श्रीविष्णुपुराणम्
अथचतुर्थोsध्यायः।
मैत्रेयः—
ब्रह्मानारायणाख्योऽसौकल्पादौभगवान्यथा।ससर्जसर्वभूतानितदाचक्ष्वमहामुने॥१॥
श्रीपराशर:–
प्रजाःससर्जभगवान्ब्रह्मानारायणात्मकः।प्रजापतिपतिर्देवोयथातन्मेनिशामय॥२॥
अतीतकल्पावसानेनिशासुप्तोत्थितःप्रभुः।सत्त्वोद्रिक्तस्तदाब्रह्माशून्यंलोकमवैक्षत॥३॥
नारायणःपरोऽचिन्त्यःपरेषामपिसप्रभुः।ब्रह्मस्वरूपीभगवाननादिःसर्वसंभवः॥४॥
अथपाद्मकल्पकथाविषयाद्ब्रह्मप्रोक्तात्पाद्मपुराणादनन्तरंवाराहकल्पवृत्तान्तविषयमिदंवैष्णवंपुराणमितिदर्शयितुंप्राक्परार्द्धप्राप्तंपाद्मंकल्पमनूद्यवराहकल्पवृत्तान्तंप्रस्तौति-अतीतकल्पेति।तथोक्तंमात्स्ये*एतदेवचवैब्राह्मंपाद्मेकल्पेजगद्धितम्।सर्वभूतात्मकंयत्तत्पाद्ममित्युच्यतेबुधैः।वाराहकल्पवृत्तान्तधिकृत्यपराशरः।* यान्प्राहधर्मानखिलांस्तदुक्तंवैष्णवंविदुः॥इति।सत्वोद्रिक्तः–भगवदनुप्रवेशातिशयात्| तस्यैववराहाद्यवतारप्रसिद्धेः॥१-४॥
इमंचोदाहरन्त्यत्रश्लोकंनारायणंप्रति।ब्रह्मस्वरूपिणंदेवंजगतःप्रभवाप्ययम्॥५॥
अत्रब्रह्मनारायणयोःस्वरूपैक्यशङ्कायांमन्वादयस्तयोर्भेदपरंनारायणविषयंश्लोकमुदाहरन्तीत्याह–इमंचेति॥५॥
आपोनाराइतिप्रोक्ताआपोवैनरसूनवः।अयनंतस्यताःपूर्वंतेननारायणःस्मृतः॥६॥
तमेवश्लोकंदर्शयतिआपइति॥ * प्रादुरासीत्तमोनुदः * इतिप्रकृतेःपरमकारणभूतोभगवानविनाशित्वेननरइत्युच्यते।तत्सृष्टाआपोनाराः।अप्छब्दःसृज्यतत्त्वान्तरप्रदर्शनपरः *नराज्जातानितत्त्वानिनाराणीतिततोविदुः।तान्येवचायनंतस्यतेननारायणःस्मृतः॥इत्यादिदर्शनात्।अस्यायनम्-अनुप्रविष्टस्यशरीरम्।*यदम्बुवैष्णवःकायः * इतिवक्ष्यति।पूर्वं–ब्रह्मसृष्टेःप्राकू।कारणभूतेभगवतिनारायणशब्दनिर्वचनात्तस्यकार्यभूताब्रह्मणोमेदइतिभावः॥६॥
तोयान्तस्स्थांमहींज्ञात्वाजगत्येकार्णवीकृते।अनुमानात्तदुद्धारंकर्तुकामःप्रजापतिः॥७॥
अकरोत्स्वतनूमन्यांकल्पादिषुयथापुरा।मत्स्यकूर्मादिकांंतद्वद्वाराहंवपुरास्थितः॥८॥
तोयान्तामिति।तोयान्तांसमहीमितिपाठान्तरम्।तोयेनान्तोनाशोयस्यास्ताम्।अनुमानात्- * सोऽपश्यत्पुष्करपर्णमितिपुष्करपर्णलिङ्गदर्शनात्ज्ञात्वा, नारायणमूर्तरन्यांमत्स्यकूर्मादिकांस्वतनुंयथापुराsकरोत्तथावाराहरूपमास्थितस्तोयंप्रविवेशेत्यन्वयः॥७, ८॥
