श्रीविष्णुपुराणम्
अथसप्तमोऽध्यायः
श्रीपराशरः—
ततोऽभिध्यायतस्तस्यजज्ञिरेमानसाःप्रजाः।
तच्छरीरसमुत्पनैःकार्येस्तत्करणैःसह।
क्षेत्रज्ञाःसमवर्तन्तगात्रेभ्यस्तस्यधीमतः॥१॥
अथमिथुनसृष्टिंवक्तुंमानसशारीरसृष्टीननुवदति–ततइत्यादिना।ततइति।कार्यैः—देहैः, करणैः–इन्द्रियैः; हिरण्यगर्भदेहभूतभूतोत्पन्नैर्देहैरिन्द्रियैःसहमानसाःकाश्चिन्मानस्य: प्रजाःजज्ञिरे।केचनक्षेत्रज्ञास्तस्यगात्रेभ्य:-अवयवेभ्यःकार्यकरणैःसहसमवर्तन्त॥१॥
तेसर्वेसमवर्तन्तयेमयाप्रागुदाहृताः।देवाद्याःस्थावरान्ताश्चत्रैगुण्यविषयेस्थिताः॥२॥
एवंभूतानिसृष्टानिचराणिस्थावराणिच॥३॥
यदाऽस्यताःप्रजाःसर्वानव्यवर्धन्तधीमतः।तदाऽन्यान्मानसान्पुत्रान्सदृशानात्मनोऽसृजत्॥४॥
भृगुंपुलस्त्यंपुलहंक्रतुमङ्गिरसंतथा।मरीचिंदक्षमत्रिंचवसिष्ठंचैवमानसान्॥५॥
तेसर्वइति॥ते–देवाद्याःस्थावरान्ताजीवास्त्रैगुण्यवशीकृताःसमवर्त्तन्त॥२-५॥
नवब्रह्माणइत्येतेपुराणेनिश्चयंगताः॥६॥
ख्यातिंभूतिंचसंभूतिंक्षमांप्रीतिंतथैवच।सन्नतिंजतथैवोर्जामनसूयांतथैवच॥७॥
प्रसूतिंचततस्सृष्ट्वाददौतेषांमहात्मनाम्।पत्न्योभवध्वमित्युक्त्वातेषामेवतुदत्तवान्॥८॥
सनन्दनादयोयेचपूर्वसृष्टास्तुवेधसा।नतेलोकेष्वसज्ज़न्तनिरपेक्षाःप्रजाःप्रति॥९॥
सर्वेतेऽभ्यागतज्ञानावीतरागाविमत्सराः।तेष्वेवंनिरपेक्षेषुलोकसृष्टौमहात्मनः॥१०॥
ब्रह्मणोभून्महान्क्रोधस्त्रैलोक्यदहनक्षमः।तस्यक्रोधात्समुद्भुतज्वालामालाभिदीपितम्।
ब्रह्मणोऽभूत्तदासर्वंत्रैलोक्यमखिलंमुने॥११॥
भ्रुकुटीकुटिलात्तस्यललाटाक्रोधदीपितात्।समुत्पन्नस्तदारुद्रोमध्याह्नार्कसमप्रभः॥१२॥
अर्धनारीनरवपुःप्रचण्डोऽतिशरीरवान्।विभजात्मानमित्युक्त्वातंब्रह्मान्तर्दधेततः॥१३॥
नवब्रह्माणइति।पुराणे-ब्रह्माण्डादौ।पूर्वंसृष्टे: ॥६–१३॥
तथोक्तोऽसौद्विधास्त्रीत्वंपुरुषत्वंतथाऽकरोत्।बिभेदपुरुषत्वंचदशधाचैकधापुनः॥१४॥
सौम्यासौम्यैस्तथाशान्ताशान्तैःस्त्रीत्वंचसप्रभुः।विभेदबहुधादेवःस्वरूपैरसितैस्सितैः॥१५॥
तथोक्ताइति॥स्त्रीत्वंपुरुषत्वंचद्विधाअकरोत्-पृथक्चकार।पुंस्त्वंचैकादशविधंरूपभेदैः॥१४,१५॥
ततोब्रह्मात्मसंभूतंपूर्वंस्वायंभुवंप्रभुः।आत्मानमेवकृतवान्प्रजापाल्येमनुंद्विज॥१६॥
ततइति॥आत्मसंभूतम्।अतएवंस्वायंभुवम्आत्मानमेवतंप्रजापाल्येनिमित्तेपूर्वंमनुंकृतवान्॥१६॥
शतरूपांचतांनारींतपोनिर्धूतकल्मषाम्।स्वायंभुवोमनुर्देवःपत्नीत्वेजगृहेप्रभुः॥१७॥
तस्मात्तुपुरुषाद्देवीशतरूपाव्यजायत।प्रियव्रतोत्तानपादौप्रसूत्याकूतिसंज्ञितम्॥१८॥
शतरूपामिति॥शतरूपाम्-अर्द्धेनपुरुषोऽभवदर्द्धेननारीत्युक्तायाब्रह्मपत्न्याःशतरूपायाअंशभूतांब्रह्मांशभूतोमनुर्जगृहे॥१७, १८॥
