श्रीविष्णुपुराणम्
अथ चतुर्थोऽध्यायः |
श्रीपराशरः–
क्षारोदेन यथा द्वीपो जम्बूसंज्ञोऽभिवेष्टितः । संवेष्ट्य क्षारमुदधिं प्लक्षद्वीपस्तथा स्थितः ॥१॥ सम्बूद्वीपस्य विस्तारः शतसाहस्रसंमितः । स एव द्विगुणो ब्रह्मन् प्लक्षद्वीप उदाहृतः ॥२॥
सप्त मेधातिथेः पुत्राः प्लक्षद्वीपेश्वरस्य वै। ज्येष्ठः शान्तहयो नाम शिशिरस्तदनन्तरः ॥३॥
सुखोदयस्तथानन्दः शिवः क्षेमक एव च । ध्रुवश्च सप्तमस्तेषां प्लक्षद्वीपेश्वरा हि ते ॥४॥
पूर्वं शान्तहयं वर्षं शिशिरं च सुखं तथा । आनन्दं च शिवं चैव क्षेमकं ध्रुवमेव च ॥५॥
मर्यादाकारकास्तेषां तथाऽन्ये वर्षपर्वताः । सप्तैव तेषां नामानि शृणुष्व मुनिसत्तम ॥६॥
गोमेदश्चैव चन्द्रश्च नारदो दुन्दुभिस्तथा । सोमकः सुमनाश्चैव वैभ्राजश्चैव सप्तमः ॥ ७॥
वर्षाचलेषु रम्येषु वर्षे त्वेतेषु चानघाः । वसन्ति देवगन्धर्वसहितास्सततं प्रजाः ॥ ८॥
क्षारोदेनेति ॥ तथा स्थित:—वलयाकारत्वेन स्थितः ॥ १-८॥
तेषु पुण्या जनपदाश्चिराच्च म्रियते जनः । नाधयो व्याधयो वापि सर्वकालसुखं हि तत् ॥९॥
तेषां नद्यस्तु सप्तैव वर्षाणां च समुद्रगाः । नामतस्ताः प्रवक्ष्यामि श्रुताः पापं हरन्ति याः ॥१०॥
तेष्विति ॥ चिरात्-पञ्चसहस्राब्दान्ते । तत्-प्लक्षद्वीपम् ॥ ९-१०॥
अनुतप्ता शिखी चैव विपाशा त्रिदिवाऽक्लमा । अमृता सुकृता चैव सप्तैतास्तत्र निम्नगाः ॥११॥
एते शैलास्तथा नद्यः प्रधानाः कथितास्तव । क्षुद्रशैलास्तथा नद्यस्तत्र सन्ति सहस्रशः ।
ताः पिबन्ति सदा हृष्टा नदीर्जनपदास्तु ते ॥१२॥
अनुतप्तेति ॥ त्रिदिवाक्लमेति पाठः । अक्लमा -तदाख्या पञ्चमी नदी ॥ ११, १२ ॥
अपसर्पिणी न तेषां वै न चैवोत्सर्पिणी द्विज । न त्वेवास्ति युगावस्था तेषु स्थानेषु सप्तसु ॥१३॥
अपसर्पिणीति ॥ अपसर्पिणी—द्वापरादिकल्यन्तं प्रजानामवरोहक्रमात् ह्रासावस्था। उत्सर्पिणी कृतादित्रेता तमारोहक्रमाद्वृद्ध्यवस्था, * उत्सर्पिणी युगार्द्धं पश्चादपसर्पिणी युगार्द्धं चेत्यार्यभटोक्तेः। युगावस्था धर्मपादव्यवस्था । तेषु-प्लक्षद्वीपस्य वर्षेषु ॥ १३ ॥
त्रेतायुगसमः कालः सर्वदैव महामते । प्लक्षद्वीपादिषु ब्रह्मन् शाकद्वीपान्तिकेषु वै ॥ १४ ॥
