श्रीमद्भागवतम्
॥ ॐ नमो भगवते वासुदेवाय ॥
॥ पञ्चमस्कन्धः ॥(Continued)
॥ चतुर्दशोऽध्यायः ॥
स होवाच
य एष देहात्ममानिनां सत्त्वादिगुणविशेषविकल्पित-
कुशलाकुशलसमवहारविनिर्मितविविधदेहावलिभि-
र्वियोगसंयोगादि अनादिसंसारानुभवस्य द्वारभूतेन
षडिन्द्रियवर्गेण तस्मिन् दुर्गाध्ववदसुगमेऽध्व-
न्यापतित ईश्वरस्य भगवतो विष्णोर्वशवर्तिन्या
मायया जीवलोकोऽयं यथा वणिक्सार्थोऽर्थपरः
स्वदेहनिष्पादितकर्मानुभवः श्मशानवदशिवतमायां
संसाराटव्यां गतो नाद्यापि विफलबहुप्रतियोगेहस्त-
त्तापोपशमनीं हरिगुरुचरणारविन्दमधुकरानुपदवी-
मवरुन्धे ॥ १॥
यस्यामु ह वा एते षडिन्द्रियनामानः कर्मणा दस्यव
एव ते तद्यथा पुरुषस्य धनं यत्किञ्चिद्धर्मौपयिकं बहु
कृच्छ्राधिगतं साक्षात्परमपुरुषाराधनलक्षणो योऽसौ
धर्मस्तं तु साम्पराय उदाहरन्ति । तद्धर्म्यं धनं दर्शन-
स्पर्शनश्रवणास्वादनावघ्राणसङ्कल्पव्यवसायगृह-
ग्राम्योपभोगेन कुनाथस्याजितात्मनो यथा सार्थस्य
विलुम्पन्ति ॥ २॥
अथ च यत्र कौटुम्बिका दारापत्यादयो नाम्ना कर्मणा
वृकसृगाला एवानिच्छतोऽपि कदर्यस्य कुटुम्बिन
उरणकवत्संरक्ष्यमाणं मिषतोऽपि हरन्ति ॥ ३॥
यथा ह्यनुवत्सरं कृष्यमाणमप्यदग्धबीजं क्षेत्रं
पुनरेवावपनकाले गुल्मतृणवीरुद्भिर्गह्वरमिव
भवत्येवमेव गृहाश्रमः कर्मक्षेत्रं यस्मिन् न हि
कर्माण्युत्सीदन्ति यदयं कामकरण्ड एष आवसथः ॥ ४॥
तत्र गतो दंशमशकसमापसदैर्मनुजैः शलभ-
शकुन्ततस्करमूषकादिभिरुपरुध्यमानबहिःप्राणः
क्वचित्परिवर्तमानोऽस्मिन्नध्वन्यविद्याकामकर्मभि-
रुपरक्तमनसानुपपन्नार्थं नरलोकं गन्धर्वनगर-
मुपपन्नमिति मिथ्यादृष्टिरनुपश्यति ॥ ५॥
तत्र च क्वचिदातपोदकनिभान् विषयानुपधावति
पानभोजनव्यवायादि व्यसनलोलुपः ॥ ६॥
क्वचिच्चाशेषदोषनिषदनं पुरीषविशेषं तद्वर्णगुण-
निर्मितमतिः सुवर्णमुपादित्सत्यग्निकामकातर
इवोल्मुकपिशाचम् ॥ ७॥
अथ कदाचिन्निवासपानीयद्रविणाद्यनेकात्मो-
पजीवनाभिनिवेश एतस्यां संसाराटव्यामितस्ततः
परिधावति ॥ ८॥
क्वचिच्च वात्यौपम्यया प्रमदयाऽऽरोहमारोपित-
स्तत्कालरजसा रजनीभूत इवासाधुमर्यादो
रजस्वलाक्षोऽपि दिग्देवता अतिरजस्वलमतिर्न
विजानाति ॥ ९॥
क्वचित्सकृदवगतविषयवैतथ्यः स्वयं
पराभिध्यानेन विभ्रंशितस्मृतिस्तयैव
मरीचितोयप्रायांस्तानेवाभिधावति ॥ १०॥
क्वचिदुलूकझिल्लीस्वनवदतिपरुषरभसाटोपं
प्रत्यक्षं परोक्षं वा रिपुराजकुलनिर्भर्त्सितेना-
तिव्यथितकर्णमूलहृदयः ॥ ११॥
स यदा दुग्धपूर्वसुकृतस्तदा कारस्करकाकतुण्डा-
द्यपुण्यद्रुमलताविषोदपानवदुभयार्थशून्यद्रविणान्
जीवन्मृतान् स्वयं जीवन् म्रियमाण उपधावति ॥ १२॥
एकदासत्प्रसङ्गान्निकृतमतिर्व्युदकस्रोतः स्खलनव-
दुभयतोऽपि दुःखदं पाखण्डमभियाति ॥ १३॥
यदा तु परबाधयान्ध आत्मने नोपनमति तदा हि
पितृपुत्रबर्हिष्मतः पितृपुत्रान् वा स खलु भक्षयति ॥ १४॥
क्वचिदासाद्य गृहं दाववत्प्रियार्थविधुरमसुखोदर्कं
शोकाग्निना दह्यमानो भृशं निर्वेदमुपगच्छति ॥ १५॥
क्वचित्कालविषमितराजकुलरक्षसापहृतप्रियतम-
धनासुः प्रमृतक इव विगतजीवलक्षण आस्ते ॥ १६॥
कदाचिन्मनोरथोपगतपितृपितामहाद्यसत्सदिति
स्वप्ननिर्वृतिलक्षणमनुभवति ॥ १७॥
क्वचिद्गृहाश्रमकर्मचोदनातिभरगिरि-
मारुरुक्षमाणो लोकव्यसनकर्षितमनाः
कण्टकशर्कराक्षेत्रं प्रविशन्निव सीदति ॥ १८॥
क्वचिच्च दुःसहेन कायाभ्यन्तरवह्निना गृहीतसारः
स्वकुटुम्बाय क्रुध्यति ॥ १९॥
स एव पुनर्निद्राजगरगृहीतोऽन्धे तमसि मग्नः
शून्यारण्य इव शेते नान्यत्किञ्चन वेद शव
इवापविद्धः ॥ २०॥
कदाचिद्भग्नमानदंष्ट्रो दुर्जनदन्दशूकैरलब्ध-
निद्राक्षणो व्यथितहृदयेनानुक्षीयमाणविज्ञानो-
ऽन्धकूपेऽन्धवत्पतति ॥ २१॥
कर्हि स्म चित्काममधुलवान् विचिन्वन् यदा
परदारपरद्रव्याण्यवरुन्धानो राज्ञा स्वामिभिर्वा
निहतः पतत्यपारे निरये ॥ २२॥
अथ च तस्मादुभयथापि हि कर्मास्मिन्नात्मनः
संसारावपनमुदाहरन्ति ॥ २३॥
मुक्तस्ततो यदि बन्धाद्देवदत्त उपाच्छिनत्ति
तस्मादपि विष्णुमित्र इत्यनवस्थितिः ॥ २४॥
क्वचिच्च शीतवाताद्यनेकाधिदैविकभौतिका-
त्मीयानां दशानां प्रतिनिवारणेऽकल्पो
दुरन्तचिन्तया विषण्ण आस्ते ॥ २५॥
क्वचिन्मिथो व्यवहरन् यत्किञ्चिद्धनमन्येभ्यो
वा काकिणिकामात्रमप्यपहरन् यत्किञ्चिद्वा
विद्वेषमेति वित्तशाठ्यात् ॥ २६॥
अध्वन्यमुष्मिन्निम उपसर्गास्तथा सुखदुःख-
रागद्वेषभयाभिमानप्रमादोन्मादशोकमोहलोभ-
मात्सर्येर्ष्यावमानक्षुत्पिपासाऽऽधिव्याधिजन्म-
जरामरणादयः ॥ २७॥
क्वापि देवमायया स्त्रिया भुजलतोपगूढः प्रस्कन्न-
विवेकविज्ञानो यद्विहारगृहारम्भाकुलहृदय-
स्तदाश्रयावसक्तसुतदुहितृकलत्रभाषितावलोक-
विचेष्टितापहृतहृदय आत्मानमजितात्मापारेऽन्धे
तमसि प्रहिणोति ॥ २८॥
कदाचिदीश्वरस्य भगवतो विष्णोश्चक्रात्परमाण्वादि
द्विपरार्धापवर्गकालोपलक्षणात्परिवर्तितेन वयसा
रंहसा हरत आब्रह्मतृणस्तम्बादीनां भूतानामनिमिषतो
मिषतां वित्रस्तहृदयस्तमेवेश्वरं कालचक्रनिजायुधं
साक्षाद्भगवन्तं यज्ञपुरुषमनादृत्य पाखण्डदेवताः
कङ्कगृध्रबकवटप्राया आर्यसमयपरिहृताः
साङ्केत्येनाभिधत्ते ॥ २९॥
यदा पाखण्डिभिरात्मवञ्चितैस्तैरुरुवञ्चितो ब्रह्मकुलं
समावसंस्तेषां शीलमुपनयनादि श्रौतस्मार्तकर्मा-
नुष्ठानेन भगवतो यज्ञपुरुषस्याराधनमेव तदरोचयन्
शूद्रकुलं भजते निगमाचारेऽशुद्धितो यस्य मिथुनीभावः
कुटुम्बभरणं यथा वानरजातेः ॥ ३०॥
तत्रापि निरवरोधः स्वैरेण विहरन्नतिकृपणबुद्धि-
रन्योन्यमुखनिरीक्षणादिना ग्राम्यकर्मणैव
विस्मृतकालावधिः ॥ ३१॥
क्वचिद्द्रुमवदैहिकार्थेषु गृहेषु रंस्यन् यथा वानरः
सुतदारवत्सलो व्यवायक्षणः ॥ ३२॥
एवमध्वन्यवरुन्धानो मृत्युगजभयात्तमसि
गिरिकन्दरप्राये ॥ ३३॥
क्वचिच्छीतवाताद्यनेकदैविकभौतिकात्मीयानां
दुःखानां प्रतिनिवारणेऽकल्पो दुरन्तविषयविषण्ण
आस्ते ॥ ३४॥
क्वचिन्मिथो व्यवहरन् यत्किञ्चिद्धनमुपयाति
वित्तशाठ्येन ॥ ३५॥
क्वचित्क्षीणधनः शय्यासनाशनाद्युपभोगविहीनो
यावदप्रतिलब्धमनोरथोपगतादानेऽवसितमति-
स्ततस्ततोऽवमानादीनि जनादभिलभते ॥ ३६॥
एवं वित्तव्यतिषङ्गविवृद्धवैरानुबन्धोऽपि
पूर्ववासनया मिथ उद्वहत्यथापवहति ॥ ३७॥
एतस्मिन् संसाराध्वनि नानाक्लेशोपसर्गबाधित
आपन्नविपन्नो यत्र यस्तमु ह वावेतरस्तत्र
विसृज्य जातं जातमुपादाय शोचन्मुह्यन्बिभ्य-
द्विवदन् क्रन्दन्संहृष्यन् गायन्नह्यमानः
साधुवर्जितो नैवावर्ततेऽद्यापि यत आरब्ध
एष नरलोकसार्थो यमध्वनः पारमुपदिशन्ति ॥ ३८॥
यदिदं योगानुशासनं न वा एतदवरुन्धते
यन्न्यस्तदण्डा मुनय उपशमशीला उपरतात्मानः
समवगच्छन्ति ॥ ३९॥
यदपि दिगिभजयिनो यज्विनो ये वै राजर्षयः किं तु
परं मृधे शयीरन्नस्यामेव ममेयमिति कृतवैरानुबन्धायां
विसृज्य स्वयमुपसंहृताः ॥ ४०॥
कर्मवल्लीमवलम्ब्य तत आपदः कथञ्चिन्नरकाद्विमुक्तः
पुनरप्येवं संसाराध्वनि वर्तमानो नरलोकसार्थमुपयाति
एवमुपरिगतोऽपि ॥ ४१॥
तस्येदमुपगायन्ति –
आर्षभस्येह राजर्षेर्मनसापि महात्मनः ।
नानुवर्त्मार्हति नृपो मक्षिकेव गरुत्मतः ॥ ४२॥
यो दुस्त्यजान् दारसुतान् सुहृद्राज्यं हृदिस्पृशः ।
जहौ युवैव मलवदुत्तमश्लोकलालसः ॥ ४३॥
यो दुस्त्यजान् क्षितिसुतस्वजनार्थदारान्
प्रार्थ्यां श्रियं सुरवरैः सदयावलोकाम् ।
नैच्छन्नृपस्तदुचितं महतां मधुद्विट्
सेवानुरक्तमनसामभवोऽपि फल्गुः ॥ ४४॥
यज्ञाय धर्मपतये विधिनैपुणाय
योगाय साङ्ख्यशिरसे प्रकृतीश्वराय ।
नारायणाय हरये नम इत्युदारं
हास्यन् मृगत्वमपि यः समुदाजहार ॥ ४५॥
य इदं भागवतसभाजितावदातगुणकर्मणो
राजर्षेर्भरतस्यानुचरितं स्वस्त्ययनमायुष्यं
धन्यं यशस्यं स्वर्ग्यापवर्ग्यं वानुशृणो-
त्याख्यास्यत्यभिनन्दति च सर्वा एवाशिष
आत्मन आशास्ते न काञ्चन परत इति ॥ ४६॥
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां
पञ्चमस्कन्धे भरतोपाख्याने पारोक्ष्यविवरणं नाम
चतुर्दशोऽध्यायः ॥ १४॥
॥ ॐ नमो भगवते वासुदेवाय ॥
॥ पञ्चदशोऽध्यायः ॥
श्रीशुक उवाच
भरतस्यात्मजः सुमतिर्नामाभिहितो यमु ह वाव
केचित्पाखण्डिन ऋषभपदवीमनुवर्तमानं चानार्या
अवेदसमाम्नातां देवतां स्वमनीषया पापीयस्या
कलौ कल्पयिष्यन्ति ॥ १॥
तस्माद्वृद्धसेनायां देवताजिन्नाम पुत्रोऽभवत् ॥ २॥
अथासुर्यां तत्तनयो देवद्युम्नस्ततो धेनुमत्यां सुतः
परमेष्ठी तस्य सुवर्चलायां प्रतीह उपजातः ॥ ३॥
य आत्मविद्यामाख्याय स्वयं संशुद्धो
महापुरुषमनुसस्मार ॥ ४॥
प्रतीहात्सुवर्चलायां प्रतिहर्त्रादयस्त्रय आसन्निज्या-
कोविदाः सूनवः प्रतिहर्तुः स्तुत्यामजभूमाना-
वजनिषाताम् ॥ ५॥
भूम्न ऋषिकुल्यायामुद्गीथस्ततः प्रस्तावो देवकुल्यायां
प्रस्तावान्नियुत्सायां हृदयज आसीद्विभुर्विभो रत्यां च
पृथुषेणस्तस्मान्नक्त आकूत्यां जज्ञे नक्ताद्द्रुतिपुत्रो
गयो राजर्षिप्रवर उदारश्रवा अजायत ।
साक्षाद्भगवतो विष्णोर्जगद्रिरक्षिषया गृहीतसत्त्वस्य
कलात्मवत्त्वादि लक्षणेन महापुरुषतां प्राप्तः ॥ ६॥
