श्रीविष्णुपुराणम्
अथैकादशोऽध्यायः
श्रीपराशरः—
प्रियव्रतोत्तानपादौ मनोस्वायंभुवस्य तु । द्वौ पुत्रौ सुमहावीर्यों धर्मज्ञौ कथितौ तव॥ १ ॥
तयोरुत्तानपादस्य सुरुच्यामुत्तमस्सुतः । अभीष्टायमभूद्ब्रह्मन्पितुरत्यन्तवल्लभः ॥ २ ॥
सुनीतिर्नाम या राज्ञस्तस्यासीन्महिषी द्विज । स नातिप्रीतिमांस्तस्यामभूद्यस्या ध्रुवस्सुतः ॥ ३॥
राजासनस्थितस्याङ्कं पितुर्भ्रातरमाश्रितम् । दृष्ट्वोत्तमं ध्रुवश्चक्रे तमारोढुं मनोरथम् ॥ ४ ॥
प्रत्यक्षं भूपतिस्तस्याः सुरुच्या नाभ्यनन्दत । प्रणयेनागतं पुत्रमुत्सङ्गारोहणोत्सुकम् ॥ ५ ॥
सपत्नीतनयं दृष्ट्वा तमङ्कारोहणोत्सुकम् । स्वपुत्रं च तथारूढं सुरुचिर्वाक्यमब्रवीत् ॥ ६ ॥
क्रियतेकिंवृथा वत्स महानेष मनोरथः । अन्यस्त्रीगर्भजातेन ह्यसंभूय ममोदरे ॥ ७ ॥
उत्तमोत्तममप्राप्यमविवेकोऽभिवाञ्छसि । सत्यं सुतस्त्वमप्यस्य किं तु न त्वं मया धृतः॥ ८ ॥
मनौर्दौहित्रो वंशःउक्तः । अथ तत्पुत्रान्वयं वक्तुमनुवदति प्रियव्रतेति ॥ १-८ ॥
तद्राजासनं सर्वभूभृत्संश्रयकेतनम् ।योग्यं ममैव पुत्रस्य किमात्मा क्लिश्यतेत्वया ॥ ९ ॥
एतदिति ॥ पूर्वोक्तम्उत्तमत्वमाहसर्वेति ॥ सर्वभूभृदाश्रयकेतनमितिचपाठः ।सर्वभूभृतामाश्रयस्यसार्वभौमस्य केतनं स्थानम् ॥ ९॥
उचैर्मनोरथस्तेऽयं मत्पुत्रस्येव किं वृथा । सुनीत्यामात्मनो जन्म किं त्वया नावगम्यते ॥ १० ॥
श्रीपराशरः –
उत्सृज्य पितरं बालस्तच्छ्रुत्वा मातृभाषितम् । जगाम कुपितो मातुर्निजाया द्विज मन्दिरम् ॥ ११ ॥
तं दृष्ट्वा कुपितंपुत्रमीषत्प्रस्फुरिताधरम् । सुनीतिरङ्कमारोप्य मैत्रेयेदमभाषत ॥ १२ ॥
वत्स कः कोपहेतुस्ते कश्च त्वां नाभिनन्दति । कोऽवजानाति पितरं वत्स यस्तेऽपराध्यति ॥ १३ ॥
श्रीपराशरः –
इत्युक्तस्सकलं मात्रे कथयामास तद्यथा । सुरुचिः प्राह भूपालप्रत्यक्षमतिगर्विता ॥ १४ ॥
उच्चैरिति ॥ उच्चैर्मनोरथ:-उच्चासनाभिलषः ॥ १०-१४ ॥
विनिश्वस्येति कथिते तस्मिन्पुत्रेण दुर्मनाः । श्वासक्षामेक्षणी दीना सुनीतिर्वाक्यमब्रवीत् ॥ १५॥
सुनीति:
सुरुचिस्सत्यमाहेदं मन्दभाग्योऽसि पुत्रक । न हि पुण्यवतां वत्स सपत्नैरेवमुच्यते ॥ १६ ॥
नोद्वेगस्तात कर्तव्यः कृतं यद्भवता पुरा ।तत्कोपहर्तुंशक्नोतिदातुंकश्चाकृतं त्वया ॥ १७ ॥