पञ्चवर्षसहस्राणि जना जीवन्त्यनामयाः । धर्माः पञ्च तथैतेषु वर्णाश्रमविभागशः ॥ १५ ॥
त्रेतेति ॥ युगादिकृत्यं त्रिपाद्धर्मत्वम् सम्पादिमत्वं च त्रेतामाप्यम् ॥ १४, १५ ॥
वर्णाश्च तत्र चत्वारस्तान्निबोध वदामि ते ॥१६॥
आर्यकाः कुरराश्चैव विदिश्या भाविनश्च ते । विप्रक्षत्रियवैश्यास्ते शूद्राश्च मुनिसत्तम ॥१७॥
जम्बूवृक्षप्रमाणस्तु तन्मध्ये सुमहांस्तरुः । प्लक्षस्तन्नामसंज्ञोऽयं प्लक्षद्वीपो द्विजोत्तम ॥ १८॥
इज्यते तत्र भगवांस्तैर्वर्णैरार्यकादिभिः । सोमरूपी जगत्स्रष्टा सर्वस्सर्वेश्वरो हरिः ॥ १९ ॥ प्लक्षद्वीपप्रमाणेन प्लक्षद्वीपस्समावृतः । तथैवेक्षुरसोदेन परिवेषानुकारिणा ॥ २० ॥
इत्येवं तव मैत्रेय प्लक्षद्वीप उदाहृतः । संक्षेपेण मया भूयः शाल्मलं मे निशामय ॥ २१ ॥
शाल्मलस्येश्वरो वीरो वपुष्मांस्तत्सुताञ्छृणु । तेषां तु नामसंज्ञानि सप्तवर्षाणि तानि वै ॥ २२ ॥
श्वेतोऽथ हरितश्चैव जीमूतो रोहितस्तथा । वैद्युतो मानसश्चैव सुप्रभश्च महामुने ॥ २३ ॥
शाल्मलेन समुद्रोऽसौ द्वीपेनेक्षुरसोदकः । विस्तारद्विगुणेनाथ सर्वतस्संवृतः स्थितः ॥ २४ ॥
तत्रापि पर्वतास्सप्त विज्ञेया रत्नयोनयः । वर्षाभिव्यञ्जका ये तु तथा सप्त च निम्नगाः ॥ २५ ॥
वर्णास्त्विति ॥ तत्र—प्लक्षद्वीपे ॥ १६-२५ ॥
कुमुदश्चोन्नतश्चैव तृतीयश्च बलाहकः । द्रोणो पत्र महौषध्यः स चतुर्थो महीधरः ॥ २६ ॥
कङ्कस्तु पञ्चमः षष्ठो महिषः सप्तमस्तथा । ककुद्मान्पर्वतवरः सरिन्नामानि मे शृणु ॥२७॥ .
योनिस्तोया वितृष्णा च चन्द्रा मुक्ता विमोचनी । सप्तमी तासां स्मृतास्ताः पापशान्तिदाः ॥ २८ ॥
श्वेतञ्च हरितं चैव वैद्युतं मानसं तथा । जीमूतं रोहितं चैव सुप्रभं चातिशोभनम् । सप्तैतानि तु वर्षाणि चातुर्वर्ण्ययुतानि वै ॥ २९ ॥
शाल्मले ये तु वर्णाश्च वसन्त्येते महामुने । कपिलाश्चारुणाः पीताः कृष्णाश्चैव पृथक् पृथक् ॥३०॥
ब्राह्मणाः क्षत्रिया वैश्याः शूद्राश्चैव यजन्ति तम् । भगवन्तं समस्तस्य विष्णुमात्मानमव्ययम् ।
वायुभूतं मखश्रेष्ठैर्यज्वनो यज्ञसंस्थितिम् ॥ ३१ ॥
देवानामत्र सान्निध्यमतीव सुमनोहरे । शाल्मलिः सुमहान्वृक्षो नाम्ना निर्वृतिकारकः ॥ ३२ ॥
एष द्वीपः समुद्रेण सुरोदेन समावृतः। विस्ताराच्छाल्मलस्यैव समेन तु समतन्तः ॥ ३३ ॥
