श्रीविष्णुपुराणम्
अथ त्रयोदशोऽध्यायः
मैत्रेयः –
भगवन्सम्यगाख्यातं यत्पृष्टोऽसि मयाऽखिलम् । भूसमुद्रादिसरितां संस्थानं ग्रहसंस्थितिः ॥१॥
विष्ण्वाधारं यथा चैतत् त्रैलोक्यं समवस्थितम् । परमार्थस्तु मे प्रोक्तो यथा ज्ञानं प्रधानतः ॥२॥
विश्वाधारमिति ॥ चिदचिदात्मकं जगद्यथा विष्ण्वात्मकं तथोक्तम् । यथा चिदंशो निजसिद्ध ज्ञानैकाकारत्वेनाविनाशित्वात्परमार्थः तथा प्राधान्येनोक्तः ॥१,२॥
यत्वेतद्भगवानाह. भरतस्य महीपतेः । श्रोतुमिच्छामि चरितं तन्ममाख्यातुमर्हसि ॥३॥
भरतः स महीपालः सालग्रामेऽवसत्किल । योगयुक्तः समाधाय वासुदेवे सदा मनः ॥ ४॥
पुण्यदेशप्रभावेन ध्यायतश्च सदा हरिम् । कथं तु नाभवन्मुक्तिर्यदभूत्स द्विजः पुनः ॥५॥
विप्रत्वे च कृतं तेन यद्भूयः सुमहात्मना । भरतेन मुनिश्रेष्ठ तत्सर्वं वक्तुमर्हसि ॥६॥
श्रीपराशर: –
सालग्रामे महाभागो भगवन्न्यस्तमानसः । स उवास चिरं कालं मैत्रेय पृथिवीपतिः ॥ ७॥
अथ भगवत्प्राप्त्युपायस्य ज्ञानयोगस्य तदन्तरायपरिहारयोश्चोदाहरणभूतं भरतचरितं प्राक्प्रस्तुतं विस्तरेण श्रोतुं मैत्रेयः पृच्छति–यत्त्विति ॥३-७॥
अहिंसादिष्वशेपेषु गुणेषु गुणिनां वरः । अवाप परमां काष्टां मनसश्चापि संयमे ॥८॥
यज्ञेशाच्युत गोविन्द माधवानन्त केशव । कृष्ण विष्णो हृषीकेश वासुदेव नमोस्तु ते ॥९॥
अहिंसादिष्विति ॥ अहिंसादिषु गुणेषु योगाङ्गेषु वक्ष्यमाणेषु ॥८,९॥
इति राजाऽऽह भरतो हरेर्नामानि केवलम् । नान्यज्जगाद मैत्रेय किञ्चित्स्वप्रान्तरेष्वपि ।
एतत्पठन्तदर्थं च विना नान्यदचिन्तयत् ॥ १०॥
समित्पुष्पकुशादानं चक्रे देवक्रियाकृते । नान्यानि चक्रे कर्माणि निस्सङ्गो योगतापसः ॥११॥
जगाम सोऽभिषेकार्थमेकदा तु महानदीम् । सस्नौ तत्र तदा चक्रे स्नानस्यानन्तरक्रियाः ॥१२॥
अथाजगाम तत्तीरं जलं पातुं पिपासिता । आसन्नप्रसवा ब्रह्मन्नेकैव हरिणी वनात् ॥१३॥
ततस्समभवत्तत्र पीतप्राये जले तया । सिंहस्य नादस्सुमहान्सर्वप्राणिभयङ्करः ॥१४॥
ततस्सा सहसा त्रासादाप्लुता निम्नगातटम् । अत्युच्चारोहणेनास्या नद्यां गर्भः पपात सः ॥१५॥
तमूह्यमानं वेगेन वीचिमालापरिप्लुतम् । जग्राह स नृपो गर्भात्पतितं मृगपोतकम् ॥१६॥ गर्भप्रच्युतिदुःखेन प्रोत्तुङ्गाक्रमणेन च । मैत्रेय साऽपि हरिणी पपात च ममार च ॥ १७ ॥
हरिणीं तां विलोक्याथ विपन्नां नृपतापसः । मृगपोतं समादाय निजमाश्रममागतः ॥१८॥
वकारानुदिनं चासौ मृगपोतस्य वै नृपः । पोषणं पुष्यमाणश्च स तेन ववृधे मुने ॥१९॥
चचाराश्रमपर्यन्ते तृणानि गहनेषु सः । दूरं गत्वा च शार्दूलत्रासादभ्याययौ पुनः ॥२०॥
प्रातर्गत्वाऽतिदूरं च सायमायात्यथाश्रमम् । पुनश्च भरतस्याभूदाश्रमस्योटजाsजिरे ॥ २१ ॥
तस्य तस्मिन्मृगे दूरसमीपपरिवर्तिनि । आसीच्चेतः समासक्तं न ययावन्यतो द्विज ॥ २२ ॥
विमुक्तराज्यतनयः प्रोज्झिताशेषबान्धवः । ममत्वं स चकारोचैस्तस्मिन्हरिणबालके ॥ २३ ॥
किं वृकैर्भक्षितो व्याघ्रैः किं सिंहेन निपातितः। चिरायमाणे निष्क्रान्ते तस्यासीदिति मानसम् ॥२४॥
इतीति — स्वप्नान्तरेषु-स्वप्नमध्येषु । एतत्—यज्ञेशेत्यादिनाम । एतन्नाम तदर्थं च तत्प्रवृत्तिनिमितं केवलमचिन्तयत् , एतद्विना नान्यत् ॥ १०-२४ ॥
एषा वसुमती तस्य खुराग्रक्षतकर्बुरा ॥ २५ ॥
