[highlight_content]

श्रीविष्णुपुराणम् Amsa 01 Ady 14

श्रीविष्णुपुराणम्

अथ तुर्दशोऽध्यायः

      श्रीपराशरः –

पृथोः पुत्रौ तु धर्मज्ञौ जज्ञातेऽन्तर्द्धिवादिनौ । शिखण्डिनी हविर्धानमन्तर्धानाद्व्यजायत ॥१॥

हविर्धानात् षडाग्नेयी धिषणाऽजनयत्सुतान् । प्राीनबर्हिषं शुक्रं गयं कृष्णं वृजाजिनौ ॥ २ ॥

प्राीनबर्हिर्भगवान्महानासीत्प्रजापतिः । हविर्धानान्महाभाग येन संवर्धिताः प्रजाः ॥ ३ ॥

प्राीनाग्राः कुशास्तस्य पृथिव्यां विस्तृता मुने । प्राीनबर्हिरभवत्ख्यातो भुवि महाबलः ॥ ४॥

           प्राीनाग्रा इति ॥ प्राीनाग्राः कुशाः यज्ञविशेषीयाः ॥ १-४ ॥

समुद्रतनयायां तु कृतदारो महीपतिः । महतस्तमसः पारे सवर्णायां महामते ॥ ५ ॥

              समुद्रेत्यादि ।  अत्र दारशब्देन दारक्रिया लक्ष्यते  ।  कृतदार:-कृतविवाह इत्यर्थः । महतस्तमसः | पार इति सवर्णा विशेषणम् । पुत्रोत्पत्तिद्वारेण तामिस्रादिनरकोत्तारहेतुभूतायामित्यर्थः । समुद्रतनयायां सवर्णाय कृतविवाहः । कृतदारो महीपतेरिति पाठे महीपतेरित्यस्योत्तरेण संबन्धः ॥ ५ ॥

सवर्णाऽऽधत सामुद्री दश प्राीनबर्हिषः । सर्वे प्रेतसो नाम धनुर्वेदस्य पारगाः ॥ ६ ॥

         सवर्णेति ॥ प्राीनबर्हिषो महीपतेः सामुद्री सवर्णा प्रेतसो नाम पुत्रानाधत्त ।  ये तमसः पारे। तानिति वाऽन्वयः। तामिस्रादिनरकनाशकानित्यर्थः । * शश्वत्पुत्रेण पितरो नाध्यायन् बहुलं तम: * ज्योतिर्हि पुत्रः परमे व्योमन् * इति श्रुतेः ॥ ६ ॥

अपृथग्धर्मरणास्तेऽतप्यन्त महत्तपः । दशवर्षसहस्राणि समुद्रसलिलेशयाः ॥ ७ ॥

मैत्रेयः-

यदर्थं ते महात्मानस्तपस्तेपुर्महामुने । प्रेतसः समुद्राम्भस्येतदाख्यातुमर्हसि ॥ ८॥ .

       श्रीपराशरः –

पित्रा प्रेतसः प्रोक्ताः प्रजार्थममितात्मना । प्रजापतिनियुक्तेन बहुमानपुरस्सरम् ॥ ९ ॥

       प्राीनबर्हिरुवा

ब्रह्मणा देवदेवेन समादिष्टोऽस्म्यहं सुताः। प्रजास्संवर्द्धनीयास्ते मया ोक्तं तथेति तत् ॥१०॥

तन्मम प्रीतये पुत्राः प्रजावृद्धिमतन्द्रिताः । कुरुध्वं माननीया वः सम्यगाज्ञा प्रजापतेः ॥ ११ ॥

       श्रीपराशरः –

ततस्ते तत्पितुश्श्रुत्वा वनं नृपनन्दनाः । तथेत्युक्त्वा तं भूयः पप्र्छुः पितरं मुने ॥ १२ ॥

      प्रेतस ऊुः—

येन तात प्रजावृद्धौ समर्थाः कर्मणा वयम् । भवेम तत् समस्तं नः कर्म व्याख्यातुमर्हसि ॥ १३ ॥

