श्रीविष्णुपुराणम्
अथ नवमोऽध्यायः ।
श्रीपराशरः—
इदं च शृणु मैत्रेय यत्पृष्टोऽहमिह त्वया । श्रीसंबन्धं मयाऽप्येतच्छ्रुतमासीन्मरीचितः ॥ १ ॥
मरीचिः-काश्यपपिता ॥१ ॥
दुर्वासाश्शङ्करस्यांशश्चचारपृथिवीमिमाम् । स ददर्श स्रजं दिव्यामृषिर्विद्याधरीकरे ॥ २ ॥
संन्तानकानामखिलं यस्या गंन्धेन वासितम्। अतिसेव्यमभूद्ब्रह्मन् तद्वनं वनचारिणाम् ॥ ३॥
दुर्वासा इति ॥ शंकरस्यांशइतिवक्ष्यमाणाक्षान्त्यादेहेतुनिर्देशः ॥ २, ३ ॥
उन्मत्तव्रतधुग्विप्रस्तां दृष्ट्वा शोभनां स्रजम् । तां ययाचे वरारोहां विद्याधरवधूं ततः ॥ ४ ॥
याचिता तेन तन्वङ्गी मालांविद्याधराङ्गना । ददौ तस्मै विशालाक्षी सादरं प्रणिपत्य तम् ॥ ५ ॥
तामादायात्मनो मूर्ध्नि स्रजमुन्मत्तरूपधृक् । कृत्वा स विप्रो मैत्रेय परिबभ्राम मेदिनीम् ॥ ६ ॥
स ददर्श समायान्तमुन्मत्तैरावते स्थितम् । त्रैलोक्याधिपतिं देवं सहदेवैश्शचीपतिम् ॥ ७ ॥
तामात्मनः स शिरसः स्रजमुन्मत्तषट्पदाम् । आदायामरराजाय चिक्षेपोन्मत्तवन्मुनिः ॥८॥
गृहीत्वाऽमरराजेन स्रगैरावतमूर्द्धनि । न्यस्ता रराज कैलासशिखरे जाह्नवी यथा ॥९॥
उन्मत्तेति ।। उन्मत्तव्रतधृक् । योगिनोहि जडोन्मत्तपिशाचवद्वर्तन्ते। अथवा सनत्कुमारशापादुन्मत्त –त्तधृक् ॥४-९॥
मदान्धकारिताक्षोऽसौ (गन्धाकृष्टेन) गन्धोत्कृष्टेन वारणः ।
करेणाघ्राय चिक्षेप तां स्रजं धरणीतले ॥१०॥
ततश्चुक्रोध भगवान्दुर्वासा मुनिसत्तमः । मैत्रेय देवराजानं क्रुद्धचैतदुवाच ह ॥ ११ ॥
मदान्धेति।। गन्धाकृष्टेनेति पाठान्तरम् ।करिणां करस्य गन्धाकृष्टत्वं तस्यैव नासात्वात् ॥१०, ११॥
दुर्वासा उवाच ।
ऐश्वर्यमददुष्टात्मन्नतिस्तब्धोऽसि वासव । श्रिया धाम स्रजं यस्त्वं मद्दत्तां नाभिनन्दसि ॥१२॥
ऐश्वर्येति ॥ स्तब्ध:–अविनयोद्धतः । अत्र हेतुः श्रियेति । श्रियो धामेति वा पाठः ॥ १२ ॥
प्रसाद इति नोक्तंते प्रणिपातपुरस्सरम् । हर्षोत्फुल्लकपोलेन न चापि शिरसा धृता ॥ १३ ॥
मया दत्तामिमां मालां यस्मान्न बहु मन्यसे । त्रैलोक्यश्रीरतो मूढ विनाशमुपयास्यति॥ १४ ॥
मां मन्यतेऽन्यैस्सदृशं नूनं शक्र भवान् द्विजैः । अतोऽवमानमस्मासु मानिना भवता कृतम् ॥ १५ ॥
प्रसाद इति। ते-त्वया ।। १३-१५ ॥
मद्दत्ता भवता यस्माक्षिप्त माला महीतले । तस्मात्प्रनष्टलक्ष्मीकं त्रैलोक्यं ते भविष्यति ॥ १६ ॥
यस्य संजातकोपस्यभयमेति चराचरम् । तं त्वं मामतिगर्वेण देवराजावमन्यसे ॥ १७ ॥
मद्दत्तेति ।। प्रनष्टलक्ष्मीकं-तिरोहितलक्ष्मीकम् । अत्र प्रनष्टशब्दस्य तिरोहितत्वमर्थः ॥ १६, १७ ॥
श्रीपराशरः–
महेन्द्रो वारणस्कंधादवतीर्य त्वरान्वितः । प्रसादयामास तदा दुर्वाससमकल्मषम् ॥ १८ ॥
प्रसाद्यमानस्स तदा प्रणिपातपुरस्सरम् । प्रत्युवाच सहस्राक्षं दुर्वासा मुनिसत्तमः ॥ १९ ॥
