[highlight_content]

श्रीविष्णुपुराणम् Amsa 01 Ady 01

श्रीमतेरामानुजायनमः

श्रीपराशरमहर्षिप्रणीत

पुराणरत्नापरनामधेयं

॥श्रीविष्णुपुराणम्सव्याख्यम्॥

नारायणंनमस्कृत्यनरंचैवनरोत्तमम्।

देवींसरस्वतींव्यासंततोजयमुदीरयेत्।।

प्रथमांशेप्रथमोऽध्यायः

श्रीसूतउवाच

पराशरंमुनिवरंकृतपौर्वाह्णिकक्रियम्।मैत्रेयःपरिपप्रच्छप्रणिपत्याभिवाद्यच॥१॥

श्रीमतेरामानुजायनमः

एङ्गळाळ्वानितिप्रसिद्धश्रीविष्णुचित्तार्यवयनुगृहीताव्याख्या (श्रीविष्णुचित्तीयाख्या)

 

श्रीविष्णुचित्तपदपङ्कजसङ्गमायचेतोममस्पृह्यतेकिमतःपरेण।नोचेन्ममापियतिशेखरभारतीनांभावःकथंभवितुमर्हतिवाग्विधेयः॥

प्रथमांशेप्रथमोऽध्यायः

यस्मादिदंजगदजायतयत्रतिष्ठत्यन्तेसमस्तमिदमस्तमुपैतियत्र।तस्मैनमस्सदसदादिविकल्पशून्यचैतन्यमात्रवपुषेपुरुषोत्तमाय

विधेश्चविदुषामिष्टदायिनेतार्क्ष्ययायिने।नमस्तुरङ्गतुण्डायस्वात्मनेजगदात्मने॥अंशैष्षड्भिस्समाकीर्णमङ्गैर्वेदमिवापरम्।पुरणंवैष्णवंचक्रेयस्तंवन्देपराशरम्॥

तत्त्वेनयश्चिदचिदीश्वरतत्स्वभावभोगापवर्गतदुपायगतीरुदारः।संदर्शयन्निरमिमीतपुराणरत्नंतस्मैनमोमुनिवरायपराशराय॥

 

अथभगवान्पराशरःश्रीमैत्रेयायलोकहितार्थंश्रीविष्णुपुराणंप्रणेष्यन्प्रणिपातादिभिरुपसन्नायसंच्छिष्यायसदाचारवतातत्पृष्ठेनगुरुणास्वधर्मानुष्ठानाविरुद्धेमन:प्रसादकरसमये .पुराणंव्याख्येयमितिशास्त्रदर्शनात्पुराणप्रस्तावकंतत्प्रश्नंनिबध्नाति–पराशरामितिश्लोकेन।परान्-बाह्यकुदृष्टीन्सम्यक्प्रमाणतर्केराशृणातिइतिपराशरः,तंमुनिवरं–सम्यग्ज्ञानवन्तम्,कृतपौर्वाह्णिकक्रियं– भगवत्समाराधनादिनाविशेषतोविमल -मनसम्।पूर्वाह्ननिर्देशेनचित्तस्यसत्त्वोद्रोकोदर्शितः।परिपप्रच्छ-परितःपप्रच्छ, पुराणार्थमितिशेषः।कार्त्स्न्येनअर्थविशेषानभिनिवेशेनसामान्यतो*यन्मयमित्यादिवक्ष्यमाणप्रकारेण।अतःप्रश्नानुरूपेणप्रतिवचनमपिनकचिदाग्रहेणकृतम्।तेनास्यपुराणस्यलैङ्गादिवन्नकचित्पक्षपातित्वम्॥१॥

 

 

