श्रीविष्णुपुराणम्
अथ अष्टादशोऽध्यायः
श्रीपराशरः –
तस्यैतां दावनवाश्चेष्टां दृष्ट्वा दैत्यपतेर्भयात् । आचचख्युः स चोवाच सूदानाहूय सत्वरः ॥१॥
तस्येति ॥ चेष्टाम्-उपदेशात्मिकाम् ॥ १॥
हिरण्यकशिपु: –
हे सूदा मम पुत्रोऽसावन्येषामपि दुर्मतिः । कुमार्गदेशिको दुष्टो हन्यतामविलम्बितम् ॥ २ ॥
हे सूदा इति ॥ देशिक:-उपदेशकृत् ॥ २॥
हालाहलं विषं तस्य सर्वभक्ष्येषु दीयताम् । अविज्ञातमसौ पापो हन्यतां मा विचार्यताम् ॥३॥
श्रीपराशर:-
ते तथैव ततश्चक्रुः प्रह्लादाय महात्मने । विषदानं यथाज्ञप्तं पित्रा तस्य महात्मनः ॥ ४ ॥
हालाहलं विषं घोरमनन्तोच्चारणेन सः । अभिमन्त्र्य सहान्नेन मैत्रेय बुभुजे तदा ॥ ५ ॥
हालादलमिति ॥ अविज्ञातम् । ज्ञाते हि स पूर्ववत्परिहरिष्यतीति ॥ ३-५ ॥
अविकारं स तद्भुक्त्वा प्रह्लादः स्वस्थमानसः । अनन्तख्यातिनिर्वीर्यं जरयामास तद्विषम् ॥६॥
ततस्सूदा भयत्रस्ता जीर्णं दृष्ट्वा महद्विषम् । दैत्येश्वरमुपागम्य प्रणिपत्येदमब्रुवन् ॥ ७॥
दैत्यराज विषं दत्तमस्माभिरतिभीषणम् । जीर्णं तेन सहान्नेन प्रह्लादेन सुतेन ते॥८॥
हिरण्यकशिपु:-
त्वर्यतां त्वर्यतां सद्यो हे हे दैत्यपुरोहिताः । कृत्यां तस्य विनाशाय ह्युत्पादयत मा चिरम् ।। ९ ।।
श्रीपराशर:-
सकाशमागम्य ततः प्रह्लादस्य पुरोहिताः । सामपूर्वमथोचुस्ते प्रह्लादं विनयान्वितम् ॥ १० ॥
पुरोहिताः –
जातस्त्रैलोक्यविख्यात आयुष्मन्ब्रह्मणः कुले । देत्यराजस्य तनयो हिरण्यकशिपोर्भवान् ॥ ११ ॥
अविकारमिति ॥ सर्पविषहरवान्मृत्युञ्जयत्वाञ्च भुक्त्वा नित्यजप्यस्यानन्तनाम्नः, ख्यात्या कीर्तनेन निर्वीर्यं विषम् । अविकारम्-अनुदितलालोद्गमश्रमादिविकृति, जरयामास ॥ ६-११ ॥
किं देवैः किमनन्तेन किमन्येन तवाश्रयः । पिता ते सर्वलोकानां त्वं तथैव भविष्यसि ॥१२॥
किं देवैरिति ॥ त्वं तथैव-तव पितेव लोकानामाश्रयो भविष्यसि ॥ १२ ॥
तस्मात्परित्यजैनां त्वं विपक्षस्तवसंहिताम् । श्लाघ्यः पिता समस्तानां गुरूणां परमो गुरुः ॥१३॥
तस्मादिति ॥ स्तवसंहितां-स्तवप्रबन्धम् | बाच्यः पितेति च पाठः । बाच्यः-स्तुत्यः ॥ १३ ॥
प्रह्लादः-
एवमेतन्महाभागाः श्लाध्यमेतन्महाकुलम्। मरीचेस्सकलेऽप्यस्मिन् त्रैलोक्ये नान्यथा वदेत् ॥ १४ ॥
पिता च मम सर्वस्मिञ्जगत्युत्कृष्टचेष्टितः । एतदप्यवगच्छामि सत्यमत्रापि नानृतम् ।। १५ ।।
गुरूणामपि सर्वेषां पिता परमको गुरुः । यदुक्तं भ्रान्तिरत्रापि स्वल्पापि हि न विद्यते ॥१६॥
पिता गुरुर्न सन्देहः पूजनीयः प्रयत्नतः । तत्रापि नापराध्यामीत्येवं मनसि मे स्थितम् ॥ १७॥