प्रीयते मम यातोऽसौ क्व ममैणकबालकः । विषाणाग्रेण मद्बाहुकण्डूयनपरो हि सः ।
क्षेमेणाम्यागतोऽरण्यादपि मां सुखयिष्यति ॥ २६ ॥
रते लूनशिखास्तस्य दशनैरचिरोद्गतैः । कुशाः काशा विराजन्ते वटवस्सामगा इव ॥ २७॥
इत्थं चिरगते तस्मिन्स चक्रे मानसं मुनिः । प्रीतिप्रसन्नवदनः पार्श्वस्थे चाभवन्मृगे ॥२८॥
समाधिभङ्गस्तस्यासीत्तन्मयत्वादृतात्मनः । सन्त्यक्तराजभोगर्द्धिस्वजनस्यापि भूपतेः ॥२९॥
चपलं चपले तस्मिन्दूरगं दूरगामिनि । मृगपोतेऽभवच्चित्तं स्थैर्यवत्तस्य भूपतेः ॥ ३०॥
एषेति ॥ क्षतकर्बुरा-क्षतैर्विषमसंस्थाना ॥ २५-३०॥
कालेन गच्छता सोऽथ कालं चक्रे महीपतिः । पितेव सास्रं पुत्रेण मृगपोतेन वीक्षितः ॥३१॥
कालेनेति ॥ कालं-मरणम् ॥ ३१ ॥
मृगमेव तदाऽद्राक्षीत्त्यजन्प्राणानसावपि । तन्मयत्वेन मैत्रेय नान्यत्किञ्चिदचिन्तयत् ॥३२॥
मृगमेवेति ॥ तन्मयत्वेन-चित्तवृत्तेस्तत्प्राचुर्येण ॥ ३२ ॥
ततश्च तत्कालकृतां भावनां प्राप्य तादृशीम् । जम्बूमार्गे महारण्ये जातो जातिस्मरो मृगः ॥३३॥ जातिस्मरत्वादुद्विग्नः संसारस्य द्विजोत्तम । विहाय मातरं भूयः सालग्राममुपाययौ ॥ ३४ ॥
ततश्चेति ॥ जम्बूमार्गे–गङ्गातीरविशेषे ॥ ३३,३४ ॥
शुष्कैस्तुणैस्तथा पर्णैः स कुर्वन्नात्मपोषणम् । मृगत्वहेतुभूतस्य कर्मणो निष्कृतिं ययौ ॥३५॥
तत्र चोत्सृष्टदेहोऽसौ जज्ञे जातिस्मरो द्विजः । सदाचारवतां शुद्धे योगिनां प्रवरे कुले ॥३६॥
शुष्कैरिति ॥ कर्मणः-कर्मात्र मृगस्नेहः, तद्भावना च ।। ३५, ३६ ॥
सर्वविज्ञानसंपन्नः सर्वशास्त्रार्थतत्त्ववित् । अपश्यत्स च मैत्रेय आत्मानं प्रकृतेः परम् ॥३७॥
सर्वेति ॥ विज्ञानं—शिल्पादिज्ञानं, प्रकृतेः परं—देहादिरूपेण स्थितायाः प्रकृतेर्विलक्षणं, ज्ञानैकाकारमपश्यत् ॥ ३७ ॥
आत्मनोऽधिगतज्ञानो देवादीनि महामुने। सर्वभूतान्यभेदेन स ददर्श तदाऽऽत्मनः ॥ ३८॥
आत्मन इति ॥ आत्मनोऽधिगतज्ञान:-अधिगतात्मज्ञानः, देवमनुष्यादिदेह स्थितानि सर्वभूतानि तत्तदाकरविलक्षणज्ञानैकाकारतया स्वात्मनो निर्विशेषाण्यपश्यत् ॥ ३८ ॥
न पपाठ गुरुप्रोक्तां कृतोपनयनः श्रुतिम् । न ददर्श च कर्माणि शास्त्राणि जगृहे न च ॥ ३९ ॥
नेति ॥ प्रागेवाध्ययनजन्यस्य ज्ञानस्य निसर्गादेव सिद्धेः, विप्रत्वेऽपि वेदं न पपाठेत्याद्युक्तिर्युक्ता । * आरुरुक्षोर्मुनेर्योगं कर्म कारणमुच्यते, इति वचनात् अस्य च योगारूढत्वेन सिद्धात्मापरोक्ष्यस्य यज्ञादिकर्माननुष्ठानं च युक्तम्। नैतावता वाक्यार्थज्ञानमात्रवतः कर्मत्यागो युक्तः* तत्प्राप्तिहेतुर्ज्ञानं च कर्म चेत्यादिवचनात्॥३९॥
उक्तोऽपि बहुशः किंचिज्जडवाक्यमभाषत । तदप्यसंस्कारगुणं ग्राम्यवाक्योक्तिसंश्रितम् ॥४०॥
व्यक्त इति ॥ जडवाक्यं-जडस्येव वाक्यं, हासावहम्, असंस्कारं-व्याकरणाननुशिष्टम् । अगुणं श्लेषप्रसादादिगुणशून्य, प्राम्यवाक्यस्य-ब्रीडाजुगुप्सामाङ्गल्यदायिन उक्त्याश्रितम् ॥ ४० ॥
अपध्वस्तवपुस्सोऽथ मलिनाम्बरधृग्द्विजः । क्लिन्नदन्तान्तरस्सर्वैः परिभूतस्सनागरैः ॥४१॥
अपध्वस्तवपुरिति ॥ अपध्वस्त-पङ्कादिरूषितं, क्लिन्नदन्तान्तर:-अशोधितदशनमध्यः ॥ ४१ ॥
सम्मानना परां हानिं योगर्द्धेः कुरुते यतः । जनेनावमतो योगी योगसिद्धिं च विन्दति ॥४२॥
