श्रीमद्भागवतम्
॥ ॐ नमो भगवते वासुदेवाय ॥
॥ पञ्चमस्कन्धः ॥
॥ प्रथमोऽध्यायः – १ ॥
राजोवाच
प्रियव्रतो भागवत आत्मारामः कथं मुने ।
गृहेऽरमत यन्मूलः कर्मबन्धः पराभवः ॥ १॥
न नूनं मुक्तसङ्गानां तादृशानां द्विजर्षभ ।
गृहेष्वभिनिवेशोऽयं पुंसां भवितुमर्हति ॥ २॥
महतां खलु विप्रर्षे उत्तमश्लोकपादयोः ।
छायानिर्वृतचित्तानां न कुटुम्बे स्पृहा मतिः ॥ ३॥
संशयोऽयं महान् ब्रह्मन् दारागारसुतादिषु ।
सक्तस्य यत्सिद्धिरभूत्कृष्णे च मतिरच्युता ॥ ४॥
श्रीशुक उवाच
बाढमुक्तं भगवत उत्तमश्लोकस्य श्रीमच्चरणारविन्द-
मकरन्दरस आवेशितचेतसो भागवत परमहंस-
दयितकथां किञ्चिदन्तरायविहतां स्वां शिवतमां
पदवीं न प्रायेण हिन्वन्ति ॥ ५॥
यर्हि वाव ह राजन् स राजपुत्रः प्रियव्रतः
परमभागवतो नारदस्य चरणोपसेवयाञ्जसावगत-
परमार्थसतत्त्वो ब्रह्मसत्रेण दीक्षिष्यमाणोऽवनितल-
परिपालनायाम्नातप्रवरगुणगणैकान्तभाजनतया
स्वपित्रोपामन्त्रितो भगवति वासुदेव एवाव्यवधान-
समाधियोगेन समावेशितसकलकारकक्रियाकलापो
नैवाभ्यनन्दद्यद्यपि तदप्रत्याम्नातव्यं तदधिकरण
आत्मनोऽन्यस्मादसतोऽपि पराभवमन्वीक्षमाणः ॥ ६॥
अथ ह भगवानादिदेव एतस्य गुणविसर्गस्य
परिबृंहणानुध्यानव्यवसितसकलजगदभिप्राय
आत्मयोनिरखिलनिगमनिजगणपरिवेष्टितः
स्वभवनादवततार ॥ ७॥
स तत्र तत्र गगनतल उडुपतिरिव विमानावलिभि-
रनुपथममरपरिवृढैरभिपूज्यमानः पथि पथि च
वरूथशः सिद्धगन्धर्वसाध्यचारणमुनिगणैरुपगीयमानो
गन्धमादनद्रोणीमवभासयन्नुपससर्प ॥ ८॥
तत्र ह वा एनं देवर्षिर्हंसयानेन पितरं भगवन्तं
हिरण्यगर्भमुपलभमानः सहसैवोत्थायार्हणेन सह
पितापुत्राभ्यामवहिताञ्जलिरुपतस्थे ॥ ९॥
भगवानपि भारत तदुपनीतार्हणः सूक्तवाकेनातितरा-
मुदितगुणगणावतारसुजयः प्रियव्रतमादिपुरुषस्तं
सदयहासावलोक इति होवाच ॥ १०॥
श्रीभगवानुवाच
निबोध तातेदमृतं ब्रवीमि
मासूयितुं देवमर्हस्यप्रमेयम् ।
वयं भवस्ते तत एष महर्षि-
र्वहाम सर्वे विवशा यस्य दिष्टम् ॥ ११॥
न तस्य कश्चित्तपसा विद्यया वा
न योगवीर्येण मनीषया वा ।
नैवार्थधर्मैः परतः स्वतो वा
कृतं विहन्तुं तनुभृद्विभूयात् ॥ १२॥
भवाय नाशाय च कर्म कर्तुं
शोकाय मोहाय सदा भयाय ।
सुखाय दुःखाय च देहयोग-
मव्यक्तदिष्टं जनताङ्ग धत्ते ॥ १३॥
यद्वाचि तन्त्यां गुणकर्मदामभिः
सुदुस्तरैर्वत्स वयं सुयोजिताः ।
सर्वे वहामो बलिमीश्वराय
प्रोता नसीव द्विपदे चतुष्पदः ॥ १४॥
ईशाभिसृष्टं ह्यवरुन्ध्महेऽङ्ग
दुःखं सुखं वा गुणकर्मसङ्गात् ।
आस्थाय तत्तद्यदयुङ्क्त नाथ-
श्चक्षुष्मतान्धा इव नीयमानाः ॥ १५॥
मुक्तोऽपि तावद्बिभृयात्स्वदेह-
मारब्धमश्नन्नभिमानशून्यः ।
यथानुभूतं प्रतियातनिद्रः
किं त्वन्यदेहाय गुणान्न वृङ्क्ते ॥ १६॥
भयं प्रमत्तस्य वनेष्वपि स्या-
द्यतः स आस्ते सह षट्सपत्नः ।
जितेन्द्रियस्यात्मरतेर्बुधस्य
गृहाश्रमः किं नु करोत्यवद्यम् ॥ १७॥
यः षट्सपत्नान् विजिगीषमाणो
गृहेषु निर्विश्य यतेत पूर्वम् ।
अत्येति दुर्गाश्रित ऊर्जितारीन्
क्षीणेषु कामं विचरेद्विपश्चित् ॥ १८॥
त्वं त्वब्जनाभाङ्घ्रिसरोजकोश-
दुर्गाश्रितो निर्जितषट्सपत्नः ।
भुङ्क्ष्वेह भोगान् पुरुषातिदिष्टान्
विमुक्तसङ्गः प्रकृतिं भजस्व ॥ १९॥
श्रीशुक उवाच
इति समभिहितो महाभागवतो भगवतस्त्रिभुवनगुरो-
रनुशासनमात्मनो लघुतयावनतशिरोधरो बाढमिति
सबहुमानमुवाह ॥ २०॥
भगवानपि मनुना यथावदुपकल्पितापचितिः
प्रियव्रतनारदयोरविषममभिसमीक्षमाणयोरात्म-
समवस्थानमवाङ्मनसं क्षयमव्यवहृतं प्रवर्तयन्नगमत् ॥ २१॥
मनुरपि परेणैवं प्रतिसन्धितमनोरथः सुरर्षिवरानुमतेना-
त्मजमखिलधरामण्डलस्थितिगुप्तय आस्थाप्य स्वयमति-
विषमविषयविषजलाशयाशाया उपरराम ॥ २२॥
इति ह वाव स जगतीपतिरीश्वरेच्छयाधिनिवेशित-
कर्माधिकारोऽखिलजगद्बन्धध्वंसनपरानुभावस्य
भगवत आदिपुरुषस्याङ्घ्रियुगलानवरतध्यानानुभावेन
परिरन्धितकषायाशयोऽवदातोऽपि मानवर्धनो
महतां महीतलमनुशशास ॥ २३॥
अथ च दुहितरं प्रजापतेर्विश्वकर्मण उपयेमे बर्हिष्मतीं
नाम तस्यामु ह वाव आत्मजानात्मसमानशीलगुणकर्म-
रूपवीर्योदारान् दश भावयाम्बभूव कन्यां च यवीयसी-
मूर्जस्वतीं नाम ॥ २४॥
आग्नीध्रेध्मजिह्वयज्ञबाहुमहावीरहिरण्यरेतोघृतपृष्ठ-
सवनमेधातिथिवीतिहोत्रकवय इति सर्व एवाग्निनामानः ॥ २५॥
एतेषां कविर्महावीरः सवन इति त्रय आसन्नूर्ध्वरेतसस्त
आत्मविद्यायामर्भभावादारभ्य कृतपरिचयाः पारमहंस्य-
मेवाश्रममभजन् ॥ २६॥
तस्मिन्नु ह वा उपशमशीलाः परमर्षयः सकलजीव-
निकायावासस्य भगवतो वासुदेवस्य भीतानां शरणभूतस्य
श्रीमच्चरणारविन्दाविरतस्मरणाविगलितपरमभक्तियोगा-
नुभावेन परिभावितान्तर्हृदयाधिगते भगवति सर्वेषां भूताना-
मात्मभूते प्रत्यगात्मन्येवात्मनस्तादात्म्यमविशेषेण समीयुः ॥ २७॥
अन्यस्यामपि जायायां त्रयः पुत्रा आसन्नुत्तमस्तामसो
रैवत इति मन्वन्तराधिपतयः ॥ २८॥
एवमुपशमायनेषु स्वतनयेष्वथ जगतीपतिर्जगती-
मर्बुदान्येकादशपरिवत्सराणामव्याहताखिलपुरुषकार-
सारसम्भृतदोर्दण्डयुगलापीडितमौर्वीगुणस्तनित-
विरमितधर्मप्रतिपक्षो बर्हिष्मत्याश्चानुदिनमेधमानप्रमोद-
प्रसरणयौषिण्यव्रीडाप्रमुषितहासावलोकरुचिरक्ष्वेल्यादिभिः
पराभूयमानविवेक इवानवबुध्यमान इव महामना बुभुजे ॥ २९॥
यावदवभासयति सुरगिरिमनुपरिक्रामन् भगवानादित्यो
वसुधातलमर्धेनैव प्रतपत्यर्धेनावच्छादयति तदा हि
भगवदुपासनोपचितातिपुरुषप्रभावस्तदनभिनन्दन्
समजवेन रथेन ज्योतिर्मयेन रजनीमपि दिनं करिष्यामीति
सप्तकृत्वस्तरणिमनुपर्यक्रामद्द्वितीय इव पतङ्गः ॥ ३०॥
ये वा उ ह तद्रथचरणनेमिकृतपरिखातास्ते सप्तसिन्धव
आसन् यत एव कृताः सप्त भुवो द्वीपाः ॥ ३१॥
जम्बूप्लक्षशाल्मलिकुशक्रौञ्चशाकपुष्करसंज्ञास्तेषां परिमाणं
पूर्वस्मात्पूर्वस्मादुत्तर उत्तरो यथासङ्ख्यं द्विगुणमानेन बहिः
समन्तत उपकॢप्ताः ॥ ३२॥
क्षारोदेक्षुरसोदसुरोदघृतोदक्षीरोददधिमण्डोदशुद्धोदाः
सप्तजलधयः सप्तद्वीपपरिखा इवाभ्यन्तरद्वीपसमाना
एकैकश्येन यथानुपूर्वं सप्तस्वपि बहिर्द्वीपेषु पृथक्परित
उपकल्पितास्तेषु जम्ब्वादिषु बर्हिष्मतीपतिरनुव्रता-
नात्मजानाग्नीध्रेध्मजिह्वयज्ञबाहुहिरण्यरेतोघृतपृष्ठ-
मेधातिथिवीतिहोत्रसंज्ञान् यथासङ्ख्येनैकैकस्मि-
न्नेकमेवाधिपतिं विदधे ॥ ३३॥
दुहितरं चोर्जस्वतीं नामोशनसे प्रायच्छद्यस्यामासी-
द्देवयानी नाम काव्यसुता ॥ ३४॥
नैवंविधः पुरुषकार उरुक्रमस्य
पुंसां तदङ्घ्रिरजसा जितषड्गुणानाम् ।
चित्रं विदूरविगतः सकृदाददीत
यन्नामधेयमधुना स जहाति बन्धम् ॥ ३४॥
स एवमपरिमितबलपराक्रम एकदा तु देवर्षिचरणा-
नुशयनानुपतितगुणविसर्गसंसर्गेणानिर्वृतमिवात्मानं
मन्यमान आत्मनिर्वेद इदमाह ॥ ३५॥
अहो असाध्वनुष्ठितं यदभिनिवेशितोऽहमिन्द्रियैरविद्या-
रचितविषमविषयान्धकूपे तदलमलममुष्या वनिताया
विनोदमृगं मां धिग्धिगिति गर्हयाञ्चकार ॥ ३६॥
परदेवताप्रसादाधिगतात्मप्रत्यवमर्शेनानुप्रवृत्तेभ्यः पुत्रेभ्य
इमां यथादायं विभज्य भुक्तभोगां च महिषीं मृतकमिव
सह महाविभूतिमपहाय स्वयं निहितनिर्वेदो हृदि गृहीत-
हरिविहारानुभावो भगवतो नारदस्य पदवीं पुनरेवानुससार ॥ ३७॥