त्वत्तोहिबेदाध्ययनमधीतमखिलंगुरो।धर्मशास्त्राणिसर्वाणितथाऽङ्गानियथाक्रमम्।।२।।

अथमैत्रेयश्चतुर्दशविद्याभूषितपुराणाधिगमेत्रयोदशविद्यास्थानाधिगमलक्षणस्यात्मनोऽधिकारस्यतत्प्रसादलब्धत्वानुवादेनगुरुंस्तुवन्पुराणप्रवचनेप्रोत्साहयति-त्वत्तोहीतिद्वयेन॥खिलं-प्रहतमनाम्नातंपरिशिष्टाख्यंश्रीसूक्तादिकं, तदखिलमाम्नातमेवयथास्यात्तथावेदाध्ययनम्अधीतम्-अधिगतं, प्राप्तम्।खिल– भागस्याप्यध्ययनंत्वत्तएवप्राप्तमित्यर्थः।यद्वाअखिलं-कृत्स्नं, यथाकमम्-स्वशाखाध्ययन- पूर्वकमृगादिक्रमानतिक्रमेण, * अतःपूर्वंतुछन्दांसिशुक्लेषुनियतःपठेत्।कृष्णपक्षेतथाऽङ्गानिमासान्विप्रोऽर्धपञ्चमान्।इत्याद्युक्तक्रमानितिक्रमेणच॥२॥

 

त्वत्प्रसादान्मुनिश्रेष्ठमामन्येनाकृतश्रमम्।वक्ष्यन्तिसर्वशास्त्रेषुप्रायशोयेऽपिविद्विषः॥३॥

त्वत्प्रसादादिति।अन्येजनाःयेविद्विषःतेऽपिसर्वशास्त्रेषुत्वत्प्रसादादकृतश्रमंमांनवक्ष्यन्ति, किन्तुत्वत्प्रसादादेवकृतसर्वशास्त्रपरिचयंमांसमावर्तनानन्तरंवक्ष्यन्ति।अन्येनेतिपदच्छेदेमांसर्वशास्त्रेषुत्वत्प्रसादादन्येनोपायेनअकृतश्रमंवक्ष्यन्ति, किन्तुत्वत्प्रसादेनैवकृतश्रमंवक्ष्यन्तीत्यर्थः॥३॥

 

सोऽहमिच्छामिधर्मज्ञश्रोतुंत्वत्तोयथाजगत्।बभूवभूयश्चयथामहाभागभविष्यति।।४।

सोऽहमिति।यएवंवेदादित्रयोदशविद्यास्थानाभिज्ञःसोऽहंजगज्जन्मादिपुराणार्थंश्रोतुमिच्छामीत्यर्थः।अनेनब्रह्मयज्ञाध्ययनार्थवेदोपबृंहणार्थचपुराणस्यग्रहणादौतद्योग्यत्रैवर्णिकानामेवाधिकारउक्तोज्ञेयः|पापक्षयाद्यर्थंतुपुराणश्रवणादौस्त्रीशूद्रयोरप्यधिकारः।यथोक्तंभविष्यत्पुराणे * अध्येतव्यंनचान्येनब्राह्मणक्षत्रियौविना॥श्रोतव्यमेतच्छूद्रेणनाध्येतव्यंकदाचन।तस्माच्छूद्रैर्विनाविप्रान्नश्रोतव्यंकदाचन॥इति॥विलोमजानांतुश्रवणादौनाघिकारः।सुतादेस्तुविलोमजस्यापिपुराणवचनं-*धर्मएषतुसूतस्यसद्भिर्दृष्टःपुरातनः *।इत्यादिवचनादविरुद्धम्। * यथाजगद्बभूवेत्युपक्रम्य * आश्रमवासिनामित्यन्तेनप्रष्टव्यानर्थानाह।अत्रभगवताभाष्यकारेणब्रह्मस्वरूपविशेषतद्विभूतिमेदप्रकाराःतदाराधनरूपफलविशेषाश्चपृष्टाइतिप्रष्टव्यार्थविशेषाउक्ताः। * यथाजगत्, इत्यादि * लयमेष्यतियत्रच, इत्यन्तंब्रह्मस्वरूपविशेषप्रश्नः। *यत्प्रमाणानीत्यादि * चातुर्युगेत्यन्तंविभूतिमेदप्रकारप्रश्नः।धर्माश्चेत्याद्यर्धेनतदाराधनस्वरूपफलविशेषप्रश्नौपृष्टौ।ब्रह्मस्वरूपस्य * यतोवाइमानीत्यादिवाक्यसिद्धत्वात्तद्विशेषएवात्रप्रष्टव्यइतिभाष्यकारेणब्रह्मस्वरूपविशेषप्रश्नइत्युक्तम्।ननुनारायणानुवाकादिमिःस्वरूपस्यविशेषोऽपिनिर्धारितः।सत्यम्, अनेकानुवाकविप्रकीर्णयोःसामान्यविशेषयोरेकत्रसमाहृत्यवचनेहिव्यक्तिर्भवति।एतदेवहिपुराणादिकृत्यंवेदोपबृंहणम्।*यथाबभूव, * यथाभविष्यतीतिसर्वसृष्टिषुकिमेकप्रकारासृष्टिरुतानेकप्रकारभिन्नक्रमावेतिप्रश्नः।अत्रोत्पत्तिर्लययोःपृष्त्वात्स्थितिप्रश्नोऽप्यभिप्रेतः, स्थितिसंयमकर्तेतिप्रतिवचनदर्शनात्।।४।।