वेदयज्ञमयंरूपमशेषजगतःस्थितौ।स्थितःस्थिरात्मासर्वात्मापरमात्माप्रजापतिः।।९।।
वेदेति॥वेदयज्ञमयंरूपं–वेदयज्ञमयत्वेननिरूपणीयम्; वेदवैदिकधर्मैर्भूर्धार्यतइतिभावः।स्थितौस्थितः –स्थितिनिमित्तमास्थितः, स्थिरात्मा-रक्षणेस्थिरचित्तः॥९॥
जनलोकगतैस्सिद्धैस्सनकाद्यैरभिष्टुतः।प्रविवेशतदातोयमात्माधारोधराधरः॥१०॥
जनलोकेति॥अमिष्टुतः–सृष्ट्यर्थमुद्बोधितमहिमा; स्तूयमानाहिदेवतावीर्येणवर्द्धतेइतिन्यायात्॥१०॥
निरीक्ष्यतदादेवीपातालतलमागतम्।तुष्टावप्रणताभूत्वाभक्तिनम्रावसुन्धरा॥११॥
श्रीपृथिव्युवाच
नमस्तेपुण्डरीकाक्षशङ्खचक्रगदाधार।मामुद्धरास्मादद्यत्वंत्वत्तोऽहंपूर्वमुत्थिता॥१२॥
नमइति॥मामुद्धरअस्मात्-प्रलयाब्धेः।त्वत्तउत्थिता-उत्पन्ना॥१२॥
त्वयाऽहमुद्धृतापूर्वंत्वन्मयाऽहंजनार्दन।तथाऽन्यानिचभूतानिगगनादीन्यशेषतः॥१३॥
त्वयेति॥त्वन्मया-त्वन्मयीत्वदुपादाना॥१३॥
नमस्तेपरमात्मात्मन्पुरुषात्मन्नमोऽस्तुते।प्रधानन्यक्तभूतायकालभुतायतेनमः॥१४॥
नमइति॥परमात्मात्मन्-पुरुषादिचतूरूपविलक्षणस्वरूप !अप्ययेअनिरुद्धादयःपुरुषाच्युतसत्य- –वासुदेवाख्याः॥१४॥
त्वंकर्तासर्वभूतानांत्वंपातात्वंविनाशकृत्।संगदिषुप्रभोब्रह्मविष्णुरुद्रात्मरूपधृक्॥१५॥
त्वमिति।।ब्रह्मेत्यादि—ब्रह्मविष्णुरुद्ररूपधर !॥१५॥
संभक्षयित्वासकलंजगत्येकार्णवीकृते।शेषेत्वमेवगोविंदचिन्त्यमानोमनीषिभिः॥१६॥
भवतोयत्परं (रूप) तत्त्वंतनजानातिकथन।अवतारेषुयदूपंतदर्थन्तिदिवौकसः॥१७॥
त्वामाराध्यपरंब्रह्मयातामुक्तिंमुमुक्षवः।वासुदेवमनाराध्यकोमोक्षसमवाप्स्यति॥१८॥
संभक्षयित्वेति।।शेषे–स्वपिषि॥१६-१८॥
यत्किचिन्मनसाग्राह्ययग्राह्यचक्षुरादिभिः।बुद्धयाचयत्परिच्छेद्यंतद्रूपमखिलंतव॥१९॥
यत्किञ्चिदिति|| मनसाग्राह्यं–सुखादि, चक्षुरादिभिर्ग्राह्यं-रूपादि, बुद्ध्यापरिच्छेद्यं-व्याप्तिसंबन्धज्ञानादिनाप्रमाणान्तरपरिच्छेद्यम्॥१९॥
त्वन्मयाऽहंत्वदाधारात्वत्सृष्टीत्वत्समाश्रया।माधवीमितिलोकोऽयमभिधत्तेततोहिमाम्॥२०॥
