श्रीविष्णुपुराणम्
अथद्वितीयोध्यायः
श्रीपराशरउवाच—
अविकारायशुद्धायनित्यायपरमात्मने।सदैकरूपरूपायविष्णवेसर्वजिष्णवे॥१॥
तदेवंसंक्षेपतउक्तानांप्रतिवचनानांविवरणतयाऽवतार्यमाणस्यपुराणस्यारम्भमविकारयेत्यादिभि– -(स्सप्तभि)र्नवभिःश्लोकैःपुराणप्रतिपाद्यस्वाभिमतदेवतानमस्कारपूर्वकंप्रतिजानीते।तत्रकारणत्वाभिधानतःप्रसक्तंविकारित्वंनिरस्यति-अविकारायेति।अनेनाचेतनाद्व्यावृत्तिः।* नजायतेम्रियतेइत्यादिश्रुतेःक्षेत्रज्ञस्यापिसमानमविकारित्वमितितद्व्यावृत्तिमाह-शुद्धायेति।शुद्धिः–क्लेशकर्मादिराहित्यम्; * अशुद्धास्तेसमस्तास्त्वितिहिवक्ष्यति।ईदृशीशुद्धिर्मुक्तस्याप्यस्तीतितद्व्यावृत्तिमाह–नित्यायेति।शुद्धत्वाकारेणनित्याय।अविकारित्वशुद्धत्वनित्यशुद्धत्वादीनिनित्यसूरीणामपिसाधारणानीत्यतआह–परमात्मनइति।परोयस्मान्नास्तिसपरमः, अपराधीनः;नियन्तृतयासर्वस्यव्यापनादात्मा; नित्यसूरयस्तेनपरवन्तः।अतःपदचतुष्टयेनप्रधानाद्यचेतनब्रह्मसनकादिभावनायुक्तक्षेत्रज्ञमुक्तनित्यसूरिभ्योव्यावृत्तंपरमस्वरूपंशोधितम्।अथज्ञानशक्त्यादिवदसाधारणंतद्वदेवसर्वविलक्षणंस्वानुरूपंज्योतिर्मयम् * आदित्यवर्णम् *हिरण्मयःपुरुषोदृश्यते *विद्युत: पुरुषादधि* इतिउपनिषत्सिद्धंस्वरूपमाह–सदैकरूपरूपायेति।प्रथमोरूपशब्दःस्वभाववाची।अथवासदैकरूप-तुल्यप्रकारं, हेयप्रत्यनीकतयाकल्याणैकतानतयाचस्वरूपतुल्यम्।द्वितीयोरूपशब्दोविग्रहवाची।अथसर्वव्याप्तिलक्षणमैश्वरंगुणंख्यापयन्विशेष्यंनिर्दिशति-विष्णवइति।चिदचिद्व्याप्त्याप्रसक्तंदोषंपरिहरतिसर्वजिष्णवइति।जयोहिपरस्यस्ववशेस्थापनम्।ताच्छील्यप्रत्ययेनव्याप्तिजयौस्वाभाविकावितिदर्शयति॥१॥
नमोहिरण्यगर्भायहरयेशङ्र्करायच।वासुदेवायतारायसर्गस्थित्यन्तकारिणे॥२॥
ब्रह्मशिवयोस्तद्विभूतित्वमाह-नमोहिरण्यगर्भायेति॥स्वावतारचतुर्मुखरुद्ररूपेणहिसृष्ट्यादिकर्तृत्वम्।ताराय-संसारोत्तारकाय, मोक्षप्रदाय॥वासुदेवाय-वासुदेवरूपेणमोक्षप्रदत्वम्।हरिशब्देसत्यपिवासुदेवशब्दोहरेरवतारत्वज्ञापनार्थः। *तमेवविदित्वाऽतिमृत्युमेतिनान्यःपन्थाविद्यतेऽयनाय, * मामेवयेप्रपद्यन्तेमायामेतांतरन्तिते, * संसारपारंपरमीप्समानैराराधनीयोहरिरेकएव, * ब्रह्माणंशितिकण्ठंचयाश्चान्यादेवताःस्मृताः।प्रतिबुद्धानसेवन्तेयस्मात्परिमितंफलम्।। * अन्तवत्तुफलंतेषाम्* इत्यादिभिर्भगवतएवमोक्षप्रदत्वमुक्तम्।अत्रहिरण्यगर्भादिवद्धरेर्नविभूतित्वम्, * नहिपालनसामर्थ्यमृतेसर्वेश्वरंहरिम् * इत्यादिनातस्यसर्वेश्वरत्वस्योक्तत्वात्॥२॥
एकानेकखरूपायस्थूलसूक्ष्मात्मनेनमः।अव्यक्तव्यक्तरूपायविष्णवेमुक्तिहेतवे॥३॥
अव्यक्तव्यक्तयोरपितद्रूपत्वमाहएकानेकेति॥एकानेकस्वरूपाय–कारणदशायामेकसूक्ष्माव्यक्तत्वादीनि, कार्यदशायामनेकस्थूलव्यक्तत्वादीनिविष्णवेतद्व्यापिने।उभयावस्थप्रकृतेःमुक्तिहेतवे–स्ववशवर्तित्वात् — तन्मुक्तिहेतवे॥३॥
सर्गस्थितिविनाशानांजगतोयोजगन्मयः।मूलभुतोनमस्तस्मैविष्णवेपरमात्मने॥४॥
अचित्प्रसङ्गात्कालरूपत्वमाह-सर्गस्थितीति|| जगत्सर्गादिमूलभूतोहिकालः,नकालेनविनाब्रह्मासृष्टिनिष्पादकृद्भवेत् * इत्यादेः।जगन्मय:-उन्मेषनिमेषकलोन्मानसूर्यगमनादिनापदार्थावच्छेदकस्वरूपः।परमात्मने–अकालवश्याय। * काल: पचतिभूतानिसवण्येवमहात्मना।कालःपक्वोयमन्वेतियस्तंवेदसवेदवित्॥ * कलामुहूर्तादिमयश्चकालोनयद्विभूते: परिणामहेतु:* इत्यादेः॥४॥
आधारभूतंविश्वस्याप्यणीयांसमणीयसाम्।प्रणम्यसर्वभूतस्थमच्युतंपुरुषोत्तमम्।।५।।