तस्य ह वा एते श्लोकाः
प्रियव्रतकृतं कर्म को नु कुर्याद्विनेश्वरम् ।
यो नेमिनिम्नैरकरोच्छायां घ्नन् सप्तवारिधीन् ॥ ३८॥
भूसंस्थानं कृतं येन सरिद्गिरिवनादिभिः ।
सीमा च भूतनिर्वृत्यै द्वीपे द्वीपे विभागशः ॥ ३९॥
भौमं दिव्यं मानुषं च महित्वं कर्मयोगजम् ।
यश्चक्रे निरयौपम्यं पुरुषानुजनप्रियः ॥ ४०॥
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां
पञ्चमस्कन्धे प्रियव्रतविजये प्रथमोऽध्यायः ॥ १॥
॥ ॐ नमो भगवते वासुदेवाय ॥
॥ द्वितीयोऽध्ययः ॥
श्रीशुक उवाच
एवं पितरि सम्प्रवृत्ते तदनुशासने वर्तमान आग्नीध्रो
जम्बूद्वीपौकसः प्रजा औरसवद्धर्मावेक्षमाणः
पर्यगोपायत् ॥ १॥
स च कदाचित्पितृलोककामः सुरवरवनिताक्रीडाचलद्रोण्यां
भगवन्तं विश्वसृजां पतिमाभृतपरिचर्योपकरण आत्मैकाग्र्येण
तपस्व्याराधयाम्बभूव ॥ २॥
तदुपलभ्य भगवानादिपुरुषः सदसि गायन्तीं पूर्वचित्तिं
नामाप्सरसमभियापयामास ॥ ३॥
सा च तदाश्रमोपवनमतिरमणीयं विविधनिबिडविटपि-
विटपनिकरसंश्लिष्टपुरटलतारूढस्थलविहङ्गममिथुनैः
प्रोच्यमानश्रुतिभिः प्रतिबोध्यमानसलिलकुक्कुटकारण्डव-
कलहंसादिभिर्विचित्रमुपकूजितामलजलाशयकमलाकर-
मुपबभ्राम ॥ ४॥
तस्याः सुललितगमनपदविन्यासगतिविलासायाश्चानुपदं
खणखणायमानरुचिरचरणाभरणस्वनमुपाकर्ण्य
नरदेवकुमारः समाधियोगेनामीलितनयननलिनमुकुल-
युगलमीषद्विकचय्य व्यचष्ट ॥ ५॥
तामेवाविदूरे मधुकरीमिव सुमनस उपजिघ्रन्तीं
दिविजमनुजमनोनयनाह्लाददुघैर्गतिविहारव्रीडा-
विनयावलोकसुस्वराक्षरावयवैर्मनसि नृणां कुसुमायुधस्य
विदधतीं विवरं निजमुखविगलितामृतासवसहास-
भाषणामोदमदान्धमधुकरनिकरोपरोधेन द्रुतपदविन्यासेन
वल्गुस्पन्दनस्तनकलशकबरभाररशनां देवीं तदवलोकनेन
विवृतावसरस्य भगवतो मकरध्वजस्य वशमुपनीतो
जडवदिति होवाच ॥ ६॥
का त्वं चिकीर्षसि च किं मुनिवर्य शैले
मायासि कापि भगवत्परदेवतायाः ।
विज्ये बिभर्षि धनुषी सुहृदात्मनोऽर्थे
किं वा मृगान् मृगयसे विपिने प्रमत्तान् ॥ ७॥
बाणाविमौ भगवतः शतपत्रपत्रौ
शान्तावपुङ्खरुचिरावतितिग्मदन्तौ ।
कस्मै युयुङ्क्षसि वने विचरन् न विद्मः
क्षेमाय नो जडधियां तव विक्रमोऽस्तु ॥ ८॥
शिष्या इमे भगवतः परितः पठन्ति
गायन्ति साम सरहस्यमजस्रमीशम् ।
युष्मच्छिखाविलुलिताः सुमनोऽभिवृष्टीः
सर्वे भजन्त्यृषिगणा इव वेदशाखाः ॥ ९॥
वाचं परं चरणपञ्जरतित्तिरीणां
ब्रह्मन्नरूपमुखरां शृणवाम तुभ्यम् ।
लब्धा कदम्बरुचिरङ्कविटङ्कबिम्बे
यस्यामलातपरिधिः क्व च वल्कलं ते ॥ १०॥
किं सम्भृतं रुचिरयोर्द्विज शृङ्गयोस्ते
मध्ये कृशो वहसि यत्र दृशिः श्रिता मे ।
पङ्कोऽरुणः सुरभिरात्मविषाण ईदृग्
येनाश्रमं सुभग मे सुरभीकरोषि ॥ ११॥
लोकं प्रदर्शय सुहृत्तम तावकं मे
यत्रत्य इत्थमुरसावयवावपूर्वौ ।
अस्मद्विधस्य मन उन्नयनौ बिभर्ति
बह्वद्भुतं सरसराससुधादिवक्त्रे ॥ १२॥
का वाऽऽत्मवृत्तिरदनाद्धविरङ्ग वाति
विष्णोः कलास्यनिमिषोन्मकरौ च कर्णौ ।
उद्विग्नमीनयुगलं द्विजपङ्क्तिशोचि-
रासन्नभृङ्गनिकरं सर उन्मुखं ते ॥ १३॥
योऽसौ त्वया करसरोजहतः पतङ्गो
दिक्षु भ्रमन् भ्रमत एजयतेऽक्षिणी मे
मुक्तं न ते स्मरसि वक्रजटावरूथं
कष्टोऽनिलो हरति लम्पट एष नीवीम् ॥ १४॥
रूपं तपोधन तपश्चरतां तपोघ्नं
ह्येतत्तु केन तपसा भवतोपलब्धम् ।
चर्तुं तपोऽर्हसि मया सह मित्र मह्यं
किं वा प्रसीदति स वै भवभावनो मे ॥ १५॥
न त्वां त्यजामि दयितं द्विजदेवदत्तं
यस्मिन् मनो दृगपि नो न वियाति लग्नम् ।
मां चारुशृङ्ग्यर्हसि नेतुमनुव्रतं ते
चित्तं यतः प्रतिसरन्तु शिवाः सचिव्यः ॥ १६॥
श्रीशुक उवाच
इति ललनानुनयातिविशारदो ग्राम्यवैदग्ध्यया
परिभाषया तां विबुधवधूं विबुधमतिरधिसभा-
जयामास ॥ १७॥
सा च ततस्तस्य वीरयूथपतेर्बुद्धिशीलरूपवयः-
श्रियौदार्येण पराक्षिप्तमनास्तेन सहायुतायुत-
परिवत्सरोपलक्षणं कालं जम्बूद्वीपपतिना
भौमस्वर्गभोगान् बुभुजे ॥ १८॥
तस्यामु ह वा आत्मजान् स राजवर आग्नीध्रो
नाभिकिम्पुरुषहरिवर्षेलावृतरम्यकहिरण्मयकुरुभद्राश्व-
केतुमालसंज्ञान् नव पुत्रानजनयत् ॥ १९॥
सा सूत्वाथ सुतान् नवानुवत्सरं गृह एवापहाय
पूर्वचित्तिर्भूय एवाजं देवमुपतस्थे ॥ २०॥
आग्नीध्रसुतास्ते मातुरनुग्रहादौत्पत्तिकेनैव
संहननबलोपेताः पित्रा विभक्ता आत्मतुल्यनामानि
यथाभागं जम्बूद्वीपवर्षाणि बुभुजुः ॥ २१॥
आग्नीध्रो राजातृप्तः कामानामप्सरसमेवानुदिन-
मधिमन्यमानस्तस्याः सलोकतां श्रुतिभिरवारुन्ध
यत्र पितरो मादयन्ते ॥ २२॥
सम्परेते पितरि नव भ्रातरो मेरुदुहितॄर्मेरुदेवीं प्रतिरूपा-
मुग्रदंष्ट्रीं लतां रम्यां श्यामां नारीं भद्रां देववीतिमिति संज्ञा
नवोदवहन् ॥ २३॥
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां
पञ्चमस्कन्धे आग्नीध्रवर्णनं नाम द्वितीयोऽध्यायः ॥ २॥
॥ ॐ नमो भगवते वासुदेवाय ॥
॥ तृतीयोऽध्यायः ॥
श्रीशुक उवाच
नाभिरपत्यकामोऽप्रजया मेरुदेव्या भगवन्तं
यज्ञपुरुषमवहितात्मायजत ॥ १॥
तस्य ह वाव श्रद्धया विशुद्धभावेन यजतः प्रवर्ग्येषु
प्रचरत्सु द्रव्यदेशकालमन्त्रर्त्विग्दक्षिणाविधानयोगो-
पपत्त्या दुरधिगमोऽपि भगवान् भागवतवात्सल्यतया
सुप्रतीक आत्मानमपराजितं निजजनाभिप्रेतार्थ-
विधित्सया गृहीतहृदयो हृदयङ्गमं मनोनयनानन्दना-
वयवाभिराममाविश्चकार ॥ २॥
अथ ह तमाविष्कृतभुजयुगलद्वयं हिरण्मयं पुरुषविशेषं
कपिशकौशेयाम्बरधरमुरसि विलसच्छ्रीवत्सललामं
दरवरवनरुहवनमालाच्छूर्यमृतमणिगदादिभिरुपलक्षितं
स्फुटकिरणप्रवरमुकुटकुण्डलकटककटिसूत्रहारकेयूर-
नूपुराद्यङ्गभूषणविभूषितमृत्विक्सदस्यगृहपतयोऽधना
इवोत्तमधनमुपलभ्य सबहुमानमर्हणेनावनतशीर्षाण
उपतस्थुः ॥ ३॥
ऋत्विज ऊचुः
अर्हसि मुहुरर्हत्तमार्हणमस्माकमनुपथानां नमो नम
इत्येतावत्सदुपशिक्षितं कोऽर्हति पुमान् प्रकृतिगुण-
व्यतिकरमतिरनीश ईश्वरस्य परस्य प्रकृतिपुरुषयो-
रर्वाक्तनाभिर्नामरूपाकृतिभी रूपनिरूपणम् ॥ ४॥
सकलजननिकायवृजिननिरसनशिवतमप्रवर-
गुणगणैकदेशकथनादृते ॥ ५॥
परिजनानुरागविरचितशबलसंशब्दसलिलसित-
किसलयतुलसिकादूर्वाङ्कुरैरपि सम्भृतया सपर्यया
किल परम परितुष्यसि ॥ ६॥
अथानयापि न भवत इज्ययोरुभारभरया समुचित-
मर्थमिहोपलभामहे ॥ ७॥
आत्मन एवानुसवनमञ्जसाव्यतिरेकेण बोभूयमा-
नाशेषपुरुषार्थस्वरूपस्य किन्तु नाथाशिष
आशासानानामेतदभिसंराधनमात्रं भवितुमर्हति ॥ ८॥
तद्यथा बालिशानां स्वयमात्मनः श्रेयः पर-मविदुषां
परम परमपुरुष प्रकर्षकरुणया स्वमहिमानं
चापवर्गाख्यमुपकल्पयिष्यन् स्वयं नापचित
एवेतरवदिहोपलक्षितः ॥ ९॥
अथायमेव वरो ह्यर्हत्तम यर्हि बर्हिषि राजर्षेर्वरदर्षभो
भवान् निजपुरुषेक्षणविषय आसीत् ॥ १०॥
असङ्गनिशितज्ञानानलविधूताशेषमलानां
भवत्स्वभावानामात्मारामाणां मुनीनामनवरत-
परिगुणितगुणगणपरममङ्गलायनगुणगण
कथनोऽसि ॥ ११॥
अथ कथञ्चित्स्खलनक्षुत्पतनजृम्भणदुरवस्थानादिषु
विवशानां नः स्मरणाय ज्वरमरणदशायामपि सकल-
कश्मलनिरसनानि तव गुणकृतनामधेयानि
वचनगोचराणि भवन्तु ॥ १२॥
किञ्चायं राजर्षिरपत्यकामः प्रजां भवादृशीमाशासान