स वै स्वधर्मेण प्रजापालनपोषणप्रीणनोपलालना-
नुशासनलक्षणेनेज्यादिना च भगवति महापुरुषे
परावरे ब्रह्मणि सर्वात्मनार्पितपरमार्थलक्षणेन
ब्रह्मविच्चरणानुसेवयाऽऽपादितभगवद्भक्तियोगेन
चाभीक्ष्णशः परिभावितातिशुद्धमतिरुपरतानात्म्य
आत्मनि स्वयमुपलभ्यमानब्रह्मात्मानुभवोऽपि
निरभिमान एवावनिमजूगुपत् ॥ ७॥
तस्येमां गाथां पाण्डवेय पुराविद उपगायन्ति ॥ ८॥
गयं नृपः कः प्रतियाति कर्मभि-
र्यज्वाभिमानी बहुविद्धर्मगोप्ता ।
समागतश्रीः सदसस्पतिः सतां
सत्सेवकोऽन्यो भगवत्कलामृते ॥ ९॥
यमभ्यषिञ्चन् परया मुदा सतीः
सत्याशिषो दक्षकन्याः सरिद्भिः ।
यस्य प्रजानां दुदुहे धराशिषो
निराशिषो गुणवत्सस्नुतोधाः ॥ १०॥
छन्दांस्यकामस्य च यस्य कामान्
दुदूहुराजह्रुरथो बलिं नृपाः ।
प्रत्यञ्चिता युधि धर्मेण विप्रा
यदाशिषां षष्ठमंशं परेत्य ॥ ११॥
यस्याध्वरे भगवानध्वरात्मा
मघोनि माद्यत्युरुसोमपीथे ।
श्रद्धा विशुद्धाचलभक्तियोग-
समर्पितेज्याफलमाजहार ॥ १२॥
यत्प्रीणनाद्बर्हिषि देवतिर्यङ्-
मनुष्यवीरुत्तृणमाविरिञ्चात् ।
प्रीयेत सद्यः स ह विश्वजीवः
प्रीतः स्वयं प्रीतिमगाद्गयस्य ॥ १३॥
गयाद्गयन्त्यां चित्ररथः सुगतिरवरोधन इति त्रयः
पुत्रा बभूवुश्चित्ररथादूर्णायां सम्राडजनिष्ट ॥ १४॥
तत उत्कलायां मरीचिर्मरीचेर्बिन्दुमत्यां बिन्दुमा-
नुदपद्यत तस्मात्सरघायां मधुर्नामाभवन्मधोः
सुमनसि वीरव्रतस्ततो भोजायां मन्थुप्रमन्थू
जज्ञाते मन्थोः सत्यायां भौवनस्ततो दूषणायां
त्वष्टाजनिष्ट त्वष्टुर्विरोचनायां विरजो विरजस्य
शतजित्प्रवरं पुत्रशतं कन्या च विषूच्यां किल
जातम् ॥ १५॥
तत्रायं श्लोकः
प्रैयव्रतं वंशमिमं विरजश्चरमोद्भवः ।
अकरोदत्यलं कीर्त्या विष्णुः सुरगणं यथा ॥ १६॥
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां
पञ्चमस्कन्धे प्रियव्रतवंशानुकीर्तनं नाम पञ्चदशोऽध्यायः ॥ १५॥
॥ ॐ नमो भगवते वासुदेवाय ॥
॥ षोडशोऽध्यायः ॥
राजोवाच
उक्तस्त्वया भूमण्डलायामविशेषो यावदादित्य-
स्तपति यत्र चासौ ज्योतिषां गणैश्चन्द्रमा वा
सह दृश्यते ॥ १॥
तत्रापि प्रियव्रतरथचरणपरिखातैः सप्तभिः
सप्तसिन्धव उपकॢप्ता यत एतस्याः सप्तद्वीप-
विशेषविकल्पस्त्वया भगवन् खलु सूचित
एतदेवाखिलमहं मानतो लक्षणतश्च सर्वं
विजिज्ञासामि ॥ २॥
भगवतो गुणमये स्थूलरूप आवेशितं मनो
ह्यगुणेऽपि सूक्ष्मतम आत्मज्योतिषि परे
ब्रह्मणि भगवति वासुदेवाख्ये क्षममावेशितुं
तदु हैतद्गुरोऽर्हस्यनुवर्णयितुमिति ॥ ३॥
ऋषिरुवाच
न वै महाराज भगवतो मायागुणविभूतेः
काष्ठां मनसा वचसा वाधिगन्तुमलं
विबुधायुषापि पुरुषस्तस्मात्प्राधान्येनैव
भूगोलकविशेषं नामरूपमानलक्षणतो
व्याख्यास्यामः ॥ ४॥
यो वायं द्वीपः कुवलयकमलकोशाभ्यन्तर-
कोशो नियुतयोजनविशालः समवर्तुलो
यथा पुष्करपत्रम् ॥ ५॥
यस्मिन् नव वर्षाणि नवयोजनसहस्रायामा-
न्यष्टभिर्मर्यादागिरिभिः सुविभक्तानि भवन्ति ॥ ६॥
एषां मध्ये इलावृतं नामाभ्यन्तरवर्षं यस्य
नाभ्यामवस्थितः सर्वतः सौवर्णः कुलगिरिराजो
मेरुर्द्वीपायामसमुन्नाहः कर्णिकाभूतः कुवलय-
कमलस्य मूर्धनि द्वात्रिंशत्सहस्रयोजनविततो मूले
षोडशसहस्रं तावतान्तर्भूम्यां प्रविष्टः ॥ ७॥
उत्तरोत्तरेणेलावृतं नीलः श्वेतः शृङ्गवानिति त्रयो
रम्यकहिरण्मयकुरूणां वर्षाणां मर्यादागिरयः
प्रागायता उभयतः क्षारोदावधयो द्विसहस्रपृथव
एकैकशः पूर्वस्मात्पूर्वस्मादुत्तर उत्तरो दशांशाधिकांशेन
दैर्घ्य एव ह्रसन्ति ॥ ८॥
एवं दक्षिणेनेलावृतं निषधो हेमकूटो हिमालय इति
प्रागायता यथा नीलादयोऽयुतयोजनोत्सेधा हरिवर्ष-
किम्पुरुषभारतानां यथासङ्ख्यम् ॥ ९॥
तथैवेलावृतमपरेण पूर्वेण च माल्यवद्गन्धमादना-
वानीलनिषधायतौ द्विसहस्रं पप्रथतुः केतुमाल-
भद्राश्वयोः सीमानं विदधाते ॥ १०॥
मन्दरो मेरुमन्दरः सुपार्श्वः कुमुद इत्ययुतयोजन-
विस्तारोन्नाहा मेरोः चतुर्दिशमवष्टम्भगिरय
उपकॢप्ताः ॥ ११॥
चतुर्ष्वेतेषु चूतजम्बूकदम्बन्यग्रोधाश्चत्वारः पादपप्रवराः
पर्वतकेतव इवाधिसहस्रयोजनोन्नाहास्तावद्विटपविततयः
शतयोजनपरिणाहाः ॥ १२॥
ह्रदाश्चत्वारः पयोमध्विक्षुरसमृष्टजला यदुपस्पर्शिन
उपदेवगणा योगैश्वर्याणि स्वाभाविकानि भरतर्षभ
धारयन्ति ॥ १३॥
देवोद्यानानि च भवन्ति चत्वारि नन्दनं चैत्ररथं
वैभ्राजकं सर्वतोभद्रमिति ॥ १४॥
येष्वमरपरिवृढाः सह सुरललनाललामयूथपतय
उपदेवगणैरुपगीयमानमहिमानः किल विहरन्ति ॥ १५॥
मन्दरोत्सङ्ग एकादशशतयोजनोत्तुङ्गदेवचूतशिरसो
गिरिशिखरस्थूलानि फलान्यमृतकल्पानि पतन्ति ॥ १६॥
तेषां विशीर्यमाणानामतिमधुरसुरभिसुगन्धिबहुलारुण-
रसोदेनारुणोदा नाम नदी मन्दरगिरिशिखरान्निपतन्ती
पूर्वेणेलावृतमुपप्लावयति ॥ १७॥
यदुपजोषणाद्भवान्या अनुचरीणां पुण्यजनवधूनामवयव-
स्पर्शसुगन्धवातो दशयोजनं समन्तादनुवासयति ॥ १८॥
एवं जम्बूफलानामत्युच्चनिपातविशीर्णानामनस्थिप्रायाणा-
मिभकायनिभानां रसेन जम्बू नाम नदी मेरुमन्दर-
शिखरादयुतयोजनादवनितले निपतन्ती दक्षिणेना-
त्मानं यावदिलावृतमुपस्यन्दयति ॥ १९॥
तावदुभयोरपि रोधसोर्या मृत्तिका तद्रसेनानुविध्यमाना
वाय्वर्कसंयोगविपाकेन सदामरलोकाभरणं जाम्बूनदं
नाम सुवर्णं भवति ॥ २०॥
यदु ह वाव विबुधादयः सह युवतिभिर्मुकुटकटक-
कटिसूत्राद्याभरणरूपेण खलु धारयन्ति ॥ २१॥
यस्तु महाकदम्बः सुपार्श्वनिरूढो यास्तस्य कोटरेभ्यो
विनिःसृताः पञ्चायामपरिणाहाः पञ्च मधुधाराः सुपार्श्व-
शिखरात्पतन्त्योऽपरेणात्मानमिलावृतमनुमोदयन्ति ॥ २२॥
या ह्युपयुञ्जानानां मुखनिर्वासितो वायुः समन्ता-
च्छतयोजनमनुवासयति ॥ २३॥
एवं कुमुदनिरूढो यः शतवल्शो नाम वटस्तस्य
स्कन्धेभ्यो नीचीनाः पयोदधिमधुघृतगुडान्ना-
द्यम्बरशय्यासनाभरणादयः सर्व एव कामदुघा नदाः
कुमुदाग्रात्पतन्तस्तमुत्तरेणेलावृतमुपयोजयन्ति ॥ २४॥
यानुपजुषाणानां न कदाचिदपि प्रजानां
वलीपलितक्लमस्वेददौर्गन्ध्यजराऽऽमय-
मृत्युशीतोष्णवैवर्ण्योपसर्गादयस्तापविशेषा
भवन्ति यावज्जीवं सुखं निरतिशयमेव ॥ २५॥
कुरङ्गकुररकुसुम्भवैकङ्कत्रिकूटशिशिरपतङ्ग-
रुचकनिषधशिनीवासकपिलशङ्खवैदूर्यजारुधि-
हंसऋषभनागकालञ्जरनारदादयो विंशति गिरयो
मेरोः कर्णिकाया इव केसरभूता मूलदेशे
परित उपकॢप्ताः ॥ २६॥
जठरदेवकूटौ मेरुं पूर्वेणाष्टादशयोजनसहस्र-
मुदगायतौ द्विसहस्रं पृथुतुङ्गौ भवतः एवमपरेण
पवनपारियात्रौ दक्षिणेन कैलासकरवीरौ
प्रागायतावेवमुत्तरतस्त्रिशृङ्गमकरावष्टभिरेतैः
परिसृतोऽग्निरिव परितश्चकास्ति काञ्चनगिरिः ॥ २७॥
मेरोर्मूर्धनि भगवत आत्मयोनेर्मध्यत उपकॢप्तां
पुरीमयुतयोजनसाहस्रीं समचतुरस्रां शातकौम्भीं
वदन्ति ॥ २८॥
तामनुपरितो लोकपालानामष्टानां यथादिशं
यथारूपं तुरीयमानेन पुरोऽष्टावुपकॢप्ताः ॥ २९॥
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां
पञ्चमस्कन्धे भुवनकोशवर्णनं नाम षोडशोऽध्यायः ॥ १६॥
॥ ॐ नमो भगवते वासुदेवाय ॥
॥ सप्तदशोऽध्यायः ॥
श्रीशुक उवाच
तत्र भगवतः साक्षाद्यज्ञलिङ्गस्य विष्णोर्विक्रमतो
वामपादाङ्गुष्ठनखनिर्भिन्नोर्ध्वाण्डकटाहविवरेणा-
न्तःप्रविष्टा या बाह्यजलधारा तच्चरणपङ्कजा-
वनेजनारुणकिञ्जल्कोपरञ्जिताखिलजगदघ-
मलापहोपस्पर्शनामला साक्षाद्भगवत्पदी-
त्यनुपलक्षितवचोऽभिधीयमानातिमहता
कालेन युगसहस्रोपलक्षणेन दिवो
मूर्धन्यवततार यत्तद्विष्णुपदमाहुः ॥ १॥
यत्र ह वाव वीरव्रत औत्तानपादिः परमभागवतो-
ऽस्मत्कुलदेवताचरणारविन्दोदकमिति यामनुसवन-
मुत्कृष्यमाणभगवद्भक्तियोगेन दृढं क्लिद्यमानान्तर्हृदय
औत्कण्ठ्यविवशामीलितलोचनयुगलकुड्मल-
विगलितामलबाष्पकलयाभिव्यज्यमानरोमपुलक-
कुलकोऽधुनापि परमादरेण शिरसा बिभर्ति ॥ २॥
ततः सप्तर्षयस्तत्प्रभावाभिज्ञा यां ननु तपस
आत्यन्तिकी सिद्धिरेतावती भगवति सर्वात्मनि
वासुदेवेऽनुपरतभक्तियोगलाभेनैवोपेक्षितान्या-
र्थात्मगतयो मुक्तिमिवागतां मुमुक्षव इव सबहुमान-
मद्यापि जटाजूटैरुद्वहन्ति ॥ ३॥
ततोऽनेकसहस्रकोटिविमानानीकसङ्कुलदेवयानेना-
वतरन्तीन्दुमण्डलमावार्य ब्रह्मसदने निपतति ॥ ४॥
तत्र चतुर्धा भिद्यमाना चतुर्भिर्नामभिश्चतुर्दिश-
मभिस्पन्दन्ती नदनदीपतिमेवाभिनिविशति
सीतालकनन्दा चक्षुर्भद्रेति ॥ ५॥
सीता तु ब्रह्मसदनात्केसराचलादि गिरिशिखरेभ्यो-
ऽधोऽधःप्रस्रवन्ती गन्धमादनमूर्धसु पतित्वान्तरेण
भद्राश्ववर्षं प्राच्यां दिशि क्षारसमुद्रमभिप्रविशति ॥ ६॥
एवं माल्यवच्छिखरान्निष्पतन्ती ततोऽनुपरतवेगा
केतुमालमभिचक्षुः प्रतीच्यां दिशि सरित्पतिं
प्रविशति ॥ ७॥
भद्रा चोत्तरतो मेरुशिरसो निपतिता गिरिशिखरा-
द्गिरिशिखरमतिहाय शृङ्गवतः शृङ्गादवस्यन्दमाना
उत्तरांस्तु कुरूनभित उदीच्यां दिशि जलधि-
मभिप्रविशति ॥ ८॥
तथैवालकनन्दा दक्षिणेन ब्रह्मसदनाद्बहूनि
गिरिकूटान्यतिक्रम्य हेमकूटाद्धैमकूटान्यति-
रभसतररंहसा लुठयन्ती भारतमभिवर्षं दक्षिणस्यां
दिशि जलधिमभिप्रविशति यस्यां स्नानार्थं चागच्छतः
पुंसः पदे पदेऽश्वमेधराजसूयादीनां फलं न
दुर्लभमिति ॥ ९॥
