श्रीविष्णुपुराणम्
अथ द्वाविंशोऽध्यायः
श्रीपराशर:-
यदाऽभिषिक्तस्स पृथुःपूर्वं राज्ये महर्षिभिः । ततः क्रमेण राज्यानि ददौ लोकपितामहः ॥१॥
अथ पितामहः पृथोरभिषेकोत्तरं पूर्वसृष्टानामाधिपत्यविभागं तत्तन्मर्यादास्थापनार्थमकरोदित्याह यदेति ॥ ततः कालादारभ्य ॥ १ ॥
नक्षत्रग्रहविप्राणां वीरुधां चाप्यशेषतः । सोमं राज्ये न्यघाद्ब्रह्मा यज्ञानां तपसामपि ॥२॥
नक्षत्रेति ॥ राज्ये-आधिपत्ये ॥ २ ॥
राज्ञां वैश्रवणं राज्ये जलानां वरुणं तथा । आदित्यानां पतिं विष्णुं बसूनामथ पावकम् ॥३॥
प्रजापतीनां दक्षं तु वासवं मरुतामपि । दैत्यानां दानवानां च प्रहलादमधिपं ददौ ॥ ४ ॥
पितृणां धर्मराजानं यमं राज्येऽभ्यषेचयत् । ऐरावतं गजेन्द्राणामशेषाणां पतिं ददौ ॥ ५ ॥
पतत्रिणां च गरुड (नागानामपि वासुकिम्) देवानामपि वासवम् ।
उच्चैःश्रवसमश्वानां वृषभं तु गवामपि ॥ ६॥
मृगाणां चैव सर्वेषां राज्ये सिंहं ददौ प्रभुः। शेषं तु दन्दशूकानामकरोत्पतिमव्ययः ॥ ७॥
हिमालयं स्थावरणां मुनीनां कपिलं मुनिम् । नखिनां दंष्ट्रिणां चैव मृगाणां व्याघ्रमीश्वरम् ॥८॥
वनस्पतीनां राजानं प्लक्षमेवाभ्यषेचयत् । एवमेवान्यजातीनां प्राधान्येनाकरोत्प्रभून् ॥ ९॥
एवं विभज्य राज्यानि दिशां पालाननन्तरम् । प्रजापतिपतिर्ब्रह्मा स्थापयामास सर्वतः ॥१०॥
पूर्वस्यां दिशि राजानं वैराजस्य प्रजापतेः । दिशापालं सुधन्वानं सुतं वै सोऽभ्यषेचयत् ॥ ११ ॥
दक्षिणस्यां दिशि तथा कर्दमस्य प्रजापतेः । पुत्रं शंखपद नाम राजानं सोऽभ्यषेचयत् ॥ १२ ॥
पश्चिमस्यां दिशि तथा रजसः पुत्रमच्युतम् । केतुमन्तं महात्मानं राजानं सोऽभ्यषेचयत् ॥ १३ ॥
तथा हिरण्यरोमाणं पर्जन्यस्य प्रजापतेः । उदीच्यां दिशि दुर्द्धर्षं राजानमभ्यषेचयत् ॥ १४ ॥
तैरियं पृथिवी सर्वा सप्तद्वीपा (सकानना) सपत्तना । यथाप्रदेशमद्यापि धर्मतः परिपाल्यते ॥१५॥
राज्ञामिति ॥ विष्णम्-इन्द्रानुजम् ॥ ३-१५ ॥
एते सर्वे प्रवृत्तस्य स्थितौ विष्णोर्महात्मनः । विभूतिभूता राजानो ये चान्ये मुनिसत्तम ॥१६॥
ये भविष्यन्ति ये भूताः सर्वभूतेश्वरा द्विज । ते सर्वे सर्वभूतस्य विष्णोरंशसमुद्भवाः ॥ १७ ॥
ये तु देवाधिपतयो ये च दैत्याधिपास्तस्था । दानवानां च ये नाथा ये नाथाः पिशिताशिनाम् ।। १८॥
पशूनां ये च पतयः पतयो ये च पक्षिणाम् । मनुष्याणां च पतयो नागानामधिपाश्च ये ॥ १९ ॥
वृक्षाणां पर्वतानां च ग्रहाणां चापि येऽधिपाः । अतीता वर्त्तमानाश्च ये भविष्यन्ति चापरे ।
ते सर्वे सर्वभूतस्य विष्णोरंशसमुद्भवाः ।। २०॥
एत इति । ये चान्ये-काश्यपाद्याः ॥ १६-२०॥