सम्माननेति ॥ सम्माननेत्यादिश्लोकद्वयं हिरण्यगर्भवचनम् ॥ योगिनो ह्यन्यैस्सम्मान्यत्वे अहमधिकोsस्मीत्याभिमानिकसुखभोगेनैव योगसुकृतं चरितार्थं स्यात् । एवमवमानजेन दुःखेन पापं च क्षीयते ॥ ४२ ॥
तस्माच्चरेत वै योगी सतां धर्ममदूषयन् । जना यथाऽवमन्येरन्गच्छेयुर्नैव सङ्गतिम् ॥ ४३ ॥
हिरण्यगर्भवचनं विचिन्त्येत्थं महामतिः । आत्मानं दर्शयामास जडोन्मत्ताकृतिं जने ॥ ४४ ॥
तस्मादिति ॥ सतां धर्ममदूषयन्निति । यद्यसौ जडतामनभिव्यंजयत् कर्माणि नानुतिष्ठेत् तदेतरो जनस्तद्वत्कर्माणि अननुतिष्ठन्प्रत्यवायान्नरके पतेत् । तस्माद्यथाऽवमन्येरन् तथा जाड्येन चरेत् ॥४३,४४॥
भुङ्क्ते कुल्माषवाट्यादि शाकं वन्यं फलं कणान् । यद्यदाप्नोति सुबहु तदत्ते कालसंयमम् ॥ ४५ ॥
भुङ्क्त इति ॥ कुल्माष:—ईषत्पक्वो माषयावकादिः । वाटयो माषमयो भक्ष्यः, कणः स्यात्क्षुद्रतण्डुलः । यद्यदिति । कालसंयमं—मृत्युनिरोधकं देहधारकं भक्ष्यं यद्यदाप्नोति तत्तदल्पमपि संतोषात्सुबहु मन्यमानः अत्ते अत्ति, भुङ्क्त इति यावत् । आत्मनेपदमार्षम् । तदत्त्येकान्तसंयमीति च पाठः ॥ ४५ ॥
पितुर्युपरते सोऽथ भ्रातृभ्रातृव्यबान्धवैः । कारितः क्षेत्रकर्मादि कदन्नाहारपोषितः ॥ ४६॥
पितरीति ॥ भ्रातृव्यः–भ्रातृजः ॥ ४६॥
समाक्षपीनावयवो जडकारी च कर्मणि ।सर्वलोकोपकरणं बभूवाहारवेतनः ॥ ४७
समाक्षेति ॥ जडकारी-जडवत्कर्ता । *कर्तर्युपमाने, इति णिनिः। आहारवेतन:-आहारमात्रभृतिकः, सर्वेषां कर्मकरो बभूव ॥ ४७ ॥
तं तादृशमसंस्कारं विप्राकृतिविचेष्टितम् । क्षत्ता सौवीरराजस्य काल्यै पशुमकल्पयत् ॥ ४८ ॥
रात्रौ तं समलङ्कृत्य वैशसस्य विधानतः । अधिष्ठितं महाकाली ज्ञात्वा योगेश्वरं तथा ॥ ४९ ॥
ततः खङ्गं समादाय निशितं निशि सा तदा । क्षत्तारं क्रूरकर्माणमच्छिनत्कण्ठमूलतः ।
स्वपार्षदयुता देवी पपौ रुधिरमुल्बणम् ॥५०॥
ततस्सौवीरराजस्य प्रयातस्य महात्मनः । विष्टिकर्ताऽथ मन्येत विष्टियोग्योऽयमित्यपि ॥ ५१ ॥
तं तादृशमिति ॥ असंस्कारम्–मृजादिरहितं, न तूपनयनादिरहितम् । विप्राकृतिविवेष्टितं— शिखायज्ञोपवीतस्नानसंध्याजपोपासनादिशिष्टाचारमात्रवन्तम् ॥ ४८-५१ ॥
तं तादृशं महात्मानं भस्मच्छन्नमिवानलम् । क्षत्ता सौवीरराजस्य विष्टियोग्यममन्यत ॥५२॥
स राजा शिबिकारूढो गन्तुं कृतमतिर्द्विज । बभूवेक्षुमतीतीरे कपिलर्षेर्वराश्रमम् ॥ ५३ ॥
श्रेयः किमत्र संसारे दुःखप्राये नृणामिति । प्रष्टुं तं मोक्षधर्मज्ञं कपिलाख्यं महामुनिम् ॥५४॥
उवाह शिबिकां तस्य क्षत्तुर्वचनचोदितः । नृणां विष्टिगृहीतानामन्येषां सोऽपि मध्यगः ॥५५॥
तं तादृशमिति ॥ क्षत्ता-सारथिर्ध्वास्थो वा, विष्टि:-कर्मकर्तुरफलदं बलात्कर्म, तद्योग्यम् ॥५२-५५॥
गृहीतो विष्टिना विप्रः सर्वज्ञानैकभाजनम् । जातिस्मरोऽसौ पापस्य क्षयकाम उवाह ताम् ॥५६॥
गृहीत इति ॥ विष्टिना निमित्तेन ॥ ५६ ॥
ययौ जडगतिस्सोऽथ युगमात्रावलोकनम् । कुर्वन्मतिमतां श्रेष्ठस्तदन्ये त्वरितं ययुः ॥ ५७॥
विलोक्य नृपतिस्सोऽथ विषमां शिबिकागतिम् । किमेतदित्याह समं गम्यतां शिबिकावहाः ॥५८॥
पुनस्तथैव शिबिकां विलोक्य विषमां हि सः । नृपः किमेतदित्याह भवद्भिर्गम्यतेऽन्यथा ॥ ५९॥
भूपतेर्वदतस्तस्य श्रुत्वेत्थं बहुशो वचः। शिबिकावाहकाः प्रोचुरयं यातीत्यसत्वरम् ॥ ६०॥
