योगिनाम् समुदाहृतः || ३ ||
तत्राहम् श्रोतुमिच्छामि क्रियायोगस्थितो नरः |
यत्फलम् समवाप्नोति कारयित्वा हरेर्गृहम् || ४ ||
देवार्चाम् कारयित्वा वा यत्पुण्यम् पुरुषोऽश्नुते |
सम्पूजयित्वा विधिवदनुलिप्य च यत्फलम् || ५ ||
कानि माल्यानि शस्तानि कानि नार्हन्ति केशवे |
के धूपाः कृष्णदयिताः के वर्ज्याश्च जगत्पतेः || ६ ||
उपहारे फलम् किम् स्यात् किम् फलम् गीतवादिते |
घृतक्षीरादिना यच्च स्नापिते केशवे फलम् || ७ ||
यच्चोपलेपने तात फलमभ्युक्षिते च यत् |
वासुदेवगृहे सर्वम् तदशेषम् वदस्व मे || ८ ||
प्रह्लाद उवाच –
साधु वत्स यदेतत्त्वम् वासुदेवस्य पृच्छसि |
शुश्रूषणविधौ पुण्यम् तदिहैकमनाः शृणु || ९ ||
ब्रह्मणा किल देवानाम् मृषीणाम् च महात्मनाम् |
शुश्रूषणफलम् विष्णोः प्रोक्तम् दैत्यपते पुरा || १० ||
तेभ्यः सकाशान्मनुना प्राप्तम् स्वारोचिषेण तु |
स्वारोचिषः स्वपुत्राय दत्तवान् ऋतचक्षुषे || ११ ||
तचक्षुश्च भर्गवे शुक्रस्तस्मादवाप च |
ममाख्यातम् च शुक्रेण यथावत् सुमहात्मना || १२ ||
शुश्रूषवे महाभाग दैत्याचार्येण धीमता |
तदेतच्छ्रूयताम् तात क्रियायोगाश्रितम् फलम् || १३ ||
ज्ञानयोगस्तु सम्योगश्चित्तस्यैवात्मना तु यः |
यस्तु बाह्यार्थसापेक्षः स क्रियायोग उच्यते || १४ ||
परमम् कारणम् योगो विमुक्तेर्दितिजेश्वर |
क्रियायोगश्च योगस्य परमम् तात साधनम् || १५ ||
यत्त्वेतद्भवता पृष्टम् फलमन्विच्छता फलम् |
देवालयादिकरणे तदिहैकमनाः शृणु || १६ ||
यस्तु देवालयम् विष्णोर्दार्वम् शैलमयम् तथा |
कारयेन् मृन्मयम् वापि शृणु तस्य बले फलम् || १७ ||
अहन्यहनि यज्ञेन यजतो यन्महाफलम् |
प्राप्नोति यत् फलम् विष्णोर्यः कारयति मन्दिरम् || १८ ||
कुलानाम् शतम् आगामि समतीतम् तथा शतम् |
कारयन्भगवद्धाम नयत्यच्युतलोकताम् || १९ ||
कारयेत् भगवद्देहम् इति बुद्धिम् करोति यः
सप्तजन्मकृतम् पापम् स्वल्पम् वा यदि वा बहु |
विष्णोरालय विन्यासप्रारम्भादेव नश्यति || २० ||
सप्तलोकमयो विष्णुस्तस्य यः कुरुते गृहम् |
प्रतिष्ठाम् समवाप्नोति स नरः सप्तलौकिकीम् || २१ ||
प्रशस्तदेशभूभागे यः शस्तम् भवनम् हरेः |
कारयत्यक्षयान्ल्लोकान् स नरः प्रतिपद्यते || २२ ||
इष्टकाचयविन्यासो यावन्त्यृक्षाणि तिष्ठति |
तावद्वर्षसहस्राणि तत्कर्तुर्दिवि सम्स्थितिः || २३ ||
प्रतिमाम् लक्षणवतीम् यः कारयति मानवः |
केशवस्य स तल्लोकमक्षयम् प्रतिपद्यते || २४ ||
षष्टिम् वर्षसहस्राणाम् सहस्राणि स मोदते |
स्वर्गौकसाम् निवासेषु प्रत्येकमरिसूदन! || २५ ||
प्रतिष्ठाप्य हरेरर्चाम् सुप्रशस्ते निवेशने |
पुरुषः कृतकृत्यत्वान्नैनम् श्वोमरणम् तपेत् || २६ ||
ये भविष्यन्ति येऽतीता आकल्पात् पुरुषाः कुले |
ताम्स्तारयति सम्स्थाप्य देवस्य प्रतिमाम् हरेः || २७ ||
अनुशस्ताः किल पुरा यमेन यमकिङ्कराः |
पाशोद्यतायुधा दैत्य प्रजासम्यमने रताः || २८ ||
यम उवाच –
विहरध्वम् यथान्यायम् नियोगो मेऽनुपाल्यताम् |
नाज्ञाभङ्गम् करिष्यन्ति भवताम् जन्तवः क्वचित् || २९ ||
केवलम् ये जगद्धातुमनन्तम् समुपाश्रिताः |
भवद्भिः परिहर्तव्यास्ते नास्त्यत्र सम्स्थितिः || ३० ||
ये तु भागवता लोके तच्चित्तास्तत्परायणाः |
पूजयन्ति सदा विष्णुम् ते वस्त्याज्याः सुदूरतः || ३१ ||
यस्तिष्ठन् प्रस्वपन् गच्छम्स्तत्तिष्ठन् स्खलिते क्षुते |
सन्कीर्तयति गोविन्दम् ते वस्त्याज्याः सुदूरतः || ३२ ||
नित्यनैमित्तिकैर्देवम् ये यजन्ति जनार्दनम् |
नावलोक्या भवद्भिस्ते तत्तेजो हन्ति वो गतिम् || ३३ ||
ये धूपपुष्पवासोभिर्भूषणैश्चापि वल्लभैः |
अर्चयन्ति न ते ग्राह्या नराः कृष्णाश्रयोद्धताः || ३४ ||
उपलेपनकर्तारः सम्मार्जनपराश्च ये |
कृष्णालये परित्याज्यम् तेषाम् त्रिपुरुषम् कुलम् || ३५ ||
येन चायतनम् विष्णोः कारितम् तत्कुलोद्भवम् |
पुम्साम् शतम् नावलोक्यम् भवद्भिर्दुष्टचक्षुषा || ३६ ||
येनार्चा भगवद्भक्त्या वासुदेवस्य कारिता |
नरायुतम् तत्कुलजम् भवताम् शासनातिगम् || ३७ ||
भवताम् भ्रमतामत्र विष्णुसम्श्रयमुद्रया |
विनाज्ञाभङ्गकृन्नैव भविष्यति नरः क्वचित् || ३८ ||
प्रह्लाद उवाच –
