श्रीविष्णुपुराणम्
अथतृतीयोऽध्यायः
मैत्रेयः—
निर्गुणस्याप्रमेयस्यशुद्धस्याप्यमलात्मनः।कथंसर्गादिकर्तृत्वंब्रह्मणोऽभ्युपगम्यते॥१॥
लोकेरागद्वेषसत्त्वादिगुणकस्यशरीरिणःपरिच्छिन्नस्यकर्मवश्यस्यतत्संबन्धार्हस्यैवकुलालादेःकर्तृत्वंदृष्टम्।ब्रह्मणस्तद्विलक्षणस्यकथंजगत्सर्गादिकर्तृत्वमिहोच्यतेइतिचोदयति-निर्गुणस्येति॥१॥
.
श्रीपराशरः—
शक्तयःसर्वभावानामचिन्त्यज्ञानगोचराः।यतोऽतोब्रह्मणस्तास्तुसर्गाद्याभावशक्तयः।भवन्तितपतांश्रेष्ठपावकस्ययथोष्णता॥२॥
परिहरति-शक्तयइत्यादिसार्द्धश्लोकेन।शक्तयइति॥सर्वपदार्थानांवह्नेरौष्ण्यमिवस्वाभाविक्यः , शक्तयःतर्केरचिन्त्याःस्वसाधकप्रमाणगोचराःसन्ति।अतोब्रह्मणोऽपि*पराऽस्यशक्तिर्विविधैवश्रूयतेस्वाभाविकीज्ञानबलक्रियाच *इत्यादिश्रुतिप्रसिद्धाःजगत्सर्गादिनिमित्तभूताःभावशक्तयः-स्वाभाविकसामर्थ्यानिसन्ति।अतोलौकिककर्तृवैलक्षण्येsपिसर्गादिकर्तृत्वंयुक्तम्।सर्गाद्याइति।सृज्यतेऽनयेतिसर्गः। * अकर्त्तरिचकारके *इतिकरणेघञ्प्रत्ययः।सृष्ट्यादिकरणभूताइत्यर्थः।तपतांश्रेष्ठइतिसंबुद्धिः।अत्रब्रह्मणोऽशरीरत्व- -मभ्युपगम्यशक्तिमत्वात्कर्तृत्वमुक्तम्।परमार्थतस्तुदिव्यमंगलविग्रहवत्वमस्त्येव।यद्वालोकेसत्त्वादिगुणकं’ परिच्छिन्नंचमृदाद्युपादानंदृष्टम्।देहादियुक्तोरागादिनामलिनश्चकुलालादिर्निमित्तम्; ब्रह्मणस्तुतद्वैलक्षण्यात्कथमुपादानत्वंनिमित्तत्वंचेतिचोद्यम्।उत्तरंतुलोकेनायंनियमः।द्रव्यलक्षणेहिनिर्गुणमेवाचिद्द्रव्यंगुणानामुपादानंदृष्टम्।अपरिच्छिन्नएवाकाशादिःशब्दादेः, अशरीरएवात्मास्वशरीरप्रेरणेनिमित्तंदृष्टः।रागादिरहितएवस्खलनादौ, अयत्नएवायस्कान्तादिर्लोहभ्रमणादौहेतुर्दृष्टइत्येवंत्वदुक्तव्याप्तिभंगइत्यभिप्रायः॥सर्वभावानांस्वकार्योत्पादनशक्तयःस्वप्रमाणसिद्धत्वादन्यानन्यत्वादिविकल्पैरविचारणीयाःसन्ति।यथाग्नेर्दोहकत्वशक्तिः।एवंब्रह्मणोजगत्सर्गादिहेतवःस्वाभाविक्यःशक्तयःसन्तीति।यथाहुः–* नचपर्यनुयोगोऽस्ति।वस्तुशक्तेःकथञ्चन।अग्निर्दहतिनाकाशंकाऽत्रपर्यनुयुज्यता॥ * आर्षंधर्मोपदेशंचवेदशास्त्राविरोधिना।यस्तर्केणानुसन्धत्तेसधर्मंवेदनेतरः॥इत्यादि॥२॥