महेन्द्र इति । अकल्मषं –सापराधशापे दोषाभावात् ॥ १८, १९ ॥
दुर्वासा उवाच
नाहं कृपालुहृदयो न च मां भजते क्षमा । अन्ये ते मुनयश्शक्र दुर्वाससमवेहि माम् ॥ २० ॥
नाहमिति। अन्ये ते मुनयः, ये क्षमावन्तः॥ २० ॥
गौतमादिभिरन्यैस्त्वं गर्वमारोपितो मुधा । अक्षान्तिसारसर्वस्वं दुर्वाससमवेहि माम् ॥ २१ ॥
वसिष्ठाद्यैर्दयासारैः स्तोत्रं कुर्वद्भिरुच्चकैः । गर्वं गतोऽसि येनैवं मामप्यद्यावमन्यसे॥ २२ ॥
ज्वलज्जटाकलापस्य भ्रुकुटीकुटिलं मुखम्।निरीक्ष्य कस्त्रिभुवने मम यो न गतो भयम् ॥ २३ ॥
गौतमादिभिरिति ।गौतमो हिअहल्याधर्षकंत्वां सर्वाङ्गभगो भवेति शप्त्वा पुनस्त्वत्प्रसादितः सङ्गिनेत्रचक्रे। अक्षान्तिसारसर्वस्वम्-नैवं कारुणिकोऽहमिति भावः ॥ २१-२३ ।।
नाहं क्षमिष्ये बहुना किमुक्तेन शतक्रतो । विडंबनामिमांभूयः करोष्यनुनयात्मिकाम् ॥ २४ ॥
श्रीपराशर:
इत्युक्त्वा प्रययौ विप्रो देवराजोऽपि तं पुनः । आरुह्यैरावतंनागं प्रययावमरावतीम् ।। २५ ॥
नाहमिति|| विडम्बना-अवमानः ॥ २४, २५ ॥
ततः प्रभृति निश्श्रीकं सशक्रं भुवनत्रयम् । मैत्रेयासीदपध्वस्तं संक्षीणौषधिवीरुधम् ॥ २६ ॥
न यज्ञास्संप्रवर्तन्ते न तपस्यन्ति तापसाः । न च दानादिधर्मेषु, मनश्चक्रेतदा जनः ॥ २७ ॥
निस्सत्त्वास्सकला लोका लोभाद्युपहतेन्द्रियाः । स्वल्पेऽपि हि बभूवुस्ते साभिलाषा द्विजोत्तम ॥२८॥
तत इति ॥निश्श्रीकत्वं–भोग्यवस्त्वभाव एव । एवम् औषध्यादिभोग्याभावंतत्साधनयज्ञसत्वाद्यभावं, चाह-संक्षीणेत्यादिना ॥ २६–२८ ॥
यतः सत्त्वंततो लक्ष्मीः सत्त्वं भूत्यनुसारि च । निश्श्रीकाणां कुतः सत्त्वं विना तेन गुणाः कुतः ॥ २९ ॥
बलशौर्याद्यभावश्च पुरुषाणां गुणैर्विना । लङ्घनीयः समस्तस्य बलशौर्यविवर्जितः ॥ ३० ॥
यत इति ॥ सत्त्वं-धैर्यम्, सत्त्वगुणो वा । भूतिर्लक्ष्मीः । सत्त्वभूयोरितरेतरहेतुत्वम् । गुणाः—सत्यशौचशीलाद्याः॥२९, ३० ॥
भवत्यपध्वस्तमतिर्लंधितःप्रथितः पुमान् । एवमत्यन्तनिश्श्रीके त्रैलोक्ये सत्त्ववर्जिते ॥ ३१ ॥
देवान् प्रति बलोद्योगं चक्रुर्दैतेयदानवाः ।। ३२ ॥
लोभाभिभूता निःश्रीका दैत्याः सत्वविवर्जिताः । श्रिया विहीनैर्निस्सत्वैर्देवैश्चक्रुस्ततो रणम् ॥ ३३ ॥
भवतीति ॥ प्रथित:-प्रसिद्धः पुमान् लङ्घित:-अवज्ञातः पुमान् अपध्वस्तमतिर्भवति ॥ ३१-३३ ॥
विजितास्त्रिदशा दैत्यैरिन्द्राद्याश्शरणं ययुः । पितामहं महाभागं हुताशनपुरोगमाः ॥ ३४॥
यथावत्कथितो देवैर्ब्रह्मा प्राहततः सुरान् । परावरेशं शरणं व्रजध्वमसुरार्दनम् ॥ ३५ ॥
विजिता इति।। निश्श्रीकत्वादिदोषसाम्येऽपि गुणित्वप्रकृतिप्रच्युता देवा निर्गुणत्वप्रकृतिस्थितैर्दैत्यैर्निर्जिताः॥३४, ३५॥
उत्पत्तिस्थितिनाशानामहेतुं हेतुमीश्वरम् । प्रजापतिपतिं विष्णुमनन्तमपराजितम् ॥ ३६ ॥