वत्स वैवस्वतस्यैताः श्रुत्वा गाथा मरीचिना |
पुरुकुत्साय कथिताः पार्थिवेन्द्राय धीमते || ३९ ||
एताम् महाफलाम् योऽर्चाम् विष्णुः कारयते नरः |
तवाख्यातम् महाबाहो गृहकारयितुश्च यत् || ४० ||
यज्ञा नराणाम् पापौघक्षालकाः सर्वकामदाः |
तथैवेज्यो जगद्धातुः सर्वयज्ञमयो हरिः || ४१ ||
इति विष्णुधर्मे वैवस्वगाथा नाम त्र्यशीतितमोऽध्यायः
चतुरशीतितमोऽध्यायः
पुष्पादिविभागः
प्रह्लाद उवाच –
स्थापिताम् प्रतिमाम् विष्णोः सम्यक् सम्पूज्य मानवः |
यम् यम् प्रार्थयते कामम् तम् तमाप्नोत्यसम्शयम् || १ ||
यः स्नापयति देवस्य घृतेन प्रतिमाम् हरेः |
प्रस्थे प्रस्थे द्विजाग्र्याणाम् स ददाति गवाम् शतम् || २ ||
गवाम् शतस्य विप्राणाम् यद्दत्तस्य भवेत् फलम् |
घृतप्रस्थेन तद्विष्णोर्लभेत् स्नानोपयोगिना || ३ ||
भूरिद्युम्नेन सम्प्राप्ता सप्तद्वीपा वसुन्धरा |
घृताढकेन गोविन्दप्रतिमास्नापनात् किल || ४ ||
प्रतिमासम् सिताष्टम्याम् घृतेन जगतः पतिम् |
स्नापयित्वा समस्तेभ्यः पापेभ्यो विप्रमुच्यते || ५ ||
द्वादश्याम् पञ्चदश्याम् च गव्येन हविषा हरेः |
स्नापनम् दैत्यशार्दूल महापातकनाशनम् || ६ ||
ज्ञानतोऽज्ञानतो वापि यत्पापम् कुरुते नरः |
तत्क्षालयति सन्ध्यायाम् घृतेन स्नापयन् हरिम् || ७ ||
सर्वयज्ञमयो विष्णुर्हव्यानाम् परमम् घृतम् |
तयोरशेषपापानाम् क्षालकः सङ्गमोऽसुर || ८ ||
येषु क्षीरवहा नद्यो ह्रदाः पायसकर्दमाः |
तान्ल्लोकान् पुरुषा यान्ति क्षीरस्नानकरा हरेः || ९ ||
आह्लादम् निर्वृतिम् स्वास्थ्यमारोग्यम् चारुरूपताम् |
सप्त जन्मान्यवाप्नोति क्षीरस्नानकरो हरेः || १० ||
दध्यादीनाम् विकाराणाम् क्षीरतः सम्भवो यथा |
तथैवाशेषकामानाम् क्षीरस्नापनतो हरेः || ११ ||
यथा च विमलम् ज्ञानम् यथा निर्वृतिकारकम् |
तथाऽस्य निर्मलम् ज्ञानम् भवत्यतिफलप्रदम् || १२ ||
ग्रहानुकूलताम् पुष्टिम् प्रियत्वम् चाखिले जने |
करोति भगवान् विष्णुः क्षीरस्नापनतोषितः || १३ ||
सर्वोऽस्य स्निग्धतामेति दृष्टमात्रः प्रसीदति |
घृतक्षीरेण देवेश स्नापिते मधुसूदने || १४ ||
अत्राप्युदाहरन्तीमम् सम्वादम् केशवाश्रितम् |
शाण्डिल्या सह कैकेय्याः सुमनायाः सुरालये || १५ ||
स्वर्गेऽतिशोभनाम् दृष्ट्वा कैकेयीम् पतिना सह |
(ब्राह्मणी शाण्डिली नाम पर्यपृच्छत विस्मिता || १६ ||
शाण्डिल्युवाच –
शतशः सन्ति कैकेयि देवाः स्वर्गनिवासिनः |
देवपत्न्यस्तथैवैताः सिद्धाः सिद्धाङ्गनास्तथा || १७ ||
न तेषामीदृशो गन्धो न कान्तिर्न सुरूपता |
न वाससाम् च शोभेयम् यथा ते पतिना सह || १८ ||)
नैवाभरणजातानि तेषाम् भ्राजन्ति वै तथा |
यथा तव यथा पत्युस्तव स्वर्गनिवासिनः || १९ ||
स्वस्थता चेतसश्चेयम् युवयोरतिरिच्यते |
शक्राद्यानामपीसानाम् क्षयातिशयवर्जितः || २० ||
तपःप्रभावो दानम् वा कर्म वा होमसञ्ज्ञितम् |
युवयोर्यन्ममाचक्ष्व तत् सर्वम् वरवर्णिनि || २१ ||
सुमनोवाच –
यज्ञैर्यज्ञेश्वरो विष्णुरावाभ्याम् यत्तु तोषितः |
स्वर्गप्राप्तिरियम् तस्य कर्मणः फलमुत्तमम् || २२ ||
सुरूपताम् मनःप्रीति पश्यताम् चारुवेषताम् |
यत्पृच्छसि महाभागे तदप्येषा वदामि ते || २३ ||
तीर्थोदकैस्तथा स्नानैः स्नापितोऽयम् जनार्दनः |
तेन कान्तिरतीत्यैतान् देवाम्स्त्रिभुवनेश्वरान् || २४ ||
मनःप्रसादः सौम्यत्वम् शारीरा या च निर्वृतिः |
यत्प्रियत्वम् च सर्वस्य तद्घृतस्नानजम् फलम् || २५ ||
यान्यभीष्टानि वासाम्सि यच्चाभीष्टम् विभूषणम् |
रत्नानि यान्यभीष्टानि यत्प्रियम् चानुलेपनम् || २६ ||
ये धूपा यानि माल्यानि दयितान्यभवम्स्तदा |
मम भर्तुस्तथैवास्य मम राज्यम् प्रशासतः || २७ ||
तानि सर्वाणि सर्वज्ञे सर्वकर्तरि केशवे |
दत्तानि तत्समुत्थोऽयम् गन्धभूषात्मको गुणः || २८ ||
आहारा दयिता ये च पवित्राश्च निवेदिताः |
ते लोककर्त्रे कृष्णाय तृप्तिस्तद्गुणसम्भवा || २९ ||
स्वर्गकामेन मे भर्त्रा मया च शुभदर्शने |
कृतमेतदतो नाभूदावयोर्भवसम्क्षयः || ३० ||
ये त्वकामाम् नराः सम्यगेतत् कुर्वन्ति शोभने |
तेषाम् ददाति विशोवे भगवान् मुक्तिमच्युतः || ३१ ||
प्रह्लाद उवाच –
एवमभ्यर्च्य गोविन्दम् सर्वभूतेश्वरेश्वरम् |
