श्रीविष्णुपुराणम्
तृतीयेऽशे प्रथमोऽध्यायः
मैत्रेयः-
कथिता गुरुणा सम्यग्भूसमुद्रादिसंस्थितिः । सूर्यादीनां च संस्थानं ज्योतिषां चातिविस्तरात् ॥१॥
देवादीनां तथा सृष्टिर्ऋषीणां चापि वर्णिता । चातुर्वर्ण्यस्य चोत्पत्तिस्तिर्यग्योनिगतस्य च ॥२॥ ध्रुवप्रह्लादचरितं विस्तराच्च त्वयोदितम् । मन्वन्तराण्यशेषाणि श्रोतुमिच्छाम्यनुक्रमात् ॥३॥ मन्वन्तराधिपांश्चैव शक्रदेवपुरोगमान् । भवता कथितानेताञ्छ्रोतुमिच्छाम्यहं गुरो ॥ ४ ॥
उक्त: प्रथमांशे प्रजासर्गः । द्वितीये तच्छेषः प्रियव्रतवंशः, प्रसक्तः सृष्टानामावासभूतो लोकसन्निवेशः।अथ तृतीयचतुर्थयोर्वैदिकः मनुब्यासादिप्रवर्तितो धर्मः, तत्स्थापको क्षत्रवंशश्च क्रमादुच्यते। तत्रांशद्वयोक्तार्थमनूद्य मन्वन्तराणि पृच्छति- कथित इति ॥ १-४॥
श्रीपराशरः-
अतीतानागतानीह यानि मन्वन्तराणि वै । तान्यहं भवतः सम्यक्कथयामि यथाक्रमम् ॥ ५ ॥ स्वाय्म्भुवो मनुः पूर्वं परः खारोचिषस्तथा । उत्तमस्तामसश्चैव रैवतश्चाक्षुषस्तथा ॥ ६॥
षडेते मनवोऽतीतास्सांप्रत तु रवेस्तुतः । वैवस्वतोऽयं यस्त्वेतत्सप्तमं वर्त्ततेऽन्तरम् ॥ ७॥
अतीतेति ॥ अतीतानागतयोरेव वर्तमानस्यान्तर्भावान्न पृथगुक्तिः । इह-वाराहे कल्पे ॥ ५-७॥
स्वायंभुवं तु कथितं कल्पादावन्तरं मया । देवास्तत्रर्षयश्चैव यथावत्कथिता मया ॥८॥
स्वायंभुवमिति ॥ स्वावायंभुवं कथितं प्रथमांशे । तत्र हि तस्य मनोः वंश्याः प्रियवताद्या उक्ताः । देवाश्च यामाख्या द्वादश, इन्द्रस्तु विश्वभुगाख्यः, * तेषामिन्द्रस्तदा ह्यासीद्विश्वभुक्प्रथमः स्मृतः, इति वायूक्तेः । ऋषयो मरीच्याद्याः ॥ ८॥
अत ऊर्ध्वं प्रवक्ष्यामि मनोस्स्वारोचिषस्य तु । मन्वन्तराधिपान्सम्यग्देवर्षिस्तत्सुतांस्तथा ॥९॥ पारावतास्सतुषिता देवास्स्वारोचिषेऽन्तरे । विपश्चित्तत्र देवेन्द्रो मैत्रेयासीन्महाबलः ॥१०॥ ऊर्जस्स्तम्भस्तथा प्राणो दत्तोग्नी ऋषभस्तथा । निरयश्च परीवांश्च तत्र सप्तर्षयोऽभवन् ॥११॥ चैत्रकिंपुरुषाद्याश्च सुतास्वारोचिषस्य तु । द्वितीयमेतद्व्याख्यातमन्तरं शृणु चोत्तमम् ॥ १२ ॥ तृतीयेऽप्यन्तरे ब्रह्मन्नुत्तमो नाम यो मनुः । सुशान्तिर्नाम देवेन्द्रो मैत्रेयासीत्सुरेश्वरः ॥१३॥
अत इति ॥ देवर्षीन्-मरीच्यादीन् । तत्सुतान्-मनुपुत्रान् ॥९-१३॥
सुधामानस्तथा सत्या जपानाथ प्रतर्दनाः। वशवर्तिश्च पञ्चैते गणा द्वादशकास्स्मृताः ॥ १४ ॥
