[highlight_content]

श्रीविष्णुपुराणम् Amsa 02 Ady 06

श्रीविष्णुपुराणम्

अथ षष्ठोऽध्यायः

ततश्च नरका विप्र भुवोऽधस्मलिलस्य च । पापिनो येषु(पच्यन्ते)पात्यन्ते ताञ्छृणुध महामुने॥१॥

उक्ता पुण्योगभूमिः । अथ पापभोगभूमिरुच्यने-ततश्चेति ॥ सलिलस्य-तमोगोंदकस्य, अवः ॥ १॥

रौरवस्सूकरो रोधस्तालो विशमनस्तथा । महाज्वालस्तप्तकुम्भो लवणोऽथ विलोहितः ॥२॥

रौरव इति ।। रोरवसूकरौ रुरुवराहकृतपीडात्मको। निखातवद्यत्र रुद्धयते स रोधः । तालद्रुमात्पातनं तत्पर्णकाण्डेन च छेदनं यत्र स नालः । करपत्रादिना तीक्ष्णशस्त्रेण यत्र च्छेदनं स विशसनः । * मुक्तस्ततोऽन्य बहिस्थः शैते संप्राप्य निर्वृतिमित्युक्तो महाज्यालः । यत्र तैलकुम्भेषु पच्यन्ते स तप्तकुम्भः । छित्त्वा छित्सा ..तप्तक्षारोक्षेपणं यत्र स लवणः । लोहितस्य-रुधिरस्य शोषणं यत्र स विलोहितः ॥ २ ॥

रुधिराम्भो वैतरणिः क्रिमिशः क्रिमिभोजनः । असिपत्रवनं कृष्णो लालाभक्षश्च दारुणः ॥३॥

रुधिराम्भ इति ॥ ततरुधिरमयोदको देशो रुधिराम्भः । रुधिरमयी दुस्तरा नदी वैतरुणी। यत्र क्रिमिषु शय्यते स क्रिमिशः। यत्र क्रिमयो भुज्यन्ते स किमिभोजनः। काष्र्णायसशंकुः निरन्तरं यत्र संचार्यते स कृष्णः । मतिशीतात्मा दारुणः ॥ ३ ॥

तथा पूयवहः पापो वह्निज्वालो बधःशिराः । संदंशः (कृष्ण) कालसूत्रश्च तमवावीचिरेव च ॥४॥ श्वभोजनोऽथाप्रतिष्ठश्चाप्रचिश्च तथा परः । इत्येवमादयश्चान्ये नरका भृशदारुणाः ॥५॥

यमस्य विषये घोराः शस्त्राग्निभयदायिनः । पतन्ति येषु पुरुषाः पापकर्मरतास्तु ये ॥ ६॥

तथेति ॥ संदंशैर्यत्र जिह्वोत्पाटनं स संदंशः, यथोक्तम् * उत्बाटयन्ते तथा जिह्वाः संदेशैभृशदारुणैः। थाक्रोशकानां दुष्टना सदैवाबद्धभाषिणाम् । शस्त्रधारा सदैवैतां मृणालप्रस्तरं नरः । मन्यते नारकैः शस्त्रैविक्षतो द्विजसत्तम । हिमाखण्डं च यच्छन्नो निवातं मन्यते नरः। विमुक्तो नरकाच्छीतादप्रकाशं तमस्तमः ।। क्रिमिकीट जलुकादितीक्ष्णदंष्ट्राप्रविक्षताः । भ्राम्यन्ते चान्धतामिने वृथामांसाशिंनो हि ये॥ कालसूत्रेण मिद्यन्ते चक्रा रूढास्तु मानवाः । पादांगुलिस्थेन सदा ह्यापादतलमस्तकम् । एकीभूतशरीरश्च विवेन्योऽतिचिरेण च ॥इ ति ॥

कूटसाक्षी तथाऽसम्यपक्षपातेन यो वदेत् । यश्चान्यदनृतं वक्तिं स नरो याति रौरवम् ॥ ७॥

कूटसाक्षीति ॥ साक्ष्य जाननप्यवदन्नन्यथा वा वदन यः स कूटसाक्षी । तथा यो धर्माधिकृतः सन् असम्यक्-अयथार्थ वदति, साक्षिवादादन्यत्-नर्मादिव्यतिरिक्तमनृतम् ॥ ७ ॥