सुरोदकः परिवृतः कुशद्वीपेन सर्वतः । शाल्मलस्य तु विस्ताराद्द्विगुणेन समन्ततः ॥ ३४ ॥
ज्योतिष्मतः कुशद्वीपे सप्त पुत्राञ्छृणुष्व तान् ॥ ३५ ॥
उद्भिदो वेणुमांश्चैव वैरथो लम्बनो धृतिः। प्रभाकरोऽथ कपिलस्तन्नामा वर्षपद्धतिः ॥ ३६॥
तस्मिन्वसन्ति मनुजाः सह दैतेयदानवैः। तथैव देवगन्धर्वयक्षकिंपुरुषादयः ॥ ३७॥
वर्णास्तत्रापि चत्वारो निजानुष्ठानतत्पराः । दमिनः शुष्मिणः स्नेहा मन्देहाश्च महामुने ॥ ३८ ॥
ब्रह्मणाः क्षत्रिया वैश्याः शूद्राश्चानुक्रमोदिताः ॥ ३९ ॥
कुमुदश्चेति ॥ महौषध्यः- मृतसञ्जीवनाद्याः । अयं द्रोणादिर्हनुमताऽऽनीतः ॥ २६-३९ ॥
यथोक्तकर्मकर्तृवात्स्वाधिकारक्षयाय ते । तत्रैव तं कुशद्वीपे ब्रह्मरूपं जनार्दनम् । यजन्तः क्षप(म)यन्त्युग्रमधिकारं फलप्रदम् ॥ ४० ॥
विद्रुमो हेमशैलश्च ह्युतिमान् पुष्पवांस्तथा । कुशेशयो हरिश्चैव सप्तमो मन्दराचलः ॥ ४१ ॥ वर्षाचलास्तु सप्तैते तत्र द्वीपे महामुने । नद्यश्च सप्त तासां तु शृणु नामान्यनुक्रमात् ॥ ४२ ॥ धूतपापा शिवा चैव पवित्रा सम्मतिस्तथा । विद्युदम्भा मही चान्या सर्वपापहरास्त्विमाः॥४३॥
अन्याः सहस्रशस्तत्र क्षुद्रनधस्तथाऽचलाः । कुशद्वीपे कुशस्तम्बः संज्ञया तस्य तत्स्मृतम् ॥ ४४ ॥
तत्प्रमाणेन स द्वीपो धृतोदेन समावृतः । घृतोदश्च समुद्रो वै क्रौञ्चद्वीपेन संवृतः ॥ ४५ ॥
यथोक्तेति ॥ ययोक्तं कर्म—नित्यं नैमित्तिकं च । स्वाधिकारक्षयाय च-स्वस्यात्मज्ञानेन कर्मण्यधिकारं विहितकैङ्कर्यं निवर्तयितुम् । अधिकारं-प्राग्जन्मजं कर्म ॥ ४०-४५ ॥
क्रौञ्चद्वीपो महाभाग श्रूयतां चापरो महान् । कुशद्वीपस्य विस्ताराद्द्विगुणो यस्य विस्तरः ॥ ४६॥
क्रौञ्चद्वीपे द्युतिमतः पुत्रास्तस्य महात्मनः । तन्नामानि च वर्षाणि तेषां चक्रे महीपतिः ॥४७॥
कुशलो मल्लगश्चोष्णः पीवरोऽथान्धकारकः । मुनिश्च दुन्दुभिश्चैव सप्तैते तत्सुता मुने ॥ ४८॥
तत्रापि देवगन्धर्वसेविताः सुमनोहराः । वर्षाचला महाबुद्धे तेषां नामानि मे शृणु ॥ ४९ ॥
क्रौञ्चद्वीप इति ॥ * क्रौञ्चद्वीपे गिरिः क्रौञ्चस्तस्य नाम्ना स उच्यते * इति मात्स्ये ॥४६–४९॥
क्रौञ्चश्च वामनश्चैव तृतीयश्चान्धकारकः । चतुर्थो रत्नशैलश्च स्वाहिनी हयसनिभः ॥ ५० ॥
