[highlight_content]

श्रीविष्णुपुराणम् Amsa 01 Ady 13

श्रीविष्णुपुराणम्

अथ त्रयोदशोऽध्यायः | 

श्रीपराशरः।

ध्रुवाच्छिष्टिं च भव्यं च भव्याच्छम्भुर्व्यजायत । शिष्टेराधत्त सुच्छाया पञ्च पुत्रानकल्मषान् ॥१॥

रिपुं रिपुञ्जयं विप्रं वृकलं वृक़तेजसम् । रिपोराधत्त बृहतीं चाक्षुषं सर्वतेजसम् ॥ २ ॥

अजीजतत्पुष्करिण्यां वारुण्यां चाक्षुषो मनुम् । प्रजापतेरात्मजायां वीरणस्य महात्मनः ॥ ३ ॥

मनोरजायन्त दशडुवालायां महौजसः । कन्यायां तपतांश्रेष्ठ वैराजस्य प्रजापतेः ॥ ४॥

(ऊरुः पुरु) कुरुः पुरुश्शतद्युम्नस्तपस्वी सत्यवाञ्छुचिः । अग्निष्टोमोतिरात्रश्च सुद्युम्नश्चेति ते नव ।

            अभिमन्युश्च दशमो नड्वलायां महौजसः ॥ ५ ॥

(ऊ)रोजनयत्पत्रान् पड़ायी महाप्रभात् । अङ्गं सुमनसं ख्यातिं क्रतुमङ्गिरसं शिबिम् ॥ ६ ॥

      अजीजनदिति ॥ चाक्षुषस्यपुत्रःषष्ठोमनुःप्रजापतेरित्यर्धं पूर्वेण संबन्ध्यते ॥ १ – ६ ॥

अङ्गात्सुनीथाऽपत्यं वै वेनमेकमजायत । प्रजार्थमृषयस्तस्य ममन्थुर्दक्षिणं करम् ॥ ७ ॥

वेनस्य पाणौ मथिते संबभूव महामुने । वैन्यो नाम महीपालो यः पृथुःपरिकीर्तितः ॥८॥

             येन दुग्धा मही पूर्वं प्रजानांहितकारणात् ।। ९॥

    मैत्रेयः—

किमर्थं मथितः पाणिर्वेनस्य परमर्षिभिः । यत्र जज्ञे महावीर्यः स पृथुर्मुनिसत्तम ॥ १० ॥

   श्रीपराशरः—

सुनीथा नाम या कुन्या मृत्योः प्रथमतोऽभवत् । अङ्गस्य भार्या सा दत्ता तस्यां वेनो व्यजायत ॥ ११ ॥

स मातामहदोषेणतेनमृत्युसुतात्मजः ।निसर्गादेव मैत्रेय दुष्ट एव व्यजायत ॥ १२ ॥

अभिषिक्तो सदा राज्ये स वेनः परमर्षिभिः। घोषयामास सतदा पृथिव्यां पृथिवीपतिः ॥ ३॥

न यष्टव्यं, न दातव्यं न होतव्यं कथञ्चन । भोक्ता यज्ञस्य कस्त्वन्यो ह्यहं यज्ञपतिः प्रभुः ॥ १४॥

                अङ्गादिति ॥ सुनीया मृत्युदुहिता ॥ ७-१४ ॥

ततस्तमृषयः पूर्वं संपूज्य पृथिवीपतिम् । ऊचुः सामकलंवाक्यं मैत्रेय समुपस्थिताः ॥ १५ ॥

ऋषय ऊचुः—

भोभो राजन् श्रुणुष्व त्वं यद्वदामस्तवान्तिके। राज्यदेहोपभोगाय प्रजानांच हितं परम् ॥ १६ ॥

     तत इति ॥ साम–सान्त्वनम् कलम्-अव्यक्तमधुरम् ॥ १५, १६ ॥

दीर्धसत्रेण देवेशं सर्वयज्ञेश्वरं हरिम् । पूजयिष्याम भद्रं ते (तत्र)तस्यांशस्ते भविष्यति ॥ १७ ॥