न हि पालनसामर्थ्यमृते सर्वेश्वरं हरिम् । स्थितं स्थितौ महाप्राज्ञ भवत्यन्यस्य कस्यचित् ॥ २१ ॥
नहीति ॥ पालनसामर्थ्ये सर्वेश्वरत्वं हेतुः ॥ २१ ॥
सृजत्येष जगत्सृष्टौ स्थितौ पाति सनातनः । हन्ति चैवान्तकत्वेन रजस्सत्त्वादिसंश्रयः ॥ २२ ॥
चतुर्विभागः संसृष्टौ चतुर्धा संस्थितः स्थितौ । प्रलयं च करोत्यन्ते चतुर्भेदो जनार्दनः ॥ २३ ॥
पालनवत्सृष्टिसंहारयोरपि तस्यैव सामर्थ्यमित्याह -सृजतीति ॥ २२, २३ ॥
एकेनांशेन ब्रह्माऽसौ भवत्यव्यक्तमूर्तिमान् । मरीचिमिश्राः पतयः प्रजानां चान्यभागतः ॥ २४ ॥
एकेनेति ॥ अव्यक्तमूर्तिमान्-अव्यक्तस्वरूपः । मरीचिमिश्रा:-मरीचिसहिताः ॥२४॥
कालस्तृतीयस्तस्यांशः सर्वभूतानि चापरः । इत्थं चतुर्धा संसृष्टौ वर्त्ततेऽसौ रजोगुणः ॥ २५ ॥
एकांशेन स्थितो विष्णुः करोति परिपालनम् । मन्वादिरूपश्चान्येन कालरूपोऽपरेण च ॥ २६ ॥
सर्वभूतेषु चान्येन संस्थितः कुरुते स्थितिम् । सत्वं गुणं समाश्रित्य जगतः पुरुषोत्तमः ॥ २७ ॥
आश्रित्य तमसो वृत्तिमन्तकाले तथा प्रभुः । रुद्रस्वरूपो भगवानेकांशेन भवत्यजः ॥ २८ ॥
अग्न्यन्तकादिरूपेण भागेनान्येन वर्त्तते । कालस्वरूपो भागोऽन्यस्सर्वभूतानि चापरः ॥ २९ ॥
काल इति ॥ रजो गुणो यस्य स रजोगुणः ॥ २५-२९ ॥
विनाशं कुर्वतस्तस्य चतुर्द्धैवं महात्मनः । विभागकल्पना ब्रह्मन् कथ्यते सार्वकालिकीं ॥ ३० ॥
ब्रह्मा दक्षादयः कालस्तथैवाखिलजन्तवः । विभूतयो हरेरेता जगतः सृष्टिहेतवः ॥ ३१ ॥
विष्णुर्मन्वादयः कालः सर्वभूतानि च द्विज । स्थितेर्निमित्तभूतस्य विष्णोरेता विभूतयः ॥ ३२ ॥
रुद्रः कालान्तकाद्याश्च समस्ताश्चैव जन्तवः । चतुर्धा प्रलयायैता जनार्दनविभूतयः ॥ ३३ ॥
जगदादौ तथा मध्ये सृष्टिराप्रलयाद्द्विज । धात्रा मरीचिमिश्रैश्च क्रियते जन्तुभिस्तथा ॥ ३४ ॥
ब्रह्मा सृजत्यादिकाले मरीचिप्रमुखास्ततः । उत्पादयन्त्यपत्यानि जन्तवश्च प्रतिक्षणम् ॥ ३५ ॥
कालेन न विना ब्रह्मा सृष्टिनिष्पादको द्विज। न प्रजापतयः सर्वे न चैवाखिलजन्तवः ॥३६॥
एवमेव विभागोऽयं स्थितावप्युपदिश्यते । चतुर्धा तस्य देवस्य मैत्रेय प्रलये तथा ॥ ३७॥
विनाशमिति ॥ सार्वकालिकी-प्रतिकल्पभाविनी || ३०-३७॥
यत्किञ्चित्सृज्यते येन सत्त्वजातेन वै द्विज । तस्य सृज्यस्य संभूतौ तत्सर्वं वै हरेस्तनुः ॥३८॥
हन्ति यावच्च यत्किञ्चित्सत्त्वं स्थावरजङ्गमम् । जनार्दनस्य तद्रौद्रं मैत्रेयान्तकरं वपुः ॥ ३९ ॥
एतदुक्तं भवतीत्याह-यत्किञ्चिदिति ॥ संभूताविति निमित्तसप्तमी। कार्योत्पत्तिनिमित्तं हि कारणाधिष्ठानेन हरेस्तत्तत्तनुत्वम् ॥ ३८, ३९ ॥