क्रौश्चश्चेति ॥ स्वाहिनी हयसन्निभ:-वडवामुखाभः ॥ ५० ॥
दिवावृत्पञ्चमश्चात्र तथाऽन्यः पुण्डरीकवान् । दुन्दुभिश्च महाशैलो द्विगुणास्ते परस्परम् । द्वीपा द्वीपेषु ये शैला यथा द्वीपेषु ते तथा ॥ ५१ ॥
वर्षेष्वेतेषु रम्येषु तथा शैलवरेषु च । निवसन्ति निरातङ्काः सह देवगणैः प्रजाः ॥५२॥
पुष्कराः पुष्कला धन्यास्तिष्याख्याश्च महामुने । ब्राह्मणाः क्षत्रिया वैश्याः शूद्राश्चानुक्रमोदिताः ॥५३॥
नदीर्मैत्रेय ते तत्र याः पिबन्ति शृणुष्व ताः । सप्त प्रधानाः शतशस्तथाऽन्याः क्षुद्रनिम्नगाः ॥ ५४॥
गौरी कुमुद्वती चैव सन्ध्या रात्रिर्मनोजवा । क्षान्तिश्च पुण्डरीका च सप्तैता वर्षनिम्नगाः ॥ ५५ ॥ तत्रापि विष्णुर्भगवान्पुष्कराद्यैर्जनार्दनः । यागै रुद्रस्वरूपश्च इज्यते यज्ञसन्निधौ ॥ ५६ ॥
दिवावृदिति ॥ द्विगुण इत्यादि । ये द्वीपाः, द्वीपेषु स्थिताः ये च शैलाः ते परस्परम्-उत्तरोत्तरं द्विगुणा:-पूर्वपूर्वद्वीपेभ्य उत्तरोत्तरद्वीपाः द्विगुणविस्ताराः, एवं पूर्वपूर्वद्वीपशैलेभ्यः उत्तरोत्तरद्वीपशैला: द्विगुणविस्ताराः । यथा द्वीपेषु ते तथेति । द्वीपेषु यथा-यावन्मानं, तथा तावन्मानास्ते शैला इत्यर्थः । (अस्यायमर्थ:-) एतदुक्तं भवति-लक्षसङ्ख्यामिते जम्बूद्वीपे स्थिताः शैलाः द्विसहस्रविस्तारा उभयतोऽब्धिस्पृश:, द्विलक्षादिमिते प्लक्षादौ चतुम्सहस्रादिविस्तारा अभितोऽब्धिस्पृश इति ॥ ५१ – ५६॥
क्रौञ्चद्वीपः समुद्रेण दधिमण्डोदकेन च । आवृतः सर्वतः क्रौञ्चद्वीपतुल्येन मानतः ॥ ५७ ॥ दधिमण्डोदकश्चापि शाकद्वीपेन संवृतः । क्रौञ्चद्वीपस्य विस्ताराद्द्विगुणेन महामुने ॥ ५८ ॥ शाकद्वीपेश्वरस्यापि भव्यस्य सुमहात्मनः । सप्तैव तनयास्तेषां ददौ वर्षाणि सप्त सः ॥ ५९॥
जलदश्च कुमारश्च सुकुमारो मरीचकः । कुसुमोदश्च मौदाकिः सप्तमश्च महाद्रुमः ॥ ६० ॥
तत्संज्ञान्येव तत्रापि सप्त वर्षाण्यनुक्रमात् । तत्रापि पर्वताः सप्त वर्षविच्छेदकारिणः ॥ ६१॥ पूर्वस्तत्रोदयगिरिर्जलाधारस्तथाऽपरः । तथा रैवतकः श्यामस्तथैवास्तगिरिर्द्विज ।
आम्बिकेयस्तथा रम्यः केसरी पर्वतोत्तमः ॥ ६२ ॥
क्रौञ्चद्वीप इति || दाधिमण्डोदक:- दध्नो मण्ड:–सारः, स एवोदकं यस्य तेन ॥ ५७-६२ ॥