       पितोवा

आराध्य वरदं विष्णुमिष्टप्राप्तिमसंशयम् । समेति नान्यथा मर्त्यः किमन्यत्कथयामि वः ॥ १४ ॥

तस्मात्प्रजाविवृद्ध्यर्थं सर्वभूतप्रभुं हरिम् । आराधयत गोविन्दं यदि सिद्धिमभीप्सथ ॥ १५ ॥

धर्ममर्थं कामं मोक्षं ान्वि्छतां सदा । आराधनीयो भगवाननादिः पुरुषोत्तमः ॥ १६ ॥

यस्मिन्नाराधिते सर्गं कारादौ प्रजापतिः । तमाराध्या्युतं वृद्धिः प्रजानां वो भविष्यति ॥१७॥

      श्रीपराशरः –

इत्येवमुक्तास्ते पित्रा पुत्राः प्रेतसो दश । मग्नाः पयोधिसलिले तपस्तेपुस्समाहिताः ॥ १८ ॥

दशवर्षसहस्राणि  न्यस्तित्ता जगत्पतौ । नारायणे मुनिश्रेष्ठ सर्वलोकपरायणे ॥ १९ ॥

तत्रैवावस्थिता देवमेकाग्रमनसो हरिम् । तुष्टुवुर्यस्स्तुतः कामान् स्तोतुरिष्टान्प्रय्छति ॥ २० ॥

        अपृथगिति। अपृथग्धर्मरणाः–एकविधधर्मारणाः इति दशानामप्येकपत्नीभोगोपक्षेपः॥ ७-२०॥

       मैत्रेयः—

स्तवं प्रेतसो विष्णोः समुद्राम्भसि यं स्थिताः। क्रुस्तं मे मुनिश्रेष्ठ सुपुण्यं वक्तुमर्हसि ॥२१॥

       श्रीपराशर –

शृणु मैत्रेय गोविन्दं यथा पूर्वं प्रेतसः ।  तुष्टुवुस्तन्मयीभूताः समुद्रसलिलेशयाः ॥ २२ ॥

         स्तवमिति ॥ यं स्तवं क्रुस्तं वक्तुमर्हसि ॥ २१, २२ ॥

      प्रेतस ऊुः–

नतास्स्म सर्ववसां प्रतिष्ठा यत्र शाश्वती । तमाद्यन्तमशेषस्य जगतः परमं प्रभुम् ॥ २३ ॥

          नतास्स्मेति ॥ वसां यत्र प्रतिष्ठा । वा्ये हि वसां प्रतिष्ठा । प्रवृत्तिनिमित्तमात्रं हि सर्वं वस्तुजातं वसां, न तु प्रधानतया वा्यम्, यथा गुणजात्यादिकम् ॥ २३ ॥

ज्योतिराद्यमनौपम्यमण्वनन्तमपारवत् । योनिभूतमशेषस्य स्थावरस्य रस्य ॥ २४ ॥

यस्याहः प्रथम रूपमरूपस्य तथा निशा । सन्ध्या परमेशस्य तस्मै कालात्मने नमः ॥ २५ ॥

           ज्योतिरिति । ज्योतिः- अप्राकृतज्योतिर्मयरूपम् । आद्यम्-आदौ भवं, * तमेव भान्तम् * इत्यादिश्रुतेः । अनौपम्यम्—उपमैवोपम्यं तद्रहितम् । अणु–सूक्ष्मम् । अनन्तमपारवत्—देशकालपरि्छेदरहितम् ॥ ॥ २४, २५॥

भुज्यतेऽनुदिनं देवैः पितृभिश् सुधात्मकः। (जीव)बीजभूतस्समस्तस्य तस्मै सोमात्मने नमः॥२६॥