ईश्वरमाशिषां स्वर्गापवर्गयोरपि भवन्तमुपधावति
प्रजायामर्थप्रत्ययो धनदमिवाधनः फलीकरणम् ॥ १३॥
को वा इह तेऽपराजितोऽपराजितया मायया-
नवसितपदव्यानावृतमतिर्विषयविषरयानावृत-
प्रकृतिरनुपासितमहच्चरणः ॥ १४॥
यदु ह वाव तव पुनरदभ्रकर्तरिह समाहूत-
स्तत्रार्थधियां मन्दानां नस्तद्यद्देवहेलनं देवदेवार्हसि
साम्येन सर्वान् प्रतिवोढुमविदुषाम् ॥ १५॥
श्रीशुक उवाच
इति निगदेनाभिष्टूयमानो भगवाननिमिषर्षभो
वर्षधराभिवादिताभिवन्दितचरणः सदयमिदमाह ॥ १६॥
श्रीभगवानुवाच
अहो बताहमृषयो भवद्भिरवितथगीर्भिर्वरमसुलभ-
मभियाचितो यदमुष्यात्मजो मया सदृशो भूयादिति
ममाहमेवाभिरूपः कैवल्यादथापि ब्रह्मवादो न मृषा
भवितुमर्हति ममैव हि मुखं यद्द्विजदेवकुलम् ॥ १७॥
तत आग्नीध्रीयेंऽशकलयावतरिष्याम्यात्मतुल्य-
मनुपलभमानः ॥ १८॥
श्रीशुक उवाच
इति निशामयन्त्या मेरुदेव्याः पतिमभिधाया-
न्तर्दधे भगवान् ॥ १९॥
बर्हिषि तस्मिन्नेव विष्णुदत्त भगवान् परमर्षिभिः
प्रसादितो नाभेः प्रियचिकीर्षया तदवरोधायने
मेरुदेव्यां धर्मान् दर्शयितुकामो वातरशनानां
श्रमणानामृषीणामूर्ध्वमन्थिनां शुक्लया
तनुवावततार ॥॥ २०॥
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां
पञ्चमस्कन्धे नाभिचरिते ऋषभावतारो नाम तृतीयोऽध्यायः ॥ ३॥
॥ ॐ नमो भगवते वासुदेवाय ॥
॥ चतुर्थोऽध्यायः ॥
श्रीशुक उवाच
अथ ह तमुत्पत्त्यैवाभिव्यज्यमानभगवल्लक्षणं
साम्योपशमवैराग्यैश्वर्यमहाविभूतिभिरनुदिन-
मेधमानानुभावं प्रकृतयः प्रजा ब्राह्मणा
देवताश्चावनितलसमवनायातितरां जगृधुः ॥ १॥
तस्य ह वा इत्थं वर्ष्मणा वरीयसा बृहच्छ्लोकेन
चौजसा बलेन श्रिया यशसा वीर्यशौर्याभ्यां च
पिता ऋषभ इतीदं नाम चकार ॥ २॥
तस्य हीन्द्रः स्पर्धमानो भगवान् वर्षे न ववर्ष
तदवधार्य भगवान् ऋषभदेवो योगेश्वरः
प्रहस्यात्मयोगमायया स्ववर्षमजनाभं
नामाभ्यवर्षत् ॥ ३॥
नाभिस्तु यथाभिलषितं सुप्रजस्त्वमवरुध्याति-
प्रमोदभरविह्वलो गद्गदाक्षरया गिरा स्वैरं
गृहीतनरलोकसधर्मं भगवन्तं पुराणपुरुषं
मायाविलसितमतिर्वत्स तातेति सानुराग-
मुपलालयन् परां निर्वृतिमुपगतः ॥ ४॥
विदितानुरागमापौरप्रकृतिजनपदो राजा
नाभिरात्मजं समयसेतुरक्षायामभिषिच्य
ब्राह्मणेषूपनिधाय सह मेरुदेव्या विशालायां
प्रसन्ननिपुणेन तपसा समाधियोगेन
नरनारायणाख्यं भगवन्तं वासुदेवमुपासीनः
कालेन तन्महिमानमवाप ॥ ५॥
यस्य ह पाण्डवेय श्लोकावुदाहरन्ति –
को नु तत्कर्म राजर्षेर्नाभेरन्वाचरेत्पुमान् ।
अपत्यतामगाद्यस्य हरिः शुद्धेन कर्मणा ॥ ६॥
ब्रह्मण्योऽन्यः कुतो नाभेर्विप्रा मङ्गलपूजिताः ।
यस्य बर्हिषि यज्ञेशं दर्शयामासुरोजसा ॥ ७॥
अथ ह भगवान् ऋषभदेवः स्ववर्षं कर्मक्षेत्र-
मनुमन्यमानः प्रदर्शितगुरुकुलवासो लब्धवरै-
र्गुरुभिरनुज्ञातो गृहमेधिनां धर्माननुशिक्षमाणो
जयन्त्यामिन्द्रदत्तायामुभयलक्षणं कर्म
समाम्नायाम्नातमभियुञ्जन्नात्मजानामात्मसमानानां
शतं जनयामास ॥ ८॥
येषां खलु महायोगी भरतो ज्येष्ठः श्रेष्ठगुण
आसीद्येनेदं वर्षं भारतमिति व्यपदिशन्ति ॥ ९॥
तमनु कुशावर्त इलावर्तो ब्रह्मावर्तो मलयः केतुर्भद्रसेन
इन्द्रस्पृग्विदर्भः कीकट इति नव नवतिप्रधानाः ॥ १०॥
कविर्हरिरन्तरिक्षः प्रबुद्धः पिप्पलायनः ।
आविर्होत्रोऽथ द्रुमिलश्चमसः करभाजनः ॥ ११॥
इति भागवतधर्मदर्शना नव महाभागवतास्तेषां
सुचरितं भगवन् महिमोपबृंहितं वसुदेवनारदसंवाद-
मुपशमायनमुपरिष्टाद्वर्णयिष्यामः ॥ १२॥
यवीयांस एकाशीतिर्जायन्तेयाः पितुरादेशकरा
महाशालीना महाश्रोत्रिया यज्ञशीलाः कर्मविशुद्धा
ब्राह्मणा बभूवुः ॥ १३॥
भगवान् ऋषभसंज्ञ आत्मतन्त्रः स्वयं नित्यनिवृत्तानर्थ-
परम्परः केवलानन्दानुभव ईश्वर एव विपरीतवत्कर्मा-
ण्यारभमाणः कालेनानुगतं धर्ममाचरणेनोपशिक्षय-
न्नतद्विदां सम उपशान्तो मैत्रः कारुणिको धर्मार्थयशः-
प्रजानन्दामृतावरोधेन गृहेषु लोकं नियमयत् ॥ १४॥
यद्यच्छीर्षण्याचरितं तत्तदनुवर्तते लोकः ॥ १५॥
यद्यपि स्वविदितं सकलधर्मं ब्राह्मं गुह्यं ब्राह्मणै-
र्दर्शितमार्गेण सामादिभिरुपायैर्जनतामनुशशास ॥ १६॥
द्रव्यदेशकालवयःश्रद्धर्त्विग्विविधोद्देशोपचितैः
सर्वैरपि क्रतुभिर्यथोपदेशं शतकृत्व इयाज ॥ १७॥
भगवतर्षभेण परिरक्ष्यमाण एतस्मिन् वर्षे न कश्चन
पुरुषो वाञ्छत्यविद्यमानमिवात्मनोऽन्यस्मात्
कथञ्चन किमपि कर्हिचिदवेक्षते भर्तर्यनुसवनं
विजृम्भितस्नेहातिशयमन्तरेण ॥ १८॥
स कदाचिदटमानो भगवान् ऋषभो ब्रह्मावर्तगतो
ब्रह्मर्षिप्रवरसभायां प्रजानां निशामयन्तीना-
मात्मजानवहितात्मनः प्रश्रयप्रणयभरसुयन्त्रिता-
नप्युपशिक्षयन्निति होवाच ॥ १९॥
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां
पञ्चमस्कन्धे चतुर्थोऽध्यायः ॥ ४॥
॥ ॐ नमो भगवते वासुदेवाय ॥
॥ पञ्चमोऽध्यायः ॥
ऋषभ उवाच
नायं देहो देहभाजां नृलोके
कष्टान् कामानर्हते विड्भुजां ये ।
तपो दिव्यं पुत्रका येन सत्त्वं
शुद्ध्येद्यस्माद्ब्रह्मसौख्यं त्वनन्तम् ॥ १॥
महत्सेवां द्वारमाहुर्विमुक्ते-
स्तमोद्वारं योषितां सङ्गिसङ्गम् ।
महान्तस्ते समचित्ताः प्रशान्ता
विमन्यवः सुहृदः साधवो ये ॥ २॥
ये वा मयीशे कृतसौहृदार्था
जनेषु देहम्भरवार्तिकेषु ।
गृहेषु जायाऽऽत्मजरातिमत्सु
न प्रीतियुक्ता यावदर्थाश्च लोके ॥ ३॥
नूनं प्रमत्तः कुरुते विकर्म
यदिन्द्रियप्रीतय आपृणोति ।
न साधु मन्ये यत आत्मनोऽय-
मसन्नपि क्लेशद आस देहः ॥ ४॥
पराभवस्तावदबोधजातो
यावन्न जिज्ञासत आत्मतत्त्वम् ।
यावत्क्रियास्तावदिदं मनो वै
कर्मात्मकं येन शरीरबन्धः ॥ ५॥
एवं मनः कर्मवशं प्रयुङ्क्ते
अविद्ययाऽऽत्मन्युपधीयमाने ।
प्रीतिर्न यावन्मयि वासुदेवे
न मुच्यते देहयोगेन तावत् ॥ ६॥
यदा न पश्यत्ययथा गुणेहां
स्वार्थे प्रमत्तः सहसा विपश्चित् ।
गतस्मृतिर्विन्दति तत्र तापा-
नासाद्य मैथुन्यमगारमज्ञः ॥ ७॥
पुंसः स्त्रिया मिथुनीभावमेतं
तयोर्मिथो हृदयग्रन्थिमाहुः ।
अतो गृहक्षेत्रसुताप्तवित्तै-
र्जनस्यमोहोऽयमहं ममेति ॥ ८॥
यदा मनो हृदयग्रन्थिरस्य
कर्मानुबद्धो दृढ आश्लथेत ।
तदा जनः सम्परिवर्ततेऽस्मा-
न्मुक्तः परं यात्यतिहाय हेतुम् ॥ ९॥
हंसे गुरौ मयि भक्त्यानुवृत्या
वितृष्णया द्वन्द्वतितिक्षया च ।
सर्वत्र जन्तोर्व्यसनावगत्या
जिज्ञासया तपसेहा निवृत्त्या ॥ १०॥
मत्कर्मभिर्मत्कथया च नित्यं
मद्देवसङ्गाद्गुणकीर्तनान्मे ।
निर्वैरसाम्योपशमेन पुत्रा
जिहासया देहगेहात्मबुद्धेः ॥ ११॥
अध्यात्मयोगेन विविक्तसेवया
प्राणेन्द्रियात्माभिजयेन सध्र्यक् ।
सच्छ्रद्धया ब्रह्मचर्येण शश्व-
दसम्प्रमादेन यमेन वाचाम् ॥ १२॥
सर्वत्र मद्भावविचक्षणेन
ज्ञानेन विज्ञानविराजितेन ।
योगेन धृत्युद्यमसत्त्वयुक्तो
लिङ्गं व्यपोहेत्कुशलोऽहमाख्यम् ॥ १३॥
कर्माशयं हृदयग्रन्थिबन्ध-
मविद्ययासादितमप्रमत्तः ।
अनेन योगेन यथोपदेशं
सम्यग्व्यपोह्योपरमेत योगात् ॥ १४॥
पुत्रांश्च शिष्यांश्च नृपो गुरुर्वा
मल्लोककामो मदनुग्रहार्थः ।
इत्थं विमन्युरनुशिष्यादतज्ज्ञान्
न योजयेत्कर्मसु कर्ममूढान् ।
कं योजयन् मनुजोऽर्थं लभेत
निपातयन् नष्टदृशं हि गर्ते ॥ १५॥