अन्ये च नदा नद्यश्च वर्षे वर्षे सन्ति बहुशो
मेर्वादिगिरिदुहितरः शतशः ॥ १०॥
तत्रापि भारतमेव वर्षं कर्मक्षेत्रमन्यान्यष्ट-
वर्षाणि स्वर्गिणां पुण्यशेषोपभोगस्थानानि
भौमानि स्वर्गपदानि व्यपदिशन्ति ॥ ११॥
एषु पुरुषाणामयुतपुरुषायुर्वर्षाणां देवकल्पानां
नागायुतप्राणानां वज्रसंहननबलवयोमोदप्रमुदित-
महासौरतमिथुनव्यवायापवर्गवर्षधृतैकगर्भकलत्राणां
तत्र तु त्रेतायुगसमः कालो वर्तते ॥ १२॥
यत्र ह देवपतयः स्वैः स्वैर्गणनायकैर्विहितमहार्हणाः
सर्वर्तुकुसुमस्तबकफलकिसलयश्रियाऽऽनम्यमान-
विटपलताविटपिभिरुपशुम्भमानरुचिरकाननाश्रमा-
यतनवर्षगिरिद्रोणीषु तथा चामलजलाशयेषु
विकचविविधनववनरुहामोदमुदितराजहंस-
जलकुक्कुटकारण्डवसारसचक्रवाकादिभिः
मधुकरनिकराकृतिभिरुपकूजितेषु जलक्रीडादिभि-
र्विचित्रविनोदैः सुललितसुरसुन्दरीणां
कामकलिलविलासहासलीलावलोकाकृष्टमनोदृष्टयः
स्वैरं विहरन्ति ॥ १३॥
नवस्वपि वर्षेषु भगवान् नारायणो महापुरुषः
पुरुषाणां तदनुग्रहायात्मतत्त्वव्यूहेनात्मनाद्यापि
सन्निधीयते ॥ १४॥
इलावृते तु भगवान् भव एक एव पुमान् न ह्यन्य-
स्तत्रापरो निर्विशति भवान्याः शापनिमित्तज्ञो
यत्प्रवेक्ष्यतः स्त्रीभावस्तत्पश्चाद्वक्ष्यामि ॥ १५॥
भवानीनाथैः स्त्रीगणार्बुदसहस्रैरवरुध्यमानो
भगवतश्चतुर्मूर्तेर्महापुरुषस्य तुरीयां तामसीं
मूर्तिं प्रकृतिमात्मनः सङ्कर्षणसंज्ञामात्मसमाधि-
रूपेण सन्निधाप्यैतदभिगृणन् भव उपधावति ॥ १६॥
श्रीभगवानुवाच
ओं नमो भगवते महापुरुषाय सर्वगुणसङ्ख्यानाया-
नन्तायाव्यक्ताय नम इति ॥ १७॥
भजे भजन्यारणपादपङ्कजं
भगस्य कृत्स्नस्य परं परायणम् ।
भक्तेष्वलं भावितभूतभावनं
भवापहं त्वा भवभावमीश्वरम् ॥ १८॥
न यस्य मायागुणचित्तवृत्तिभि-
र्निरीक्षतो ह्यण्वपि दृष्टिरज्यते ।
ईशे यथा नोऽजितमन्युरंहसां
कस्तं न मन्येत जिगीषुरात्मनः ॥ १९॥
असद्दृशो यः प्रतिभाति मायया
क्षीबेव मध्वासवताम्रलोचनः ।
न नागवध्वोऽर्हण ईशिरे ह्रिया
यत्पादयोः स्पर्शनधर्षितेन्द्रियाः ॥ २०॥
यमाहुरस्य स्थितिजन्मसंयमं
त्रिभिर्विहीनं यमनन्तमृषयः ।
न वेद सिद्धार्थमिव क्वचित्स्थितं
भूमण्डलं मूर्धसहस्रधामसु ॥ २१॥
यस्याद्य आसीद्गुणविग्रहो महान्
विज्ञानधिष्ण्यो भगवानजः किल ।
यत्सम्भवोऽहं त्रिवृता स्वतेजसा
वैकारिकं तामसमैन्द्रियं सृजे ॥ २२॥
एते वयं यस्य वशे महात्मनः
स्थिताः शकुन्ता इव सूत्रयन्त्रिताः ।
महानहं वैकृततामसेन्द्रियाः
सृजाम सर्वे यदनुग्रहादिदम् ॥ २३॥
यन्निर्मितां कर्ह्यपि कर्मपर्वणीं
मायां जनोऽयं गुणसर्गमोहितः ।
न वेद निस्तारणयोगमञ्जसा
तस्मै नमस्ते विलयोदयात्मने ॥ २४॥
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां
पञ्चमस्कन्धे सप्तदशोऽध्यायः ॥ १७॥
॥ ॐ नमो भगवते वासुदेवाय ॥
॥ अष्टादशोऽध्यायः ॥
श्रीशुक उवाच
तथा च भद्रश्रवा नाम धर्मसुतस्तत्कुलपतयः
पुरुषा भद्राश्ववर्षे साक्षाद्भगवतो वासुदेवस्य
प्रियां तनुं धर्ममयीं हयशीर्षाभिधानां परमेण
समाधिना सन्निधाप्येदमभिगृणन्त उपधावन्ति ॥ १॥
भद्रश्रवस ऊचुः
ओं नमो भगवते धर्मायात्मविशोधनाय नम इति ॥ २॥
अहो विचित्रं भगवद्विचेष्टितं
घ्नन्तं जनोऽयं हि मिषन्न पश्यति ।
ध्यायन्नसद्यर्हि विकर्म सेवितुं
निर्हृत्य पुत्रं पितरं जिजीविषति ॥ ३॥
वदन्ति विश्वं कवयः स्म नश्वरं
पश्यन्ति चाध्यात्मविदो विपश्चितः ।
तथापि मुह्यन्ति तवाज मायया
सुविस्मितं कृत्यमजं नतोऽस्मि तम् ॥ ४॥
विश्वोद्भवस्थाननिरोधकर्म ते
ह्यकर्तुरङ्गीकृतमप्यपावृतः ।
युक्तं न चित्रं त्वयि कार्यकारणे
सर्वात्मनि व्यतिरिक्ते च वस्तुतः ॥ ५॥
वेदान् युगान्ते तमसा तिरस्कृतान्
रसातलाद्यो नृतुरङ्गविग्रहः ।
प्रत्याददे वै कवयेऽभियाचते
तस्मै नमस्तेऽवितथेहिताय इति ॥ ६॥
हरिवर्षे चापि भगवान् नरहरिरूपेणास्ते
तद्रूपग्रहणनिमित्तमुत्तरत्राभिधास्ये तद्दयितं
रूपं महापुरुषगुणभाजनो महाभागवतो
दैत्यदानवकुलतीर्थीकरणशीलाचरितः
प्रह्लादोऽव्यवधानानन्यभक्तियोगेन सह
तद्वर्षपुरुषैरुपास्ते इदं चोदाहरति ॥ ७॥
ओं नमो भगवते नरसिंहाय नमस्तेजस्तेजसे
आविराविर्भव वज्रनख वज्रदंष्ट्र कर्माशयान्
रन्धय रन्धय तमो ग्रस ग्रस ओं स्वाहा
अभयमभयमात्मनि भूयिष्ठा ओं क्ष्रौम् ॥ ८॥
स्वस्त्यस्तु विश्वस्य खलः प्रसीदतां
ध्यायन्तु भूतानि शिवं मिथो धिया ।
मनश्च भद्रं भजतादधोक्षजे
आवेश्यतां नो मतिरप्यहैतुकी ॥ ९॥
मागारदारात्मजवित्तबन्धुषु
सङ्गो यदि स्याद्भगवत्प्रियेषु नः ।
यः प्राणवृत्त्या परितुष्ट आत्मवान्
सिद्ध्यत्यदूरान्न तथेन्द्रियप्रियः ॥ १०॥
यत्सङ्गलब्धं निजवीर्यवैभवं
तीर्थं मुहुः संस्पृशतां हि मानसम् ।
हरत्यजोऽन्तःश्रुतिभिर्गतोऽङ्गजं
को वै न सेवेत मुकुन्दविक्रमम् ॥ ११॥
यस्यास्ति भक्तिर्भगवत्यकिञ्चना
सर्वैर्गुणैस्तत्र समासते सुराः ।
हरावभक्तस्य कुतो महद्गुणा
मनोरथेनासति धावतो बहिः ॥ १२॥
हरिर्हि साक्षाद्भगवान् शरीरिणा-
मात्मा झषाणामिव तोयमीप्सितम् ।
हित्वा महांस्तं यदि सज्जते गृहे
तदा महत्त्वं वयसा दम्पतीनाम् ॥ १३॥
तस्माद्रजोरागविषादमन्यु-
मानस्पृहाभयदैन्याधिमूलम् ।
हित्वा गृहं संसृतिचक्रवालं
नृसिंहपादं भजताकुतोभयमिति ॥ १४॥
केतुमालेऽपि भगवान् कामदेवस्वरूपेण लक्ष्म्याः
प्रियचिकीर्षया प्रजापतेर्दुहितॄणां पुत्राणां तद्वर्षपतीनां
पुरुषायुषाहोरात्रपरिसङ्ख्यानानां यासां गर्भा महापुरुष-
महास्त्रतेजसोद्वेजितमनसां विध्वस्ता व्यसवः
संवत्सरान्ते विनिपतन्ति ॥ १५॥
अतीव सुललितगतिविलासविलसितरुचिरहास-
लेशावलोकलीलया किञ्चिदुत्तम्भितसुन्दरभ्रूमण्डल-
सुभगवदनारविन्दश्रिया रमां रमयन्निन्द्रियाणि
रमयते ॥ १६॥
तद्भगवतो मायामयं रूपं परमसमाधियोगेन
रमादेवी संवत्सरस्य रात्रिषु प्रजापतेर्दुहितृभि-
रुपेताहःसु च तद्भर्तृभिरुपास्ते इदं चोदाहरति ॥ १७॥
ओं ह्रां ह्रीं ह्रूं ओं नमो भगवते हृषीकेशाय
सर्वगुणविशेषैर्विलक्षितात्मने आकूतीनां चित्तीनां
चेतसां विशेषाणां चाधिपतये षोडशकलाय
च्छन्दोमयायान्नमयायामृतमयाय सर्वमयाय
सहसे ओजसे बलाय कान्ताय कामाय नमस्ते
उभयत्र भूयात् ॥ १८॥
स्त्रियो व्रतैस्त्वा हृषीकेश्वरं स्वतो
ह्याराध्य लोके पतिमाशासतेऽन्यम् ।
तासां न ते वै परिपान्त्यपत्यं
प्रियं धनायूंषि यतोऽस्वतन्त्राः ॥ १९॥
स वै पतिः स्यादकुतोभयः स्वयं
समन्ततः पाति भयातुरं जनम् ।
स एक एवेतरथा मिथो भयं
नैवात्मलाभादधि मन्यते परम् ॥ २०॥
या तस्य ते पादसरोरुहार्हणं
निकामयेत्साखिलकामलम्पटा ।
तदेव रासीप्सितमीप्सितोऽर्चितो
यद्भग्नयाच्ञा भगवन् प्रतप्यते ॥ २१॥
मत्प्राप्तयेऽजेशसुरासुरादय-
स्तप्यन्त उग्रं तप ऐन्द्रिये धियः ।
ऋते भवत्पादपरायणान्न मां
विन्दन्त्यहं त्वद्धृदया यतोऽजित ॥ २२॥
स त्वं ममाप्यच्युत शीर्ष्णि वन्दितं
कराम्बुजं यत्त्वदधायि सात्वताम् ।
बिभर्षि मां लक्ष्म वरेण्य मायया
क ईश्वरस्येहितमूहितुं विभुरिति ॥ २३॥
रम्यके च भगवतः प्रियतमं मात्स्यमवताररूपं
तद्वर्षपुरुषस्य मनोप्राक्प्रदर्शितं स इदानीमपि
महता भक्तियोगेनाराधयतीदं चोदाहरति ॥ २४॥
ओं नमो भगवते मुख्यतमाय नमः सत्त्वाय
प्राणायौजसे सहसे बलाय महामत्स्याय नम इति ॥ २५॥
अन्तर्बहिश्चाखिललोकपालकै-
रदृष्टरूपो विचरस्युरुस्वनः ।
स ईश्वरस्त्वं य इदं वशेऽनय-
न्नाम्ना यथा दारुमयीं नरः स्त्रियम् ॥ २६॥
यं लोकपालाः किल मत्सरज्वरा
हित्वा यतन्तोऽपि पृथक्समेत्य च ।
पातुं न शेकुर्द्विपदश्चतुष्पदः
सरीसृपं स्थाणु यदत्र दृश्यते ॥ २७॥
भवान् युगान्तार्णव ऊर्मिमालिनि
क्षोणीमिमामोषधिवीरुधां निधिम् ।
मया सहोरुक्रमतेज ओजसा
तस्मै जगत्प्राणगणात्मने नम इति ॥ २८॥
हिरण्मयेऽपि भगवान् निवसति कूर्मतनुं
बिभ्राणस्तस्य तत्प्रियतमां तनुमर्यमा सह
वर्षपुरुषैः पितृगणाधिपतिरुपधावति
मन्त्रमिमं चानुजपति ॥ २९॥
ओं नमो भगवते अकूपाराय सर्वसत्त्वगुण-
विशेषणायानुपलक्षितस्थानाय नमो वर्ष्मणे
नमो भूम्ने नमो नमोऽवस्थानाय नमस्ते ॥ ३०॥
यद्रूपमेतन्निजमाययार्पित-
मर्थस्वरूपं बहुरूपरूपितम् ।
सङ्ख्या न यस्यास्त्ययथोपलम्भना-
त्तस्मै नमस्तेऽव्यपदेशरूपिणे ॥ ३१॥
जरायुजं स्वेदजमण्डजोद्भिदं
चराचरं देवर्षिपितृभूतमैन्द्रियम् ।
द्यौः खं क्षितिः शैलसरित्समुद्र-
द्वीपग्रहर्क्षेत्यभिधेय एकः ॥ ३२॥
यस्मिन्नसङ्ख्येयविशेषनाम-
रूपाकृतौ कविभिः कल्पितेयम् ।
सङ्ख्या यया तत्त्वदृशापनीयते
तस्मै नमः साङ्ख्यनिदर्शनाय ते इति ॥ ३३॥
उत्तरेषु च कुरुषु भगवान् यज्ञपुरुषः
कृतवराहरूप आस्ते तं तु देवी हैषा भूः
सह कुरुभिरस्खलितभक्तियोगेनोपधावति
इमां च परमामुपनिषदमावर्तयति ॥ ३४॥
ओं नमो भगवते मन्त्रतत्त्वलिङ्गाय
यज्ञक्रतवे महाध्वरावयवाय महापुरुषाय
नमः कर्मशुक्लाय त्रियुगाय नमस्ते ॥ ३५॥
यस्य स्वरूपं कवयो विपश्चितो
गुणेषु दारुष्विव जातवेदसम् ।
मथ्नन्ति मथ्ना मनसा दिदृक्षवो
गूढं क्रियार्थैर्नम ईरितात्मने ॥ ३६॥