प्राप्नोत्यभिमतान् कामान् दैत्याहम् सुमना यथा || ३२ ||
चन्दनागरुकर्पूरकुङ्कुमोशीरपद्मकैः |
अनुलिप्तो हरिर्भक्त्या वरान् भोगान् प्रयच्छति || ३३ ||
कालेयकम् तुङ्गकम् च पद्मचन्दनमेव च |
नॄणाम् भवन्ति रोगाय दत्तानि पुरुषोत्तमे || ३४ ||
तस्मादेभिर्न गोविन्दः पूजनीयो महासुर |
यान्यात्मनः सदेष्टानि तानि शस्तान्युपाकुरु || ३५ ||
तथैव शुभगन्धा ये धूपास्ते जगतः पतेः |
वासुदेवस्य धर्मज्ञैर्निवेद्या दानवेश्वर || ३६ ||
न शल्लकीजम् नाक्षौलम् न शुक्तासवसम्भृतम् |
दद्यात् कृष्णाय धर्मज्ञो धूपान् आराधनोद्यतः || ३७ ||
मालती मल्लिका चैव यूथिकाऽथातिमुक्तका |
पाटला करवीरश्च जवा पारन्तिरेव च || ३८ ||
कुब्जकस्तगरश्चैव कर्णिकारः कुरण्टकः |
चम्पको रोतकः कुन्दो बाणो वर्वरमालिकाः || ३९ ||
(अशोकतिलका रोधस्तथा चैवाटरूषकः |
अमी पुष्पप्रकारास्तु शस्ताः केशवपूजने || ४० ||)
अशोकस्तिकैश्चैव तताऽशोककुरूषिताः
पद्मपुष्पम् प्रशस्तन्नु ज्ञेयम् केशवपूजने
शनीपुष्प प्ररोहास्तु शस्ता केशव पूजने ||
बिल्वपत्रम् शमीपत्रम् पत्रम् भृङ्गारकस्य च |
तमालपत्रम् च बले सदैव भगवत्प्रियम् || ४१ ||
तुलसीकालतुलसीपत्रम् भृङ्गरजस्य च |
केतकीपत्रपुष्पम् च सद्यस्तुष्टिकरम् हरेः || ४२ ||
पद्मान्यम्बुसमुत्थानाम् रक्तनीले तथोत्पले |
सितोत्पलम् च कृष्णस्य दयितानि सदा सुर || ४३ ||
नार्कम् नोन्मत्तकम् काञ्चित्तथैव गिरिकर्णिकाम् |
न कण्टकारिकापुष्पमच्युताय निवेदयेत् || ४४ ||
कौटजम् शाल्मलीपुष्पम् शैरीषम् च जनार्दने |
निवेदिते भयम् रोगम् निःवताम् च प्रयच्छति || ४५ ||
भयम् घोरम् निस्वताम् च प्रय
येषाम् न प्रतिषेधोऽस्ति गन्धवर्णान्वितानि च |
तानि पुष्पाणि देयानि विष्णवे प्रभविष्णवे || ४६ ||
सुगन्धैश्च सुरामाम्सीकर्पूरागरुचन्दनैः |
(तथान्यैश्च शुभैर्द्रव्यैरर्चयेज्जगतः पतिम् || ४७ ||
दुकूलपटुकौशेयवार्क्षकर्पासिकादिभिः |)
वासोभिः पूजयेद्विष्णुम् दैतेयेन्द्रात्मनः प्रियैः || ४८ ||
भक्ष्याणि यान्यभीष्टानि भोज्यान्यभिमतानि च |
फलम् च वल्लभम् यत् स्यात्तत्तद्देयम् जनार्दने || ४९ ||
सुवर्णमणिमुक्तादि यच्चान्यदतिवल्लभम् |
तत्तद्देवातिदेवाय केशवाय निवेदयेत् || ५० ||
आत्मानम् केशवम् मत्वा यद्यत्तस्यैव रोचते |
तत्तदव्यक्तरूपाय केशवाय निवेदयेत् || ५१ ||
इति विष्णुधर्मे पुष्पादिविभागो नाम चतुरशीतितमोऽध्यायः
पञ्चाशीतितमोऽध्यायः
मान्धातृराज्यप्राप्तिहेतुः
प्रह्लाद उवाच –
चक्रवर्ती महावीर्यो मान्धाता युवनाश्वजः |
शशास स महाबाहुः सप्तद्वीपाम् वसुन्धराम् || १ ||
अगायन्त च या गाथा ये पुराणविदो जनाः |
मान्धातरि महाबाहो यौवनाश्वे समाश्रिताः || २ ||
यावत्सूर्य उदेति स्म यावच्च प्रतितिष्ठति |
सर्वम् तद्यौवनाश्वस्य मान्धातुः क्षेत्रमुच्यते || ३ ||
स यौवनगतः सम्राट् सप्तद्वीपवतीम् महीम् |
शशास धर्मेण पुरा चक्रवर्ती महाबलः || ४ ||
नान्यायकृन्न चाशक्तो न दरिद्रो न कीकटः |
तस्याभूत् पुरुषो राज्ये सम्यग्धर्मानुशासिनः || ५ ||
चतस्रो गतयस्तस्य यौवनाश्वस्य धीमतः |
बभूवुरप्रतिहता हतारातिबलस्य वै || ६ ||
तस्य भक्तिरतीवाभून्निसर्गादेव भूपतेः |
वासुदेवे जगद्धाम्नि सर्वकारणकारणे || ७ ||
तस्यर्द्धिम् महिमानम् च विलोक्य पृथिवीपतेः |
न केवलम् जनस्याभूत् तस्याप्यत्यन्तविस्मयः || ८ ||
स चिन्तयामास नृपः समृद्ध्या विस्मितस्तया |
कथम् स्यात् सम्पदेषा मे पुनरप्यन्यजन्मनि || ९ ||
एवम् सुबहुशो राजा दैत्येन्द्र सुमहाबलः |
चिन्तयन्नपि तन्मूलम् न चासीन्निश्चयान्वितः || १० ||
यदा न निश्चयम् राजा स ययौ युवनाश्वजः |
तदा पप्रच्छ धर्मज्ञान् स विप्रान् समुपागतान् || ११ ||
वसिष्ठप्रमुखान् वत्स विविक्तान्तः पुरस्थितः |
प्रणिपत्य महाबाहुर्गृहीतासनसत्क्रियान् || १२ ||
यदि सानुग्रहा बुद्धिर्भवताम् मयि सत्तमाः |
तदहम् प्रष्टुमिच्छामि किञ्चित्तद्वक्तुमर्हथ || १३ ||
समेत्याखिलविज्ञानम् सम्यग्धौतान्तरात्मभिः |
भवद्भिर्यद्यहम् न स्याम् विमलस्तन्महाद्भुतम् || १४ ||
यद्यथा तन्मया पृष्टा भवन्तो मत्प्रसाधिताः |
वक्तुमर्हन्ति विद्वाम्सः सर्वस्यैवोपकारिणः || १५ ||
