श्रीविष्णुपुराणम्
अथ एकविंशोऽध्यायः
श्रीपराशर:-
प्रह्लादपुत्र आयुष्माञ्छिबिर्बाष्कल एव च । विरोचनस्तु प्राहलादिर्बलिर्जज्ञे विरोचनात् ॥१॥
बलेः पुत्रशतं त्वासीद्बाणज्येष्ठ महामुने । हिरण्याक्षसुताश्चासन्सर्व एव महाबलाः ॥२॥
झर्झरः शकुनिश्चैव भूतसन्तापनस्तथा । महानाभो महाबाहुः कालनाभस्तथाऽपरः ॥ ३ ॥
अभवन्दनुपुत्राश्च द्विमूर्द्धा शंबरस्तथा । अयोमुखः शंकुशिराः कपिलः शंकरस्तथा ॥४॥
एकचक्रो महाबाहुस्तारकश्च महाबलः । स्वर्भानुर्वृषपर्वा च पुलोमा च महाबलः ॥ ५ ॥
एते दनोः सुताः ख्याता विप्रचित्तिश्च वीर्यवान् ॥ ६॥
शिष्टानां काश्यपस्त्रीणां वंशानाह-अभवन्निति ॥ १-६॥
स्वर्भानोस्तु प्रभा कन्या शर्मिष्ठा वार्षपर्वणी । उपदानवी हयशिराः प्रख्याता वरकन्यकाः ॥ ७॥
स्वर्भानोरिति ॥ श्रीहरिवंशे दनुपुत्रशते उपदानववैश्वानरायुक्तौ । हयशिरा इति उपदानव्या उपदानवदुहितुर्नाम । हस्तिशिरा इति च पाठः । उपदानवीत्यत्र वृद्ध्यभावश्छान्दसः ॥ ७॥
वैश्वानरसुते चोभे पुलोमा कालका तथा । उभे सुते महाभागे मरीचेस्तु परिग्रहः ॥ ८॥
ताभ्यां पुत्रसहस्राणि पष्टिर्दानवसत्तमाः । पौलोमाः कालकेयाश्च मरीचितनयास्स्मृताः ॥९॥
ततोऽपरे महावीर्या दारुणास्त्वतिनिर्घृणाः । सिंहिकायामथोत्पन्ना विप्रचित्तेः सुतास्तथा ॥१०॥
त्र्यंशः शल्यश्च बलवान् नभश्चैव महाबलः । वातापिर्नमुचिश्चैव इल्वलः खसृमस्तथा ॥ ११ ॥
अन्धको नरकश्चैव कालनाभस्तथैव च । स्वर्भानुश्च महावीर्यो बक्त्रयोधी महासुरः ॥ १२ ॥
एते वै दानवाः श्रेष्ठा दनुवंशविवर्धनाः । एतेषां पुत्रपौत्राश्च शतशोऽथ सहस्रशः ॥ १३ ॥
प्रहलादस्य तु दैत्यस्य निवातकवचाः कुले । समुत्पन्नाः सुमहता तपसा भावितात्मनः ॥ १४ ॥
षट् सुताः सुमहासत्वास्ताम्रायाः परिकीर्त्तिताः । शुकी श्येनी च भासी च सुग्रीवी शुचिगृध्रका ॥१५॥
वैश्वानर इति ॥ मरीचि:-काश्यपो दानवविशेषो वा ॥ ८-१५॥
शुकी शुकानजनयदुलूकप्रत्युलूककान् । श्येनी श्येनांस्तथा भासी भासान्गृध्रांश्च गृध्रकी ॥१६॥
शुच्यौदकान्पक्षिगणान्सुग्रीवी तु व्यजायत । अश्वानुष्ट्रान्गर्दभांश्च ताम्रावंशः प्रकीर्त्तितः ॥ १७॥
विनतायास्तु द्वौ पुत्रौ विख्यातौ गरुडारुणौ । सुपर्णः पततां श्रेष्ठो दारुणः पन्नगाशनः ॥ १८ ॥
सुरसायां सहस्रं तु सर्पाणाममितौजसाम् । अनेकशिरसां ब्रह्मन् खेचराणां महात्मनाम् ॥ १९ ॥
काद्रवेयास्तु बलिनः सहस्रममितौजसः । सुपर्णवशगा ब्रह्मन् जज्ञिरे नैकमस्तकाः ॥ २० ॥
तेषां प्रधानभूतास्तु शेषवासुकितक्षकाः । शंखश्वेतौ महापद्मः कम्बलाश्वतरौ तथा ॥ २१ ॥
शुकीति ॥ उलूकः कौशिकः, प्रत्युलूकः काकः, भासी भासांश्च ॥ १६-२१ ॥
एलापुत्रस्तथा कर्णः कर्कोटकधनञ्जयौ । एते चान्ये च बहवो दन्दशूका विषोल्बणाः ॥ २२ ॥
एलापुत्र इति ॥ एते काद्रवेयाः सौरसेयाश्च अन्ये बहवः दन्दशूकाः विषोल्बणाः ॥ २२ ॥
गणं क्रोधवशं विद्धि तस्याः सर्वे च दंष्ट्रिणः । स्थलजाः पक्षिणोब्जाश्च दारुणाः पिशिताशनाः ॥२३॥
क्रोधा तु जनयामास पिशाचांश्च महाबलान् । गास्तु वै जनयामास सुरभिर्महिषीस्तथा।
इरा वृक्षलताबल्लीस्तुणजातीश्च सर्वशः ॥ २४ ॥
(वषा) खषा तु यक्षरक्षांसि मुनिरप्सरसस्तथा । अरिष्टा तु महासत्त्वान् गन्धर्वान्समजीजनत् ॥ २५ ॥
