श्रीविष्णुपुराणम्
अथ नवमोऽध्यायः
श्रीपराशरः –
तारामयं भगवतः शिंशुमाराकृति प्रभोः। दिवि रूपं हरेर्यत्तु तस्य पुच्छे स्थितो ध्रुवः ॥१॥
सैष भ्रमन् भ्रामयति चन्द्रादित्यादिकान् ग्रहान् । भ्रमन्तमनु तं यान्ति नक्षत्राणि च चक्रवत् ॥ २॥
अथ ध्रुवप्रसंगात्तद्वारा सर्वाधारं तारापुञ्जकल्पितावयवं शिंशुमाराकृति भगवतो रूपमाह-तारा मयमिति ॥ १, २ ॥
सूर्याचन्द्रमसौ तारा नक्षत्राणि ग्रहैः सह । वातानीकमयधैर्धवे बद्धानि तानि वै ॥३॥
सूर्याचन्द्रमसाविति ॥ वातानीकमयैः-वातस्कन्धमयः, ऊर्व क्रमात् सप्तस्थानस्यमेघान्दुनक्षत्रग्रह — सप्तर्षिध्रवाश्रयैः ; * आवहः प्रवहश्चैवं तथैवानुवहः परः ।। संवहो विवहश्चैव तदूर्व स्यात्परावहः ॥ तथा परि वहश्चोर्ध्व वायोर्वै सप्त नेमयः ॥ इति कर्मोक्तेः ॥ ३ ॥
शिंशुमाराकृति प्रोक्तं यद्रूपं ज्योतिषां दिवि । नारायणोऽयनं धाम्नां तस्याधारः स्वयं हृदि ॥४॥
उत्तानपादपुत्रस्तु तमाराध्य जगत्पतिम् । स ताराशिंशुमारस्य ध्रुवः पुच्छे व्यवस्थितः ॥ ५॥
आधार शिंशुमारस्य सर्वाध्यक्षो जनार्दनः । ध्रुवस्य शिंशुमारस्तु ध्रुवे भानुर्व्यवस्थितः ॥६॥
शिंशुमारेति ॥ ज्योतिषां रूपमित्यन्वयः। धाम्नां तेजसा लोकानां चायनम्-माश्रयों मारायणः, तस्य हवाधारभूतस्तिष्ठति ॥ ४-६ ॥
तदाधारं जगच्चेदं सदेवासुरमानुषम् ।। ७ ॥
येन विप्र विधानेन तन्ममैकमनाः शृणु । विवस्वानष्टभिर्मासैरादायापो रसात्मिकाः। वर्षत्यम्बु ततश्चान्त्रमन्नादप्यखिलं जगत् ॥ ८॥
तदाधारमिति ॥ तदाधारं-भान्धाधारम् ॥ ७, ८॥
विवस्वानंशुभिस्तीक्ष्णैरादाय जगतो जलम् । सोमं पुण्यात्यथेन्दुश्च वायुनाडीमयैर्दिवि।
नालैर्विक्षिपतेऽभ्रेपु धूमाग्न्यनिलमूर्तिषु ॥ ९॥
न भ्रश्यन्ति यतस्तेभ्यो जलान्यभ्राणि तान्यतः । अभ्रस्थाः प्रपतन्त्यापो वायुना समुदीरिताः । संस्कारं कालजनितं मैत्रेयासाद्य निर्मलाः ॥१०॥
सरित्समुद्रभौमास्तु तथाऽऽपः प्राणिसंभवाः । चतुष्प्रकारा भगवानादत्ते सविता मुने ॥११॥
आकाशगंगासलिलं तथाऽऽदाय गभस्तिमान् । अनभ्रगतमेवो| सद्यः क्षिपति रश्मिभिः ॥१२॥
तस्य संस्पर्शनिधूतपापपंको द्विजोत्तम । न याति नरकं मो दिव्यं स्नानं हि तत्स्मृतम् ॥१३॥
दृष्टसूर्य हि यद्वारि पतत्यप्रेविना दिवः । आकाशगंगासलिलं तद्गोभिः क्षिप्यते खेः॥१४॥
उक्तं वर्षप्रकारं प्रपञ्चयति विवखानंशुभिरिति ॥ नालैः-मार्गः ॥९-१४ ॥
कृत्तिकादिषु ऋक्षेषु विपमेष्वम्वु यद्दिवः । दृष्टार्कपतितं ज्ञेयं तद्गाङ्ग दिग्गजोज्झितम् ॥ १५ ॥
कृत्तिकादिष्विति ॥ कृत्तिकामृगशिर:प्रभृत्ययुग्मनक्षत्रेश्वर्के स्थिते ॥ १५॥
युग्मःषु च यत्तोयं पतत्यर्कोज्झितं दिवः। तत्सूर्यरश्मिभिः सर्व समादाय निरस्यते ॥ १६ ॥
उभयं पुण्यमत्यर्थं नृणां पापभयापहम् । आकाशगंगासलिलं दिव्यं स्नानं महामुने ॥१७॥
युग्मःष्विति ॥ एवं रोहिण्यादिषु युग्मेष्वर्के स्थिते अर्काक्रान्तनक्षत्रादेव वृष्टिव्यवहारलिंगात् पूर्वा पादागतो भानुरित्यादेः ॥ १६, १७ ॥
यत्तु मेषैः समुत्सृष्टं वारि तत्प्राणिनां द्विज । पुष्णात्योषधयः सर्वा जीवनायामृत हि तत् ॥ १८॥
यत्त्विति ।। ओषधयः-मोषधीः ॥ १८॥
तेन वृद्धि परां नीतः सकलश्चौषधीगणः । साधकः फलपाकान्तः प्रजानां द्विज जायते ॥१९॥
तेनेति ।। साधकः, शरीरोत्पत्तिपोषणयोः ॥ १९ ॥
तेन यज्ञान्यथाप्रोक्तान्मानवाः शास्त्रचक्षुपः । कुर्वन्त्यहरहस्तैश्च देवानाप्याययन्ति ते ॥ २०॥
एवं यज्ञाश्च वेदाश्च वर्णाश्च द्विजपूर्वकाः । सर्वे देवनिकायाश्च पशुभूतगणाश्च ये ॥ २१ ॥
घृष्टया धृतमिदं सर्वमन्नं निष्पाद्यते यया। साऽपि निष्पाद्यते वृष्टिः सवित्रा मुनिसत्तम ।। २२॥
आधारभूतः सवितुईवो मुनिवरोत्तम । ध्रुवस्य शिंशुमारोऽसौ सोऽपि नारायणात्मकः ॥ २३ ॥
तेनेति ॥ तेन ओषधिगणेन, तै:-यज्ञैः ॥२०-२३ ॥
हदि नारयणस्तस्य शिंशुमारस्य संस्थितः । बिभर्ति सर्वभूतानामादिभूतः सनातनः ॥ २४॥.
हृदीति | बिभर्ति शिंशुमारम् ॥ २४ ॥
इति श्रीविष्णुपुराणे द्वितीयेऽशे नवमोऽध्यायः ॥९॥
इति श्रीविष्णुपुराणव्याख्याने विष्णुचित्तीये द्वितीयेऽशे. नवमोऽध्यायः ॥ ९॥