लोकः स्वयं श्रेयसि नष्टदृष्टि-
र्योऽर्थान् समीहेत निकामकामः ।
अन्योन्यवैरः सुखलेशहेतो-
रनन्तदुःखं च न वेद मूढः ॥ १६॥
कस्तं स्वयं तदभिज्ञो विपश्चि-
दविद्यायामन्तरे वर्तमानम् ।
दृष्ट्वा पुनस्तं सघृणः कुबुद्धिं
प्रयोजयेदुत्पथगं यथान्धम् ॥ १७॥
गुरुर्न स स्यात्स्वजनो न स स्यात्
पिता न स स्याज्जननी न सा स्यात् ।
दैवं न तत्स्यान्न पतिश्च स स्या-
न्न मोचयेद्यः समुपेतमृत्युम् ॥ १८॥
इदं शरीरं मम दुर्विभाव्यं
सत्त्वं हि मे हृदयं यत्र धर्मः ।
पृष्ठे कृतो मे यदधर्म आरा-
दतो हि मामृषभं प्राहुरार्याः ॥ १९॥
तस्माद्भवन्तो हृदयेन जाताः
सर्वे महीयांसममुं सनाभम् ।
अक्लिष्टबुद्ध्या भरतं भजध्वं
शुश्रूषणं तद्भरणं प्रजानाम् ॥ २०॥
भूतेषु वीरुद्भ्य उदुत्तमा ये
सरीसृपास्तेषु सबोधनिष्ठाः ।
ततो मनुष्याः प्रमथास्ततोऽपि
गन्धर्वसिद्धा विबुधानुगा ये ॥ २१॥
देवासुरेभ्यो मघवत्प्रधाना
दक्षादयो ब्रह्मसुतास्तु तेषाम् ।
भवः परः सोऽथ विरिञ्चवीर्यः
स मत्परोऽहं द्विजदेवदेवः ॥ २२॥
न ब्राह्मणैस्तुलये भूतमन्य-
त्पश्यामि विप्राः किमतः परं तु ।
यस्मिन् नृभिः प्रहुतं श्रद्धयाह-
मश्नामि कामं न तथाग्निहोत्रे ॥ २३॥
धृता तनूरुशती मे पुराणी
येनेह सत्त्वं परमं पवित्रम् ।
शमो दमः सत्यमनुग्रहश्च
तपस्तितिक्षानुभवश्च यत्र ॥ २४॥
मत्तोऽप्यनन्तात्परतः परस्मा-
त्स्वर्गापवर्गाधिपतेर्न किञ्चित् ।
येषां किमु स्यादितरेण तेषा-
मकिञ्चनानां मयि भक्तिभाजाम् ॥ २५॥
सर्वाणि मद्धिष्ण्यतया भवद्भि-
श्चराणि भूतानि सुताध्रुवाणि ।
सम्भावितव्यानि पदे पदे वो
विविक्तदृग्भिस्तदु हार्हणं मे ॥ २६॥
मनो वचो दृक्करणेहितस्य
साक्षात्कृतं मे परिबर्हणं हि ।
विना पुमान् येन महाविमोहात्
कृतान्तपाशान्न विमोक्तुमीशेत् ॥ २७॥
श्रीशुक उवाच
एवमनुशास्यात्मजान् स्वयमनुशिष्टानपि
लोकानुशासनार्थं महानुभावःपरमसुहृ-
द्भगवान् ऋषभापदेश उपशमशीलाना-
मुपरतकर्मणां महामुनीनां भक्तिज्ञान-
वैराग्यलक्षणं पारमहंस्यधर्ममुपशिक्षमाणः
स्वतनयशतज्येष्ठं परमभागवतं
भगवज्जनपरायणं भरतं धरणिपालनाया-
भिषिच्य स्वयं भवन एवोर्वरितशरीरमात्र-
परिग्रह उन्मत्त इव गगनपरिधानः
प्रकीर्णकेश आत्मन्यारोपिताहवनीयो
ब्रह्मावर्तात्प्रवव्राज ॥ २८॥
जडान्धमूकबधिरपिशाचोन्मादकवदवधूतवेषो-
ऽभिभाष्यमाणोऽपि जनानां गृहीतमौनव्रतस्तूष्णीं
बभूव ॥ २९॥
तत्र तत्र पुरग्रामाकरखेटवाटखर्वटशिबिरव्रजघोष-
सार्थगिरिवनाश्रमादिष्वनुपथमवनिचरापसदैः
परिभूयमानो मक्षिकाभिरिव वनगजस्तर्जनताडना-
वमेहनष्ठीवनग्रावशकृद्रजःप्रक्षेपपूतिवातदुरुक्तै-
स्तदविगणयन्नेवासत्संस्थान एतस्मिन् देहोपलक्षणे
सदपदेश उभयानुभवस्वरूपेण स्वमहिमावस्थानेना-
समारोपिताहम्ममाभिमानत्वादविखण्डितमनाः
पृथिवीमेकचरः परिबभ्राम ॥ ३०॥
अतिसुकुमारकरचरणोरःस्थलविपुलबाह्वंसगलवदना-
द्यवयवविन्यासः प्रकृतिसुन्दरस्वभावहाससुमुखो
नवनलिनदलायमानशिशिरतारारुणायतनयनरुचिरः
सदृशसुभगकपोलकर्णकण्ठनासो विगूढस्मितवदन-
महोत्सवेन पुरवनितानां मनसि कुसुमशरासनमुपदधानः
परागवलम्बमानकुटिलजटिलकपिशकेशभूरिभारो-
ऽवधूतमलिननिजशरीरेण ग्रहगृहीत इवादृश्यत ॥ ३१॥
यर्हि वाव स भगवान् लोकमिमं योगस्याद्धा
प्रतीपमिवाचक्षाणस्तत्प्रतिक्रियाकर्म बीभत्सितमिति
व्रतमाजगरमास्थितः शयान एवाश्नाति पिबति
खादत्यवमेहति हदति स्म चेष्टमान उच्चरित
आदिग्धोद्देशः ॥ ३२॥
तस्य ह यः पुरीषसुरभिसौगन्ध्यवायुस्तं देशं
दशयोजनं समन्तात्सुरभिं चकार ॥ ३३॥
एवं गोमृगकाकचर्यया व्रजंस्तिष्ठन्नासीनः शयानः
काकमृगगोचरितः पिबति खादत्यवमेहति स्म ॥ ३४॥
इति नानायोगचर्याचरणो भगवान् कैवल्यपतिरृषभो-
ऽविरतपरममहानन्दानुभव आत्मनि सर्वेषां भूताना-
मात्मभूते भगवति वासुदेव आत्मनोऽव्यवधाना-
नन्तरोदरभावेन सिद्धसमस्तार्थपरिपूर्णो योगैश्वर्याणि
वैहायसमनोजवान्तर्धानपरकायप्रवेशदूरग्रहणादीनि
यदृच्छयोपगतानि नाञ्जसा नृपहृदयेनाभ्यनन्दत् ॥ ३५॥
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां
पञ्चमस्कन्धे ऋषभदेवानुचरिते पञ्चमोऽध्यायः ॥ ५॥
॥ ॐ नमो भगवते वासुदेवाय ॥
॥ षष्ठोऽध्यायः ॥
राजोवाच
न नूनं भगव आत्मारामाणां योगसमीरितज्ञानावभर्जित-
कर्मबीजानां ऐश्वर्याणि पुनः क्लेशदानि भवितुमर्हन्ति
यदृच्छयोपगतानि ॥ १॥
ऋषिरुवाच
सत्यमुक्तं किन्त्विह वा एके न मनसोऽद्धा विश्रम्भ-
मनवस्थानस्य शठकिरात इव सङ्गच्छन्ते ॥ २॥
तथा चोक्तं –
न कुर्यात्कर्हिचित्सख्यं मनसि ह्यनवस्थिते ।
यद्विश्रम्भाच्चिराच्चीर्णं चस्कन्द तप ऐश्वरम् ॥ ३॥
नित्यं ददाति कामस्य च्छिद्रं तमनु येऽरयः ।
योगिनः कृतमैत्रस्य पत्युर्जायेव पुंश्चली ॥ ४॥
कामो मन्युर्मदो लोभः शोकमोहभयादयः ।
कर्मबन्धश्च यन्मूलः स्वीकुर्यात्को नु तद्बुधः ॥ ५॥
अथैवमखिललोकपालललामोऽपि
विलक्षणैर्जडवदवधूतवेषभाषाचरितै-
रविलक्षितभगवत्प्रभावो योगिनां
साम्परायविधिमनुशिक्षयन् स्वकलेवरं
जिहासुरात्मन्यात्मानमसंव्यवहित-
मनर्थान्तरभावेनान्वीक्षमाण
उपरतानुवृत्तिरुपरराम ॥ ६॥
तस्य ह वा एवं मुक्तलिङ्गस्य भगवत
ऋषभस्य योगमायावासनया देह इमां
जगतीमभिमानाभासेन सङ्क्रममाणः
कोङ्कवेङ्ककुटकान् दक्षिणकर्णाटकान्
देशान् यदृच्छयोपगतः कुटकाचलोपवन
आस्यकृताश्मकवल उन्माद इव
मुक्तमूर्धजोऽसंवीत एव विचचार ॥ ७॥
अथ समीरवेगविधूतवेणुविकर्षणजातोग्र-
दावानलस्तद्वनमालेलिहानः सह तेन ददाह ॥ ८॥
यस्य किलानुचरितमुपाकर्ण्य कोङ्कवेङ्ककुटकानां
राजार्हन्नामोपशिक्ष्य कलावधर्म उत्कृष्यमाणे
भवितव्येन विमोहितः स्वधर्मपथमकुतोभयमपहाय
कुपथपाखण्डमसमञ्जसं निजमनीषया मन्दः
सम्प्रवर्तयिष्यते ॥ ९॥
येन ह वाव कलौ मनुजापसदा देवमायामोहिताः
स्वविधिनियोगशौचचारित्रविहीना देवहेलना-
न्यपव्रतानि निजनिजेच्छया गृह्णाना अस्नाना-
नाचमनाशौचकेशोल्लुञ्चनादीनि कलिनाधर्मबहुलेनो-
पहतधियो ब्रह्मब्राह्मणयज्ञपुरुषलोकविदूषकाः
प्रायेण भविष्यन्ति ॥ १०॥
ते च ह्यर्वाक्तनया निजलोकयात्रयान्धपरम्परया-
ऽऽश्वस्तास्तमस्यन्धे स्वयमेव प्रपतिष्यन्ति ॥ ११॥
अयमवतारो रजसोपप्लुतकैवल्योपशिक्षणार्थः ॥ १२॥
तस्यानुगुणान् श्लोकान् गायन्ति –
अहो भुवः सप्तसमुद्रवत्या
द्वीपेषु वर्षेष्वधिपुण्यमेतत् ।
गायन्ति यत्रत्यजना मुरारेः
कर्माणि भद्राण्यवतारवन्ति ॥ १३॥
अहो नु वंशो यशसावदातः
प्रैयव्रतो यत्र पुमान् पुराणः ।
कृतावतारः पुरुषः स आद्य-
श्चचार धर्मं यदकर्महेतुम् ॥ १४॥
को न्वस्य काष्ठामपरोऽनुगच्छे-
न्मनोरथेनाप्यभवस्य योगी ।
यो योगमायाः स्पृहयत्युदस्ता
ह्यसत्तया येन कृतप्रयत्नाः ॥ १५॥
इति ह स्म सकलवेदलोकदेवब्राह्मणगवां
परमगुरोर्भगवत ऋषभाख्यस्य विशुद्धाचरितमीरितं
पुंसां समस्तदुश्चरिताभिहरणं परममहामङ्गलायन-
मिदमनुश्रद्धयोपचितयानुशृणोत्याश्रावयति वावहितो
भगवति तस्मिन् वासुदेव एकान्ततो भक्तिरनयोरपि
समनुवर्तते ॥ १६॥
यस्यामेव कवय आत्मानमविरतं विविधवृजिनसंसार-
परितापोपतप्यमानमनुसवनं स्नापयन्तस्तयैव परया
निर्वृत्या ह्यपवर्गमात्यन्तिकं परमपुरुषार्थमपि
