श्रीविष्णुपुराणम्
अथैकादशोऽध्यायः
मैत्रेयः –
यदेतद्भगवानाह गणस्सप्तविधो रवेः । मण्डले हिमतापादेः कारणं तन्मया श्रुतम् ॥१॥
व्यापारश्चापि कथितो गन्धर्वोरगरक्षसाम् । ऋषीणां वालखिल्यानां तथैवाप्सरसां गुरो ॥२॥
यक्षाणां च रथे भानोर्विष्णुशक्तिधृतात्मनाम् । किं चादित्यस्य यत्कर्म तन्नात्रोक्तं त्वया मुने ॥३॥
यदि सप्तगणो वारि हिममुष्णं च वर्षति । तत्किमत्र रवेर्येन वृष्टिः सूर्यादितीर्यते ॥ ४ ॥
विवस्वानुदितो मध्ये यात्यस्तमिति किं जनः । ब्रवीत्येतत्समं कर्म यदि सप्तगणस्य तत् ॥ ५॥
श्रीपराशरः –
मैत्रेय श्रूयतामेतद्यद्भवान्परिपृच्छति । यथा सप्तगणेऽप्येकः प्राधान्येनाधिको रविः ॥६॥ ..
सर्वशक्तिः परा विष्णोः ऋग्यजुस्सामसंज्ञिता । सैषा त्रयी तपत्यंहो जगतश्च हिनस्ति या ॥७॥
सर्वशक्तिरित्यादि ॥ सर्वशक्तिः-संपूर्णशक्तिः, यत्तपति यच्च जगतोऽहो हिनस्ति सैषा विष्णोः परा’ सर्वशक्तिः ऋग्यजुस्सामसंज्ञिता त्रयीत्यन्वयः ॥ १-७॥
सैषा विष्णुः स्थितः स्थित्यां जगतः पालनोद्यतः। ऋग्यजुस्सामभूतोऽन्तः सवितुर्द्विज तिष्ठति॥८॥
मासिमासि रविर्योयस्तत्र तत्र हि सा परा । त्रयीमयी विष्णुशक्तिरवस्थानं करोति वै ॥९॥
सैषेति ॥ जगतः पालनोद्यतः स्थित्यां स्थितो विष्णुः सैव शक्तिः। शक्तिशक्तिमतोरभेदात्सामानाधि करण्यनिर्देशः । ऋग्यजुस्सामशरीरो विष्णुः सवितुरन्तस्तिष्ठति ; अतो रवेः प्राधान्यम् ॥८,९॥
ऋचस्स्तुवन्ति पूर्वाह्णे मध्याह्नेऽथ यजूंषि वै । बृहद्रथन्तरादीनि सामान्यह्नःक्षये रविम् ॥१०॥
ऋच इति ॥ ऋचः स्तुवन्ति, रवौ तिष्ठन्तं विष्णुमिति शेषः ॥ १० ॥
अङ्गमेषा त्रयी विष्णो ऋग्यजुस्सामसंज्ञिता । विष्णुशक्तिरवस्थानं सदाऽऽदित्ये करोति सा ॥११॥
अङ्ग इति ॥ अङ्गशक्तिशब्दौ शरीरपर्यायौ, * शब्दमूर्तिधरस्यैतद्रूपमिति ह्युक्तम् ॥ अंश एषेति च पाठः॥११॥
न केवलं रवेः शक्तिर्वैष्णवी सा त्रयीमयी। ब्रह्माथ पुरुषो रुद्रस्त्रयमेतत्त्रयीमयम् ॥१२॥
सा वैष्णवी त्रयीमयी शक्तिर्न केवलं रवेरेवान्तस्था, किन्तु ब्रह्मादीनामपीत्याह—न केवलमिति ॥१२॥
सर्गादौ ऋङ्मयो ब्रह्मा स्थितौ विष्णुर्यजुर्मयः । रुद्रस्साममयोऽन्ताय तस्मात्तस्याशुचिर्ध्वनिः ॥१३॥
सर्गादाविति ॥ तस्मात्–अन्तहेतुरुद्रसंबन्धात् , तस्य-साम्नः ॥ १३ ॥
एवं सा सात्त्विकी शक्तिर्वैष्णवी या त्रयीमयी। आत्मसप्तगणस्थं तं भास्वन्तमधितिष्ठति ॥ १४ ॥
तया चाधिष्ठितस्सोऽपि जाज्वलीति स्वरश्मिभिः । तमस्समस्तजगतां नाशं नयति चाखिलम् ॥१५॥
उपसंहरति एवमिति ॥ सात्त्विकी–शुद्धसत्त्वमयी वैष्णवी शक्तिः, आत्मसप्तगणस्थं– स्वशरीरभूतसप्तवर्गान्तर्गतं भाखन्तमधितिष्ठति–भास्वत्यतिशयेन तिष्ठति ॥ १४, १५ ॥
स्तुवन्ति चैनं मुनयो गन्धर्वैर्गीयते पुरः । नृत्यन्त्यप्सरसो यान्ति तस्य चानु निशाचराः ॥१६॥
वहन्ति पन्नगा यक्षैः क्रियतेऽभीषुसंग्रहः । वालखिल्यास्तथैवैनं परिवार्य समासते ॥ १७॥
प्राधान्यादन्येऽपि स्तुत्याद्यैरेनमुपासत इत्याह-स्तुवन्ति चैनमिति ॥ १६,१७ ॥
नोदेता नास्तमेता च कदाचिच्छक्तिरूपधृक् । विष्णुर्विष्णोः पृथक् तस्य गणस्सप्तविधोऽप्ययम्॥१८॥