यझेन यज्ञपुरुषो विष्णुः संप्रीणितो नृप । अस्माभिर्भवतः कामान्सर्वानेव प्रदास्यति || १८ ॥

यज्ञैर्यज्ञेश्वरो येषां राष्ट्रे संपूज्यते हरिः । तेषां सर्वेप्सितावाप्तिं ददाति नृप भूभृताम् ॥ १९ ॥

       वेन उवाच–

मत्तः कोऽभ्यधिकोऽन्योऽस्ति कश्चाराध्यो ममापरः ।।कोऽयं हरिरिति ख्यातो यो वो यज्ञेश्वरो मतः || २०||

ब्रह्मा जनार्दनः शम्भुरिन्द्रो वायुर्यमो रविः । हुतभुग्वरुणो धाता पूषा भूमिर्निशाकरः || २१ ॥

एते चान्ये च ये देवाः शापानुग्रहकारिणः । नृपस्यैते शरीरस्थाः सर्वदेवमयो नृपः ॥ २२ ॥

एतत् ज्ञात्वा मयाऽऽज्ञप्तं यद्यथा क्रियतां तथा ।न दातव्यं न यष्टयं न होतयं च भो द्विजाः ॥ २३ ॥

भर्तृशुश्रूषणं धर्मों यथा स्त्रीणां परो मतः । ममाज्ञापालनं धर्मो भवतां च तथा द्विजाः ॥ २४ ॥

     दीर्धसत्रेणेति || तस्यांशस्ते भविष्यतीतिच पाठः । तस्य-यज्ञस्य, अंश:-षष्ठांशः || १७-२४ ||

    ऋषय ऊचुः–

देह्यनुज्ञां महाराज मा धर्मो यातु संक्षयम् । हविषा परिणामोऽयं यदेतदखिलं जगत् ॥ २५ ॥

    श्रीपराशरः–

इति विज्ञाप्यमानोऽपि स वेनः परमर्षिभिः । यदा ददाति नानुज्ञां प्रोक्तः प्रोक्तः पुनः पुनः ॥ २६ ॥

      देहीति । हविषांपरिणामः-कार्यं वृष्ट्यादिद्वारा * अग्नौप्रास्ताहुतिरित्युक्तप्रकारेण ॥ २५, २६ ॥

ततस्ते मुनयस्सर्वे कोपामर्षसमन्विताः । हन्यतां हन्यतां पाप इत्यूचुस्ते परस्परम् ॥ २७ ॥

योयज्ञपुरुषं विष्णुमनादिनिधनं प्रभुम् । विनिन्दत्यसमाचारो न स योग्यो भुवः प्रतिः ॥ २८ ॥

      तत इति ॥ अमर्षोऽतितिक्षा ॥ २७, २८ ॥

इत्युक्त्वा मंत्रपूतेस्तैः कुशैर्मुनिगणा नृपम् । निजम्घ्नुर्निहतं पूर्वं भगवन्निन्दनादिना ॥ २९ ॥

ततश्च मुनयो रेणुं ददृशुस्सर्वतोद्विज । किमेतदिति चासन्नान्पप्रच्छुस्ते जनांस्तदा ॥ ३० ॥

आख्यातं च जनैस्तेषां चोरीभूतैरराजंके । राष्ट्रे तु लोकैरारब्धं परस्वादानमातुरैः ॥ ३१ ॥

तेषामुदीर्णवेगानां चोराणां मुनिसत्तमाः । सुमहान् दृश्यते रेणुः परवित्तापहारिणाम् ॥ ३ ॥

ततस्संमन्त्र्य ते सर्वे मुनयस्तस्य (मन्त्रतः) भूभृतः । ममन्थुरूरुं पुत्रार्थमनपत्यस्य यत्नतः ॥ ३३ ॥

