श्रीविष्णुपुराणम्
अथ चतुर्दशोऽध्यायः
श्रीपराशरः-
निशम्य तस्येति वचः परमार्थसमन्वितम् । प्रश्रयावनतो भूत्वा तमाह नृपतिर्द्विजम् ॥१॥
पूर्वाध्याये देहादिव्यतिरिक्त आत्मेत्युक्तम् । अनन्तरेणाध्यायेन स एवं [नित्यत्वा– -नन्यार्थत्वानौपाधिकत्वादिभिः] परमपुरुषार्थ इत्युच्यते-निशम्येति ॥ परमार्थसमन्वितं परमार्थतया वक्ष्यमाणेनारमना समन्वितं– विषयम् ॥ १॥
राजोवाच –
भगवन्यत्त्वया प्रोक्तं परमार्थमयं वचः । श्रुते तस्मिन्भ्रमन्तीव मनसो मम वृत्तयः ॥२॥
भगवन्निति ।। परमार्थमयम्-आत्मयाथात्म्यप्रतिपादकत्वेन परमप्रयोजनरूपम् । भ्रमन्ति-परमपुरषार्थं शुश्रूषया पर्याकुला भवन्ति ॥ २ ॥
एतद्विवेकविज्ञानं यदशेषेषु जन्तुषु । भवता दर्शितं विप्र तत्परं प्रकृतेर्महत् ॥३॥
नाहं वहामि शिबिकां शिबिका न मयि स्थिता । शरीरमन्यदस्मत्तो. येनेयं शिबिका धृता ॥४॥
गुणप्रवृत्त्या भूतानां प्रवृत्तिः कर्मचोदिता। प्रवर्तन्ते गुणा ह्येते किं ममेति त्वयोदितम् ॥५॥
उक्तमनुषदन्नेवं प्रशंसति–एतदिति ॥ यच्च प्रकृतेर्विवेकविज्ञानमस्ति तद्विवेकविज्ञानं यदेतदशेषजन्तु ष्वनुवृत्तम् । विवेकविज्ञानम्–आत्मतत्त्वं, तत् प्रकृतेः परं — विलक्षणं महच्च ॥ ३-५ ॥
एतस्मिन्परमार्थज्ञ मम श्रोत्रपथं गते । मनो विह्वलतामेति परमार्थार्थितां गतम् ॥६॥
पूर्वमेव महाभागं कपिलर्षिमहं द्विज । प्रष्टुमभ्युद्यतो गत्वा श्रेयः किं न्वत्र शंस मे ॥७॥
तदन्तरे च भवता यदेतद्वाक्यमीरितम् । तेनैव परमार्थार्थं त्वयि चेतः प्रधावति ॥ ८॥ कपिलर्षिर्भगवतः सर्वभूतस्य वै किल । विष्णोरंशो जगन्मोहनाशायोर्वीमुपागतः ॥९॥
एतस्मिन्निति ॥ *आत्मा शुद्धोऽक्षर इति वचनात् । परमार्थार्थितां गतं—परमप्रयोजनश्रवणेनार्थितां गतम् । ‘ परमार्थार्थतां गतम् ’ । इति च पाठः ॥ ६-९ ॥
स एव भगवान्नूनमस्माकं हितकाम्यया । प्रत्यक्षतामत्र गतो यथैतद्भवतोच्यते ॥१०॥
तन्मयं प्रणताय त्वं यच्छ्रेयः परमं द्विज । तद्वदाखिलविज्ञानजलवीच्युदधिर्भवान् ॥११॥
स एवेति ॥ यथैतदिति । एतत्—आत्मतत्त्वं—परमार्थार्थतां गतम् ॥ १०,११ ॥
ब्राह्मण उवाच–
भूप पृच्छसि किं श्रेयः परमार्थं नु पृच्छसि । श्रेयांस्यपरमार्थार्थान्यशेषाणि च भूपते ॥१२॥
श्रेयः किंन्विति नृपेण पूर्वमुक्तत्वात् , श्रेयःपरमार्थयोरत्यन्तवैलक्षण्यात्तयो: कतरत्पृच्छसीति विकल्पयति–भूपेति ॥ अपरमार्थार्थानि–अपरमार्थवस्तूनि; आर्षत्वादर्थशब्दस्य नपुंसकत्वम् ॥ १२ ॥
देवताराधनं कृत्वा धनसम्पदमिच्छति । पुत्रानिच्छति राज्यं च श्रेयस्तत्प्राप्तिलक्षणम् ॥१३॥