 

यन्मयंचजगद्धह्मन्यतचैतचराचरम्।लीनमासीद्यथायत्रलयमेष्यतियत्रच।।५।।

यन्मयमिति॥* यतश्चैतच्चराचरमितिनिमित्तोपादानयोःपृष्टत्वात्यन्मयमित्यनेनसृष्टयादिकर्मभूतंजगत्किमात्मकमितिपृष्टम्।तस्यचोत्तरं * जगच्चसइति।इदंतादात्म्यमन्तर्यामिरूपेणात्मतयाऽवस्थानकृतंनतुवस्त्वैक्यकृतम्; यन्मयमितिप्रश्नस्योत्तरत्वात्जगच्चसइतिसामानाधिकरण्यस्य।यन्मयमित्यत्रमयट्नविकारार्थः, पृथक्प्रश्नवैयर्थ्यात्।नापिप्राणमयादिवत्स्वार्थिकः, जगच्चसइत्युत्तरानुपपत्तेः।तदाहिविष्णुरेवेत्युत्तरमभविष्यत्।अतःप्राचुर्यार्थएव।कृत्स्नंजगत्तदात्मकतयातत्प्रचुरमेव।तस्माद्यन्मयमित्यस्यप्रतिवचनं . जगच्चसइतिसामानाधिकरण्यंशरीरात्मभावनिबन्धनम्।अन्यथाबाधायांसामानाधिकरण्याश्रयणेननिर्विशेष–वस्तुप्रतिपादनपरत्वेशास्त्रस्याभ्युपगम्यमानेसर्वाण्येतानिप्रश्नप्रतिवचनानिनसंगच्छेरन्, तद्विवरणरूपंचकृत्स्नंशास्त्रम्।तत्पक्षेहिप्रपञ्चभ्रमस्यकिमधिष्ठानम्, निर्विशेषज्ञानमात्रमितिप्रश्नप्रतिवचनेस्याताम्।जगच्चसइतिजगद्ब्रह्मणोरेकद्रव्यत्वेनसामानाधिकरण्येचब्रह्मणःकल्याणगुणैकतानत्वंहेयप्रत्यनीकत्वंचबाध्येत; सर्वाशुभास्पदंचब्रह्मभवेत्।तस्मादात्मशरीरभावएवेदंसामानाधिकरण्यंमुख्यमितिवक्ष्यामः॥नचयतश्चेत्यस्यकारणमात्रवाचित्वेऽपियन्मयमित्यस्योपादानकारणविषयत्वाद्गोबलीवर्दन्यायेनयतइतिनिमित्तकारणपरमितिवाच्यम्; तस्यागतिकविषयत्वात्, अत्रमयटःप्राचुर्यार्थत्वेनगत्यन्तरोपपादनाच्च।खार्थिकत्वेयज्जगदितिप्रश्नस्यविष्णुर्जगदित्युत्तरेकाऽनुपपत्तिरितिचेत्; तदाहिबाधायांसामानाधिकरण्यमभिहितंस्यात्।ततश्चस्थाणुरेवनपुरुषइतिवद्विष्णुरेवनजगदित्यर्थःस्यात्।तथाजगद्विष्णुरितिजगद्ब्रह्मणोरैक्योपदेशस्यनजगद्विष्णुरितिवैयघिकरण्यमर्थःस्यादितिश्रुतिविरुद्धाऽश्रुतबाधकल्पनास्यात्।अर्थवत्वेसिद्ध्यतिमयट:स्वार्थिकत्वेनवैयर्थ्यंचायुक्तम्।लीनमासीद्यथायत्र-येनक्रमेणयत्रलीनंसकारणम्॥५॥

 