शाकस्तत्र महावृक्षः सिद्धगन्धर्वसेवितः । यत्रत्यवादसंस्पार्शादाह्लादो जायते परः ॥ ६३ ॥
तत्र पुण्या जनपदाश्चातुर्वर्ण्यसमन्विताः । नद्यश्चात्र महापुण्याः सर्वपापभयापहाः ॥ ६४ ॥
सुकुमारी कुमारी च नलिनी धेनुका च या । इक्षुश्च वेणुका चैव गभस्तिस्सप्तमी तथा ॥६५॥
अन्याश्च शतशस्तत्र क्षुद्रनद्यो महामुने । महीधरास्तथा सन्ति शतशोऽथ सहस्रशः ॥ ६६॥
शाक इति । खरमृदुस्पर्शोभयपार्श्वपर्णो वृक्षविशेषः शाकः ॥ ६३ – ६६॥
तां पिबन्ति मुदायुक्ता जलदादिषु ये स्थिताः। वर्षेषु ते जनपदाः स्वर्गादभ्येत्य मेदिनीम् ॥६७॥ धर्महानिर्न तेष्वस्ति न संघर्षः परस्परम् । मर्यादाव्युत्क्रमो नापि तेषु देशेषु सप्तसु ॥ ६८ ॥
वङ्गाश्च मागधाश्चैव मानसा मन्दगास्तथा । वङ्गा ब्राह्मणभूयिष्ठा मागधाः क्षत्रियास्तथा । वैश्यास्तु मानसास्तेषां शूद्रास्तेषां तु मन्दगाः ॥ ६९ ॥
शाकद्वीपे तु तैर्विष्णुः सूर्यरूपधरो गुने । यथोक्तैरिज्यते सम्यक्कर्मभिर्नियतात्मभिः ॥ ७० ॥ शाकद्वीपस्तु मैत्रेय क्षीरोदेन समावृतः । शाकद्वीपप्रमाणेन वलयेनेव वेष्टितः ॥ ७१॥
क्षीराब्धिः सर्वतो ब्रह्मन्पुष्कराख्येन वेष्टितः । द्वीपेन शाकद्वीपात्त द्विगुणेन समन्ततः ॥७२॥
ताः पिबन्तीति ॥ स्वर्गप्रदकर्मक्षये तच्छेषाद्भुवमभ्येत्य जलदादिवर्षेषु ये स्थिताः-जाताः, जानपदा जनाः ते ता:-नदीः पिबन्ति ॥ ६७-७२ ।।।
पुष्करे सवनस्यापि महापीतोऽभवत्सुतः । धातुकिश्च तयोस्तत्र द्वे वर्षे नामचिह्निते । महापीतं तथैवान्यद्धातकीखण्डसंज्ञितम् ॥ ७३ ॥
पुष्कर इति ॥ धातकीखण्ड इति च तस्यैव राज्ञो नाम ॥ ७३ ॥
एकश्चात्र महाभाग प्रख्यातो वर्षपर्वतः । मानसोत्तरसंज्ञो वै मध्यतो वलयाकृतिः ॥ ७४ ॥
योजनानां सहस्राणि ऊर्ध्वं पञ्चाशदुच्छ्रितः । तावदेव च विस्तीर्णः सर्वतः परिमण्डलः ॥ ७५ ॥ पुष्पकरद्वीपवलयं मध्येन विभजन्निव । स्थितोऽसौ तेन विच्छिन्नं जातं तद्वर्षकद्वयम् ॥ ७६ ॥
वलयाकारमेकैकं तयोर्वर्षं तथा गिरिः ॥ ७७ ॥
दशवर्षसहस्राणि तत्र जीवन्ति मानवाः । निरामया विशोकाश्च रागद्वेषादिवर्जिताः ॥ ७८ ॥
अधमोत्तमौ न तेष्वास्तां न वध्यवधकौ द्विज । नेर्ष्यासूयाभयं द्वेषो रोषो लोभादिको न च ॥ ७९ ॥