उत्पत्तीति । अहेतु-स्वयंहेतुरहितम् * न चास्य कश्चिज्जनिता * इत्यादिश्रुतेः । हेतुंसर्वस्योत्पत्त्यादेः ॥ ३६ ॥
प्रधानपुंसोरजयोः कारणं कार्यभूतयोः । प्रणतार्तिहरंविष्णुं स वः श्रेयो विधास्यति ॥३७॥
प्रधानेति ।। अजयोरपि कार्यत्वं विकार्यत्वात् स्वरूपस्वभावान्यथाभावेन च ॥ ३७॥
श्रीपराशरः –
एवमुक्त्वासुरान्सर्वान् ब्रह्मा लोकपितामहः । क्षीरोदस्योत्तरं तीरं तैरेव सहितोययौ ॥ ३८ ॥
स गत्वा त्रिदशैस्सर्वैः समवेतः पितामहः । तुष्टाव वाग्भिरिष्टाभिः परावरपति हरिम् ॥ ३९ ॥
एवमिति ॥ उत्तरं तीरम्-उत्तरं कूलं शाकद्वीपाश्रितम् ॥ ३८, ३९ ॥
ब्रह्मोवाच—
नमामि सर्वं सर्वेशमनन्तमजमव्ययम् । लोकधाम धराधारमप्रकाशमभेदिनम् ॥ ४० ॥
नमामीति । अव्ययम्-अपक्षयादिविकाररहितम् । अमेदिनं-भेदानर्हम् ॥ ४० ॥
नारायणमणीयांसमशेषाणामणीयसाम् । समस्तानां गरिष्ठं च भूरादीनां गरीयसाम् ॥ ४१ ॥
पत्र सर्वं यतस्सर्वमुत्पन्नं मत्पुरस्सरम् । सर्वभूतश्च यो देवः पराणामपि यः परः ॥ ४२ ॥
नारायणमिति ।। अणीयसाम्-आत्मनाम् ॥ ४१, ४२ ॥
परः परस्तात्पुरुषात्परमात्मस्वरूपधृक् । योगिभिश्चिन्त्यते योऽसौ मुक्तिहेतोर्मुमुक्षुभिः ॥ ४३ ॥
पर इति । परस्मात्-मुक्तात् ॥ ४३॥
तत्त्वादयो न सन्तीशे यत्र च प्राकृता गुणाः । सशुद्धस्सर्वशुध्देभ्यः पुमानाद्यः प्रसीदतु ॥ ४४ ॥
सत्त्वादय इति । अतः सर्वभूतेभ्यः शुद्ध:॥ ४४ ॥
कलाकाष्ठामुहूर्तादिकालसूत्रस्य गोचरे । यस्य शक्तिर्न शुद्रस्य प्रसीदतु स नो हरिः ॥ ४५ ॥
कलेति ॥ शक्तिः-लक्ष्मीः ।विग्रहपरिजनपरिच्छदादिर्विभूतिः । * कलामुहूर्तादिमयश्च कालो नद्विभूतेः परिणामहेतुः * इत्यादे: ॥ ४५ ॥
प्रोच्यते परमेशोऽजो यश्शुद्धोऽप्युपचारतः । प्रसीदतु स नो विष्णुरात्मा यस्सर्वदेहिनाम् ॥ ४६ ॥
प्रोच्यत इति॥ उपचारतः । शुद्ध:-मुक्तः, पूर्वमविद्यान्तर्गतत्वेन शुध्द्यभावात् यः शुद्धोऽप्युपचारत इत्यन्वयः। अत्र हेतुः आत्मा यस्सर्वदेहिनामिति ॥ ४६॥
यः कारणं च कार्यं च कारणस्यापि कारणम् । कार्यस्यापि च यः कार्य प्रसीदतु स नो हरिः ॥ ४७॥
य इति ॥ कारणमिति । कारणं-प्रकृतिः महत: कारणत्वात्, कार्य-महान् । कारणस्य-प्रकृतेरपिकारणं ब्रह्म । कार्यस्य-महत:कार्यमहङ्कारः॥ ४७॥
कार्यकार्यस्य यत्कार्यं तत्कार्यस्यापि यः स्वयम् । तत्कार्यकार्यभूतो यस्ततश्च प्रणतास्स्म तम् ॥ ४८ ॥
कार्यकार्यस्येति । कार्यकार्यस्य—कार्यभूतमहत्कार्यस्य अहंकारस्य कार्यंतन्मात्रापञ्चकं, तस्यापि कार्यं भूतपञ्चकं तत्कार्यस्याण्डस्य कार्यं चतुर्मुखः, ततश्च कार्यमित्यनुषङ्गः; तत्कार्यंजगत्; तत्सर्वं यः स्वयमेव, तंप्रणतास्स्मेत्यन्वयः ॥ ४८ ॥