भ्रूणहा पुरहन्ता च गोप्रश्च मुनिसत्तम । यान्ति ते नरकं रोधं यथोच्छासनिरोधकः ॥ ८॥

भ्रणहेति ॥ भ्रणो गर्भः, सूत्रप्रवचनाध्यायी वा ; यथाह बोधायन: * उपनीतमात्रो व्रतचारी वेदानां किश्चिदधीत्य बाह्मणः, एकां शाखामधीत्य श्रोत्रियः, अङ्गाध्याय्यनूचानः, कल्पाध्यायी ऋषिकल्पः, सूत्रप्रवचना ध्यायी भ्रूणः, चतुर्वेद ऋषिः, अत ऊर्ध्व देवः इति ॥ ८॥

सुरापो ब्रह्महा हर्ता सुवर्णस्य च सकरे । प्रयाति नरके यश्च तैस्संसर्गमुपैति वै ॥९॥

सुराप इति ।। सुवर्णस्य-विप्रसंबन्धिनो हेममात्रस्य, पोडशमाषमानस्य या हेम्नः। संसर्गम्-अन्दं सह शय्याशनादिना, सकृद्याजनादिना वा; * संवत्सरेण पतति पतितेन समाचरन् । याजनाध्यापनाद्यौनात्सवः पतति तत्समः ॥ इति स्मृतेः ॥ ९॥

राजन्यवैश्यहन्ता च तथैव गुरुतल्पगः । तप्तकुण्डे स्वसृगामी हन्ति राजभटांश्च यः ॥ १० ॥

राजन्येति ।। राजन्यवैश्यौ यागस्थौ * सवनगतौ हि क्षत्रियवैश्यौ * इत्यादिस्मृतेः। राजभटान् भयुद्धस्थान ॥१०॥

ध्वीविक्रयकृद्धंधपालः केसरिविक्रयी । तप्तलोहे पतन्त्येते यश्च भक्त परित्यजेत् ॥ ११ ॥

साध्वीविक्रयकृदिति ।। साध्वी-भार्या । बन्धपाल:-कारागृहाधिकारी। केसरी-अश्वः, * तप्तलोहे वश्ववणिक् तथा बन्धनरक्षिता । भार्याविक्रयकर्ता च यश्च भक्त परित्यजेत् * इति वायुः । * ब्रह्महा मुध्यते

न न तेन हयविक्रयी * इति स्मृतिः। भक्त-शरणागतम् ॥ ११ ॥

नुषां सुतां चापि गत्वा महाज्वाले निपात्यते । अवमन्ता गुरूणां यो यश्चाकोष्टा नराधमः ॥ १२ ।।

स्नुषामिति ॥ अवमन्ता-अलीकनिर्बन्धकर्ता। आक्रोष्टा–गुरूणां विप्राणां चाधिक्षेप्ता, शप्ता व॥१२॥

दिदृषयिता यश्च वेदविक्रयिकश्च यः । अगम्यगामी यश्च स्यात्ते यान्ति लवण द्विजः ॥ १३ ।

वेदेति ॥ वेददूषयिता-वेदानन्दको विस्मर्ता च । अगम्याः-मातुलान्यन्त्यजात्याद्याः ॥ १३॥

चोरो विलोहे पतति मर्यादादृषकस्तथा ॥ १४ ॥

चोर इति ॥ सदाचारादिसिद्धसमयधर्मा मर्यादाः ॥ १४ ॥

वद्विजपितृद्वेष्टा रत्नदूषयिता च यः । स याति क्रिमिभक्षे वै क्रिमिशे च दुरिष्टकृत् ॥ १५ ॥

देवद्विजेति ॥ दुरिष्टं-विकलो यागः, अमिचारो वा ॥ १५ ॥

पेतृदेवातिथींस्त्यका पर्यश्नाति नराधमः । लालाभक्षे स यात्युग्रे शरकर्ता च वेधके ।। १६ ॥

