[highlight_content]

श्रीविष्णुपुराणम् Amsa 03 Ady 05

श्रीविष्णुपुराणम्

अथ पञ्मोऽध्यायः

     श्रीपराशर:-

यजुर्वेदतरोश्शाखास्सप्तविंशन्महामुनिः। वैशंपायननामाऽसौ व्यासशिष्यश्कार वै ॥१॥

शिष्येभ्यः प्रददौ ताश् जगृहुस्तेऽप्यनुक्रमात् ॥२॥

याज्ञवल्क्यस्तु तत्राभूद्ब्रह्मरातसुतो द्विज । शिष्यः परमधर्मज्ञो गुरुवृत्तिपरस्सदा ॥३॥

       यजुर्वेदतरोरिति ॥ सप्तविंशति यजुषः प्रधानशाखाः । ब्रह्माण्डोक्तः षडशीतिपक्षः तत्प्रतिशाखा-

-विवक्षया। ताश् काण्वादिशुक्लयजु पञ्दशकं संहत्येकशतमध्वर्युशाखाः आपस्तंबोक्तास्स्युः ॥१-३॥

ऋषिर्योऽद्य महामेरोः समाजे नागमिष्यति । तस्य वै सप्तरात्रात्तु ब्रह्महत्या भविष्यति ॥४॥

पूर्वमेवं मुनिगणैस्समयो यः कृतो द्विज । वैशंपायन एकस्तु तं व्यतिक्रान्तवांस्तदा ॥५॥

               स्वस्त्रीयं बालकं सोऽथ पदा स्पृष्टमताडयत् ॥ ६॥

          ऋषिरिति ॥ अद्य-अस्मिन् दिने ॥४-६॥

शिष्यानाह भोः शिष्या ब्रह्महत्यापहं व्रतम् । रध्वं मत्कृते सर्वे न विार्यमिदं तथा ॥७॥

अथाह याज्ञवल्क्यस्तु किमेभिर्भगवन् द्विजैः । क्लेशितैरल्पतेजोभिश्रिष्येऽहमिदं व्रतम् ॥८॥

ततः क्रुद्धो गुरुः प्राह याज्ञवल्क्यं महामुनिम् । मु्यतां यत्त्वयाऽधीतं मत्तो विप्रावमानक ॥९॥

निस्तेजसो वदस्येनान्यत्वं ब्राह्मणपुङ्गवान् । तेन शिष्येण नार्थोऽस्ति ममाज्ञाभङ्गकारिणा ॥१०॥

           यद्गुरुणा कार्यं तत्तस्य पुत्रशिष्यादिभिरपि कार्यमिति भावेनाह–शिष्यानिति ॥७-१०॥

याज्ञवल्क्यस्ततः प्राह भक्त्यैतत्ते मयोदितम् । ममाप्यलं त्वयाऽधीतं यन्मया तदिदं द्विज ॥११॥

           याज्ञवल्क्य इति । ममापि त्वया अलं–नार्थोऽस्तीत्यर्थः ॥ ११ ॥

श्रीपराशरः-

इत्युक्त्वा रुधिराक्तानि सरूपाणि यजूंषि सः । छर्दयित्वा ददौ तस्मै ययौ स्वे्छया मुनिः ॥१२॥

            इत्युक्त्वेति ॥ इत्युक्त्त्वा. सरूपाणि-मूर्तानि ॥ १२ ॥

यजूंष्यथ विसृष्टानि याज्ञवल्क्येन वै द्विज । जगृहुस्तित्तिरा भूत्वा तैत्तिरीयास्तु ते ततः ॥१३॥

         यजूंषीति॥ याज्ञवल्क्यव्यतिरिक्तशिष्याश्छर्दितं विप्ररूपेण गृहीतुमनुितमिति तित्तिरीभूता जगृहुः॥१३॥

ब्रह्महत्याव्रत ीर्णं गुरुणा ोदितैस्तु यैः । क्रुराध्वर्यवं ते तु रणान्मुनिसत्तम ॥ १४ ॥

    ब्रह्महत्येति ॥ ीर्णम्-रितम् ॥ अध्वर्यवः-यजुश्शाखाध्यायिनः। यजुश्शाखाध्ययनाद्वर्युत्वम् ॥१४॥

याज्ञवल्क्योऽपि मैत्रेय प्राणायामपरायणः । तुष्टाव प्रणतस्सूर्यं यजूंष्यभिलषंस्ततः ॥ १५ ॥