समष्टिक्षेत्रज्ञरूपत्वमाह-आधारभूतमिति॥विश्वस्यप्रकृतिपरिणामस्यजीवकर्मनिमित्तत्वेनतश्छरीरतयातदाधारत्वम्। *भूतमात्राःप्रज्ञामात्रावर्पिताः, * ययेदंधार्यतेजगत्* इत्यादि।अणीयांसमणीयसाम्प्रकृतेरति- सूक्ष्मावस्थाविशेषाणामपिव्याप्त्याततोऽपिसूक्ष्मतरम्।*अव्यक्तमक्षरेलीयते * इत्यादि।सर्वभूतस्थम् -सर्वभूतेष्वात्मतयाऽवस्थितम्।अच्युतं–तद्विकाररहितम्।एवंरूपसमष्टिपुरुषशरीरंपुरुषोत्तमंप्रणम्यकथयामीत्यन्वयः।यद्वा-सर्वभूतस्थं–सर्वात्मसुस्थितम्।अच्युतं-जीवगतज्ञानसङ्कोचादिरहितम्॥५॥
ज्ञानस्वरूपमत्यन्तनिर्मलंपरमार्थतः।तमेवार्थस्वरूपेणभ्रान्तिदर्शनतःस्थितम्।।६।।
व्यष्टिरूपत्वमाह-ज्ञानस्वरूपमिति॥वस्तुवृत्त्यापरिच्छिन्नानुकूलज्ञानैकस्वरूपम्।अत्यन्तनिर्मल-सर्वथामलरूपदुःखाज्ञानादिरहितम्;तमेवभ्रान्तिदर्शनतः-अथात्मन्यात्मविज्ञानात, अर्थस्वरूपेण-दृश्यस्वरूपेणस्थितम्।यद्वादेवमनुष्यादितत्तदाकारविशिष्टपिण्डमात्रतयाप्रतिभासमानम्।।६।।
विष्णुंग्रसिष्णुंविश्वस्यस्थितौसर्गेतथाप्रभुम्।प्रणम्यजगतामीशमजमक्षरमव्ययम्॥७॥
उक्तमर्थमुपसंहरति-विष्णुमिति॥प्रभुं–सृष्ट्यादिषुनैरपेक्ष्येणस्वच्छन्दम्।अजमक्षरम्–कर्माधीन–जन्मनाशरहितम्।अव्ययम्–पूर्वोक्तमहाविभूतेरप्रच्युतम्॥७॥
कथयामियथापूर्वंदक्षाद्यैर्मुनिमुत्तमैः।पृष्टःप्रोवाचभगवानब्जयोनिःपितामहः॥८॥
तैश्चोक्तंपुरुकुत्सायभूभुजेनर्मदातटे।सारस्वतायतेनापिमह्यंसारस्वतेनच॥९॥
अथश्रोतृणामादरार्थंस्वस्याप्ततमगुरुपर्वक्रममाह-कथयामीतिद्वाभ्याम्॥भगवान्-उत्पत्तिप्रलयादितत्त्वज्ञः,*उत्पत्तिंचविनाशंचभूतानामागतिंगतिम्।वेत्तिविद्यामविद्यांचसवाच्योभगवानिति *इतिवचनात्।कुतः?अब्जयोनिः––यतोभगवदौरसस्तच्छिष्यश्च। * योब्रह्माणंविदधातिपूर्वंयोवैवेदांश्चअहिणोतितस्मै * इतिश्रुतेः॥८, ९॥
परःपराणांपरमःपरमात्माऽऽत्मसंस्थितः।रूपवर्णादिनिर्देशविशेषणविवर्जितः॥१०॥
अथविस्तरेणपुराणंवक्तुमारभते-परःपराणामिति॥परःपराणाम्–स्वरूपरूपगुणैश्वर्यादिभिरुत्कृष्टे– -भ्योऽप्युत्कृष्ट: ।परम:-स्वस्मात्पररहितः।परमात्मा-आप्नोतीत्यात्मा, स्वयमात्मान्तररहितश्च।आत्मसंस्थितःत्वाधारः।रूपं–संस्थान, देवादिजातिः, वर्ण:-शुक्लादिः।आदिशब्देनक्रियाद्रव्येगृह्येते।निर्देशः–संज्ञा।तैर्जातिगुणक्रियाद्रव्यनामाख्यैःकल्पनाहेतुभिर्विशेषणैर्विवर्जितः।रूपवर्गेतिपाठेवर्गोजातिः॥१०॥
अपक्षयविनाशाभ्यांपरिणामर्र्द्धिजन्मभिः।वर्जितःशक्यतेवक्तुंयःसदाऽस्तीतिकेवलम्॥११॥
षइभिर्भावविकारैर्वर्जितइत्याहअपक्षयेत्यादिना-अपक्षयइति॥सदाऽस्तीतिवचनात्कादाचित्कास्तित्वविकारोनिरस्तः।एतत्सत्तयाऽनभिव्याप्तस्यकालस्याभावात्।अनेनकालानवच्छेदउक्तः॥११॥
सर्वत्रासौसमस्तंचवसत्यत्रेतिवैयतः।ततस्सवासुदेवेतिविद्वद्भिःपरिपठ्यते॥१२॥
देशानवच्छेदंनामविशेषनिर्वचनेनदर्शयतिसर्वत्रेति।। * नैनमूर्ध्वंनतिर्यञ्चनमध्ये| परिजग्रमत्, * अन्तर्बहिश्चतत्सर्वंव्याप्यनारायणःस्थितः * इत्यादेःसमस्तमत्रवसति; जातिगुणप्रभादिवत्तदधीनधारणंभवति *भर्तासन्भ्रियमाणोबिभर्त्ति * इतिश्रुतेः।अग्निजलादिभिर्नभइवसर्वगतोऽपितद्गतदोषैरसंस्पृष्टोद्योततइत्याह–देवइति॥१२॥
तद्ब्रह्मपरमंनित्यमजमक्षयमव्ययम्।एकस्वरूपंतुसदाहेयाभावाच्चनिर्मलम्॥१३॥
एषएववेदान्तवेद्यंब्रह्मेत्याह-तद्ब्रह्मेति॥अक्षयम्-अपक्षयरहितम्।अव्ययं–परिणामविवृद्ध्यख्या– -वस्थान्तररहितम्।अतःएकस्वरूपम्।हेयम्–अविद्यास्मितादितत्फलंमलम्;यथोक्तं* कामःक्रोधश्चमोहश्चहर्षोमानोमदोमतिः।विषादश्चाष्टमःप्रोक्तइत्येतेमानसामलाः* इति।गुणाःसत्त्वादयः॥१३॥