पितृदेवातिथीनिति ॥ पित्रादीन्वर्जयित्वा आदावशन पर्यशनम् ॥ १६ ॥

रोति कर्णिनो यश्च यश्च खड्गादिकृन्नरः । प्रयान्त्येते विशसने नरके भृशदारुणे ॥ १७ ॥

करोतीति ॥ कर्णिन:-शरविशेषाः ।। १७ ।।

सत्प्रतिगृहीता तु नरके यात्यधोमुखे । अयाज्ययाजकश्चैव तथा नक्षत्रसूचकः ॥१८॥

असत्प्रतिगृहीतेति ॥ असत्-कृष्णाजिनमेषादि; असत:-म्लेच्छादिकाद्वा। अयाज्या:-शूद्रायाः, पतितवाल्या वा। * अविदित्वैव य शास्त्रं दैवज्ञत्वं प्रपद्यते । स पङ्क्तिदूषकः पापो ज्ञेयो नक्षत्रसूचकः ।। नक्षत्रजीवी वा ॥ १८ ॥

वेगी पूयवहे चैको याति मिष्टानभुङ्नरः ॥ १९॥

वेगीति ॥ वेगी-साहसिकः । मिष्टानभुक्-एक एव खादुभुक् ॥ १९ ॥

क्षामांसरसानां च तिलानां लवणस्य च । विक्रेता ब्राह्मणो याति तमेव नरकं द्विज ॥ २०॥

ऑरकुकुटच्छागश्ववराहविहंगमान् । पोषयन्नरकं याति तमेव द्विजसत्तम ॥ २१ ॥

लाक्षेति ॥ लाक्षा जतु । रसा:-क्षीरमध्वाचाः ॥२०, २१ ॥

रङ्गोपजीवी कैवर्तः कुण्डाशी गरदस्तथा । सूची माहिपकश्चैव पर्वकारी च यो द्विजः ॥ २२ ॥

रङ्गोपजीवीति ॥ रङ्गोपजीवी-नटमल्लादिवृत्तिः । कैवर्तः-धीवरवृत्तिः । जीवति भर्तरि जारजः कुण्डः, तदन्नभेजी कुण्डाशी ; अवृतमृद्भाण्डभोजी वा । गरद:-विषदः । सूची-राजगामी पैशुनः । * महिषीत्युच्यते. भार्या भगेनोपार्जितं धनम् । उपजीवति यस्तस्याः स वै माहिरकः स्मृतः ॥ इति, लुलायीजीवो वा । लोभा दिना अपर्वसु पर्वक्रियादिकर्ता पर्वकारी, पर्वसु तैलस्त्रीमांसादिभोगकारी वा ॥ २२॥

अगारदाही मित्रमः शाकुनिमियाजकः । रुधिरान्धे पतन्त्येते सोमविक्रयिगश्च ये ॥ २३ ॥

मबहा ग्रामहन्ता न याति बतरणी नरः ।। २४ ॥

अगारदाहीति ॥ शाकुनि:-पक्ष्यादिनीवः, निमित्तशकुनाजीवो वा ॥ २३, २४ ॥

रेतःपातादिकर्तारो मर्यादाभेदिनो हि ये । ते कृष्ण यान्त्यशौचाश्च कुहकाजीविनश्च ये ॥ २५ ॥

रेत:पातादीति || मर्यादा दिन:-प्रामादिसीमोल्लंधिनः । कुहक-शाठ्यम् , इन्द्रजालादि वा ॥२५॥

असिपत्रवनं याति बनच्छेदी वृथा यः । औरभ्रका मृगव्याधा वह्निज्वाले पतन्ति ।। २६ ।।

असिपत्रवनमिति ॥ औरभ्रकः-मेषाजीवी ॥ २६ ॥

यान्त्येते द्विज तत्रैव ये चापाकेषु वहिदाः ॥ २७॥

व्रतानां लोपको यश्च स्वाश्रमाद्विच्युतश्च यः । संदेशे यातनामध्ये पततस्तावुभावपि ।। २८ ।।

यान्तीति ॥ अपाको दाह्यमुत्पिण्डेष्टकादिगर्भ इन्धनचयः ।। २७, २८ ॥

दिवा स्वमे च स्कन्दन्ते ये नरा ब्रह्मचारिणः । पुत्रैरध्यापिता ये च ते पतन्ति श्वभोजने ॥ २९ ॥