तत्त्वया नात्र कर्तव्यं दुःखं तद्वाक्यसंभवम् ॥ १८ ॥
राजासनं तथा छत्रं वराश्चावरवारणाः । यस्य पुण्यानि तस्यैते मत्वैतच्छाम्य पुत्रक ॥१९ ॥
अन्यजन्मकृतैः पुण्यैः सुरुच्यां सुरुचिर्नृपः । भार्येति प्रोच्यते चान्या मद्विधा पुण्यवर्जिता ॥ २० ॥
पुण्योपचयसंपन्नस्तस्याः पुत्रस्तथोत्तमः । मम पुत्रस्तथा जातः स्वल्पपुण्यो ध्रुवो भवान् ॥ २१ ॥
तथापि दुःखं न भवान् कर्तुमर्हसि पुत्रक। यस्य यावत्स तेनैव स्वेन तुष्यति बुद्धिमान् ॥ २२॥
यदि ते दुःखमत्यर्थं सुरुच्या वचसाऽभवत् । तत्पुण्योपचये यत्नं कुरु सर्वफलप्रदे ॥ २३ ॥
सुशीलो भव धर्मात्मा मैत्रः प्राणिहिते रतः । निम्नं यथापः प्रवणाः पात्रमायान्ति संपदम् ॥ २४॥
ध्रुव उवाच–
अम्ब यत्त्वमिदं प्रात्थ प्रशमायवचो मम । नैतद्दुर्वचसा भिन्ने हृदये मम तिष्ठति ॥ २५ ॥
सोऽहं तथा यतिष्यामि यथा सर्वोत्तमोत्तमम् । स्थान प्राप्स्याम्यशेषाणां जगतामभिपूजितम् ॥ २६॥
सुरुचिर्दयिता राज्ञस्तस्या जातोऽस्मि नोदरात् । प्रभावं पश्य मेऽम्ब त्वं वृद्धस्यापि तवोदरे॥ २७ ॥
उत्तमस्स मम भ्राता यो गर्भेण धृतस्तया। स राजासनभामोतु पित्रा दत्त तथाऽस्तु तत् ॥ २८ ॥
नान्यदत्तमभीप्सामि स्थानमम्ब स्वकर्मणा ।इच्छामि तदहं स्थानं यन्न प्राप पिता मम ॥ २९ ॥
श्रीपराशरः–
निर्जगाम गृहान्मातुरित्युक्त्वा मातरं ध्रुवः । पुराच्च निर्गम्य ततस्तद्धाह्योपवनं ययौ ॥ ३० ॥
नि:श्वस्येति ।। तस्मिन् वृत्तान्ते कथितेसति, श्वासक्षामेक्षणा-श्वासेन दुःखजनितेन कृशदृष्टिः॥१५–३०॥
स ददर्श मुनिंस्तत्र सप्त पूर्वागतान्ध्रुवः। कृष्णाजिनोत्तरीयेषु विष्टरेषु समास्थितान् ॥ ३१॥
स राजपुत्रस्तान्सर्वान्प्रणिपत्याभ्यभाषत । प्रश्रयावनतस्सम्यगभिवादनपूर्वकम् ॥ ३२ ॥
ध्रुव उवाच—
उत्तानपादतनयं मांनिबोधत सत्तमाः । जातं सुनीत्यांनिर्वेदाद्युष्माकंप्राप्तमन्तिकम् ॥ ३३ ॥
स इति ॥ पूर्वागतान्–पूर्वमेवात्मनोऽनुग्रहणार्थमागतान्, कृष्णाजिनोत्तरीयाण्येव विष्टरास्तेषु ॥ ३१-३३ ॥
ऋषय ऊचुः—
चतुःपञ्चाब्दसंभूतो बालस्त्वं नृपनन्दन । निर्वेदकारणं किंचित्तव नाद्यापि वर्तते ॥ ३४ ॥
चतुःपञ्चेति ॥ इतः प्राक् चतुर्थे पंचमेवाऽब्दे संभूतः॥३४॥