कन्याद्वयंचधर्मज्ञरूपौदार्यगुणान्वितम्।ददौप्रसूतिंदक्षायआकूतिंरुचयेपुरा॥१९।।
कन्याद्वयमिति॥प्रजापतिराकूतिंरुचयेददौ॥१९॥
प्रजापतिःसजग्राहतयोर्जज्ञेसदक्षिणः।पुत्रोयज्ञोमहाभागदम्पत्योर्मिथुनंततः॥२०॥
प्रजापतिरिति।सः-रुचिःजग्राह;तयोः–आकूतिरुच्योर्दम्पत्योःसदक्षिणोयज्ञःपुत्रोमिथुनंजज्ञे॥२०॥
यज्ञस्यदक्षिणायांतुपुत्राद्वादशजज्ञिरे।यामाइतिसमाख्यातादेवाःस्वायंभुवेमनौ॥२१॥
प्रसूत्यांचतथादक्षश्चतस्रोविंशतिस्तथा।ससर्जकन्यास्तासांचसम्यङ्नामानिमेशृणु॥२२॥
श्रद्धालक्ष्मीर्धृतिस्तुष्टिर्मेधापुष्टिस्तथाक्रिया।बुद्धिर्लज्जावपुश्शान्तिस्सिद्धिःकीर्तिस्त्रयोदशी॥२३॥
पत्न्यर्थंप्रतिजग्राहधर्मोदाक्षायणीःप्रभुः।ताभ्यःशिष्टायवीयस्यएकादशसुलोचनाः॥२४॥
ख्यातिःसत्यथसंभूतिःस्मृतिःप्रीतिःक्षमातथा।सन्ततिश्चानसूयाचऊर्जास्वाहास्वधातथा॥२५॥
भृगुर्भवोमरीचिश्चतथाचैवाङ्गिरामुनिः।पुलस्त्यःपुलहश्चैवक्रतुश्चर्षिवरस्तथा॥२६॥
अत्रिर्वसिष्ठोवह्निश्चपितरश्चयथाक्रमम्।ख्यात्याद्याजगृहुःकन्यामुनयोमुनिसत्तम॥२७॥
यज्ञस्येति॥स्वायंभुवेमनौ—मन्वन्तरे॥२१–२७॥
श्रद्धाकामंचलादर्पनियमंधृतिरात्मजम्।सन्तोषंचतथातुष्टिर्लोभंपुष्टिरसूयते॥२८॥
श्रद्धेति॥श्रद्धाकामंतथादर्पमितिपाठेतथेत्यनेनक्रमप्राप्तालक्ष्मीर्लक्ष्या।यथाकौर्मे* श्रद्धायास्तुसुतःकामोदर्पोलक्ष्म्यास्सुतस्स्मृतः * इति॥२८॥
मेधाश्रुतंक्रियादण्डंनयंविनयमेवच।।२९।।
मेधेति॥क्रियादण्डम्-क्रियायां-तामस्यांदण्डः, राजस्यांनयः, सात्त्विक्यांमानसोऽनौद्धत्यात्माविनयः॥२९॥
बोधंबुद्धिस्तथालज्जाविनयंवपुरात्मजम्।व्यवसायंप्रजज्ञेवैक्षेमंशान्तिरसूयत॥३०॥
सुखंसिद्भिर्यशःकीर्तिरित्येतेधर्मसूनवः।कामोद्गतिःसुतंहर्षंधर्मपौत्रमसूयत॥३१॥
बोधमिति|| लज्जायास्तुशारीरोविनयः॥३०,३१॥
हिंसाभार्यात्वधर्मस्यततोजज्ञेतथाऽनृतम्।कन्याचनिकृतिस्ताभ्यांभयंनरकमेवच॥३२॥
धर्मप्रसङ्गादधर्मसर्गमाह-हिंसेति।तयोः–अधर्महिंसयोः, अनृतंनिकृतिश्चजज्ञे, ताभ्यांनिकृत्यनृताभ्यांमायाभयंवेदनानरकंचजज्ञे॥३२॥
मायाचवेदनाचैवमिथुनंत्विदमेतयोः।तयोर्जज्ञेऽथवैमायामृत्युंभूतापहारिणम्।।३३।।
मायेति॥तस्मादेतयोर्मिथुनद्वयम्, भयाज्जज्ञइतिपाठे. एतयोर्मिथुनयोर्मध्येमायाभयात्तुमृत्युंजज्ञे।तयोर्जज्ञइतिपाठेमायामृत्युंसुषुवे, भयादितिशेष: ॥३३॥
वेदनास्वसुतंचापिदुःखंजज्ञेऽथरौरवात्।मृत्योर्व्याधिजराशोकतृष्णाक्रोधाश्चजज्ञिरे॥३४॥
वेदनेति॥रौरवात्-भयनरकमेवचेत्युक्तान्नरकात्॥३४॥
दुःखोत्तराःस्मृताह्येतेसर्वेचाधर्मलक्षणाः।नैषांभार्याऽस्तिपुत्रोवातेसर्वेसूर्ध्वरेतसः॥३५॥