इतीति ॥ देवतावेदयज्ञनिन्दया धर्माननुज्ञया आत्मप्रशंसया च स्वयमेव हतत्वात्तद्धन्तुर्न दोष इतिभावः॥ २९-३३ ॥

मथ्य(तश्च)मानात्समुत्तस्थौ तस्योरोः पुरुषः किल । दग्धस्थूणाप्रतीकाशः खल्वाटास्योह्रस्वकः ॥ ३४ ॥

किं करोमीति तान्सर्वान् विप्रानाह त्वरान्वितः । निषीदेति तमूचुस्ते निषादस्तेन सोऽभवत् ॥ ३५॥

     मध्यमानादिति ॥ मध्यत:-मध्यमानात् । खर्वाट:-खलतिः।खर्वाटञ्चातिह्रस्वकः, इति च पाठः ॥  खर्वाटास्य इति पाठे ह्रस्ववक्त्रः ॥ ३४, ३५ ॥

ततस्तत्संभवाजाता विन्ध्यशैलनिवासिनः । निषादा मुनिशार्दूल पापकर्मोपलक्षणाः ॥ ३६ ॥

       तत इति ॥निषादा जाता इत्यन्वयः ॥ ३६ ॥

तेन द्वारेण तत्पापं निष्क्रान्तं तस्य भूपतेः । निषादास्ते. ततो जातावेनकल्मषनाशनाः ॥ ३७॥

तस्यैव दक्षिणं हस्तं ममन्थुस्ते ततोद्विजाः ॥ ३८॥

मथ्यमाने च तत्राभूत्पृथुर्वैन्यः प्रतापवान् । दीप्यमानः स्ववपुषा साक्षादग्निरिव ज्वलन् ॥ ३९॥

     तेनेति ॥तेन-निषादरूपेण द्वारेण, तत्पापं-भगवन्निन्दनादिरूपं पापम् ॥ ३७—३९ ॥

आद्यमाजगवं नाम खात्पपात ततोधनुः। शराश्चदिव्या नभसः कवचं च पपात ह ॥ ४० ॥

तस्मिन् जाते तु भूतानि संप्रहृष्टानिसर्वशः ॥ ४१ ॥

सत्पुत्रेण च जातेन वेनोऽपि त्रिदिवं ययौ । पुन्नाम्नो नरकात् त्रातः स तेन सुमहात्मना ॥ ४२ ॥

तं समुद्राश्च नद्यश्च रत्नान्यादाय सर्वशः । तोयानि चाभिषेकार्थं सर्वाण्येवोपतस्तिरे ॥ ४३ ॥

    आद्यमिति ॥ अजगवमेवाजगवं–पिनाकः ॥ ४०–४३ ॥

पितामहश्च भगवान्देवैराङ्गिरसैस्सह । स्थावराणि च भूतानि जङ्गमानि चसर्वशः ।।

समागम्य तदा वैन्यमभ्यषिञ्चन्नराधिपम् ॥ ४४ ॥

पितामह इति ॥देवैः आङ्गिरसैः-षष्ठमन्वन्तरे तैर्देवैर्भविष्यद्भिः। स्थावराणि–हिमवदाद्यधिदैवतानि ॥ ४४ ॥

हस्ते तु दक्षिणे चक्रं दृष्ट्वा तस्य पितामहः । विष्णोरंशं पृथुं मत्वा परितोषंपरं ययौ ॥ ४५ ॥

विष्णुचिह्नं करे चक्रं सर्वेषांचक्रवर्तिनाम् । भवत्यव्याहतो यस्य प्रभावस्त्रिदशैरपि ॥ ४६॥

        हस्त इति ॥ चक्रं रेखामयम्  ॥ ४५,४६॥

महता राजराज्येन पृथुर्वैन्यः प्रतापवान् । सोऽभिषिक्तोमहातेजाविधिवद्धर्मकोविदैः ॥ ४७ ॥

पित्रा पराजितास्तस्य प्रजास्तेनानुरञ्जिताः । अनुरागात्ततस्तस्य नाम राजेत्यजायत ।। ४८ ॥