तदेवसर्वमेवैतद्व्यक्ताव्यक्तस्वरूपवत्।तथापुरुषरूपेणकालरूपेणचस्थितम्॥१४॥
वस्तुतोऽनवच्छेदमाह-तदेवेति॥व्यक्ताव्यक्तस्वरूपवदेतत्सर्वंतदेवब्रह्म;तथातदेवसमष्टिव्यष्टि
पुरुषरूपेणकालरूपेणचस्थितम्।चिदचित्प्रकारस्यब्रह्मणएववस्तुत्वाद्वस्त्वन्तरापरिच्छेदः॥१४॥
परस्यब्रह्मणोरूपंपुरुषःप्रथमंद्विज।व्यक्ताव्यक्तेतथैवान्येरूपेकालस्तथाऽपरम्॥१५॥
हेयप्रtयनीककल्याणगुणाश्रयस्यब्रह्मणोविकारापुरुषार्थादिदोषाश्रयसrवतादात्म्येतद्गतादोषाःप्रसज्येरन्नित्याशंक्य *यस्यात्माशरीरम्* इत्यादिश्रुतिसिद्धशरीरात्मभावेनतादात्म्यंनतुस्वरूपेणेत्याह | परस्येति॥पुरुषस्यकर्तृत्वभोक्तृत्वचेतनत्वादिनाप्रकृतिंप्रतिप्राधान्यात्प्राथम्यम्॥१५॥
प्रधानपुरुषव्यक्तकालानांपरमंहियत्।पश्यन्तिसूरयःशुद्धंतद्विष्णोःपरमंपदम्॥१६॥
सर्वस्यब्रह्मरूपत्ववचनेनचोद्यंकथंपरिहृतमित्यतआह–प्रधानेति॥परमंपदम-पद्यतइतिपदं, परप्राप्यत्वरूपं,यतःप्रधानादिरूपेभ्यःपरमं-विलक्षणंतस्मात्सूरयःशुद्धं-रूपभूतप्रधानादिगतविकाराज्ञानादि– रहितंपरमं-ज्ञानानन्दादिमिःसर्वोत्कृष्टंचपश्यन्तीत्यर्थः॥१६॥
प्रधानपुरुषव्यक्तकालास्तुप्रविभागशः।रूपाणिस्थितिसर्गान्तव्यक्तिसद्भावहेतवः॥१७॥
ननुप्रधानादीनांनानारूपत्वेनमेदाब्रह्मणस्तद्गतविकारादिदोषोमाभूत्।जगदुपादानभूतस्यब्रह्मणःकथंविकाराद्यप्राप्तिरित्यतआह–प्रधानेति॥प्रधानपुरुषव्यक्तकालारूपाणिप्रविभागशः–परस्परंविकारित्व– भोक्तृत्वादिस्वभावासङ्करेणस्थित्यादीनांव्यक्तौज्ञप्तौसद्भावेचहेतवः।व्यक्तिर्विशेषः।हेतुशब्दोब्रह्मणस्तेभ्योनियन्तृत्वशेषित्वादिनाविशेषप्रदर्शनार्थः॥१७॥
व्यक्तंविष्णुस्तथाऽव्यक्तंपुरुषःकालएवच।क्रीडतोबालकस्येवचेष्टांतस्यनिशामय॥१८॥
ननुप्रधानादीनांसृष्ट्यादिहेतुत्वाद्विष्णोःकथं’कारणत्वमतआह-व्यक्तमिति॥व्यक्तादीनांतदघीन- -स्वरूपस्थितिप्रवृत्तित्वेनतच्छरीरत्वात्तद्विशिष्टस्यविष्णोःकारणत्वंनानुपपन्नम्।व्यक्तंविष्णुरित्यादि।व्यक्तादिशरीरकोविष्णुरित्यर्थः।नन्ववाप्तसमस्तकामस्यप्रयोजनाभावात्सृष्टयादिर्नोप –पद्यतइत्यतआह-क्रीडतइति।कीडैवप्रयोजनमित्यर्थः॥१८॥
अव्यक्तंकारणंयत्तत्प्रधानमृषिसत्तमैः।प्रोच्यतेप्रकृतिःसूक्ष्मानित्यंसदसदात्मकम्।।१९।।
अथसृष्टिवक्तुंप्रलयावसानेऽवस्थितानांप्रधानपुरुषदीनांस्वरूपमाह-अव्यक्तमित्यादिपञ्चभिः।।अव्यक्तमिति।यत्तदिति।भगवद्रूपतयोक्तंयदव्यक्तंतत्प्रकृति: प्रधानमित्यादिशब्दैरुच्यतेमन्वादिभिः, नसांख्यद्यभिमतम्,नित्यंसदसदात्मकं-चेतनाचेतनात्मकत्वेननित्यम्।*दारुण्यग्निरितिवक्ष्यति*॥१९॥
अक्षयंनान्यदाधारममेयमजरंध्रुवम्।शब्दस्पर्शविहीनंतद्रूपादिभिरसंहितम्।।२०।।
अक्षयमिति॥अक्षयम्-अकृत्स्नपरिणामि।अक्षय्यमितिपाठेक्षयानर्हम्।नान्यदाधारम्-अकार्यवादन्यत्रा– समवेतम्।अत्रान्यशब्दस्यपुल्लिङ्गत्वेऽप्यदडादेशःसमासेतदलोपश्चार्षौ।अमेयं–देशकालादिना; अजरं-कालेननजीर्यति।ध्रुवं–स्पन्दरहितम्।विशेषगुणराहित्यमाह–शब्देति॥२०॥
त्रिगुणंतज्जगद्योनिरनादिप्रभवाप्ययम्।तेनाग्रेसर्वमेवासीद्व्याप्तंवैप्रलयादनु।।२१।।
त्रिगुणमिति॥त्रिगुणं–गुणत्रयात्मकम्।अनादिप्रभवाप्ययम्—आदिः-कारणं,प्रभवः–जन्म, अप्ययः-लयः, तैर्विहीनम्।अग्रे–सृष्टे: पूर्वकाले; प्रलयादनु–प्राकृतप्रलयकालान्ते, व्याप्तं–ग्रस्तम्, अम्भसेवलवणम्॥२१॥
वेदवादविदोब्रह्मनियताब्रह्मवादिनः।पठन्तिचैतमेवार्थंप्रधानप्रतिपादकम्॥२२॥