एकश्चेति ॥ पुष्करे मानसोत्तराद्रेर्वलयाकारत्वोक्तया प्लक्षादिषु वर्षाद्य स्तिर्यप्रेखाकारा अमितोऽब्धिस्पृशो वर्षविभेदिन इति गम्यते ॥ ७४-७९ ॥
महापीतं बहिर्वर्षं धातकीखण्डमन्ततः । मानसोत्तरशैलस्य देवदैत्यादिसेवितम् ॥ ८० ॥
सत्यानृते न तत्रास्तां द्वीपे पुष्करसंज्ञिते। न तत्र नद्यश्शैला वा द्वीपे वर्षद्वयान्विते ॥८१॥
तुल्यवेषास्तु मनुजा देवैस्तत्रैकरूपिणः ॥ ८२ ॥
वर्णाश्रमाचारहीनं धर्माचरणवर्जितम् । त्रयीवार्तादण्डनीतिशुश्रूषारहितञ्च यत् ॥ ८३ ॥
वर्षद्वयं तु मैत्रेय भौमः स्वर्गोऽयमुत्तमः । सर्वतुसुखदः कालो जरारोगादिवर्जितः।
घातकीखण्डसंज्ञेऽथ महापीते च वै मुने ॥ ८४ ॥
महापीतमिति । अन्ततः-मानसोत्तराद्रेरन्त इत्यर्थः । धातकीसंज्ञमन्तेत इति च पाठः ॥ ८०-८४ ॥
न्यग्रोधः पुष्करद्वीपे ब्रह्मणस्स्थानमुत्तमम् । तस्मिन्निवसति ब्रह्मा पूज्यमानस्सुरासुरैः ॥ ८५ ॥ स्वादूदकेनोदधिना पुष्करः परिवेष्टितः । समेन पुष्करस्यैव विस्तारान्मण्डलाकृतेः ॥ ८६ ॥
न्यग्रोध इति ॥ अस्य न्यग्रोधस्य पुष्कर इति नाम । तेन द्वीपोऽपि पुष्कर इति स्मर्यते । * न्यग्रोधः पुष्करद्वीपे पुष्करस्तेन स स्मृत: * इति मात्स्योक्तेः ॥ पुष्करः-पुष्कल इत्यर्थः ॥ ८५, ८६ ॥
एवं द्वीपाः समुद्रैश्च सप्त सप्तभिरावृताः । द्वीपश्चैव समुद्रश्च समानौ द्विगुणौ परौ ॥ ८७ ॥
एवमिति ॥ द्वीपश्चैव समुद्रश्च जम्बूद्वीपक्षारोदौ समानौ, तद्विगुणौ प्लक्षद्वीपेक्षुरसोदौ। एवमनन्तर द्वीपाब्ध्योः पूर्वपूर्वद्वीपद्वैगुण्यम् अन्योन्यसाम्यं चोह्यम् ॥ ८७ ॥
पयांसि सर्वदा सर्वसमुद्रेषु समानि वै । न्यूनातिरिक्तता तेषां कदाचिन्नैव जायते ॥ ८८॥
पयांसीति ॥ पयांसि समानि-अवृद्धिशोषाणि । चन्द्रस्य तु वृद्धौ पौर्णिमायामुदये च तेषामुत्क्षोभमात्रं न तु वृद्धिः । एवं चन्द्रहासे तावत् क्षुभितस्य ह्रासः न तन्मूलाम्बुक्षयः ॥ ८८ ॥
स्थालीस्थमग्निसंयोगादुद्रेकि सलिलं यथा । तथेन्दुवृद्धौ सलिलमंभोधौ मुनिसत्तम ॥ ८९ ॥
स्थालीस्थमिति ॥ यथा परिमितं जलं क्वाथे उद्रिच्यते तदेव शैत्ये ह्रसति-समीभवति ॥८९॥
अन्यूनानतिरिक्ताश्च वर्धन्त्यापो हसन्ति च । उदयास्तमयेष्विन्दोः पक्षयोश्शुक्लकृष्णयोः ॥९०॥