महतेति ।। राजराज्येन–राज्ञां राजत्वेन ।। ४७, १८ ॥

आपस्तस्तमिरे चास्य समुद्रममियास्यतः । पर्वताश्च ददुर्मार्गं ध्वजभङ्गश्च नाभवत् ॥ ४९ ॥

     आप इति ॥ ध्वज़भङ्गश्च नाभवत्-वनेषु गच्छत: पृथो: आनम्रशाखाग्रा वृक्षाः आसन्-अभवन् ॥ ४९॥

अकृष्टपच्या पृथिवी सिद्ध्यन्त्यर्थानि चिन्तया । सर्वकामदुधा गावः पुटके पुटके मधु ॥ ५० ॥

अकृष्टपच्येति ।। अकृष्टपच्या पृथिवी–दोहानन्तरं प्रजाकृतकृष्यादि विनापि सफला पृथिवी, पृथुदुग्ध

क्षीरपरिणामौषध्याश्रयत्वात् । पुटके-कोटरे ॥ ५० ॥

तस्य वै जातमात्रस्य यज्ञे पैतामहे शुभे । सूतस्सूत्यां समुत्पन्नः सौत्येऽहनि महामतिः ॥ ५१॥

तस्मिनेव महायज्ञे जज्ञे प्राज्ञोऽथ मागधः । प्रोक्तौ तदा मुनिवरैस्तावुभौ सूतमागधौ ॥ ५२ ॥ .

 तस्येति । तस्य-पृथोः, यज्ञे, पैतामहे-पितामहदैवत्ये -* वैन्यस्य हि पृथोर्यज्ञेवर्तमाने महामनः॥सुत्यायामभवत्सूत: * इति वायूक्तेः। सूत्यां–मुत्यायां सोमाभिषवे जाते। सूयते सोमोऽस्यामिति सूतिः ॥ ५१,५२ ॥

स्तूयतामेष नृपतिःपृथुर्वैन्यः प्रतापवान् । कर्मैतदनुरूपं च पात्रं स्तोत्रस्य वां परम् ॥ ५३ ॥

ततस्तावूचतुर्विप्रान्सर्वानेव कृताञ्जली । अद्य जातस्य नो कर्म ज्ञायतेऽस्य महीपतेः ॥ ५४ ॥

      स्तूयतामिति ॥ औदार्यादिगुणैरेषु स्तूयतां, पराक्रमादि कर्म चास्यस्तूयताम्॥ ५३, ५४ ॥

गुणा न चास्य ज्ञायन्ते न चास्य प्रथितं यशः । स्तोत्रं किमाश्रयं त्वस्य कार्यमस्माभिरुच्यताम् ॥ ५५ ॥

ऋषय ऊचुः—

करिष्यत्येष यत्कर्म चक्रवर्ती महाबलः । गुणा भविष्या ये चास्य तैरयं स्तूयतां नृपः ॥ ५६ ॥

      गुणा इति ॥ यशो हि गुणक्रियाप्रसिद्धिः॥ ५५, ५६ ॥

     श्रीपराशरः—

ततः स नृपतिस्तोषं तच्छ्रुत्वा परमं ययौ । सद्गुणैः श्लाध्यतामेति तस्माल्लभ्या गुणा मम ॥ ५७ ॥

   ततइति ॥सद्गुणैरिति । लोकेहि जनःसद्गुणैः स्तुत्यो भवतितस्मान्मम-मया गुणा लभ्याःसंपाद्याः॥ ५७ ॥

तस्माद्यदद्य स्तोत्रे में गुणनिर्वर्णनं त्विमौ । करिष्येते करिष्यामि तदेवाह समाहितः ॥५८ ॥

यदिमौ वर्जनीयंचकिञ्चिदत्र वदिष्यतः । तदहं वर्जयिष्यामीत्येवंचक्रे मतिं नृपः ॥ ५९ ॥