कारणं कारणस्यापितस्य कारणकारणम् । तत्कारणानां हेतुं तं प्रणतास्स्म सुरेश्वरम् ॥ ४९ ॥
कारणमिति ॥ कारणस्य-जगत्कारणस्य चतुर्मुखस्य, कारणमण्डं, तस्य कारणं भूतपञ्चकं, तत्कारणं तन्मात्रापञ्चकं, तत्कारणानाम्-अहंकारमहत्प्रकृतीनां हेतुं-कारणम् । कारणावस्थं कार्यावस्थं च सर्वं (ख) त्वमेवेत्यर्थः॥ ४९ ॥
भोक्तारं भोज्यभूतं च स्रष्टार सृज्यमेव च । कार्यकर्तृवरूपं तं प्रणतास्स्म परं पदम् ॥ ५० ॥
विशुद्धबोधवन्नित्यमजमक्षयमव्ययम् । अव्यक्तमविकारं यत्तद्विष्णोः परमं पदम् ॥ ५१ ॥
न स्थूलं न च सूक्ष्मं यन्न विशेषणगोचरम् । तत्पदं परमं विष्णोः प्रणमाम सदाऽमलम् ॥ ५२ ॥
भोक्तारमिति ॥ भोज्यं-भोग्यं शब्दादि, सुज्यं-घटादि, कार्यं-यागादि गत्यादि च। परंपदंपरमं प्राप्यस्थानम् ॥५०-५२॥
यस्यायुतायुतांशांशे विश्वशक्तिरियं स्थिता । परब्रह्मस्वरूपस्य प्रणमामस्तमव्ययम् ॥ ५३ ॥
यस्येति ॥ अयुतांशो यः, तस्यायुतांशो यः, तस्यांशे स्थिता मेरोरिवाणुः; पादोऽस्येत्यादिः विश्वशक्तिः जगन्मयी ॥५३॥
यद्योगिनः सदोद्युक्ताः पुण्यपापक्षयेऽक्षयम् । पश्यन्ति प्रणवे चिन्त्यं तद्विष्णोः परमं पदम् ॥ ५४॥
यन्न देवा न मुनयो न चाहं न च शङ्करः । जानन्ति परमेशस्य तद्विष्णोः परमं पदम् ॥ ५५ ॥
यदिति ॥ अक्षयमितिपदच्छेदः॥ ५४, ५५॥
शक्तयो यस्य देवस्य ब्रह्मविष्णुशिवात्मिकाः । भवन्त्यभूतपूर्वस्य तद्विष्णोः परमं पदम् ।। ५६ ॥
सर्वेश सर्वभूतात्मन्सर्वं सर्वाश्रयाच्युत । प्रसीदविष्णो भक्तानांव्रज नोदृष्टिगोचरम् ॥५७॥
श्रीपराशरः—
इत्युदीरितमाकर्ण्यं ब्रह्मणस्त्रिदशास्ततः । प्रणम्योचुः प्रसीदेति वज नो दृष्टिगोचरम् ॥ ५८ ॥
यन्नायं भगवान् ब्रह्मा जानाति परमं पदम् । तन्नतास्स्म जगद्धाम तव सर्वगताच्युत ॥ ५९ ॥
इत्यन्ते वचसस्तेषां देवानां ब्रह्मणस्तथा । ऊचुर्देवर्षयस्सर्वे बृहस्पतिपुरोगमाः ॥ ६० ॥
देवर्षय ऊचुः—
आद्यो यज्ञपुमानीड्यः पूर्वेषां यश्च पूर्वजः । तं नतास्स्म जगत्स्रष्टुः स्रष्टारमविशेषणम् ॥ ६१ ॥
भगवन्भूतभव्येश यज्ञमूर्त्तिधराव्यय। प्रसीद प्रणतानां त्वं सर्वेषां देहि दर्शनम् ॥ ६२ ॥
एष ब्रह्मा सहास्माभिः सह रुद्रैस्त्रिलोचनः । सर्वादित्यैः समं पूषा पावकोऽयं सहाग्निभिः ॥ ६३॥
अश्विनौवसवश्चेमे सर्वे चैते मरुद्गणाः । साध्या विश्वे तथा देवा देवेन्द्रश्चायमीश्वरः ॥ ६४ ॥
प्रणामप्रवणा नाथ दैत्यसैन्यैः पराजिताः । शरणं त्वामनुप्राप्ताः समस्ता देवतागणाः ॥ ६५॥
श्रीपराशरैः—
एवं संस्तूयमानस्तु भगवान् शङ्खचक्रधृक् । जगाम दर्शनं तेषां मैत्रेय परमेश्वरः ॥६६ ॥
अभूतपूर्वस्य-न भूतं पूर्वं यस्मात् तस्य;स हि सर्वस्मात्पूर्वः। भूतपूर्वस्येति पाठे भूतानां पूर्व इति ॥ ५६-६६ ॥
तंदृष्ट्वा ते तदा देवाः शंखचक्रगदाधरम् । अपूर्वरूयसंस्थानं तेजसां राशिमूर्जितम् ॥ ६७ ॥