दशोत्तराणि पञ्चैव ह्यङ्गुलानां शतानि वै। अपां वृद्धिक्षयौ दृष्टौ सामुद्रीणां महामुने ॥ ९१ ॥
अन्यूनानतिरिक्ता इति ॥ तथा शुक्ले कृष्णे वा चन्द्रस्योदयेऽपां सपादैकविंशतिहस्तमिता वृद्धिः। अस्तमये तावानेव ह्रासः ॥ ९०, ९१ ॥
भोजनं पुष्करद्वीपे तत्र स्वयमुपस्थितम् । षड्रसं भुञ्जते विप्र प्रजास्सर्वास्सदैव हि ॥ ९२॥
भोजनमिति ॥ षड्रसम्-भक्ष्यभोज्यलेह्यचोष्यपेयखाद्यात्मना षड्विधं रस्यम् , मधुराम्ललवण–तिक्तकटु कषायाख्यरसवद्द्रव्यं वा ॥ ९२ ॥
स्वादूदकस्य परितो दृश्यते लोकसंस्थितिः। द्विगुणा काञ्चनी भूमिः सर्वजन्तुविवर्जिता ॥ ९३ ॥
स्वादूदकस्येति ॥ लोकस्य-जननिवासभूतस्य सप्तद्वीपात्मकस्य, संस्थिति:-मर्यादाभूता स्वर्णभूमिः । अलोकसंस्थितिरिति पदच्छेदे लोकसंस्थानरहिता दर्पणाकारा । सा च लोकान्मेरोरभित: स्थितात्सप्तलक्षपञ्चकोटिमिताद्द्विगुणा सचतुर्दशलक्षाशकोटि: ॥ ९३ ॥
लोकालोकस्ततश्शैलो योजनायुतविस्तृतः । उच्छ्रायेणापि तावन्ति सहस्राण्यचलो हि सः ॥ ९४ ॥
लोकालोक इति ॥ ततो लोकालोकादिः । एवं संहत्य मेरोरेकतो लोकालोकान्तं कोटयो द्वादशलक्षाणि सप्तषष्टिः, पञ्चाशत्सहस्राणि च। * एतेन ह्यलोकपरिमाणं व्याख्यातमिति भागवतोक्त्या किञ्चिदून सार्द्ध द्वादशकोट्यादिकमलोकाख्यम् ॥ ९४ ॥
ततस्तमः समावृत्य तं शैलं सर्वतः स्थितम् । तमश्चाण्डकटाहेन समन्तात्परिवेष्टितम् ॥ ९५ ॥
तत इति ॥ तत्रैव तमोगर्तोदौ च तामसभूतावास भूतौ। सगर्तोदात्तमसः परस्तात् परितः प्रति दिशमण्डकटाहादर्वाङ् महापुरुषनिवासभूतो वैकुण्ठलोकः, ततः कटाह इति ज्ञेयम् । भागवते हरिवंशे च ब्राह्मणपुत्रानयनप्रस्तावे भगवत्स्थानस्य तथोपवर्णितत्वात् ॥ ९५ ॥
पञ्चाशत्कोटिविस्तारा सेयमुर्वी महामुने । सहैवाण्डकटाहेन सद्वीपाब्धिमहीधरा ॥ ९६ ॥
पञ्चाशदिति ॥ एवं मेरोरेकत: कटाहान्तं पञ्चविंशतिकोटिकं भूविस्तारार्द्धम् , अन्यतश्च तथा ; इत्थं संहत्य पञ्चाशत्कोटिभूविस्तारः । एवमूर्ध्वाधः कटाहावधिश्चाण्डोच्छ्राय: पञ्चाशत्कोटिः, * सूर्याण्डगोलयोर्मध्ये कोट्यः स्युः पञ्चविंशतिः * इति शुकोक्तेः । यद्वा, एकत एव लोकमानात्ससार्द्धत्रिलक्षाध्यर्घद्विकोट्यात्मकाद्द्वैगुण्यं काञ्चनभूमेस्ससप्तलक्षपञ्चकोट्यात्मकं कृत्वा शिष्टं