स्वयमासादितं नो एवाद्रियन्ते भगवदीयत्वेनैव
परिसमाप्तसर्वार्थाः ॥ १७॥
राजन् पतिर्गुरुरलं भवतां यदूनां
दैवं प्रियः कुलपतिः क्व च किङ्करो वः ।
अस्त्वेवमङ्ग भगवान् भजतां मुकुन्दो
मुक्तिं ददाति कर्हिचित्स्म न भक्तियोगम् ॥ १८॥
नित्यानुभूतनिजलाभनिवृत्ततृष्णः
श्रेयस्यतद्रचनया चिरसुप्तबुद्धेः ।
लोकस्य यः करुणयाभयमात्मलोक-
माख्यान्नमो भगवते ऋषभाय तस्मै ॥ १९॥
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां
पञ्चमस्कन्धे ऋषभदेवानुचरिते षष्ठोऽध्यायः ॥ ६॥
॥ ॐ नमो भगवते वासुदेवाय ॥
॥ सप्तमोऽध्यायः ॥
श्रीशुक उवाच
भरतस्तु महाभागवतो यदा भगवतावनितल-
परिपालनाय सञ्चिन्तितस्तदनुशासनपरः
पञ्चजनीं विश्वरूपदुहितरमुपयेमे ॥ १॥
तस्यामु ह वा आत्मजान् कार्त्स्न्येनानुरूपा-
नात्मनः पञ्च जनयामास भूतादिरिव
भूतसूक्ष्माणि सुमतिं राष्ट्रभृतं सुदर्शनमावरणं
धूम्रकेतुमिति ॥ २॥
अजनाभं नामैतद्वर्षं भारतमिति यत आरभ्य
व्यपदिशन्ति ॥ ३॥
स बहुविन्महीपतिः पितृपितामहवदुरुवत्सलतया
स्वे स्वे कर्मणि वर्तमानाः प्रजाः स्वधर्ममनुवर्तमानः
पर्यपालयत् ॥ ४॥
ईजे च भगवन्तं यज्ञक्रतुरूपं क्रतुभिरुच्चावचैः
श्रद्धयाऽऽहृताग्निहोत्रदर्शपूर्णमासचातुर्मास्य-
पशुसोमानां प्रकृतिविकृतिभिरनुसवनं
चातुर्होत्रविधिना ॥ ५॥
सम्प्रचरत्सु नानायागेषु विरचिताङ्गक्रियेष्वपूर्वं
यत्तत्क्रियाफलं धर्माख्यं परे ब्रह्मणि यज्ञपुरुषे
सर्वदेवतालिङ्गानां मन्त्राणामर्थनियामकतया
साक्षात्कर्तरि परदेवतायां भगवति वासुदेव एव
भावयमान आत्मनैपुण्यमृदितकषायो
हविःष्वध्वर्युभिर्गृह्यमाणेषु स यजमानो यज्ञभाजो
देवांस्तान् पुरुषावयवेष्वभ्यध्यायत् ॥ ६॥
एवं कर्मविशुद्ध्या विशुद्धसत्त्वस्यान्तर्हृदयाकाश-
शरीरे ब्रह्मणि भगवति वासुदेवे महापुरुषरूपो-
पलक्षणे श्रीवत्सकौस्तुभवनमालादरगदादिभि-
रुपलक्षिते निजपुरुषहृल्लिखितेनात्मनि पुरुषरूपेण
विरोचमान उच्चैस्तरां भक्तिमनुदिनमेधमान-
रजयाजायत ॥ ७॥
एवं वर्षायुतसहस्रपर्यन्तावसितकर्मनिर्वाणावसरो-
ऽधिभुज्यमानं स्वतनयेभ्यो रिक्थं पितृपैतामहं
यथादायं विभज्य स्वयं सकलसम्पन्निकेतात्पुलहाश्रमं
प्रवव्राज ॥ ८॥
यत्र ह वाव भगवान् हरिरद्यापि तत्रत्यानां निजजनानां
वात्सल्येन सन्निधाप्यत इच्छारूपेण ॥ ९॥
यत्राश्रमपदान्युभयतो नाभिभिर्दृषच्चक्रैश्चक्रनदी
नाम सरित्प्रवरा सर्वतः पवित्रीकरोति ॥ १०॥
तस्मिन् वाव किल स एकलः पुलहाश्रमोपवने
विविधकुसुमकिसलयतुलसिकाम्बुभिः कन्दमूल-
फलोपहारैश्च समीहमानो भगवत आराधनं विविक्त
उपरतविषयाभिलाष उपभृतोपशमः परां
निर्वृतिमवाप ॥ ११॥
तयेत्थमविरतपुरुषपरिचर्यया भगवति प्रवर्धमाना-
नुरागभरद्रुतहृदयशैथिल्यः प्रहर्षवेगेनात्मन्युद्भिद्य-
मानरोमपुलककुलकौत्कण्ठ्यप्रवृत्तप्रणयबाष्पनिरुद्धा-
वलोकनयन एवं निजरमणारुणचरणारविन्दानुध्यान-
परिचितभक्तियोगेन परिप्लुतपरमाह्लादगम्भीरहृदय-
ह्रदावगाढधिषणस्तामपि क्रियमाणां भगवत्सपर्यां
न सस्मार ॥ १२॥
इत्थं धृतभगवद्व्रत ऐणेयाजिनवाससानुसवनाभिषेकार्द्र-
कपिशकुटिलजटाकलापेन च विरोचमानः सूर्यर्चा
भगवन्तं हिरण्मयं पुरुषमुज्जिहाने सूर्यमण्डलेऽभ्युपतिष्ठ-
न्नेतदु होवाच ॥ १३॥
परो रजः सवितुर्जातवेदो
देवस्य भर्गो मनसेदं जजान ।
सुरेतसादः पुनराविश्य चष्टे
हंसं गृध्राणं नृषद्रिङ्गिरामिमः ॥ १४॥
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां
पञ्चमस्कन्धे भरतचरिते भगवत्परिचर्यायां सप्तमोऽध्यायः ॥ ७॥
॥ ॐ नमो भगवते वासुदेवाय ॥
॥ अष्टमोऽध्यायः ॥
श्रीशुक उवाच
एकदा तु महानद्यां कृताभिषेकनैयमिकावश्यको
ब्रह्माक्षरमभिगृणानो मुहूर्तत्रयमुदकान्त उपविवेश ॥ १॥
तत्र तदा राजन् हरिणी पिपासया
जलाशयाभ्याशमेकैवोपजगाम ॥ २॥
तया पेपीयमान उदके तावदेवाविदूरेण नदतो
मृगपतेरुन्नादो लोकभयङ्कर उदपतत् ॥ ३॥
तमुपश्रुत्य सा मृगवधूः प्रकृतिविक्लवा चकित-
निरीक्षणा सुतरामपि हरिभयाभिनिवेशव्यग्रहृदया
पारिप्लवदृष्टिरगततृषा भयात्सहसैवोच्चक्राम ॥ ४॥
तस्या उत्पतन्त्या अन्तर्वत्न्या उरुभयावगलितो
योनिनिर्गतो गर्भः स्रोतसि निपपात ॥ ५॥
तत्प्रसवोत्सर्पणभयखेदातुरा स्वगणेन
वियुज्यमाना कस्याञ्चिद्दर्यां कृष्णसारसती
निपपाताथ च ममार ॥ ६॥
तं त्वेणकुणकं कृपणं स्रोतसानूह्यमानमभि-
वीक्ष्यापविद्धं बन्धुरिवानुकम्पया राजर्षि-
र्भरत आदाय मृतमातरमित्याश्रमपदमनयत् ॥ ७॥
तस्य ह वा एणकुणक उच्चैरेतस्मिन् कृतनिजाभि-
मानस्याहरहस्तत्पोषणपालनलालनप्रीणना-
नुध्यानेनात्मनियमाः सह यमाः पुरुषपरिचर्यादय
एकैकशः कतिपयेनाहर्गणेन वियुज्यमानाः किल
सर्व एवोदवसन् ॥ ८॥
अहो बतायं हरिणकुणकः कृपण ईश्वररथचरण-
परिभ्रमणरयेण स्वगणसुहृद्बन्धुभ्यः परिवर्जितः
शरणं च मोपसादितो मामेव मातापितरौ
भ्रातृज्ञातीन् यौथिकांश्चैवोपेयाय नान्यं कञ्चन वेद
मय्यतिविस्रब्धश्चात एव मया मत्परायणस्य
पोषणपालनप्रीणनलालनमनसूयुनानुष्ठेयं
शरण्योपेक्षा दोषविदुषा ॥ ९॥
नूनं ह्यार्याः साधव उपशमशीलाः कृपणसुहृद
एवंविधार्थे स्वार्थानपि गुरुतरानुपेक्षन्ते ॥ १०॥
इति कृतानुषङ्ग आसनशयनाटनस्नानाशनादिषु
सह मृगजहुना स्नेहानुबद्धहृदय आसीत् ॥ ११॥
कुशकुसुमसमित्पलाशफलमूलोदकान्याहरिष्यमाणो
वृकसालावृकादिभ्यो भयमाशंसमानो यदा सह
हरिणकुणकेन वनं समाविशति ॥ १२॥
पथिषु च मुग्धभावेन तत्र तत्र विषक्तमतिप्रणयभर-
हृदयः कार्पण्यात्स्कन्धेनोद्वहति एवमुत्सङ्ग उरसि
चाधायोपलालयन् मुदं परमामवाप ॥ १३॥
क्रियायां निर्वर्त्यमानायामन्तरालेऽप्युत्थायोत्थाय
यदैनमभिचक्षीत तर्हि वाव स वर्षपतिः प्रकृतिस्थेन
मनसा तस्मा आशिष आशास्ते स्वस्ति स्ताद्वत्स
ते सर्वत इति ॥ १४॥
अन्यदा भृशमुद्विग्नमना नष्टद्रविण इव कृपणः
सकरुणमतितर्षेण हरिणकुणकविरहविह्वलहृदय-
सन्तापस्तमेवानुशोचन् किल कश्मलं महदभि-
रम्भित इति होवाच ॥ १५॥
अपि बत स वै कृपण एणबालको मृतहरिणीसुतो-
ऽहो ममानार्यस्य शठकिरातमतेरकृतसुकृतस्य
कृतविस्रम्भ आत्मप्रत्ययेन तदविगणयन् सुजन
इवागमिष्यति ॥ १६॥
अपि क्षेमेणास्मिन्नाश्रमोपवने शष्पाणि चरन्तं
देवगुप्तं द्रक्ष्यामि ॥ १७॥
अपि च न वृकः सालावृकोऽन्यतमो वा नैकचर
एकचरो वा भक्षयति ॥ १८॥
निम्लोचति ह भगवान् सकलजगत्क्षेमोदयस्त्रय्या-
त्माद्यापि मम न मृगवधून्यास आगच्छति ॥ १९॥
अपि स्विदकृतसुकृतमागत्य मां सुखयिष्यति
हरिणराजकुमारो विविधरुचिरदर्शनीयनिजमृग-
दारकविनोदैरसन्तोषं स्वानामपनुदन् ॥ २०॥
क्ष्वेलिकायां मां मृषा समाधिनाऽऽमीलितदृशं
प्रेमसंरम्भेण चकित चकित आगत्य पृषदपरुष-
विषाणाग्रेण लुठति ॥ २१॥
आसादितहविषि बर्हिषि दूषिते मयोपालब्धो
भीतभीतः सपद्युपरतरास ऋषिकुमारवदवहित-
करणकलाप आस्ते ॥ २२॥
किं वा अरे आचरितं तपस्तपस्विन्यानया
यदियमवनिः सविनयकृष्णसारतनयतनुतर-
सुभगशिवतमाखरखुरपदपङ्क्तिभिर्द्रविण-
विधुरातुरस्य कृपणस्य मम द्रविणपदवीं
सूचयन्त्यात्मानं च सर्वतः कृतकौतुकं
द्विजानां स्वर्गापवर्गकामानां देवयजनं करोति ॥ २३॥
अपि स्विदसौ भगवानुडुपतिरेनं मृगपतिभया-