अथ तौ चक्रतुः स्तोत्रंपृथोर्वैन्यस्यधीमतः । भविष्यैःकर्मभिःसम्यक्सुस्वरौ सूतमागधौ ॥ ६० ॥

      तस्मादिति ॥ तदेव औदार्यादि ॥ ५८-६० ॥

सत्यवाग्दानशीलोऽयं सत्यसन्धो नरेश्वरः । ह्रीमान्मैत्रः क्षमाशीलो विक्रान्तो दुष्टशासनः ॥ ६१॥

धर्मज्ञश्च कृतज्ञश्च दयावान् प्रियभाषकः । मान्यान्मानयिता यज्वा ब्रह्मण्यः साधुसम्मतः ॥ ६२॥

     सत्यवागिति॥ ह्री:-अकार्याल्लज्जा ॥ ६१,६२ ॥

समश्शत्रौ च मित्रे च व्यवहारस्थितौ नृपः ॥ ६३ ॥

सुतेनोक्तान् गुणानित्थं स तदा मागधेन च। चकार हृदि तादृक् च कर्मणा कृतवानसौ ॥ ६४ ॥

   सम इति । व्यवहारस्थितो नृप इति च पाठः । व्यवहारस्थितः–व्यवहारदर्शनाय धर्मासनस्य:॥ ६३,६४ ॥

ततस्स पृथिवीपालः पालयन्पृथिवीमिमाम् । इयाजविविधैर्यज्ञैर्महद्भिर्भूरिदक्षिणैः ॥ ६५ ॥

    तत इति ॥ यज्ञैरियाज-देवपूजामकरोत् ॥ ६५ ॥

तं प्रजाःपृथिवीनाथमुपतस्थुःक्षुधार्दिताः । ओषधीषु प्रणष्टाषु तस्मिन्काले ह्यराजके।

             तमूचुस्ते नताः पृष्टास्तत्रागमनकारणम् ॥ ६६॥

     तमिति ॥ तस्मिन्काले–वेनपृथुराज्यसन्धौ, तेन आगमनकारणं पृष्टास्तमूचुः ॥ ६६॥

    प्रजा ऊचु:–

अराजके नृपश्रेष्ठ धरित्र्या सकलौषधीः ।ग्रस्तास्ततः क्षयंयान्ति प्रजास्सर्वाः प्रजेश्वर ॥ ६७ ॥

त्वं नो वृत्तिप्रदो धात्रा प्रजापालो निरूपितः । देहि नः क्षुत्परीतानां प्रजानां जीवनौषधीः ॥ ६८ ॥।

    श्रीपराशरः—

ततस्तु नृपतिर्दिव्यमादायाजगवं धनुः । शरांश्च दिव्यान्कुपितः सोऽन्वधावद्वसुन्धराम् ॥ ६९ ॥

      अराजक इति ॥ ओषधी:-ओषध्यः ॥ ६७-६९ ॥

ततो ननाश त्वरिता गौर्भूत्वा च वसुन्धरा । सा लोकान्ब्रह्मलोकादीन्संत्रासादगमन्मही ॥ ७० ॥

यत्र यत्र ययौ देवी सातदा भूतधारिणी । तत्र तत्र तु सा वैन्यं ददृशेऽभ्युद्यतायुधम् ॥ ७१ ॥

ततस्तं प्राह वसुधा पृथु पृथुपराक्रमम् । प्रवेपमाना तद्भाणपरित्राणपरायणा ॥ ७२ ॥

    पृथिव्युवाच—

स्त्रीवधे त्वं महत्पापं किं नरेन्द्र न पश्यसि । येन मां हन्तुमत्यर्थं प्रकरोषि नृपोद्यमम् ॥ ७३ ॥

    पृथुरुवाच –

एकस्मिन् यत्रनिधनं प्रापिते दुष्टकारिणि । बहूनां भवतिक्षेमं तस्य पुण्यप्रदो वधः ॥ ७४ ॥