सुधामान इति ॥ आद्यतृतीययोर्देवगणानां द्वादशकत्वोक्त्या द्वितीयेऽपि द्वादशकत्वं ज्ञेयम्, द्वितीये च तृतीये च द्वादशौ द्वौ गणौ स्मृतौ, इति वायूक्तेः ॥ १४ ॥
वसिष्ठतनया ह्येते सप्त सप्तर्षयोऽभवन् । अजः परशुदीप्ताद्यास्तथोत्तममनोस्सुताः ॥१५॥
तामसस्यान्तरे देवास्सुपारा हरयस्तथा । सत्याश्च सुधियश्चैव सप्तविंशतिका गणाः ॥१६॥
वसिष्टेति ॥ वसिष्ठतनया रजोगोत्राद्याः सप्तोक्ताः प्रथमांशे ॥ १५, १६ ॥
शिबिरिन्द्रस्तथा चासीच्छतयज्ञोपलक्षणः। सप्तर्षयश्च ये तेषां सप्त नामानि मे शृणु ॥१७॥
ज्योतिर्धामा पृथुः काव्यश्चैत्रोऽग्निर्धनकस्तथा। पीवरश्चर्षयो ह्येते सप्त तत्रापि चान्तरे ॥१८॥
नरः ख्यातिः केतुरूपो जानुजंघादयस्तथा। पुत्रास्तु तामसस्यासन्राजानस्सुमहाबलाः ॥ १९ ॥
पञ्चमे वापि मैत्रेय रैवतो नाम नामतः । मनुर्विभुश्च तत्रेन्द्रो देवांश्चात्रान्तरे शृणु ॥ २० ॥
अमिताभा भूतरया वैकुण्ठास्सुसमेधसः । एते देवगणास्तत्र चतुर्दश चतुर्दश ॥ २१ ॥
हिरण्यरोमा वेदश्रीरूर्ध्वबाहुस्तथावरः । वेदबाहुस्सुधामा च पर्जन्यश्च महामुनिः । एते सप्तर्षयो विप्र तत्रासन्रैवतेऽन्तरे ॥२२॥
बलबन्धुश्च संभाव्यस्सत्यकाद्याश्च तत्सुताः । नरेन्द्राश्च महावीर्या बभूवुर्मुनिसत्तम ॥२३॥
शिबिरिति ॥ शतयज्ञोपलक्षण इति ॥ शताश्वमेधकर्तृत्वेनोपलक्षितं सहस्राक्षत्ववज्रित्वादिचिह्नं सर्वेन्द्राणां समम् , * सर्वमन्वंतरेन्द्रास्ते विज्ञेयास्तुल्यलक्षणाः, इति वायूक्तेः ॥ १७-२३ ॥
स्वारोचिषश्चोत्तमश्च तामसो रैवतस्तथा। प्रियव्रतान्वया ह्येते चत्वारो मनवस्स्मृताः ॥२४॥
विष्णुमाराध्य तपसा स राजर्षिः प्रियव्रतः । मन्वन्तराधिपानेताल्लब्धच्वानात्मवंशजान् ॥२५॥
षष्ठे मन्वन्तरे चासीच्चाक्षुषाख्यस्तथा मनुः । मनोजवस्तथैवेन्द्रो देवानपि निबोध मे ॥२६॥
आप्याः प्रसूता भव्याश्च पृथुकाश्च दिवौकसः । महानुभावा लेखाश्च पञ्चैते ह्यष्टकागणाः ॥२७॥
सुमेधा विरजाश्चैव हविष्मानुत्तमो मधुः । अतिनामा सहिष्णुश्च सप्तासन्निति चर्षयः ॥ २८ ॥
ऊरुः पूरुश्शतद्युम्नप्रमुखास्सुमहाबलाः । चाक्षुषस्य मनोः पुत्राः पृथिवीपतयोऽभवन् ॥ २९ ॥
विवस्वतस्सुतो विप्र श्राद्धदेवो महाद्युतिः। मनुस्संवर्तते धीमान् सांप्रतं सप्तमेऽन्तरे ॥ ३० ॥
आदित्यवसुरुद्राद्या देवाश्चात्र महामुने । पुरन्दरस्तथैवात्र मैत्रेय त्रिदशेश्वरः ॥ ३१॥ वसिष्ठः काश्यपोऽथात्रिर्जमदग्निस्सगौतमः । विश्वामित्रभरद्वाजौ सप्त सप्तर्षयोsत्र तु ॥ ३२ ॥