तन्निबोधयथासर्गेभगवान्सम्प्रबर्तते।नारायणाख्योभगवान्ब्रह्मालोकपितामहः॥३॥
तन्निबोधेति।।नारायणाख्यःसृष्टौनारायणोलोकपितामहोब्रह्मा-ब्रह्मरूपेण॥३॥
उत्पन्नःप्रोच्यतेविद्वन्नित्यमेवोपचारतः॥४॥
उत्पन्नइति॥उत्पन्नइत्युपचारेणोच्यते।सतुनित्यएव|. अत्रनारायणत्वंहेतुः।स्वेच्छयैवसर्वात्मकत्वरूपत्वात्तस्य।कर्माधीनशरीरपरिग्रहोहिमुख्योत्पत्तिः।यद्वारात्रौनारायणेप्रवेशेननारायणाख्योब्रह्माप्रतिकल्पमुत्पन्नइत्युपचारतउच्यते।द्विपरार्धकालस्थायित्वेननित्यत्वात्तस्यस्वेच्छागृहीतशरीरस्यापिकादाचित्कत्वसाम्यादुत्पन्नत्वोपचारः।रात्रौनारयणत्वंब्रह्मणःकौमेंउक्तम्, * ततोऽवतीर्यविश्वात्मादेहमाश्रित्य
चक्रिणः।अवापवैष्णवींनिद्रामेकीभूयाथविष्णुना॥इति॥४॥
निजेनतस्यमानेनआयुर्वर्षशतंस्मृतम्।तत्पराख्यंतदर्धंचपरार्द्धमभिधीयते।।५।।
निजेनेति।निजेन-ब्राह्मेणमानेन-कालपरिमाणेन।सर्वसंसार्यायुषोऽधिकत्वात्तस्यायुःपरमित्युच्यते॥५॥
कालस्वरूपंविष्णोश्चयन्मयोक्तंतवानघ।तेनतस्यनिबोधत्वंपरिमाणोपपादनम्॥६॥
कालेत्यादि।तेन–कालेन, तस्य–ब्रह्मणः, परिणामोपपादनं-नाशरूपस्यपरिणामस्योपपादनं–निर्वर्तनंनिबोध।परिमाणोपपादनमितिंपाठेब्रह्मादीनांजीवनेइयत्ताक्लृप्तिः॥६॥
अन्येषांचैवजन्तूनांचराणामचराश्चये।भूभुभ्रत्सागरादीनामशेषाणांचसत्तम।।७॥
अन्येषामिति॥अन्येषापरिणामोपपादनमितिशेषः॥७॥
काष्ठापञ्चदशाख्यातानिमेषामुनिसत्तम।काष्ठात्रिंशत्रुलात्रिंशत्कला. मौहूत्तिकोविधिः॥८॥
कालस्वरूपमाह-काष्ठेत्यादिना।।काष्ठेति।मौहूर्त्तिकोविधिः-मुहूर्त्तप्रकारः॥८॥
तावत्संख्यैरहोरात्रंमुहूर्तैर्मानुषंस्मृतम्।अहोरात्राणितावन्तिमासःपक्षद्वयात्मकः॥९॥
तैःषड्भिरयनंवर्षंद्वेऽयनेदक्षिणोत्तरे।अयनंदक्षिणंरात्रिर्देवानामुत्तरंदिनम्॥१०॥
दिव्यैर्वर्षसहस्रैस्तुकृतत्रेतादिसंज्ञितम्।चतुर्युगंद्वादशभिस्तद्विभागंनिबोधमे॥११॥
चत्वारित्रीणिद्वेचैकंकृतादिषुयथाक्रमम्।दिव्याब्दानांसहस्राणियुगेष्वाहुःपुराविदः॥१२॥
तत्प्रमाणैःशतैःसन्ध्यापूर्वातंत्राभिधीयते।सन्ध्यांशश्चैवतत्तुल्योयुगस्यानन्तरोहिसः॥१३॥