ययाविति ॥ जडगति:-मन्दगतिः ॥५७-६०॥
राजोवाच –
किं श्रान्तोऽस्यल्पमध्वानं त्वयोढा शिबिका मम । किमायाससहो न त्वं पीवानसि निरीक्ष्यसे ॥६१॥
किमिति ॥ आयाससहो नासि किम्। आयाससह एवासि । तत्र हेतुः पीवान्निरीक्ष्यस इति । आर्षत्वान्नलोपाभावः ॥ ६१॥
ब्राह्मण: –
नाहं पीवा न चैवोढा शिविका भवतो मया । न श्रान्तोऽस्मि न चायासस्सोढव्योऽस्ति महीपते ॥ ६२॥
नाहमिति ॥ पीवत्वादीनि नाहमर्थस्य, किन्तु शरीरस्येत्यभिप्रायः। आयास:-भारोद्वहनादेर्देहक्लेशः। तेन कर्माशक्तिः श्रान्तिः ॥ ६२ ॥
राजा –
प्रत्यक्षं दृश्यसे पीवानद्यापि शिबिका त्वयि । श्रमश्च भारोद्वहने भवत्येव हि देहिनाम् ॥६३॥
अभिप्रायममानन्पृच्छति-प्रत्यक्षमिति ॥ ६३॥
ब्राह्मणः—
प्रत्यक्षं भवता भूप यदृष्टं मम तद्वद । बलवानबलश्चेति वाच्यं पश्चाद्विशेषणम् ॥ ६४॥
प्रतिवक्ति—प्रत्यक्षं भवतेति । मम यद्रूपं त्वया प्रत्यक्षं दृष्टं तद्वद । नाहं दृष्टः, अचाक्षुषत्वादात्मन इत्यभिप्रायः। तस्य पीवत्वं श्रान्त्यादिकं बलाबलरूपं विशेषणं पश्चाद्वाच्यं-सुतरां दुर्वचम्, विशेष्यस्य धर्मिण एवाप्रत्यक्षत्वादिति भावः ॥ ६४ ॥
त्वयोढा शिबिका चेति त्वय्यद्यापि च संस्थिता । मिथ्यैतदत्र तु भवाञ्छृणोतु वचनं मम ॥ ६५ ॥
त्वयेति ॥ वचनम् ; उत्तरमिति शेषः ॥ ६५ ॥
भूमौ पादयुगावस्था जङ्घे पादद्वयाश्रिते । ऊर्वोर्जङ्घाद्व्यावस्था तदाधारं तथोदरम् ॥६६॥
भूमाविति ॥ अवस्था–स्थितिः । आतश्चोपसर्ग इति प्राङन्ताट्टाप ॥ ६६ ॥
वक्षस्थलं तथा बाहू स्कन्धौ चोदरसंस्थितौ । स्कन्धाश्रितेयं शिबिका मम भारोsत्र किंकृतः ॥६७॥
वक्षस्थलमिति ॥ मम-अहमर्थस्य किंकृतो भारः! अतो नाहं वोढेत्यभिप्रायः ॥ ६७॥
शिबिकायां स्थितं चेदं वपुस्त्वदुपलक्षितम् । तत्र त्वमहमप्यत्र प्रोच्यते चेदमन्यथा ॥ ६८॥
नापि त्वं वाह्य इत्याह-शिबिकायामिति । त्वदुपलक्षित:- त्वयात्मत्वेन लक्षितः भ्रान्त्या दृष्टो देहः शिबिकायां स्थितः । अत्र देहे स्थितस्त्वम् , अहमप्यस्मिन्देहे । अत: इदम्—आत्मनोर्वाह्यत्वं वाहकत्वं च अन्यथा– मिथ्योच्यते ॥ ६८॥
अहं त्वं च तथाऽन्ये च भूतैरुह्याम पार्थिव । गुणप्रवाहपतितो भूतवर्गोऽपि यात्ययम् ॥ ६९ ॥
यद्यहं त्वया नोटे, केन तर्हि ? तत आह-अहं त्वं चेति ॥ भूतैः-देहत्वेन परिणतैः। भूतसंघा तस्य च गमनादिव्यापारभेदो गुणकृत इत्याह-गुणप्रवाहेति ॥ गुणपरिणामरूपतीव्रस्रोतोवेगपरतन्त्रो याति, तृणमिव वायूदकादिभिः। दुर्बलमिव दुष्टाश्वाः, अन्तःकरणपर्यन्तं सङ्घातं तत्स्था गुणा गमनासनेच्छा द्वेषादिरूपेण बहुधा प्रवर्तयन्ति । अत्र *प्रकृतेः क्रियमाणानि गुणैः कर्माणि, इत्याद्यनुसन्धेयम् ॥६९॥
कर्मवश्या गुणा ह्येते सत्त्वाद्याः पृथिवीपते । अविद्यासञ्चितं कर्म तच्चाशेषेषु जन्तुषु ॥ ७० ॥
गुणाश्च प्राचीनकर्मायत्तप्रवृत्तय इत्याह-कर्मवश्या इति । कर्म चाविद्यामूलमित्याह-अविद्येति । अनात्मसु । देवादिदेहेष्वात्मबुद्धिरविद्या । तच्चाविद्यामूलं कर्म ब्रह्मादिसर्वजन्तुसाधारणमित्याह–तच्चाशेषेषु जन्तुष्विति ॥ ७०॥
आत्मा शुद्धोऽक्षरः शान्तो निर्गुणः प्रकृतेः परः । प्रवृद्ध्यपचयौ नास्य चैकस्याखिलजन्तुषु ॥७१॥
यथा नोपचयस्तस्य नैवास्त्यपचयस्तथा। तदा पीवानसीतीत्थं कया युक्त्या त्वयेरितम् ॥ ७२ ॥