एवमेष जगत्स्रष्टा जगत्पाता तथा जगत् । जगद्भक्षयिता देवः समस्तस्य जनार्दनः ॥४०॥
एवमिति ॥ समस्तस्य देवो जनार्दन इत्यन्वयः ॥ ४० ॥
सृष्टिस्थित्यन्तकालेषु त्रिधैवं संप्रवर्तते । गुणप्रवृत्या परमं पदं तस्यागुणं महत् ॥ ४१ ॥
त्रिगुणवश्यं रूपं निगमयति सृष्टिस्थितीत्याराभ्य गुणप्रवृत्येत्यन्तेन । सुष्टीति । सुष्टयादिकालेषु गुणप्रवृत्त्या त्रिधाभूतः, एवमुक्तप्रकारेण चतुर्भेदो वर्तते । परममित्यादि । परम-विरिञ्चादिपदात् । अगुणं गुणमय- प्रकृतिवियुक्तम् । महत्-अव्यक्तात् । सर्गस्थित्यन्तकालेष्विति च पाठः ॥ ४१ ॥
तच्च ज्ञानमयं व्यापि स्वसंवेद्यम(नू)नौपमम् । चतुष्प्रकारं तदपि स्वरूपं परमात्मनः ॥ ४२ ॥
मैत्रेय: –
चतुष्प्रकारतां तस्य (ज्ञान) ब्रह्मभूतस्य वै मुने । ममाचक्ष्व यथान्यायं यदुक्तं परमं पदम् ॥४३॥
तच्चेति ॥ ज्ञानमयं-ज्ञानप्रचुरम् । व्यापि-ज्ञानेन | स्वसंवेद्यं-स्वयंप्रकाशम् । एवंभूतं यत्पदम् । पद्यत इति पदं मुक्तस्वरूपम् । तच्च चतुष्प्रकारम् । तदपि तस्य परमात्मनः खरूपमित्यन्वयः । अत्र स्वरूपशब्दो रूपवचनः । स्वं रूपं हि स्वरूपम् ॥ ४२, ४३ ॥
श्रीपराशर:-
मैत्रेय कारणं प्रोक्तं साधनं सर्ववस्तुषु । साध्यं च वस्त्वभिमतं यत्साधयितुमात्मनः ॥ ४४ ॥
तस्य चातुर्विध्यं दर्शयितुमुपक्रमते मैत्रेयेत्यादिभिः। मैत्रेयेति ॥ यत्कारणं तत्साधनम् ; यत्साधयितुमभिमतं तत्साध्यम् ॥ ४४॥
योगिनो मुक्तिकामस्य प्राणायामादि साधनम् । साध्यं च परमं ब्रह्म पुनर्नावर्त्तते यतः ॥ ४५ ॥
योगिन इति ॥ परमं ब्रह्म-मुक्तस्वरूपम् ;* सर्वब्रह्ममयो हरिरिति वचनात् प्रकृतिपुरुषयोरपि ब्रह्मत्वम् । तदपेक्षया मुक्तस्वरूपस्य परमब्रह्मत्वम् ॥ ४५ ॥
साधनालाम्बनं ज्ञानं मुक्तये योगिनां हि यत् । स भेदः प्रथमस्तस्य ब्रह्मभूतस्य वै मुने ॥ ४६ ॥
साधनालम्बनमिति ॥ साधनालम्बनं ज्ञानं-योगशास्त्रजन्यम् प्राणायामादिसाधनविषयं ज्ञानम् ; स प्रथमो मेदः ॥ १६ ॥
युञ्जतः क्लेशमुक्त्यर्थं साध्यं यद्ब्रह्म योगिनः । तदालम्बनविज्ञानं द्वितीयोंऽशो महामुने ॥ ४७ ॥
युञ्जत इति । तदालम्बनविज्ञानं-सांख्यजन्यं प्रकृतिविविक्तात्मविषयं विशिष्टज्ञानम् ॥ ४७ ॥
उभयोस्त्वविभागेन साध्यसाधनयोर्हि यत् । विज्ञानमद्वैतमयं तद्भागोऽन्यो मयोदितः ॥ १८ ॥
उभयोरित्यादि । अविभागेन-संयोगेन, साच्यसाधनभावसंबन्धेन । अद्वैतमयं-देवमनुष्यादिद्वैत- रहितात्मविषयतया तत्प्रचुरं, विज्ञानं-ध्यानम् ॥ १८ ॥
ज्ञानत्रयस्य चैतस्य विशेषो यो महामुने । तन्निराकरणद्वारदर्शितात्मस्वरूपवत् ॥ ४९॥
