श्रीविष्णुपुराणम्
अथ सप्तमोऽध्यायः ।
मैत्रेय: –
कथितं भूतलं ब्रह्मन्ममैतदखिलं त्वया । भुवर्लोकादिकॉल्लोकाञ्छोतुमिच्छाम्यहं मुने ॥ १ ॥
तथैव ग्रहसंस्थान प्रमाणानि यथा तथा। समाचक्ष्व महाभाग तन्मह्य परिपृच्छते ॥ २ ॥
कथितमिति ॥ कथितमित्यादि भुवनशेषस्य ज्योतिश्चक्रस्य च प्रश्नः ॥ १, २ ॥
श्रीपराशरः—
रविचन्द्रमसोर्यावन्मयूखैरवभास्यते । ससमुद्रसरिचोला तावती पृथिवी स्मृता ॥३॥
रवीति ॥ तावती भूलोकाख्या ॥ ३ ॥
यावत्प्रमाणा पृथिवी विस्तारपरिमण्डलात् । नभस्तावत्प्रमाण वै व्यासमण्डलतो द्विज ॥ ४ ॥ भूमेर्योजनलक्षे तु सौर मैत्रेय मण्डलम्। लक्षादिवाकरस्यापि मण्डलम् शशिना स्थितम् ॥ ५ ॥
पूणे शतसहस्रं तु योजनानां निशाकरात् । नक्षत्रमण्डलं कृत्स्नमुपरिष्टात्प्रकाशते ॥६॥
द्विलक्षे चोत्तरे ब्रह्मन् घुधो नक्षत्रमण्डलात् । तावत्प्रमाणभागे तु घुधस्याप्युशना स्थितः ॥७॥ अङ्गारकोऽपि शुक्रस्य तत्प्रमाणे व्यवस्थितः । लक्षद्वये तु भौमस्यं स्थितो देवपुरोहितः ॥८॥ सौरिवृहस्पतेथोवं द्विलक्षे समवस्थितः । सप्तर्षिमण्डलं तस्माल्लक्षमेकं द्विजोत्तम ॥ ९ ।।
यावदिति ॥ यावत्प्रमाणा अभितः कटाहद्वयस्पृक्, विस्तारपरिमण्डलात्-व्यासाद्वत्तपरिधिमानाच्च नभः भुवोकाख्यम् । व्यासमण्डलतः-तावद्विस्तारात्पञ्चाशत्कोटिवृत्तपरिधेः। सार्द्धशतकोटिकं खर्लोकावधेः, सूर्यस्य लक्षोच्छ्रितत्वोक्त्या भुवोको लक्षोत्सेध इल्लप्यादुक्तम् ॥ ४-९ ॥
ऋषिभ्यस्तु सहस्राणां शतादूचं व्यवस्थितः । मेढीभूतस्समस्तस्य ज्योतिश्क्रय वै ध्रुवः ॥ १० ॥
ऋषिभ्य इति ॥ मेदिः खलमध्यनिखातस्तम्भः ॥१०॥
त्रैलोक्यमेतत्कथितमुत्सेधेन महामुने । इज्याफलस्य भूरेषा इज्या चात्र प्रतिष्ठिता ॥ ११ ॥
त्रैलोक्यमिति ॥ इज्याफलस्य-त्यागफलस्य, भूः-भोगभूमिः, एषा-इदं त्रैलोक्यम् । इज्या चात्र भारतवर्षे कर्तव्या ।। उपासना योगादिक्रिया तत्फलं च सर्पलोकेष्वपि स्यात् * योगीश्वराणां गतिमाहुरन्तर्बहि त्रिलोक्या इति वचनात् ॥ ११ ॥
ध्रुवादूर्ध्व महर्लोको यत्र ते कल्पवासिनः। एकयोजनकोटिस्तु यत्र ते कल्पवासिनः॥१२॥
द्वे कोटी तु जनो लोको यत्र ते ब्रह्मणः सुताः। सनन्दनाद्याः प्रथिता मैत्रैयामलचेतसः ॥ १३ ॥
धुवादिति ॥ कल्पवासिन:-कल्पावधिकायुषः, मन्वन्तराघधिकारिणः इन्द्रायाः खाधिकारनिवृत्ती कालप्रतीक्षया महर्लोके तिष्ठन्ति, * विनिवृत्ताधिकारास्तु महर्लोकनिवासिनः, इति शैवोक्तः, * कल्पाधिकारिण श्वात्र संस्थिता द्विजपुङ्गवाः, इति कूर्मोक्तेश्व । पुनस्ताननूध तल्लोकोच्छायोऽभिधीयते-एकेति ॥ १२, १३ ॥