एवमात्मनो दृश्यत्वं वाहकत्वं च नास्तीत्युक्तम् । अथ पीवत्वादिविशेषणं नास्तीत्याह–आत्मेति ॥ शुद्धः–कर्मरहितः पूयशोणिताद्यसंस्पृष्टश्च, अक्षर:–अविनाशी, शान्तः-अशनायाद्यूर्मिषट्करहितः, निर्गुणः—सत्वादि गुणरहितः । अत्र हेतु:–प्रकृतेः पर इति । अतः प्रवृद्ध्यपचयौ नास्य । हेत्वन्तरमाह—एकस्येति । एकस्य असङ्घातरूपस्य । सङ्घातरूपस्य हि देहादेवृद्धिह्रासौ, नासङ्घातरूपस्य गगनपरमाण्वादेः। * अहं त्वं च तथान्ये, चेतिवद्यथा मयि तथा सर्वेष्वात्मसु साधारणमेतद्रूपमित्याह-अखिलजन्तुष्विति । उक्तमखिलजन्तुषु द्रष्टव्यमिति । यद्वा–अखिलजन्तुष्वेकस्येति संबन्धः । जन्तुशब्दो देहविशिष्टात्मवाची । जन्तुष्वात्मांश एक एवेत्यर्थः । देहानां संघातत्वात्प्रत्येकमनेकत्वम् ॥७१,७२॥
भूपादजंघाकट्यूरुजठरादिषु संस्थिते । शिबिकेयं यथा स्कन्धे तथा भारः समस्त्वया ॥७३॥
तथाऽन्यैर्जन्तुभिर्भूप शिबिकोढा न केवलम् । शैलद्रुमगृहोत्थोऽपि पृथिवीसंभवोऽपि वा ॥७४॥
मत्तोऽन्यस्मिन्स्कन्धे स्थितः शिबिकाभारो मम चेत्स्यात् तवापि स्यात्, सर्वजीवानामपि स्यात्, सर्वे भाराः सर्वेषां स्युरिति वाह्यादिप्रसङ्गं वाहकादिप्रसङ्गं चाह-भूपादेत्यादिद्वयेन ॥ ७३, ७४ ॥
यदा पुंसः पृथग्भावः प्राकृतैः कारणैर्नृप । सोढव्यस्तु तदाऽऽयासः कथं वा नृपते मया ॥ ७५ ॥
अतो मम भारोद्वहनाभावात्तत्कृता श्रान्तिश्च नेत्याह-यदेति ॥ करणैः–करणेभ्यः ॥ ७५॥
यद्द्रव्या शिबिका चेयं तद्द्रव्यो भूतसंग्रहः । भवतो मेऽखिलस्यास्य ममत्वेनोपबृंहितः ॥ ७६ ॥
श्रीपराशरः-
एवमुक्त्वाऽभवन्मौनी स वहञ्छिविकां द्विज । सोऽपि राजाऽवतीर्योर्व्यां तत्पादौ जगृहे त्वरन् ॥७७॥
किं च पार्थिवत्वाविशेषातज्जातीयकाष्ठादाविव देहे ममकारोऽपि न युक्तः, किमुताहंकार इत्याह यद्द्रव्येति ॥ भूतसंग्रहः-देहः । ममत्वेनोपबृंहित इति वचनाद्देहे ममत्वमप्युपबृंहितम्-आरोपितं, न स्वतत्सदिति दर्शयति ॥ ७६,७७ ॥
राज़ा –
भोभो विसृज्य शिबिकां प्रसादं कुरु मे द्विज । कथ्यतां को भवानत्र जाल्मरूपधरः स्थितः ॥७८॥
भोभो इति ॥ जाल्मो–जडः ॥ ७८ ॥
यो भवान्यन्निमित्तं वा यदागमनकारणम् । तत्सर्वं कथ्यतां ब्रह्मन्मह्यं शुश्रूषवे त्वया ॥ ७९॥
को भवानित्येतद्विवृणोति-यो भवानिति ॥ य इति जातिकुलप्रश्नः । निमित्तं-प्रयोजनम्, आगतेः कारणम्—उत्पादकम् ॥ ७९ ॥
ब्राह्मण: –
श्रूयतां सोऽहमित्येतद्वक्तुं भूप न शक्यते । उपभोगनिमित्तं च सर्वत्रागमनक्रिया ॥ ८०॥
को भवानित्यस्य प्रश्नस्य एषोऽहमित्युत्तरे वक्तव्ये जात्यादेरनात्मधर्मत्वमभिप्रेत्य यस्त्वमिति प्रष्टुमहमेष इति प्रतिवक्तुं च न शक्यमित्याह—श्रूयतामिति ॥ निमित्तप्रश्नोत्तरमुपभोगेति । पुंसः सर्वदेशेष्वागतिः सुखादि भोगाय ॥ ८० ॥
सुखदुःखोपभोगौ यौ तौ देहाद्युपपादकौ । धर्माधर्मोद्भवौ भोक्तुं जन्तुर्देहादिमृच्छति ॥ ८१॥
एतद्विवृणोति-सुखेति ॥ तौ धर्माद्युद्भवौ सुखादिभोगौ यस्मात्प्रतिनियतदेशदेहकालभोग्यौ तस्मात्तौ – भोक्तुं जीवो देहदेशान्तराणि याति ॥ ८१ ॥
सर्वस्यैव हि भूपाल जन्तोः सर्वत्र कारणम् । धर्माधर्मों यतः कम्मात्कारणं. पृच्छ्यते त्वया ॥ ८२॥
राजा-धर्माधर्मों न संदेहस्सर्वकार्येषु कारणम् । उपभोगनिमित्तं च देहाद्देहान्तरागमः ॥ ८३॥