इक्ष्वाकुश्च नृगश्चैव धृष्टः शर्यातिरेव च । नरिष्यन्तश्च विख्यातो नाभागोऽरिष्ट एव च ॥ ३३ ॥
करूषश्च पृषध्रश्च वसुमांल्लोकविश्रुतः । मनोर्वैवस्वतस्यैते नव पुत्रास्सुधार्मिकाः ॥ ३४ ॥
स्वारोचिष इति ॥ आदिसर्गे प्रथमषष्ठमन्वोरन्वयस्योक्तत्वादिह स्वारोचिषादिचतुष्कस्यान्वयमाह-प्रियव्रतान्वया इति ॥ २४-३४ ॥
विष्णुशक्तिरनौपम्या सत्त्वोद्रिक्ता स्थितौ स्थिता । मन्वन्तरेष्वशेषेषु देवत्वेनाधितिष्ठति ॥ ३५ ॥
विष्णुशक्तिरिति ॥ विष्णुशक्ति:-विष्णोरंशः । देवत्वेन मन्वादिजगद्रक्षकेण यज्ञादिदेवता– –रूपेणाधितिष्ठति, मन्वादीनिति शेषः ॥ ३५॥
अंशेन तस्या जज्ञेऽसौ यज्ञस्वायंभुवेऽन्तरे । आकृत्यां मानसो देव उत्पन्नः प्रथमेऽन्तरे ॥३६॥
ततः पुनस्स वै देवः प्राप्ते स्वरोचिषेऽन्तरे । तुषितायां समुत्पन्नो ह्यजितस्तुषितैस्सह ॥३७॥
औत्तमेऽप्यन्तरे देवस्तुषितस्तु पुनस्स वै । सत्यायामभवत्सत्यः सत्यैस्सह सुरोत्तमैः ॥३८॥
तामसस्यान्तरे चैव संप्राप्ते पुनरेव हि । हर्यायां हरिभिस्सार्द्धं हरिरेव बभूव ह ॥ ३९ ॥
रैवतेऽप्यन्तरे देवस्संभूत्यां मानसोऽभवत् । संभूतो रैवतैस्सार्द्धं देवैर्देववरो हरिः ॥ ४०॥
चाक्षुषे चान्तरे देवो वैकुण्ठः पुरुषोत्तमः । विकुण्ठायामसौ जज्ञे वैकुण्ठैर्दैवतैः सह ॥४१॥
मन्वन्तरेsत्र संप्राप्ते तथा वैवस्वते द्विज । वामनः काश्यपाद्विष्णुरदित्यां सम्बभूव ह ॥४२॥
त्रिभिः क्रमैरिमांल्लोकाञ्जित्वा येन महात्मना । पुरन्दराय त्रैलोक्यं दत्तं निहतकण्टकम् ॥४३॥
इत्येतास्तनवस्तस्य सप्त मन्वन्तरेषु वै । सप्तस्वेवाभवन्विप्र याभिः संवर्धिताः प्रजाः ॥४४॥
यस्माद्विष्टमिदं विश्वं तस्य शक्त्या महात्मनः। तस्मात्स प्रोच्यते विष्णुर्विशेर्धातोः प्रवेशनात् ॥४५॥
अंशेनेति ॥ तस्य-विष्णोरंशेन स्वायंभुवेऽन्तरे यज्ञो जज्ञे। तस्येति पुंल्लिंगनिर्देश: पाठान्तरे । कथं जझे इत्यत्राह-आकूत्यामिति ॥ ३६-४५ ॥
सर्वे च देवा मनवस्समस्तास्सप्तर्षयो ये मनुसूनवश्च । इन्द्रश्च योऽयं त्रिदशेशभूतो विष्णोरशेषास्तु विभूतयस्ताः ॥४६॥
विष्णुत्वमेव विवृणोति- सर्वे चेति ॥ ४६ ॥
इति श्रीपराशरमुनिविरचिते श्रीविष्णुपरत्वनिर्णायके श्रीमति विष्णुमहापुराणे तृतीयेऽशे प्रथमोऽध्यायः ॥ १ ॥
इति श्रीभगवद्रामानुजपदान्तरंगश्रीविष्णुचित्तविरचिते श्रीविष्णुपुराणव्याख्याने श्रीविष्णुचित्तीये तृतीयेऽशे प्रथमोऽध्यायः ॥ १ ॥