          भुज्यत इति ॥ बीजभूतः समस्तस्येति पाठः ।. बीजभूतः वृष्टयौषधिद्वारा ॥ २६ ॥

यस्तमो हन्ति तीव्रात्मा प्रभाभिर्भासयन्नभः । घर्मशीताम्भसां योनिस्तस्मै सूर्यात्मने नमः ॥२७॥

काठिन्यवान् यो बिभर्ति जगदेतदशेषतः । शब्दादिसंश्रयो व्यापी तस्मै भुम्यात्मने नमः ॥ २८॥

यद्योनिभूतं जगतो बीजं यत्सर्वदेहिनाम् । तत्तोयरूपमीशस्य नमामो हरिमेधसः ॥ २९ ॥

यो मुखं सर्वदेवानां हव्यभुक्कव्यभुक तथा । पितृणां नमस्तस्मै विष्णवे पावकात्मने ॥ ३० ॥

          य इति ॥ धर्मः–उष्णम् आतपः । शीतं-हिमम् ॥ ३७-३० ॥

पञ्धाऽवस्थितो देहे यश्ेष्टां कुरुतेऽनिशम् । आकाशयोनिर्भगवांस्तस्मै वाय्वात्मने नमः ॥ ३१ ॥

अवकाशमशेषाणां भूतानां यः प्रय्छति । अनन्तमूर्तिमाञ्छुद्धस्तस्मै व्योमात्मने नमः ॥ ३२॥

     पञ्धेति || पञ्धा-प्राणादिरूपेण। ेष्टाम्-उ्छ्वासनिश्वासव्यायामरससमाधानोरणात्मिकाम् ॥ आकाशयोनिः–आकाशाद्धि वायुः ॥ ३१, ३२ ॥

समस्तेन्द्रियवर्गस्य यस्सदा स्थानमुत्तमम् । तस्मै शब्दादिरूपाय नमः कृष्णाय वेधसे ॥ ३३ ॥

             समस्तेति । स्थानमालम्बनम् ॥ ३३ ॥

गृह्णाति विषयान्नित्यमिन्द्रियात्मा क्षराक्षरः । यस्तस्मै ज्ञानमूलाय नतास्स्म हरिमेधसे ॥३४॥

              गृह्णातीति ॥ विषयः क्षराक्षरः-क्षरं क्षुः निर्गत्य विषयग्रहणात्, अक्षरं श्रोत्रादि ॥ ३४ ॥

गृहीतानिन्द्रियैरर्थनात्मने यः प्रय्छति । अतःकरणरूपाय तस्मै विश्वात्मने नमः ॥ ३५ ॥

           गृहीतानिति ॥ गृहीतान्–बाह्येन्द्रियैः स्पृष्टान्, आलोितानात्मज्ञानविषयान्करोति । अन्त:करण भूताय–मनोबुद्ध्यहंकारित्तात्मने ॥ ३५ ॥

यस्मिन्ननन्ते सकलं विश्वं यस्मात्तथोद्गतम् । लयस्थानं यस्तस्मै नमः प्रकृतिधर्मिणे ॥३६॥

            यस्मिन्निति ॥ यस्मिन्सकलं तिष्ठतीति शेषः । प्रकृतिधर्मिणे-प्रकृतिरूपवते ॥३६॥

शुद्धस्संल्लक्ष्यते भ्रान्त्या गुणवानिव योऽगुणः । तमात्मरूपिणं देवं नतास्स्म पुरुषोत्तमम् ॥ ३७॥

             पुरुषरूपमाह शुद्ध इति ॥ ३७॥

अविकारमजं शुद्धं निर्गुणं यन्निरञ्जनम् । नतास्स्म तत्परं ब्रह्म विष्णोर्यत्परमं पदम् ॥३८॥

             मुखस्रूपमाह अविकारमिति ॥ बद्धस्य ज्ञानसङ्कोविकासरूपो विकारोऽस्ति, तद्रहितत्वमविकारत्वम् ।  निरञ्जनं–प्रकृतिसंबन्धरहितम् । परं ब्रह्मेति  प्रधानाद्यपेक्षया ।             (*सानन्त्यायेति ब्रह्मत्वमुक्तम्।) पद्यत इति पदं; परमत्वं स्वराष्ट्रत्वम् ॥ ३८ ॥

