श्रीविष्णुपुराणम्
अथ सप्तमोऽध्यायः
मैत्रेय:-
यथावत्कथितं सर्वं यत्पृष्टोऽसि मया गुरो । श्रोतुमिच्छाम्यहं त्वेकं तद्भवान्प्रब्रवीतु मे ॥१॥
सप्त द्वीपानि पातालवीथयश्च महामुने । सप्तलोकाश्च येऽन्तस्था ब्रह्माण्डस्यास्य सर्वतः ॥२॥
स्थूलैस्सूक्ष्मैस्तथा सूक्ष्मसूक्ष्मैस्सूक्ष्मतरैस्तथा । स्थूलात्स्थूलतरैश्चैव सर्वं प्राणिभिरावृतम् ॥३॥
अङ्गुलस्याष्टभागोऽपि न सोऽस्ति मुनिसत्तम । न सन्ति प्राणिनो यत्र कर्मबन्धनिबन्धनाः ॥४॥
सर्वे चैते वशं यान्ति यमस्य भगवन् किल । आयुषोऽन्ते तथा यान्ति यातनास्तत्प्रचोदिताः ॥५॥
यातनाभ्यः परिभ्रष्टा देवाद्यास्वथ योनिषु । जन्तवः परिवर्त्तन्ते शास्त्राणामेष निर्णयः ॥६॥
सोऽहमिच्छामि तच्छ्रोतुं यमस्य वशवर्तिनः । न भवन्ति नरा येन तत्कर्म कथयस्व मे ॥७॥
अथ श्रुत्याद्युक्तो धर्मो भगवदाराधनतयाऽनुष्ठितो निःश्रेयसायेत्येतदर्थं यमभटसंवादं प्रस्तौति यथावदिति ॥ १-७ ॥
श्रीपराशरः-
अयमेव मुने प्रश्नो नकुलेन महात्मना । पृष्टः पितामहः प्राह भीष्मो यत्तच्छृणुष्व मे ॥८॥
अयमिति ॥ अयमेव प्रश्नो नकुलेन भीष्मं प्रति पृष्टः ; अतस्स नकुलायाहेत्यन्वयः ॥ ८ ॥
भीष्म –
पुरा ममागतो वत्स सखा कालिङ्गको द्विजः । स मामुवाच पृष्टो वै मया जातिस्मरो मुनिः ॥९॥
स कालिङ्गको मुनिस्त्वया पृष्टमिममर्थं मया पृष्टो मां प्रत्युवाचेत्याह–पुरेति ॥ ९ ॥
तेनाख्यातमिदं सर्वमित्थं चैतद्भविष्यति । तथा च तदभूद्वत्स यथोक्तं तेन धीमता ॥ १०॥
स पृष्टश्च मया भूयः श्रद्दधानेन वै द्विजः । यद्यदाह न तदृष्टमन्यथा हि मया क्वचित् ॥११॥
स्वस्य तं प्रत्यस्यार्थस्य प्रश्नकारणं तस्य सत्यवादित्वमित्याह–तेनेति ॥ इदमित्थम् , इदानीं स देशान्तरे वर्तते, एतच्चेत्थं भविष्यति, इति व्यवहितं विप्रकृष्टं च तेन यथाऽऽख्यातं तत्तथाऽभूत् ॥ १०, ११ ॥
एकदा तु मया पृष्टमेतद्यद्भवतोदितम् । प्राह कालिङ्गको विप्रस्स्मृत्वा तस्य मुनेर्वचः ॥१२ ॥
एवं तस्य प्रत्ययितत्वेन त्वया पृष्टमेतदर्थरूपं मया पृष्टः प्रत्युवाचेत्याह-एकदेति ॥ किं प्रत्युवाचेत्यपेक्षायामाह–स्मृत्वेति ॥ १२ ॥
जातिस्मरेण कथितो रहस्यः परमो मम । यमकिङ्करयोर्योऽभूत्संवादस्तं ब्रवीमि ते ॥ १३ ॥
जातिस्मरेणेति ॥ तेन जातिस्मरेण यो यमकिंकरसंवादः कथितोऽभूत्तं संवादं तस्य मुनेर्वचस्स्मृत्वा ते ब्रवीमीत्यन्वयः ॥ १३ ॥
