श्रीविष्णुपुराणम्
अथ अष्टमोऽध्यायः
श्रीपराशरः—
कथितस्तामसस्सर्गो ब्रह्मणस्ते महामुने । रुद्रसर्गं प्रवक्ष्यामि तन्मे निगदतः शृणु ॥ १॥
कल्पादावात्मनस्तुल्यं सुतं प्रध्यायतस्ततः । प्रादुरासीत्प्रभोरङ्के कुमारोनीललोहितः ॥ २ ॥
रुरोद सुखरं सोऽथ प्राद्रवद्द्विजसत्तम । किं रोदिषीति तं ब्रह्मारुदन्तं प्रत्युवाच ह ।। ३ ।।
नित्यप्रलयहेतोरधर्मादेस्तामसस्य प्रसङ्गाद्भृगुसर्गमतिक्रम्य पूर्वोक्तकौमारसर्गान्तर्गतंतामसं रुद्रसर्गं प्रपञ्चयितुं प्रस्तौति कथित इति ॥१-३॥
नाम देहीतितं सोऽथ प्रत्युवाच प्रजापतिः । रुद्रस्त्वं देव नाम्नाऽसि मारोदीर्धैर्यमावह ॥
एवमुक्तः पुनः सोऽथ सप्तकृत्वो रुरोद वै ॥ ४॥
नामेति ॥ रोदनद्रवणाभ्यां रुद्रनामनिरुक्तिः। *रोदनाद्द्रवणाच्चैव रुद्रनाम्नाऽभिविश्रुतः* इतिवायूक्तेः ॥४॥
ततोऽन्यानि ददौ तस्मै सप्त नामानि वै प्रभुः । स्थानानि चैषामष्टानांपत्नीः पुत्रांश्च स प्रभुः॥ ५॥
भवं शर्वमथेशानं तथा पशुपतिं द्विज । भीममुग्रं महादेवमुवाच स पितामहः ॥ ६ ॥
तत इति ॥ नामानि-रुद्रभवादीनि, पत्नी:-सुवर्चलादिकाः ॥ ५, ६ ॥
चक्रे नामान्यथैतानि स्थानान्येषां चकार सः । सूर्यों जलं महीवह्निर्वायुराकाशमेव च ॥
दीक्षितो ब्राह्मणः सोम इत्येतास्तनवः क्रमात् ॥ ७ ॥
सुवर्चला तथैवोषा सुकेशीचापरा शिवा । स्वाहा दिशस्तथा दीक्षा रोहिणी च यथाक्रमम् ॥८॥
चक्रेनामानीति ॥ अत्र वह्निर्वायुरिति पाठक्रमो नविवक्षितः, अग्नेर्देवतापत्नीपुत्राणां पशुपतिस्वाहास्कन्दानां पञ्चमस्थाने वक्ष्यमाणत्वात्॥ ७, ८ ॥
सूर्यादीनांद्विजश्रेष्ठ रुद्राद्यैर्नामभिः सह । पत्न्यस्स्मृता महाभाग तदपत्यानि मे शृणु ॥९॥
सूर्यादीनामिति।। सुर्यादीनां–रुद्रमूर्तीनाम् ॥९ ॥
एषां सूतिप्रसूतिभ्यामिदमापूरितं जगत् ॥ १० ॥
शनैश्चरस्तथा शुक्रो लोहिताङ्गो मनोजवः । स्कन्दः सर्गोऽथ सन्तानो बुधश्चानुक्रमात्सुताः ॥११॥
एषामिति॥ सुतिप्रसूतिभ्याम्-मृतिः-पुत्रादिः, प्रसूति:-पौत्रादिः ॥१०, ११॥
एवंप्रकारो रुद्रोऽसौ सतीं भार्यामनिन्दिताम्। उपयेमे दुहितरं दक्षस्यैव प्रजापतेः ॥ १२॥
दक्षकोपाच्चतत्याजसा सतीस्वकलेवरम् । हिमवद्दुहिता साऽभून्मेनायां द्विजसत्तम ॥ १३ ॥
उपयेमे पुनश्चोमामनन्यां भगवान्हरः ॥ १४ ॥