ब्राह्मणा ऊचुः –
यस्ते मनसि सन्देहस्तम् पृच्छाद्य महीपते |
गदिष्यामो यथान्यायम् यत्ते साम्शयिकम् हृदि || १६ ||
वयम् हि नरशार्दूल भवता परितोषिताः |
सम्यक् प्रजाः पालयता सप्तद्वीपे महीतले || १७ ||
सुतुष्टो ब्राह्मणोऽश्नीयाच्छिन्द्याद्वा धर्मसम्शयम् |
हितम् वोपदिशेद्धर्ममहिताद्वा निवर्तयेत् || १८ ||
हितम् वेदविरुद्धम् यत् तत्सर्वम् विनिवर्तयेत्
प्रह्लाद उवाच –
विवक्षुमथ भूपालम् भार्या तस्यैव धीमतः |
प्रणामपूर्वमाहेदम् विनयात् प्रणयान्वितम् || १९ ||
न स्त्रीणामवनीपाल वक्तुमीदृगिहेश्यते |
तथापि भूपते वक्ष्ये सम्पदीदृक् सुदुर्लभा || २० ||
भूयोऽपि सम्शयम् प्रष्टुमलमीश भवानृषीन् |
न त्वहम् पुरुषव्याघ्र सदान्तःपुरचारिणी || २१ ||
स प्रसादम् यदि भवान् करोति मम पार्थिव |
तन्मदीयमृषीन् प्रष्टुम् सम्शयम् पार्थिवार्हसि || २२ ||
मान्धातोवाच –
ब्रूहि सुभ्रु मतम् यत्ते प्रष्टव्या यन्मया द्विजाः |
भूयोऽहमात्मसन्देहम् प्रक्ष्याम्येतान् द्विजोत्तमान् || २३ ||
पत्न्युवाच –
श्रूयन्ते पृथिवीपाल नृप ये च पुरातनाः |
तेषाम् न सम्पद्भूपाल यथा तव किलाभवत् || २४ ||
तदीदृक्सम्पदाम् धाम त्वमशेषक्षितीश्वरः |
येन कर्मविपाकेन तद्वदन्तु महर्षयः || २५ ||
अहम् च भवतो भार्या सर्वसीमन्तिनी भुवि |
विधिना केन तपसा नियुक्ता भवतो गृहे
अतीव कर्मणा येन तद्विज्ञाने कुतूहलम् || २६ ||
तारतम्यतयेशित्वमन्येष्वपि हि विद्यते |
निरस्तातिशयत्वेन नूनम् नाल्पेन कर्मणा || २७ ||
तदन्यजन्मचरितम् नरनाथ निजम् भवान् |
मुनीन्पृच्छतु या चाहम् यन्मया च पुरा कृतम् || २८ ||
प्रह्लाद उवाच –
स तथोक्तस्तया राजा पत्न्या विस्मितमानसः |
मुनीनाम् पुरतो भार्याम् प्रशम्सन् वाक्यमब्रवीत् || २९ ||
मान्धातोवाच –
साधु देवि मतम् यन्मे त्वया तदिदमीरितम् |
सत्यम् मुनिवचः पुम्सामर्धम् वै गृहिणी यथा || ३० ||
ममाप्येतदभिप्रेतमिमान् प्रष्टुम् महामुनीन् |
यत्त्वयाभिहितम् भद्रे मत्स्वभावानुयातया || ३१ ||
सोऽहमेतन्महाभागे पृच्छाम्येतान्महामुनीन् |
नैषामविदितम् किञ्चित्त्रिषु लोकेषु विद्यते || ३२ ||
प्रह्लाद उवाच –
एवमुक्त्वा प्रियाम् भार्याम् प्रणिपत्य च तानृषीन् |
यथावदेतदखिलम् पप्रच्छासुरसत्तम || ३३ ||
राजोवाच –
भगवन्तो ममाशेषम् प्रसादाहृतचेतसः |
कथयन्तु यथावृत्तम् यन्मया सुकृतम् कृतम् || ३४ ||
कोऽहमासम् पुरा विप्राः किम् च कर्म मया कृतम् |
किम् वाऽनया सुचार्वङ्ग्या मम पत्न्या कृतम् द्विजाः || ३५ ||
येनावयोरियम् स्फीतिर्मर्त्यलोके सुदुर्लभा |
चत्वारश्चाप्रतिहता गतयो मम गच्छतः || ३६ ||
अशेषा भूभृतो वश्याः कोशस्यान्तो न विद्यते |
बलम् चैवाप्रतिहतम् शरीरारोग्यमुत्तमम् || ३७ ||
अतिभाति च मे कान्त्या भार्येयमखिलम् जगत् |
ममापि वपुषस्तेजो न कश्चित् सहते द्विजाः || ३८ ||
सोऽहमिच्छामि विज्ञातुम् तथैवेयमनिन्दिता |
निजानुष्ठानमखिलम् यस्याशेषमिदम् फलम् || ३९ ||
प्रह्लाद उवाच –
इति प्रष्टा नरेन्द्रेण समस्तास्ते तपोधनाः |
वसिष्ठम् चोदयामासुः कथ्यतामिति भूभृतः || ४० ||
चोदितः सोऽपि धर्मज्ञैर्मैत्रावरुणिरात्मवान् |
योगमास्थाय सुचिरम् यथावद्यतमानसः |
ज्ञातवान्नृपतेस्तस्य पूर्वदेहविचेष्टितम् || ४१ ||
स तमाह मुनिर्भूपम् विदितार्थो महासुर |
मान्धातारम् महाबुद्धिम् सपत्नीकमिदम् वचः || ४२ ||
वसिष्ठ उवाच –
शृणु भूपाल सकलम् यस्येदम् कर्मणः फलम् |
तव राज्यादिकम् सुभ्रूर्येयम् चासीन्महीपते || ४३ ||
त्वमासीः शूद्रजातीयः परहिम्सापरायणः |
वाक्क्रूरो दण्डपारुष्यो निःस्नेहः सर्वजन्तुषु || ४४ ||
तथेयम् भवतो भार्या पूर्वमप्यायतेक्षणा |
द्वेष्या बभूव तच्चित्ता तव शुश्रूषणे रता || ४५ ||
पतिव्रता महाभागा भर्त्स्यमानाप्यनिष्ठुरा |
त्वद्वाक्यादनु सर्वेषु वीरकर्मसु चोद्यता || ४६ ||
(नैष्ठुर्यादसहायस्य त्यज्यमानस्य बन्धुभिः |)
क्षयम् जगाम योऽर्थोऽभूत् सञ्चितः प्रपितामहैः || ४७ ||
तस्मिन् क्षीणे कृषिपरस्त्वमासीः पृथिवीपते |
सापि कर्मविपाकेन कृषिर्विफलताम् गता || ४८ ||
ततो निःस्वम् परिक्षीणम् परेषाम् भृत्यताम् गतम् |