अदीर्घह्रस्वमस्थूलमनण्वश्यामलोहितम् । अस्नेह्छायमतनुमसक्तमशरीरिणम् ॥ ३९ ॥

         अहंकारादिमुक्तपर्यन्तरूपवतः परस्य स्वरूपमाह अदीर्घेति  अनेन व्यक्ताव्यक्तबद्धमुक्तेभ्यो व्यावृत्तिः ।  छाया-कान्तिः । अतनु-निरवयवम् । असक्तम्-अप्रतिहतम् ॥ ३९ ॥

अनाकाशमसंस्पर्शमगन्धमरसं यत् । अक्षुश्श्रोत्रमलमवाक्पाणिममानसम् ॥ ४० ॥

            अनाकाशमिति ॥ अनाकाश-विवररहितम् ॥ ४० ॥

अनामगोत्रमसुखमतेजस्कमहेतुकम् । अभयं भ्रान्तिरहितमनिद्रमजरामरम् ॥ ४१ ॥

       अनामेति ॥ असुखम् -अन्नपानादिजन्यसुखरहितम् । अभयमित्यादिना बद्धव्यावृत्तिः ॥ ४१ ॥

अरजोशब्दममृतमप्लुतं यदसंवृतम् । पूर्वापरे न वै यस्मिंस्तद्विष्णोः परमं पदम् ॥ ४२ ॥

            अरज इति ॥ अप्लुतं पदसंवृतमिति पाठः । प्लुतं-गतिः, तद्रहितम् । पूर्वापरे वस्तुनी नस्तः तस्य नित्यत्वात् । परममक्षरं स्वरूपमिति शेषः ॥ ४२ ॥

परमेशत्वगुणवत्सर्वभूतमसंश्रयम् । नतास्स्म तत्पदं विष्णोर्जिह्वादृग्गोरं न यत् ॥ ४३ ॥

       श्रीपराशरः—

एवं प्रेतसो विष्णुं स्तुवन्तस्तत्समाधयः । दशवर्षसहस्राणि तपश्ेरुर्महार्णवे ॥ ४४ ॥

ततः प्रसन्नो भगवांस्तेषामन्तर्जले हरिः । ददौ दर्शनमुन्निद्रनीलोत्पलदल्छविः ॥ ४५ ॥

पतत्रिराजमारूढमवलोक्य प्रेतसः । प्रणिपेतुः शिरोभिस्तं भक्तिभारावनामितैः ॥ ४६ ॥

ततस्तानाह भगवान्व्रियतामीप्सितो वरः । प्रसादसुमुखोऽहं वो वरदस्समुपस्थितः ॥ १७ ॥

ततस्तमूुर्वरदं प्रणिपत्य प्रेतसः । यथा पित्रा समादिष्टं प्रजानां वृद्धिकारणम् ॥ १८ ॥

ापि देवस्त दत्त्वा यथाभिलषितं वरम् । अन्तर्धानं जगामाशु ते निश्क्रमुर्जलात् ॥ ४९ ॥

      परमिति । परमेशित्वगुणवदिति पाठः । परमेशित्वगुणवदिति मुक्तव्यावृत्तिः । असंश्रयमिति नित्यव्यावृत्तिः । सर्वभूतं-सर्वात्मभूतम् ॥ ४३-४९ ॥

इति श्रीविष्णुपुराणे प्रथमेंऽशे तुर्दशोऽध्यायः ॥ १४ ॥

 इति श्रीभगवद्रामानुजपदान्तरंगश्रीविष्णुित्तविरिते श्रीविष्णुपुराणव्याख्याने  श्रीविष्णुित्तीये प्रथमेशे तुर्दशोऽध्यायः ॥ १४ ॥ 

error: Content is protected !!