त्वन्मयेति॥माधवी।माधवस्येयमितिमाधवी॥२०॥
जयाखिलज्ञानमयजयस्थूलमयाव्यय।जयाऽनन्तजयाव्यक्तजयव्यक्तमयप्रभो॥२१॥
जयेति।अखिलज्ञानमय-सर्वज्ञ !स्थूलं-जगत्,तन्मय ! व्यक्तं–महदादि, तन्मय॥२१॥
परापरात्मन्विश्वात्मञ्जययज्ञपतेऽनघ।त्वंयज्ञस्त्वंवषट्कारस्त्वमोंकारस्त्वमग्नयः॥२२॥
परापरात्मन्निति।परापरात्मन्-उत्कृष्टनिकृष्टयोरात्मभूतवषट्कार:-अस्तुश्रौषडित्यादिमन्त्रः॥२२॥
त्वंवेदास्त्वंतदङ्गानित्वंयज्ञपुरुषोहरे।सूर्यादयोग्रहास्तारानक्षत्राण्यखिलंजगत्॥२३॥
त्वमिति॥यज्ञपुरुष:-यज्ञाघिदेवता।ताराः-कृत्तिकाद्याः।नक्षत्राणि-देवग्रहाः।।२३।।
मूतमूर्तमदृश्यंचदृश्यंचपुरुषोत्तम।यच्चोक्तंयच्चनैवोक्तंमयाऽत्रपरमेश्वर।
तत्सर्वंत्वंनमस्तुभ्यंभूयोभूयोनमोनमः॥२४॥
मूर्तामूर्तमिति॥मूर्तं-सर्वगतंद्रव्यम्।दृश्यं-प्रत्यक्षम्॥२४॥
श्रीपराशरः—
एवंसंस्तूयमानस्तुपृथिव्याधरणीधरः।सामस्वरध्वनिःश्रीमाञ्जगर्जपरिघर्घरम्॥२५॥
एवमिति॥परिघर्घरमितिवराहजातिध्वन्यनुकृतिः।गर्जनं-स्तोत्रानुमोदनप्रकारः॥२५॥
ततःसमुत्क्षिप्यधरांस्वदंष्ट्रयामहावराहःस्फुटपद्मलोचनः।
रसातलादुत्पलपत्रसन्निभःसमुत्थितोनीलइवाचलोमहान्॥२६॥
ततइति॥स्फुटं–विकसितम्।नीलोत्पलपत्रवत्स्निग्धश्यामः।।२६।।
उत्तिष्ठतातेनमुखानिलाहतंतत्संभवाम्भोजनलोकसंश्रयान्।
सनन्दनादीनपकल्मषान्मुनींश्चकारभूयोऽपिपवित्रतापदम्॥२७॥
उत्तिष्ठतेति।।तत्संप्लवाम्भइतिपाठान्तरम्।तत्संप्लवाम्भ:-तदभिषेकजलम्।भगवन्मुखनिःश्वासस्यवेदमयत्वात्तत्प्रेरितशीकरस्पर्शादतिपावनत्वम् *तस्यवाएतस्यमहतोभूतस्यनि:श्वसितमेतद्यदृग्वेदः* इत्यादिश्रुतेः।अम्भोविशेषणंवापवित्रतापदमिति॥२७॥
प्रयान्तितोयानिखुराग्रविक्षतेरसातलेऽधःकृतशब्दसन्तति।
श्वासानिलास्ताःपरितःप्रयान्तिसिद्धाजनेयेनियतावसन्ति।।२८।।
प्रयान्तीत्यादि।वराहस्यखुराग्रेणविक्षते-विदीर्णेरसातलेसति, अध:अण्डकटाहेप्रयान्तिस्म।कृतशब्दसन्ततीतिक्रियाविशेषणम्।तथाचश्रीविष्णुधर्मोत्तरेगङ्गाव्याप्तौपातालान्यधिकृत्योक्तम् * रौक्मभौमादधोयातारौद्रंतेजःसुदारुणम्।तत्राप्यविलयंयातावाराहंलोकमागता।।वाराहलोकेब्रह्माण्डमधोर्द्धेभिन्नवान्हरिः।छिद्रेणतेनसादेवीस्वांयोनिंपुनरागता॥इति॥२८॥