तत्याज साध्वी नेयम् त्वाम् त्यज्यमानापि पार्थिव || ४९ ||
अनया च समम् साध्व्या विष्णोरावसथे त्वया |
कृतम् शुश्रूषणम् वीर परिव्राड्ब्रह्मचारिणाम् || ५० ||
भग्नेहः सर्वकामेभ्यस्तन्मयस्त्वम् तदर्पणः |
अनन्यगतिरेकस्थस् तस्मिन्नायतने हरेः || ५१ ||
तद्वृत्तिलिप्सुः शुश्रूषाम् जनरञ्जनहेतुकः |
कृतवान् योगिनाम् वीर कृष्णस्य जगतः पतेः || ५२ ||
वासुदेवाजिरे नित्यम् कृतम् सम्मार्जनम् त्वया |
तथैवाभ्युक्षणम् वीर नित्यम् चैवानुलेपनम् |
पत्न्यानया च धर्मज्ञ यष्मच्चित्तानुवृत्तया || ५३ ||
अहन्यहनि तत्कर्म युवयोर्नृप कुर्वतोः |
तत्र चैतन्मयत्वेन पापहानिरजायत || ५४ ||
विष्णोः कार्यम् मया कार्यम् योगिशुश्रूषणम् तथा |
न प्रभातम् प्रभातम् तु चिन्तेयमभवन्निशि || ५५ ||
एवमायतनम् रम्यमित्येवम् च सुखावहम् |
स्थैर्यम् न चैवमेतत्स्यादित्यासीत्ते मनः सदा || ५६ ||
योगिनाम् सुखदम् त्वेवम् कर्मैवम् नैवमित्यपि |
तव चित्तमभूत्तत्र योगिकर्मण्यहर्निशम् || ५७ ||
एवम् तन्मनसस्तत्र कृतोद्योगस्य पार्थिव |
भृत्यावसायिनः सम्यग्यथोक्ताधिकारिणः || ५८ ||
स्मरतः पुण्डरीकाक्षम् कार्येणातिदृढात्मनः |
निःशेषमुपशान्तम् तत्पापम् योगिनिषेवणात् || ५९ ||
ततोऽधिकम् पुरस्तस्मादादरादनुलेपनम् |
(सम्मार्जनम् च बहुशः सपत्निकेन ते कृतम् || ६० ||
तत्रागतश्च सौवीरः पुरुजिन्नाम भूपतिः |
महासैन्यपरीवारः प्रभूतगजवाहनः || ६१ ||
सर्वसम्पदुपेतम् तम् सर्वाभरणभूषितम् |
वृतम् भार्यासहस्रेण दृष्ट्वा स्रक्चन्दनोज्ज्वलम् |)
स्पृहा कृता त्वया तत्र चारुमौलिनि पार्थिवे || ६२ ||
सर्वकामप्रदम् कर्म देवदेवस्य कुर्वता |
तेनैतदखिलम् राज्यमशेषद्वीपवत्तव || ६३ ||
तेजश्चैवाधिकम् यत्ते तथैतच्छृणु पार्थिव |
योगप्रभावोपलब्धम् कथयाम्यखिलम् तव || ६४ ||
तत्रैवावसथे दीपः प्रशान्तः स्नेहसञ्क्षयात् |
निजभोजनतैलेन पुनः प्रज्वालितस्त्वया || ६५ ||
अनया चोत्तरीयान्तचीरवर्त्युपबृम्हितः |
तव पत्न्या स जज्वाल कान्तिरस्यास्ततोऽधिका || ६६ ||
तवाप्यखिलभूपालमनः क्षोभकरम् ततः |
तेजो नरेन्द्र न स्याच्च किमाराध्य जनार्दनम् || ६७ ||
एवम् नरेन्द्र शूद्रत्वाद्विष्णुकर्मपरायणः |
तन्मयत्वेन सम्प्राप्तो महिमानमनुत्तमम् || ६८ ||
किम् पुनर्यो नरो भक्त्या विष्णुशुश्रूषणादृतः |
करोति सततम् पूजाम् निष्कामो नान्यमानसः || ६९ ||
स त्वमृद्धिमिमाम् लब्ध्वा सर्वलोकेश्वरेश्वरम् |
पूजयाच्युतमीशेशम् तमाराध्य न सीदति || ७० ||
पुष्पैर्धूपैस्तथा गन्धैर्दीपवस्त्रानुलेपनैः |
आराधयाच्युतम् तद्वद्वेश्मसम्मार्जनादिभिः || ७१ ||
यद्यदिष्टतमम् किञ्चिद्यद्यदत्यन्तदुर्लभम् |
तत्तद्दत्त्वा जगद्धात्रे वैकुण्ठाय न सीदति || ७२ ||
सुगन्धागरुकर्पूरचन्दनाक्षोदकुङ्कुमैः |
वासोभिर्विविधैर्धूपैः पुष्पस्रग्चामरैर्ध्वजैः || ७३ ||
अन्नोपहारैर्विविधैर्घृतक्षीराभिषेचनैः |
गीतवादित्रनृत्याद्यैस्तोषयस्वाच्युतम् नृप || ७४ ||
पुण्यरात्रिषु गोविन्दम् नृत्यगीतरवोज्ज्वलैः |
भूप जागरणैर्भक्त्या तोषयाच्युतमव्ययम् || ७५ ||
एवम् सन्तोष्यते भक्त्या भगवान् भवभङ्गकृत् |
भूप भागवतैर्भूतभव्यकृत्केशवो नरैः || ७६ ||
येषाम् न वित्तम् तैर्भक्त्या मार्जनाद्युपलेपनैः |
तोषितो भगवान्विष्णुर्ददात्यभिमतम् फलम् || ७७ ||
देवकर्मासमर्थाणाम् प्राणिनाम् स्मृतिसम्स्तवैः |
तोषितोऽभिमतान् कामान् प्रयच्छति जनार्दनः || ७८ ||
नैव वित्तैर्न रत्नौघैः पुष्पधूपानुलेपनैः |
सद्भावेनैव गोविन्दस्तोषमायाति सम्स्मृतः || ७९ ||
त्वयैकाग्रमनस्केन गृहसम्मार्जनादिकम् |
कृत्वाल्पमीदृशम् प्राप्तम् राज्यमत्यन्तदुर्लभम् || ८० ||
प्राप्तोपकरणो यस्त्वमेकाग्रमतिरच्युतम् |
तोषयिष्यसि नेन्द्रोऽपि भविता तेन ते समः || ८१ ||
तस्मात्त्वमनया देव्या सहात्यन्तविनीतया |
केशवाराधने यत्नम् कुरु धर्मभृताम् वर || ८२ ||
(ततः प्राप्स्यसि भक्त्यैव यत्तपोभिः सुदुर्लभम् ||८३ ||)
इति विष्णुधर्मे मान्धातृराज्यप्राप्तिहेतुः नाम पञ्चाशीतितमोऽध्यायः
षडशीतितमोऽध्यायः
त्रिविक्रमव्रतम्
प्रह्लाद उवाच –
एतन्मुनेर्वसिष्ठस्य निशाम्य वचनम् नृपः |
भार्यासहायः स तदा सम्प्रहृष्टतनूरुहः || १ ||