एते चान्ये च नरकाः शतशोऽथ सहस्रशः । येषु दुष्कृतकर्माणः पच्यन्ते यातनागताः ॥ ३०॥

यथैव पापान्येतानि तथाऽन्यानि सहस्रशः । भुज्यन्ते यानि पुरुषैर्नरकान्तरगोचरैः ॥ ३१ ॥ वर्णाश्रमविरुद्धं च कर्म कुर्वन्ति ये नराः । कर्मणा मनसा वाचा निरयेपु पतन्ति ते ॥ ३२ ॥

दिवेति ॥ स्कन्दन्ते-शुकमवकिन्ति । चशब्दापुरध्यापिताश्च पच्यन्ते ; क्रमेणेति शेषः । पात किनस्तत्तदुक्कनरकं पूर्व भुक्त्वा तच्छेषेण सर्वनरकान् पर्यायेण भुञ्जत इत्यर्थः ।। २९-३२ ॥

अधःशिरोभिदृश्यन्ते नारकैदिवि देवताः । देवाश्चाधोमुखान्सर्वाजधः पश्यन्ति नारकान् ॥ ३३॥

नारकिणां सुखिनो देवान्दृष्टा क्लेशोऽधिक: स्यादित्याह-अवः शिरोभिरिति ॥ देवाश्चेति ॥ नारकान् पश्यतां देवानामपि पुण्यक्षये पापानरके पतिप्यान इति नित्यं साशकत्वात्स्वर्गे नातिसुखं स्यात् । * खर्गेऽपि पातमीतस्येति हि वक्ष्यति ॥ ३३ ॥

स्थावराः क्रिमयोऽब्जाश्च पक्षिणः पशवो नराः। धार्मिकास्त्रिदशास्तद्वन्मोक्षिणश्च यथाक्रमम् ॥३४॥

एवं पापिनोऽनुभूतनानाविधन शास्तछेपेण तामसादिगुणसंकरतारतम्येन नवधा भिन्नानि स्थावरादि जन्मानि यावन्मोक्ष क्रमेणारोहली यादव : दिवाना नाम इति ! अजा.-गादमि । धार्मिका:- . मनुषेक केचित्। मोक्षिण:-बहालोकस्याः ॥ ३४ ॥

सहसभागप्रधमाः द्वितीयानुक्रमानहा। सर्वे धेने महाभाग यावन्मुक्तिसमाश्रयाः ॥३५॥

सहस्रेति ॥ सहस्रमागप्रथमा इति । प्राथम्यमुत्तरोतरापेक्षया। सहस्रतमभागभूताः–सहस्रभागाः। त एव प्रथमाः उत्तरोत्तरांपेक्षया ; द्वितीयत्वमुत्तरत्वम् । पूर्वपूर्वे सर्व एते. स्थावराद्याः सहस्रतमभागास्सन्तः उत्तरोत्तरं द्वितीयानुक्रमाः स्युः; स्थावरा दिपूर्वपूजिातीयाद्वितीयमुत्तरोत्तरं जन्मानुकामन्ति । एतदुक्तं भवति, पूर्वपूर्वजन्म स्थितेषु जन्तुषु कतिचिदेवोत्तरोत्तरं जन्म विन्दन्तीति । तयाह वायु: * य स्सहस्रमो भागस्स्थावराणां भवेदिह । पार्थिवाः किंमयस्तावत्संस्वेदालांवन्ति ते!! गंम्मेद नानां भागेन माहस्रेण हि संमिनाः । औदका जन्तवः * इत्यु पक्रम्य * य स्मासतमो भागो भवेत्तु द्विपदा मिह । धार्मिकास्ते भुवि ज्ञेया पुनर्भागेन धार्मिकाः ॥ साहस्रेणैव भागेन धागि यो दिवं गताः । य म्सहमनमो भागो धार्मिकाणां भवेदिवि ॥ संमितास्तेन भागेन मोक्षिणस्ताव देव हि । एवं सुदुर्लभा शान्ता धार्मिकाः वर्गवासिनः ॥ इति । अयं च क्रमः प्रायिकः * तिर्यग्योनिगतः कश्चिन्मुच्यते नारकी परः । अनुग्रहाकारस्य क्रमोऽयं न विवक्षितः ॥ इति वायूक्तेः । * व्युत्क्रमेणापि मानुष्यं प्राप्यते पुण्यगौरवात् । विचित्रा गतयः पुंसां कर्मणां गुरुलाघवैः । इत्यादित्यपुराणोक्तेश्च । इदं च स्थावरादि श्लोकद्वयं मोक्षदोलभ्यप्रतिपादनपरं न तु जीवेयत्ताक्रमपरम् , स्वर्गनरंकादिस्थानां जीवानामानन्त्यात्। यावन्मुक्ति समाश्रया इति । मुक्तास्तु द्वितीयानुक्रमा न भवन्तीत्यर्थः ॥ ३५ ॥