वेदेति॥वेदवादविदः-वेदवादोवैदिकन्यायः, तद्विदः, ब्रह्मनियताः-वेदार्थैकरुचयः, ब्रह्मवादिनः-ब्रह्मैककारणत्व -वादिनः।एतम्–उक्तमेवार्थंप्रति, प्रधानप्रतिपादकंश्लोकद्वयंपठन्तीत्याह-पठन्तीति॥२२॥
नाहोनरात्रिर्ननभोनभूमिर्नासीत्तमोज्योतिरभूच्चनान्यत्।
श्रोत्रादिबुद्ध्याऽनुपलभ्यमेकंप्राधानिकंब्रह्मपुमांस्तदासीत्॥२३॥
तदेवश्लोकद्वयंदर्शयति-नाहरिति।श्रोत्रादिबुद्ध्याऽनुपलभ्यं-शब्दादिराहित्याच्छ्रोत्रादिजन्यज्ञानेनागम्यम्।प्रधानमेवप्राधानिकम्;खार्थेठक्प्रत्ययः।ब्रह्मच, पुमान्–समष्टिपुरुषश्चएकमासीत्, * तमसासीत्तमसागूढमग्रे, * तमःपरेदेवएकीभवति * इत्यादिश्रुतेः।नाहोनरात्रिरितिस्थूलकालोपाधिभूतमयोतिरादिनिषेधेअपितदासीदितिनिर्देशात्सूक्ष्मःकालोऽस्तीतिगम्यते॥२३॥
विष्णोःस्वरूपात्परतोदितेद्वेरूपेप्रधानंपुरुषश्चविप्र।
तस्यैवतेऽन्येनधृतेवियुक्तेरूपान्तरंतद्द्विजकालसंज्ञम्॥२४॥
विष्णोःस्वरूपादिति।अत्रखरूपशब्दोरूपवचनः;स्वरूपात्-रूपात्।उदिते-उद्भूते;आर्षःसन्धिः।दितेइतिपदच्छेदेविभक्तेइत्यर्थः * तस्मात्तमस्संजायते॥इतिश्रुतेः।तेरूपेवियुक्ते।सृष्ट्यर्हसंयोगविरहितेयथास्यातांतथातस्यैव, येनान्येनधृतेस्तःतदूपान्तरंकालसंज्ञम्।तेऽन्येनेत्यार्षत्वात्साधुःसन्धिः॥२४॥
प्रकृतौसंस्थितंव्यक्तमतीतप्रलयेतुयत्।तस्मात्प्राकृतसंज्ञोऽयमुच्यतेप्रतिसञ्चरः॥२५॥
प्रकृताविति॥प्रकृतौसंस्थितं-लीनं, प्रतिसञ्चरः-प्रलयः॥२५॥
अनादिभगवान्कालोनान्तोऽस्यद्विजविद्यते।अव्युच्छिन्नास्ततस्त्वेतेसर्गस्थित्यन्तसंयमाः॥२६॥
कालस्यप्रकृतिपुरुषसंयोजकत्वाद्व्यक्तोत्पत्त्यादिप्रवाहहेतुत्वाच्चव्यक्तवनप्रकृतौलयइत्याह- अनादिरिति।ततःकालात्; कालस्यानाद्यन्तत्वात्सर्गकालनिरोधःसंयमः–जगनियमनानुप्रवेशोवा।प्रकृतिपुरुषरूपवत्कालरूपमपिपरस्मिन्नन्तर्हितम्॥२६॥
गुणसाम्येततस्तस्मिन्पृथक्पुंसिव्यवस्थिते।कालस्वरूपंतद्विष्णोर्मैत्रेयपरिवर्तते॥२७॥
प्रकृतेरविशदसततपरिणामगणितद्विपरार्द्धकालावसानेप्रथमंसृष्टिकालोन्मेषमाह-गुणसाम्यइति।गुणसाम्ये-सत्वादिगुणसाम्यरूपेगुणसाम्यनिरूपणीयेतस्मिन्-प्रधानेपुंसिचपृथक्व्यवस्थिते-पृथग्वियुक्तेस्थितेसति, तत्कालस्वरूपंपरिवर्तते-सृज्यजीवकर्मानुगुणसर्गानुकूलंभवतीत्यर्थः॥२७॥
ततस्तुतत्परंब्रह्मपरमात्माजगन्मयः।सर्वगस्सर्वभूतेशःसर्वात्मापरमेश्वरः॥२८॥
अथसृष्ठ्यर्थंप्रधानपुंसोःक्षोभमाह–ततइति॥२८॥
प्रधानपुरुषौचापिप्रविश्यात्मेच्छयाहरिः।क्षोभयामाससंप्राप्तेसर्गकालेव्ययाव्ययौ॥२९॥
प्रधानमिति।।आत्मेच्छया–* बहुस्यामितिसंकल्पात्मिकया, प्रविश्य-विषयीकृत्य, क्षोभयामाससर्गोन्मुखौचकार।प्रधानस्यक्षोभोगुणवैषम्यंप्रवृत्त्युन्मुखत्वंच, पुंसोज्ञानविकासःसंस्कारोद्बोधश्च।व्ययाव्ययौ– व्येतीतिव्ययः, अव्ययः–व्ययरहितः, विकारकूटस्थावित्यर्थः॥२९॥
यथासमिघिमात्रेणगन्धःक्षोभायजायते।मनसोनोपकत्वात्तथाऽसौपरमेश्वरः॥३०॥
ईश्वरःप्रकृतिपुरुषयोःक्षोभणेऽपिस्वयमविकारइत्याह-यथेति।यथागन्धःकिञ्चिद्विकाररहितोऽपिसन्निधिमात्रेणमनसःक्षोभाय–सुखदुःखादिविकारायभवति॥३०॥
सएवक्षोभकोब्रह्मन्क्षोभ्यश्चपुरुषोत्तमः।ससंकोचविकासाभ्यांप्रधानत्वेऽपिचस्थितः॥३१॥
गंधदृष्टान्तेनतस्यनिमित्तत्वमेवकिमित्याशंकायामुपादानमपिसएवेत्याह–सएवेति।।क्षोभकस्सन्प्रधानपुरुषात्मकंस्वयमेवक्षोभयति।नहिखस्माद्बहिर्भूतंकुलालोमृत्पिण्डमिव, * तदात्मानंस्वयमकुरुत * आत्मकृतेः; * सोऽमिध्यायशरीरात्स्वात् * इत्यादिभ्यः।नकेवलंजगदुपादानं, कार्यभूतंजगदपिसएवेत्याह-ससंकोचेति।संकोचविकासाभ्यांयुक्तः; प्रधानत्वेऽपिस्थितःसएव॥३१॥