द्रव्यक्रियाहेत्वयनेशकर्तृभि-
र्मायागुणैर्वस्तुनिरीक्षितात्मने ।
अन्वीक्षयाङ्गातिशयात्मबुद्धिभि-
र्निरस्तमायाकृतये नमो नमः ॥ ३७॥
करोति विश्वस्थितिसंयमोदयं
यस्येप्सितं नेप्सितमीक्षितुर्गुणैः ।
माया यथायो भ्रमते तदाश्रयं
ग्राव्णो नमस्ते गुणकर्मसाक्षिणे ॥ ३८॥
प्रमथ्य दैत्यं प्रतिवारणं मृधे
यो मां रसाया जगदादिसूकरः ।
कृत्वाग्रदंष्ट्रे निरगादुदन्वतः
क्रीडन्निवेभः प्रणतास्मि तं विभुमिति ॥ ३९॥
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां
पञ्चमस्कन्धे भुवनकोशवर्णनं नामाष्टादशोऽध्यायः ॥ १८॥
॥ ॐ नमो भगवते वासुदेवाय ॥
॥ एकोनविंशोऽध्यायः ॥
श्रीशुक उवाच
किम्पुरुषे वर्षे भगवन्तमादिपुरुषं लक्ष्मणाग्रजं
सीताभिरामं रामं तच्चरणसन्निकर्षाभिरतः
परमभागवतो हनुमान् सह किम्पुरुषैरविरत-
भक्तिरुपास्ते ॥ १॥
आर्ष्टिषेणेन सह गन्धर्वैरनुगीयमानां परमकल्याणीं
भर्तृभगवत्कथां समुपशृणोति स्वयं चेदं गायति ॥ २॥
ओं नमो भगवते उत्तमश्लोकाय नम आर्यलक्षणशील-
व्रताय नम उपशिक्षितात्मन उपासितलोकाय नमः
साधुवादनिकषणाय नमो ब्रह्मण्यदेवाय महापुरुषाय
महाराजाय नम इति ॥ ३॥
यत्तद्विशुद्धानुभवमात्रमेकं
स्वतेजसा ध्वस्तगुणव्यवस्थम् ।
प्रत्यक्प्रशान्तं सुधियोपलम्भनं
ह्यनामरूपं निरहं प्रपद्ये ॥ ४॥
मर्त्यावतारस्त्विह मर्त्यशिक्षणं
रक्षोवधायैव न केवलं विभोः ।
कुतोऽन्यथा स्याद्रमतः स्व आत्मनः
सीताकृतानि व्यसनानीश्वरस्य ॥ ५॥
न वै स आत्माऽऽत्मवतां सुहृत्तमः
सक्तस्त्रिलोक्यां भगवान्वासुदेवः ।
न स्त्रीकृतं कश्मलमश्नुवीत
न लक्ष्मणं चापि विहातुमर्हति ॥ ६॥
न जन्म नूनं महतो न सौभगं
न वाङ् न बुद्धिर्नाकृतिस्तोषहेतुः ।
तैर्यद्विसृष्टानपि नो वनौकस-
श्चकार सख्ये बत लक्ष्मणाग्रजः ॥ ७॥
सुरोऽसुरो वाप्यथ वानरो नरः
सर्वात्मना यः सुकृतज्ञमुत्तमम् ।
भजेत रामं मनुजाकृतिं हरिं
य उत्तराननयत्कोसलान् दिवमिति ॥ ८॥
भारतेऽपि वर्षे भगवान् नरनारायणाख्य आकल्पान्त-
मुपचितधर्म ज्ञानवैराग्यैश्वर्योपशमोपरमात्मोपलम्भन-
मनुग्रहायात्मवतामनुकम्पया तपोऽव्यक्तगतिश्चरति ॥ ९॥
तं भगवान् नारदो वर्णाश्रमवतीभिर्भारतीभिः प्रजाभि-
र्भगवत्प्रोक्ताभ्यां साङ्ख्ययोगाभ्यां भगवदनुभावोपवर्णनं
सावर्णेरुपदेक्ष्यमाणः परमभक्तिभावेनोपसरति इदं
चाभिगृणाति ॥ १०॥
ओं नमो भगवते उपशमशीलायोपरतानात्म्याय
नमोऽकिञ्चनवित्ताय ऋषिऋषभाय नरनारायणाय
परमहंस परमगुरवे आत्मारामाधिपतये नमो नम इति ॥ ११॥
गायति चेदम् ।
कर्तास्य सर्गादिषु यो न बध्यते
न हन्यते देहगतोऽपि दैहिकैः ।
द्रष्टुर्न दृग्यस्य गुणैर्विदूष्यते
तस्मै नमोऽसक्तविविक्तसाक्षिणे ॥ १२॥
इदं हि योगेश्वर योगनैपुणं
हिरण्यगर्भो भगवाञ्जगाद यत् ।
यदन्तकाले त्वयि निर्गुणे मनो
भक्त्या दधीतोज्झितदुष्कलेवरः ॥ १३॥
यथैहिकामुष्मिककामलम्पटः
सुतेषु दारेषु धनेषु चिन्तयन् ।
शङ्केत विद्वान् कुकलेवरात्यया-
द्यस्तस्य यत्नः श्रम एव केवलम् ॥ १४॥
तन्नः प्रभो त्वं कुकलेवरार्पितां
त्वन्माययाहम्ममतामधोक्षज ।
भिन्द्याम येनाशु वयं सुदुर्भिदां
विधेहि योगं त्वयि नः स्वभावमिति ॥ १५॥
भारतेऽप्यस्मिन् वर्षे सरिच्छैलाः सन्ति बहवो
मलयो मङ्गलप्रस्थो मैनाकस्त्रिकूटऋषभः कूटकः
कोल्लकः सह्यो देवगिरिरृष्यमूकः श्रीशैलो वेङ्कटो
महेन्द्रो वारिधारो विन्ध्यः शुक्तिमान् ऋक्षगिरिः
पारियात्रो द्रोणश्चित्रकूटो गोवर्धनो रैवतकः ककुभो
नीलो गोकामुख इन्द्रकीलः कामगिरिरिति चान्ये
च शतसहस्रशः शैलास्तेषां नितम्बप्रभवा नदा
नद्यश्च सन्त्यसङ्ख्याताः ॥ १६॥
एतासामपो भारत्यः प्रजा नामभिरेव पुनन्तीना-
मात्मना चोपस्पृशन्ति ॥ १७॥
चन्द्रवसा ताम्रपर्णी अवटोदा कृतमाला वैहायसी
कावेरी वेणी पयस्विनी शर्करावर्ता तुङ्गभद्रा कृष्णा
वेण्या भीमरथी गोदावरी निर्विन्ध्या पयोष्णी तापी
रेवा सुरसा नर्मदा चर्मण्वती सिन्धुरन्धः शोणश्च
नदौ महानदी वेदस्मृतिरृषिकुल्या त्रिसामा कौशिकी
मन्दाकिनी यमुना सरस्वती दृषद्वती गोमती सरयू
रोधस्वती सप्तवती सुषोमा शतद्रूश्चन्द्रभागा मरुद्वृधा
वितस्ता असिक्नी विश्वेति महानद्यः ॥ १८॥
अस्मिन्नेव वर्षे पुरुषैर्लब्धजन्मभिः शुक्ललोहित-
कृष्णवर्णेन स्वारब्धेन कर्मणा दिव्यमानुषनारक-
गतयो बह्व्य आत्मन आनुपूर्व्येण सर्वा ह्येव सर्वेषां
विधीयन्ते यथा वर्णविधानमपवर्गश्चापि भवति ॥ १९॥
योऽसौ भगवति सर्वभूतात्मन्यनात्म्येऽनिरुक्ते-
ऽनिलयने परमात्मनि वासुदेवेऽनन्यनिमित्त-
भक्तियोगलक्षणो नानागतिनिमित्ताविद्याग्रन्थि-
रन्धनद्वारेण यदा हि महापुरुषपुरुषप्रसङ्गः ॥ २०॥
एतदेव हि देवा गायन्ति –
अहो अमीषां किमकारि शोभनं
प्रसन्न एषां स्विदुत स्वयं हरिः ।
यैर्जन्म लब्धं नृषु भारताजिरे
मुकुन्दसेवौपयिकं स्पृहा हि नः ॥ २१॥
किं दुष्करैर्नः क्रतुभिस्तपोव्रतै-
र्दानादिभिर्वा द्युजयेन फल्गुना ।
न यत्र नारायणपादपङ्कज-
स्मृतिः प्रमुष्टातिशयेन्द्रियोत्सवात् ॥ २२॥
कल्पायुषां स्थानजयात्पुनर्भवात्
क्षणायुषां भारतभूजयो वरम् ।
क्षणेन मर्त्येन कृतं मनस्विनः
सन्न्यस्य संयान्त्यभयं पदं हरेः ॥ २३॥
न यत्र वैकुण्ठकथासुधापगा
न साधवो भागवतास्तदाश्रयाः ।
न यत्र यज्ञेशमखा महोत्सवाः
सुरेशलोकोऽपि न वै स सेव्यताम् ॥ २४॥
प्राप्ता नृजातिं त्विह ये च जन्तवो
ज्ञानक्रियाद्रव्यकलापसम्भृताम् ।
न वै यतेरन्नपुनर्भवाय ते
भूयो वनौका इव यान्ति बन्धनम् ॥ २५॥
यैः श्रद्धया बर्हिषि भागशो हवि
र्निरुप्तमिष्टं विधिमन्त्रवस्तुतः ।
एकः पृथङ् नामभिराहुतो मुदा
गृह्णाति पूर्णः स्वयमाशिषां प्रभुः ॥ २६॥
सत्यं दिशत्यर्थितमर्थितो नृणां
नैवार्थदो यत्पुनरर्थिता यतः ।
स्वयं विधत्ते भजतामनिच्छता-
मिच्छापिधानं निजपादपल्लवम् ॥ २७॥
यद्यत्र नः स्वर्गसुखावशेषितं
स्विष्टस्य सूक्तस्य कृतस्य शोभनम् ।
तेनाजनाभे स्मृतिमज्जन्म नः स्या-
द्वर्षे हरिर्यद्भजतां शं तनोति ॥ २८॥
श्रीशुक उवाच
जम्बूद्वीपस्य च राजन्नुपद्वीपानष्टौ हैक उपदिशन्ति
सगरात्मजैरश्वान्वेषण इमां महीं परितो निखनद्भि-
रुपकल्पितान् ॥ २९॥
तद्यथा स्वर्णप्रस्थश्चन्द्रशुक्ल आवर्तनो रमणको
मन्दरहरिणः पाञ्चजन्यः सिंहलो लङ्केति ॥ ३०॥
एवं तव भारतोत्तम जम्बूद्वीपवर्षविभागो
यथोपदेशमुपवर्णित इति ॥ ३१॥
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां
पञ्चमस्कन्धे जम्बूद्वीपवर्णनं नामैकोनविंशोऽध्यायः ॥ १९॥
॥ ॐ नमो भगवते वासुदेवाय ॥
॥ विंशोऽध्यायः ॥
श्रीशुक उवाच
अतः परं प्लक्षादीनां प्रमाणलक्षणसंस्थानतो
वर्षविभाग उपवर्ण्यते ॥ १॥
जम्बूद्वीपोऽयं यावत्प्रमाणविस्तारस्तावता क्षारोदधिना
परिवेष्टितो यथा मेरुर्जम्ब्वाख्येन लवणोदधिरपि ततो
द्विगुणविशालेन प्लक्षाख्येन परिक्षिप्तो यथा परिखा
बाह्योपवनेन प्लक्षो जम्बूप्रमाणो द्वीपाख्याकरो हिरण्मय
उत्थितो यत्राग्निरुपास्ते सप्तजिह्वस्तस्याधिपतिः
प्रियव्रतात्मज इध्मजिह्वः स्वं द्वीपं सप्तवर्षाणि विभज्य
सप्तवर्षनामभ्य आत्मजेभ्य आकलय्य स्वयमात्मयोगे-
नोपरराम ॥ २॥
शिवं यवसं सुभद्रं शान्तं क्षेमममृतमभयमिति
वर्षाणि तेषु गिरयो नद्यश्च सप्तैवाभिज्ञाताः ॥ ३॥
मणिकूटो वज्रकूट इन्द्रसेनो ज्योतिष्मान् सुपर्णो
हिरण्यष्ठीवो मेघमाल इति सेतुशैलाः । अरुणा
नृम्णाङ्गिरसी सावित्री सुप्रभाता ऋतम्भरा सत्यम्भरा
इति महानद्यः यासां जलोपस्पर्शनविधूतरजस्तमसो
हंसपतङ्गोर्ध्वायनसत्याङ्गसंज्ञाश्चत्वारो वर्णाः सहस्रायुषो
विबुधोपमसन्दर्शनप्रजननाः स्वर्गद्वारं त्रय्या विद्यया
भगवन्तं त्रयीमयं सूर्यमात्मानं यजन्ते ॥ ४॥
प्रत्नस्य विष्णो रूपं यत्सत्यस्यर्तस्य ब्रह्मणः ।
अमृतस्य च मृत्योश्च सूर्यमात्मानमीमहीति ॥ ५॥
प्लक्षादिषु पञ्चसु पुरुषाणामायुरिन्द्रियमोजः सहो बलं
बुद्धिर्विक्रम इति च सर्वेषामौत्पत्तिकी सिद्धिरविशेषेण
वर्तते ॥ ६॥
प्लक्षः स्वसमानेनेक्षुरसोदेनावृतो यथा तथा द्वीपोऽपि
शाल्मलो द्विगुणविशालःसमानेन सुरोदेनावृतः
परिवृङ्क्ते ॥ ७॥
यत्र ह वै शाल्मली प्लक्षायामा यस्यां वाव किल
निलयमाहुर्भगवतश्छन्दः स्तुतः पतत्त्रिराजस्य सा
द्वीपहूतये उपलक्ष्यते ॥ ८॥
तद्द्वीपाधिपतिः प्रियव्रतात्मजो यज्ञबाहुः स्वसुतेभ्यः
सप्तभ्यस्तन्नामानि सप्तवर्षाणि व्यभजत्सुरोचनं सौमनस्यं
रमणकं देववर्षं पारिभद्रमाप्यायनमविज्ञातमिति ॥ ९॥
तेषु वर्षाद्रयो नद्यश्च सप्तैवाभिज्ञाताः स्वरसः शतशृङ्गो
वामदेवः कुन्दो मुकुन्दः पुष्पवर्षः सहस्रश्रुतिरिति
अनुमतिः सिनीवाली सरस्वती कुहू रजनी नन्दा
राकेति ॥ १०॥
तद्वर्षपुरुषाः श्रुतधरवीर्यधरवसुन्धरेषन्धरसंज्ञा भगवन्तं
वेदमयं सोममात्मानं वेदेन यजन्ते ॥ ११॥
स्वगोभिः पितृदेवेभ्यो विभजन् कृष्णशुक्लयोः ।
प्रजानां सर्वासां राजान्धः सोमो न आस्त्विति ॥ १२॥
एवं सुरोदाद्बहिस्तद्द्विगुणः समानेनावृतो घृतोदेन
यथा पूर्वः कुशद्वीपो यस्मिन् कुशस्तम्बो देवकृत-
