श्रीविष्णुपुराणम्
अथ पञ्चमोऽध्यायः
श्रीपराशर:-
यजुर्वेदतरोश्शाखास्सप्तविंशन्महामुनिः। वैशंपायननामाऽसौ व्यासशिष्यश्चकार वै ॥१॥
शिष्येभ्यः प्रददौ ताश्च जगृहुस्तेऽप्यनुक्रमात् ॥२॥
याज्ञवल्क्यस्तु तत्राभूद्ब्रह्मरातसुतो द्विज । शिष्यः परमधर्मज्ञो गुरुवृत्तिपरस्सदा ॥३॥
यजुर्वेदतरोरिति ॥ सप्तविंशति यजुषः प्रधानशाखाः । ब्रह्माण्डोक्तः षडशीतिपक्षः तत्प्रतिशाखा-
-विवक्षया। ताश्च काण्वादिशुक्लयजु पञ्चदशकं च संहत्येकशतमध्वर्युशाखाः आपस्तंबोक्तास्स्युः ॥१-३॥
ऋषिर्योऽद्य महामेरोः समाजे नागमिष्यति । तस्य वै सप्तरात्रात्तु ब्रह्महत्या भविष्यति ॥४॥
पूर्वमेवं मुनिगणैस्समयो यः कृतो द्विज । वैशंपायन एकस्तु तं व्यतिक्रान्तवांस्तदा ॥५॥
स्वस्त्रीयं बालकं सोऽथ पदा स्पृष्टमताडयत् ॥ ६॥
ऋषिरिति ॥ अद्य-अस्मिन् दिने ॥४-६॥
शिष्यानाह च भोः शिष्या ब्रह्महत्यापहं व्रतम् । चरध्वं मत्कृते सर्वे न विचार्यमिदं तथा ॥७॥
अथाह याज्ञवल्क्यस्तु किमेभिर्भगवन् द्विजैः । क्लेशितैरल्पतेजोभिश्चरिष्येऽहमिदं व्रतम् ॥८॥
ततः क्रुद्धो गुरुः प्राह याज्ञवल्क्यं महामुनिम् । मुच्यतां यत्त्वयाऽधीतं मत्तो विप्रावमानक ॥९॥
निस्तेजसो वदस्येनान्यत्वं ब्राह्मणपुङ्गवान् । तेन शिष्येण नार्थोऽस्ति ममाज्ञाभङ्गकारिणा ॥१०॥
यद्गुरुणा कार्यं तत्तस्य पुत्रशिष्यादिभिरपि कार्यमिति भावेनाह–शिष्यानिति ॥७-१०॥
याज्ञवल्क्यस्ततः प्राह भक्त्यैतत्ते मयोदितम् । ममाप्यलं त्वयाऽधीतं यन्मया तदिदं द्विज ॥११॥
याज्ञवल्क्य इति । ममापि त्वया अलं–नार्थोऽस्तीत्यर्थः ॥ ११ ॥
श्रीपराशरः-
इत्युक्त्वा रुधिराक्तानि सरूपाणि यजूंषि सः । छर्दयित्वा ददौ तस्मै ययौ च स्वेच्छया मुनिः ॥१२॥
इत्युक्त्वेति ॥ इत्युक्त्त्वा. सरूपाणि-मूर्तानि ॥ १२ ॥
यजूंष्यथ विसृष्टानि याज्ञवल्क्येन वै द्विज । जगृहुस्तित्तिरा भूत्वा तैत्तिरीयास्तु ते ततः ॥१३॥
यजूंषीति॥ याज्ञवल्क्यव्यतिरिक्तशिष्याश्छर्दितं विप्ररूपेण गृहीतुमनुचितमिति तित्तिरीभूता जगृहुः॥१३॥
ब्रह्महत्याव्रत चीर्णं गुरुणा चोदितैस्तु यैः । चक्रुराध्वर्यवं ते तु चरणान्मुनिसत्तम ॥ १४ ॥
ब्रह्महत्येति ॥ चीर्णम्-चरितम् ॥ अध्वर्यवः-यजुश्शाखाध्यायिनः। यजुश्शाखाध्ययनाद्वर्युत्वम् ॥१४॥
याज्ञवल्क्योऽपि मैत्रेय प्राणायामपरायणः । तुष्टाव प्रणतस्सूर्यं यजूंष्यभिलषंस्ततः ॥ १५ ॥
याज्ञवल्क्य:-
नमस्सवित्रे द्वाराय मुक्तेरमिततेजसे । ऋग्यजुस्सामभूताय त्रयीधाम्ने च ते नमः ॥१६॥
याज्ञवल्क्य इति ॥ यजूंषि वैशंपायनादधीतानि ॥१५,१६॥