रौद्राण्येतानिरूपाणिविष्णोर्मुनिवरात्मज।नित्यप्रलयहेतुत्वंजगतोऽस्यप्रयान्तिवै॥३६॥
दक्षोमरीचिरत्रिश्चभृग्वाद्याश्चप्रजेश्वराः।जगत्यत्रमहाभागनित्यसर्गस्यहेतवः॥३७॥
मनवोमनुपुत्राश्चभूपावीर्यधनाश्चये।सन्मार्गनिरताःशूरास्तेनित्यस्थितिकारिणः॥३८॥ |
दुःखोत्तराइति।अधर्मलक्षणा:-अधर्मोवंशमूलभूतोलक्षणंयेषांतेतथोक्ताः।ते-व्याध्याद्याः, ऊर्ध्वरेतसः— चरमकार्यस्यदुःखात्मकत्वात्कार्यान्तरानुत्पादकाः॥३५-३८॥
मैत्रेयः—
येयंनित्यास्थितिर्ब्रह्मन्नित्यसर्गस्तथेरितः।नित्याभावश्चतेषांवैस्वरूपंममकथ्यताम्॥३९॥
जीवानांसृज्यत्वादिनापारतन्त्र्यान्नित्यसर्गादौहेतुत्वमनुपपन्नमित्याशङ्क्यतत्परिहारबुभुत्सयातेषांस्वरूपंपृच्छति–येयमिति॥३९॥
श्रीपराशरः—-
सर्गस्थितिविनाशांश्चभगवान्मधुसूदनः।तैस्तैरूपैरचिन्त्यात्माकरोत्यव्याहतोविभुः॥४०॥
विष्णुरेवसत्त्वादिशक्त्याधानद्वारातैस्तैर्मन्वादिरूपैःस्थित्यादिकरोतीतिपरिहरति–सर्गेति॥तैस्तैः–-मन्वादिरूपैः।मन्वादयःसत्त्वस्थाः, दक्षादयोराजसाः, व्याध्यादयस्तामसाः॥४०॥
नैमित्तिकःप्राकृतिकस्तथैवात्यन्तिकोद्विज।नित्यश्चसर्वभूतानांप्रलयोऽयंचतुर्विधः॥४१॥
ब्राह्मोनैमित्तिकस्तत्रयच्छेतेजगतीपतिः।प्रयातिप्राकृतश्चैवब्रह्माण्डंप्रकृतौलयम्॥४२॥
ज्ञानादात्यन्तिकःप्रोक्तोयोगिनःपरमात्मनि।नित्यस्सदैवभूतानांयोविनाशोदिवानिशम्॥४३॥
प्रसूतिःप्रकृतेर्यातुसासृष्टिःप्राकृतास्मृता।दैनंदिनीतथाप्रोक्तायाऽन्तरप्रलयादनु॥४४॥
भूतान्यनुदिनंयत्रजायन्तेमुनिसत्तम।नित्यसर्गोहिसप्रोक्तःपुराणार्थविचक्षणैः॥४५॥
एवंसर्वशरीरेषुभगवान्भूतभावनः।संस्थितःकुरुतेविष्णुरुत्पत्तिस्थितिसंयमान्॥४६॥
अथनित्यप्रलयस्यस्वरूपंदर्शयन्प्रसङ्गात्प्रलयस्य-चतुर्विध्यमाह –नैमित्तिकइत्यादिना।नैमित्तिकइति।आत्यन्तिकइति।नैमित्तिकादिलयेषुसुषुप्त्युत्क्रान्त्योश्चजीवस्यपरमात्मनिलयेऽपिकर्मक्षयाभावात्पुनर्भवोविद्यते।आत्यन्तिकेतुनिश्शेषकर्माविद्यादिनाशान्नपुनर्भवइतिविशेषः॥४१-४६॥
सृष्टिस्थितिविनाशानांशक्तयस्सर्वदेहिषु।वैष्णव्यःपरिवत्र्तन्तेमैत्रेयाहर्निशंसमाः॥४७॥
गुणत्रयमयंह्येतद्ब्रह्मन्शक्तित्रयंमहत्।योऽतियातिसयात्येवपरंनावर्त्ततेपुनः॥४८॥
सृष्टीति॥वैष्णव्यः-विष्णुसङ्कल्पानुवर्तिन्यःशक्तयःसत्वाद्याः, अहर्निशम्-सदाअविच्छेदेन।सर्वोऽपिजनोविष्णुशक्तिप्रेरितःकालभेदाद्विषयभेदाच्चसर्गादिकरोति॥४७, ४८॥
इतिश्रीविष्णुपुराणेप्रथमेंशेसप्तमोऽध्यायः॥७॥
इतिश्रीभगवद्रामानुजपदान्तरंगश्रीविष्णुचित्तविरचितेश्रीविष्णुपुराणव्याख्यानेश्रीविष्णुचित्तीयेप्रथमेंशेसप्तमोऽध्यायः॥७॥