सप्तदशकोट्यादिकं तम:कटाहादिमानत्वेन योज्यम् । पुराणकारस्य हि वैराग्योत्पादने भगवन्माहात्म्यज्ञापने च तात्पर्यान्न लोकसंख्यागणितेष्वत्यादरः। ततो यथाकथञ्चिदपि पञ्चाशत्कोटि- -विस्तारत्वं भुवो ज्ञेयम्। अन्ये तु विस्तारशब्दं व्यासार्द्धपरं कृत्वा मेरोरभितः पञ्चाशत्कोटित्वं वर्णयन्तो भूमेः शतकोटिविस्तारत्वं प्राहुः। तथा च वाराहे-* भूमण्डलं तु शतकोटिविस्तारं साण्डकटाहमिति । अयमेव पक्षः स्कान्दे शिवरहस्ये विस्तरेणोक्तः । शैवतन्त्रान्तरे च * कोटिद्वयं त्रिपञ्चाशल्लक्षाणि च ततः परम् । पश्चाशच्च सहस्राणि सप्तद्वीपाः ससागराः॥ ततो हिरण्मयी भूमिर्दशकोट्यो वरानने ॥ देवानां क्रीडनार्थाय लोकालोकस्ततः परम् ॥ पर्वतो वलयाकारो योजनायुतविस्तृतः ॥ तस्माद्बाह्यं तमो घोरं दुष्प्रेक्ष्यं जीववर्जितम् ॥ पञ्चत्रिंशत्स्मृताः कोट्यो लक्षाण्येकोनविंशतिः । चत्वारिंशत्सहस्राणि योजनानां वरानने । सप्तसागरमानस्तु गर्तोदस्तदनन्तरम् ॥ कोटियोजनमानस्तु कटाहस्संव्यवस्थितः ॥ इति । अस्मिंस्तु पक्षे *सूर्याण्डगोलयोर्मध्ये कोट्यः स्युः पञ्चविंशतिरिति भागवतश्लोकस्थसूर्यशब्दस्तत्प्रकाश्य- -देशपरो योज्यः। * रविचन्द्रमसोर्यावन्मयूखैरवभास्यते ॥ ससमुद्रसरिच्छैला तावती पृथिवी स्मृता ॥ इति वक्ष्यमाणत्वात् । * प्रकाश्य पृथिवीमानं पञ्चविंशतिकोटिकम् , तत्प्रकाशकमेव सूर्यं कल्पयित्वा, ततः परं यावदण्डकटाहं पञ्चविंशतिरित्येवार्थः । यद्वाऽण्डकटाहान्तः पञ्चाशत्कोटिः पृथिवी, बहिश्चावरणभूता तावतीति, एवं शतकोटित्वं वराहपुराणानुसाराद्योज्यम्। यद्वा शास्त्रीयाङ्गुलसिद्धैर्योजनैः पञ्चाशत्कोट्य एव लौकिकाङ्गुलसिद्धयोजनैः शतकोटयः स्युः। यद्वा कल्पभेदेन द्वयोरपि पक्षयोरविरोध: कल्प्यः ॥९६॥
सेयं धात्री विधात्री च सर्वभूतगुणाधिका । आधारभूता सर्वेषां मैत्रेय जगतामिति ॥९७ ॥
सेयमिति ॥ धात्री-ओषधिद्वारा पोषकरी । विधात्री-कर्त्री । गुणाधिका-पञ्चगुणत्वात् ॥९७॥
इति श्रीविष्णुपुराणे विष्णुचित्तीये द्वितीयेऽशे चतुर्थोऽध्यायः ॥ ४ ॥
इति श्रीभगवद्रामानुजपदान्तरंगश्रीविष्णुचित्तविरचिते श्रीविष्णुपुराणव्याख्याने श्रीविष्णुचित्तीये द्वितीयेऽशे चतुर्थोऽध्यायः ॥ ४ ॥