कृतकार्यमिवात्मानम् मन्यमानोऽसुरोत्तम |
उवाच प्रणतो भूत्वा मान्धाता वारुणिम् वचः || २ ||
मान्धातोवाच –
यथामरत्वम् सम्प्राप्य यथा वा ब्रह्म शाश्वतम् |
परम् निर्वाणमाप्नोति तथाहम् वचसा तव || ३ ||
कृतकृत्यः सुखी चास्मि निर्वृतिम् परमाम् गतः |
अज्ञानतमसाच्छन्ने यत्प्रदीपस्त्वयैधितः || ४ ||
अहमेषा च तन्वङ्गी विभूतिभ्रम्सभीरुकौ |
आढ्यावापादितौ ब्रह्मन्निहाद्य वचसा तव || ५ ||
सम्पदाम् कथितम् बीजमावयोर्भवता मुने |
(तदुप्तावुद्यतावावाम् विजानीहि द्विजोत्तम || ६ ||
न रत्नैर्न च वित्तौघैर्न च पुष्पानुलेपनैः |
आराध्यते जगन्नाथो भावशून्यैर्जनार्दनः || ७ ||
बाह्यार्थनिरपेक्षैश्च मनसैव मनोगतिः |
निःस्वैराराध्यते देवो विष्णुः सर्वेश्वरेश्वरः || ८ ||
सर्वमेतन्मया ज्ञातम् यत्त्वमात्थ महामुने |)
यत्त्वाम् पृच्छामि तन्मे त्वम् प्रसादसुमुखो वद || ९ ||
कानि व्रतानि यैर्देवो नरैः स्त्रीभिश्च केशवः |
तोषमाराधितोऽभ्येति कैश्च दानैर्महामुने || १० ||
रहस्यानि च देवस्य प्रीतये यानि चक्रिणः |
तान्यशेषाणि मे ब्रूहि कृष्णाराधनकाङ्क्षिणः || ११ ||
वसिष्ठ उवाच –
शृणु भूपाल यैर्विष्णुर्नरैराराध्यते व्रतैः |
नारीभिश्चातिघोरेऽस्मिन् पतिताभिर्भवार्णवे || १२ ||
समभ्यर्च्य जगन्नाथम् वासुदेवम् समाधिना |
एकमश्नाति यो भक्तम् द्वितीयम् ब्राह्मणात्मकम् |
करोति केशवप्रीत्यै कार्त्तिकम् मासमात्मवान् || १३ ||
पूर्वे वयसि यत्तेन ज्ञानतोऽज्ञानतोऽपि वा |
पापमाचरितम् तस्मान्मुच्यते नात्र सम्शयः || १४ ||
अनेनैव विधानेन मार्गशीर्षेऽपि माधवम् |
समभ्यर्च्यैकभक्तम् वै वर्णिभ्यो यः प्रयच्छति |
भगवत्प्रीणनार्थाय फलम् तस्य शृणुष्व मे || १५ ||
मध्ये वयसि यत्पापम् योषिता पुरुषेण वा |
कृतम् तस्माच्च तेनोक्तो विमोक्षः परमात्मना || १६ ||
तथा चैवैकभक्तम् वै वर्णाग्रेभ्यः प्रयच्छति |
तथा चैकच भक्तो वै बलिम् गोभ्यः प्रयच्छति |
पुण्डरीकाक्षमभ्यर्च्य पौषमासे महीपते || १७ ||
तत्प्रीणनाय यत्पापम् वार्द्धिके तेन वै कृतम् |
स तस्मान्मुच्यते राजन् पुमान्योषिदथापि वा || १८ ||
त्रैमासिकव्रतमिदम् यः करोति नरेश्वर |
स विष्णुप्रीणनात् पापैर्लघुभिर्विप्रमुच्यते || १९ ||
द्वितीये वत्सरे राजन् मुच्यते चोपपातकैः |
तद्वत्तृतीयेऽपि कृतम् महापातकनाशनम् || २० ||
व्रतमेतन्नरैः स्त्रीभिस्त्रिभिर्मासैरनुष्ठितम् |
त्रिभिः सम्वत्सरैरेव प्रददाति फलम् नृणाम् || २१ ||
त्रिभिर्मासैस्त्र्यवस्थास्त्रिविधात् पातकान्नृप |
त्रीणि नामानि देवस्य मोचयन्ति त्रिवार्षिकैः || २२ ||
यतस्ततो व्रतमिदम् त्रिविक्रमम् समुदाहृतम् |
सर्वपापप्रशमनम् केशवाराधनम् परम् || २३ ||
इति विष्णुधर्मे त्रिविक्रमव्रतम् नाम षडशीतितमोऽध्यायः
सप्ताशीतितमोऽध्यायः
विष्णुपदत्रयव्रतम्
वसिष्ठ उवाच –
शृणुष्व च महीपाल व्रतम् विष्णुपदत्रयम् |
सर्वपापप्रशमनम् यज्जगाद पुरा हरिः || १ ||
प्राचेतसाय दक्षाय दक्षश्चाह विवस्वते |
विवस्वान् अलसध्राय अलसिध्रोऽसिताय च || २ ||
असितेन समाख्यातमल्पायासम् महाफलम् |
तदिदम् श्रूयताम् सम्यग्व्रतम् विष्णुपदत्रयम् || ३ ||
सर्वपाप प्रशमनम् सर्वरोगहरम् परम्
दक्षः प्रजापतिः पूर्वम् विष्णुमाराध्य पृष्टवान् |
बहुशस्तु विपन्नायाम् सृष्टावरिनिषूदन || ४ ||
दक्ष उवाच –
भगवन् सर्वकर्तृत्वम् ममादिष्टम् स्वयम्भुवा |
ब्रह्मणा देवदेवेश तवादेशेन केशव || ५ ||
विपन्ना च जगन्नाथ मम सृष्टिः कृता कृता |
पूर्वकर्मविपाकेन व्याकुलश्चास्मि चेतसा || ६ ||
यथा च देव मुच्येय अस्मात् सम्सारसङ्कटात् |
विषयासङ्गविषमात्तन्ममाज्ञापयाच्युत || ७ ||
वसिष्ठ उवाच –
इत्येवमुक्तो दक्षेण देवदेवो जनार्दनः |
आचष्ट दुःखक्षयदम् व्रतम् विष्णुपदत्रयम् || ८ ||
सर्वारम्भविनिष्पत्तिकारकम् पापनाशनम् |
सम्सारोच्छेदकम् धीरैराचीर्णम् स्थिरबुद्धिभिः || ९ ||
तदहम् तव राजेन्द्र व्रतानामुत्तमोत्तमम् |
कथयामि समाचष्ट यथा पूर्वम् ममासितः || १० ||
आषाढे मासि पूर्वासु तथाषाढासु पार्थिव |
समभ्यर्च्य जगन्नाथमच्युतम् नियतः शुचिः || ११ ||
पुष्पैर्हृद्यैस्तथा धूपैर्गन्धैः सागरुचन्दनैः |