स्तद्द्वीपाख्याकरो ज्वलन इवापरः स्वशष्परोचिषा
दिशो विराजयति ॥ १३॥
तद्द्वीपपतिः प्रैयव्रतो राजन् हिरण्यरेता नाम
स्वं द्वीपं सप्तभ्यः स्वपुत्रेभ्यो यथाभागं विभज्य स्वयं
तप आतिष्ठत वसुवसुदानदृढरुचिनाभिगुप्तस्तुत्यव्रत-
विविक्तवामदेवनामभ्यः ॥ १४॥
तेषां वर्षेषु सीमागिरयो नद्यश्चाभिज्ञाताः सप्त सप्तैव
चक्रश्चतुःशृङ्गः कपिलश्चित्रकूटो देवानीक ऊर्ध्वरोमा
द्रविण इति । रसकुल्या मधुकुल्या मित्रविन्दा
श्रुतविन्दा देवगर्भा घृतच्युता मन्त्रमालेति ॥ १५॥
यासां पयोभिः कुशद्वीपौकसः कुशलकोविदाभियुक्त-
कुलकसंज्ञा भगवन्तं जातवेदसरूपिणं कर्मकौशलेन
यजन्ते ॥ १६॥
परस्य ब्रह्मणः साक्षाज्जातवेदोऽसि हव्यवाट् ।
देवानां पुरुषाङ्गानां यज्ञेन पुरुषं यजेति ॥ १७॥
तथा घृतोदाद्बहिः क्रौञ्चद्वीपो द्विगुणः स्वमानेन
क्षीरोदेन परित उपकॢप्तो वृतो यथा कुशद्वीपो
घृतोदेन यस्मिन् क्रौञ्चो नाम पर्वतराजो
द्वीपनामनिर्वर्तक आस्ते ॥ १८॥
योऽसौ गुहप्रहरणोन्मथितनितम्बकुञ्जोऽपि
क्षीरोदेनासिच्यमानो भगवता वरुणेनाभिगुप्तो
विभयो बभूव ॥ १९॥
तस्मिन्नपि प्रैयव्रतो घृतपृष्ठो नामाधिपतिः स्वे द्वीपे
वर्षाणि सप्त विभज्य तेषु पुत्रनामसु सप्त रिक्थादान्
वर्षपान् निवेश्य स्वयं भगवान् भगवतः परमकल्याण-
यशस आत्मभूतस्य हरेश्चरणारविन्दमुपजगाम ॥ २०॥
आमो मधुरुहो मेघपृष्ठः सुधामा भ्राजिष्ठो
लोहितार्णो वनस्पतिरिति घृतपृष्ठसुतास्तेषां
वर्षगिरयः सप्त सप्तैव नद्यश्चाभिख्याताः
शुक्लो वर्धमानो भोजन उपबर्हिणो नन्दो
नन्दनः सर्वतोभद्र इति अभया अमृतौघा
आर्यका तीर्थवती रूपवती पवित्रवती शुक्लेति ॥ २१॥
यासामम्भः पवित्रममलमुपयुञ्जानाः पुरुषऋषभ-
द्रविणदेवकसंज्ञा वर्षपुरुषा आपोमयं देवमपां
पूर्णेनाञ्जलिना यजन्ते ॥ २२॥
आपः पुरुषवीर्याः स्थ पुनन्तीर्भूर्भुवः सुवः ।
ता नः पुनीतामीव घ्नीः स्पृशतामात्मना भुव इति ॥ २३॥
एवं पुरस्तात्क्षीरोदात्परित उपवेशितः शाकद्वीपो
द्वात्रिंशल्लक्षयोजनायामः समानेन च दधिमण्डोदेन
परीतो यस्मिन् शाको नाम महीरुहः स्वक्षेत्रव्यपदेशको
यस्य ह महासुरभिगन्धस्तं द्वीपमनुवासयति ॥ २४॥
तस्यापि प्रैयव्रत एवाधिपतिर्नाम्ना मेधातिथिः सोऽपि
विभज्य सप्त वर्षाणि पुत्रनामानि तेषु स्वात्मजान्
पुरोजवमनोजवपवमानधूम्रानीक-चित्ररेफबहुरूप-
विश्वधारसंज्ञान् निधाप्याधिपतीन् स्वयं भगवत्यनन्त
आवेशितमतिस्तपोवनं प्रविवेश ॥ २५॥
एतेषां वर्षमर्यादागिरयो नद्यश्च सप्त सप्तैव ईशान
उरुशृङ्गो बलभद्रः शतकेसरः सहस्रस्रोतो देवपालो
महानस इति अनघाऽऽयुर्दा उभयस्पृष्टिरपराजिता
पञ्चपदी सहस्रस्रुतिर्निजधृतिरिति ॥ २६॥
तद्वर्षपुरुषा ऋतव्रतसत्यव्रतदानव्रतानुव्रतनामानो
भगवन्तं वाय्वात्मकं प्राणायामविधूतरजस्तमसः
परमसमाधिना यजन्ते ॥ २७॥
अन्तः प्रविश्य भूतानि यो बिभर्त्यात्मकेतुभिः ।
अन्तर्यामीश्वरः साक्षात्पातु नो यद्वशे स्फुटम् ॥ २८॥
एवमेव दधिमण्डोदात्परतः पुष्करद्वीपस्ततो
द्विगुणायामः समन्तत उपकल्पितः समानेन
स्वादूदकेन समुद्रेण बहिरावृतो यस्मिन् बृहत्पुष्करं
ज्वलनशिखामलकनकपत्रायुतायुतं भगवतः
कमलासनस्याध्यासनं परिकल्पितम् ॥ २९॥
तद्द्वीपमध्ये मानसोत्तरनामैक एवार्वाचीनपराचीन-
वर्षयोर्मर्यादाचलोऽयुतयोजनोच्छ्रायायामो यत्र तु
चतसृषु दिक्षु चत्वारि पुराणि लोकपालानामिन्द्रादीनां
यदुपरिष्टात्सूर्यरथस्य मेरुं परिभ्रमतः संवत्सरात्मकं
चक्रं देवानामहोरात्राभ्यां परिभ्रमति ॥ ३०॥
तद्द्वीपस्याप्यधिपतिः प्रैयव्रतो वीतिहोत्रो नामैतस्यात्मजौ
रमणकधातकिनामानौ वर्षपती नियुज्य स स्वयं पूर्वजव-
द्भगवत्कर्मशील एवास्ते ॥ ३१॥
तद्वर्षपुरुषा भगवन्तं ब्रह्मरूपिणं सकर्मकेण
कर्मणाराधयन्तीदं चोदाहरन्ति ॥ ३२॥
यत्तत्कर्ममयं लिङ्गं ब्रह्मलिङ्गं जनोऽर्चयेत् ।
एकान्तमद्वयं शान्तं तस्मै भगवते नम इति ॥ ३३॥
ऋषिरुवाच
ततः परस्ताल्लोकालोकनामाचलो लोकालोकयो-
रन्तराले परित उपक्षिप्तः ॥ ३४॥
यावन्मानसोत्तरमेर्वोरन्तरं तावती भूमिः काञ्चन्य-
न्यादर्शतलोपमा यस्यां प्रहितः पदार्थो न कथञ्चित्पुनः
प्रत्युपलभ्यते तस्मात्सर्वसत्त्वपरिहृताऽऽसीत् ॥ ३५॥
लोकालोक इति समाख्या यदनेनाचलेन
लोकालोकस्यान्तर्वर्तिनावस्थाप्यते ॥ ३६॥
स लोकत्रयान्ते परित ईश्वरेण विहितो
यस्मात्सूर्यादीनां ध्रुवापवर्गाणां ज्योतिर्गणानां
गभस्तयोऽर्वाचीनांस्त्रीन् लोकानावितन्वाना
न कदाचित्पराचीना भवितुमुत्सहन्ते
तावदुन्नहनायामः ॥ ३७॥
एतावान् लोकविन्यासो मानलक्षणसंस्थाभिर्विचिन्तितः
कविभिः स तु पञ्चाशत्कोटिगणितस्य भूगोलस्य
तुरीयभागोऽयं लोकालोकाचलः ॥ ३८॥
तदुपरिष्टाच्चतसृष्वाशास्वात्मयोनिनाखिलजगद्गुरुणा-
धिनिवेशिता ये द्विरदपतय ऋषभः पुष्करचूडो
वामनोऽपराजित इति सकललोकस्थितिहेतवः ॥ ३९॥
तेषां स्वविभूतीनां लोकपालानां च विविधवीर्यो-
पबृंहणाय भगवान् परममहापुरुषो महाविभूतिपति-
रन्तर्याम्यात्मनो विशुद्धसत्त्वं धर्मज्ञानवैराग्यैश्वर्या-
द्यष्टमहासिद्ध्युपलक्षणं विष्वक्सेनादिभिः स्वपार्षदप्रवरैः
परिवारितो निजवरायुधोपशोभितैर्निजभुजदण्डैः
सन्धारयमाणस्तस्मिन् गिरिवरे समन्तात्सकललोक-
स्वस्तय आस्ते ॥ ४०॥
आकल्पमेवं वेषं गत एष भगवानात्मयोगमायया
विरचितविविधलोकयात्रागोपीयायेत्यर्थः ॥ ४१॥
योऽन्तर्विस्तार एतेन ह्यलोकपरिमाणं च व्याख्यातं
यद्बहिर्लोकालोकाचलात्ततः परस्ताद्योगेश्वरगतिं
विशुद्धामुदाहरन्ति ॥ ४२॥
अण्डमध्यगतः सूर्यो द्यावाभूम्योर्यदन्तरम् ।
सूर्याण्डगोलयोर्मध्ये कोट्यः स्युः पञ्चविंशतिः ॥ ४३॥
मृतेऽण्ड एष एतस्मिन् यदभूत्ततो मार्तण्ड इति
व्यपदेशः हिरण्यगर्भ इति यद्धिरण्याण्डसमुद्भवः ॥ ४४॥
सूर्येण हि विभज्यन्ते दिशः खं द्यौर्मही भिदा ।
स्वर्गापवर्गौ नरका रसौकांसि च सर्वशः ॥ ४५॥
देवतिर्यङ् मनुष्याणां सरीसृपसवीरुधाम् ।
सर्वजीवनिकायानां सूर्य आत्मा दृगीश्वरः ॥ ४६॥
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां
पञ्चमस्कन्धे भुवनकोशवर्णने समुद्रवर्षसन्निवेश–
परिमाणलक्षणो नाम विंशोऽध्यायः ॥ २०॥
॥ ॐ नमो भगवते वासुदेवाय ॥
॥ एकविंशोऽध्यायः ॥
श्रीशुक उवाच
एतावानेव भूवलयस्य सन्निवेशः प्रमाणलक्षणतो
व्याख्यातः ॥ १॥
एतेन हि दिवो मण्डलमानं तद्विद उपदिशन्ति
यथा द्विदलयोर्निष्पावादीनां ते अन्तरेणान्तरिक्षं
तदुभयसन्धितम् ॥ २॥
यन्मध्यगतो भगवांस्तपतां पतिस्तपन आतपेन
त्रिलोकीं प्रतपत्यवभासयत्यात्मभासा स एष
उदगयनदक्षिणायनवैषुवतसंज्ञाभिर्मान्द्यशैघ्र्य-
मानाभिर्गतिभिरारोहणावरोहणसमानस्थानेषु
यथा सवनमभिपद्यमानो मकरादिषु राशिष्व-
होरात्राणि दीर्घह्रस्वसमानानि विधत्ते ॥ ३॥
यदा मेषतुलयोर्वर्तते तदाहोरात्राणि
समानानि भवन्ति यदा वृषभादिषु पञ्चसु
च राशिषु चरति तदाहान्येव वर्धन्ते ह्रसति
च मासि मास्येकैका घटिका रात्रिषु ॥ ४॥
यदा वृश्चिकादिषु पञ्चसु वर्तते तदाहोरात्राणि
विपर्ययाणि भवन्ति ॥ ५॥
यावद्दक्षिणायनमहानि वर्धन्ते यावदुदगयनं
रात्रयः ॥ ६॥
एवं नवकोटय एकपञ्चाशल्लक्षाणि योजनानां
मानसोत्तरगिरिपरिवर्तनस्योपदिशन्ति
तस्मिन्नैन्द्रीं पुरीं पूर्वस्मान्मेरोर्देवधानीं नाम
दक्षिणतो याम्यां संयमनीं नाम पश्चाद्वारुणीं
निम्लोचनीं नाम उत्तरतः सौम्यां विभावरीं नाम
तासूदयमध्याह्नास्तमयनिशीथानीति भूतानां
प्रवृत्तिनिवृत्तिनिमित्तानि समयविशेषेण
मेरोश्चतुर्दिशम् ॥ ७॥
तत्रत्यानां दिवसमध्यङ्गत एव सदाऽऽदित्यस्तपति
सव्येनाचलं दक्षिणेन करोति ॥ ८॥
यत्रोदेति तस्य ह समानसूत्रनिपाते निम्लोचति
यत्र क्वचन स्यन्देनाभितपति तस्य हैष समानसूत्र-
निपाते प्रस्वापयति तत्र गतं न पश्यन्ति ये तं
समनुपश्येरन् ॥ ९॥
यदा चैन्द्र्याः पुर्याः प्रचलते पञ्चदशघटिकाभिर्याम्यां
सपादकोटिद्वयं योजनानां सार्धद्वादशलक्षाणि
साधिकानि चोपयाति ॥ १०॥
एवं ततो वारुणीं सौम्यामैन्द्रीं च पुनस्तथान्ये च
ग्रहाः सोमादयो नक्षत्रैः सह ज्योतिश्चक्रे सम-
भ्युद्यन्ति सह वा निम्लोचन्ति ॥ ११॥
एवं मुहूर्तेन चतुस्त्रिंशल्लक्षयोजनान्यष्टशताधिकानि
सौरो रथस्त्रयीमयोऽसौचतसृषु परिवर्तते पुरीषु ॥ १२॥
यस्यैकं चक्रं द्वादशारं षण्नेमि त्रिणाभि संवत्सरात्मकं
समामनन्ति तस्याक्षो मेरोर्मूर्धनि कृतो मानसोत्तरे
कृतेतरभागो यत्र प्रोतं रविरथचक्रं तैलयन्त्रचक्रवद्भ्रमन्
मानसोत्तरगिरौ परिभ्रमति ॥ १३॥
तस्मिन्नक्षे कृतमूलो द्वितीयोऽक्षस्तुर्यमानेन
सम्मितस्तैलयन्त्राक्षवद्ध्रुवे कृतोपरिभागः ॥ १४॥
रथनीडस्तु षट्त्रिंशल्लक्षयोजनायतस्तत्तुरीयभाग-
विशालस्तावान् रविरथयुगो यत्र हयाश्छन्दो
नामानः सप्तारुणयोजिता वहन्ति देवमादित्यम् ॥ १५॥
पुरस्तात्सवितुररुणः पश्चाच्च नियुक्तः सौत्ये
कर्मणि किलास्ते ॥ १६॥
तथा वालिखिल्या ऋषयोङ्गुष्ठपर्वमात्राः षष्टिसहस्राणि
पुरतः सूर्यं सूक्तवाकाय नियुक्ताः संस्तुवन्ति ॥ १७॥