उत्तिष्ठतस्तस्यजलार्द्रकुक्षेमहावराहस्यमहींविगृह्य।
विधुन्वतोवेदमयंशरीरंरोमान्तरस्थामुनयःस्तुवन्ति॥२९॥
उत्तिष्ठतइति॥रोमान्तरस्थामुनयइति॥जनलोकंयावत्तावद्रोमप्रसारणादितिभावः।स्तुवन्तिस्मेतिशेषः॥२९॥
तंतुष्टुवुस्तोषपरीतचेतसोलोकेजनेयेनिवसन्तियोगिनः।
सनन्दनाद्याह्यतिनम्रकन्धराधराधरंधीरतरोद्धतेक्षणम्॥३०॥
तमिति॥तोषपरीतचेतसः-तोषेणानन्देनपरीतानिव्याप्तानिचेतांसियेषांते।अतिनम्रकंधराःप्रीतिभारेण।धीरतरोद्धतेक्षणं-निर्विशंकोदारेक्षणमित्यर्थः॥३०॥
जयेश्वराणांपरमेशकेशवप्रभोगदाशङ्खधरासिचक्रधृक्।
प्रसूतिनाशस्थितिहेतुरीश्वरस्त्वमेवनान्यत्परमंचयत्पदम्।।३१॥
जयेति॥ईश्वराणां-ब्रह्मादीनाम्।केशवेति। * कइतिब्रह्मणोनामईशोऽहंसर्वदेहिनाम्।आवांतवाङ्गेसंभूतौतस्मात्केशवनामवान्*इतिमहाभारते।प्रसूत्यादीनांत्वमेवहेतुः।ईश्वरः–नियन्ता।परमंचयत्पदं– मुक्तस्वरूपं, तच्चत्वत्तोनान्यत्।तत्परमंपदंत्वमेवेत्यर्थः; तस्यत्वदधीनत्वात्॥३१।।
पादेषुवेदास्तवयूपदंष्ट्रदन्तेषुयज्ञाश्चितयश्चवक्त्रे।
हुताशजिह्वोऽसितनूरुहाणिदर्भाःप्रभोयज्ञपुमांस्त्वमेव॥३२॥
पादेष्विति॥यज्ञाःअग्निष्टोमाद्याः;चितयः-कंकचिताद्यानिचयनानिउत्तरक्रतुषूत्तरवेदिस्थानीयानि॥३२॥
विलोचनेरात्र्यहनीमहात्मन्सर्वास्पदंब्रह्मपरंशिरस्ते।
सूक्तान्यशेषाणिसटाकलापोघ्राणंसमस्तानिहवींषिदेव॥३३॥
विलोचनेइति॥रात्र्यहनी-चन्द्रार्कोपलक्षितौयज्ञीयकालौ।सर्वास्पदमितिपाठेसर्ववर्णाश्रयत्वात्सर्वास्पदम्।ब्रह्म-प्रणवः।सटा:-स्कन्धरोमाणि॥३३॥
स्रुक्तुण्डसामस्वरधीरनादप्राग्वंशकायाखिलसत्रसन्धे।
पूर्तेष्टधर्मश्रवणोऽसिदेवसनातनात्मन्भगवन्प्रसीद॥३४॥
स्रुक्तुण्डेति॥प्राग्वंश:-अग्निशालायाःप्राग्देशः।सत्रम्-आसन्नोपायचोदनाचोदितोयागः।पूर्तं-तटाकखातादि।इष्टं–यज्ञादि॥३४॥
पदक्रमाक्रान्तभुवंभवन्तमादिस्थितंचाक्षरविश्वमूर्ते।
विश्वस्यविद्मःपरमेश्वरोऽसिप्रसीदनाथोऽसिपरावरस्य॥३५॥
दंष्ट्राग्रविन्यस्तमशेषमेतद्भूमण्डलंनाथविभाव्यतेते।