धनादियोगान्तमुत्तरोत्तरोत्कृष्ट श्रेयस्सप्तकं दर्शयति–देवतेति त्रिभिः ॥ देवताराधनमिति.। तत्प्राप्तिलक्षणं तेषां धनादीनां प्राप्तिरूपम् ॥ १३ ॥
कर्म यज्ञात्मकं श्रेयः स्वर्लोकफलदायि यत् । श्रेयः प्रधानं च फले तदेवानभिसंहिते ॥१४॥
कर्मेति ॥ फलेऽनभिसंहिते सति, तदेव-कर्म मुख्यं श्रेयः ॥१४॥
आत्मा ध्येयस्सदा भूप योगयुक्तैस्तथा परम् । श्रेयस्तस्यैव संयोगः श्रेयो यः परमात्मना ॥१५॥
आत्मेति ॥ आत्मा ध्येय इति श्रेयः-तद्ध्यानं श्रेय इत्यर्थः । तस्यैव–जीवस्यैव परमात्मना संयोगः–ऐक्यम् । ‘श्रेयो यत्परमात्मने ‘ इति च पाठः ॥ १५ ॥
श्रेयांस्येवमनेकानि शतशोऽथ सहस्रशः । सन्त्यत्र परमार्थस्तु न त्वेते श्रूयतां च मे ॥१६॥
श्रेयांसीति ॥ अनेकानि शास्त्रोक्तानि स्वोत्प्रेक्षितानि च । अत्र-लोके। एते-पदार्थाः, न परमार्था:–न परमप्रयोजनम् । परमार्थस्तु मे–मत्तः श्रूयताम् ॥ १६ ॥
धर्माय त्यज्यते किंनु परमार्थो धनं यदि । व्ययश्च क्रियते कस्मात्कामप्राप्त्युपलक्षणः ॥१७॥
धनादीनां श्रेयस्त्वं क्रमेण निराकरोति–धर्मायेत्यादि । कामप्राप्त्युपलक्षण:–कामप्राप्तिहेतुः। धनं धर्मकामार्थं त्याज्यत्वान्न स्वयं पुरुषार्थः । यदर्थं सर्वं यच्च नान्यार्थं स परमार्थः ; स आत्मैवेति भावः, *आत्मनस्तु कामाय सर्वं प्रियं भवतीति श्रुतेः ॥ १७ ॥
पुत्रश्चेत्परमार्थः स्यात्सोऽप्यन्यस्य नरेश्वर । परमार्थभूतस्सोऽन्यस्य परमार्थी हि तत्पिता ॥१८॥
पुत्रश्चेदिति ॥ सोऽप्यन्यस्य-स्वपितुः, परमार्थः। तत्पिता च अन्यस्य स्वपितुः परमार्थः। एवं पुत्रस्य पित्रर्थत्वाज्जगति न परमार्थोऽस्ति । एतदुपपादयति-एवं न परमार्थोऽस्तीति ॥ १८ ॥
एवं न परमार्थोऽस्ति जगत्यस्मिञ्चराचरे । परमार्थो हि कार्याणि कारणानामशेषतः ॥ १९॥
अशेषेण पुत्रादिकार्याणि कारणानां हि–जनकानां परमार्थः; तस्मान्न परमार्थः । अनन्यार्थो हि परमार्थः ॥ १९ ॥
राज्यादिप्राप्तिरत्रोक्ता परमार्थतया यदि । परमार्था भवन्त्यत्र न भवन्ति च वै ततः ॥२०॥
राज्यादिप्राप्तिरिति ॥ राज्यादिप्राप्तिः परमार्थो यदि, ततः–तर्हि अत्र–लोके, राज्यादयः परमार्था भवन्ति, न भवन्ति च—नश्यन्ति च । कथमस्थिरा राज्यादयः परमार्थं इति भावः । एतदस्थिरत्वं पुत्रादिष्वपि समानम् ॥ २० ॥
ऋग्यजुस्सामनिष्पाद्यं यज्ञकर्म मतं तव । परमार्थभूतं तत्रापि श्रूयतां गदतो मम ॥ २१ ॥
यत्तु निष्पाद्यते कार्यं मृदा कारणभूतया । तत्कारणानुगमनाज्ज्ञायते नृप मृण्मयम् ॥ २२ ॥