यावन्तो जन्तवः स्वर्ग तावन्तो नरकौकसः । पापक्रयाति नरकं प्रायश्चित्तपराङ्मुखः ॥ ३६ ॥

कृतादिकाले तद्धर्माधिक्येऽपि वर्गिवन्नारकिणोऽप्यनन्ता इत्याह-यावन्त इति ॥ ३६ ।।

पापानामनुरूपाणि प्रायश्चित्तानि यद्यथा । तथा तदेव संस्मृत्य प्रोक्तानि परमर्षिभिः ॥३७॥

पापानां मध्ये यस्य यद्यथा प्रायश्चित्तं श्रुतावुक्तं तस्य तत्तथाऽनुस्मृत्य प्रायश्चित्तान्युक्तानीत्याह-पापा नामिति ॥ ३७॥

पापे गुरूणि गुरुणि स्वल्पान्यल्पे च तद्विदः । प्रायश्चित्तानि मैत्रेय जगुस्वायंभुवादयः ॥ ३८॥

पाप इति || गुणेि प्रायश्चित्तानि-साक्षात्कर्तुः प्राणान्तिकादीनि, गुरुणि पापे–मतिपूर्वकमत्यन्त मावृत्ते ; स्वल्पानि-रहस्यप्रायश्चित्तादीने, अल्पे-सकृदज्ञानकृताप्रकाशानुमतिमात्रादिके। तत्र ह्यज्ञानकृते ब्रह्म हत्यादिमहापातके द्वादशवार्पिक, ज्ञानकृने तद्विगुणम् , आवृत्तौ तद्विगुणम्, अत्यन्तावृत्तौ तद्विगुणमिति साक्षात्कर्तुः । अनुपात . , प्रपोजल्याण, मग तुः सादादः, प्रोत्साहकादीनां च ततोऽवरमि त्यादिक्रमः । तत्र च महापातकानामज्ञानकृतानां द्वादशवार्षिकं कर्तुः शोधकं संव्यवहार्यत्वकरं च ; मल्या कृतानां. तु स्मृत्युक्तं प्राणान्तिकं व्यवहार्यत्वकरं नरकहरं च ; द्वादशवार्षिकं तु द्विगुणमपि कामकृतानां पातकानां कर्तुः व्यवहार्यत्वकरं न तु नरकहरम् । एवमादिपापस्य प्रायश्चित्तस्य व गुरुलधुत्वादितारतम्यविदस्तद्विदः ॥ ३८ ॥

प्रायश्चित्तान्यशेषाणि तपःकर्मात्मकानि वै । यानि तेपामशेषाणां कृष्णानुप्मरणं परम् ३९॥