विगाहतःपद्मवनंविलग्नंसरोजिनीपत्रमिवोढपङ्कम्॥३६॥
द्यावापृथिव्योरतुलप्रभावयदन्तरंतद्वपुषातवैव।
व्याप्तंजगद्व्याप्तिसमर्थदीप्तेहितायविश्वस्यविभोभवत्वम्॥३७॥
पदक्रमेति॥पदक्रमाभ्याम्आक्रान्तं–व्याप्तम्।अनन्तम्आदौचस्थितंशब्दब्रह्मेत्यर्थः।अक्षर:-ककारादिवर्णात्मकः।नाथ:- प्रार्थ्य:, स्वामीवा॥३५-३७॥
परमार्थस्त्वमेवैकोनान्योऽस्तिजगतःपते।तवैषमहिमायेनव्याप्तमेतच्चराचरम्॥३८॥
परमार्थइत्यादि।परमार्थ:-सत्यः।त्वद्व्यतिरिक्तःपरमार्थोनास्ति, * बहुस्याम् * सब्रह्मास: शिवःसेन्द्रःसोऽक्षरःपरमःस्वराट् * नेहनानास्ति * तस्मिञ्जज्ञेस्वयंब्रह्मा, * सर्वगत्वादनन्तस्य * तदनुप्रविश्य, सच्चत्यच्चाभवत्, * हरिरखिलाभिरुदीर्यते * हरेर्नकिञ्चिद्व्यतिरिक्तमस्ति *इत्यादिभ्यः।अत्रहेतुःयेनोपादानभूतेनत्वयैतच्चराचरंव्याप्तंतस्यतवैवचराचरात्मनोमहिमा; अतस्त्वदात्मकमेवेदंसर्वमिति, त्दन्यःकोऽपिपरमार्थोनास्तीतिभावः॥३८॥
यदेतद्दृश्यतेमूर्त्तमेतज्ज्ञानात्मनस्तव।भ्रान्तिज्ञानेनपश्यन्तिजगद्रूपमयोगिनः।।३९॥
यदेतदिति॥यदेतज्जगद्दृश्यतेज्ञानात्मनात्वयाआत्मतयाव्याप्तत्वादेतत्तवमूर्त-मूर्तिः; तस्मादयोगिन:–त्वदात्मकत्वानुभवसाधनयोगविरहिणः, एतत्केवलदेवमनुष्यादिरूपमितिभ्रान्तिज्ञानेनपश्यन्ति।।३९॥
ज्ञानस्वरूपमखिलंजगदेतदबुद्धयः।अर्थस्वरूपंपश्यन्तोभ्राम्यन्तेमोहसंप्लवे।।४०॥
वस्तुतस्त्वदात्मकस्यजगतःकेवलदेवमनुष्यादिरूपत्वेनदर्शनमेवनभ्रमः, ज्ञानाकाराणामात्मनांदेवमनुष्याद्यर्थाकारात्वदर्शनमपिभ्रमइत्याह-ज्ञानस्वरूपमिति॥ज्ञानस्वरूपं-ज्ञानात्मकमित्यर्थः।अत्रज्ञानशब्देनज्ञानगुणसारत्वात्प्रत्यगात्मोच्यते।नायंश्लोकःपरविषयः;युष्मच्छब्दादर्शनात्।प्रकृतिपुरुषविवेकएवनास्ति।कुतस्त्वद्दर्शनमितिभावः॥४०॥
येतुज्ञानविदःशुद्धचेतसस्तेऽखिलंजगत्।ज्ञानात्मकंप्रपश्यन्तित्वद्रूपंपरमेश्वर।।४१॥
येपुनर्बुद्धिमन्तोज्ञानस्वरूपात्मविदःसर्वस्यहिभगवदात्मकत्वानुभवसाधनयोगयोग्यपरिशुद्धमनसश्चतेदेवमनु- -ष्यादिप्रकृतिपरिणामविशेषरूपमखिलंजगच्छरीरातिरिक्तज्ञानस्वरूपात्मकंत्वच्छरीरंचपश्यन्तीत्याहयेत्विति॥४१॥