न चिन्त्यं भवतः किंचिद्ध्रियते भूपतिः पिता। न चैवेष्टवियोगादितव पश्याम बालक ॥ ३५॥
शरीरे न च ते व्याधिरस्माभिरुपलक्ष्यते । निर्वेदः किन्निमित्तस्ते कथ्यतां यदि विद्यते ॥ ३६॥
श्रीपराशरः—
ततस्स कथयामास सुरुच्या यदुदाहृतम् । तन्निशम्य ततः प्रोचुर्मुनयस्ते परस्परम् ॥ ३७॥
अहो क्षात्रं परं तेजो बालस्यापि यदक्षमा । सपत्न्या मातुरुक्तं यद्धृदयान्नापसर्पति ।। ३८॥
भोभोः क्षत्रियदायाद निदाद्यत्त्वयाऽधुना । कर्तुं व्यवसितंतन्नः कथ्यतां यदि रोचते ॥ ३९ ॥
यच्च कार्यं तवास्माभिःसाहाय्यममितद्युते । तदुच्यतां विवक्षुस्त्वमस्माभिरुपलक्ष्यसे ॥ ४० ॥
ध्रुव उवाच –
नाहमर्थमभीप्सामि न राज्यं द्विजसत्तमाः । तत्स्थानमेकमिच्छामि भुक्तं नान्येन यत्पुरा॥ ४१ ॥
नेति ॥ चिन्त्यं–कुटुम्बपोषणादि । ध्रियते-जीवति ॥ ३५-४१ ॥
एतन्मे क्रियतां सम्यक्कथ्यतां प्राप्यते यथा । स्थानमग्र्यं समस्तेभ्यः स्थानेभ्यो मुनिसत्तमाः ॥ ४२ ॥
एतदिति ॥ यथा प्राप्यते तथा कथ्यताम् । एतत्कथनमेव साहाय्यं तत्क्रियताम् ॥ ४२॥
मरीचिः –
अनाराधितगोविन्दैनरैः स्थानं नृपात्मजे । न हि संप्राप्यते श्रेष्ठ तस्मादाराधयाच्युतम् ॥ ४३ ॥
अत्रिः —
परः पराणां पुरुषो यस्य तुष्टो जनार्दनः । स प्राप्नोत्यक्षयं स्थानमेतत्सत्यं मयोदितम् ॥ ४४ ॥
अङ्गिराः—
यस्यान्तः सर्वमेवेदमच्युतस्याव्ययात्मनः । तमाराधयगोविन्दं स्थानमग्र्यं यदीच्छसि ॥ ४५ ॥
पुलस्त्यः —
परं ब्रह्म परं धाम योऽसौ ब्रह्म तथा परम्।तमाराध्य हरिं याति मुक्तिमप्यतिदुर्लभाम् ॥ ४६ ॥
पुलहः –
ऐन्द्रमिन्द्रः परं स्थानं यमाराध्य जगत्पतिम् । प्राप यज्ञपतिं विष्णु तमाराधय सुव्रत ॥ ४७ ॥
क्रतुः—
यो यज्ञपुरुषोयज्ञोयज्ञेशः परमः पुमान् । तस्मिंस्तुष्टे यदप्राप्यं किं तदस्ति जनार्दने ॥ ४८ ॥
भगवति भक्त्यतिशयात्ध्रुवे कारुण्याच्च सर्वेऽपि प्रतिवदन्ति प्रणन्दन्ति च अनाराधितेत्यादि सप्तमिः॥४३-४८॥
वसिष्ठः –
प्राप्नोष्याराधिते विष्णौ मनसा यद्यदिच्छसि । त्रैलोक्यान्तर्गतं स्थानं किमु वत्सोत्तमोत्तमम् ॥ ४९ ॥
प्राप्नोषीति ॥मनसेति। इतः पूर्वमक्लृप्तमपि ददाति किं पुनः क्लृप्तमिति॥ ४९ ॥
ध्रुव उवाच—
आराध्यः कथितो देवो भवद्भिः प्रणतस्य मे । मया तत्परितोपाय यजप्तव्यं तदुच्यताम् ॥ ५० ॥