यथाविभवतश्चान्यैरन्नैर्वासोभिरेव च || १२ ||
क्षीरस्नेहस्थितम् तद्वत्पैष्टम् विष्णुपदद्वयम् |
समभ्यर्च्य यथान्यायम् केशवस्याग्रतो न्यसेत् || १३ ||
यवाम्श्च दद्याद्विप्राय भूगतिः प्रीयतामिति |
नक्तम् भुञ्जीत राजेन्द्र हविष्यान्नम् सुसम्स्कृतम् || १४ ||
तथोत्तरास्वाषाढासु श्रावणे मासि मानवः |
तथैवाभ्यर्च्य गोविन्दम् तद्वद्विष्णुपदद्वयम् || १५ ||
विप्राय च यवान् दद्यात् प्रीणयित्वा च भूगतिम् |
नक्तम् भूञ्जीत राजेन्द्र नरो योषिदथापि वा || १६ ||
प्राप्ते भाद्रपदे मासि पूर्वभद्रपदासु च |
तथैवाभ्यर्च्य गोविन्दम् तद्वद्विष्णुपदद्वयम् || १७ ||
विप्राय च यवान् दत्त्वा प्रीणयित्वा भुवोगतिम् |
भुञ्जीत गोरसप्रायम् नरो योषिदथापि वा || १८ ||
तद्वदाश्वयुजे दानम् तद्वद्गोविन्दपूजनम् |
पदद्वयस्य पूजाम् च प्रीणनम् च भुवोगतेः || १९ ||
तथैव नक्तम् भुञ्जीत गोरसैर्मौनमास्थितः |
स्त्री वा राजेन्द्र पूर्वासु तथा भद्रपदासु वै || २० ||
फाल्गुने फल्गुनी पूर्वा भवतीह यदा नृप |
त्रिविक्रमम् तदा देवम् पूर्वोक्तविधिनाऽर्चयेत् || २१ ||
पदद्वयम् च देवस्य सम्यगभ्यर्च्य पार्थिव |
हिरण्यम् दक्षिणाम् दत्त्वा स्वर्गतिः प्रीयतामिति || २२ ||
नक्तम् भुञ्जीत राजेन्द्र वह्निपाकविवर्जितम् |
एष एवोत्तरायोगे चैत्रे मासे विधिः स्मृतः || २३ ||
एतज्जगाद गोविन्दः पुरा दक्षाय पृच्छते |
सर्वपापहरम् पुण्यम् व्रतम् विष्णुपदत्रयम् || २४ ||
यथोक्तमेतद्यो भक्तो करोति नृपसत्तम |
सर्वकामानवाप्नोति केशवस्य वचो यथा || २५ ||
अपुत्रो लभते पुत्रमपतिर्लभते पतिम् |
समागमम् प्रोषितैश्च तथा प्राप्नोति बान्धवैः || २६ ||
द्रव्यमैश्वर्यमारोग्यम् सौभाग्यम् चारुरूपताम् |
प्राप्नुवन्त्यखिलानेतान् पूजयित्वा पदत्रयम् || २७ ||
यान्यान् कामान्नरः स्त्री वा हृदयेनाभिवाञ्छति |
ताम्स्ताम्श्चाप्नोति निष्कामो विष्णुलोकम् च गच्छति || २८ ||
पूर्वम् कृत्वापि पापानि नरः स्त्री वा नराधिप |
पदत्रयव्रतम् चीर्त्वा मुच्यते सर्वकिल्बिषैः || २९ ||
इति विष्णुधर्मे विष्णुपदत्रयव्रतम् नाम सप्ताशीतितमोऽध्यायः
अष्टाशीतितमोऽध्यायः
गोप्रदानविधिः
मान्धाता उवाच –
विष्णोराराधनार्थाय यानि दानानि सत्तम |
देयानि तान्यशेषाणि ममाचक्ष्व द्विजोत्तम || १ ||
येन चैव विधानेन दानम् पुम्सः सुखावहम् |
प्रीणनाय च कृष्णस्य तन्ममाख्याहि विस्तरात् || २ ||
वसिष्ठ उवाच –
कृतोपवासः सम्प्राश्य पञ्चगव्यम् नरेश्वर |
घृतक्षीराभिषेकम् च कृत्वा विष्णोः समाहितः || ३ ||
समभ्यर्च्य च गोविन्दम् पुष्पादिभिररिन्दम |
उदङ्मुखीमर्चयित्वा तथा गृष्टिम् पयस्विनीम् || ४ ||
सपुत्राम् वस्त्रसम्वीताम् सितयज्ञोपवीतिनीम् |
स्वर्णशृङ्गीम् शुभाकाराम् हिरण्योपरिसम्स्थिताम् || ५ ||
हिरण्यम् वाचयित्वाग्रे ब्राह्मणायोपपादयेत् |
इमाम् त्वम् प्रतिगृह्णीष्व गोविन्दः प्रीयतामिति || ६ ||
सम्यगुच्चार्य तम् विप्रम् गोविन्दम् नृप कल्पयेत् |
अनुव्रजेच्च गच्छन्तम् पदान्यष्टौ नराधिप || ७ ||
अनेन विधिना धेनुम् यो विप्राय प्रयच्छति |
गोविन्दप्रीणनाद्राजन्विष्णुलोकम् च गच्छति || ८ ||
सप्तावराम्स्तथा पूर्वान् सप्तात्मानम् च मानवः |
सप्तजन्मकृतात् पापान्मोचयत्यवनीपते || ९ ||
पदे पदे च यज्ञस्य गोसवस्य स मानवः |
फलमाप्नोति राजेन्द्र दक्षायैवम् जगो हरिः || १० ||
सर्वकामसमृद्धस्य सर्वकालेषु पार्थिव |
भवत्यघौघापहरा यावदिन्द्राश्चतुर्दश || ११ ||
सर्वेषामेव पापानाम् कृतानामविजानता |
प्रायश्चित्तमिदम् शस्तमनुतापोपबृम्हितम् || १२ ||
इक्ष्वाकुणैषा राजेन्द्र पूर्वम् दत्ता महात्मना |
ततः स लोकानमलान् प्राप्तवानवनीपतिः || १३ ||
तथैवान्यैर्महीपालैर्द्विजवैश्यादिभिस्तथा |
लोकाः कामदुघाः प्राप्ता दत्त्वेदृग्विधिना नृप || १४ ||
इति विष्णुधर्मे गोप्रदानविधिर्नाम अष्टाशीतितमोऽध्यायः
एकोननवतितमोऽध्यायः
तिलधेनुविधिः
वसिष्ठ उवाच –
तिलधेनुम् प्रवक्ष्यामि केशवप्रीणनाय या |
दत्ता भवति यश्चास्या नरेन्द्र विधिरुत्तमः || १ ||
तिल धेनु प्रदानम् वै केशव प्रीणनाय हि
दत्तम् भवति यश्चास्या नरेन्द्र…………….