यत्प्रमाणानिभूतानिदेवादीनांसंभवम्।समुद्रपर्वतानांचसंस्थानंचयथाभुवः॥६॥

यत्प्रमाणानीति।पृथिव्यादीनियत्प्रमाणानीतिमहाभूतादीनामियत्ताप्रश्नः, जगतःप्रमितिसाधनप्रश्नश्च॥६॥

 

सूर्यादीनांचसंस्थानंप्रमाणंमुनिसत्तम।देवादीनांतथावंशान्मनून्मन्वन्तराणिच।।७॥

सूर्यादीनामिति॥मन्वन्तराणि-मनूनांकालाः॥७॥

 

कल्पान्कल्पविभागांश्चचातुर्युगविकल्पितान्।कल्पान्तस्यखरूपंचयुगधर्मांश्चकृत्स्नशः।।८॥

देवर्षिपार्थिवानांचचरितंयन्महामुने।वेदशाखाप्रणयनंयथावन्द्यासकर्तृकम्॥९॥

कल्पानिति॥कल्पान्-ब्रह्मायुर्मितान्महाकल्पान्, चातुर्युगविकल्पितान्–चतुर्युगपरिवृत्तिकल्पितान्, चतुर्युगैरावर्त्तमानैर्विभक्तानित्यर्थः।कल्पविभागान्-महाकल्पांशान्पद्मादीन्ब्रह्मदिवसान्, कल्पान्तःप्रलयः।चातुर्युगं-भाविवेदविभजनम्, चतुर्युगस्यपरिमाणमितिवा॥८, ९॥

 

धर्मांश्चब्राह्मणादीनांतथाचाश्रमवासिनाम्।श्रोतुमिच्छाम्यहंसर्वंत्वत्तोवासिष्ठनन्दन॥१०॥

ब्रह्मन्प्रसादप्रवणंकुरुष्वमयिमानसम्।येनाहमेतज्जानीयांत्वत्प्रसादान्महामुने॥११॥

धर्मानिति॥सर्वम्–अन्यद्योगादिच।

श्रीपराशरउवाच—साधुमैत्रेयधर्मज्ञस्मारितोऽस्मिपुरातनम्।पितुःपितामेभगवान्बसिष्ठोयदुवाचह॥१२॥विश्वामित्रप्रयुक्तेनरक्षसाभक्षितःपुरा।श्रुतस्तातस्ततःक्रोधोमैत्रेयाभून्ममातुलः॥१३॥ततोऽहंरक्षसांसत्रंविनाशायसमारभम्।भस्मीभूताश्चशतशस्तस्मिन्सत्रेनिशाचराः॥१४॥ततःसंक्षीयमाणेषुतेषुरक्षस्वशेषतः।मामुवाचमहाभागोवसिष्ठोमत्पितामहः॥१५॥

वासिष्ठनन्दनेत्यामन्त्रणेनगुरुप्रसादादेवज्ञानमित्युक्त्याचपुरातनंवसिष्ठवरदानवृत्तान्तंसंस्मारितोहृष्टःपराशरोवक्ष्यमाणस्यार्थस्यश्रद्धेयत्वसिद्धयेतंवृत्तान्तमाख्यातिसाध्वित्यादिना॥१२-१५॥

 

अलमत्यन्तकोपेनतातमन्युमिमंजहि।राक्षसानापध्यिन्तिपितुस्तेविहितंहितत्॥१६॥मूढानामेवभवतिक्रोधोज्ञानवतांकुतः।हन्यतेतातकःकेनयतःस्वकृतभुक्पुमान्॥१७॥सञ्चितस्यापिमहतावत्सक्लेशेनमानवैः।यशसस्तपसचैवक्रोधोनाशकरःपरः॥१८॥

अलमिति॥मन्यु-सत्रम्॥१६–१८॥

 

स्वर्गापवर्गव्यासेधकारणंपरमर्षयः।वर्जयन्तिसदाक्रोधंतातमातद्वशोभव॥१९॥अलंनिशाचरैर्दग्धैर्दीनैरनपकारिभिः।सत्रंतेविरमत्वेतत्क्षमासाराहिसाधवः॥२०॥एवंतातेनतेनाहमनुनीतोमहात्मना।उपसंहृतवान्सत्रंसद्यस्तद्वाक्यगौरवात्॥२१॥ततःप्रीतःसभगवान्वसिष्ठोमुनिसत्तमः।संप्राप्तश्चतदातत्रपुलस्त्योब्रह्मणःसुतः॥२२॥पितामहेनदत्तार्घ्यःकृतासनपरिग्रहः।मामुवाचमहाभागोमैत्रेयपुलहाग्रजः॥२३॥

