श्रीविष्णुपुराणम्
द्वितीयांशे प्रथमोऽध्यायः
मैत्रेयः –
भगवन्सम्यगाख्यातं ममैतदखिलं त्वया । जगतः सर्गसम्बन्धि यत्पृष्टोऽसि गुरो मया ॥ १ ॥
अथ द्वितीये अंशे सृष्टिविशेषः तत्प्रसंगात्सृष्टानां निवासश्चोच्यते । तत्र प्रथमांशेऽवशेषितं प्रियव्रतान्वयं पृच्छति-भगवन्निति ॥ सर्गसंबन्धि-सृष्टयनुबन्धं वस्तु, यथा जगद्बभूव यन्मयमित्यादिकम् ॥ १॥
योऽयमंशो जगत्सृष्टिसंबन्धो गदितस्त्वया । तत्राहं श्रोतुमिछामि भूयोऽपि मुनिसत्तम ॥ २॥
प्रियव्रतोत्तानपादौ सुतौ स्वायंभुवस्य यौ। तयोरुत्तानपादस्य ध्रुवः पुत्रस्त्वयोदितः ॥३॥
प्रियव्रतस्य नैवोक्ता भवता द्विजः सन्ततिः । तामहं श्रोतुमिच्छामि प्रसन्नो वक्तुमर्हसि ॥४॥
श्रीपराशरः –
कर्दमस्यात्मजां कन्यामुपयेमे प्रियव्रतः। सम्राट् कुक्षिश्व तत्कन्ये दश पुत्रास्तथाऽपरे ॥५॥
महाप्रज्ञा महावीर्या विनीता दयिताः पितुः । प्रियव्रतसुताः ख्यातास्तेषां नामानि मे शृणुः ॥६॥
योऽयमिति ॥ सृष्टिसंबन्धः सृष्टया वाचकत्वेन संबन्धः । सृष्टिवाची हि प्रथमांशः ॥२-६॥
आग्नीध्राश्चाग्निबाहुश्च वपुष्मान्द्युतिमांस्तथा। मेधा मेधातिथिर्भव्यः सवनः पुत्र एव च ॥७॥
आग्नीध्र इति ॥ नवमस्य पुत्र इति संज्ञा ॥ ७ ॥
ज्योतिष्मान्दशमस्तेषां सत्यनामा सुतोऽभवत् । प्रियव्रतस्य पुत्रास्ते प्रख्याता बलवीर्यतः ॥ ८॥ . मेधाग्निबाहुपुत्रास्तु त्रयो योगपरायणाः । जातिस्मरा महाभागा न राज्याय मनो दधुः ॥९॥
निर्ममाः सर्वकालं तु समस्तार्थेषु वै मुने । चक्रुः क्रियां यथान्यायमफलाकांक्षिणो हि ते ॥१०॥
प्रियव्रतो ददौ तेषां सप्तानां मुनिसत्तम । सप्तद्वीपानि मैत्रेय विभज्य सुमहात्मनाम् ॥११॥
जम्बूद्वीपं महाभाग सोऽग्नीध्राय ददौ पिता । मेधातिथेस्तथा प्रादात्प्लक्षद्वीपं तथापरम् ॥१२ ।।
शाल्मले च वपुष्मन्तं नरेन्द्रमभिषिक्तवान् । ज्योतिष्मन्तं कुशद्वीपे राजानं कृतवान्प्रभुः ॥ १३ ॥ द्युतिमन्तं च राजानं क्रौञ्चद्वीपे समादिशत् । शाकद्वीपेश्वरं चापि भव्यं चक्रे प्रियव्रतः ॥ १४ ॥ पुष्कराधिपतिं चक्रे सवनं चापि स प्रभुः। जम्बूद्वीपेश्वरो यस्तु आग्नीध्रो मुनिसत्तम ॥१५॥
ज्योतिष्मानिति || दशमो ज्योतिष्मान् , सत्यनामा-यथार्थनामा, ज्योतिष्मत्त्वात् ॥८–१५॥
तस्य पुत्रा बभूवुस्ते प्रजापतिसमा नव । नाभिः किंपुरुषश्चैव हरिवर्ष इलावृतः ॥ १६ ॥
रम्यो हिरण्वान्षष्ठश्च कुरुर्भद्राश्व एव च । केतुमालस्तथैवान्यःसाधुचेष्टोऽभवन्नृपः ॥१७॥
तस्येति ॥ प्रजापतिसमा:-भृग्वादिनवप्रजापतिभिस्तुल्याः ॥ १६, १७ ॥