तथान्ये च ऋषयो गन्धर्वाप्सरसो नागा ग्रामण्यो
यातुधाना देवा इत्येकैकशो गणाः सप्तचतुर्दश
मासि मासि भगवन्तं सूर्यमात्मानं नानानामानं
पृथङ्नानानामानः पृथक्कर्मभिर्द्वन्द्वश उपासते ॥ १८॥
लक्षोत्तरं सार्धनवकोटियोजनपरिमण्डलं
भूवलयस्य क्षणेन सगव्यूत्युत्तरं द्विसहस्रयोजनानि
स भुङ्क्ते ॥ १९॥
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां
पञ्चमस्कन्धे ज्योतिश्चक्रसूर्यरथमण्डलवर्णनं
नमैकविंशोऽध्यायः ॥ २१॥
॥ ॐ नमो भगवते वासुदेवाय ॥
॥ द्वाविंशोऽध्यायः ॥
राजोवाच
यदेतद्भगवत आदित्यस्य मेरुं ध्रुवं च प्रदक्षिणेन
परिक्रामतो राशीनामभिमुखं प्रचलितं चाप्रदक्षिणं
भगवतोपवर्णितममुष्य वयं कथमनुमिमीमहीति ॥ १॥
स होवाच
यथा कुलालचक्रेण भ्रमता सह भ्रमतां तदाश्रयाणां
पिपीलिकादीनां गतिरन्यैव प्रदेशान्तरेष्वप्युपलभ्य-
मानत्वादेवं नक्षत्रराशिभिरुपलक्षितेन कालचक्रेण ध्रुवं
मेरुं च प्रदक्षिणेन परिधावता सह परिधावमानानां
तदाश्रयाणां सूर्यादीनां ग्रहाणां गतिरन्यैव नक्षत्रान्तरे
राश्यन्तरे चोपलभ्यमानत्वात् ॥ २॥
स एष भगवानादिपुरुष एव साक्षान्नारायणो
लोकानां स्वस्तय आत्मानं त्रयीमयं कर्मविशुद्धि-
निमित्तं कविभिरपि च वेदेन विजिज्ञास्यमानो
द्वादशधा विभज्य षट्सु वसन्तादिष्वृतुषु
यथोपजोषमृतुगुणान् विदधाति ॥ ३॥
तमेतमिह पुरुषास्त्रय्या विद्यया वर्णाश्रमा-
चारानुपथा उच्चावचैः कर्मभिराम्नातैर्योगवितानैश्च
श्रद्धया यजन्तोऽञ्जसा श्रेयः समधिगच्छन्ति ॥ ४॥
अथ स एष आत्मा लोकानां द्यावापृथिव्योरन्तरेण
नभोवलयस्य कालचक्रगतो द्वादशमासान् भुङ्क्ते
राशिसंज्ञान् संवत्सरावयवान् मासः पक्षद्वयं दिवा
नक्तं चेति सपादर्क्षद्वयमुपदिशन्ति यावता षष्ठमंशं
भुञ्जीत स वै ऋतुरित्युपदिश्यते संवत्सरावयवः ॥ ५॥
अथ च यावतार्धेन नभोवीथ्यां प्रचरति तं
कालमयनमाचक्षते ॥ ६॥
अथ च यावन्नभोमण्डलं सह द्यावापृथिव्यो-
र्मण्डलाभ्यां कार्त्स्न्येन स ह भुञ्जीत तं कालं
संवत्सरं परिवत्सरमिडावत्सरमनुवत्सरं
वत्सरमिति भानोर्मान्द्यशैघ्र्यसमगतिभिः
समामनन्ति ॥ ७॥
एवं चन्द्रमा अर्कगभस्तिभ्य उपरिष्टाल्लक्षयोजनत
उपलभ्यमानोऽर्कस्य संवत्सरभुक्तिं पक्षाभ्यां
मासभुक्तिं सपादर्क्षाभ्यां दिनेनैव पक्षभुक्तिमग्रचारी
द्रुततरगमनो भुङ्क्ते ॥ ८॥
अथ चापूर्यमाणाभिश्च कलाभिरमराणां
क्षीयमाणाभिश्च कलाभिः पितॄणामहोरात्राणि
पूर्वपक्षापरपक्षाभ्यां वितन्वानः सर्वजीव-
निवहप्राणो जीवश्चैकमेकं नक्षत्रं त्रिंशता
मुहूर्तैर्भुङ्क्ते ॥ ९॥
य एष षोडशकलः पुरुषो भगवान् मनोमयो-
ऽन्नमयोऽमृतमयो देवपितृमनुष्यभूतपशुपक्षि-
सरीसृपवीरुधां प्राणाप्यायनशीलत्वात्सर्वमय
इति वर्णयन्ति ॥ १०॥
तत उपरिष्टात्त्रिलक्षयोजनतो नक्षत्राणि मेरुं
दक्षिणेनैव कालायन ईश्वरयोजितानि
सहाभिजिताष्टाविंशतिः ॥ ११॥
तत उपरिष्टादुशना द्विलक्षयोजनत उपलभ्यते
पुरतः पश्चात्सहैव वार्कस्य शैघ्र्यमान्द्यसाम्याभि-
र्गतिभिरर्कवच्चरति लोकानां नित्यदानुकूल एव
प्रायेण वर्षयंश्चारेणानुमीयते स वृष्टिविष्टम्भ-
ग्रहोपशमनः ॥ १२॥
उशनसा बुधो व्याख्यातस्तत उपरिष्टाद्द्विलक्ष-
योजनतो बुधः सोमसुत उपलभ्यमानःप्रायेण
शुभकृद्यदार्काद्व्यतिरिच्येत तदातिवाताभ्रप्राया-
नावृष्ट्यादि भयमाशंसते ॥ १३॥
अत ऊर्ध्वमङ्गारकोऽपि योजनलक्षद्वितय
उपलभ्यमानस्त्रिभिस्त्रिभिः पक्षैरेकैकशो
राशीन् द्वादशानुभुङ्क्ते यदि न वक्रेणाभिवर्तते
प्रायेणाशुभग्रहोऽघशंसः ॥ १४॥
तत उपरिष्टाद्द्विलक्षयोजनान्तरगतो
भगवान् बृहस्पतिरेकैकस्मिन् राशौ
परिवत्सरं परिवत्सरं चरति यदि न वक्रः
स्यात्प्रायेणानुकूलो ब्राह्मणकुलस्य ॥ १५॥
तत उपरिष्टाद्योजनलक्षद्वयात्प्रतीयमानः
शनैश्चर एकैकस्मिन् राशौ त्रिंशन्मासान्
विलम्बमानः सर्वानेवानुपर्येति तावद्भि-
रनुवत्सरैः प्रायेण हि सर्वेषामशान्तिकरः ॥ १६॥
तत उत्तरस्मादृषय एकादशलक्षयोजनान्तर
उपलभ्यन्ते य एव लोकानां शमनुभावयन्तो
भगवतो विष्णोर्यत्परमं पदं प्रदक्षिणं प्रक्रमन्ति ॥ १७॥
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां
पञ्चमस्कन्धे ज्योतिश्चक्रवर्णने द्वाविंशोऽध्यायः ॥ २२॥
॥ ॐ नमो भगवते वासुदेवाय ॥
॥ त्रयोविंशोऽध्यायः ॥
श्रीशुक उवाच
अथ तस्मात्परतस्त्रयोदशलक्षयोजनान्तरतो
यत्तद्विष्णोः परमं पदमभिवदन्ति यत्र ह महा-
भागवतो ध्रुव औत्तानपादिरग्निनेन्द्रेण प्रजापतिना
कश्यपेन धर्मेण च समकालयुग्भिः सबहुमानं
दक्षिणतः क्रियमाण इदानीमपि कल्पजीविना-
माजीव्य उपास्ते तस्येहानुभाव उपवर्णितः ॥ १॥
स हि सर्वेषां ज्योतिर्गणानां ग्रहनक्षत्रादीना-
मनिमिषेणाव्यक्तरंहसा भगवता कालेन
भ्राम्यमाणानां स्थाणुरिवावष्टम्भ ईश्वरेण विहितः
शश्वदवभासते ॥ २॥
यथा मेढीस्तम्भ आक्रमणपशवः संयोजिता-
स्त्रिभिस्त्रिभिः सवनैर्यथास्थानं मण्डलानि
चरन्त्येवं भगणा ग्रहादय एतस्मिन्नन्तर्बहिर्योगेन
कालचक्र आयोजिता ध्रुवमेवावलम्ब्य
वायुनोदीर्यमाणा आकल्पान्तं परिचङ्क्रमन्ति
नभसि यथा मेघाः श्येनादयो वायुवशाः
कर्मसारथयः परिवर्तन्ते एवं ज्योतिर्गणाः
प्रकृतिपुरुषसंयोगानुगृहीताः कर्मनिर्मित-
गतयो भुवि न पतन्ति ॥ ३॥
केचनैतज्ज्योतिरनीकं शिशुमारसंस्थानेन भगवतो
वासुदेवस्य योगधारणायामनुवर्णयन्ति ॥ ४॥
यस्य पुच्छाग्रेऽवाक्शिरसः कुण्डलीभूतदेहस्य
ध्रुव उपकल्पितस्तस्य लाङ्गूले प्रजापतिरग्निरिन्द्रो
धर्म इति पुच्छमूले धाता विधाता च कट्यां
सप्तर्षयः तस्य दक्षिणावर्तकुण्डलीभूतशरीरस्य
यान्युदगयनानि दक्षिणपार्श्वे तु नक्षत्राण्युप-
कल्पयन्ति दक्षिणायनानि तु सव्ये यथा
शिशुमारस्य कुण्डलाभोगसन्निवेशस्य
पार्श्वयोरुभयोरप्यवयवाः समसङ्ख्या भवन्ति
पृष्ठे त्वजवीथी आकाशगङ्गा चोदरतः ॥ ५॥
पुनर्वसुपुष्यौ दक्षिणवामयोः श्रोण्योरार्द्राऽऽश्लेषे
च दक्षिणवामयोः पश्चिमयोः पादयोरभिजि-
दुत्तराषाढे दक्षिणवामयोर्नासिकयोर्यथासङ्ख्यं
श्रवणपूर्वाषाढे दक्षिणवामयोर्लोचनयोर्धनिष्ठा
मूलं च दक्षिणवामयोः कर्णयोर्मघादीन्यष्ट
नक्षत्राणि दक्षिणायनानि वामपार्श्ववङ्क्रिषु
युञ्जीत तथैव मृगशीर्षादीन्युदगयनानि
दक्षिणपार्श्ववङ्क्रिषु प्रातिलोम्येन प्रयुञ्जीत
शतभिषा ज्येष्ठे स्कन्धयोर्दक्षिणवामयोर्न्यसेत् ॥ ६॥
उत्तराहनावगस्तिरधराहनौ यमो मुखेषु चाङ्गारकः
शनैश्चर उपस्थे बृहस्पतिः ककुदि वक्षस्यादित्यो
हृदये नारायणो मनसि चन्द्रो नाभ्यामुशना
स्तनयोरश्विनौ बुधः प्राणापानयो राहुर्गले केतवः
सर्वाङ्गेषु रोमसु सर्वे तारागणाः ॥ ७॥
एतदु हैव भगवतो विष्णोः सर्वदेवतामयं
रूपमहरहः सन्ध्यायां प्रयतो वाग्यतो
निरीक्षमाण उपतिष्ठेत नमो ज्योतिर्लोकाय
कालायनायानिमिषां पतये महापुरुषाया-
भिधीमहीति ॥ ८॥
ग्रहर्क्षतारामयमाधिदैविकं
पापापहं मन्त्रकृतां त्रिकालम् ।
नमस्यतः स्मरतो वा त्रिकालं
नश्येत तत्कालजमाशु पापम् ॥ ९॥
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां
पञ्चमस्कन्धे शिशुमारसंस्थावर्णनं नाम त्रयोविंशोऽध्यायः ॥ २३॥
॥ ॐ नमो भगवते वासुदेवाय ॥
॥ चतुर्विंशोऽध्यायः ॥
श्रीशुक उवाच
अधस्तात्सवितुर्योजनायुते स्वर्भानुर्नक्षत्रव-
च्चरतीत्येके योऽसावमरत्वं ग्रहत्वं चालभत ।
भगवदनुकम्पया स्वयमसुरापसदः सैंहिकेयो
ह्यतदर्हस्तस्य तात जन्मकर्माणि चोपरिष्टा-
द्वक्ष्यामः ॥ १॥
यददस्तरणेर्मण्डलं प्रतपतस्तद्विस्तरतो योजना-
युतमाचक्षते द्वादशसहस्रं सोमस्य त्रयोदशसहस्रं
राहोर्यः पर्वणि तद्व्यवधानकृद्वैरानुबन्धः
सूर्याचन्द्रमसावभिधावति ॥ २॥
तन्निशम्योभयत्रापि भगवता रक्षणाय प्रयुक्तं
सुदर्शनं नाम भागवतं दयितमस्त्रं तत्तेजसा
दुर्विषहं मुहुः परिवर्तमानमभ्यवस्थितो मुहूर्त-
मुद्विजमानश्चकितहृदय आरादेव निवर्तते
तदुपरागमिति वदन्ति लोकाः ॥ ३॥
ततोऽधस्तात्सिद्धचारणविद्याधराणां सदनानि
तावन्मात्र एव ॥ ४॥
ततोऽधस्ताद्यक्षरक्षःपिशाचप्रेतभूतगणानां
विहाराजिरमन्तरिक्षं यावद्वायुः प्रवाति यावन्मेघा
उपलभ्यन्ते ॥ ५॥
ततोऽधस्ताच्छतयोजनान्तर इयं पृथिवी याव-
द्धंसभासश्येनसुपर्णादयः पतत्त्रिप्रवरा उत्पतन्तीति ॥ ६॥
उपवर्णितं भूमेर्यथा सन्निवेशावस्थानमवनेर-
प्यधस्तात्सप्तभूविवरा एकैकशो योजनायुतान्तरेणा-
यामविस्तारेणोपकॢप्ता अतलं वितलं सुतलं
तलातलं महातलं रसातलं पातालमिति ॥ ७॥
एतेषु हि बिलस्वर्गेषु स्वर्गादप्यधिककामभोगै-
श्वर्यानन्दभूतिविभूतिभिः सुसमृद्धभवनोद्याना-
क्रीडाविहारेषु दैत्यदानवकाद्रवेया नित्यप्रमुदिता-
नुरक्तकलत्रापत्यबन्धुसुहृदनुचरा गृहपतय
ईश्वरादप्यप्रतिहतकामा मायाविनोदा निवसन्ति ॥ ८॥
येषु महाराज मयेन मायाविना विनिर्मिताः
पुरो नानामणिप्रवरप्रवेकविरचितविचित्रभवन-
प्राकारगोपुरसभाचैत्यचत्वरायतनादिभि-
र्नागासुरमिथुनपारावतशुकसारिकाऽऽकीर्णकृत्रिम-
भूमिभिर्विवरेश्वरगृहोत्तमैः समलङ्कृताश्चकासति ॥ ९॥
उद्यानानि चातितरां मन इन्द्रियानन्दिभिः