एवं विनाशिभिर्द्रव्यैः समिदाज्यकुशादिभिः। निष्पाद्यते क्रिया या तु सा भवित्री विनाशिनी ॥२३॥
अनाशी परमार्थश्च प्राज्ञैरभ्युपगम्यते । तत्तु नाशि न सन्देहो नाशिद्रव्योपपादितम् ॥ २४ ॥
धर्मस्य नश्वरत्वमनुमानेन दर्शयति—ऋगित्यादिना ॥ २१-२४ ॥
तदेवाफलदं कर्म परमार्थो मतस्तव । मुक्तिसाधनभूतत्वात्परमार्थो न साधनम् ॥ २५ ॥
तदेवेति ॥ तदेव-यज्ञकर्मैव । चेन्नेत्यध्याहारः। न हि परमार्थोऽन्यस्य साधनम् ॥ २५॥
ध्यानं नैवात्मनो भूप परमार्थार्थशब्दितम् । भेदकारि परेभ्यस्तु परमार्थो न भेदवान् ॥ २६ ॥
ध्यानमिति ॥ परमार्थार्थशब्दितं ध्यानं न परमप्रयोजनभूतवस्तुशब्दवाच्यम् । यतस्तत्परेभ्यो घटा दिभ्यो भेदं करोतीति भेदकारि, विशदविशदतराद्यवस्थाभेदं स्वस्य करोति । नैवमवस्थाभेदेन वैषम्यं परमार्थस्य । यद्वा, भेदकारि—स्मृतिप्रत्ययत्वेन क्षणभङ्गुरत्वात् । न तु परमार्थो भङ्गुरः ॥ २६ ॥
.
परमात्मात्मनोर्योगः परमार्थ इतीष्यते । मिथ्यैतदन्यद्द्रव्यं हि नैति तद्द्रव्यतां यतः ॥ २७ ॥
परमात्मेति ॥ इष्यते यदीति शेषः। योगस्तादात्म्यम्, अन्यथा उत्तरार्द्धेनासंगतेः । एतदैक्यं मिथ्या ; तत्र हेतु:–अन्यदिति ॥ पूर्वेषु धनादिषु नश्वरत्वादि ; योगे तु स्वरूपाभावः ॥ २७ ॥
तस्माच्छ्रेयांस्यशेषाणि नृपैतानि न संशयः । परमार्थस्तु भूपाल संक्षेपाच्छ्रूयतां मम ॥ २८ ॥
उपसंहरति–तस्मादिति ॥ एतानि-धनादीनि श्रेयांस्येव न तु परमार्थः। परमार्थस्तु श्रयताम् ॥ २८ ॥
एको व्यापी समः शुद्धो निर्गुणः प्रकृते परः । जन्मवृद्ध्यादिरहित आत्मा सर्वगतोऽव्ययः ॥ २९॥
परमार्थमाह-एक इति ॥ एक:–देहवन्नानेकोपचयरूपः ; व्यापी-ज्ञानेन सर्वव्यापनस्वभावः । देवमनुष्यादीनां विषमेषु देहेषु स्थितोऽपि समः–परस्परं च समः । शुद्धः—स्वतो निर्मलः । निर्गुणः–सत्त्वादिरहितः। तत्र हेतु:–प्रकृतेः परः-जन्मादिषड्भावविकाररहितः। आत्मा-चेतनः । सर्वगतः-नाशकाना– -मग्निजलादीनां सौक्ष्म्येण व्यापकः । अतो दाहादिरहितः । अव्यय:-अविकलः ॥ २९ ॥
परज्ञानमयोऽसद्भिर्नामजात्यादिभिर्विभुः । न योगवान्न युक्तोऽभून्नैव पार्थिव योक्ष्यते ॥ ३० ॥
परज्ञानमय इति परज्ञानमयः-प्रकृष्टज्ञानस्वरूपः । परमज्ञानमय इति च पाठः । परशब्देन विषयज्ञानं व्यावर्त्यते । सुखसंवित्स्वरूप इत्यर्थः। असद्भिः-विनाशिभिर्देवादिनामरूपैः कालत्रयेऽप्ययुक्तः। विभुः देहेन्द्रियाणां स्वामी ; स्वतः स्वराडिति वा ॥ ३० ॥
तस्यात्मपरदेहेषु सतोऽप्येकमयं हि यत् । विज्ञानं परमार्थोऽसौ द्वैतिनोऽतथ्यदर्शिनः ॥३१॥