कारणप्रश्नोत्तरं सर्वस्येति ॥ सर्वत्र-जन्मादावपि ॥ ८२,८३ ॥
यत्त्वेतद्भवता प्रोक्तं सोऽहमित्येतदात्मनः । वक्तुं न शक्यते श्रोतुं तन्ममेच्छा प्रवर्तते ॥८४॥
सोऽहमिति वक्तुं न शक्यत इत्युत्तरस्याभिप्रायमजानानश्चोदयति–यस्त्वेतदिति सार्द्धेन । यस्त्वेतदिति ॥ एतत्, स्वरूपमिति शेषः ॥ ८४ ॥
योऽस्ति सोऽहमिति ब्रह्मन्कथं वक्तुं न शक्यते । आत्मन्येष न दोषाय शब्दोऽहमिति यो द्विज ॥८५॥
य इति ॥ य आत्मा कर्त्तृभोक्तृरूपेण स्फुरन्सदाऽस्ति, सोऽहमितिशब्देन कयं वक्तुं न शक्यते ! न हि निरर्थकोऽहंशब्दः ; न च निर्विशेषणोऽहमर्थः, * आत्मा शुद्ध इत्यादिविशेषणोक्तेः । तस्मात्सोऽहमित्युक्तौ नानुपपत्तिः, यो भवानिति प्रष्टुं च नानुपपत्तिरिति भावः। अनात्मनि खल्वहमिति शब्दो न प्रयुज्यते । आत्मनि तु तस्य प्रयोगे को दोष इत्यभिप्रायेणाह-आत्मनीति ॥ ८५ ॥
ब्राह्मणः –
शब्दोऽहमिति दोषाय नात्मन्येष तथैव तत् । अनात्मन्यात्मविज्ञानं शब्दो वा भ्रान्तिलक्षणः ॥८६॥
उत्तरमाह-शब्दोऽहमिति । अयमभिप्राय:-(प्रतिवक्तु:)एषोऽहंशब्दो नात्मनि दोषायेति यदुक्तं तत्सत्यम्। अहंता हि प्रत्यक्तम् । तेन प्रत्यक्त्वेनावभासमान एवात्मा, न देहादिः । अतोऽयमहमिति वक्तुं शक्योऽपि, सोऽहमिति वक्तुं यो भवानिति प्रष्टुं च न शक्यते, तस्य शुद्ध्यादिविशेषणान्तरसद्भावेऽपि जात्यादिधर्मासद्भावादिति । आत्मविज्ञानम्-अहंबुद्धिः, शब्दः-अहमिति शब्दः ॥ ८६ ॥
जिह्वा ब्रवीत्यहमिति दन्तोष्ठौ तालुके नृप । एते नाहं यतस्सर्वे वाङ्निष्पादनहेतवः ॥ ८७ ॥
एवं तावद्देहादिविलक्षणात्मपक्षपरिग्रहेण योऽस्ति सोऽहमिति प्रश्नप्रतिवचनोपपत्तिं वदन्नृपः प्रत्युक्तः ॥ इदानीं देहाद्यात्मत्वपक्षं तस्य मते प्रधानं कुर्वन्निराकरोति जिह्वेति त्रिभिः ॥ जिह्वेति । हे नृप ! जिहादि अहमिति ब्रवीतीति किं मन्यसे? तन्न । एने नाहम्-बहुत्वान्नाहमर्थः, अहमर्थस्यैकत्वेन प्रतीतेः। किं च यतो जिह्वादीनि शब्दनिष्पत्तिकारणानि, अतो न कर्त्तृभावमनुभवन्ति । कत्र्ता खल्वात्मा। अनेन न्यायेनाहं स्पृशामि स्मरामीत्यादिषु बाह्यान्तरकरणानामात्मत्वनिरासः ॥ ८७ ॥
किं हेतुभिर्वदत्येषा वागेवाहमिति स्वयम् । अतः पीवानसीत्येतद्वक्तुमित्थं न युज्यते ॥ ८८ ॥
शंकान्तरमाह-किं हेतुभिरिति ॥ अथ वागेवेन्द्रियरूपा जिह्वाद्यैः करणैः स्वातन्त्र्येणाहमिति ब्रवीति, तेन सैवात्मेति मतम् ; तच्च न ; तस्या अपि करणत्वेन स्वातन्त्र्याभावात्, आत्मत्वे च वाचः स्थौल्याभावात्पीवानसीत्यात्मधर्मत्वेन पीवत्वोक्तिव्याहतेः, मम वागिति भेदव्यवहारानुपपत्तेश्च । केचिच्छब्द एवार्थ इति वैय्याकरणपक्षपरिग्रहेण जिहादिकरणैर्वाणी स्वात्मानमहमिति वदतीति; यथा घटशब्द एव घट इत्युच्यत इति वर्णयन्ति । तत्राप्युक्त एव दोषः । अनेन न्यायेन स्पर्शरूपादीनां बुद्धिसुखेच्छादीनां च कर्तृत्वनिषेधः ॥ ८८ ॥
पिण्डः पृथग्यतः पुंसः शिरःपाण्यादिलक्षणः । ततोऽहमिति कुत्रैतां संज्ञां राजन्करोम्यहम् ॥ ८९ ॥
पिण्ड इति ॥ एवं जिह्वाद्याधारशिरःपायुपाण्यादिसमुदायो देहोऽपि नात्मा, जागरे मम देह इति पृथग्भावात् । स्वप्नसुषुप्त्योरात्मनि भासमानेऽपि देहस्यान्यथाभानादभानाच्च ; स्वर्गकामादि– -श्रुतिसिद्धशरीरविल क्षणात्मप्रसिद्धिविरोधाच्च । यद्वा पिण्डः पुंसः पृथक्–शिरःपाण्यादिरूपेणानेक इति यतः, अहमर्थश्चैक इति योजनान्तरम् । तस्माद्देहेन्द्रियादीनामनात्मत्वात्तेषु कुत्राऽहंशब्दं करोमीत्याह-तत इति ॥ ८९ ॥