कुसुमफलस्तबकसुभगकिसलयावनतरुचिर-
विटपविटपिनां लताङ्गालिङ्गितानां श्रीभिः
समिथुनविविधविहङ्गमजलाशयानाममल-
जलपूर्णानां झषकुलोल्लङ्घनक्षुभितनीरनीरज-
कुमुदकुवलयकह्लारनीलोत्पललोहितशतपत्रादि
वनेषु कृतनिकेतनानामेकविहाराकुलमधुर-
विविधस्वनादिभिरिन्द्रियोत्सवैरमरलोकश्रिय-
मतिशयितानि ॥ १०॥
यत्र ह वाव न भयमहोरात्रादिभिः
कालविभागैरुपलक्ष्यते ॥ ११॥
यत्र हि महाहिप्रवरशिरोमणयः सर्वं तमः प्रबाधन्ते ॥ १२॥
न वा एतेषु वसतां दिव्यौषधिरसरसायनान्नपान-
स्नानादिभिराधयो व्याधयो वलीपलितजरादयश्च
देहवैवर्ण्यदौर्गन्ध्यस्वेदक्लमग्लानिरिति वयोऽवस्थाश्च
भवन्ति ॥ १३॥
न हि तेषां कल्याणानां प्रभवति कुतश्चन मृत्युर्विना
भगवत्तेजसश्चक्रापदेशात् ॥ १४॥
यस्मिन् प्रविष्टेऽसुरवधूनां प्रायः पुंसवनानि
भयादेव स्रवन्ति पतन्ति च ॥ १५॥
अथातले मयपुत्रोऽसुरो बलो निवसति येन ह वा
इह सृष्टाः षण्णवतिर्मायाः काश्चनाद्यापि मायाविनो
धारयन्ति यस्य च जृम्भमाणस्य मुखतस्त्रयः स्त्रीगणा
उदपद्यन्त स्वैरिण्यः कामिन्यः पुंश्चल्य इति या वै
बिलायनं प्रविष्टं पुरुषं रसेन हाटकाख्येन साधयित्वा
स्वविलासावलोकनानुरागस्मितसंलापोपगूहनादिभिः
स्वैरं किल रमयन्ति यस्मिन्नुपयुक्ते पुरुष ईश्वरोऽहं
सिद्धोऽहमित्ययुतमहागजबलमात्मानमभिमन्यमानः
कत्थते मदान्ध इव ॥ १६॥
ततोऽधस्ताद्वितले हरो भगवान् हाटकेश्वरः स्वपार्षद-
भूतगणावृतः प्रजापतिसर्गोपबृंहणाय भवो भवान्या सह
मिथुनीभूत आस्ते यतः प्रवृत्ता सरित्प्रवरा हाटकी नाम
भवयोर्वीर्येण यत्र चित्रभानुर्मातरिश्वना समिध्यमान
ओजसा पिबति तन्निष्ठ्यूतं हाटकाख्यं सुवर्णं भूषणेना-
सुरेन्द्रावरोधेषु पुरुषाः सह पुरुषीभिर्धारयन्ति ॥ १७॥
ततोऽधस्तात्सुतले उदारश्रवाः पुण्यश्लोको
विरोचनात्मजो बलिर्भगवता महेन्द्रस्य प्रियं
चिकीर्षमाणेनादितेर्लब्धकायो भूत्वा वटुवामनरूपेण
पराक्षिप्तलोकत्रयो भगवदनुकम्पयैव पुनः प्रवेशित
इन्द्रादिष्वविद्यमानया सुसमृद्धया श्रियाभिजुष्टः
स्वधर्मेणाराधयंस्तमेव भगवन्तमाराधनीयमपगत-
साध्वस आस्तेऽधुनापि ॥ १८॥
नो एवैतत्साक्षात्कारो भूमिदानस्य यत्तद्भगवत्यशेष-
जीवनिकायानां जीवभूतात्मभूते परमात्मनि वासुदेवे
तीर्थतमे पात्र उपपन्ने परया श्रद्धया परमादरसमाहित-
मनसा सम्प्रतिपादितस्य साक्षादपवर्गद्वारस्य
यद्बिलनिलयैश्वर्यम् ॥ १९॥
यस्य ह वाव क्षुतपतनप्रस्खलनादिषु विवशः
सकृन्नामाभिगृणन् पुरुषः कर्मबन्धनमञ्जसा
विधुनोति यस्य हैव प्रतिबाधनं मुमुक्षवो-
ऽन्यथैवोपलभन्ते ॥ २०॥
तद्भक्तानामात्मवतां सर्वेषामात्मन्यात्मद
आत्मतयैव ॥ २१॥
न वै भगवान् नूनममुष्यानुजग्राह यदुत पुनरात्मा-
नुस्मृतिमोषणं मायामयभोगैश्वर्यमेवातनुतेति ॥ २२॥
यत्तद्भगवतानधिगतान्योपायेन याच्ञाच्छलेनापहृत
स्वशरीरावशेषितलोकत्रयो वरुणपाशैश्च सम्प्रतिमुक्तो
गिरिदर्यां चापविद्ध इति होवाच ॥ २३॥
नूनं बतायं भगवानर्थेषु न निष्णातो योऽसाविन्द्रो
यस्य सचिवो मन्त्राय वृत एकान्ततो बृहस्पतिस्त-
मतिहाय यमुपेन्द्रेणात्मानमयाचतात्मनश्चाशिषो
नो एव तद्दास्यमतिगम्भीरवयसः कालस्य
मन्वन्तरपरिवृत्तं कियल्लोकत्रयमिदम् ॥ २४॥
यस्यानुदास्यमेवास्मत्पितामहः किल वव्रे न तु
स्वपित्र्यं यदुताकुतोभयं पदं दीयमानं भगवतः परमिति
भगवतोपरते खलु स्वपितरि ॥ २५॥
तस्य महानुभावस्यानुपथममृजितकषायः को वास्मद्विधः
परिहीणभगवदनुग्रह उपजिगमिषतीति ॥ २६॥
तस्यानुचरितमुपरिष्टाद्विस्तरिष्यते यस्य भगवान् स्वय-
मखिलजगद्गुरुर्नारायणो द्वारि गदापाणिरवतिष्ठते निज-
जनानुकम्पितहृदयो येनाङ्गुष्ठेन पदा दशकन्धरो योजना-
युतायुतं दिग्विजय उच्चाटितः ॥ २७॥
ततोऽधस्तात्तलातले मयो नाम दानवेन्द्रस्त्रिपुराधिपति-
र्भगवता पुरारिणा त्रिलोकीशं चिकीर्षुणा निर्दग्धस्व-
पुरत्रयः तत्प्रसादाल्लब्धपदो मायाविनामाचार्यो
महादेवेन परिरक्षितो विगतसुदर्शनभयो महीयते ॥ २८॥
ततोऽधस्तान्महातले काद्रवेयाणां सर्पाणां
नैकशिरसां क्रोधवशो नाम गणः कुहकतक्षककालिय-
सुषेणादिप्रधाना महाभोगवन्तः पतत्त्रिराजाधिपतेः
पुरुषवाहादनवरतमुद्विजमानाः स्वकलत्रापत्यसुहृ-
त्कुटुम्बसङ्गेन क्वचित्प्रमत्ता विहरन्ति ॥ २९॥
ततोऽधस्ताद्रसातले दैतेया दानवाः पणयो नाम
निवातकवचाः कालेया हिरण्यपुरवासिन इति
विबुधप्रत्यनीका उत्पत्त्या महौजसो महासाहसिनो
भगवतः सकललोकानुभावस्य हरेरेव तेजसा
प्रतिहतबलावलेपा बिलेशया इव वसन्ति ये वै
सरमयेन्द्रदूत्या वाग्भिर्मन्त्रवर्णाभिरिन्द्राद्बिभ्यति ॥ ३०॥
ततोऽधस्तात्पाताले नागलोकपतयो वासुकिप्रमुखाः
शङ्खकुलिकमहाशङ्खश्वेतधनञ्जयधृतराष्ट्रशङ्खचूड-
कम्बलाश्वतरदेवदत्तादयो महाभोगिनो महामर्षा
निवसन्ति येषामु ह वै पञ्चसप्तदशशतसहस्रशीर्षाणां
फणासु विरचिता महामणयो रोचिष्णवः पातालविवर-
तिमिरनिकरं स्वरोचिषा विधमन्ति ॥ ३१॥
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां
पञ्चमस्कन्धे राह्वादिस्थितिबिलस्वर्गमर्यादानिरूपणं
नाम चतुर्विंशोऽध्यायः ॥ २४॥
॥ ॐ नमो भगवते वासुदेवाय ॥
॥ पञ्चविंशोऽध्यायः ॥
श्रीशुक उवाच
तस्य मूलदेशे त्रिंशद्योजनसहस्रान्तर आस्ते या वै
कला भगवतस्तामसी समाख्यातानन्त इति सात्वतीया
द्रष्टृदृश्ययोः सङ्कर्षणमहमित्यभिमान-लक्षणं यं
सङ्कर्षणमित्याचक्षते ॥ १॥
यस्येदं क्षितिमण्डलं भगवतोऽनन्तमूर्तेः सहस्रशिरस
एकस्मिन्नेव शीर्षणि ध्रियमाणं सिद्धार्थ इव लक्ष्यते ॥ २॥
यस्य ह वा इदं कालेनोपसञ्जिहीर्षतोऽमर्षविरचित-
रुचिरभ्रमद्भ्रुवोरन्तरेण साङ्कर्षणो नाम रुद्र एकादश-
व्यूहस्त्र्यक्षस्त्रिशिखं शूलमुत्तम्भयन्नुदतिष्ठत् ॥ ३॥
यस्याङ्घ्रिकमलयुगलारुणविशदनखमणिषण्ड-
मण्डलेषु अहिपतयः सह सात्वतर्षभैरेकान्तभक्ति-
योगेनावनमन्तः स्ववदनानि परिस्फुरत्कुण्डलप्रभा-
मण्डितगण्डस्थलान्यतिमनोहराणि प्रमुदितमनसः
खलु विलोकयन्ति ॥ ४॥
यस्यैव हि नागराजकुमार्य आशिष आशासाना-
श्चार्वङ्गवलयविलसितविशदविपुलधवलसुभग-
रुचिरभुजरजतस्तम्भेष्वगुरुचन्दनकुङ्कुमपङ्कानु-
लेपेनावलिम्पमानास्तदभिमर्शनोन्मथितहृदय-
मकरध्वजावेशरुचिरललितस्मितास्तदनुराग-
मदमुदितमदविघूर्णितारुणकरुणावलोकनयन-
वदनारविन्दं सव्रीडं किल विलोकयन्ति ॥ ५॥
स एव भगवाननन्तोऽनन्तगुणार्णव आदिदेव
उपसंहृतामर्षरोषवेगो लोकानां स्वस्तय आस्ते ॥ ६॥
ध्यायमानः सुरासुरोरगसिद्धगन्धर्वविद्याधर-
मुनिगणैरनवरतमदमुदितविकृतविह्वललोचनः
सुललितमुखरिकामृतेनाप्यायमानः स्वपार्षद-
विबुधयूथपतीनपरिम्लानरागनवतुलसिकामोद-
मध्वासवेन माद्यन् मधुकरव्रातमधुरगीतश्रियं
वैजयन्तीं स्वां वनमालां नीलवासा एककुण्डलो
हलककुदि कृतसुभगसुन्दरभुजो भगवान् माहेन्द्रो
वारणेन्द्र इव काञ्चनीं कक्षामुदारलीलो बिभर्ति ॥ ७॥
य एष एवमनुश्रुतो ध्यायमानो मुमुक्षूणामनादि-
कालकर्मवासनाग्रथितमविद्यामयं हृदयग्रन्थिं
सत्त्वरजस्तमोमयमन्तर्हृदयं गत आशु निर्भिनत्ति
तस्यानुभावान् भगवान् स्वायम्भुवो नारदः सह
तुम्बुरुणा सभायां ब्रह्मणः संश्लोकयामास ॥ ८॥
उत्पत्तिस्थितिलयहेतवोऽस्य कल्पाः
सत्त्वाद्याः प्रकृतिगुणा यदीक्षयाऽऽसन् ।
यद्रूपं ध्रुवमकृतं यदेकमात्मन्
नानाधात्कथमु ह वेद तस्य वर्त्म ॥ ९॥
मूर्तिं नः पुरुकृपया बभार सत्त्वं
संशुद्धं सदसदिदं विभाति तत्र ।
यल्लीलां मृगपतिराददेऽनवद्या-
मादातुं स्वजनमनांस्युदारवीर्यः ॥ १०॥
यन्नामश्रुतमनुकीर्तयेदकस्मा-
दार्तो वा यदि पतितः प्रलम्भनाद्वा ।
हन्त्यंहः सपदि नृणामशेषमन्यं
कं शेषाद्भगवत आश्रयेन्मुमुक्षुः ॥ ११॥
मूर्धन्यर्पितमणुवत्सहस्रमूर्ध्नो
भूगोलं सगिरिसरित्समुद्रसत्त्वम् ।
आनन्त्यादनिमितविक्रमस्य भूम्नः
को वीर्याण्यधिगणयेत्सहस्रजिह्वः ॥ १२॥
एवम्प्रभावो भगवाननन्तो
दुरन्तवीर्योरुगुणानुभावः ।
मूले रसायाः स्थित आत्मतन्त्रो
यो लीलया क्ष्मां स्थितये बिभर्ति ॥ १३॥
एता ह्येवेह नृभिरुपगन्तव्या गतयो यथा
कर्मविनिर्मिता यथोपदेशमनुवर्णिताः कामान्
कामयमानैः ॥ १४॥
एतावतीर्हि राजन् पुंसः प्रवृत्तिलक्षणस्य धर्मस्य
विपाकगतय उच्चावचा विसदृशा यथाप्रश्नं
व्याचख्ये किमन्यत्कथयाम इति ॥ १५॥
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां
पञ्चमस्कन्धे भूविवरविध्युपवर्णनं नाम पञ्चविंशोऽध्यायः ॥ २५॥
॥ ॐ नमो भगवते वासुदेवाय ॥
॥ षड्विंशोऽध्यायः ॥
राजोवाच
महर्ष एतद्वैचित्र्यं लोकस्य कथमिति ॥ १॥
ऋषिरुवाच
त्रिगुणत्वात्कर्तुः श्रद्धया कर्मगतयः पृथग्विधाः
सर्वा एव सर्वस्य तारतम्येन भवन्ति ॥ २॥
अथेदानीं प्रतिषिद्धलक्षणस्याधर्मस्य तथैव कर्तुः
श्रद्धाया वैसादृश्यात्कर्मफलं विसदृशं भवति या
ह्यनाद्यविद्यया कृतकामानां तत्परिणामलक्षणाः
सृतयः सहस्रशः प्रवृत्तास्तासां प्राचुर्येणा-
नुवर्णयिष्यामः ॥ ३॥
राजोवाच
नरका नाम भगवन् किं देशविशेषा अथवा
बहिस्त्रिलोक्या आहोस्विदन्तराल इति ॥ ४॥
ऋषिरुवाच
अन्तराल एव त्रिजगत्यास्तु दिशि दक्षिणस्या-