    पृथिव्युवाच –

प्रज्ञानामुपकाराय यदि मां त्वं हनिष्यसि । आधारः कः प्रजानां ते नृपश्रेष्ठ भविष्यति ॥ ७५ ॥

     तत इति ॥ ननाश-अपलायत * नाशः पलायने मृत्यौ मृतौच * इति वैजयन्ती ॥ ७०-७५॥

    पृथुरुवाच –

त्वां हत्वा वसुधे बाणैर्मच्छासनपराङ्मुखीम् । आत्मयोगबलेनेमा धारयिष्याम्यहं प्रजाः ॥ ७६ ॥

    श्रींपराशर:—

ततः प्रणम्य वसुधातं भूयः प्राह पार्थिवम् । प्रवेपिताङ्गी परमं साध्वसं समुपागता ॥ ७७ ॥|

    पृथिव्युवाच –

उपायतस्समारब्धाः सर्वे सिद्धयन्त्युपक्रमाः । तस्माद्वदाम्युपायं ते तं कुरुष्व यदीच्छसि ॥ ७८ ॥

    त्वामिति ॥योगः-सामर्थ्यं, तदेव बलम् ।आत्मानंप्रथयित्वेमा धारयिष्याम्यहं प्रजाः *इति हरिवंशे ॥ ७६-७८ ॥

समस्ता या मया जीर्णा नरनाथ महौषधीः । यदीच्छसि प्रदास्यामि ताः क्षीरपरिणामिनीः ॥ ७९ ॥

तस्मात्प्रजाहितार्थाय मम धर्मभृतां वर । तं तु वत्सं (प्रयच्छ) कुरुष्व त्वं क्षरेयं येन वत्सला ॥ ८० ॥

      समस्ता इति ॥ क्षीरपरिणामिनी:-क्षीरेण परिणामिनीः॥ ७९, ८० ॥

समां चकुरु सर्वत्र येन. क्षीरं समन्ततः । वरौषधीबीजभूतं वीर सर्वत्र भावये ॥ ८१ ||

    समामिति ॥समां-समस्थलाम्, येन-समीकरणेन, भावये-उत्पादये ॥ ८१ ॥

     श्रीपराशरः –

तत उत्सारयामास शैलान् शतसहस्रशः । धनुष्कोट्या तथा वैन्यस्तेन शैला विवर्द्धिताः ॥ ८२ ॥

    तत इति । तेन-उत्सारणेन, विवर्तिताः-क्षिप्ताः । विवर्द्धिता इति पाठे एकत्र पुञ्जीकृताः।विवर्जिता इति पाठे उत्सारणदेशे विवर्जिता इति ॥ ८२ ॥

न हि पूर्व विसर्गे वैविषमे पृथिवीतले । ग्रविभागःपुराणां वा ग्रामाणां वा पुराऽभवत् ॥ ८३ ॥

न सस्यानि न गोरक्ष्यं न कृषिर्न वणिक्पथः । वैन्यात्प्रभृति मैत्रेय सर्वस्यैतस्य संभवः ॥ ८४ ॥

यत्रयत्रसमं त्वस्या भूमेरासीद्द्विजोत्तम । तत्रतत्रप्रजाः सर्वा निवासं समरोचयन् ॥ ८५॥

आहारः फलमूलानि प्रजानामभवत्तदा । कुच्छ्रेण महता सोऽपि प्रणष्टास्वोषधीषु वै ॥ ८६ ॥

     नहीति । पूर्वनिसर्ग इति च पाठः। पूर्वनिसर्गे-पूर्वावस्थायाम्। पुरा-पृथोः पूर्वकाले ॥ ८३-८६ ॥

स कल्पयित्वा वत्सं तु मनुं स्वायंभुवं प्रभुम् । स्वपाणौ पृथिवीनाथो दुदोह पृथिवीं पृथुः ।