विकासाणुस्वरूपैश्चब्रह्मरूपादिभिस्तथा।ब्यक्तस्वरूपश्चतथाविष्णुःसर्वेश्वरेश्वरः।।३२।।
विकासेति।विकासाणुस्वरूपैःव्यष्टिसमष्टिरूपैश्च, तथाब्रह्मादिरूपैश्चयुक्तः; सएवव्यक्तस्वरूपःमहदादिस्वरूपश्च।।३२॥
गुणसाम्यात्ततस्तस्मात्क्षेत्रज्ञाधिष्ठितान्मुने।गुणव्यञ्जनसंभूतिःसर्गकालेद्विजोत्तम।।३३।।
सृष्टिमाह-गुणसाम्यादिति॥तत:-क्षोभानन्तरम्।क्षेत्रज्ञकर्मप्रेरितात्गुणासाम्यात्-गुणशक्ति-साम्यरूपात्प्रधानात्, व्यज्यन्तेऽनेनगुणाइतिगुणव्यञ्जनं-महत्तत्त्वं, तस्यसंभूतिः॥३३॥
प्रधानतत्त्वमुद्भूतंमहान्तंतत्समावृणोत्।सात्त्विकोराजसश्चैवतामसश्चत्रिधामहान्॥३४॥
प्रधानतत्वमिति॥उद्भूतंमहान्तंतत्प्रधानंसमावृणोत्।यद्वाउद्भूतमितिप्रधानविशेषणम्।सात्त्विकइत्यादि।सात्त्विकत्वादिकंप्रदेशभेदेनोद्भूतंगुणत्रयम्॥३४॥
प्रधानतत्त्वेनसमंत्वचाबीजमिवावृतम्।वैकारिकस्तैजसश्चभूतादिश्चैवतामसः॥३५॥
प्रधानतत्त्वेनेति।समं-बहिस्समन्ततः।वैकारिकः-सात्विकः, तेजसोराजसः, भूतादिःतामसः, वैकारिकपदेनाविकाररूपस्यपरमसत्त्वस्यव्यावृत्तिः; * कामंदेवाश्चमुनयःसत्त्वस्थानृपसत्तम।हीनाःसत्त्वेन | सूक्ष्मेणततोवैकारिकाःस्मृताः॥इतिमोक्षधर्मोक्तेः।।३५।।
त्रिविधोऽयमहंकारोमहत्तत्त्वादजायत।भूतेन्द्रियाणांहेतुस्सत्रिगुणत्वान्महामुने।यथाप्रधानेनमहान्महतासतथावृतः॥३६॥
त्रिविधइति॥भूतेन्द्रियाणांहेतुःसइत्यत्रतामसांशेनभूतानांहेतुः, सात्त्विकांशेनेन्द्रियाणाम्।राजसांशेनोभयोरनुग्राहकः॥३६॥
भूतादिस्तुविकुर्वाणःशब्दतन्मात्रकंततः।ससर्जशब्दतन्मात्रादाकाशंशब्दलक्षणम्॥३७॥
भूतादिरित्यादि॥ततोभूतादिर्विकुर्वाण:-क्षुभ्यन्, अनभिव्यक्तविशेषशब्दगुणकंशब्दतन्मात्रंससर्ज।शब्दतन्मात्राच्छब्द –विशेषलक्षणंस्थूलाकाशमभूदित्यर्थः॥३७॥
शब्दमात्रंतथाऽऽकाशंभूतादिःससमावृणोत्।आकाशस्तुविकुर्वाणःस्पर्शमात्रंससर्जह॥३८॥
शब्दमात्रमिति॥शब्दभात्र-ं–शब्दतन्मात्रम्;तथाआकाशं-स्थूलाकाशंच, सः–भूतादिः, आवृणोत्।एतेनपूर्वपूर्वतन्मात्रमुत्तरोत्तरतन्मात्रंतद्विशेषंचावृणोदितिदर्शितम्।आकाशस्त्विति।आकाश:–तन्मात्ररूपस्थूलाकाशमिवस्पर्शतन्मात्रंचससर्ज॥३८॥
बलवानभवद्वायुस्तस्यस्पर्शोगुणोमतः।आकाशंशब्दमात्रंतुस्पर्शमात्रसमावृणोत्।।३९।।
बलवानिति॥बलवानभवद्वायुः, स्पर्शमात्रादितिशेषः।स्पर्शःस्पर्शविशेषः॥३९॥
ततोवायुर्विकुर्वाणोरूपमात्रंससर्जहै।ज्योतिरुत्पद्यतेवायोस्तद्रूपगुणमुच्यते॥४०॥
ततइति।वायुःतन्मात्ररूप: रूपमात्रंससर्ज।ज्योतिरिति।वायो:-रूपतन्मात्रसहिताद्वायोः, स्पर्शतन्मात्ररूपात्स्थूलंज्योतिरुत्पद्यतइत्यर्थः।अत्रेदमनुसंधेयम्।पूर्वपूर्वतन्मात्रसहितादेवोत्तरोत्तरतन्मात्रात्स्वविशेषोत्पत्तिर्नकेवलात्।तथासतिवाय्वादिभूतविशेषाणांंतत्तद्गुणाधिक्यायोगात्; कारणक्रमेणहिकार्येगुणसंभवइति।अत्रपुराणान्तरवचनम्। * आकाशंशब्दतन्मात्रंस्पर्शमात्रंसमाविशत्।रूपंतथैवाविशतःशब्दस्पर्शगुणावुभौ।शब्दःस्पर्शश्चरूपंचरसमात्रंसमाविशत्।तस्माच्चतुर्गुणाह्येतेविशेषाश्चेन्द्रियग्रहाः॥इत्यादि॥४०॥
स्पर्शमात्रस्तुवैवायूरूपमात्रंसमावृणोत्।ज्योतिश्चापिविकुर्वाणंरसमात्रंससर्जहै॥४१।।
स्पर्शमात्रइति।ज्योतिः-रूपतन्मात्रम्॥४१।।
संभवन्तिततोऽम्भांसिरसाधाराणितानिच।रसमात्राणिचाम्भांसिरूपमात्रंसमावृणोत्॥४२॥
संभवन्तीति।ततोऽम्भांसि-ततः–रसतन्मात्रात्पूर्वतन्मात्रत्रयसहितात्॥४२॥
विकुर्वाणानिचाम्भांसिगन्धमात्रंससर्जिरे।संघातोजायतेतस्मात्तस्यगन्धोगुणोमतः॥४३॥