एवमिति ॥ नान्यथा वदेत् । कश्चिदपीति शेषः । भवेदिति वा पाठः ॥ १४-१७ ॥
यत्त्वेतत्किमनन्तेनेत्यु(क्तो)क्तं युष्माभिरीदृश(:)म्। को ब्रवीति यथान्यायं किं तु नैतद्वचोऽर्थवत् ॥ १८ ॥
यत्त्विति ॥ ब्रह्मकुलं श्लाघ्यमित्यादि यद्भवदुक्तं तत्सत्यम् । किं तु किमनन्तेनेति यदेतदुक्तम् एतद्वचो नार्थवत् । ईदृशं वचः यथान्यायं को ब्रवीतित्यन्वयः । किमनन्तेनेत्युक्तं युष्माभिरीदृशमिति च पाठः ॥ १८ ॥
इत्युक्त्वा सोऽभवन्मौनी तेषां गौरवयन्त्रितः । प्रहस्य च पुनः प्राह किमनन्तेन साध्विति ॥ १९॥
इतीति ॥ गौरवयन्त्रितः–गौरवेण यन्त्रित:–निरुद्धव्याहारः। गुरूणामपि भगवन्निन्दकानामेषां किमनुसरणेनेत्याशयेन प्रहस्य किमनन्तेनेति तदुक्तमनुवदन्साध्विति सोपालम्भमाह-प्रहस्येति ॥ १९ ॥
साधु भोः किमनन्तेन साधु भो गुरुवो मम । श्रूयतां यदनन्तेन यदि खेदं न यास्यथ ॥ २० ॥
अमर्षात् भूयोऽप्यनुवदति साधु भोः किमनन्तेन साधु भो इति ॥ अनन्तेन यत्स्यात्तच्छ्रूयताम् ॥२०॥
धर्मार्थकाममोक्षाश्च पुरुषार्था उदाहृताः । चतुष्टयमिदं यस्मात्तस्माच्च किमिदं वृथा ॥ २१ ॥
धर्मेति ॥ इदं-धर्मादिचतुष्टयं यस्मात्तस्मादनन्तात्किम् इदं वृथा वचः, न किंचिदित्यर्थः । तस्मात्ंकिंकिमिदं वृथा इति च पाठः ॥ २१ ॥
मरीचिमिश्रैर्दक्षाद्यैस्तथैवान्यैरनन्ततः। धर्मः प्राप्तस्तथा चान्यैरर्थः कामस्तथाऽपरैः ॥ २२ ॥
तत्तत्त्ववेदिनो भूत्वा ज्ञानध्यानसमाधिभिः । अवापुर्मुक्तिमपरे पुरुषा ध्वस्तबन्धनाः ॥ २३ ॥
मरीचिमिश्रैरिति । मित्रशब्दः पूज्यवचनः, गुरुत्वाद्बहुवचनम् ॥२२,२३॥
संपदैश्वर्यमाहात्म्यज्ञानसन्ततिकर्मणाम् । विमुक्तेश्चैकतो लभ्यं मूलमाराधनं हरेः ॥ २४ ॥
संपदित्यादि । ऐश्वर्यादीनां संपद्विमुक्तिश्च एकत:-आराधनादेव लभ्या, हरेराराधनं संपदादीनां मूलम् । विमुक्तिश्चैकतो लभ्येति च पाठः ॥ २४ ॥
यतो धर्मार्थकामाख्यं मुक्तिश्चापि फलं द्विजाः । तेनापि किंकिमित्येवमनन्तेन किमुच्यते ॥ २५ ॥
उक्तमय निगमयति यत इति । तेनाप्यनन्तेन किं किमित्येवं वचः किमर्थमुच्यते ॥ २५ ॥
किं चापि बहुनोक्तेन भवन्तो गुरवो मम । वदन्तु साधु वाऽसाधु विवेकोऽस्माकमल्पकः ॥ २६ ॥
किञ्चेति ॥ किञ्चेत्यादिवचोऽपि सोपालम्भम् । किं वाऽत्रेति च पाठः ॥ २६ ॥
बहुनात्र किमुक्तेन स एव जगतः पतिः । स कर्त्ता च विकर्त्ता च संहर्ता च हृदि स्थितः ॥ २७॥
स भोक्ता भोज्यमप्येवं स एव जगदीश्वरः । भवद्भिरेतत्क्षन्तव्यं बाल्यादुक्तं तु यन्मया ॥ २८॥
पुरोहिता: –