(फलमाप्नोति राजेन्द्र तद्वद्वा विधिवत्तदा |)
याम् दत्त्वा ब्रह्महा गोघ्नः पितृघ्नो गुरुतल्पगः |
आगारदाही गरदः सर्वपापरतोऽपि वा || २ ||
महापातकयुक्तो यो युक्तो यश्चोपपातकैः |
स मुच्यतेऽखिलैः पापैर्विष्णुलोकम् स गच्छति || ३ ||
स्वनुलिप्ते महीपृष्टे वस्त्राजिनसमावृते |
धेनुम् तिलमयीम् कृत्वा सर्वरत्नैः समन्विताम् || ४ ||
सुवर्णशृङ्गीम् रौप्यखुराम् गन्धघ्राणवतीम् शुभाम् |
मृष्टान्नजिह्वाम् कुर्वीत गुडास्याम् सूत्रकम्बलाम् || ५ ||
इक्षुपादाम् ताम्रपृष्ठाम् कुर्यान् मुक्ताफलेक्षणाम् |
प्रशस्तपत्रश्रवणाम् फलदन्तवतीम् शुभाम् || ६ ||
स्रग्दामपुच्छाम् कुर्वीत नवनीतस्तनान्विताम् |
फलैर्मनोहरैर्भक्षैर्मणिमुक्ताफलान्विताम् |
तिलद्रोणेन कुर्वीत आढकेन तु वत्सकम् || ७ ||
शुभवस्त्रयुगच्छन्नाम् चारुच्छत्त्रसमन्विताम् |
ईदृक्सम्स्थानसम्पन्नाम् कृत्वा श्राद्धसमन्वितः |
काम्स्योपदोहनाम् दद्यात् केशवः प्रीयतामिति || ८ ||
सम्यगुच्चार्य विधिना दत्त्वैतेन नराधिप |
सर्वपापविनिर्मुक्तः पितरम् सपितामहम् || ९ ||
प्रपितामहम् तथा पूर्वम् पुरुषाणाम् चतुष्टयम् |
आत्मानम् तनयम् पौत्रम् तदधस्तु चतुष्टयम् |
तारयत्यवनीपाल तिलधेनुप्रदो नरः || १० ||
यश्च गृह्णाति विधिवत्तस्याप्येवम्विधान् कुलान् |
चतुर्दश तथा चैव ददतश्चानुमोदकाः || ११ ||
दीयमानाम् प्रपश्यन्ति तिलधेनुम् च ये नराः |
तेऽप्यशेषाघनिर्मुक्ताः प्रयान्ति परमाम् गतिम् || १२ ||
प्रशान्ताय सुशीलाय तथाऽमत्सरिणे बुधः |
तिलधेनुम् नरो दद्याद्वेदस्नाताय धर्मिणे || १३ ||
त्रिरात्रम् यस्तिलाहारस्तिलधेनुम् प्रयच्छति |
दत्त्वैकरात्रम् च पुनस्तिलानत्ति नरेश्वर || १४ ||
दातुर्विशुद्धपापस्य तस्य पुण्यवतो नृप |
चान्द्रायणादभ्यधिकम् शस्तम् तत्तिलभक्षणम् || १५ ||
इति विष्णुधर्मे तिलधेनुविधिर्नाम एकोननवतितमोऽध्यायः
नवतिततमोऽध्यायः
पुद्गलगाथा or घृतधेनुकल्पः
वसिष्ठ उवाच –
तिलाभावे तथा दद्याद्घृतधेनुम् यतव्रतः |
कल्पयित्वा यथान्यायम् तिलधेन्वा यतव्रतः |)
येन भूप विधानेन तदिहैकमनाः शृणु || १ ||
वासुदेवम् जगन्नाथम् पुरुषेशमजम् विधुम् |
वासुदेवम् घृतक्षीरैर्मधुना चाभिषेचनैः || २ ||
सर्वपापनिहन्तारम् घृतक्षीराभिषेचनात् |
सम्पूज्य पूर्ववत् पुष्पगन्धधूपादिभिर्नरः || ३ ||
अहोरात्रोषितो भूत्वा तत्परः प्रयतः शुचिः |
परमेशमथो नाम्ना अभिष्टूय घृतार्चिषा || ४ ||
अहोरात्रोषितानाम्नाम् अभिष्टूय घृतादिना |
गव्यस्य सर्पिषः कुम्भम् पुष्पमाल्यादिभूषितम् || ५ ||
काम्स्योपधानसम्युक्तम् सितवस्त्रयुगेन च |
हिरण्यगर्भसहितम् मणिविद्रुममुक्तिकैः || ६ ||
इक्षुयष्टिमयान्पादान् खुरान्रौप्यमयाम्स्तथा |
सौवर्णे चाक्षिणी कुर्याच्छृङ्गे चागरुकाष्ठजे || ७ ||
सप्तधान्यमये पार्श्वे पत्त्रोर्णानि च कम्बलम् |
कुर्यात्तुरुष्ककर्पूरौ घ्राणम् फलमयान् स्तनान् || ८ ||
(मणिरत्नसुवर्णानाम् सम्यक्कल्पनया कृताम् |)
तद्वच्छर्करया जिह्वाम् गुडक्षीरमयम् मुखम् |
क्षौमसूत्रेण लाङ्गूलम् रोमाणि सितसर्षपैः |
ताम्रपात्रमयम् पृष्ठम् कुर्याच्छ्रद्धासमन्वितः || ९ ||
ईदृक्स्वरूपम् सङ्कल्प्य घृतधेनुम् नराधिप |
तद्वत्कल्पनया धेन्वा घृतवत्सम् प्रकल्पयेत् || १० ||)
तम् च विप्रम् महाभाग मनसैव घृतार्चिषम् |
कल्पयित्वा ततस्तस्मै प्रयतः प्रतिपादयेत् || ११ ||
एताम् ममोपकाराय गृह्णीष्व त्वम् द्विजोत्तम |
प्रीयताम् मम देवेशो घृतार्चिः पुरुषोत्तमः |
इत्युदाहृत्य विप्राय दद्याद्धेनुम् नरोत्तम || १२ ||
तद्वत्कल्पयता धेन्वा घृतवस्त्राम् प्रकल्पयेत् |
मणिमुक्तासुवर्णानाम् सम्यक्कल्पनया कृताम् |
दत्त्वैकरात्रम् स्थित्वा च घृताहारो नराधिप |
मुच्यते सर्वपापेभ्यस्तथा दानफलम् शृणु || १३ ||
घृतक्षीरवहा नद्यो यत्र पायसकर्दमाः |
तेषु लोकेषु लोकेश स पुण्येषूपजायते || १४ ||
पितुरूर्ध्वेन ये सप्त पुरुषाः सप्त येऽप्यधः |
ताम्स्तेषु नृप लोकेषु स नयत्यस्तकल्मषः || १५ ||
सकामानामियम् व्युष्टिः कथिता नृपसत्तम |
विष्णुलोकम् नरा यान्ति निष्कामा घृतधेनुदाः || १६ ||
घृतमग्निर्घृतम् सोमस्तन्मयाः सर्वदेवताः |
घृतम् प्रयच्छता दत्ता भवन्त्यखिलदेवताः || १७ ||
इति विष्णुधर्मे घृतधेनुकल्पः नाम ननवतितमोऽध्यायः