पुलस्त्यउवाच —                                                            वैरेमहतियद्वाक्याद्गुरोरद्याश्रिताक्षमा।त्वयातस्मात्समस्तानिभवान्शास्राणिवेत्स्यति॥२४॥सन्ततेर्नममोच्छेदःक्रुद्धेनापियतःकृतः।त्वयातस्मान्महाभागददाम्यन्यंमहावरम्॥२५॥

यशस्तपसोर्नाशेस्वर्गापवर्गसाधनधर्मज्ञानप्रतिबन्धोजायतेइत्याहस्वर्गेति॥१९-२५॥

पुराणसंहिताकर्ताभवान्वत्सभविष्यति।देवतापारमार्थ्यंचयथावद्वेत्स्यतेभवान्॥२६॥

पुराणेति॥संहितातुल्यत्वात्संहितातस्याःकर्ता।यथावद्वेत्स्यते-विभूतिविग्रहगुणकर्मस्वभावादिभिः

देवतामसंशयविपर्यासंयथावज्ज्ञास्यति॥२६॥

प्रवृत्तेचनिवृत्तेचकर्मण्यस्तमलामतिः।मत्प्रसादादसंदिग्धातववत्सभविष्यति॥२७॥ततश्चप्राहभगवान्वसिष्ठोमेपितामहः।पुलस्त्येनयदुक्तंतेसर्वमेतद्भविष्यति॥२८॥इतिपूर्वंवसिष्ठेनपुलस्त्येनचधीमता।यदुक्तंतत्स्मृतिंयातित्वत्प्रश्नादखिलंमम॥२९॥सोऽहंवदाम्यशेषंतेमैत्रेयपरिपृच्छते।पुराणसंहितांसम्यक्तांनिबोधयथातथम्॥३०॥

प्रवृत्तइति॥प्रवृत्तं-काम्यंकर्म, निवृत-निष्कामंज्ञानपूर्वकम्।अस्तमला-अज्ञानविपर्यासरहिता॥२७-३०॥

 

विष्णोःसकाशादुद्भूतंजगत्तत्रैवचस्थितम्।स्थितिसंयमकर्ताऽसौजगतोऽस्यजगच्चसः॥३१॥ [मित्रापुत्रवचोनिशम्यसकलंस्मृत्वाऽऽत्मनस्तद्वरंसत्रंचैवनिवारितंससुमहाभागोभवोत्तारणम्।कृत्वावैष्णवमुत्तमंमुनिवरमैत्रेयमध्यापयत्तत्वार्थप्रतिपादनंप्रवदतांसर्वार्थदंशृण्वताम्॥३२।।]