देवौ धातृविधातारौ भृगोः ख्यातिरसूयत । श्रियं च देवदेवस्य पत्नी नारायणस्य या ॥ १५ ॥
एवमिति ॥ सतीं — सतीनाम्नीम् ॥ १२-१५ ॥
मैत्रेयः—-
क्षीराब्धौ श्रीस्समुत्पन्ना श्रूयतेऽमृतमन्थने । भृगोः ख्यात्यां समुत्पन्नेत्येतदाहकथं भवान् ॥१६॥
मैत्रेयश्चोदयति -क्षीराब्धाविति ॥ १६ ॥
श्रीपराशरः—
नित्यैवैषा जगन्माता विष्णोश्रीरनपायिनी । यथा सर्वगतो विष्णुस्तथैवेयं द्विजोत्तम ॥ १७ ॥
परिहरति–नित्येति ॥ विष्णो:-जगत्पितुर्विष्णोरनपायिन्येषा जगन्मातृत्वेन तद्वन्नित्या । तस्याश्चविष्णोरिवाविर्भावतिरोभावौस्तः । सा पूर्वं भृगो:सुतात्वेनाविर्भूता, पश्चादिन्द्रस्य दुर्वाससश्शापात्तिरोभूत्वाऽमृतमथने प्रादुर्भता । अतोन विरोधः। यथेति । सर्वगतो विष्णुः यथा-यत्स्वभावः, इयमपि तथा – तत्स्वभावेति, विष्णोः सर्वगतत्वसत्यज्ञानादिस्वरूपकल्याणगुणादीनामतिदेशः । अथवा भगवान्विभुत्वेन सर्वगतः; अस्यास्तच्छक्ति– -वशादणुत्वेऽपि तत्रतत्र संधानात्सर्वसगत्वमुक्तम् । इयं च सर्वगता ॥ १७ ॥
अर्थों विष्णुरियं वाणी नीतिरेषा नयो हरिः । बोधो विष्णुरियं बुद्धिधर्मोऽसौ सत्क्रिया त्वियम् ॥१८॥
तयोः सर्वात्मकत्वमनपायित्वं चोपपादयति-अर्थ इति ॥ अर्थः-शब्दवाच्यः; नीतिः-न्यायशास्त्रम्।नयो-न्यायः। बुद्धिः-अध्यवसायात्मकमन्तःकरणम्, तत्कार्यो निश्चयो बोधः । सत्क्रिया-यागादिः। धर्म:तदुत्पाद्यमदृष्टम् ॥ १८ ॥
स्रष्टा विष्णुरियं सृष्टिः श्रीभूमिर्भूधरो हरिः । सन्तोषो भगवाल्लँक्ष्मीस्तुष्टिमैत्रेय शाश्वती ॥ १९ ॥
स्रष्टेति॥ अलंबुद्धिस्तुष्टिः । तदभिव्यक्तं सुखं सन्तोषः; शाश्वतीति लक्ष्म्या विशेषणम् ॥ १९॥
इच्छा श्रीभगवान्कामो यज्ञोऽसौ दक्षिणा त्वियम् । आज्याहुतिरसौ देवी पुरोडाशो जनार्दनः॥ २०॥
इच्छेति ॥ इच्छा–अपेक्षा; तज्जन्योऽभिनिवेशः कामः ॥ २०॥
पत्नीशाला मुने लक्ष्मीः प्राग्वंशो मधुसूदनः । चितिर्लक्ष्मीर्हरिर्यूप इध्मा श्रीर्भगवान्कुशः ॥ २१ ॥
पत्नीशालेति ॥ इध्मा–समित्। आर्षत्वात् टाप् ॥ २१ ॥
सामस्वरूपी भगवानुद्गीतिः कमलालया।स्वाहा लक्ष्मीर्जगन्नाथो वासुदेवो हुताशनः ॥ २२॥
शंकरोभगवाञ्छौरिर्गौरी लक्ष्मीर्द्विजोत्तम । मैत्रेय केशवः सूर्यस्तत्प्रभा कमलालया ।। २३।।