ज्ञानत्रयस्येति ॥ उक्तस्य ज्ञानत्रयस्य साधनज्ञानत्वादिरूपतो यो विशेषस्तस्य निराकरणम्–अपरामर्शः यस्य द्वारं दर्शितात्मस्वरूपवत् तत् आत्मावलोकनरूपज्ञानं चतुर्थो भाग इत्यनुषङ्गः ॥ ४९ ॥
निर्व्यापारमनाख्येयं व्याप्तिमात्रमनूपमम् । आत्मसंबोधविषयं सत्तामात्रमलक्षणम् ॥ ५० ॥
विनिष्पन्नसमाघेरितरपरामर्शस्यात्मावलोकनविरोधित्वात्तन्निराकरणं द्वारमित्युक्तम् । दर्शितात्मस्वरूपवदित्युक्तस्यात्मावलोकनस्य विषयमात्मस्वरूपं दर्शयति । निर्व्यापारमिति । निब्यापारं-साधनानुष्ठानरहितम् । अनाख्येयं रूपवर्णादीनामगोचरस्वरूपम् । व्याप्तिमात्रम्-मात्रशब्दोऽवधारणे, व्याप्तमेव ; असंकुचितमित्यर्थः । अनुपममेवानूपमम् । अनौपममिति च पाठः । आत्मसंबोधविषयं-स्वज्ञानगम्यम् । सत्तामात्रम्-अपक्षयादिरहितं सत्वैकगुणकम् । अलक्षणं-स्त्रीत्वादिरहितम् । लिङ्गजन्यज्ञानागम्यमिति वा ॥ ५० ॥
प्रशान्तमभयं शुद्धं दुर्विभाव्यमसंश्रयम् । विष्णोर्ज्ञानमयस्योक्तं तज्ज्ञानं ब्रह्मसंज्ञितम् ॥ ५१ ॥
प्रशान्तमिति ॥ प्रशान्तम-अशनायादिषडूर्मिरहितम् । शुद्धं-कर्मरहितम् । दुर्विभाव्यम्-अरूपादिमत्वात्, अतर्क्यमिति वा । विष्णो रूपं ब्रह्मसंज्ञितं तज्ज्ञानमेवमुक्तम् ॥ ५१ ॥
तत्र ज्ञाननिरोधेन योगिनो यान्ति ये लयम् । संसारकर्षणोप्तौ ते यान्ति निर्बीजतां द्विज ॥ ५२ ॥
आत्मयोगिनामन्तिमप्रत्ययेनावश्यं भाव्यम्, अन्यथा पुनरावृत्तिरित्याह-तत्रेति ॥ तत्र निर्व्यापारमित्यादिनोक्ते निजस्वरूपे अन्यज्ञाननिरोधेन अन्तिमप्रत्ययबलाद्ये लयम्–उपाधिवियोगं यान्ति, आविर्भूतस्वरूपा भवन्तीत्यर्थः । कृष्यत इति कर्षणं केदारः । संसार केदारे उप्तौ-सस्यावापे, वितुषव्रीहिवदबीजतां यान्ति ॥ ५२ ॥
एवं प्रकारममलं नित्यं व्यापकमक्षयम् । समस्तहेयरहितं विष्ण्वाख्यं परमं पदम् ॥ ५३ ॥
अथ भगवत्स्वरूपमाह-एवमित्यादिना ॥ एवमिति । मुक्तस्योक्तं निर्व्यापारत्वाद्यतिदिश्यते * निरञ्जन: परमं साम्यमुपौति * इत्यादिश्रुतेः । अस्य नित्यशुद्धत्वसर्वात्मत्वपूर्णत्वहेयराहित्यानि प्रकृतिबद्धमुक्तेभ्यो विशेषः ॥ ५३॥
तद्ब्रह्म परमं योगी यतो नावर्त्तते पुनः । (अपुण्यपुण्यो परमः क्षीणक्लेशोऽतिनिर्मल:)
श्रयत्य पुण्योपरमे क्षीणक्लेशेऽतिनिर्मले ॥ ५४॥
तद्ब्रह्मेति ॥ योगी-भगवद्योगी ॥ अस्याप्यन्तिमप्रत्ययबलेन भगवति लीनस्यापुनरावृत्तिर्द्रष्टव्या ॥ ५४ ॥
द्वे रूपे ब्रह्मणस्तस्य मूर्त्तं चामूर्तमेव च । क्षराक्षरस्वरूपे ते सर्वभूतेष्ववस्थिते ॥ ५५ ॥