न्मृतमातरं मृगबालकं स्वाश्रमपरिभ्रष्टमनुकम्पया
कृपणजनवत्सलः परिपाति ॥ २४॥
किं वाऽऽत्मजविश्लेषज्वरदवदहनशिखाभि-
रुपतप्यमानहृदयस्थलनलिनीकं मामुपसृत-
मृगीतनयं शिशिरशान्तानुरागगुणितनिज-
वदनसलिलामृतमयगभस्तिभिः स्वधयतीति च ॥ २५॥
एवमघटमानमनोरथाकुलहृदयो मृगदारकाभासेन
स्वारब्धकर्मणा योगारम्भणतो विभ्रंशितः स
योगतापसो भगवदाराधनलक्षणाच्च कथमितरथा
जात्यन्तर एणकुणक आसङ्गः साक्षान्निःश्रेयस-
प्रतिपक्षतया प्राक्परित्यक्तदुस्त्यजहृदयाभिजातस्य
तस्यैवमन्तरायविहतयोगारम्भणस्य राजर्षेर्भरतस्य
तावन्मृगार्भकपोषणपालनप्रीणनलालनानुषङ्गेणा-
विगणयत आत्मानमहिरिवाखुबिलं दुरतिक्रमः
कालः करालरभस आपद्यत ॥ २६॥
तदानीमपि पार्श्ववर्तिनमात्मजमिवानुशोचन्त-
मभिवीक्षमाणो मृग एवाभिनिवेशितमना विसृज्य
लोकमिमं सह मृगेण कलेवरं मृतमनु न मृतजन्मा-
नुस्मृतिरितरवन्मृगशरीरमवाप ॥ २७॥
तत्रापि ह वा आत्मनो मृगत्वकारणं भगव-
दाराधनसमीहानुभावेनानुस्मृत्य भृशमनु-
तप्यमान आह ॥ २८॥
अहो कष्टं भ्रष्टोऽहमात्मवतामनुपथाद्यद्विमुक्त-
समस्तसङ्गस्य विविक्तपुण्यारण्यशरणस्यात्मवत
आत्मनि सर्वेषामात्मनां भगवति वासुदेवे
तदनुश्रवणमननसङ्कीर्तनाराधनानुस्मरणा-
भियोगेनाशून्यसकलयामेन कालेन समावेशितं
समाहितं कार्त्स्न्येन मनस्तत्तु पुनर्ममाबुधस्या-
रान्मृगसुतमनु परिसुस्राव ॥ २९॥
इत्येवं निगूढनिर्वेदो विसृज्य मृगीं मातरं
पुनर्भगवत्क्षेत्रमुपशमशीलमुनिगणदयितं
शालग्रामं पुलस्त्यपुलहाश्रमं कालञ्जरा-
त्प्रत्याजगाम ॥ ३०॥
तस्मिन्नपि कालं प्रतीक्षमाणः सङ्गाच्च भृशमुद्विग्न
आत्मसहचरः शुष्कपर्णतृणवीरुधा वर्तमानो
मृगत्वनिमित्तावसानमेव गणयन् मृगशरीरं
तीर्थोदकक्लिन्नमुत्ससर्ज ॥ ३१॥
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां
पञ्चमस्कन्धे भरतचरिते अष्टमोऽध्यायः ॥ ८॥
॥ ॐ नमो भगवते वासुदेवाय ॥
॥ नवमोऽध्यायः ॥
श्रीशुक उवाच
अथ कस्यचिद्द्विजवरस्याङ्गिरःप्रवरस्य शमदमतपः-
स्वाध्यायाध्ययनत्यागसन्तोषतितिक्षाप्रश्रयविद्या-
नसूयात्मज्ञानानन्दयुक्तस्यात्मसदृशश्रुतशीलाचार-
रूपौदार्यगुणा नवसोदर्या अङ्गजा बभूवुर्मिथुनं च
यवीयस्यां भार्यायाम् ॥ १॥
यस्तु तत्र पुमांस्तं परमभागवतं राजर्षिप्रवरं भरत-
मुत्सृष्टमृगशरीरं चरमशरीरेण विप्रत्वं गतमाहुः ॥ २॥
तत्रापि स्वजनसङ्गाच्च भृशमुद्विजमानो भगवतः
कर्मबन्धविध्वंसनश्रवणस्मरणगुणविवरण-
चरणारविन्दयुगलं मनसा विदधदात्मनः
प्रतिघातमाशङ्कमानो भगवदनुग्रहेणानुस्मृत-
स्वपूर्वजन्मावलिरात्मानमुन्मत्तजडान्धबधिर-
स्वरूपेण दर्शयामास लोकस्य ॥ ३॥
तस्यापि ह वा आत्मजस्य विप्रः पुत्रस्नेहानुबद्धमना
आ समावर्तनात्संस्कारान् यथोपदेशं विदधान
उपनीतस्य च पुनः शौचाचमनादीन् कर्मनियमा-
ननभिप्रेतानपि समशिक्षयदनुशिष्टेन हि भाव्यं पितुः
पुत्रेणेति ॥ ४॥
स चापि तदु ह पितृसन्निधावेवासध्रीचीनमिव
स्म करोति छन्दांस्यध्यापयिष्यन् सह व्याहृतिभिः
सप्रणवशिरस्त्रिपदीं सावित्रीं ग्रैष्मवासन्तिकान्
मासानधीयानमप्यसमवेतरूपं ग्राहयामास ॥ ५॥
एवं स्वतनुज आत्मन्यनुरागावेशितचित्तः
शौचाध्ययनव्रतनियमगुर्वनलशुश्रूषणाद्यौप-
कुर्वाणककर्माण्यनभियुक्तान्यपि समनुशिष्टेन
भाव्यमित्यसदाग्रहः पुत्रमनुशास्य स्वयं
तावदनधिगतमनोरथः कालेनाप्रमत्तेन
स्वयं गृह एव प्रमत्त उपसंहृतः ॥ ६॥
अथ यवीयसी द्विजसती स्वगर्भजातं मिथुनं
सपत्न्या उपन्यस्य स्वयमनुसंस्थयापतिलोकमगात् ॥ ७॥
पितर्युपरते भ्रातर एनमतत्प्रभावविदस्त्रय्यां विद्यायामेव
पर्यवसितमतयो न परविद्यायां जडमतिरिति भ्रातु-
रनुशासननिर्बन्धान्न्यवृत्सन्त ॥ ८॥
स च प्राकृतैर्द्विपदपशुभिरुन्मत्तजडबधिरमूके-
त्यभिभाष्यमाणो यदा तदनुरूपाणि प्रभाषते कर्माणि
च स कार्यमाणः परेच्छया करोति विष्टितो वेतनतो
वा याच्ञया यदृच्छया वोपसादितमल्पं बहु मृष्टं
कदन्नं वाभ्यवहरति परं नेन्द्रियप्रीतिनिमित्तम् ।
नित्यनिवृत्तनिमित्तस्वसिद्धविशुद्धानुभवानन्द-
स्वात्मलाभाधिगमः सुखदुःखयोर्द्वन्द्वनिमित्तयो-
रसम्भावितदेहाभिमानः ॥ ९॥
शीतोष्णवातवर्षेषु वृष इवानावृताङ्गः पीनः
संहननाङ्गः स्थण्डिलसंवेशनानुन्मर्दनामज्जन-
रजसा महामणिरिवानभिव्यक्तब्रह्मवर्चसः
कुपटावृतकटिरुपवीतेनोरुमषिणा द्विजातिरिति
ब्रह्मबन्धुरिति संज्ञयातज्ज्ञजनावमतो विचचार ॥ १०॥
यदा तु परत आहारं कर्मवेतनत ईहमानः
स्वभ्रातृभिरपि केदारकर्मणि निरूपितस्तदपि
करोति किन्तु न समं विषमं न्यूनमधिकमिति
वेद कणपिण्याकफलीकरणकुल्माषस्थाली-
पुरीषादीन्यप्यमृतवदभ्यवहरति ॥ ११॥
अथ कदाचित्कश्चिद्वृषलपतिर्भद्रकाल्यै पुरुषपशु-
मालभतापत्यकामः ॥ १२॥
तस्य ह दैवमुक्तस्य पशोः पदवीं तदनुचराः
परिधावन्तो निशि निशीथसमये तमसा-
वृतायामनधिगतपशव आकस्मिकेन विधिना
केदारान् वीरासनेन मृगवराहादिभ्यः
संरक्षमाणमङ्गिरःप्रवरसुतमपश्यन् ॥ १३॥
अथ त एनमनवद्यलक्षणमवमृश्य भर्तृकर्म-
निष्पत्तिं मन्यमाना बद्ध्वा रशनया चण्डिका-
गृहमुपनिन्युर्मुदा विकसितवदनाः ॥ १४॥
अथ पणयस्तं स्वविधिनाभिषिच्याहतेन
वाससाऽऽच्छाद्य भूषणालेपस्रक्तिलकादिभि-
रुपस्कृतं भुक्तवन्तं धूपदीपमाल्यलाज-
किसलयाङ्कुरफलोपहारोपेतया वैशस-
संस्थया महता गीतस्तुतिमृदङ्गपणवघोषेण
च पुरुषपशुं भद्रकाल्याः पुरत उपवेशयामासुः ॥ १५॥
अथ वृषलराजपणिः पुरुषपशोरसृगासवेन
देवीं भद्रकालीं यक्ष्यमाणस्तदभिमन्त्रितमसि-
मतिकरालनिशितमुपाददे ॥ १६॥
इति तेषां वृषलानां रजस्तमःप्रकृतीनां
धनमदरज उत्सिक्तमनसां भगवत्कला-
वीरकुलं कदर्थीकृत्योत्पथेन स्वैरं विहरतां
हिंसाविहाराणां कर्मातिदारुणं यद्ब्रह्मभूतस्य
साक्षाद्ब्रह्मर्षिसुतस्य निर्वैरस्य सर्वभूतसुहृदः
सूनायामप्यननुमतमालम्भनं तदुपलभ्य
ब्रह्मतेजसातिदुर्विषहेण दन्दह्यमानेन वपुषा
सहसोच्चचाट सैव देवी भद्रकाली ॥॥ १७॥
भृशममर्षरोषावेशरभसविलसितभ्रुकुटि-
विटपकुटिलदंष्ट्रारुणेक्षणाटोपातिभयानक-
वदना हन्तुकामेवेदं महाट्टहासमतिसंरम्भेण
विमुञ्चन्ती तत उत्पत्य पापीयसां दुष्टानां
तेनैवासिना विवृक्णशीर्ष्णां गलात्स्रवन्तमसृगासव-
मत्युष्णं सह गणेन निपीयातिपानमदविह्वलोच्चैस्तरां
स्वपार्षदैः सह जगौ ननर्त च विजहार च शिरः
कन्दुकलीलया ॥ १८॥
एवमेव खलु महदभिचारातिक्रमः
कार्त्स्न्येनात्मने फलति ॥ १९॥
न वा एतद्विष्णुदत्त महदद्भुतं यदसम्भ्रमः
स्वशिरश्च्छेदन आपतितेऽपि विमुक्तदेहाद्यात्मभाव-
सुदृढहृदयग्रन्थीनां सर्वसत्त्वसुहृदात्मनां निर्वैराणां
साक्षाद्भगवतानिमिषारिवरायुधेनाप्रमत्तेन तैस्तैर्भावैः
परिरक्ष्यमाणानां तत्पादमूलमकुतश्चिद्भयमुपसृतानां
भागवतपरमहंसानाम् ॥ २०॥
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां
पञ्चमस्कन्धे जडभरतचरिते नवमोऽध्यायः ॥ ९॥
॥ ॐ नमो भगवते वासुदेवाय ॥
॥ दशमोऽध्यायः ॥
श्रीशुक उवाच
अथ सिन्धुसौवीरपते रहूगणस्य व्रजत
इक्षुमत्यास्तटे तत्कुलपतिना शिबिकावाहपुरुषा-
न्वेषणसमये दैवेनोपसादितः स द्विजवर उपलब्ध
एष पीवा युवा संहननाङ्गो गोखरवद्धुरं वोढुमलमिति
पूर्वविष्टिगृहीतैः सह गृहीतः प्रसभमतदर्ह उवाह