अथ मन्वादिभिरुक्तानां प्रायश्चित्तानां तत्तत्पापमात्रनिवर्तकत्वात्, * यः सकृत्पातकं कुर्यात् कुर्यादेन स्ततोऽपरमिति इत्युक्तायाः पुनस्तत्पापप्रवृत्तेरनिवारकत्वाच तान्युपेक्ष्य सर्वेयामंहसा महीयसामल्पीयसां च देश  कालाद्यविशेषेणात्यन्तोच्छेदकत्वादत एव पुनः पापप्रवृत्तेर्निवारक वान्मोक्षादिफलप्रदत्वाच्च तेभ्योऽशेषेभ्यो मिलि तेभ्यः पर-प्रकृष्ट प्रायश्चित्तविशेष सर्वोपनिषच्छ्रुतिस्मृतिपुराणसंमतमाह-प्रायश्चित्तानीति ॥ . तपः-उपवासादि, कर्म-यज्ञदानादि । अनुस्मरणम्–अनुह_नार्थे, स्वस्य शेषत्वानुसन्धानपूर्वक स्मरणम् । यथोक्तम् * आत्मदास्य हरे स्वाम्य स्वभावं च सदा स्मरेति । परं-* क्षेत्रज्ञस्येश्वरज्ञानाद्विशुद्धिः परमा मता, * तद्यथेषीकातूलमग्नौ प्रोत . प्रदूयेतेत्यादि । इदमनुस्मरणं कीर्तनस्याप्युपलक्षणम् । अनन्तरं * क जपो वासुदेवेति कीर्तनस्य प्रशंसनात्॥३९॥

कृते पापेऽनुतापो वै यस्य पुंसः प्रजायते । प्रायश्चित्तं तु तस्यैकं हरिसंस्मरणं परम् ॥ ४०॥

ननु भगवतः स्मरणकीर्तनयोः * पापक्षयश्च भवति स्मरतां तमहर्निशमित्यादिवचनेषु आवृत्तयोः पापक्षयहेतुत्वं गम्यते ; * अवशेनापि यन्नाम्नि * सकृत्स्मृतोऽपीत्यादिषु स्मरणकीर्तनयोः सकृत्कृतयोरेव; तत्र कथम विरोध इत्याशंक्याह-कृते पाप इति ॥ एक-सकृत्कृतम् | कृतानां साहसां सकृत्कृतं स्मरणादि, करिष्यमाणानां तु आवय॑मानं पूर्वाहसां संस्कारनाशद्वारेण पुनरुत्पत्तिप्रतिबन्धतया प्रायश्चित्तमित्यविरोधः । नचात्राननुतप्तानामा वृत्तिरनुतप्तानां तु सकृदित्यविरोधो वक्तव्यः । अनुतप्तस्यैव सर्वत्र प्रायश्चित्ताधिकारात् । न चेदं स्मरणमनुतापादि सहकारात्पापस्य निवर्तकम किंतु वस्तुसामार्थ्यात् , तिमिरस्येव तरणिः। तस्मादत्रानुतापस्य नाङ्गत्वं किंत्वधिकारि-… विशेषणता ॥ ४०॥

प्रातनिशि तथा सन्ध्यामध्याहादिषु संस्मरन् । नारायणमवाप्नोति सद्यः पापक्षयं नरः ।। ४१ ॥

किश्चात्र कालाधपि नापेक्ष्यमित्याह-प्रातरिति ॥ सद्य इति वचनात्सकृदेवेति गम्यते, अतः सद्य इत्यनेन विरोधात् प्रातरादिषु नावृत्तिरिति मन्तव्यम् । नर इति च जात्याश्रमाधनादरोक्तर्देशकर्तृशौचाधनपेक्षा च.. लक्ष्यते । * चक्रायुधस्य नामानि सदा सर्वत्र कीर्तयेत् । नाशौच कीर्तने तस्य, इत्यादिवचनात् ॥ ४१ ॥

विष्णुसंस्मरणात्क्षीणसमस्तक्लेशसञ्चयः । मुक्ति प्रयाति स्वर्गाप्तिस्तस्य विनोऽनुमीयते ॥ ४२ ॥

न केवलमिदं पापस्यैव नाशकं किं तु संसारस्यापीत्याह-विष्णुसंस्मरणादिति ॥ तस्य-मुक्तिसाधनी भूतभगवस्मरणवतः ॥ ४२ ॥

वासुदेवे मनो यस्य जपहोमार्चनादिषु । तस्यान्तरायो मैत्रेय देवेन्द्रत्वादिकं फलम् ॥ ४३ ॥

नित्यकर्माण्यपि भगवञ्चिन्तायुक्तानि मुक्तिदानीत्याह-वासुदेव इति ॥ यथा प्रणयनं नित्ययागाङ्गमपि गोदोहनपात्रेण कृतं पशुफलप्रदं, तथा नित्यमपि जपादिकर्म भगवच्चित्तेन कृतं मुक्त्यै भवतीति युक्तम् ॥ ४३ ॥