एते काश्यपदायादाः कीर्त्तिताः स्थाणुजङ्गमाः । तेषां पुत्राश्च पौत्राश्च शतशोऽथ सहस्रशः ॥ २६ ॥
एष मन्वन्तरे सर्गो ब्रह्मन्स्वारोचिषे स्मृतः ॥ २७॥
गणमिति ॥ ते च सर्वे सर्पा दंष्ट्रिणः । तत्र काद्रवेयसौरसेयेभ्योऽन्यान् सर्पान्मांसादान् स्थलजान् पक्षिणश्च जलजान् दारुणांश्च क्रोधवशं गणं कोधवशाया वंशं विद्धि। क्रोधवशो गणस्त्रिधा * बलो गणात्क्रोधवशादहीन्द्रः इति भागवतोक्तः । रक्षोगणं क्रोधवशा स्वनामानमजीजनत् इति मात्स्योक्तेश्च ॥२३-२७॥
वैवस्वते च महति वारुणे वितते ऋतौ । जुह्वानस्य ब्रह्मणो वै प्रजासर्ग इहोच्यते ॥ २८ ॥
अथ वैवस्वतमन्वन्तरे प्रजासर्ग उच्यत इल्याह-वैवस्वत इति ॥ २८॥
पूर्वं यत्र तु सप्तर्षीनुत्पन्नानेव मानसान् । पुत्रत्वे कल्पयामास स्वयमेव पितामहः ।
गन्धर्वभोगिदेवानां दानवानां च सत्तम ॥ २९ ॥
दितिर्विनष्टपुत्रा वै तोषयामास काश्यपम् । तया चाराधितः सम्यक्काश्यपस्तपतां वरः ॥ ३० ॥
पूर्वमित्यादि । गन्धर्वादीनां पूर्वमुत्पन्नान् प्राक्मन्वन्तरस्थान्सप्तर्षीनेव वर्तमानवारुणयज्ञाविच्छेदाय यत्र मन्वन्तरे प्रजासर्गार्थं पुत्रत्वे कल्पयामास तत्र प्रजासर्ग उच्यत इति पूर्वेणान्वयः । पितृत्वे कल्पयामासेति पाठे गन्धर्वादीनां पितृत्वे-स्रष्टृत्व इत्यर्थः ॥ २९, ३० ॥
वरेण च्छन्दयामास सा च वव्रे ततो वरम् । पुत्रमिन्द्रवधार्थाय समर्थममितौजसम् ॥ ३१ ॥
स च तस्यै वरं प्रादाद्भार्यायै मुनिसत्तमः । दत्वा च वरमव्यग्रः काश्यपस्तामुवाच ह ॥ ३२ ॥
वरेणेत्यादि ॥ वरं ददामीत्याश्वासितवान् ॥ ३१-३२ ॥
शक्रं पुत्रो निहन्ता ते यदि गर्भं शरच्छतम् । समाहिताऽतिप्रयता शौचिनी धारयिष्यसि ॥ ३३ ॥
इत्येवमुक्त्वा तां देवीं संगतः कश्यपो मुनिः । दधार सा च तं गर्भं सम्यक्छौचसमन्विता ॥ ३४ ॥
गर्भमात्मवधार्थाय ज्ञात्वा ते मघवानपि । शुश्रूषुस्तामथागच्छद्विनयादमराधिपः ॥ ३५ ॥
शक्रमिति ॥ शौचिनी-मात्स्योक्तशौचवती । तत्र ह्युक्तम् * सन्ध्यायां नैव भोक्तव्यं गर्भिण्या वरवर्णिनि । न स्थातव्यं न गन्तव्यं वृक्षमूलेषु सर्वदा ॥ वर्जयेत्कलहं लोके गात्रभङ्गं तथैव च। नोन्मुक्तकेशी तिष्ठेच्च नाशुचिः स्यात्कदाचन ॥ इति ॥ शुचिनी धारयिष्यसि इति च पाठः ॥ ३३-३५ ॥
तस्याश्चैवान्तरप्रेप्सुरतिष्ठत्पाकशासनः । ऊने वर्षशते चास्या ददर्शान्तरमात्मवान् ॥ ३६॥
अकृत्वा पादयोः शौचं दितिः शयनमाविशत् । निद्रां चाहारयामास तस्याः कुक्षिं प्रविश्य सः ॥ ३७॥
वज्रपाणिर्महागर्भं चिच्छेदाथ स सप्तधा । स पाट्यमानो वज्रेण प्ररुरोदातिदारुणम् ॥ ३८ ॥
मा रोदीरिति तं शक्रः पुनःपुनरभाषत । सोऽभवत्सप्तधा गर्भस्तमिन्द्रः कुपितः पुनः ॥ ३९ ॥
एकैकं सप्तधा चके वज्रेणाद्रिविदारिणा । मरुतो नाम देवास्ते बभूवुरतिवेगिनः ॥ ४० ॥
यदुक्तं वै मघवता तेनैव मरुतोऽभवन् । देवा एकोनपञ्चाशत्सहाया वज्रपाणिनः ॥४१॥
इति श्रीविष्णुपुराणे प्रधशे एकविंशोऽध्यायः ॥ २१ ॥
तस्याश्चेति ॥ ऊने-असमाप्तकाले ॥ ३६-४१ ॥
इति श्रीभगवद्रामानुजपदान्तरंगश्रीविष्णुचित्तविरचिते श्रीविष्णुपुराणव्याख्याने विष्णुचित्तीये प्रथमेंशे एकविंशोऽध्यायः ॥ २१ ॥