सन्ध्यासन्ध्यांशयोरन्तर्यःकालोमुनिसत्तम।युगाख्यःसतुविज्ञेयःकृतत्रेतादिसंज्ञितः॥१४॥
कृतंत्रेताद्वापरश्चकलिश्चैवचतुर्युगम्।प्रोच्यतेतत्सहस्रंचब्रह्मणोदिवसंमुने॥१५॥
ब्रह्मणोदिवसेब्रह्मन्मनवस्तुचतुर्दश।भवन्तिपरिणामंचतेषांकालकृतंशृणु॥१६॥
सप्तर्षयःसुराःशक्रोमनुस्तत्सूनवोनृपाः।एककालेहिसृज्यन्तेसंह्रियन्तेचपूर्ववत्॥१७॥
तावदिति॥यद्यपित्रिशन्मुहूर्ता: सावनोऽहोरात्र:,शुक्लकृष्णद्विपक्षात्मकश्चान्द्रोमासः, अयनद्वयात्मकःसौरोऽब्दः; तथापिसौराब्दैरेवयुगव्यवहाराद्दिनमासयोरपिसौरत्वमेवात्रोपलक्ष्यम्॥९-१७॥
चतुर्युगाणांसंख्यातासाधिकाह्येकसप्ततिः।मन्वन्तरंमनोःकालःसुरादीनांचसत्तम॥१८॥
चतुर्युगाणामिति॥साघिकाकिंचिदूनत्रिचत्वारिंशच्छताधिकंपञ्चसहस्रंदिव्याब्दानामधिकम्अवशिष्टचतुर्युग- -षट्कसहस्रस्यदिव्याब्दसहस्राणांचतुर्दशांशःप्रत्येकंचतुर्युगाणामेकसप्ततेरधिकइत्यर्थः।तेनसहितासाधिकासुरादीनांइन्द्रसप्तर्षिमनुतत्पुत्राणाम्॥१८॥
अष्टौशतसहस्राणिदिव्ययासंख्ययास्मृतम्।द्विपंचाशत्तथाऽन्यानिसहस्राण्यधिकानितु॥१९॥
मन्वन्तरेदेवसंवत्सरसंख्यामाह-अष्टाविति।अधिकंविनेतिवक्ष्यति;तदत्रापिसंबध्यते॥१९॥
त्रिंशत्कोट्यस्तुसंपूर्णाःसंख्यातास्संख्ययाद्विज।सप्तषष्टिस्तथाऽन्यानिनियुतानिमहामुने॥२०॥
तस्मिन्मानुषसंवत्सरसंख्यामाह-त्रिंशदिति॥२०॥
विंशतिस्तुसहस्राणिकालोऽयमधिकंविना।मन्वन्तरस्यसंख्येयंमानुषैर्वत्सरैर्द्विज॥२१।।
विंशतिरिति।अधिकंविनामन्वन्तरत्यमानुषैर्वर्षैस्सेयंसंख्येत्यन्वयः॥२१॥
चतुर्दशगुणोह्येषकालोब्राह्ममहःस्मृतम्।ब्राह्मोनैमित्तिकोनामतस्यान्तेप्रतिसंचरः॥२२॥
तदाहिदह्यतेसर्वत्रैलोक्यंभूर्भुवादिकम्।जनंप्रयान्तितापार्तामहर्लोकनिवासिनः॥२३॥
चतुर्दशगुणइति।ब्राह्मइति।ब्रह्मणोग्रसनाद्ब्राह्मः।*निमित्तंतत्रयच्छेत *इतिनैमित्तिकत्वंवक्ष्यति॥२२,२३॥
एकार्णवेतुत्रैलोक्येब्रह्मानारायणात्मकः।भोगिशय्यांगतःशेतेत्रैलोक्यग्रासबृंहितः॥२४॥