क नाकपृष्ठगमनं पुनरावृत्तिलक्षणम् । क जपो वासुदेवेति मुक्तिबीजमनुत्तमम् ॥४४॥

एवं मुक्तिबीजभगवत्सङ्कीर्तनक्तो देवेन्द्रत्वादिपदं विघ्न इत्याह-क नाकपृष्ठेति ॥. शाश्वतफलप्रदस्य – हरिकीर्तनस्य खर्गादिपदं नश्वरत्वादननुरूपमित्यर्थः ॥ ४४ ।।

तस्मादहर्निशं विष्णु संस्मरन्पुरुषो मुने। न याति नरकं सधस्संक्षीणाखिलपातकः ॥ ४५ ॥

यस्मादेवं सकृत् कीर्तनादि कृतस्य पापस्य क्षपणे, तस्मादावृत्तकीर्तनादिजः संस्कारः पापहेतु दुस्संस्कारनाशक इत्याह-तस्मादिति ॥ इदं संकीर्तनं श्रवणस्याप्युपलक्षणम् । वक्ष्यति च *हन्ति कलष श्रोत्रं स यातो हरिरिति ॥ एवं श्रवणादे: सकृच्छ्रो/ह्यवधातवद्दृष्टफलत्वाभावाच प्राकृतपापक्षयार्थ नावृत्ति कल्पना न्याय्या ; अनादिगिरिगुहोदरस्थतमोहरस्येव दीपस्य । उत्तरपापानुदयार्थ यावब्रह्मापरोक्ष्यमावृत्तिः कार्या, पुनस्तमोनुदयाय दीपस्येव यावदर्को स्यम् । न चैवं सुकरे नाम कीर्तनादौ सति दुष्करे द्वादशवार्षिकादौ पुरुषाणाम प्रवृत्तर्मन्वादिवाक्यानामननुष्ठानलक्षणो बाध इति शंकनीयम् । भगवत्पराङ्मुखानां गुरुषु प्रायश्चित्ते सश्रद्वाना प्रवृत्तेः । किञ्च इदं स्मरणादि अश्रद्धया कृतमपि प्रायश्चित्तं भवति, यया शिशुपालादेः । * हरिहरति पापानि दुष्टचित्तैरपि स्मृतः * इत्यादिवचनात्। स्मरणादेव पापक्षये सत्यपि युधिष्ठिरार्जुनबलभद्रादीनां विदुवानपि तीर्य यात्राद्यनुष्ठानमविद्वदभक्त:दिलोकसंग्रहार्थम् । अस्मिन्प्रकरणे हरिविष्णुनारायणेत्यनेकनाम्नां प्रयोगात्तेषां पापहरत्वमोक्ष प्रदत्वप्रतिपादनाच्च सर्वाण्यपि नामानि सर्वपुरुषार्थसाधनानीति मन्तव्यम्, न तु वासुदेव इत्येकमेव नाम । तथा च श्रीविष्णुधर्मे * एकस्यैव समस्तस्य ब्रह्मणो द्विजसत्तम । नाम्नां बहुत्वं लोकानामुपकारकरं शृणु ॥ इत्युपक्रम्य, * वासुदेवाच्युतेति श्लोकेन केषांचिन्नाम्नां मोक्षप्रदत्वमभिधाय पश्चादन्येषां धर्मकामादिषु पृथग्विनियोगमुक्ता, * यद्वाऽमिरोचते नाम्नां तत्सर्वार्थेषु कीत्तयेत् । सर्वार्थसिद्धिमानोति नाम्नामेकार्थता यतः ॥ इति सर्वेषां नानां सर्षपुरुषार्थसाधकत्वस्योक्तत्वात् ॥ ४५ ॥

मनाप्रीतिकरः स्वगों नरकस्तद्विपर्ययः । नरकस्वर्गसंज्ञे वै पापपुण्ये द्विजोत्तम ॥ ४६ ।।