नमोऽग्नीषोमभूताय जगतः कारणात्मने । भास्कराय परं तेजस्सौषुम्नरुचि बिभ्रते ॥ १७ ॥
नम इति । अग्नीषोमात्मत्वमातपवृष्टिहेतुत्वात्। कारणात्मने *यामिरादित्यस्तपति रश्मिमिः। इति प्रक्रियया। सौषुम्नं-सोमपोषकममृतम् ॥ १७॥
कलाकाष्ठानिमेषादिकालसंज्ञात्मने नमः। ध्येयाय विष्णुरूपाय परमाक्षररूपिणे ॥ १८ ॥
कलेति ॥ कालसंज्ञात्मने-कालस्य संज्ञापनाय । कालज्ञानात्मन इति च पाठः। परमाक्षरं-प्रणवः, ओमिति प्रस्तुत्य * एतत्परममक्षरम् * इति श्रुतेः ॥ १८॥
विभर्ति यस्सुरगणानाप्यायेन्दुं स्वरश्मिभिः । स्वधामृतेन च पितृंस्तस्मै धृत्यात्मने नमः ॥१९॥
हिमांबुघर्मवृष्टीनां कर्ता भर्ता च यः प्रभुः । तस्मै त्रिकालरूपाय नमस्सूर्याय वेधसे ॥ २० ॥
अपहन्ति तमो यश्च जगतोऽस्य जगत्पतिः । सत्त्वधामधरो देवो नमस्तस्मै विवस्वते ॥२१॥
सत्कर्मयोग्यो न जनो नैवापः शुद्धिकारणम् । यस्मिन्ननुदिते तस्मै नमो देवाय भास्वते ॥२२॥
बिभर्तीति ॥ धृत्यात्मने-धारयित्रे ॥ तृप्त्यात्मन इति च पाठः ॥ १९-२२ ॥
स्पृष्टो यदंशुभिर्लोकः क्रियायोग्योऽभिजायते । पवित्रकारणात्माय तस्मै शुद्धात्मने नमः ॥ २३ ॥
स्पृष्ट इति ॥ पवित्रकरणात्मने इति पाठः । पवित्रकरणात्मायेति पाठे अदन्तत्वमार्षम् ॥२३॥
नमस्सवित्रे सूर्याय भास्कराय विवखते । आदित्यायादिभूताय देवादीनां नमो नमः ॥ २४ ॥
नम इति ॥ सविता-प्रेरकः । षृ प्रेरण इति धातोस्सवितेति रूपनिष्पत्तिः । सूर्यो जनकः । * सूयते रा इति निरुक्तिः । विवस्वान्-तमसो विनाशकः ॥ २४ ॥
हिरण्मयं रथं यस्य केतवोऽमृतवाजिनः । वहन्ति भूतानालोकचक्षुषं तं नमाम्यहम् ॥ २५ ॥
श्रीपराशरः-
इत्येवमादिभिस्तेन स्तूयमानस्स वै रविः । वाजिरूपधरः प्राह व्रीयतामिति वाञ्छितम् ॥ २६ ॥
याज्ञवल्क्यस्तदा प्राह प्रणिपत्य दिवाकरम् । यजूंषि तानि मे देहि यानि सन्ति न मे गुरौ ॥२७॥
श्रीपराशरः-
एवमुक्तो ददौ तस्मै यजूंषि भगवान्रविः । अयातयामसंज्ञानि यानि वेत्ति न तद्गुरुः ॥ २८ ॥
यजूंषि यैरधीतानि तानि विप्रैर्द्विजोत्तम । वाजिनस्ते समाख्याताः सूर्योऽश्वस्सोऽभवद्यतः ॥२९॥
शाखाभेदास्तु तेषां वै दश पञ्च च वाजिनाम् । कण्वाद्यास्सुमहाभाग याज्ञवल्क्याः प्रकीर्तिताः॥३०॥
हिरण्मयमिति ॥ हिरण्मयम्-अतिहितरमणीयतेजोमयम् । केतवः–प्रज्ञानरूपाः। अमृता:-नित्याः ॥२५-३०॥
इति श्रीपराशरमुनिविरचिते श्रीविष्णुपरत्वनिर्णायके श्रीमति विष्णुमहापुराणे तृतीयेऽशे पंचमोऽध्यायः ॥ ५ ॥
इति श्रीभगवद्रामानुजपदान्तरंगश्रीविष्णुचित्तविरचिते श्रीविष्णुपुराणव्याख्याने श्रीविष्णुचित्तीये तृतीयांशे पंचमोऽध्यायः ॥ ५ ॥