जम्बूद्वीपविभागांश्च तेषां विप्र निशामय । पित्रा दत्तं हिमाह्वं तु वर्षं नाभेस्तु दक्षिणम् ॥१८॥
हेमकूटं तथा वर्षं ददौ किंपुरुषाय सः । तृतीयं नैषधं वर्षं हरिवर्षाय दत्तवान् ॥ १९ ॥
इलावृत्ताय प्रददौ मेरुर्यत्र तु मध्यमः । नीलाचलाश्रितं वर्षं रम्याय प्रददौ पिता ॥ २० ॥
श्वेतं यदुत्तरं तस्मात्पित्रा दत्तं हिरण्वते ॥ २१ ॥
जंबूद्वीपेति ॥ हिमाह्वं भारतं, दक्षिणं हिमवतः हिमवद्धेमकूटनिषधैर्गिरिभिः स्वस्मात्स्वस्माद्दक्षिणानां नीलश्वेतशृंगिभिरुत्तरेषां वर्षाणामेतद्व्यपदेशः ॥ १८-२१ ॥
यदुत्तरं शृङ्गवतो वर्षं तत्कुरवे ददौ । मेरोः पूर्वेण यद्वर्षं भद्राश्वाय प्रदत्तवान् ॥ २२ ॥
गन्धमाधनवर्षं तु केतुमालाय दत्तवान् । इत्येतानि ददौ तेभ्यः पुत्रेभ्यः स नरेश्वरः ॥२३॥
वर्षेष्वेतेषु तान्पुत्रानभिषिच्य स भूमिपः । सालग्रामं महापुण्यं मैत्रेय तपसे ययौ ॥ २४ ॥
गन्धमादनवर्षं मेरोः पश्चिमम् ॥ २२–२४ ॥
यानि किंपुरुषादीनि वर्षाण्यष्टौ महामुने । तेषां स्वाभाविकी सिद्धिः सुखप्राया ह्ययत्नतः ॥ २५॥
यानीति || सिद्धिर्भोगानां स्वाभाविकी, न कृष्यादिसाध्या ॥ २५ ॥
विपर्ययो न तेष्वस्ति जरामृत्युभयं न च । धर्माधर्मौ न तेष्वास्तां नोत्तमाधममध्यमाः॥ २६॥
विपर्यय इति ॥ विपर्यय:-दुःखप्राचुर्यादि । जरामृत्युभयं-तत्क्लृप्तादायुरवधेः प्राक् । न धर्माधर्मौ वर्णाश्रमनियमाभावेन कर्माधिकाराभावात् ॥ २६ ॥
न तेष्वस्ति थुगावस्था(देहादि ह्वासलक्षणाः)क्षेत्रेष्वष्टसु सर्वदा। हिमाह्वयं तु वै वर्षं नाभेरासीन्महात्मनः।
तस्यर्षभोऽभवत्पुत्रो मेरुदेव्यां महाद्युतिः ॥ २७॥
ऋषभाद्भरतो जज्ञे ज्येष्ठः पुत्रशतस्य सः। कृत्वा राज्यं स्वधर्मेण तथेष्ट्वा विविधान्मखान् ॥२८॥
नेति । अत: पूर्वोक्ताद्धेतोः न युगावस्था ! सा हि धर्माधर्मह्वासवृद्धिकृता । देहादिह्वासलक्षणेत्येकश्चनपाठश्च ॥२७,२८॥
अभिषिच्य सुतं वीरं भरतं पृथिवीपतिः । तपसे स महाभागः पुलहस्याश्रमं ययौ ॥ २९ ॥
वानप्रस्थविधानेन तत्रापि कृतनिश्चयः । तपस्तेपे यथान्यायमियाज च महीपतिः ॥ ३० ॥
अभिषिच्येति ।। पुलहस्याश्रमं-सालग्रामम् ॥ २९, ३० ॥
तपसा कर्शितोऽत्यर्थं कृशो धमनिसन्ततः।नग्नो (विटं)वीटां मुखे कृत्वा वीराध्वानं ततो गतः॥ ३१॥
तपसेति ॥ (विटं) वीटी-कन्दुकम् । स चात्र मौनानशनव्रतस्थैः शिलामयः कार्यः । वीराध्वानं महाप्रस्थानम् ॥ ३१ ॥