मधस्ताद्भूमेरुपरिष्टाच्च जलाद्यस्यामग्निष्वात्तादयः
पितृगणा दिशि स्वानां गोत्राणां परमेण समाधिना
सत्या एवाशिष आशासाना निवसन्ति ॥ ५॥
यत्र ह वाव भगवान् पितृराजो वैवस्वतः स्वविषयं
प्रापितेषु स्वपुरुषैर्जन्तुषु सम्परेतेषु यथा कर्मावद्यं
दोषमेवानुल्लङ्घितभगवच्छासनः सगणो दमं
धारयति ॥ ६॥
तत्र हैके नरकानेकविंशतिं गणयन्ति अथ तांस्ते
राजन् नामरूपलक्षणतोऽनुक्रमिष्यामस्तामिस्रो-
ऽन्धतामिस्रो रौरवो महारौरवः कुम्भीपाकः
कालसूत्रमसिपत्रवनं सूकरमुखमन्धकूपः
कृमिभोजनः सन्दंशस्तप्तसूर्मिर्वज्रकण्टक-
शाल्मली वैतरणी पूयोदः प्राणरोधो विशसनं
लालाभक्षः सारमेयादनमवीचिरयःपानमिति
किञ्च क्षारकर्दमो रक्षोगणभोजनः शूलप्रोतो
दन्दशूकोऽवटनिरोधनः पर्यावर्तनः सूचीमुखमि-
त्यष्टाविंशतिर्नरका विविधयातनाभूमयः ॥ ७॥
तत्र यस्तु परवित्तापत्यकलत्राण्यपहरति स हि
कालपाशबद्धो यमपुरुषैरतिभयानकैस्तामिस्रे
नरके बलान्निपात्यते अनशनानुदपानदण्ड-
ताडनसन्तर्जनादिभिर्यातनाभिर्यात्यमानो
जन्तुर्यत्र कश्मलमासादित एकदैव मूर्च्छामुपयाति
तामिस्रप्राये ॥ ८॥
एवमेवान्धतामिस्रे यस्तु वञ्चयित्वा पुरुषं दारादी-
नुपयुङ्क्ते यत्र शरीरी निपात्यमानो यातनास्थो
वेदनया नष्टमतिर्नष्टदृष्टिश्च भवति यथा वनस्पति-
र्वृश्च्यमानमूलस्तस्मादन्धतामिस्रं तमुपदिशन्ति ॥ ९॥
यस्त्विह वा एतदहमिति ममेदमिति भूतद्रोहेण
केवलं स्वकुटुम्बमेवानुदिनं प्रपुष्णाति स तदिह
विहाय स्वयमेव तदशुभेन रौरवे निपतति ॥ १०॥
ये त्विह यथैवामुना विहिंसिता जन्तवः परत्र
यमयातनामुपगतं त एव रुरवो भूत्वा तथा
तमेव विहिंसन्ति तस्माद्रौरवमित्याहू रुरुरिति
सर्पादतिक्रूरसत्त्वस्यापदेशः ॥ ११॥
एवमेव महारौरवो यत्र निपतितं पुरुषं क्रव्यादा
नाम रुरवस्तं क्रव्येण घातयन्ति यः केवलं
देहम्भरः ॥ १२॥
यस्त्विह वा उग्रः पशून् पक्षिणो वा प्राणत
उपरन्धयति तमपकरुणं पुरुषादैरपि विगर्हितममुत्र
यमानुचराः कुम्भीपाके तप्ततैले उपरन्धयन्ति ॥ १३॥
यस्त्विह पितृविप्रब्रह्मध्रुक् स कालसूत्रसंज्ञके
नरके अयुतयोजनपरिमण्डले ताम्रमये तप्तखले
उपर्यधस्तादग्न्यर्काभ्यामतितप्यमानेऽभिनिवेशितः
क्षुत्पिपासाभ्यां च दह्यमानान्तर्बहिःशरीर आस्ते
शेते चेष्टतेऽवतिष्ठति परिधावति च
यावन्ति पशुरोमाणि तावद्वर्षसहस्राणि ॥ १४॥
यस्त्विह वै निजवेदपथादनापद्यपगतः पाखण्डं
चोपगतस्तमसिपत्रवनं प्रवेश्य कशया प्रहरन्ति
तत्र हासावितस्ततो धावमान उभयतो धारै-
स्तालवनासिपत्रैश्छिद्यमानसर्वाङ्गो हा हतो-
ऽस्मीति परमया वेदनया मूर्च्छितः पदे पदे
निपतति स्वधर्महा पाखण्डानुगतं फलं भुङ्क्ते ॥ १५॥
यस्त्विह वै राजा राजपुरुषो वा अदण्ड्ये दण्डं
प्रणयति ब्राह्मणे वा शरीरदण्डं स पापीयान्
नरकेऽमुत्र सूकरमुखे निपतति तत्रातिबलै-
र्विनिष्पिष्यमाणावयवो यथैवेहेक्षुखण्ड
आर्तस्वरेण स्वनयन् क्वचिन्मूर्च्छितः
कश्मलमुपगतो यथैवेहादृष्टदोषा उपरुद्धाः ॥ १६॥
यस्त्विह वै भूतानामीश्वरोपकल्पितवृत्तीना-
मविविक्तपरव्यथानां स्वयं पुरुषोपकल्पित-
वृत्तिर्विविक्तपरव्यथो व्यथामाचरति स
परत्रान्धकूपे तदभिद्रोहेण निपतति तत्र हासौ
तैर्जन्तुभिः पशुमृगपक्षिसरीसृपैर्मशकयूका-
मत्कुणमक्षिकादिभिर्ये के चाभिद्रुग्धास्तैः
सर्वतोऽभिद्रुह्यमाणस्तमसि विहतनिद्रानिर्वृति-
रलब्धावस्थानः परिक्रामति यथा कुशरीरे जीवः ॥ १७॥
यस्त्विह वा असंविभज्याश्नाति यत्किञ्चनो-
पनतमनिर्मितपञ्चयज्ञो वायससंस्तुतः स
परत्र कृमिभोजने नरकाधमे निपतति तत्र
शतसहस्रयोजने कृमिकुण्डे कृमिभूतः स्वयं
कृमिभिरेव भक्ष्यमाणः कृमिभोजनो यावत्त-
दप्रत्ताप्रहूतादोऽनिर्वेशमात्मानं यातयते ॥ १८॥
यस्त्विह वै स्तेयेन बलाद्वा हिरण्यरत्नादीनि
ब्राह्मणस्य वापहरत्यन्यस्य वानापदि पुरुष-
स्तममुत्र राजन् यमपुरुषा अयस्मयैरग्निपिण्डैः
सन्दंशैस्त्वचि निष्कुषन्ति ॥ १९॥
यस्त्विह वा अगम्यां स्त्रियमगम्यं वा पुरुषं
योषिदभिगच्छति तावमुत्र कशया ताडयन्त-
स्तिग्मया सूर्म्या लोहमय्या पुरुषमालिङ्गयन्ति
स्त्रियं च पुरुषरूपया सूर्म्या ॥ २०॥
यस्त्विह वै सर्वाभिगमस्तममुत्र निरये वर्तमानं
वज्रकण्टकशाल्मलीमारोप्य निष्कर्षन्ति ॥ २१॥
ये त्विह वै राजन्या राजपुरुषा वा अपाखण्डा
धर्मसेतून् भिन्दन्ति ते सम्परेत्य वैतरण्यां
निपतन्ति भिन्नमर्यादास्तस्यां निरयपरिखा-
भूतायां नद्यां यादोगणैरितस्ततो भक्ष्यमाणा
आत्मना न वियुज्यमानाश्चासुभिरुह्यमानाः
स्वाघेन कर्मपाकमनुस्मरन्तो विण्मूत्रपूयशोणित-
केशनखास्थिमेदोमांसवसावाहिन्यामुपतप्यन्ते ॥ २२॥
ये त्विह वै वृषलीपतयो नष्टशौचाचारनियमा-
स्त्यक्तलज्जाः पशुचर्यां चरन्ति ते चापि प्रेत्य
पूयविण्मूत्रश्लेष्ममलापूर्णार्णवे निपतन्ति
तदेवातिबीभत्सितमश्नन्ति ॥ २३॥
ये त्विह वै श्वगर्दभपतयो ब्राह्मणादयो मृगया-
विहारा अतीर्थे च मृगान् निघ्नन्ति तानपि
सम्परेतान् लक्ष्यभूतान् यमपुरुषा इषुभिर्विध्यन्ति ॥ २४॥
ये त्विह वै दाम्भिका दम्भयज्ञेषु पशून् विशसन्ति
तानमुष्मिन् लोके वैशसे नरके पतितान् निरयपतयो
यातयित्वा विशसन्ति ॥ २५॥
यस्त्विह वै सवर्णां भार्यां द्विजो रेतः पाययति
काममोहितस्तं पापकृतममुत्र रेतःकुल्यायां
पातयित्वा रेतः सम्पाययन्ति ॥ २६॥
ये त्विह वै दस्यवोऽग्निदा गरदा ग्रामान् सार्थान् वा
विलुम्पन्ति राजानो राजभटा वा तांश्चापि हि
परेत्य यमदूता वज्रदंष्ट्राः श्वानः सप्तशतानि
विंशतिश्च सरभसं खादन्ति ॥ २७॥
यस्त्विह वा अनृतं वदति साक्ष्ये द्रव्यविनिमये
दाने वा कथञ्चित्स वै प्रेत्य नरकेऽवीचिमत्यधःशिरा
निरवकाशे योजनशतोच्छ्रायाद्गिरिमूर्ध्नः सम्पात्यते
यत्र जलमिव स्थलमश्मपृष्ठमवभासते तदवीचिम-
त्तिलशो विशीर्यमाणशरीरो न म्रियमाणः पुनरारोपितो
निपतति ॥ २८॥
यस्त्विह वै विप्रो राजन्यो वैश्यो वा सोमपीथस्तत्कलत्रं
वा सुरां व्रतस्थोऽपि वा पिबति प्रमादतस्तेषां निरयं
नीतानामुरसि पदाऽऽक्रम्यास्ये वह्निना द्रवमाणं
कार्ष्णायसं निषिञ्चन्ति ॥ २९॥
अथ च यस्त्विह वा आत्मसम्भावनेन स्वयमधमो
जन्मतपोविद्याचारवर्णाश्रमवतो वरीयसो न
बहुमन्येत स मृतक एव मृत्वा क्षारकर्दमे निरये-
ऽवाक्शिरा निपातितो दुरन्ता यातना ह्यश्नुते ॥ ३०॥
ये त्विह वै पुरुषाः पुरुषमेधेन यजन्ते याश्च स्त्रियो
नृपशून् खादन्ति तांश्च ते पशव इव निहता यमसदने
यातयन्तो रक्षोगणाः सौनिका इव स्वधितिनावदाया-
सृक् पिबन्ति नृत्यन्ति च गायन्ति च हृष्यमाणा यथेह
पुरुषादाः ॥ ३१॥
ये त्विह वा अनागसोऽरण्ये ग्रामे वा वैश्रम्भकैरुपसृता-
नुपविश्रम्भय्य जिजीविषून् शूलसूत्रादिषूपप्रोतान्
क्रीडनकतया यातयन्ति तेऽपि च प्रेत्य यमयातनासु
शूलादिषु प्रोतात्मानः क्षुत्तृड्भ्यां चाभिहताः कङ्कवटादिभि-
श्चेतस्ततस्तिग्मतुण्डैराहन्यमाना आत्मशमलं स्मरन्ति ॥ ३२॥
ये त्विह वै भूतान्युद्वेजयन्ति नरा उल्बणस्वभावा यथा
दन्दशूकास्तेऽपि प्रेत्य नरके दन्दशूकाख्ये निपतन्ति
यत्र नृप दन्दशूकाः पञ्चमुखाः सप्तमुखा उपसृत्य
ग्रसन्ति यथा बिलेशयान् ॥ ३३॥
ये त्विह वा अन्धावटकुसूलगुहादिषु भूतानि निरुन्धन्ति
तथामुत्र तेष्वेवोपवेश्य सगरेण वह्निना धूमेन निरुन्धन्ति ॥ ३४॥
यस्त्विह वा अतिथीनभ्यागतान् वा गृहपतिरसकृ-
दुपगतमन्युर्दिधक्षुरिव पापेन चक्षुषा निरीक्षते तस्य
चापि निरये पापदृष्टेरक्षिणी वज्रतुण्डा गृध्राः
कङ्ककाकवटादयः प्रसह्योरुबलादुत्पाटयन्ति ॥ ३५॥
यस्त्विह वा आढ्याभिमतिरहङ्कृतिस्तिर्यक्प्रेक्षणः
सर्वतोऽभिविशङ्की अर्थव्ययनाशचिन्तया
परिशुष्यमाणहृदयवदनो निर्वृतिमनवगतो ग्रह
इवार्थमभिरक्षति स चापि प्रेत्य तदुत्पादनोत्कर्षण
संरक्षणशमलग्रहः सूचीमुखे नरके निपतति यत्र
ह वित्तग्रहं पापपुरुषं धर्मराजपुरुषा वायका इव
सर्वतोऽङ्गेषु सूत्रैः परिवयन्ति ॥ ३६॥
एवंविधा नरका यमालये सन्ति शतशः सहस्रशस्तेषु
सर्वेषु च सर्व एवाधर्मवर्तिनो ये केचिदिहोदिता
अनुदिताश्चावनिपते पर्यायेण विशन्ति तथैव धर्मानुवर्तिन
इतरत्र इह तु पुनर्भवे त उभयशेषाभ्यां निविशन्ति ॥ ३७॥
निवृत्तिलक्षणमार्ग आदावेव व्याख्यातः एतावानेवा-
ण्डकोशो यश्चतुर्दशधा पुराणेषु विकल्पित उपगीयते
यत्तद्भगवतो नारायणस्य साक्षान्महापुरुषस्य स्थविष्ठं
रूपमात्ममायागुणमयमनुवर्णितमादृतः पठति शृणोति
श्रावयति स उपगेयं भगवतः परमात्मनोऽग्राह्यमपि
श्रद्धाभक्तिविशुद्धबुद्धिर्वेद ॥ ३८॥
श्रुत्वा स्थूलं तथा सूक्ष्मं रूपं भगवतो यतिः ।
स्थूले निर्जितमात्मानं शनैः सूक्ष्मं धिया नयेदिति ॥ ३९॥
भूद्वीपवर्षसरिदद्रिनभःसमुद्र-
पातालदिङ्नरकभागणलोकसंस्था ।
गीता मया तव नृपाद्भुतमीश्वरस्य
स्थूलं वपुः सकलजीवनिकायधाम ॥ ४०॥
इति श्रीमद्भागवते महापुराणे वैयासक्यामष्टादशसाहस्र्यां
पारमहंस्यां संहितायां पञ्चमस्कन्धे नरकानुवर्णनं नाम
षड्विंशोऽध्यायः ॥ २६॥
॥ इति पञ्चमस्कन्धः समाप्तः ॥