याज्ञवल्क्य:-

नमस्सवित्रे द्वाराय मुक्तेरमिततेजसे । ऋग्यजुस्सामभूताय त्रयीधाम्ने ते नमः ॥१६॥

          याज्ञवल्क्य इति ॥ यजूंषि वैशंपायनादधीतानि ॥१५,१६॥

नमोऽग्नीषोमभूताय जगतः कारणात्मने । भास्कराय परं तेजस्सौषुम्नरुि बिभ्रते ॥ १७ ॥

        नम इति । अग्नीषोमात्मत्वमातपवृष्टिहेतुत्वात्। कारणात्मने *यामिरादित्यस्तपति रश्मिमिः। इति प्रक्रियया। सौषुम्नं-सोमपोषकममृतम् ॥ १७॥

कलाकाष्ठानिमेषादिकालसंज्ञात्मने नमः। ध्येयाय विष्णुरूपाय परमाक्षररूपिणे ॥ १८ ॥

        कलेति ॥ कालसंज्ञात्मने-कालस्य संज्ञापनाय । कालज्ञानात्मन इति पाठः। परमाक्षरं-प्रणवः, ओमिति प्रस्तुत्य * एतत्परममक्षरम् * इति श्रुतेः ॥ १८॥

विभर्ति यस्सुरगणानाप्यायेन्दुं स्वरश्मिभिः । स्वधामृतेन पितृंस्तस्मै धृत्यात्मने नमः ॥१९॥

हिमांबुघर्मवृष्टीनां कर्ता भर्ता यः प्रभुः । तस्मै त्रिकालरूपाय नमस्सूर्याय वेधसे ॥ २० ॥

अपहन्ति तमो यश् जगतोऽस्य जगत्पतिः । सत्त्वधामधरो देवो नमस्तस्मै विवस्वते ॥२१॥

सत्कर्मयोग्यो न जनो नैवापः शुद्धिकारणम् । यस्मिन्ननुदिते तस्मै नमो देवाय भास्वते ॥२२॥

         बिभर्तीति ॥ धृत्यात्मने-धारयित्रे ॥ तृप्त्यात्मन इति पाठः ॥ १९-२२ ॥

स्पृष्टो यदंशुभिर्लोकः क्रियायोग्योऽभिजायते । पवित्रकारणात्माय तस्मै शुद्धात्मने नमः ॥ २३ ॥

         स्पृष्ट इति ॥ पवित्रकरणात्मने इति पाठः । पवित्रकरणात्मायेति पाठे अदन्तत्वमार्षम् ॥२३॥

नमस्सवित्रे सूर्याय भास्कराय विवखते । आदित्यायादिभूताय देवादीनां नमो नमः ॥ २४ ॥

          नम इति ॥ सविता-प्रेरकः । षृ प्रेरण इति धातोस्सवितेति रूपनिष्पत्तिः । सूर्यो जनकः ।  * सूयते रा इति निरुक्तिः । विवस्वान्-तमसो विनाशकः ॥ २४ ॥

हिरण्मयं रथं यस्य केतवोऽमृतवाजिनः । वहन्ति भूतानालोकक्षुषं तं नमाम्यहम् ॥ २५ ॥

श्रीपराशरः-

इत्येवमादिभिस्तेन स्तूयमानस्स वै रविः । वाजिरूपधरः प्राह व्रीयतामिति वाञ्छितम् ॥ २६ ॥

याज्ञवल्क्यस्तदा प्राह प्रणिपत्य दिवाकरम् । यजूंषि तानि मे देहि यानि सन्ति न मे गुरौ ॥२७॥

श्रीपराशरः-

एवमुक्तो ददौ तस्मै यजूंषि भगवान्रविः । अयातयामसंज्ञानि यानि वेत्ति न तद्गुरुः ॥ २८ ॥

यजूंषि यैरधीतानि तानि विप्रैर्द्विजोत्तम । वाजिनस्ते समाख्याताः सूर्योऽश्वस्सोऽभवद्यतः ॥२९॥

शाखाभेदास्तु तेषां वै दश पञ् वाजिनाम् । कण्वाद्यास्सुमहाभाग याज्ञवल्क्याः प्रकीर्तिताः॥३०॥

          हिरण्मयमिति ॥ हिरण्मयम्-अतिहितरमणीयतेजोमयम् । केतवः–प्रज्ञानरूपाः। अमृता:-नित्याः ॥२५-३०॥

इति श्रीपराशरमुनिविरिते श्रीविष्णुपरत्वनिर्णायके श्रीमति विष्णुमहापुराणे तृतीयेऽशे पंमोऽध्यायः ॥ ५ ॥

इति श्रीभगवद्रामानुजपदान्तरंगश्रीविष्णुित्तविरिते श्रीविष्णुपुराणव्याख्याने श्रीविष्णुित्तीये तृतीयांशे पंमोऽध्यायः ॥ ५ ॥

error: Content is protected !!