ततश्च भारतं वर्षमेतल्लोकेषु गीयते । भरताय यतः पित्रा दत्तं प्रातिष्ठता वनम् ॥ ३२ ॥ सुमतिर्भरतस्याभूत्पुत्रः परमधार्मिकः। कृत्वा सम्यग्ददौ तस्मै राज्यमिष्टमखः पिता ॥३३॥ पुत्रसंक्रामितश्रीस्तु भरतः स महीपतिः। योगाभ्यासरतः प्राणान्सालग्रामेऽत्यजन्मने ॥ ३४ ॥
अजायत च विप्रोऽसौ योगिनां प्रवरे कुले। मैत्रेय तस्य चरितं कथयिष्यामि ते पुनः ॥ ३५ ॥
तत इति ॥ प्रातिष्ठता-प्रतिष्ठमानेन ॥ ३२-३५ ॥
सुमतेस्तेजसस्तस्मादिन्द्रद्युम्नो व्यजायत । परमेष्ठी ततस्तस्मात्प्रतिहारस्तदन्वयः ॥ ३६ ॥
सुमतेरिति ॥ तेजसः–वीर्यात् ॥ ३६ ॥
प्रतिहर्तेति विख्यात उत्पन्नस्तस्य चात्मजः । भवस्तस्मादथोद्गीथः प्रास्ताविस्तत्सुतो विभुः ॥ ३७॥ पृथुस्ततस्ततो नक्तो नक्तस्यापि गयः सुतः । नरो गयस्य तनयस्तत्पुत्रोऽभूद्विराट् ततः ॥ ३८ ॥
प्रतिहर्तेति ॥ भव इति कस्यचिन्नाम । भुवस्तस्मादिति च पाठः ॥ ३७,३८ ॥
तस्य पुत्रो महावीर्यो धीमांस्तस्मादजायत । महान्तस्तत्सुतश्चाभून्मनस्युस्तस्य चात्मजः ॥ ३९ ॥
त्वष्टा त्वष्टुश्च विरजो रजस्तस्याप्यभूत्सुतः । शतजिद्रजसस्तस्य जज्ञे पुत्रशतं मुने ॥ ४० ॥
तस्येति ॥ महान्त इति कस्यचिन्नाम ॥ ३९, ४० ॥
विष्वग्ज्योतिप्रधानास्ते यैरिमा वर्धिताः प्रजाः । तैरिदं भारतं वर्षं नवभेदमलङ्कृतम् ॥ ४१ ॥
विष्वग्ज्योतिप्रधाना इति ॥ ते-शतजित्पुत्राः ॥ ४१ ॥
तेषां वंशप्रसूतैश्च भुक्तेयं भारती पुरा । कृतत्रेतादिसंज्ञेय युगाख्या ह्येकसप्ततिः ॥ ४२ ॥
तेषामिति ॥ भारती-भरतस्येयम् भूरिति भारती। कृतत्रेतादिसंज्ञेययुगाख्या-कृतादिव्यपदेशैर्युगैराख्येया चतुर्युगैकसप्ततिरियं भारती भूर्भुक्ता । एकमन्वन्तरं भुक्तेत्यर्थः।एकसप्ततिमिति कालाध्वनोरिति द्वितीया प्राप्ता; एकसप्ततिरिति प्रथमाप्रयोग आर्षत्वात्साधुः । यद्वा युगैकसप्ततिमितो य: कालस्तं कालं भूर्भुक्तेति यत्तच्छब्दयोरध्याहारः । कृतत्रेतादिसर्गेण युगाख्यामेकसप्ततिमिति पाठे कृतादिस्वभावेन युगैराख्येयामेकसप्ततिं कालं भूर्भुक्तेति ॥ ४२ ॥ .
एष स्वायंभुवः सर्गो येनेदं पूरितं जगत् । वाराहे तु मुने कल्पे पूर्वमन्वन्तराधिपः ॥४३॥
एष इति । पूर्वमन्वन्तराधिपे स्वायंभुवे मनौ सति, एष:-एकसप्ततियुगावछिन्नः सर्गः, स्वायंभुवः खायंभुवस्य मनो: संबन्धी प्रियव्रतादिः ॥ ४३ ॥
इति श्रीविष्णुपुराणव्याख्याने श्रीविष्णुचित्तीये द्वितीयेंऽशे प्रथमोऽध्यायः ॥ १ ॥
इति श्रीभगवद्रामानुजपदान्तरंगश्रीविष्णुचित्तविरचिते श्रीविष्णुपुराणव्याख्याने श्रीविष्णुचित्तीये द्वितीयेंऽशे प्रथमोऽध्यायः ॥ १ ॥