ब्रह्मणः पूर्वोक्तं रूपद्वयं प्रपञ्चयति द्वे रूपे इति ॥ मूर्तम्-सशरीरं ब्रह्मादिजीवजातम् । अमूर्त्तम्-अशरीरं मुक्तरूपम् । अत एवाक्षरं सर्वभूतेष्ववस्थितम् * दारुण्यग्निः * स चानन्त्याय कल्पत * इत्यादेः ॥ ५५ ॥
अक्षरं तत्परं ब्रह्म क्षरं सर्वमिदं जगत् । एकदेशस्थितस्याग्नेर्ज्योत्स्ना विस्तारिणी यथा ।
परस्य ब्राह्मणश्शक्तिस्तथेदमखिलं जगत् ॥ ५६ ॥
अक्षरमिति ॥ इदं शक्तिरूपद्वयं परब्रह्मणः शक्तिरिति चोच्यते इत्याह-एकदेशेति ॥ अत्र एकदेशस्थितस्य विस्तारिणीति (विशेषणाभ्यां) पदद्वयेन प्रभाप्रभावतोर्वैलक्षण्यं दर्शितम् । अनेन परस्माद्ब्रह्मणो प्रभारूपस्य जगतो वैलक्षण्यं (सिद्धम् ) सूचितम् । भाष्यकारेण * प्रकाशादिवत्तु नैवं पर: * इत्यस्मिन्सूत्रे प्रभाप्रभावतो रथन्तिरत्वं समर्थितम् । अत्र जगच्छब्देनाचिद्विशिष्टस्य जीवस्य मुक्तस्य च ग्रहणम् ॥ ५६ ॥
तत्राप्यासन्नदूरत्वाद्बहुत्वस्वल्पतामयः । ज्योत्स्नाभेदोऽस्ति तच्छक्तेस्तद्वन्मैत्रेय विद्यते ॥ ५७॥
शाक्तिभूतस्य ब्रह्मादिस्थावरान्तस्य जगतो ज्ञानादिषु तारतम्यमस्तीत्याह–तत्रेति। तत्र दृष्टान्तेsग्नौ, तच्छक्ते:-ब्रह्मणः शक्तेर्जगतः ज्ञानादेर्बहुत्वस्वल्पतामयो भेदो विद्यत इत्यर्थः ॥ ५७ ॥
ब्रह्मविष्णुशिवा ब्रह्मन्प्रधाना ब्रशक्तयः । ततश्च देवा मैत्रेय न्यूना दक्षादयस्ततः ॥ ५८ ॥
ततो मनुष्याः पशवो मृगपक्षिसरीसृपाः । न्यूना न्यूनतराश्चैवव वृक्षगुल्मादयस्तथा ॥ ५९ ॥
ब्रह्मेति॥ ब्रह्मशिवयोः शरीरत्वेन शक्तित्वम् । विष्णोः स्वांशावतारवत्स्वरूपेणैव । ततः तेम्यो देवाः ज्ञानशक्त्यादिना न्यूनाः । एषामेतज्ज्ञानादेस्तारतम्यं कर्मरूपावरणाल्पत्वबहत्वकृतं, न तु स्वरूपकृतम् ॥ ५८,५९ ॥
तदेतदक्षरं नित्यं जगन्मुनिवराखिलम् । आविर्भावतिरोभावजन्मनाशविकल्पवत् ॥ ६०॥
उक्तं जगद्रूपं निगमयति तदेतदिति ॥ तदेतदक्षयमिति च पाठः | अक्षयम्- *अनन्तस्य न तस्यान्तः संख्यानं चापि विद्यते* इति जीवानामसंख्येयत्वं वक्ष्यति । अतः प्रतिसर्गमन्यूनम् । निर्व-सत्कार्थत्वात् । * अब्युछिन्नास्त तस्येते सर्गस्थित्यन्तसंपमाः* इति वचनात् प्रवाहरूपेण च नित्यम् : आविर्भावतिरोभावौ– सङ्कोचविकासौ, तावेव जन्मनाशौ ॥६०॥
सर्वशक्तिमयो विष्णुः स्वरूपं ब्रह्मणोऽपरम् । मूर्त्तं यद्योगिमिः पूर्वं योगारम्भेषु चिन्त्यते ॥ ६१ ॥
अथ विलक्षणं रूपान्तरं वक्तुं मूर्त्तामूर्त्तभेदेनोक्तं शक्तिशब्दवाच्यं रूपद्वयमुपसंहरति-सर्वशक्तिमयो विष्णुरिति ॥ तदेव रूपान्तरमाह-स्वरूपमित्यारभ्य जायते मुने इत्यन्तेन | स्वरूपं-रूपं, योगारम्भेषु-समाध्युपक्रमभूतासु चतुर्विधासु धारणासु ध्याने च ॥ ६१॥