चतुर्गुणोत्तरे चोर्ध्व जनलोकात्तपः स्थितः । वैराजा यत्र ते देवाः स्थिता दाहविवर्जिताः ॥१४॥
चतुर्गुणोत्तर इति ॥ चतुर्गुणोत्तर इति कोटिद्वयं प्रकृत्योक्तत्वाजनलोकादष्टकोटयुत्तरे व्योनि तपः । षड्गुणेनेत्यत्रापि तपसो द्वादशकोटयुच्छाये सत्यम् । इत्थं त्रयोविंशतिः कोटयो धुवादूर्व सत्यमारभ्याण्डकटाहान्तं किंचिदून कोटिद्वयं ज्ञेयम् । ब्रह्मलोक एव भगवतः पुरं रुद्रादीनां च । तदुपरि तमस्ततोऽण्डकटाहश्च । यत्तु * जनलोकात्तपोलोकश्चतस्रः कोटयः स्मृताः । प्राजापत्यात् ब्रह्मलोकः कोटिषट्कं तु सृज्यते ॥ इति पुराणा न्तरवचनं तत्तु तत्तल्लोकान्तरालविषयम् । इदं तु चतुर्गुणोत्तरे षड्गुणेनेत्यादिवचनं तत्तल्लोकान्तरालस्य लोको छायघनस्य च संहत्य मानोक्तिपरमित्यविरोधः ।। १४।।
षड्गुणेन तपोलोकात्सत्यलोको विराजते । अपुनारका यत्र ब्रह्मलोको हि संस्मृतः ॥१५॥
पादगम्यं तु यत्किश्चिद्वस्त्वस्ति पृथिवीमयम् । स भूर्लोकः समाख्यातो विस्तरोऽस्य मयोदितम॥१६॥ भूमिसूर्यान्तरं यच्च सिद्धादिमुनिसेवितम् । भुवर्लोकस्तु सोऽप्युक्तो द्वितीयो मुनिसत्तम ॥१७॥ ध्रुवसूर्यान्तरं यच्च नियुतानि चतुर्दश । स्वर्लोकः सोऽपि गदितो लोकसंस्थानचिन्तकैः ॥१८॥ त्रैलोक्यमेतत्कृतकं मैत्रेय परिपठ्यते । जनस्तपस्तथा सत्यमिति चाकृतकं त्रयम् ॥ १९ ॥
षड्गुणेनेति ॥ अपुनर्मारकाः। सत्यलोंक प्राप्ता हि न पुनः संसरन्ति, * ब्रह्मलोकमभिसंपन्ना न पुनरिमं मानवमावर्तमावर्तन्ते इति श्रुतेः । * ब्रह्मणा सह ते सर्वे संप्राप्त प्रतिसञ्चरे । परस्यान्ते कृतात्मानः प्रविशन्ति परं पदम् ॥ इति स्मृतेश्च। * आब्रह्मभुवनादित्यादिस्मृत्युक्तमावर्त्तनं चतुर्मुखाद्युपासनेन तत्तल्लोकप्राप्ति विषयं कल्प्यम् * तेपमेषां केचन ब्रह्मलोका रुद्रस्यान्ये सन्ति तत्रैव लोकाः । विष्णोरन्ये सन्ति लोका विशा लास्तांस्ताल्लोकांस्तानुपास्य व्रजन्ति ।। इति पुराणान्तरवचनात्। तेषामपि नात्यन्तिकी संसारमण्डलाप्राप्तिलक्षणा निवृत्तिः, किंतु ब्रह्मलोकलये ये मृताः पुनस्तस्मिन्सृष्टे तत्रैव जायन्ते] ॥ १५-१९॥
कृतकाकृतयोर्मध्ये महर्लोक इति स्मृतः । शून्यो भवति कल्पान्ते योऽत्यन्त न विनश्यति ॥२०॥
एते सप्त मया लोका मैत्रेय कथितास्तव । पातालानि च सप्तैव ब्रह्माण्डस्यैष विस्तरः ॥ २१ ॥ एतदण्डकटाहेन तिर्यक् चोर्ध्वमधस्तथा। कपित्थस्य यथा बीजं सर्वतो वै समावृतम् ॥ २२॥
कृतकाकृतयोरिति ॥ शून्य:–निर्जनः ॥ २०-२२ ॥
दशोत्सरेण पयसा मैत्रेयाण्डं च तवृतम् । सर्वोम्बुपरिधानोऽसौ वहिना वेष्टितो बहिः ॥ २३ ॥