शिबिकां स महानुभावः ॥ १॥
यदा हि द्विजवरस्येषुमात्रावलोकानुगतेर्न
समाहिता पुरुषगतिस्तदा विषमगतां स्वशिबिकां
रहूगण उपधार्य पुरुषानधिवहत आह हे वोढारः
साध्वतिक्रमत किमिति विषममुह्यते यानमिति ॥ २॥
अथ त ईश्वरवचः सोपालम्भमुपाकर्ण्योपायतुरीया-
च्छङ्कितमनसस्तं विज्ञापयां बभूवुः ॥ ३॥
न वयं नरदेव प्रमत्ता भवन्नियमानुपथाः साध्वेव
वहामः अयमधुनैव नियुक्तोऽपि न द्रुतं व्रजति
नानेन सह वोढुमु ह वयं पारयाम इति ॥ ४॥
सांसर्गिको दोष एव नूनमेकस्यापि सर्वेषां
सांसर्गिकाणां भवितुमर्हतीति निश्चित्य
निशम्य कृपणवचो राजा रहूगण उपासित-
वृद्धोऽपि निसर्गेण बलात्कृत ईषदुत्थित-
मन्युरविस्पष्टब्रह्मतेजसं जातवेदसमिव
रजसाऽऽवृतमतिराह ॥ ५॥
अहो कष्टं भ्रातर्व्यक्तमुरुपरिश्रान्तो दीर्घमध्वानमेक
एव ऊहिवान् सुचिरं नातिपीवा न संहननाङ्गो जरसा
चोपद्रुतो भवान् सखे नो एवापर एते सङ्घट्टिन इति
बहु विप्रलब्धोऽप्यविद्यया रचितद्रव्यगुणकर्माशयस्व-
चरमकलेवरेऽवस्तुनि संस्थानविशेषेऽहम्ममेत्य-
नध्यारोपितमिथ्याप्रत्ययो ब्रह्मभूतस्तूष्णीं शिबिकां
पूर्ववदुवाह ॥ ६॥
अथ पुनः स्वशिबिकायां विषमगतायां प्रकुपित उवाच
रहूगणः किमिदमरे त्वं जीवन्मृतो मां कदर्थीकृत्य
भर्तृशासनमतिचरसि प्रमत्तस्य च ते करोमि
चिकित्सां दण्डपाणिरिव जनताया यथा प्रकृतिं स्वां
भजिष्यस इति ॥ ७॥
एवं बह्वबद्धमपि भाषमाणं नरदेवाभिमानं रजसा
तमसानुविद्धेन मदेन तिरस्कृताशेषभगवत्प्रियनिकेतं
पण्डितमानिनं स भगवान् ब्राह्मणो ब्रह्मभूतः सर्वभूत-
सुहृदात्मा योगेश्वरचर्यायां नातिव्युत्पन्नमतिं स्मयमान
इव विगतस्मय इदमाह ॥ ८॥
ब्राह्मण उवाच
त्वयोदितं व्यक्तमविप्रलब्धं
भर्तुः स मे स्याद्यदि वीर भारः ।
गन्तुर्यदि स्यादधिगम्यमध्वा
पीवेति राशौ न विदां प्रवादः ॥ ९॥
स्थौल्यं कार्श्यं व्याधय आधयश्च
क्षुत्तृड्भयं कलिरिच्छा जरा च ।
निद्रा रतिर्मन्युरहं मदः शुचो
देहेन जातस्य हि मे न सन्ति ॥ १०॥
जीवन्मृतत्वं नियमेन राजन्
आद्यन्तवद्यद्विकृतस्य दृष्टम् ।
स्वस्वाम्यभावो ध्रुव ईड्य यत्र
तर्ह्युच्यतेऽसौ विधिकृत्ययोगः ॥ ११॥
विशेषबुद्धेर्विवरं मनाक्च
पश्याम यन्न व्यवहारतोऽन्यत् ।
क ईश्वरस्तत्र किमीशितव्यं
तथापि राजन् करवाम किं ते ॥ १२॥
उन्मत्तमत्तजडवत्स्वसंस्थां
गतस्य मे वीर चिकित्सितेन ।
अर्थः कियान् भवता शिक्षितेन
स्तब्धप्रमत्तस्य च पिष्टपेषः ॥ १३॥
श्रीशुक उवाच
एतावदनुवादपरिभाषया प्रत्युदीर्य मुनिवर
उपशमशील उपरतानात्म्यनिमित्त उपभोगेन
कर्मारब्धं व्यपनयन् राजयानमपि तथोवाह ॥ १४॥
स चापि पाण्डवेय सिन्धुसौवीरपतिस्तत्त्व-
जिज्ञासायां सम्यक् श्रद्धयाधिकृताधिकार-
स्तद्धृदयग्रन्थिमोचनं द्विजवच आश्रुत्य बहु
योगग्रन्थसम्मतं त्वरयावरुह्य शिरसा
पादमूलमुपसृतः क्षमापयन् विगत-
नृपदेवस्मय उवाच ॥ १५॥
कस्त्वं निगूढश्चरसि द्विजानां
बिभर्षि सूत्रं कतमोऽवधूतः ।
कस्यासि कुत्रत्य इहापि कस्मात्
क्षेमाय नश्चेदसि नोत शुक्लः ॥ १६॥
नाहं विशङ्के सुरराजवज्रा-
न्न त्र्यक्षशूलान्न यमस्य दण्डात् ।
नाग्न्यर्कसोमानिलवित्तपास्त्रा-
च्छङ्के भृशं ब्रह्मकुलावमानात् ॥ १७॥
तद्ब्रूह्यसङ्गो जडवन्निगूढ-
विज्ञानवीर्यो विचरस्यपारः ।
वचांसि योगग्रथितानि साधो
न नः क्षमन्ते मनसापि भेत्तुम् ॥ १८॥
अहं च योगेश्वरमात्मतत्त्व-
विदां मुनीनां परमं गुरुं वै ।
प्रष्टुं प्रवृत्तः किमिहारणं तत्
साक्षाद्धरिं ज्ञानकलावतीर्णम् ॥ १९॥
स वै भवाँल्लोकनिरीक्षणार्थ-
मव्यक्तलिङ्गो विचरत्यपि स्वित् ।
योगेश्वराणां गतिमन्धबुद्धिः
कथं विचक्षीत गृहानुबन्धः ॥ २०॥
दृष्टः श्रमः कर्मत आत्मनो वै
भर्तुर्गन्तुर्भवतश्चानुमन्ये ।
यथासतोदानयनाद्यभावात्
समूल इष्टो व्यवहारमार्गः ॥ २१॥
स्थाल्यग्नितापात्पयसोऽभिताप-
स्तत्तापतस्तण्डुलगर्भरन्धिः ।
देहेन्द्रियास्वाशयसन्निकर्षा-
त्तत्संसृतिः पुरुषस्यानुरोधात् ॥ २२॥
शास्ताभिगोप्ता नृपतिः प्रजानां
यः किङ्करो वै न पिनष्टि पिष्टम् ।
स्वधर्ममाराधनमच्युतस्य
यदीहमानो विजहात्यघौघम् ॥ २३॥
तन्मे भवान् नरदेवाभिमान-
मदेन तुच्छीकृतसत्तमस्य ।
कृषीष्ट मैत्री दृशमार्तबन्धो
यथा तरे सदवध्यानमंहः ॥ २४॥
न विक्रिया विश्वसुहृत्सखस्य
साम्येन वीताभिमतेस्तवापि ।
महद्विमानात्स्वकृताद्धि मादृ-
ङ्नङ्क्ष्यत्यदूरादपि शूलपाणिः ॥ २५॥
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां
पञ्चमस्कन्धे दशमोऽध्यायः ॥ १०॥
॥ ॐ नमो भगवते वासुदेवाय ॥
॥ एकादशोऽध्यायः ॥
ब्राह्मण उवाच
अकोविदः कोविदवादवादान्
वदस्यथो नातिविदां वरिष्ठः ।
न सूरयो हि व्यवहारमेनं
तत्त्वावमर्शेन सहामनन्ति ॥ १॥
तथैव राजन्नुरुगार्हमेध-
वितानविद्योरुविजृम्भितेषु ।
न वेदवादेषु हि तत्त्ववादः
प्रायेण शुद्धो नु चकास्ति साधुः ॥ २॥
न तस्य तत्त्वग्रहणाय साक्षा-
द्वरीयसीरपि वाचः समासन् ।
स्वप्ने निरुक्त्या गृहमेधिसौख्यं
न यस्य हेयानुमितं स्वयं स्यात् ॥ ३॥
यावन्मनो रजसा पूरुषस्य
सत्त्वेन वा तमसा वानुरुद्धम् ।
चेतोभिराकूतिभिरातनोति
निरङ्कुशं कुशलं चेतरं वा ॥ ४॥
स वासनात्मा विषयोपरक्तो
गुणप्रवाहो विकृतः षोडशात्मा ।
बिभ्रत्पृथङ्नामभि रूपभेद-
मन्तर्बहिष्ट्वं च पुरैस्तनोति ॥ ५॥
दुःखं सुखं व्यतिरिक्तं च तीव्रं
कालोपपन्नं फलमाव्यनक्ति ।
आलिङ्ग्य मायारचितान्तरात्मा
स्वदेहिनं संसृतिचक्रकूटः ॥ ६॥
तावानयं व्यवहारः सदाविः
क्षेत्रज्ञसाक्ष्यो भवति स्थूलसूक्ष्मः ।
तस्मान्मनो लिङ्गमदो वदन्ति
गुणागुणत्वस्य परावरस्य ॥ ७॥
गुणानुरक्तं व्यसनाय जन्तोः
क्षेमाय नैर्गुण्यमथो मनः स्यात् ।
यथा प्रदीपो घृतवर्तिमश्नन्
शिखाः सधूमा भजति ह्यन्यदा स्वम् ।
पदं तथा गुणकर्मानुबद्धं
वृत्तीर्मनः श्रयतेऽन्यत्र तत्त्वम् ॥ ८॥
एकादशासन्मनसो हि वृत्तय
आकूतयः पञ्च धियोऽभिमानः ।
मात्राणि कर्माणि पुरं च तासां
वदन्ति हैकादश वीर भूमीः ॥ ९॥
गन्धाकृतिस्पर्शरसश्रवांसि
विसर्गरत्यर्त्यभिजल्पशिल्पाः ।
एकादशं स्वीकरणं ममेति
शय्यामहं द्वादशमेक आहुः ॥ १०॥
द्रव्यस्वभावाशयकर्मकालै-
रेकादशामी मनसो विकाराः ।
सहस्रशः शतशः कोटिशश्च
क्षेत्रज्ञतो न मिथो न स्वतः स्युः ॥ ११॥
क्षेत्रज्ञ एता मनसो विभूती-
र्जीवस्य मायारचितस्य नित्याः ।
आविर्हिताः क्वापि तिरोहिताश्च
शुद्धो विचष्टे ह्यविशुद्धकर्तुः ॥ १२॥
क्षेत्रज्ञ आत्मा पुरुषः पुराणः
साक्षात्स्वयञ्ज्योतिरजः परेशः ।
नारायणो भगवान्वासुदेवः
स्वमाययाऽऽत्मन्यवधीयमानः ॥ १३॥
यथानिलः स्थावरजङ्गमाना-
मात्मस्वरूपेण निविष्ट ईशेत् ।
एवं परो भगवान् वासुदेवः
क्षेत्रज्ञ आत्मेदमनुप्रविष्टः ॥ १४॥
न यावदेतां तनुभृन्नरेन्द्र
विधूय मायां वयुनोदयेन ।
विमुक्तसङ्गो जितषट्सपत्नो
वेदात्मतत्त्वं भ्रमतीह तावत् ॥ १५॥
न यावदेतन्मन आत्मलिङ्गं
संसारतापावपनं जनस्य ।
यच्छोकमोहामयरागलोभ-
वैरानुबन्धं ममतां विधत्ते ॥ १६॥
भ्रातृव्यमेनं तददभ्रवीर्य-
मुपेक्षयाध्येधितमप्रमत्तः ।
गुरोर्हरेश्चरणोपासनास्त्रो
जहि व्यलीकं स्वयमात्ममोषम् ॥ १७॥