सालम्बनो महायोगः सबीजो यत्र संस्थितः । मनस्यव्याहते सम्यग्युञ्जतां जायते सुने ॥ ६२ ॥
सालम्बन इति ॥ सालम्बनो मूर्तविषयत्वात् । महायोग:- अस्त्रभूषणाङ्गविशिष्टदिव्यरूपविषयं चतुर्विधधारणाजन्यं ध्यानम् । सबीजः-समन्त्रानुसन्धानः । स च निर्बीजयोगाख्यसमाघेरनन्तरः। यत्र-रूपे ॥६२॥
स परस्सर्वशक्तीनां ब्रह्मणः समनन्तरम् । मूर्त्तं ब्रह्म महाभाग सर्वब्रह्ममयो हरिः ॥ ६३ ॥
स पर इति । सः-विष्णुः सर्वासां रूपत्वेनोक्तानां शक्तीनां पर:-उत्कृष्टः । यदेतत्स्वरूपं ब्रह्मणोपरमित्युक्तं ब्रह्मशब्दवाच्यं रूपं तत् ब्रह्मणः-विष्णो: समनन्तरम्-अन्तरङ्गमित्याह-ब्रह्मणः समनन्तरमिति । एतानि त्रीण्यपि रूपाणि ब्राह्मशब्दवाच्यानि : तन्मयो हरिरित्याह-सर्वब्रह्ममयो हरिरिति ॥ ६३॥
यत्र सर्वमिदं प्रोतमोतं चैवाखिलं जगत् । ततो जातं जगत्यस्मिन्स जगच्चाखिलं मुने ॥ ६४ ॥
यत्रेति । यत्र-हरौ । तत्र सर्वमिति च पाठः । शिष्टं स्पष्टम् ॥ ६४ ॥
क्षराक्षरमयो विष्णुर्बिभर्त्यखिलमीश्वरः । पुरुषाव्याकृतमयं भूषणास्त्रस्वरूपवत् ॥ ६५ ॥
मैत्रेय: –
भूषणास्त्रस्वरूपस्थं यदेतदखिलं जगत् । बिभर्ति भगवान्विष्णु स्तन्ममाख्यातुमर्हसि ॥ ६६ ॥
श्रीपराशर :-
नमस्कृत्वाप्रमेयाय विष्णवे प्रभविष्णवे । कथयामि यथाऽऽख्यातं बसिष्ठेन ममाभवत् ॥ ६७ ॥
क्षराक्षरमय इति ।। क्षराक्षररूपे पूर्वमुक्ते। भूषणास्त्रस्वरूपवदिति भूपणास्त्रस्वरूपेण युक्तम् । सूक्ष्मरूपेण तत्तदधिदेवताभूतभूषणास्त्रस्वरूपस्थं पुरुषाव्याकृतादिमयम् अखिलं बिभर्त्तीत्यर्थः ॥ ६५-६७ ॥
आत्मानमस्य जगतो निर्लेपमगुणामलम् । विभर्ति कौस्तुभमणिस्वरूपं भगवान्हरिः ॥ ६८ ॥
प्रथममात्मनोऽभिमान्यधिदैवतमाह-आत्मानमिति। * यथा न क्रियते ज्योत्स्ना मलप्रक्षालनान्मणे: * इत्यादिश्लोकेनात्मनो मणिसाम्यमुक्तम् । सूत्रकारेणापि * गुणाद्वाऽऽलोकवदित्युक्तम् । तेन तद्रूपेण तद्धारणं युक्तम् । आमानमित्येकवचनं जात्यभिप्रायं समष्ट्यभिप्रायं वा ॥ ६८ ॥
श्रीवत्ससंस्थानधरमनन्तेन समाश्रितम् । प्रधानं बुद्धिरध्यास्ते गदारूपेण माधवे ॥ ६९ ॥
श्रीवत्सेति ॥ श्रीवत्सो रोमावर्तविशेषः, * श्रीवत्सेनोरसि श्रीमान् रोमावर्तेन राजते * इति हरिवंशोक्तेः । स च लक्ष्मीनिवासस्थानम् अमृतमयत्वात्सर्वप्ररोहहेतुः । प्रधानं-प्रधानाभिमानी । गदाबुद्ध्योः स्थिरत्वेन साम्यम् ॥ ६९॥
भूतादिमिन्द्रियादिं च द्विधाऽहङ्कारमीश्वरः । विभर्त्ति शङ्खरूपेण शार्ङ्गरूपेण च स्थितम् ॥ ७० ॥
भूतादिमिति ॥ शब्दगुणहेतुः शङ्ख: शम्दादिरूपभूतकारणाहङ्काराभिमानी ॥ ७० ॥