दशोंत्तरेणेति ॥ असौ-अम्बुपरीतोऽण्डः ॥ २३ ॥
वह्निश्च वायुना वायुमैत्रेय नभसा वृतः। भूतादिना नभस्सोऽपि महता परिवेष्टितः । दशोत्तराण्यशेषाणि मैत्रेयैतानि सप्त वै ॥२४॥
वह्निश्चेति ॥ प्रधानस्यानन्त्याद्दशोंत्तरत्वमप्यस्तीति शते पश्चाशन्यायादशोत्तराणि सप्तेत्युपपनम् । यद्वा कटाहादीनि महदन्तानि सप्तावरणानि ; तत्र कटाहस्य दशोत्तरत्ववचनं छत्रिन्यायाव ॥ २४ ॥
महान्तं च समावृत्य प्रधानं समवस्थितम् । अनन्तस्य न तस्यान्तः संख्यानं वापि विद्यते ॥ २५ ॥
महान्तमिति || अनन्तस्येति । यतस्तस्य-अनन्तस्य, अन्त:-कालतो नाश:, संख्यान-योजनेयत्तादिश्च नास्ति ॥ २५॥
तदनन्तमसंख्यातप्रमाणं चापि वै यतः । हेतुभूतमशेषस्य प्रकृतिस्सा परा मुने ॥ २६ ॥
तदिति ॥ अतोऽनन्तमसंख्यातप्रमाणम् तत् प्रधानमित्यन्वयः ॥ २६ ॥
अण्डानां तु सहस्राणां सहस्राण्ययुतानि च । ईदृशानां तथा तत्र कोटिकोटिशतानि च ॥२७॥
अण्डाना चेति ॥ तत्र-प्रधाने, सन्तीति शेषः ॥ २७ ॥
दारुण्यनिर्यथा तैलं तिले तद्वत्पुमानपि । प्रधानेऽवस्थितो व्यापी चेतनात्माऽऽत्मवेदनः ॥ २८॥
दारुणीति ॥ चेतनात्मा-ज्ञातृम्वरूपः, आत्मवेदनः-खयंप्रकाशः। दारुणीत्यादिना.दुर्विवेचत्वमुक्तम् ॥२८॥
प्रधानं च पुमांश्चैव सर्वभूतात्मभूतया । विष्णुशक्त्या महाबुद्दे वृतौ संश्रयधर्मिणौ ॥ २९॥
प्रधानमिति ॥ सर्वभूतात्मभूतया सर्वभूतव्यापिन्या, विष्णुशक्त्या-विष्णुसंकल्पेन, संश्रयधर्मिणी अन्योन्यसंश्लिष्टौ, वृतौ-धृतौ ॥ २९ ॥
तयोस्सैव पृथग्भावकारणं संश्रयस्य च । क्षोभकारणभूता च सर्गकाले महामते ॥ ३० ॥
तयोरिति ॥ सैव-शक्तिः, पृथग्भाव:-मोक्षः, संश्रय:-बन्धः, तयोः कारण-पुरुषस्य बन्धमोक्ष हेतुरित्यर्थः । क्षोभकारणभूता-गुणवैषम्योन्मुख्यहेतुः ॥ ३०॥
यथा सक्तं चले वातो बिभर्ति कणिकाशतम् । शक्तिस्सापि तथा विष्णोः प्रधानपुरुषात्मकम् ॥३१॥
यथेति ॥ यथा वायुर्जले स्थितं कणिकाशतम् , असक्तं-निर्लेप यथा बिभर्ति, तथा विष्णोः सा शक्ति प्रधानपुरुषात्मकं सर्व तद्गतदोषैरस्पृष्टं बिभर्ति । अनेन श्लोकेन. धारणादायक्लेशोऽपि दर्शितः ॥ ३१ ॥
यथा च पादयोर्मूलस्कन्धशाखादिसंयुतः । आदिवीजात्प्रभवति बीजान्यन्यानि वै ततः ।। ३२ ॥
प्रभवन्ति ततस्तेभ्यः संभवन्त्यपरे द्रुमाः । तेऽपि तल्लक्षणद्रव्यकारणानुगता मुने ॥ ३३ ॥ एवमव्याकृतात्पूर्व जायन्ते महदादयः । विशेषान्तास्ततस्तेभ्यः संभवन्ति सुरादयः। तेभ्यश्च पुत्रास्तेषां च पुत्राणामपरे सुताः ॥ ३४ ॥