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां
पञ्चमस्कन्धे ब्राह्मणरहूगणसंवादे एकादशोऽध्यायः ॥ ११॥
॥ ॐ नमो भगवते वासुदेवाय ॥
॥ द्वादशोऽध्यायः ॥
रहूगण उवाच
नमो नमः कारणविग्रहाय
स्वरूपतुच्छीकृतविग्रहाय ।
नमोऽवधूतद्विजबन्धुलिङ्ग-
निगूढनित्यानुभवाय तुभ्यम् ॥ १॥
ज्वरामयार्तस्य यथागदं स-
न्निदाघदग्धस्य यथा हिमाम्भः ।
कुदेहमानाहिविदष्टदृष्टे-
र्ब्रह्मन्वचस्तेऽमृतमौषधं मे ॥ २॥
तस्माद्भवन्तं मम संशयार्थं
प्रक्ष्यामि पश्चादधुना सुबोधम् ।
अध्यात्मयोगग्रथितं तवोक्त-
माख्याहि कौतूहलचेतसो मे ॥ ३॥
यदाह योगेश्वर दृश्यमानं
क्रियाफलं सद्व्यवहारमूलम् ।
न ह्यञ्जसा तत्त्वविमर्शनाय
भवानमुष्मिन् भ्रमते मनो मे ॥ ४॥
ब्राह्मण उवाच
अयं जनो नाम चलन् पृथिव्यां
यः पार्थिवः पार्थिव कस्य हेतोः ।
तस्यापि चाङ्घ्र्योरधिगुल्फजङ्घा-
जानूरुमध्योरशिरोधरांसाः ॥ ५॥
अंसेऽधि दार्वी शिबिका च यस्यां
सौवीरराजेत्यपदेश आस्ते ।
यस्मिन् भवान् रूढनिजाभिमानो
राजास्मि सिन्धुष्विति दुर्मदान्धः ॥ ६॥
शोच्यानिमांस्त्वमधिकष्टदीनान्
विष्ट्या निगृह्णन् निरनुग्रहोऽसि ।
जनस्य गोप्तास्मि विकत्थमानो
न शोभसे वृद्धसभासु धृष्टः ॥ ७॥
यदा क्षितावेव चराचरस्य
विदाम निष्ठां प्रभवं च नित्यम् ।
तन्नामतोऽन्यद्व्यवहारमूलं
निरूप्यतां सत्क्रिययानुमेयम् ॥ ८॥
एवं निरुक्तं क्षितिशब्दवृत्त-
मसन्निधानात्परमाणवो ये ।
अविद्यया मनसा कल्पितास्ते
येषां समूहेन कृतो विशेषः ॥ ९॥
एवं कृशं स्थूलमणुर्बृहद्य-
दसच्च सज्जीवमजीवमन्यत् ।
द्रव्यस्वभावाशयकालकर्म-
नाम्नाजयावेहि कृतं द्वितीयम् ॥ १०॥
ज्ञानं विशुद्धं परमार्थमेक-
मनन्तरं त्वबहिर्ब्रह्म सत्यम् ।
प्रत्यक्प्रशान्तं भगवच्छब्दसंज्ञं
यद्वासुदेवं कवयो वदन्ति ॥ ११॥
रहूगणैतत्तपसा न याति
न चेज्यया निर्वपणाद्गृहाद्वा ।
न छन्दसा नैव जलाग्निसूर्यै-
र्विना महत्पादरजोऽभिषेकम् ॥ १२॥
यत्रोत्तमश्लोकगुणानुवादः
प्रस्तूयते ग्राम्यकथाविघातः ।
निषेव्यमाणोऽनुदिनं मुमुक्षो-
र्मतिं सतीं यच्छति वासुदेवे ॥ १३॥
अहं पुरा भरतो नाम राजा
विमुक्तदृष्टश्रुतसङ्गबन्धः ।
आराधनं भगवत ईहमानो
मृगोऽभवं मृगसङ्गाद्धतार्थः ॥ १४॥
सा मां स्मृतिर्मृगदेहेऽपि वीर
कृष्णार्चनप्रभवा नो जहाति ।
अथो अहं जनसङ्गादसङ्गो
विशङ्कमानोऽविवृतश्चरामि ॥ १५॥
तस्मान्नरोऽसङ्गसुसङ्गजात-
ज्ञानासिनेहैव विवृक्णमोहः ।
हरिं तदीहाकथनश्रुताभ्यां
लब्धस्मृतिर्यात्यतिपारमध्वनः ॥ १६॥
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां
पञ्चमस्कन्धे ब्राह्मणरहूगणसंवादे द्वादशोऽध्यायः ॥ १२॥
॥ ॐ नमो भगवते वासुदेवाय ॥
॥ त्रयोदशोऽध्यायः ॥
ब्राह्मण उवाच
दुरत्ययेऽध्वन्यजया निवेशितो
रजस्तमःसत्त्वविभक्तकर्मदृक् ।
स एष सार्थोऽर्थपरः परिभ्रमन्
भवाटवीं याति न शर्म विन्दति ॥ १॥
यस्यामिमे षण्नरदेव दस्यवः
सार्थं विलुम्पन्ति कुनायकं बलात् ।
गोमायवो यत्र हरन्ति सार्थिकं
प्रमत्तमाविश्य यथोरणं वृकाः ॥ २॥
प्रभूतवीरुत्तृणगुल्मगह्वरे
कठोरदंशैर्मशकैरुपद्रुतः ।
क्वचित्तु गन्धर्वपुरं प्रपश्यति
क्वचित्क्वचिच्चाशु रयोल्मुकग्रहम् ॥ ३॥
निवासतोयद्रविणात्मबुद्धि-
स्ततस्ततो धावति भो अटव्याम् ।
क्वचिच्च वात्योत्थितपांसुधूम्रा
दिशो न जानाति रजस्वलाक्षः ॥ ४॥
अदृश्यझिल्लीस्वनकर्णशूल
उलूकवाग्भिर्व्यथितान्तरात्मा ।
अपुण्यवृक्षान् श्रयते क्षुधार्दितो
मरीचितोयान्यभिधावति क्वचित् ॥ ५॥
क्वचिद्वितोयाः सरितोऽभियाति
परस्परं चालषते निरन्धः ।
आसाद्य दावं क्वचिदग्नितप्तो
निर्विद्यते क्व च यक्षैर्हृतासुः ॥ ६॥
शूरैर्हृतस्वः क्व च निर्विण्णचेताः
शोचन्विमुह्यन्नुपयाति कश्मलम् ।
क्वचिच्च गन्धर्वपुरं प्रविष्टः
प्रमोदते निर्वृतवन्मुहूर्तम् ॥ ७॥
चलन् क्वचित्कण्टकशर्कराङ्घ्रि-
र्नगारुरुक्षुर्विमना इवास्ते ।
पदे पदेऽभ्यन्तरवह्निनार्दितः
कौटुम्बिकः क्रुध्यति वै जनाय ॥ ८॥
क्वचिन्निगीर्णोऽजगराहिना जनो
नावैति किञ्चिद्विपिनेऽपविद्धः ।
दष्टः स्म शेते क्व च दन्दशूकै-
रन्धोऽन्धकूपे पतितस्तमिस्रे ॥ ९॥
कर्हि स्म चित्क्षुद्ररसान् विचिन्वं-
स्तन्मक्षिकाभिर्व्यथितो विमानः ।
तत्रातिकृच्छ्रात्प्रतिलब्धमानो
बलाद्विलुम्पन्त्यथ तं ततोऽन्ये ॥ १०॥
क्वचिच्च शीतातपवातवर्ष-
प्रतिक्रियां कर्तुमनीश आस्ते ।
क्वचिन्मिथो विपणन् यच्च किञ्चि-
द्विद्वेषमृच्छत्युत वित्तशाठ्यात् ॥ ११॥
क्वचित्क्वचित्क्षीणधनस्तु तस्मिन्
शय्यासनस्थानविहारहीनः ।
याचन् परादप्रतिलब्धकामः
पारक्यदृष्टिर्लभतेऽवमानम् ॥ १२॥
अन्योन्यवित्तव्यतिषङ्गवृद्ध-
वैरानुबन्धो विवहन् मिथश्च ।
अध्वन्यमुष्मिन्नुरुकृच्छ्रवित्त-
बाधोपसर्गैर्विहरन् विपन्नः ॥ १३॥
तांस्तान् विपन्नान् स हि तत्र तत्र
विहाय जातं परिगृह्य सार्थः ।
आवर्ततेऽद्यापि न कश्चिदत्र
वीराध्वनः पारमुपैति योगम् ॥ १४॥
मनस्विनो निर्जितदिग्गजेन्द्रा
ममेति सर्वे भुवि बद्धवैराः ।
मृधे शयीरन् न तु तद्व्रजन्ति
यन्न्यस्तदण्डो गतवैरोऽभियाति ॥ १५॥
प्रसज्जति क्वापि लता भुजाश्रय-
स्तदाश्रयाव्यक्तपदद्विजस्पृहः ।
क्वचित्कदाचिद्धरिचक्रतस्त्रसन्
सख्यं विधत्ते बककङ्कगृध्रैः ॥ १६॥
तैर्वञ्चितो हंसकुलं समाविश-
न्नरोचयन् शीलमुपैति वानरान् ।
तज्जातिरासेन सुनिर्वृतेन्द्रियः
परस्परोद्वीक्षणविस्मृतावधिः ॥ १७॥
द्रुमेषु रंस्यन् सुतदारवत्सलो
व्यवायदीनो विवशः स्वबन्धने ।
क्वचित्प्रमादाद्गिरिकन्दरे पतन्
वल्लीं गृहीत्वा गजभीत आस्थितः ॥ १८॥
अतः कथञ्चित्स विमुक्त आपदः
पुनश्च सार्थं प्रविशत्यरिन्दम ।
अध्वन्यमुष्मिन्नजया निवेशितो
भ्रमञ्जनोऽद्यापि न वेद कश्चन ॥ १९॥
रहूगण त्वमपि ह्यध्वनोऽस्य
सन्न्यस्तदण्डः कृतभूतमैत्रः ।
असज्जितात्मा हरिसेवया शितं
ज्ञानासिमादाय तरातिपारम् ॥ २०॥
राजोवाच
अहो नृजन्माखिलजन्मशोभनं
किं जन्मभिस्त्वपरैरप्यमुष्मिन् ।
न यद्धृषीकेशयशःकृतात्मनां
महात्मनां वः प्रचुरः समागमः ॥ २१॥
न ह्यद्भुतं त्वच्चरणाब्जरेणुभि-
र्हतांहसो भक्तिरधोक्षजेऽमला ।
मौहूर्तिकाद्यस्य समागमाच्च मे
दुस्तर्कमूलोऽपहतोऽविवेकः ॥ २२॥
नमो महद्भ्योऽस्तु नमः शिशुभ्यो
नमो युवभ्यो नम आवटुभ्यः ।
ये ब्राह्मणा गामवधूतलिङ्गा-
श्चरन्ति तेभ्यः शिवमस्तु राज्ञाम् ॥ २३॥
श्रीशुक उवाच
इत्येवमुत्तरामातः स वै ब्रह्मर्षिसुतः
सिन्धुपतय आत्मसतत्त्वं विगणयतः
परानुभावः परमकारुणिकतयोपदिश्य
रहूगणेन सकरुणमभिवन्दितचरण
आपूर्णार्णव इव निभृतकरणोर्म्याशयो
धरणिमिमां विचचार ॥ २४॥
सौवीरपतिरपि सुजनसमवगतपरमात्मसतत्त्व
आत्मन्यविद्याध्यारोपितां च देहात्ममतिं विससर्ज
एवं हि नृप भगवदाश्रिताश्रितानुभावः ॥ २५॥
राजोवाच
यो ह वा इह बहुविदा महाभागवत त्वयाभिहितः
परोक्षेण वचसा जीवलोकभवाध्वा स ह्यार्य
मनीषया कल्पितविषयो नाञ्जसाव्युत्पन्नलोक-
समधिगमः अथ तदेवैतद्दुरवगमं समवेता-
नुकल्पेन निर्दिश्यतामिति ॥ २६॥
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां
पञ्चमस्कन्धे त्रयोदशोऽऽध्यायः ॥ १३॥