चलस्वरूपमत्यन्तं जवेनान्तरितानिलम् । चक्रस्वरूपं च मनो धत्ते विष्णुः करे स्थितम् ॥ ७१ ॥
चलस्वरूपमिति ।। मनसोऽपि शीघ्रतरत्वात्सुदर्शनस्य तन्नियन्तृत्वम् ॥ ७१ ॥
पञ्चरूपा तु या माला वैजयन्ती गदाभृतः । सा भूतहेतुसङ्घातो भूतमाला च वै द्विज ॥ ७२ ॥
पञ्चरूपेति ॥ पञ्चरूपा-मुक्तामाणिक्यमरकतेन्द्रनीलवज्रसवर्णा। भूतहेतुसंघात:-तन्मात्रसमुदायः । भूतमाला च-महाभूतावलि क्ष, सूक्ष्मस्थूलभूतमयीत्यर्थः । भूतहेतुसंघातभूतमालेति पाठे तन्मात्रसंघातः तदुद्भूतभूतमाला चेत्यर्थः । कृष्णशुकलोहितपीतश्यामाः पृथिव्यादय इति, भूतमालायाश्च पाञ्चरूप्यम् ॥ ७२ ॥
यानीन्द्रियाण्यशेषाणि बुद्धिकर्मात्मकानि वै । शररूपाण्यशेषाणि तानि धत्ते जनार्दनः ॥ ७३ ॥
यानीति ॥ इन्द्रियाणां विषयेषु प्रेर्यमाणत्वाच्छरसाम्यम् ॥ ७३ ॥
विभर्ति यच्चासिवरमच्युतोऽत्यन्तनिर्मलम् । विद्यामयं तु तज्ज्ञानमविद्याकोशसंस्थितम् ॥ ७४ ॥
विभर्तीति ॥ असिवद्ब्रह्मविद्यायाः संसारच्छेदकत्वम्; तदसिरत्नं विद्यामयं-विद्यामयज्ञानाधिदैवतमित्यर्थः। (असिर्विद्यारूपमित्यर्थः ।) अविद्या-अज्ञानं, तस्यात्मतिरोधायकत्वाच्चर्मसाम्यम् ॥ ७४ ॥
इत्थं पुमान्प्रधानं च बुद्ध्यहङ्कारमेव च । भूतानि च हृषीकेशे मनस्सर्वेन्द्रियाणि च ।
विद्याविद्ये च मैत्रेय सर्वमेतत्समाश्रितम् ॥ ७५ ॥
उक्तमर्थं निगमयति इत्थमिति । उक्तार्थेऽभियुक्तवचनम्-* भास्वरं दिव्यवपुषमास्पदं चाखिलात्मनाम् ॥ कौस्तुभं पुरतो विष्णोर्भास्कराभमनुस्मरेत् ॥ प्रधानतत्त्वस्याधारं स्वमन्त्रेणातिसुन्दरम् । श्रीवत्सं पुरतो विष्णोर्हेम प्रभमनुस्मरेत् ॥ देवस्य दक्षिणे पार्श्वे हेतिराजं सुदर्शनम् । चलस्वरूपमत्युग्रं मनस्तत्त्वाधिदैवतम् ॥ यां वदन्ति पुराणज्ञा भूतमालां मनीषिणः । आधारभूतां भूतानाम् * इत्यादि ॥ ७५ ॥
अस्त्रभूषणसंस्थानस्वरूपं रूपवर्जितः । बिभर्ति मायारूपोऽसौ श्रेयसे प्राणिनां हरिः ॥ ७६ ॥
अस्त्रभूषणसंस्थानस्वरूपमिति ॥ उक्तप्रकाराणामस्त्रभूषणानां संस्थानम्-आस्पदं स्वरूपं-विग्रहम् रूपवर्जितः-कर्मनिमित्तप्राकृतरूपरहितः मायारूप:—अनन्ताश्चर्यरूपः श्रेयसे-दर्शनानुस्मरणनामसंकीर्तनादिना जगतोऽभ्युदयाय धर्मसंस्थापनार्थं च । यथा वक्ष्यति * समस्तारशक्तयश्चैता* इत्यारभ्य * न सा कर्मनिमित्त जेत्यन्तेन । न ते रूपं न चाकार* इत्यादि च ॥ ७६ ॥
सविकारं प्रधानं च पुमांसं चाखिलं जगत् । बिभर्ति पुण्डरीकाक्षस्तदेवं परमेश्वरः ॥ ७७ ॥
यथा अस्त्रभूषणादिरूपेणापस्थितं प्रधानादितत्त्वं विभर्ति एवं जगच्च बिभर्तीत्याह-सविकारमिति ॥ ७७॥