विकुर्वाणानीति| अम्भांसि-रसतन्मात्राणि, संघातः-भूमिः, संहतशब्दादिसर्वर्गुणकत्वात्; तस्मात्गन्धतन्मात्रात्पूर्वतन्मात्रचतुष्टयसहितात्॥४३॥
तस्मिंस्तस्मिंस्तुतन्मात्रंतेनतन्मात्रतास्मृता।।४४।।
तस्मिन्निति।तस्मिन्-व्योमादौविशेषरहितशब्दस्पर्शादिगुणमात्रम्; तेनतस्मिन्तत्त्वेतन्मात्रता॥४४॥
तन्मात्राण्यविशेषाणिअविशेषास्ततोहिते॥४५॥
तदेवाहतन्मात्राणीति।।अविशेषाणि-विशेषरहितानि;ततः-तेन, ते– शब्दादयोऽविशेषसंज्ञाः॥४५॥
नशान्तानापिघोरास्तेनमुढाश्चाविशेषिणः।भूततन्मात्रसर्गोऽयमहंकारात्तुतामसात्॥४६॥
विशेषशब्दार्थंव्याकुर्वंस्तत्तद्भावविशेषमाह–नशान्ताइति।अविशेषिणः-शान्तघोरमुढाख्यत्रिगुणजन्य- -विशेषरहितत्वादविशेषिणः।उक्तंभूतसर्गंनिगमयतिभूततन्मात्रेति||भूतानांतन्मात्राणांचसर्गःअहंकारात्तुतामसात्।अयमुक्तक्रमेण, नत्वव्यवधानेन।केचित्, * आत्मनआकाशसंभूतः, आकाशाद्वायुः * इत्यादिश्रुतिदर्शनादाकाशादिभूतविशेषाणांपूर्वपूर्वंप्रतिप्रकृतित्वमाहुः।तत्* अष्टौप्रकृतयष्षोडशविकृतयइतिश्रुतिविरुद्धम्।तेषामपिप्रकृतित्वेप्रकृतीनामाधिक्यंविकृतीनांन्यूनत्वंचस्यात्।तस्मात्* अष्टौप्रकृतय*इत्यादिश्रुतिविरोधेन * आत्मनआकाशः*इत्यादिश्रुतेरितितैरर्थोव्याख्येयः।व्याख्यातश्चाधस्तादस्माभिरेवपूर्वपूर्वतन्मात्रंस्वविशेषमुत्तरोत्तर -तन्मात्रंचोत्पादयतीत्याचक्षाणैः।*पृथिव्याओषधयः*इत्योषधिविकृतित्वेऽपिपृथिव्यानतत्वत्प्रकृतित्वमित्यविरोधः।तस्मादुक्तप्रकारएवसृष्टिक्रमः॥४६॥
तेजसानीन्द्रियाण्याहुर्देवावैकारिकादश।एकादशंमनश्चात्रदेवावैकारिकाःस्मृताः॥४७॥
तैजसानीति॥राजसाहंकारकार्याणीन्द्रियाणीतिकेचिदाहुः।देवाः-मनस्सहितानिदशेन्द्रियाणि, वैकारिका:-सात्त्विकाहंकारकार्याणीत्यपरे।स्वपक्षमाह–अत्रदेवाइति।इन्द्रियाणांदेवशब्दवाच्यत्वंतदधिष्ठातृदेवताभिप्रायेण।तैजसाहंकारस्तुवैकारिकतामसयो: स्वकार्यकरणेप्रवर्त्तकः; सत्त्वतमसोःकेवलं * रजःप्रवर्तकं, तत्रेतिवायूक्तेः।अहंकारस्येन्द्रियाणिप्रतिनिमित्तत्वमेव, भूतानामेवोपादानत्वम् * अन्नमयहिसोम्यंमन; आपोमयःप्राणःतेजोमयीवाक् * इत्यादिश्रुतेरितिकेचिदाहुः; तदयुक्तम्।अहंकारस्यैवोपादानत्वेऽपिभूतानामाप्यायकत्वेनापितथानिर्देशोपपत्तेः।अयमत्रेन्द्रियस्यसृष्टिक्रम:-वैकारिकाहंकारात्क्रमेणशब्दतन्मात्रादिपञ्चकसहायात्क्रमेणश्रोत्रादिज्ञानेन्द्रियपञ्चकस्यसृष्टिः; तस्मादेवतत्सहायाद्वागादिकर्मेन्द्रियपञ्चकस्यसृष्टिः; असहायात्तुतस्मान्मनसःसृष्टिरिति।।४७॥
त्वकूचक्षुर्नासिकाजिह्वाश्रोत्रमत्रचपञ्चमम्।शब्दादीनामवाप्त्यर्थबुद्धियुक्तानिवैद्विज॥४८॥
त्वगिति।अवाप्त्यर्थं-पुंसोविषयज्ञानार्थम्।बुद्धियुक्तानित्वगादीनिविषयज्ञानार्थंभवन्तीतिशेषः।अत्रबुद्धिशब्देनान्तःकरणस्यप्रहणम्।अत्रश्लोकेक्रमोनविवक्षितः॥४८॥
पायूपास्थौकरौपादौवाक्चमैत्रेयपञ्चमी।विसर्गशिल्पगत्युक्तिकर्मतेषांचकथ्यते।।४९॥
पाय्विति॥पायोर्विड्विसर्गः, उपस्थस्यमूत्ररेतोविसर्गः।विसर्गशिल्पगत्युक्तीतिद्वन्द्वैकवद्– भावान्नपुंसकत्वम्॥४९।।
आकाशवायुतेजांसिसलिलंपृथिवीतथा।शब्दादिभिर्गुणैर्ब्रह्मन्संयुक्तान्युत्तरोत्तरैः।।५०।।
अथाण्डसृष्ट्यर्थंभूतानांपञ्चीकरणमाह-आकाशेति।अत्राकाशादयःशब्दाभूतविशेषपराः।उत्तरोत्तरैः–उत्तरत्रोत्तरत्रउत्तरैः-अधिकैरित्यर्थः।एतदुक्तंभवति-आकाशादीनिमहाभूतानिउत्तरत्रोत्तरत्रवाय्वादावधिकैःशब्दादिभिर्गुणैर्विशिष्टानि-परस्परंयुक्तानि-मिलितानि; तेनाकाशएकगुणोवायुर्द्विगुणस्तेजस्त्रिगुणमापश्चतुर्गुणाःपृथिवीपञ्चगुणेति॥५०॥