दह्यमानस्त्वमस्माभिरग्निना बाल रक्षितः । भूयो न वक्ष्यसीत्येवं नैव ज्ञातोऽस्यबुद्धिमान् ॥ २९ ॥
बहूनिति ॥ विकर्ता-परिणमयिता ॥ २७-२९ ॥
यदस्मद्वचनान्मोहग्राहं न त्यक्षते भवान् । ततः कृत्यां विनाशाय तव स्रक्ष्याम दुर्मते ॥ ३० ॥
प्रह्लादः –
कः केन हन्यते जन्तुर्जन्तुः कः केन रक्ष्यते। हन्ति रक्षति चैवात्मा यसत्साधु समाचरन॥३१॥
कर्मणा जायते सर्वं कर्मैव गतिसाधनम् । तस्मात्सर्वप्रयत्नेन साधु कर्म समाचरेत् ॥ ३२ ॥
श्रीपराशर:-
इत्युक्तास्तेन ते क्रुद्धा दैत्यराजपुरोहिताः । कृत्यामुत्पादयामासुर्ज्वालामालोज्ज्वलाकृतिम्॥ ३३ ॥
अतिभीमा समागम्य पादन्यासक्षतक्षितिः । शूलेन साधु संक्रुद्धा तं जघानाशु वक्षसि ॥ ३४ ॥
तत्तस्य हृदयं प्राप्य शूलं बालस्य दीप्तिमत् । जगाम खण्डितं भूमौ तत्रापि शतधा गतम् ॥ ३५ ॥
यत्रानपायी भगवान हृद्यास्ते हरिरीश्वरः । भङ्गो भवति वज्रस्य तत्र शूलस्य का कथा ॥ ३६ ॥
अपापे तत्र पापैश्च पातिता दैत्ययाजकैः । तानेव सा जघानाशु कृत्या नाशं जगाम च ॥ ३७॥
यदिति ॥ मोहग्राहम्-अज्ञानदुराग्रहम् ॥ ३०-३७॥
कृत्यया दह्यमानांस्तान्विलोक्य स महामतिः । त्राहि कृष्णेत्यनन्तेति बद्दन्नभ्यवपद्यत ॥ ३८ ॥
प्रह्लादः-
सर्वव्यापिन् जगद्रूप जगत्स्रष्टर्जनार्दन । पाहि विप्रानिमानस्माद्दुस्सहान्मन्त्रपावकात् ॥ ३९ ॥
कृत्ययेति ॥ अभ्यवपत्तिरनुग्रहः ॥ ३८, ३९ ॥
यथा सर्वेषु भूतेषु सर्वव्यापी जगद्गुरुः । विष्णुरेव तथा सर्वे जीवन्त्वेते पुरोहिताः ॥ ४०॥
यथा सर्वगतं विष्णुं मन्यमानोऽनपायिनम् । चिन्तयाम्यरिपक्षेऽपि जीवन्त्येते तथा द्विजाः ॥ ४१ ॥
ये हन्तुमागता दत्तं यैर्विषं यैर्हुताशनः । यैर्दिग्गजैरहं क्षुण्णो दष्टः सर्पैश्च यैरपि ॥ ४२ ॥
तेष्वहं मित्रपक्षे च समः पापोऽस्मि न क्वचित् । यथा तेनाद्य सत्येन जीवन्त्वसुरयाजकाः ॥४३॥
श्रीपराशर:-
इत्युक्तास्तेन ते सर्वे संस्पृष्टाश्च निरामयाः । समुत्तस्थुर्द्विजा भूयस्तमूचुः प्रश्रयान्वितम् ॥ ४४ ॥
दीर्घायुरप्रतिहतो बलवीर्यसमन्वितः । पुत्रपौत्रधनैश्वर्यैर्युक्तो वत्स भवोत्तमः ॥ ४५ ॥
इत्युक्त्वा तं ततो गत्वा यथावृत्तं पुरोहिताः । दैत्यराजाय सकलमाचचख्युर्महामुने ॥ ४६ ॥
यथेति ॥ यथेत्यादिना अपकारिष्वप्युपकुर्वन्तीति वैष्णवानामाचारः प्रदर्शितः ॥ ४५-४६ ॥
इति श्रीविष्णुपुराणे प्रथमेंऽशे प्रह्लादचरितेsष्टादशोऽध्यायः ॥ १८ ॥
इति श्रीभगवद्रामानुजपदान्तरंगश्रीविष्णुचित्तविरचिते श्रीविष्णुपुराणव्याख्याने विष्णुचित्तीये प्रथमेंऽशे ऽष्टादशोऽध्यायः ॥ १८ ॥