नेति ॥ शक्तिरूपधृग्विष्णुरधिष्ठाता स्थायी नोदेति नास्तमेति, अधिष्ठेयासञ्चारिणो गणाद्भिन्नत्वात् ॥१८॥
स्तम्भस्थदर्पणस्यैति योsयमासन्नतां नरः। छायादर्शनसंयोगं स स प्राप्नोत्यथात्मनः ॥ १९॥
स्तंभस्थेति ॥ छायादर्शनसंयोगं– छायायाः प्रतिबिम्बस्य आदर्शनस्य दर्पणस्य च संयोगम् ॥ १९ ॥
एवं सा वैष्णवी शक्तिर्नैवापैति ततो द्विज । मासानुमासं भास्वन्तमध्यास्ते तत्र संस्थितम् ॥ २० ॥
पितृदेवमनुष्यादीन्स सदाऽऽप्याययन्प्रभुः । परिवर्तत्यहोरात्रकारणं सविता द्विज ॥ २१ ॥
एवमिति ॥ ततः-दर्पणस्थानीयात्सूर्यपदाधिकारिणः, तत्र–सूर्यपदे मासानुमासं–मासान्मासान्तरं प्रतिमासमित्यर्थः । पुङ्खानुपुङ्खमितिवत् । यद्वा मासेषु द्वादशसु अनुमासेऽधिकमासे च ; तेन यो मासोऽधिकस्तन्मासोक्तसप्तगणावृत्तिः स्यात् ।। २०, २१ ॥
सूर्यरश्मिसुषुम्णा यस्तर्पितस्तेन चन्द्रमाः। कृष्णपक्षेऽमरैः शश्वत्पीयते वै सुधामयः ॥ २२ ॥
पित्राद्याप्यायनप्रकारमाह—सूर्यरश्मिरिति । तर्पितः–शुक्लप्रतिपदादिक्रमात्पूरित: पीयते । प्रतिपदादिपानं हि क्षयहेतुः, अत: षोडशकलस्य कृष्णप्रतिपदमारभ्य एकैका कला अमरैः पीयते, * प्रथमां पिबते वह्रिरित्यादिस्मृतेः ।। २२।।
पीतं तं द्विकलं सोमं कृष्णपक्षक्षये द्विज । पिबन्ति पितरस्तेषां भास्करात्तर्पणं तथा ॥ २३ ॥
पीतमिति । अतः कृष्णचतुर्दश्यन्ते द्विकलत्वम्, कृष्णपक्षक्षये-दर्शे पिबन्ति एककलावर्जम् ; तेषां देवपितृणाम् , तथा उक्तप्रकारेण ॥ २३ ॥
आदत्ते रश्मिभिर्यं तु क्षितिसंस्थं रसं रविः । तमुत्सृजनि भूतानां पुष्टयर्थं सस्यवृद्धये ॥ २४ ॥
तेन प्रीणात्यशेषाणि भूतानि भगवान्रविः । पितृदेवमनुष्यादीनेवमाप्याययत्यसौ ॥ २५ ॥
मनुष्यादितर्पणमाह-आदत्त इति ॥ भूतानां-मनुष्यादीनाम् ॥ २४, २५॥
पक्षतृप्तिं तु देवानां पितृणां चैव मासिकीम् । शश्वत्तृप्तिं च मर्त्यानां मैत्रेयार्कः प्रयच्छति ॥ २६ ॥
देवपितृमर्त्यानां तृप्तिं कालतो विशिनष्टि-पक्षेति ॥ * शुक्ले पूर्णं कृष्णे पिबन्ति देवाः, इति तेषां शुक्लपक्षे तृप्तिः। एकमासिकीम्–पूर्वदर्शादुत्तरदर्शं यावत् । यद्वा देवानां दर्शपूर्णमासयोरिष्टिः, पितृणां दर्श एवेष्टिः, मनुष्याणां नित्यभुक्तिश्च, तत्तत्साधनहविर्निष्पत्तिः सूर्यसाध्येति दिनपक्षादितृप्तिः, * तस्मादहरहर्मनुष्याः इत्यादिश्रुतेः। । अर्कः प्रयच्छतीति पुनः कीर्तनात् ग्रहान्तरकृतं वृष्ट्यादिफलमपि तत्तताराग्रहानुग्राहकरश्मिद्वाराऽर्क एव प्रयच्छतीत्युक्तं स्यात् । यथा-कौर्मे * हरिकेशस्तु यः प्रोक्तो रश्मिर्नक्षत्रपोषकः । विश्वकर्मा तथा रश्मिर्बुधं पुष्णाति सर्वदा । विश्वव्यचा सूर्यरश्मिः सितं पुष्णाति नित्यशः। संयद्वसुरिति ख्यातो यस्स पुष्णाति लोहितम् ॥ बृहस्पतिं स पुष्णाति रश्मिरर्वावसुः प्रभोः॥ शनैश्चरं स पुष्णाति सप्तमस्तु स्वराह्वयः ॥ इति ॥ २६ ॥
इति श्रीपराशरमुनिविरचिते श्रीविष्णुपरत्वनिर्णायके श्रीमति विष्णुमहापुराणे द्वितीयेऽशे
एकादशोऽध्यायः ॥ ११ ॥
इति श्रीभगवद्रामानुजपदान्तरंगश्रीविष्णुचित्तविरचिते श्रीविष्णुपुराणव्याख्याने श्रीविष्णुचित्तीचे द्वितीयेऽशे एकादशोऽध्यायः ॥ ११ ॥