एवमेको व्यापीत्यादिना आत्मस्वरूपमुक्तम् । इदानीं तस्य देवादिरूपेष्वात्मपरदेहेषु सतोऽप्ये- –कप्रकारं यद्विज्ञानं–विज्ञानरूपम् असौ परमार्थ इत्याह-तस्येति ॥ देवादिदेहेषु स्थितस्यात्मनस्तद्रूपेण भिन्नत्वप्रतीति र्भ्रान्तिरित्याह–द्वैतिन इति ॥ ३१ ॥
वेणुरन्ध्रविभेदेन भेदः षड्जादिसंज्ञितः । अभेदव्यापिनो वायोस्तथाऽस्य परमात्मनः ॥ ३२ ॥
आत्मानो हि स्वरूपेण परस्परं भिन्नाः, न तु देवादिरूपेण, तेषामतद्रूपत्वस्योक्तत्वात् । केचिदत्रात्मनां स्वरूपेण भेदो निषिध्यत इत्याहुः; तदयुक्तम् । * तस्यात्मपरदेहेषु, * तत्र त्वमहमप्यत्र, * अहं त्वं च तथाऽन्ये च, * त्वं चान्येचेत्याद्यात्मबहुत्वप्रतिपादकबहुवचनविरोधात् , श्रुतिस्मृतिसूत्रन्यायविरोधाच्च । यदि देवादिरूपेणात्मनां न भेदः, कथं तर्हि देवोऽयं, मनुष्योऽयमिति वैषम्येण व्यवहार उपपद्यते ? तत्राह-वेणुरन्ध्रेति । यथा वेणोरनेकरन्ध्रवर्तिनां वाय्वंशानां वायुत्वेनैकाकारणां रन्ध्रभेदविनिष्क्रमणकृतष्षड्जादि– –संज्ञाभेदः; एवमात्मनां ज्ञानैकाकाराणां देवादिदेहप्रवेशकृतो देवादिव्यवहारः, न तु ताद्रूप्यकृतः। अभेदव्यापिन:-अभेदेन-वायुत्वाकारेण व्यापिनः । अत्र परमात्मशब्देनात्मैवोच्यते, * परमात्मेति चाप्युक्तो देहेऽस्मिन्पुरुषः परः, .* तैरेव विगतः शुद्धः परमात्मा निगद्यते, इत्यादिदर्शनात् ॥ ३२ ॥
एकस्वरूपभेदश्च बाह्यकर्मावृतिप्रजः । देवादिभेदेऽपध्वस्ते नास्त्येवावरणे हि सः ॥ ३३॥
क्तमर्थं विवृण्वन्नुपसंहरति–एकस्वरूपेति ॥ एकस्वरूपभेदः-* तस्यात्मपरदेहेषु सतोऽप्येकमयं हि यत् । विज्ञानं परमार्थोऽसौ * इत्युक्तज्ञानैकस्वरूपस्यात्मनो भेदः देवादिरूपः, बाह्यकर्मवृतिप्रन: बाह्यकर्मावरणजातः। फलाभिसन्धियुक्तं भगवत्यसमर्पितं च बाह्यकर्म, आत्मनः स्वरूपबहिर्भूतं वा; यथा वक्ष्यति *अविद्याकर्मसंज्ञाऽन्या…………तया तिरोहितत्वाच्च शक्तिः क्षेत्रज्ञसंज्ञिता । सर्वभूतेषु भूपाल तारतम्येन वर्तते॥इति। देवादिभेदश्चायं युगपदनेकेषामेकस्य च कालभेदेनापध्वस्ते आवरणे-कर्मावरणे, स देवादिभेदो न भवति । देवादिभेदोऽपध्वस्त इति च पाठः । यथाह शौनकः *कर्मिणां कर्ममेदेन देवभेदादयो यतः ॥ कर्मक्षयादशेषाणां भेदानां संक्षयस्ततः ॥ इति ॥ ३३ ॥
इति श्रीपराशरमुनिविरचिते श्रीविष्णुपरत्वनिर्णायके श्रीमति विष्णुमहापुराणे द्वितीयेऽशे चतुर्दशोऽध्यायः ॥ १४ ॥
इति श्रीभगवद्रामानुजपदान्तरंगश्रीविष्णुचित्तविरचिते श्रीविष्णुपुराणव्याख्याने श्रीविष्णुचित्तीचे द्वितीयेऽशे चतुर्दशोऽध्यायः ॥ १४ ॥