प्रसीदसर्वसर्वात्मन्भवायजगतामिमाम्।उद्धरोर्वीममेयात्मन्शंनोदेह्यब्जलोचन॥४२॥
प्रसीदेति।।भावायजगतामितिपाठे, भावाय-सद्भावाय॥४२॥
सत्त्वोद्रिक्तोऽसिभगवन्गोविन्दपृथिवीमिमाम्।समुद्धरभवायेशशंनोदेह्यब्ज़लोचन।।४३॥
सर्गप्रवृत्तिर्भवतोजगतामुपकारिणी।भवत्येषानमस्तेऽस्तुशंनोदेह्यब्जलोचन।।४४।।
श्रीपराशरः –
एवंसंस्तूयमानस्तुपरमात्मामहीधरः।उज्जहारक्षितिंक्षिप्रंन्यस्तवांश्चमहाम्भसि॥४५॥
सत्त्वोद्रिक्तोऽसीति।।सत्वोद्रिक्तोऽसि, अतःपरोपकारकोऽसि।।४३-४५॥
तस्योपरिजलौघस्यमहतीनौरिवस्थिता।विततत्त्वात्तुदेहस्यनमहीयातिसंप्लवम्॥४६॥ततःक्षितिंसमांकृत्वापृथिव्यांसोऽचिनोद्गिरीन्।यथाविभागंभगवाननादिःपरमेश्वरः॥४७॥
तस्येति॥विततत्वात्—-विस्तृतमृत्पिण्डाकारसंस्थानत्वात्।मृत्पिण्डाकाराह्यप्सुमज्जतिनतुशरावाद्याकारा॥४६-४७॥
प्राक्सर्गदग्धानखिलान्पर्वतान्पृथिवीतले।अमोघेनप्रभावेणंससर्जामोघवाञ्छितः॥४८।।
प्रागिति॥प्रभावेन–संकल्पेन, अमोधवाञ्छितः-सत्यकामः॥१८॥
३भूविभागंततःकृत्वासप्तद्वीपान्यथातथम्।भूराद्यांश्चतुरोलोकान्पूर्ववत्समकल्पयत्॥४९॥
भूविभागमति।।भूरितिपातालानामप्युपलक्षणम्॥४९॥
ब्रह्मरूपधरोदेवस्ततोऽसौरजसावृतः।चकारसृष्टिंभगवांश्चतुर्वक्त्रधरोहरिः॥५०॥
ब्रह्मरूपेति।चतुर्वक्त्रधरइति।हरेःब्रह्मरूपधरतयाचतुर्वक्त्रत्वंसुवचम्॥५०॥
निमित्तमात्रमेवासौसृज्यानांसर्गकर्मणि।प्रधानकारणीभूतायतोवैसृज्यशक्तयः॥५१॥
निमित्तमात्रमिति| सृज्यशक्तयः-जीवानांप्राचीनकर्मवासनाः॥५१॥
निमित्तमात्रंमुक्त्वैनंनान्यत्किञ्चिदपेक्षते।नीयतेतपतांश्रेष्ठस्वशक्त्यावस्तुवस्तुताम्॥५२॥निमित्तमात्रमिति॥निमित्तमात्रम्एनं-परमपुरुषंमुक्त्वानान्यत्किञ्चिद्विशेषकारणमपेक्षते।वस्तु-देवादिस्वशक्त्या–स्वकर्मभिः,वस्तुतां-तत्तदूपताम्।जीवकर्मायत्तत्वाद्विचित्रसृष्टेःतेषुप्रधानकारणत्वोक्तिरौपचारिकी॥५२॥
इतिश्रीविष्णुपुराणेप्रथमेशेपृथिव्युद्धारश्चतुर्थोऽध्यायः।।४।।
इतिश्रीभगवद्रामानुजचरणनलिनचंचरीकश्रीविष्णुचित्तविरचितेश्रीविष्णुपुराणव्याख्यानेविष्णुचित्तीयेप्रथमेशचतुर्थोध्याय:।।४।।