आराध्य इति । मयेति । अनुपनीतस्याप्यात्मनो योग्यं जप्यं पृच्छति जप्तव्यमिति ॥ ५० ॥
यथा चाराधनं तस्य मया कार्यं महात्मनः । प्रसादसुमुखास्तन्मे कथयन्तु महर्षयः ॥ ५१ ॥
ऋषय ऊचुः—
राजपुत्र यथा विष्णोराराधनपरैर्नरैः । कार्यमाराधनं तन्नो यथावच्छ्रोतुमर्हसि ॥ ५२ ॥
यथेति जपाङ्गप्रश्नः॥ ५१, ५२ ॥
बाह्यार्थादखिलाच्चित्तं त्याजयेत्प्रथमंनरः । तस्मिन्नेव जगद्धाम्नि ततः कुर्वीत निश्चलम् ॥ ५३ ॥
चितैकाग्रतारूपो योगो जपस्याङ्गमिति सयोगंजप्यमुपदिशन्ति बाह्येति त्रिभिः । बाह्यार्थादिति ।बाह्यार्थाचित्तं त्याजयेदिति हिंसानृतादिनिषिद्धत्यागरूपोयमः, सर्वविषयत्यागरूपःप्रत्याहारश्चोक्तः; निश्चलं कुर्वीतेत्यासनप्राणायामौ, तदधीनत्वाञ्चित्तस्थैर्यस्य; तस्मिन्नेवेति शुभाश्रये धारणा ॥५३॥
एवमेकाग्रचित्तेन तन्मयेन धृतात्मना । जप्तव्यं यन्निबोधैतत्तन्नः पार्थिवनन्दन ॥ ५४ ॥
एवमिति॥ धृतात्मनेति । यथार्हं शौचादिषु कृत?यनेनेति नियमः, एकाग्रचित्तेनेति ध्यानम्, तन्मयेनेति समाधिः, इत्यष्टाङ्गयोग उक्तः । * तस्य मैत्रेय योगिन इति हि योगित्वं वक्ष्यति ॥५४॥
हिरण्यगर्भपुरुषप्रधानाव्यक्तरूपिणे । ॐ नमो वासुदेवाय शुद्धज्ञानस्वरूपिणे ॥ ५५॥
एतज्जजाप भगवान्जप्यं स्वायंभुवो मनुः । पितामहस्तव पुरा तस्य तुष्टो जनार्दनः ॥ ५६ ॥
हिरण्येति॥ *हिरण्यमस्य गर्भोऽभूद्धिरण्यस्यापि गर्भजः । तस्माद्धिरण्यगर्भतंपुराणज्ञाः प्रचक्षिरे ॥इति भारते हिरण्यगर्भशब्दनिरुक्त्या हिरण्मयंब्रह्माण्ड गर्भे यस्यसः हिरण्यगर्भः; स चात्र पुरुषादिसमभिव्याहारात्कालात्मा ज्ञेयः । हिरण्यगर्भः व्यष्टिः, पुरुषस्समष्टिरिति केचित् । अत्र द्वादशाक्षरमन्त्रो विवक्षितः, लैङ्गादिषु ध्रुवस्य तन्मन्त्रोपदेशप्रसिद्धेः । स तु रहस्युपदेष्टव्यत्वादत्र यथापाठेनपठितः॥ ५५, ५६ ॥
ददौ यथाभिलषितां सिद्धिं त्रैलोक्यदुर्लभाम् । तथा त्वमपि गोविन्दं तोषयैतत्सदा जपन् ॥ ५७ ॥
ददाविति ॥ तथा त्वमिति । कुलदेवतामंत्रो हि शीघ्रं सिद्ध्यति॥ ५७ ॥
इति श्रीविष्णुपुराणे प्रथमेंशे एकादशोऽध्यायः ।। ११ ।।
इति श्रीभगवद्रामानुजपदान्तरंगश्रीविष्णुचित्तविरचिते श्रीविष्णुपुराणव्याख्याने विष्णुचित्तीयेप्रथमेंशेएकादशोऽध्यायः ॥ ११ ॥