तमिति । अपूर्वरूपसंस्थानं -समस्तलोकविलक्षणवर्णाङ्गसन्निवेशम् ॥ ६७ ॥
प्रणम्य प्रणताः पूर्वंसंतोषस्तिमितेक्षणाः । तुष्टुवुः पुण्डरीकाक्षं पितामहपुरोगमाः ॥ ६८ ॥
प्रणम्येति ॥ प्रणग्य प्रणताः-पूर्व प्रणवा पे भक्त्या पुनः प्रणम्य ॥ ६८ ॥
देवा ऊचुः-
नमोनमो विशेषस्त्वं त्वं ब्रह्मा त्वं पिनाकधृक्। इन्द्रस्त्वमग्निः पवनो वरुणस्सविता यमः ॥६९ ॥
वसवो मरुतस्साध्या विश्वेदेवगणा भवान् । योऽयं तवाग्रतो देव समस्तो देवतागणः ।
स त्वमेव जगत्स्रष्टा यतस्सर्वगतो भवान् ।।७० ।।
त्वं यज्ञस्त्वं वषट्कारस्त्वमोङ्कारः प्रजापतिः । विद्या वेद्यं च सर्वात्मंस्त्वन्मयं चाखिलं जगत् ॥ ७१ ॥
त्वामार्ताश्शरणं विष्णो प्रयाता दैत्यनिर्जिताः । वयं प्रसीद सर्वात्मंस्तेजसाऽऽध्याययस्व नः ॥ ७२ ॥
तावदार्तिस्तथा वाञ्छा तावन्मोहस्तथाऽसुखम् । यावन्न याति शरणं त्वामशेषाघनाशनम् ॥७३॥
त्वं प्रसादं प्रसन्नात्मन् प्रपन्नानां कुरुष्व नः । तेजमां नाथ सर्वेषां वशक्त्याप्यायनं कुरु ॥ ७४ ॥
श्रीपरशरः–
एवं संस्तूयमानस्तु प्रणतैरमरैर्हरिः।प्रसन्नदृष्टिभगवानिदमाह स विश्वकृत् ।। ७५ ।।
तेजसो भवतां देवाः करिष्याम्युपबृह्मणम् । वदाम्यहं यत्क्रियतां भवद्भिस्तदिदं सुराः ॥ ७६ ॥
नमोनम इति । अविशेष:-सर्वसमः ॥ ६९-७६ ।।
अनीय सहिता दैत्यैः क्षीराब्धौ सकलौषधीः।मंथानं मन्दरं कृत्वा योक्त्रं कृत्वा चवासुकिम् ॥७७॥
आनीयेति ॥ ओषधीनांविचित्रशक्तिकत्वाद्विचित्रवस्तूत्पत्त्यर्थमानयनम् ॥ ७७ ॥
मथ्यताममृतं देवाः सहाये मय्यवस्थिते ॥ ७८ ॥
सामपूर्वं च दैतेयास्तत्र सामान्यकर्मणि । सामान्यफलभोक्तारो यूयंवाच्या भविष्यथ ॥ ७९ ॥
मध्यमाने च तत्राब्धौ यत्समुत्पत्स्यतेऽमृतम् । तत्पानाद्भलिनो यूयममराश्च भविष्यथ ॥ ८०॥
तथा चाहं करिष्यामि ते यथा त्रिदशद्विषः । न प्राप्स्यन्त्यमृतं देवाः केवलं कैशभागिनः ॥ ८१॥
श्रीपराशर: –
इत्युक्ता देवदेवेन सर्व एव ततस्सुराः । सन्धानमसुरैः कृत्वा यत्नवन्तोऽमृतेऽभवन् ॥ ८२॥
नानौषधीःसमानीय देवदैतेयदानवाः । क्षिप्त्वा क्षीराब्धिपयसि शरदभ्रामलत्विषि ॥.८३॥
मंथानं मंदरे कृत्वा योक्त्रं कृत्वा च वासुकिम् ।ततोमथितुमारब्धामैत्रेय तरसाऽमृतम् ॥ ८४ ॥
विबुधासहितास्सर्वे यतः पुच्छं ततःकृताः । कृष्णेन वासुकेर्दैत्याः पूर्वकाये निवेशिताः॥ ८५ ॥
मध्यतामिति ।। अमृतं मध्यतां-मथनेनामृतमुत्पाद्यताम्॥ ७८-८५ ॥
ते तस्य मुखनिश्वासवह्निनाऽपहतत्विषः ।निस्तेजसोऽसुरास्सर्वे बभूवुरमितौजसः ॥ ८६ ॥
ते इति ॥ अमितौजसस्तस्येत्यन्वयः ॥ ८६ ॥
तेनैव मुखनिश्वासवायुनास्तबलाहकैः । पुच्छप्रदेशे वर्षद्भिस्तथा चाप्यायिताः सुराः ॥ ८७ ॥
क्षीरोदमध्ये भगवान्कूर्मरूपी स्वयं हरिः । म(न्दरा)न्थनाद्रेरधिष्टानंभ्रमतोऽभून्महामुने ॥ ८८ ॥