या विद्या या तथाsविद्या यत्सद्यच्चासदव्ययम् । तत्सर्वं सर्वभूतेशे मैत्रेय मधुसूधने ॥ ७८ ॥
प्रसङ्गाद्विभूतिविस्तारमाह-या विद्येति ॥ ७८ ॥
कलाकाष्ठानिमेषादिदिनर्त्वयनहायनैः । कालस्वरूपो भगवान (परो) पापो हरिरव्ययः ॥ ७९ ॥
कलेति ॥ हायनैरितीत्थं भूतलक्षणे तृतीया ॥७९॥
भूर्लोकोऽथ भुवर्लोकस्वर्लोको मुनिसत्तम । महर्जनस्तपः सत्यं सप्तलोका (निमान्) इमे विभुः ॥ ८० ॥
भूरिति ॥ सप्तलोकान् बिभर्तीति शेषः ॥ ८० ॥
लोकात्ममूर्तिस्सर्वेषां पूर्वेषामपि पूर्वजः । आधारस्सर्वभूतानां स्वयमेव हरिः स्थितः ॥ ८१ ॥
देवमानुषपश्वादिस्वरूपैर्बहुभिः स्थितः । ततः सर्वेश्वरोऽनन्तो भूतमूर्तिरमूर्तिमान् ॥ ८२ ॥
लोकात्ममूर्त्तिरिति ॥ लोका आत्ममूर्तिर्यस्य स लोकात्ममूर्तिः ॥ ८१, ८२ ॥
ऋचो यजूंषि सामानि तथैवाथर्वणानि वै । इतिहासोपवेदाश्च वेदान्तेषु तथोक्तयः ॥ ८३ ॥
ऋच इति ॥ इतिहासो भारतादिः । उपवेदा:–आयुर्धनुर्वेदगान्धर्वदण्डनीतयः । वेदान्तेष्विति पृथग्ग्रहणं प्राशस्त्यात् ॥ ८३॥
वेदाङ्गानि समस्तानि मन्वादिगदितानि च । शास्त्राण्यशेषाण्याख्यानान्यनुवाकाश्च ये क्वचित् ॥ ८४ ॥
वेदाङ्गानीति ॥ आख्यानानि-सौपर्णादीनि । ऋक्समूहविशेषः सूक्तम् । सूक्तसमूहोऽनुवाकः, यजुस्समूहश्च॥ ८४॥
काव्यालापश्च ये केचिद्गीतकान्यखिलानि च । शब्दमूर्तिधरस्यैतद्वपुर्विष्णोर्महात्मनः ॥ ८५॥
यानि मूर्तान्यमूर्तानि यान्यत्रान्यत्र वा क्वचित् । सन्ति वै वस्तुजातानि तानि सर्वाणि तद्वपुः ॥ ८६ ॥
काव्यालाप इति ॥ गीतकानि-मातृकाप्रबन्धादीनि ॥ ८५, ८६ ॥
अहं हरिः सर्वमिदं जनार्दनो नान्यत्ततः कारणकार्यजातम् ।
ईदृङ्मनो यस्य न तस्य भूयो भवोद्भवाद्वन्द्वगदा भवन्ति ॥ ८७ ॥
इत्येष तेंशः प्रथमः पुराणस्यस्य वै द्विज । यथावत्कथितो यस्मिन्धृते पापैः प्रमुच्यते ॥ ८८॥
कार्तिक्यां पुष्करस्नाने द्वादशाब्देन यत्फलम् । तदस्य श्रवणात्सर्वं मैत्रेयाप्नोति मानवः ॥ ८९ ॥
देवर्षिपितृगन्धर्वयक्षादीनां च संभवम् । भवन्ति शृण्वतः पुंसो देवाद्या वरदा मुने ॥९०॥
अहं हरिरिति । अहमर्थः प्रत्यागात्मा, सोऽपि हरि:—तच्छरीरक इत्यर्थः ॥ ८७-१० ॥
इति श्रीविष्णुपुराणे प्रथमऽशे द्वाविंशोऽध्यायः ॥ २२ ॥
इति श्रीपराशरमुनिविरचिते श्रीविष्णुपरत्वनिर्णायके श्रीमति विष्णुमहापुराणे प्रथमोंऽशस्समाप्तः ॥
इति श्रीभगवद्रामानुजपदान्तरंगश्रीविष्णुचित्तविरचिते श्रीविष्णुपुराणव्याख्याने श्रीविष्णुचित्तीचे प्रथमेंऽशे द्वाविंशोऽध्यायः ॥ २२ ॥
समाप्तं च प्रथमांशव्याख्यानम् ।।