एकार्णवइत्यादि।ग्रासबृंहित:-त्रैलोक्यग्राससमयेभगवदनुप्रवेशातिशयाद्बृंहितः।ज्ञानबृंहितइतिपाठेतत्तज्जीवकर्मवासनाज्ञानबृंहितः।श्रीजन्मरहस्येपरशुरामादिवद्ब्रह्मणोऽवतारत्ववचनात्भगवच्चेष्टायाएवोद्भूतत्वाच्चतस्यभोगिशयनवचनमविरुद्धम्।अवतारत्वेहियोगिचिन्त्यत्वंयुज्यते।बलभद्रादिवदत्रापि *विष्णुर्ब्रह्मस्वरूपेणस्वयमेवव्यवस्थितः * इत्युक्तम्।अथवा* यथासुष्वापभगवानप्छय्यामेकएवहि *इत्यत्राप्छय्यायावचनंभोगिशय्याव्यवधानसहम्; यथाच* क्षीरोदेवसतिप्रभुः* इत्यत्रक्षीरोदवासः, श्रीमदायतन– -दिव्यमण्टपयोगपीठादिव्यवधानसहः।एवंब्रह्माभोगिशय्यागतइत्यत्रापिनाभिसरोरुहव्यवधानसहम्।तथाचश्रीविष्णुधर्मे * एकार्णवेजगत्यस्मिन्ब्रह्मण्यमिततेजसि।कृष्णनाभिह्रदोद्भूतकमलोदरशायिनि॥*संहृत्यविश्वंजलशायिनेचनमोनमःकैटभनाशनाय।स्वनाभिपद्मोदरशायिनेचब्रह्मस्वरूपोपगतायदेव।स्वनाभिकमलोदूभूत- -कमलोदरशायिने* ।इतिचभगवतोजलशायित्वंब्रह्मणःपद्मोदरशायित्वंचोक्तम्।तथाचश्रीहरिवंशे *पूर्णेयुगसहस्रे * इत्यारभ्यकल्पक्षयेब्रह्मणासहदेवानांभगवदनुप्रवेशमुक्त्वा *सहस्रशीर्षापुरुषोरुक्मवर्णस्त्वतीन्द्रियः।सुष्वापसलिलेतस्मिन्* इतिभगवतःसलिलशयनमुक्त्वा *ब्रह्मातुसलिलेतस्मिन्ज्योतिर्भूत्वाचचारह।निशायामिवखद्योतःप्रावृट्कालेततस्तुसः * इतिब्रह्मणःसलिलोपलक्षितेपद्मेशयनमुक्तम्॥२४॥
जनस्थैर्योगिभिर्देवश्चिन्त्यमानोऽब्जसंभवः।तत्प्रमाणांहितांरात्रितदन्तेसृजतेपुनः॥२५॥
जनस्थैरिति॥तां–ब्राह्मींरात्रिं, नैरन्तर्येणशैते, सृजतेपुनः, त्रैलोक्यमितिशेषः॥२५॥
एवंतुब्रह्मणोवर्षमेवंवर्षशतंचयत्।शतंहितस्यवर्षाणांपरमायुर्महात्मनः॥२६॥
उक्तमर्थंनिगमयति–एवमित्यादिना।एवमित्यनेनपूर्वोक्ताब्रह्मदिनसंख्याविवक्षिता।तस्यवर्षाणांशतंपरमायुः–तस्यायुषःपरमितिसंज्ञेत्यर्थः॥२६॥
एकमस्यव्यतीतंतुपरार्द्धंब्रह्मणोऽनघ।तस्यान्तेऽभून्महाकल्पःपाद्मइत्यभिविश्रुतः॥२७॥
द्वितीयस्यपरार्द्धस्यवर्तमानस्यवैद्विज।वाराहइतिकल्पोऽयंप्रथमःपरिकीर्तितः॥२८॥
एकमिति॥परार्धंपरस्यार्द्धमित्यर्थः॥२७, २८॥
इतिश्रीविष्णुपुराणेप्रथमेशेतृतीयोऽध्यायः॥३॥
इतिश्रीभगवद्भाष्यकारचरणनलिनांतरंगश्रीविष्णुचित्तविरचितेश्रीविष्णुपुराणाव्याख्यानेप्रथमांशे :तृतीयोsध्यायः॥३॥