यद्यन्योऽस्ति परः कोऽपि मत्तः पार्थिवसत्तम । तदैषोऽहमयं चान्यो वक्तुमेवमपीष्यते ॥ ९० ॥
यदा समस्तदेहेषु पुमानेको व्यवस्थितः । तदा हि को भवान्सोऽहमित्येतद्विफलं वचः ॥ ९१ ॥
ननु देहादिव्यतिरिक्तस्याहंशब्दो वाचकोऽस्त्वित्याशंक्य तस्य सर्वभूतेष्ववस्थितस्य ज्ञानैकाकारतया एकप्रकारत्वाच्छुद्धत्वादेश्च साधारण्यात् , व्यावर्तकजात्यादिधर्माभावाच्च को भवान् सोऽहमिति प्रश्नप्रतिवचने निरर्थके इत्याह-यद्यन्योऽस्तीति द्वयेन । यद्यन्योऽस्तीति ॥ नात्रात्मनां व्यक्त्यैक्यं प्रतिपाद्यते। कुतः? यद्यन्योऽस्ति पर: कोऽपि मत्त इति स्वस्माद्व्यतिरिक्तमात्मानमभ्यु- -पगम्य तस्यान्यत्वनिषेधात् । एकस्मिन्नर्थे परशब्दान्यशब्दयोः प्रयोगायोगात् अन्यशब्द: परस्यापि ज्ञानैकाकारत्वादन्याकारत्वप्रतिषेधार्थः। एतदुक्तं भवति-यदि मद्व्यतिरिक्तः: कोऽप्यात्मा मदाकारभूत– -ज्ञानाकारादन्याकार: स्यात् , तदा अहमेवमाकारः, अयं चान्यादृशाकार इति शक्येत व्यपदेष्टुम् । न चैवमस्ति, सर्वेषां ज्ञानैकाकारतया समत्वात् , जातिकुलादेरनात्मधर्मत्वाच्च । प्रकारैक्ये च एकत्वव्यवहारो मुख्य एव, समानधर्मासमानधर्मेत्यस्मिन्नर्थे समानधर्मानेकधर्मेति प्रयोगदर्शनात्, * एको व्रीहिः मुनिष्पन्नः सुपुष्टः कुरुते प्रजाः, इति च दर्शनात् । अतो नायमौपचारिकः प्रयोगः, प्रकारैकत्वस्य निमित्तस्य विद्यमानत्वात् । अत्र पूर्वश्लोकेनात्मभेदनिर्देशमुखेन तेषामनेकाकारत्वं निषिद्धम् । उत्तरश्लोकेनैकाकारता विधीयते । आत्मैकत्वपक्षे — * नित्यो नित्यानां चेतनश्चेतनानाम् * अहं त्वं च तथान्ये च * इत्यादिना विरोधः। समानाकारत्वं च * निर्दोष हि समं ब्रह्मेत्यादिषूक्तम् । तस्मादात्मनां वैषम्याभावात्प्रश्नप्रतिवचने युक्ते इत्यर्थः ॥ ९०,९१ ॥
त्वं राजा शिबिका चेयमिमे वाहाः पुरस्सराः । अयं च भवतो लोको न सदेतन्नृपोच्यते ॥ ९२ ॥
एवं तावद्देहादीनां पृथगुपलब्धिकारणत्वानेकत्वादिभिरनात्मत्वमुक्तम् । इदानी—मनित्यत्वेनानात्मत्वमाह त्वं राजेत्यादिना अध्यायशेषेण ॥ त्वं राजेति ॥ अत्र शिबिकाग्रहणं यद्द्रव्या शिबिकेतिवदनित्यत्वेऽनात्मत्वे च दृष्टान्तार्थम् । एतत्-राजशिबिकादिकं सर्वं, न सत्-अनित्यम् । अतो नात्मेत्यभिप्रायः ॥ ९२ ॥
वृक्षो दारु ततश्चेयं शिविका त्वदधिष्ठिता । किं वृक्षसंज्ञा वास्यास्स्स्याद्दारुसंज्ञाऽथ वा नृप ॥ ९३ ॥
दृष्टान्तं निरूपयति वृक्ष इति ॥ इयं शिबिका जीवद्दशायां वृक्षः, भिन्नो दारु, पश्चात्संयोजिता शिबिका । तत्र शिबिकावस्थायां वृक्षदारुसंज्ञे क्व गते? वृक्षत्वाद्यवस्थानाशान्नष्टे इत्यर्थः ॥ ९३ ॥
वृक्षारूढो महाराजो नायं वदति ते जनः । न च दारुणि सर्वस्त्वां ब्रवीति शिबिकागतम् ॥ ९४ ॥
एतदुपपादयति वृक्षारूढइति ॥ त्वां जनो वृक्षारूढ इति न वदति, दारुण्यारूढ इति च ; किन्तु शिबिकागतं ब्रवीति ॥ ९४ ॥
शिविकादारुसंघातो रचनास्थितिसंस्थितः । अन्विष्यतां नृपश्रेष्ठ तद्भेदे शिबिका त्वया ॥ ९५ ॥