        सस्य (बीजानि) जातानि सर्वाणि प्रजानां हितकाम्यया ॥ ८७ ॥

          तेनान्नेन प्रजास्तात वर्तन्तेऽद्यापि नित्यशः ॥ ८८ ॥

    स इति॥ सस्यं-मनुष्याणां योनिंसस्यं, पृथुर्दुदोह । तत्र दोहे पृथुरेव यजमानः ऋत्विक्च ॥ ८, ८८ ॥

प्राणप्रदाता स पृथुर्यस्माद्भूमेरभूत्पिता । ततस्तु पृथिवीसंज्ञामवापाखिलधारिणी ॥ ८९ ॥

ततश्च देवैर्मुनिभिर्दैत्यै रक्षोभिरद्रिभिः । गन्धर्वैरुरगैर्यक्षैः पितृभिस्तरुभिस्तथा ॥ ९० ॥

     प्राणेति ॥ प्राणप्रदाता-अभयप्रदः * जनकश्चोपनेता च यश्च विद्यां प्रयच्छति । अन्नदाता भयत्राता पञ्चैते पितरः स्मृताः ॥* इति वचनात् ॥ ८९, ९० ॥

तत्तत्पात्रमुपादाय तत्तद्दुग्धं मुने पयः । वत्सदोग्धृविशेषाश्चतेषां तद्योनयोऽभवन् ॥ ९१ ॥

 तत्तत्पात्रमिति । पृथूपदेशाद्देवादिभिस्तत्तद्वत्सैस्तत्तत्पात्रमुपादाय भूस्तत्तत्पयो दुग्धा।देवाद्यैर्यजमानस्थानीयैर्दशवर्गेः ऋत्विक्स्थानीयैः सूर्यबृहस्पतिद्विमूर्द्धजतुनाभमेरुवसुरुचिधृतराष्ट्रसुपर्णान्तकसालाख्यदोग्धृविशेषैः, इन्द्रसोमविरोचनसुमालिहिमवञ्चित्ररथतक्षककुबेरमयप्लक्षाख्यवत्सविशेषैः सौवर्णं छन्दोमयमायसं कापालंशैलं पद्मपत्रमलाब्वपकमृण्मयंराजतं पालाशमिति तत्तत्पात्रमादाय बलं तपो मायां रुधिरमोषधी: रत्नं गन्धं विषमन्तर्धानंस्वधां पुन:प्ररोहणमिति क्षीरविशेषंमात्स्यादिषूक्तक्रमेण दुग्धा ।अत्र नाममेदस्तु नामान्तरत्वेन बोध्यः।तेषामिति ॥ तेषां–देवादीनां सूर्यादीनामिन्द्रादीनां च । तद्योनयः–तानि बलादीनियोनयः–कारणम् ॥ ९१ ॥

सैषा धात्री विधात्री च धारिणीपोषणीतथा । सर्वस्य तु ततः पृथ्वीविष्णुपादतलोद्भवा ॥ ९२ ॥

एवंप्रभावस्सपृथुः पुत्रो वेनस्य वीर्यवान् । जज्ञे महीपतिः पूर्वो राजाऽभूज्जनरञ्जनात् ॥ ९३ ॥

य इर्ं जन्म वैन्यस्य पृथोः संकीर्तयेन्नरः । न तस्य दुष्कृतं किञ्चित्फलदायि प्रजायते ॥ ९४ ॥

दुस्स्वप्नोपशमं नृणां शृण्वतामेतदुत्तमम् । पृथोर्जन्म प्रभावश्च करोतिसततं शुभम् ॥ ९५ ॥

     सैषेति ॥ धात्री माता । विधात्री-कर्त्री ॥ ९२-९५ ॥

इति श्रीविष्णुपुराणे प्रथमेंऽशे त्रयोदशोऽध्यायः ॥ १३ ॥

इति श्रीभगवद्रामानुजपदान्तरंगश्रीविष्णुचित्तविरचितेश्रीविष्णुपुराणव्याख्याने श्रीविष्णुचितीये प्रथमेंऽशे त्रयोदशोऽध्यायः ॥ १३ ॥

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.