रूपेणान्येन देवानां मध्ये चक्रगदाधरः । चकर्ष नागराजानंदैत्यमध्येऽपरेण च ॥ ८९ ॥
उपर्याक्रान्तवाञ्शैलं बृहदूपेण केशवः । तथाऽपरेण मैत्रेय यन्न दृष्टं सुरासुरैः ॥ ९० ॥
तेजसा नागराजानं तथाऽऽप्यायितवान्हरिः । अन्येन तेजसा देवानुपबृंहितवान्प्रभुः ॥ ९१॥
तेनैवेति ॥वह्निनाऽस्तं बलाहकैरिति पाठे, पुच्छे वह्निना अस्तं-संक्षीणमित्यर्थः। बलाहकै:-भगवतासृष्टैः॥ ८७-९१॥
मथ्यमाने ततस्तस्मिन्क्षीराब्धौ देवदानवैः । हविर्धामाऽभवत्पूर्वं सुरभिस्सुरपूजिता ।। ९२ ॥
जग्मुर्मुदं तदा देवा दानवाश्च महामुने । व्याक्षिप्तचेतसश्चैव बभूवुस्स्तिमितेक्षणाः ॥ ९३ ॥
किमेतदिति सिद्धानांदिवि चिन्तयतां ततः । बभूव वारुणी देवी मदाघूर्णितलोचना ॥ ९४॥
कृतावर्तात्ततस्तस्मात्क्षीरोदाद्वासयञ्जगत्। गन्धेन पारिजातोभूद्देवस्त्रीनन्दनस्तरुः ॥ ९५ ॥
रूपौदार्यगुणोपेतस्तथा चाप्सरसां गणः । क्षीरोदधेः समुत्पन्नो मैत्रेय परमाद्भुतः ॥ ९६ ॥
मथ्यमान इति ॥ हविर्द्धम-हविष आश्रयः ॥ ९२-९६ ॥
ततः शीतांशुरभवज्जगृहे तंमहेश्वरः। जगृहुश्च विषं नागाः क्षीरोदाब्धिसमुत्थितम् ॥ ९७ ॥
तत इति ॥ आदौभगवन्मनसो जातस्यचन्द्रस्यद्वौदेहौ। तत्रैकोऽब्धिजः शिवशिरोभूषणम्; अन्यस्त्वत्रिनेत्रजो लोकयात्रानियुक्तः । नागाश्चेति चशब्दान्महेश्वरोऽपि विषं जग्राह ॥ ९७ ॥
ततो धन्वन्तरिदेवः श्वेताम्बरधरस्वयम् । बिभ्रत्कमण्डलुं पूर्णममृतस्य समुत्थितः ॥ ९८ ॥
ततस्वस्थमनस्कास्ते सर्वे दैतेयदानवाः । बभूवुर्मुदिताः सद्यो (सर्वे) मैत्रेय मुनिभिस्सह ॥ ९९ ॥
तत इति ॥ अमृतस्य पूर्णमितितृतीयार्थे षष्ठी ॥ ९८, ९९ ॥
ततः स्फुरत्कान्तिमती विकासिकमले स्थिता ।श्रीर्देवीपयसस्तस्मादुद्भूता धृतपङ्कजा ॥ १०० ॥
तां तुष्टुवुर्मुदा युक्ताःश्रीसूक्तेनमहर्षयः ॥ १०१ ॥
विश्वावसुमुखास्तस्यागन्धर्वाः पुरतो जगुः । घृताचीप्रमुखास्तत्र ननृतुश्चाप्सरोगणाः ॥ १०२ ॥
गंगाद्यास्सरितस्तोयैः स्नानार्थमुपतस्थिरे । दिग्गजा हेमपात्रस्थमादाय विमलं जलम् ।
स्नापयांचक्रिरे देवीं सर्वलोकमहेश्वरीम् ॥ १०३ ॥
क्षीरोदो रूपधृत्तस्यै मालामम्लानपङ्कजाम् । ददौ विभूषणान्यङ्गे विश्वकर्मा चकार ह ॥ १०४ ॥
दिव्यमाल्याम्बरधरा स्नाता भूषणभूषिता । पश्यतां सर्वदेवानां ययौ वक्षस्थलं हरेः ॥ १०५ ॥
तया विलोकिता देवा हरिवक्षस्थलस्थया । लक्ष्म्या मैत्रेय सहसा परां निर्वृतिमागताः ॥ १०६ ॥
उद्वेग परमं जग्मुर्दैत्या विष्णुपराङ्मुखाः । त्यक्ता लक्ष्म्या महाभाग विप्रचित्तिपुरोगमाः ॥ १०७ ॥
ततस्ते जगृहुर्दैत्या धन्वन्तरिकरस्थितम् । कमण्डलुंमहावीर्या यत्रास्तेऽमृतमुत्तमम् ॥ १०८ ॥
मायया मोहयित्वा तान्विष्णुः स्त्रीरूपसंस्थितः । दानवेभ्यस्तदादाय देवेभ्यः प्रददौ प्रभुः ॥ १०९ ॥