शान्ताघोराश्चमूढाश्चविशेषास्तेनतेस्मृताः।।५१॥
शान्ताइति॥तेन–परस्परंमेलनेन, प्रत्येकंविशेषाःशान्ताघोरामूढाः।स्वतःशान्तेभूमिजले, घोरौतेजोऽनिलौ, मूढआकाशः; मेलनात्सर्वेशान्तघोरमूढाः।अयमत्रपञ्चीकरणप्रकारः-आकाशस्यैकमर्द्धमाकाशत्वेनस्थितम्।अन्यस्मिन्नर्द्धेचतुर्धाकृतेवाय्वादिचतुर्भेदभूतप्रवेशः; एवंभूतान्तरोऽपि।उक्तंहि * एवंजातेषुभूतानिप्रत्येकंस्युर्द्विधाततः।चतुर्द्धाभिन्नमेकैकमर्द्धमर्द्धंतथास्थितम्॥व्योम्नोऽर्द्धभागाश्चत्वारोवायुतेज:पयोभुवाम्।अर्द्धानियानिवायोस्तुव्योमतेज:पयोभुवाम्॥इत्यादि॥५१॥
नानावीर्याःपृथग्भूतास्ततस्तेसंहतिंविना।नाशक्नुवन्प्रजाःस्रष्टुमसमागम्यकृत्स्नशः॥५२॥
अ(था)ण्डोत्पत्त्यर्थंमहदादीनांपरस्परात्मकत्वमित्याह–नानावीर्याइति॥नानावीर्यत्वमति –द्रवातिकठिनत्वादिकम्।संहतिंविना-मेलनंविना, अतएवअसमागम्य–समित्येकीभावे, एकत्वमप्राप्य।प्रजा-ग्रहणमण्डस्याप्युपलक्षणार्थम्॥५२।।
समेत्यान्योन्यसंयोगंपरस्परसमाश्रयाः।एकसंघातलक्ष्याश्चसंप्राप्यैक्यमशेषतः॥५३॥
समेत्येति॥समेत्य-परस्परसमाश्रयादन्योन्यसंयोगं–संश्लेषंसमेत्य, अनन्तरमशेषतऐक्यंप्राप्य, एकसंघातलक्ष्य:-एकसंधातवीक्षकाः, चतुर्विधानन्तप्रजानिरन्तराण्डोत्पादनतत्पराः।पाठान्तरेएकःसंघात:अण्डेलक्ष्य-साध्यंयेषांतेएकसंघातलक्ष्याः।यद्वाएकसंधातलक्ष्याः-एकःसंघातःइतिदृश्याः॥५३॥
पुरुषाधिष्ठितत्वाच्चअव्यक्तानुग्रहेणच।महदा(दि)द्याविशेषान्ताह्यण्डयुत्पादयन्तिते॥५४॥
पुरुषाधिष्ठितत्त्वादिति॥पुरुषाधिष्ठितत्वात् —पुण्यपापपरिष्वक्तजीवानुप्रविष्टत्वात्।अव्यक्तानुग्रहेणअनुग्रहोऽनुप्रवेशः, बीजस्यत्वगनुग्रहेणांकुरारम्भवत्,आप्यायकत्वंवा॥५४॥
तत्क्रमेणविवृद्धंसज्जलबुद्बुदवत्समम्।भूतेभ्योऽण्डंमहाबुद्धेबृहत्तदुदकेशयम्।प्राकृतंब्रह्मरूपस्यविष्णोःस्थानमनुत्तमम्।।५५।।
तदिति।समं—समत्वम्, अण्डस्यहिभित्याद्यवयवानांसमकालत्वंजलबुद्बुदवत्।अनेनास्थैर्यंचसुचितम्।भूतानामेवप्राधान्यमित्याह-भूतेभ्यइति।ब्रह्मरूपस्य, प्राकृतमितिविशेषणाभ्यांस्वासाधारणंदिव्यरूपमप्राकृतंस्थानंचास्तीतिसूचितम्॥५५॥
तत्राव्यक्तस्वरूपोऽसौव्यक्तरूपोजगत्पतिः।विष्णुर्ब्रह्मस्वरूपेणस्वयमेवव्यवस्थितः।।५६।।
अण्डभोक्ताचतुर्मुखएवकथंविष्णो:स्थानमित्युच्यते? इत्यत्राह-तत्रेति॥अव्यक्तं-प्रधानं, व्यक्तंमहदादि, असौस्वयमेवप्रधानादिपुरुषापदेशेनस्थितः *एतौद्वौविबुधश्रेष्ठौप्रसादक्रोधजौस्मृतौ।तदादर्शितपन्थानौसृष्टिसंहारकारकौ॥निमित्तमात्रंतावत्र * इतिभारतवचनात्॥५६॥
मेरुरुल्बमभूत्तस्यजरायुश्चमहीधराः।गर्भोदकंसमुद्राश्चतस्यासन्सुमहात्मनः।।५७॥
मेरुरित्यादि॥तस्य-ब्रह्मणःउल्बं-गर्भवेष्टनमांसं, तद्वेष्टनंजरायु:-गर्भाशयः, उत्तरंवा*उल्बाजरायुः*इतिश्रुतेः।स्वदेहभूतब्रह्माण्डावयवभूतैर्मेर्वादिभिस्सहितोहिरण्यगर्भःसमवत्र्तताग्रेइत्यर्थः।*हिरण्यगर्भस्–समवर्तताग्रे * इतिश्रुतेः।।५७।।।
साद्रिद्वीपसमुद्राश्चसज्योतिर्लोकसंग्रहः।तस्मिन्नण्डेऽभवद्विप्रसदेवासुरमानुषः।।५८॥
यद्ब्रह्मणासहसृष्टंयच्चब्रह्मणासृष्टंतत्सर्वंतस्मिन्नण्डएवेत्याह-साद्रीति॥सज्योति:ज्योतिश्चक्रसहितः।लोकसंग्रहः-लोकसमूहः॥५८॥
वारिवह्न्यनिलाकाशैस्ततोभूतादिनाबहिः।वृतंदशगुणैरण्डंभूतादिर्महतातथा॥५९॥
वारीत्यादि।दशगुणैः-दशगुणोत्तरैः॥५९॥
अव्यक्तेनावृतोब्रह्मंस्तैःसर्वैःसहितोमहान्।एभिरावरणैरण्डंसप्तभिःप्राकृतैर्वृतम्।।
नालिकेरफलस्यान्तर्बीजंबाह्यदलैरिव।।६०।।