शिबिका चास्थिरेत्याह–शिबिकेति ॥ रचनास्थितिसंस्थितो दारुसंघातः शिबिका ; सा तद्भेदेऽन्विष्यताम्—नष्टेत्यर्थः ॥ ९५ ॥
एवं छत्रशलाकानां पृथग्भावे विमृश्यताम् । कथात छत्रमित्येतन्न्यायस्त्वयि तथा मयि ॥ ९६ ॥
एवमिति ॥ एवं शलाकापृथग्भावे छत्रं विमृश्यताम् । त्वमहमर्थतया लोकाभिमतेष्वनित्येषु शरीरेष्वित्येष न्यायः ॥ ९६ ॥
पुमांस्त्रिी गौरजो वाजी कुञ्जरो विहगस्तरुः । देहेषु लोकसंज्ञेयं विज्ञेया कर्महेतुषु ॥ ९७॥
पुमांस्त्रीति ॥ आत्मतयाऽभिमतेषु देहेषु लोकसंज्ञा, न तु शास्त्रन्यायदृष्टात्मसंज्ञा ॥ ९७ ॥
पुमान्न देवो न नरो न पशुर्न च पादपः । शरीराकृतिभेदास्तु भूपैते कर्मयोनयः ॥ ९८ ॥
पुमानिति ॥ पुमान् आत्मा, न देवादिरूपः । एते-देवत्वादयः ॥ ९८ ॥
वस्तु राजेति यल्लोके यच राजभटात्मकम् । तथाऽन्यच्च नृपेत्थं तन्न सत्संकल्पनामयम् ॥ ९९ ॥
वस्त्विति ॥ इत्थं सप्रतियोगिकं पितृपुत्रत्वादिकं यत्तत्सङ्कल्पनामयं–सङ्कल्पना उत्पत्तिः तन्मयं—तत्प्रचुरम् । अतो न सत् ॥ ९९ ॥
यत्तु कालान्तरेणापि नान्यसंज्ञामुपैति वै । परिणामादिसंभूतां तद्वस्तु नृप तच्च किम् ॥ १०० ॥
अत्रचिद्वस्तुन्यवस्वसच्छब्दौ न तुच्छत्वमिथ्यात्वपरौ ; अपि तु विनाशित्वपरावित्याह—यत्त्विति ॥ यत्तु कालभेदेन परिणामोपाध्यादिभिः कृतामन्यसंज्ञां न याति तद्वस्तु तत्किम् ? दृश्येषु न किञ्चिदित्यर्थः । यच्चावस्त्वित्युक्तं तन्न तुच्छं मिथ्या वा, कालान्तरेणेति वचनात् । विधिनिषेध- -योर्देशकालैक्ये हि विरोधः । अत्र तु कालभेदादविरोधः ॥ १०० ॥
त्वं राजा सर्वलोकस्य पितुः पुत्रो रिपो रिपुः। पत्न्याः पतिः पिता सूनोः किं त्वां भूप वदाम्यहम्॥१०१॥
अस्थिरमसदित्युक्तं तन्निदर्शयति-त्वं राजेति ॥ राजत्वादेर्लोकाद्युपाधिकत्वादस्थिरत्वम् ॥१०१॥
त्वं किमेतच्छिरः किं नु ग्रीवा तव तथोदरम् । किमु पादादिकं त्वं वै तवैतत्किं महीपते ॥१०२॥
अथ * पिण्डः पृथगित्यादिना संक्षेपेणोक्तमर्थमुपपादयन्देहात्मविवेकं प्रकरणार्थमुपसंहरति–त्वं किमेतदिति ॥ अन्धतमस्यक्षिनिमीलने च निरवयवत्वेनात्मनः प्रत्यक्तयाऽहमिति भासमानत्वात्, इदंबुद्धिबोध्यमदृश्यापरभागं च शिर आदि नात्मा, न चात्मनोऽवयवः ॥ १०२ ॥
समस्तावयवेभ्यस्त्वं पृथग्भूप व्यवस्थितः । कोऽहमित्यत्र निपुणो भूत्वा चिन्तय पर्थिव ॥ १०३ ॥
समस्तावयवेभ्य इति ॥ तस्मादेभ्यः पृथगात्मा व्यवस्थित इत्यर्थः । निपुणो भूत्वेति पाठः। यथोक्तं मुनाचार्यैः * अहंबुद्ध्या परागर्थात्प्रत्यगर्थो हि भिद्यते * इति ॥ १०३ ।।
एवं व्यवस्थिते तत्त्वे मयाऽहमिति भाषितुम् । पृथक्करणनिष्पाद्यं शक्यते नृपते कथम् ॥ १०४ ॥
प्रकृतं प्रश्नप्रतिवचनवैय्यर्थ्यमुपसंहरति-एवमिति ॥ तत्त्वे-आत्मस्वरूपे । पृथक्करणं-पृथक्कारः, देवादि तिचरणादिपृथक्कारस्य भेदस्य देहगतत्वेनानात्मधर्मत्वादात्मान्तरेभ्यः पृथक्करण– -निष्पाद्यं सोऽहमिति वचनं भाषितुं शक्यम्, सर्वसाधारणाकारोऽहमिति वक्तुं न शक्यत इत्यर्थः ॥१०४॥
इति श्रीपराशरमुनिविरचिते श्रीविष्णुपरत्वनिर्णायके श्रीमति विष्णुमहापुराणे द्वितीयेऽशे
त्रयोदशोऽध्यायः ॥ १३॥
इति श्रीभगवद्रामानुजपदान्तरंगश्रीविष्णुचित्तविरचिते श्रीविष्णुपुराणव्याख्याने श्रीविष्णुचित्तीचे द्वितीयेऽशे त्रयोदशोऽध्यायः ॥ १३॥