ततः पपुस्सुरगणाः शक्राद्यास्तत्तदाऽमृतम् । उद्यतायुधनिस्त्रिंशा दैत्यास्तांश्च समभ्ययुः ॥ ११० ॥
पीतेऽमृते च बलिभिर्देवैर्दैत्यचमूस्तदा । वध्यमानादिशोभेजे पातालं च विवेश ह ॥ १११ ॥
ततो देवा मुदा युक्ताः शंखचक्रगदाभृतम् । प्रणिपत्य यथापूर्वमशासंस्तत् त्रिविष्टपम् ॥ ११२ ॥
तत इति।। द्रवरूपमेकं द्रव्यममृतं जातं; अन्यत् सोमात्मकम् ॥ १००-११२ ॥
ततः प्रसन्नभाःसूर्यःप्रययौ स्वेन वर्त्मना । ज्योतींषिचयथामार्गं प्रययुर्मुनिसत्तम ॥ ११३॥
जज्वाल भगवांश्चोच्चैश्चारुदीप्तिर्विभावसुः । धर्मे च सर्वभूतानां तदा मतिरजायत ॥ ११४ ॥
त्रैलोक्यं च श्रिया जुष्टं बभूवद्विजसत्तम । शक्रश्च त्रिदशश्रेष्ठः पुनःश्रीमानजायत ।। ११५ ॥
सिंहासनगतः शक्रस्संप्राप्य त्रिदिवं पुनः । देवराज्ये स्थितो देवीं तुष्टावाब्जकरां ततः ॥ ११६ ॥
इन्द्र उवाच —-
नमामि सर्वलोकानां जननीमब्धिसंभवाम् । श्रियमुन्निद्रपद्माक्षीं विष्णुवक्षस्थलस्थिताम्॥११७॥
पद्मालयां पद्मकरां पद्मपत्रनिभेक्षणाम् । वन्दे पद्ममुखीं देवीं पद्मनाभप्रियामहम् ।। ११८ ॥
त्वं सिद्धिस्त्वं स्वधा स्वाहा सुधा त्वं लोकपावनी ।सन्ध्या रात्रिः प्रभा भूतिर्मेधा श्रद्धा सरस्वती ॥ ११९॥
तत इति|| स्वेन वर्त्मना-अयनादिव्यत्यासं विना । यथामार्गं–वक्रातिचारवर्ज्जम् ॥ ११३-११९ ॥
यज्ञविद्या महाविद्या गुह्यविद्या च शोभने । आत्मविद्या च देवि त्वं विमुक्तिफलदायिनी ॥ १२० ॥
यज्ञेति ॥ यज्ञविधा-धर्ममीमांसा, महाविद्या-इन्द्रजालादिकुहकज्ञानम् । गुह्यविद्या–मन्त्रावादविशेषः ॥ १२०॥
आन्वीक्षिकी त्रयी वार्त्ता दण्डनीतिस्त्वमेव च । सौम्यासौम्यैर्जगद्रूपैस्त्वयैतद्देवि पूरितम् ॥ १२१ ॥
का त्वन्या त्वामृते देवि सर्वयज्ञमयं वपुः। अध्यास्ते देवदेवस्य योगिचिन्त्यं गदाभृतः ॥ १२२ ॥
त्वया देवि परित्यक्तंसकलं भुवनत्रयम् । विनष्टप्रायभवत्त्वयेदानीं समेधितम् ॥ १२३ ॥
दाराः पुत्रास्तथाऽगारसुहद्धान्यधनादिकम् । भवत्येतन्महाभागे नित्यं त्वद्वीक्षणान्नृणाम् ॥ १२४ ॥
शरीरारोग्यमैश्वर्यमरिपक्षक्षयस्सुखम्। देवि त्वद्दृष्टिदृष्टानां पुरुषाणां न दुर्लभम् ॥ १२५ ॥
त्वं माता सर्वलोकानां देवदेवो हरिः पिता । त्वयैतद्विष्णुना चाम्ब जगद्व्याप्तं चराचरम् ॥ १२६ ॥
मा नः कोशं तथागोष्ठं मा गृहं मा परिच्छदम् । मा शरीरं कलत्रं च त्यजेथास्सर्वपावनि ॥ १२७ ॥
मा पुत्रान्मा सुहृद्वर्गं मा पशून्माविभूषणम् । त्यजेथा मम देवस्य विष्णोर्वक्षःस्थलालये ॥ १२८ ॥
सत्वेन शौचसत्याभ्यां तथाशीलादिभिर्गुणैः । त्यज्यन्ते ते नरास्सद्यः संत्यक्ता ये त्वयाऽमले ॥ १२९ ॥
त्वयाऽवलोकितास्सद्यः शीलाचैरखिलैगुणैः । धनैश्वर्यैश्च युज्यन्ते पुरुषानिर्गुणाअपि ॥ १३० ॥