अव्यक्तेनेति।प्राकृतैरित्यनेनप्रकृतेरपिलक्षणयाग्रहणम्,छत्रीतिन्यायात्॥६०॥
जुषन्रजोगुणंतत्रस्वयंविश्वेश्वरोहरिः।ब्रह्माभूत्वाऽस्यजगतोविसृष्टौसंप्रवर्तते।।६१।।
सृष्टंचपात्यनुयुगंयावत्कल्पविकल्पना।सत्त्वभृद्भगवान्विष्णुरप्रमेयपराक्रमः॥६२।।
तमोद्रेकीचकल्पान्तेरुद्ररूपीजनार्दनः।मैत्रेयाखिलभूतानिभक्षयत्यतिभीषणः॥६३॥
भक्षयित्वाचभूतानिजगत्येकार्णवीकृते।नागपर्यङ्कशयनेशेतेऽसौपरमेश्वरः।।६४।।
प्रबुद्धश्चपुनःसृष्टिंकरोतिब्रह्मरूपधृक्।।६५।।
क्षेत्रज्ञबुद्धिपूर्वकसर्गादौक्षेत्रज्ञांशस्यैवगुणवश्यत्वंनतुविष्णोरित्याह-जुषन्निति॥ब्रह्माभूत्वारजोगुणंजुषन्तत्रापिस्वयंविश्वेश्वरः-सर्वेश्वरोनगुणवश्यः, अपितुस्वसंकल्पेनक्षेत्रज्ञानेवगुणवश्यान्करोति॥सृष्टमिति॥कल्पविकल्पना-ब्रह्माहर्व्यवहारः।सत्वभृत्-सत्त्वम्-अप्राकृतंशुद्धसत्त्वगुणंबिभर्तीतिसुत्त्वभृत्, *गुणादिदोषांश्चमुनेव्यतीतः, * इत्युक्तेः।किंच * सत्त्वादयोनसन्तीशेयत्रचप्राकृतागुणाः।नहितस्यगुणाःसर्वेसर्वैर्मुनिगणैरपि।।वक्तुंशक्यावियुक्तस्यसत्त्वाद्यैरखिलैर्गुणैः।इत्यादिभ्यः॥६२-६५॥
सृष्टिस्थित्यन्तकरणींब्रह्मविष्णुशिवात्मिकाम्।ससंज्ञांयातिभगवानेकएवजनार्दनः॥६६॥
ब्रह्मादीनपदिश्यतेषुस्थित्वास्वयमेवसृष्ट्यदिकंकरोतीत्याह-सृष्टीति॥सृष्टिस्थित्यन्तनिमित्तांब्रह्मविष्णुशिवात्मिकाम्–ब्रह्माविष्णुःशिवइत्येवंरूपांसंज्ञांतत्तद्रूपोभगवानेवयातीत्यर्थः।सर्गस्थित्यन्तःकर -णामितिवक्तव्येङीपःप्रयोगआर्षत्वात्साधुः।यद्वाकर्मणिव्युत्पत्त्यासंज्ञायमानासंज्ञात्ववस्थोच्यते।तथाचसर्गादिक्रियासाधनभूतांब्रह्माद्यात्मिकामवस्थांयातीत्यर्थः।करणीमितिकरोते; करणेल्युट्प्रत्ययः॥६६॥
स्रष्टासृजतिचात्मानंविष्णुःपाल्यंचपातिच।उपसंह्रियतेचान्तेसंहर्ताचस्वयंप्रभुः॥६७॥
तद्वत्सृज्यपाल्यसंहार्यानन्तवस्त्वन्तरेषुसंज्ञान्तराभिधेयतयावर्ततइत्याह–स्रष्टेति॥स्रष्टारंब्रह्माणं, सृज्यंचदक्षादिगणं, संहर्तारंरुद्र, संहार्यंचत्रैलोक्यं, युगपन्निर्दिश्यतंदूपत्वविधानात्सृज्यसंहार्यभूताद्वस्तुनःस्रष्टृ- संहर्त्रोर्नविशेषइतिप्रदर्शनमस्मिन्श्लोकेऽभिप्रेतम्।तस्यक्षेत्रज्ञकर्मानुगुणंगुणनियन्तृत्वमेवनभोक्तृत्वमित्याहस्वयंप्रभुरिति॥६७॥
पृथिव्यापस्तथातेजोवायुराकाशएवच।सर्वेन्द्रियान्तःकरणंपुरुषाख्यंहियज्जगत्॥६८॥
उक्तस्यसर्वतादात्म्यस्यहेतुमध्यायादावुक्तंपुनरपिदर्शयति-पृथिव्यापइति।एवंभूतंयज्जगत्तत्सएवेत्युत्तरत्रान्वयः॥६८॥
सएवसर्वभूतात्माविश्वरूपोयतोऽव्ययः।सर्गादिकंतुतस्यैवभूतस्थमुपकारकम्॥६९॥
तत्रहेतुःसएवेति।।सर्वभूतात्माविश्वरूपोयतइति–सर्वभूतानामयमात्माविश्वंचास्यशरीरमितियतः, अत: सर्वसएवेति।ततोब्रह्मादिभूतस्थंसर्गादिकंलीलावताररूपिणोऽस्यैवोपकारकम्।थथाशरीरव्यापाराःशरीरिणोजीवस्यैव।।६९॥
सएवसृज्यःसचसर्गकर्तासएवपात्यत्तिचपाल्यतेच।ब्रह्माद्यवस्थाभिरशेषमूर्तिर्विष्णुर्वरिष्ठोवरदोवरेण्यः॥७०॥
इतिश्रीविष्णुपुराणेप्रथमेशेद्वितीयोऽध्यायः।।२।।
उक्तपथनिगमयति–-सएवेति॥अशेषमूर्तिः–सृष्ट्यादिकर्तुःस्वस्यैवसृज्यत्वाद्युपसाधनम्अशेतषमूर्तिरिति।ब्रह्मादीनांकुतःस्रष्टृत्वादिकंतत्राह-वरदइति।अयमाश्रितेभ्योब्रह्मादिभ्यःस्रष्टृत्वादिवरप्रदः, *तदादर्शितपथानौसृष्टिसंहारकारकौ, * मयैवैतेनिहताः* इत्यादेः।अत्राद्यतेचेत्यध्याहार्यम्।वरेण्यः–वरणीयःI७०।।
इतिश्रीभगवद्भाष्यकारचरणनलिनांतरंगश्रीविष्णुचित्तविरचितेश्रीविष्णुपुराणाव्याख्यानेप्रथमांशे :द्वितीयोध्यायः॥२॥