विष्णुः पितृगणः पद्मा स्वधा शाश्वतपुष्टिदा। द्यौः श्रीःसर्वात्मको विष्णुरवकाशोतिविस्तरः ॥ २४॥
सामस्वरूपीति ।। सगानोमन्त्र: साम, तद्गानविशेष उद्गीतिः ॥ २२–२४ ॥
शशाङ्कश्श्रीधरः कान्तिः श्रीस्तथैवानपायिनी । धृतिर्लक्ष्मीर्जगच्चेष्टा वायुस्सर्वत्रगो हरिः ॥ २५॥
जलधिर्द्विज गोविन्दस्तद्वेला श्रीर्महामुने । लक्ष्मीस्वरूपमिन्द्राणी देवेन्द्रो मधुसूदनः ॥ २६ ॥
शशाङ्क इति ॥ वायुः–जगत्प्राणः, धृतिः-धारणं, जगच्चेष्टा च प्रवहादिप्राणादिरूपवायुकृत्यम्,॥२५,२६॥
यमश्चक्रधरस्साक्षाद्रुमोर्ण कमलालया । ऋद्धिः श्रीः श्रीधरो देवः स्वयमेव धनेश्वरः ॥ २७॥
यम इति ॥ यमस्यपत्नी धूमोर्णा।ऋद्धिः कुबेरस्य ॥ २७ ॥
गौरी लक्ष्मीर्महाभाग केशवो वरुणः स्वयम् । श्रीर्देवसेना विप्रेन्द्र देवसेनापतिर्हरिः ॥ २८ ॥
गौरीति ॥गौरी-वरुणस्यपत्नी ।देवसेना-स्कन्दभार्या ॥ २८ ॥
अवष्टम्भो गदापाणिः शक्तिर्लक्ष्मीर्द्विजोत्तम । काष्ठा लक्ष्मीर्निमेषोऽसौ मुहूर्तोऽसौ कला त्वियम्॥२९॥
अवष्टभ इति ॥ अवष्टंभ:-आधारो बलंवा ॥ २९ ॥
ज्योत्स्ना लक्ष्मीः प्रदीपोऽसौ सर्वस्सर्वेश्वरो हरिः । लताभूता जगन्माताश्रीर्विष्णुर्द्रुमसंज्ञितः॥ ३० ॥
विभावरी श्रीर्देवोऽसौ देवश्चक्रगदाधरः । वरप्रदो वरोविष्णुर्वधूः पद्मवनालया ॥ ३१ ॥
नदस्वरूपीभगवाञ्छ्रीर्नंदीरूपसंस्थिता । ध्वजश्च पुण्डरीकाक्षः पताका कमलालया ॥ ३२ ॥
ज्योत्स्नेति॥ ज्योत्स्ना-प्रभा ॥ ३०-३२ ॥
तृष्णा लक्ष्मीर्जगन्नाथोलोभो नारायणः परः । रती रागश्च मैत्रेय लक्ष्मीर्गोविन्द एव च ॥ ३३ ॥
किं चात्र बहुनोक्तेनसंक्षेपेणेदमुच्यते ॥ ३४ ॥
तृष्णेति ॥देयस्यादित्सा निषिद्धलिप्सा च लोभः । लब्धेऽपर्याप्तधीस्तृष्णा। रतिः-प्रियसंगमजा ।तत्कालप्रीतिः; तत्प्रकर्षों राग: ॥ ३३, ३४ ॥
देवतिर्यङ्मनु(ष्येषु)ष्यादौ पुन्नामा भगवान्हरिः । स्त्रीनाम्नी श्रीश्च विज्ञेया नानयोर्विद्यते परम्॥३५॥
इति श्रीविष्णुपुराणे प्रथमेंशेअष्टमोऽध्यायः ॥ ८॥
देवेति ॥ अनयोः-आभ्यां परम्-अन्यत् । सर्वस्योभयात्मकत्वेऽपि तत्रतत्राभिमुख्यातिशयविशेषात् अर्थवाण्यादीनां तदात्मकत्वमुक्तम् ॥ ३५॥
इति श्रीभगवद्रामानुजपदान्तरंगश्रीविष्णुचित्तविरचिते श्रीविष्णुपुराणव्याख्याने श्रीविष्णुचित्तीये प्रधमेंशेऽष्टमोऽध्यायः ॥ ८ ॥