स श्लाघ्यस्स गुणी धन्यः स कुलीनस्स बुद्धिमान् ।स शूरस्स च विक्रान्तो यंत्वं देवि निरीक्षसे ॥ १३१ ॥
सद्यो वैगुण्यमायान्ति शीलाद्यास्सकला गुणाः । पराङ्मुखीजगद्धात्री यस्य त्वं विष्णुवल्लभे ॥ १३२ ॥
न ते वर्णयितुं शक्ता गुणाञ्जिह्वाऽपिवेधसः । प्रसीद देवि पद्माक्षि मास्मांस्त्याक्षीः कदाचन ॥ १३३॥
श्रीपराशर उवाच —
एवं श्रीस्संस्तुता सम्यक् प्राह दृश्या शतक्रतुम्।पश्यतां सर्वदेवानां सर्वभूतस्थिता द्विज ॥ १३४ ॥
श्रीरुवाच—-
परितुष्टाऽस्मि देवेश स्तोत्रेणानेन ते हरे । वरं वृणीष्व यस्त्विष्टोवरदाऽहं तवागता ॥ १३५ ॥
इन्द्र उवाच –
वरदा यदि मे देवि वरार्हो यदि चाप्यहम् । त्रैलोक्यं न त्वया त्याज्यमेष मेऽस्तु वरः परः ॥१३६॥
स्तोत्रेण यस्तथैतेन त्वां स्तोष्यत्यब्धिसंभवे । स त्वया न परित्याज्यो द्वितीयोऽस्तु वरो मम ॥१३७॥
श्रीरुवाच–
त्रैलोक्यं त्रिदशश्रेष्ठ न संत्यक्ष्यामि वासव । दत्तो वरो मयाऽयं ते स्तोत्राराधनतुष्टया ॥ १३८ ॥
यश्च सायं तथा प्रातः स्तोत्रेणानेन मानवः। मां स्तोष्यति न तस्याहं भविष्यामि पराङ्मुखी ॥ १३९ ॥
श्रीपराशरः—
एवं ददौ वरौ देवी देवराजाय वै पुरा । मैत्रेय श्रीर्महाभागा स्तोत्राराधनतोषिता॥ १४० ॥
भृगोः ख्यात्यां समुत्पन्ना श्रीःपूर्वमुदधेः पुनः । देवदानवयत्नेन प्रसूताऽमृतन्थने ॥ १४१॥
आन्वीक्षिकीति ॥ आन्वीक्षिकी तर्कशास्त्रम् । दण्डनीति:-अर्थशास्त्रम्॥ १२१–१४१ ॥
एवं यदा जगत्स्वामी देवदेवो जनार्दनः । अवतारं करोत्येषा तदाश्रीस्तत्सहायिनी ॥ १४२ ।।
पुनश्च (पद्मादुत्पन्ना) पद्मा संभूताऽऽह्यादित्यो आदित्योऽभूद्यदाहरिः ।
यदा च भार्गवो रामस्तदाऽभूद्धरणी त्वियम् ॥ १४३ ॥
राघवत्वेऽभवत्सीता रुक्मिणी कृष्णजन्मनि । अन्येषु चावतारेषु विष्णोरेषाऽनपायिनी ॥ १४४ ॥
देवत्वे देवदेहेयं मनुष्यत्वे च मानुषी । विष्णोदेहानुरूपां वै करोत्येषाऽऽत्मनस्तनुम् ॥ १४५ ॥
यश्चैतच्छृणुयाज्जन्म लक्ष्म्या यश्च पठेन्नरः । श्रियो न विच्युतिस्तस्य गृहे यावत्कुलत्रयम् ॥ १४६ ॥
पठ्यते येषु चैवैषा गृहेषु श्रीकथा मुने। अलक्ष्मीः कलहाधारा न तेष्वाम्ते कदाचन ॥ १४७ ॥
एतत्ते कथितंसर्वं यन्मां त्वं परिपृच्छसि । क्षीराब्धौ श्रीर्यथा जाता पूर्वं भृगुसुता सती ॥ १४८ ॥
इति सकलविभूत्यत्वाप्तिहेतुः स्तुतिरियमिन्द्रमुखोद्गता हि लक्ष्म्याः ।
अनुदिनमिह पठ्यते नृभिर्यैर्वसति न तेषु कदाचिदप्यलक्ष्मीः ॥ ११९ ॥
इति श्रीविष्णुपुराणे प्रथमेंशे नवमोऽध्यायः ॥ ९ ॥
एवमिति ॥ तत्सहायिनी-तेन सह अयते गच्छतीति तत्सहायिनी, तत्सहचारिणीत्यर्थः ॥ १४२-११९ ॥
इति श्रीभगवद्रामानुजपदान्तरंगश्रीविष्णुचित्तविरचिते श्रीविष्णुपुराणव्याख्याने श्रीविष्णुचित्तीयेप्रथमेंशे नवमोऽध्यायः॥ ९ ॥