इतिश्रीविष्णुपुराणेप्रथमेsम्शेप्रथमोsध्यायः॥ 1 ॥

अथभगवान्पराशरोयएवंगुरुप्रसादात्साक्षात्कृतशास्त्रार्थःसोऽहंवदामीतिस्वस्यगुरुत्वाधिकारंसूचयन्प्रश्नेषुजगत्कारणवस्तुविशेषः, तेनचजगतःसंबन्धप्रकारविशेषश्चप्रष्टुःप्राधान्येनजिज्ञासितइतिजानन्प्रधानभूतप्रश्नप्रतिवचनत्वेनसंक्षेपतःपुराणार्थमाह-विष्णोःसकाशादिति।तथाहि-मुमुक्षोःक्षेत्रज्ञस्य, * यतोवाइमानिजायन्ते, * तत्कारणसांख्ययोगाधिगम्यम्* कारणंतुध्येयम् * इत्यादिश्रुतेर्जगत्कारणविशेषोजिज्ञास्यः, तेनसहजगतस्संबन्धप्रकारविशेषश्च।तत्रहिशरीरशरीरिभावपर्यायेनियाम्यनियामकत्वलक्षणेज्ञातेजीवस्यपरस्माद्भेदः *पृथगात्मानंप्रेरितारंचमत्वा;* ज्ञाज्ञौद्वावजावीशनीशौ * नित्योनित्यानाम् *इसत्यादिभ्यःश्रुतिभ्यःश्रूयमाणःस्वरूपतएवेतिनिश्चेतव्यम्।अन्यथातस्यौपाधिकत्वेऽविद्यापरिकल्पितत्वेवातयोर्नियाम्यनियामकभावोनस्यात्।नहिघटाकाशोमहाकाशेननियम्यते।नियमनंहिव्याप्यावस्थानम्।नहिघुटाकाशेमहाकाशस्तिष्ठति।घटेघटाकाशोमहाकाशश्चेत्याकाशद्वथोपलब्धिःस्यात्।अविद्यापरि-.कल्पितस्यननियमनंसंभवति।नस्थाणौपरिकल्पितश्चोरःकेनापिनियम्यते।किंचमेदस्यौपाधिकवेकल्पितत्वेवाब्रह्मविद्ययातत्त्वमसीतिवाक्यार्थज्ञानेनवोपाध्यविध्ययोर्नाशात्तत्कृतमेदोजीवशब्दार्थोनश्येदितिमोक्षस्यापुरुषार्थत्वात्तत्साधनेनकश्चित्प्रवर्त्तेत।जीवस्यानित्यत्वेश्रुतिविरोधश्च।जीवपरयोःसंबन्धेनियाम्यनियन्तृत्वरूपेमोक्षस्यपुरुषार्थतासिद्ध्यति।सहिसंबन्धःशेषशेषित्वात्मा।शेषभूतस्यजीवस्यशेषिणंपरंप्रतिश्रूयमाणासमाहितैवहिस्वरूपानुरूपाकैंङ्कर्यसंपत्तिः, सैवखलुमोक्षस्यकाष्ठा।अत्रजगत्कारणविशेषप्रश्नस्योत्तरंविष्णोःसकाशादिति।सकाशात्, काशः-प्रकाशोज्ञानम्।*सऐक्षतलोकान्नुसृजाइति, * * तदैक्षतबहुस्याम्* इत्याद्युक्तसङ्कल्परूपप्रकाशसहितादित्यर्थः।अथवासंकाशशब्दःस्वरूपवचन:, आचार्यस्यसकाशादित्यादिवत्।यथाबभूव, यथाभविष्यतीत्यनयोरपीदमेवोत्तरम।भगवतःपूर्वसर्गप्रकारक्रमस्मृतिरूपसङ्कल्पेनह्युत्तरोत्तरसर्गप्रवाहः, * धातायथापूर्वमकल्पयत् *इतिश्रुतेः,* यथर्तुष्वृतु– लिङ्गानि *इतिस्मृतेश्च।लीनमासीदित्यादेरुत्तरंतत्रैवचस्थितमिति।उपादानेकार्यस्यसंस्थितिर्हिलयः।स्थितिसंयमकर्तेति।स्थितिरुभयविधा, * येनजातानिजीवन्ति * इत्युक्ताप्राणनलक्षणाअन्तरात्मतयास्थितिरेका; लोकपालसूर्यसोमादिरूपेणबहिःपोषकत्वादिरूपास्थितिरपरा।अग्न्यन्तकादिरूपेणसंहारःसंयमः।तत्रबहिःस्थितिःस्थितिसंयमयो: कर्त्तेत्युक्ता; प्राणनलक्षणास्थितिःजगच्चसःइत्युक्ता।इदमेवयन्मयमित्यस्यजगद्ब्रह्मणोःसंबन्धप्रकारविशेषप्रश्नस्याप्युत्तरम्।यद्वाश्रुतिस्मृत्यादिभिर्नियमनंसंयमः, तत्रैवचस्थितम्, स्थितिसंयमयोःकर्त्तेतिचकारेणखरूपप्रश्नोत्तरमेव॥३१, ३२॥

श्रीरित्यादीति।सर्वपुराणानामादिभूतेब्रह्मकाण्डाख्येमहापुराणउद्धृतायांपाराशर्यसंहितायामितिप्रथमोध्यायइत्यन्वयः॥

इतिश्रीभगवद्रामानुजपदाब्जभृङ्गायमाणश्रीविष्णुचित्तार्यविरचितेविष्णुपुराणव्याख्यानेश्रीविष्णुचित्तीयेप्रथमेअंशेप्रथमोऽध्यायः॥१॥

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.