यथा चेति ॥ कार्यभूता वृक्षा यलक्षणास्तल्लक्षणेन तद्धर्मकेण पार्थिवत्ववृक्षत्वचूतत्वादिधर्मवता द्रव्येण उपादानकारणभूतेन यथा अनुगताः, एवं सत्वादिगुणमया महदाद्यास्वादृशादेवाव्यताजायन्ते ॥ ३२-३४॥
बीजादृक्षप्ररोहेण यथा नापचयस्तरोः। भूतानां भूतसर्गेण नैवास्त्यपचयस्तथा ॥ ३५ ॥
बीजेति ॥ यथा नापचयस्तरो:-अनेकबीजवृक्षकारणभावेऽपि यथा वृक्षस्य न विनाशः केनाप्यवयवेन, एवं देवादिसर्वसर्गेऽपि पश्चभूतानां न क्षयः ॥ ३५ ॥
सनिधानाद्यथाऽऽकाशकालाद्याः कारणं तरोः। तथैवापरिणामेन विश्वस्य भगवान्हरिः ॥ ३६ ॥
जगदुपादानकारणत्वेऽपि. भगवतः खशरीरभूतप्रधानांशनिष्ठतया विकाराणां कालादिवत्खरूपेण परिणामित्वं नास्तीत्याह-सन्निधानादिति ॥ ३६॥
व्रीहिवीजे यथा मूलं नालं पत्राङ्कुरौ तथा । काण्डं कोशस्तथा पुष्पं क्षीरं तद्वच्च तण्डुलाः ॥ ३७॥
तुषाः कणाश्च सन्तो वै यान्त्याविर्भावमात्मनः । प्ररोहहेतुसामग्रयमासाद्य मुनिसत्तम ॥३८॥
तथा कर्मस्वनेकेषु देवाद्यास्समवस्थिताः । विष्णुशक्तिं समासाद्य प्ररोहमुपयान्ति वै ॥ ३९ ॥
आत्मनां देवादिभेदेनोत्पत्तिरपि तत्तत्कर्मानुरूपभगवत्संङ्कल्पायत्तेत्याह-त्रीहीत्यादि ।। व्रीहिबीजे मूल. नालादयः कारणभूतव्रीहिदव्यरूपेण स्थिताः परिणामशक्तिमन्तः क्षेत्रकर्षणोप्तिजलसेकादिप्ररोहहेतुसामग्रीमासाद्य मूलनालाद्यवस्थया यथा आविर्भवन्ति, एवम् आत्मानः स्वकर्मशक्तिसहितविष्णुशक्तिरूपसामग्रीमासाद्य देवादिरूपेणा विभवन्तीति ।। ३७-३९ ॥
स च विष्णुः परं ब्रह्म यतस्सर्वमिदं जगत् । जगच यो यत्र चेदं यस्मिंश्च लयमेष्यति ॥ ४०॥
एवं विष्णोर्जगत्कारणत्वमुक्तम् । स एव परं ब्रह्मेत्याह-स चेति ॥ ४० ॥
तद्ब्रह्म तत्परं धाम सदसत्तत्परं पदम् । यस्य सर्वमभेदेन जगदेतच्चराचरम् ॥४१॥
अत्र यत्तैर्विष्णुः परामृश्यते । कारणवाक्येषु सद्ब्रह्मादिशब्दवाच्यमपि स एवेत्याह-तद्ब्रह्मेति ॥ पर पद-परमप्राप्यम् , एतच्चराचरं जगदविशेषेणं यस्य-यदीयमित्यर्थः ।। ४१ ॥
स एव मूलप्रकृतिर्व्यक्तरूपी जगच सः । तस्मिन्नेव लयं सर्व याति तत्र च तिष्ठति ॥ ४२ ॥
स एवेति ॥ अंगच्च स इत्यनन्यत्वोपपादनं स एव मूलप्रकृतिरिति ॥ ४२ ॥
कर्ता क्रियाणां स स इज्यते क्रतुः स एव तत्कर्मफलं च तस्य ।
सुगादि यत्साधनमप्यशेष हरेने किश्चिद्यतिरिक्तमस्ति ॥४३॥
तत्प्राप्तापयो यागादिस्तत्साधनं च स एवेत्याह-कर्ता क्रियाणामिति ॥ तत्कर्म-तस्यानुष्ठानम् । तस्य-क्रतोः ॥ ४३ ॥
इति श्रीविष्णुपुराणे द्वितीयेऽशे सप्तमोऽध्यायः ॥ ७ ॥
इति श्रीविष्णुपुराणव्याख्याने श्रीविष्णुचित्तीये द्वितीयेऽशे सप्तमोऽध्यायः ॥ ७॥