अथ स्वर्गादेरन्तरायत्वमुपपादयितुं निरुपाधिकसुखरूपभगवद्वयतिरिक्तस्य सर्वस्य वस्तुनः सुखात्मकरवं दुःखात्मकत्वं च कर्मकृतं न स्वाभाविकम् ; अतोऽस्थिरमनियतं चेत्याह-मनःप्रीतिकर इत्यादिना ॥ सुखदुःख साधने खगनरके; तेन पुण्यपापयोरेव सुखदुखसाधनत्वात्त एवोपचारावर्गनरकशब्दवाच्ये ।।.४६ ॥

वस्त्वेकमेव दुःखाय सुखायेागमाय च । कोपाय च यतस्तस्माद्वस्तु वस्त्वात्मकं कुतः ॥ ४७ ॥

अनियतत्वं दर्शयति वस्त्वेकमिति ॥ वस्तु–अन्नपानादि । एकमेव वस्तु अनेक पुरुषापेक्षया दुःखाद्यात्मकं भवति; तस्मात् वस्तु वस्त्वात्मकं कुतः-सुखदुःखायेकान्तरूपेण वस्तुनो वस्तुत्वं कुतः ॥४७॥

तदेव प्रीतये भूत्वा पुनर्दुःखाय जायते । तदेव कोपाय यतः प्रसादाय च जायते ॥ ४८ ॥

एवमनेकपुरुषापेक्षया दुःखाद्यात्मकत्वमव्यवस्थितमित्युक्तम् । एकस्मिन्नपि पुरुषे न व्यवस्थितमित्याह तदेवेति ॥ ४८ ॥

तस्माद्दुःखात्मकं नास्ति न च किंचित्सुखात्मकम् । मनसः परिणामोऽयं सुखदुःखादिलक्षणः ॥१९॥

उपसंहरति–तम्मादिति ॥ सुखदुःखात्मकत्वं सर्वस्य वस्तुनः कर्मकृतं न खरूपकृतम्, अतः कर्मा वसाने तदपैतीत्यर्थः । तत्तद्विषयेषु पुण्यपापजन्यो मनोवृत्तिविशेषः सुखदुःखे इत्याह-मनस इति । यत्र विषय ज्ञाने पुण्यमानुकूल्यं जनयति तत्सुग्वं, यंत्र पापं प्रातिकूल्यं जनयति तदु:खमिति विवेकः ॥ ४१॥

ज्ञानमेव परं ब्रह्म ज्ञानं बन्धाय चेष्यते । ज्ञानात्मकमिदं विश्वं न ज्ञानाद्विद्यते परम् ॥ ५० ॥

मनोवृत्तिप्रसङ्गाद्विषयसङ्गिनी सा बन्धाय भवति, विषयनिवृत्ता मोक्षायेत्याह-ज्ञानमिति ।। ज्ञान-मनसः परिणाम:, तदेव परं ब्रह्म –तत्प्राप्तिहेतुरित्यर्थः। * मन एव मनुष्याणां कारणं बन्धमोक्षयोरिति वक्ष्यति। ज्ञाना मकमिति मनोवृत्तिजनितपुण्यपापनिमित्तमिदं सर्वम्। यथाइ-* कर्मानुरञ्जितो मुक्के परिणाम खचेतस इति॥५०॥

विद्याविद्ये च मैत्रेय ज्ञानमेवोपधारय ।। ५१ ॥

एवमेतन्मयाऽऽख्यातं भवतो मण्डलं भुवः । पातालानि च सर्वाणि तथैव नरकाः द्विज ॥५२॥

समुद्राः पर्वताश्चैव द्वीपा वर्षाणि निम्नगाः । संक्षेपात्सर्वमाख्यातं किं भूयः श्रोतुमिच्छसि ।। ५३ ॥

विद्याविद्ये चेति ॥ विद्याविद्य-ज्ञानकर्मणी। मोक्षसाधनभूतं ज्ञानं विद्या,अनभिसंहितफलं कर्माविद्या। ते च ज्ञानमेव-मनोवृत्तिरूपज्ञानसाध्ये इत्यर्थः ॥ ५१-५३ ।।

इति श्रीविष्णुपुराणे द्वितीयेऽशे षष्ठोऽध्यायः ॥ ६ ॥

इति श्रीविष्णुपुराणव्याख्याने विष्णुचित्तीये द्वितीयेंऽशे षष्ठोऽध्यायः ॥ ६ ॥

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.