स्वपुरुषमभिवीक्ष्य पाशहस्तं वदति यमः किल तस्य कर्णमूले । परिहर मधुसूदनप्रपनान्प्रभुरहमन्यनृणां न वैष्णवानाम् ॥ १४ ॥
स्वपुरुषमिति ॥ स्वपुरुषमित्यादि कालिङ्गवचनम् । परिहरेत्यादि यमवचनम् । प्रभुभिः स्वप्रभावभङ्गस्थानं न प्रकाश्यमिति नीत्या विष्णुनामसूच्चैरुच्चारितेषु नारकिणोऽपि तच्छ्रवणादिना नरकान्मुच्येरन् तेन स्वाधिकारहानिरिति भीत्या च कर्णमूले कथनम् , ‘ राजदारान्मागाः’ इति वचनवद्रहसि कथनीयत्वाच्च । यमस्य वैष्णवेष्वप्रभुत्वे प्रमाणम्- * द्रवन्ति देत्याः प्रणमन्ति देवाः * प्रभवो भगवद्भक्ता मादृशानाम्” इत्यादि ॥ १४ ॥
अहममर(गणा)वरार्चितेन धात्रा यम इति लोकहिताहिते नियुक्तः ।हरिगुरुवशगोऽस्मि न स्वतन्त्रः प्रभवति संयमने ममापि विष्णुः ॥ १५ ॥
अत्र हेतुमाह – अहमिति ॥ धात्रा–ईश्वरेण, हिताहिते–हितप्रवर्तने अहितनिवर्तने च ॥ १५ ॥
कटकमकुटकर्णिकादिभेदैः कनकमभेदमपीष्यते यथैकम् । सुरपशुमनुजादिकल्पनाभिर्हरिरखिलाभिरुदीर्यते तथैकः ॥ १६ ॥
विष्णुत्वविवरणमुखेनाखिलैश्वर्यमेव दर्शयाते-कटकेति ॥ अभेदं–भेदरहितं, तादात्म्यवत् । यथाकारणभूतं कनकं कार्यभूतकटकादितादात्म्येऽपि एकमिष्यते । एवं कारणभूतो हरिः कार्यभूतसुरपशु- –मनुजादिभेदैः भिन्नोऽपि तदात्मभूत एक उदीर्यते । कारणत्वेन सर्वत्रैकस्यैव व्याप्य स्थितत्वात् स एवेश्वर इत्यर्थः ॥१६॥
क्षितितलपरमाणवोऽनिलान्ते पुनरपि यान्ति यथैकतां धरित्र्या ।
सुरपशुमनुजादयस्तथान्ते गुणकलुषेण सनातनेन तेन ॥ १७ ॥
अथ तस्य संहर्तृत्वमाह-क्षितितलेति ॥ अनिलान्ते–उत्थापकानिलावसाने, कलुषं–कालुष्यम्, ईश्वरसंकल्पकृतगुणवैषम्येणोत्थापितास्सुरादयस्तस्य गुणकालुष्यस्य नाशे तमःशरीरेण तेन सनातनेनैकतां यान्ति ॥१७॥
हरिममर(गणा)वरार्चिताङ्घ्रिपद्मं प्रणमति यः परमार्थतो हि मर्त्यः | तमपगतसमस्तपापबन्धं व्रज परिहृत्य यथाग्निमाज्यसिक्तम् ॥ १८॥
इति यमवचनं निशम्य पाशी यमपुरुषस्तमुवाच धर्मराजम् ।
कथय मम विभो समस्तधातुर्भवति हरेः खलु यादृशोऽस्य भक्तः ॥ १९ ॥
यम :-
न चलति निजवर्णधर्मतो यस्सममतिरात्मसुहृद्विपक्षपक्षे ।
न हरति न च हन्ति किञ्चिदुच्चैः स्थितमनसं तमवेहि विष्णुभक्तम् ॥ २० ॥
हरिमिति ॥ परमार्थतः-निरुपाधिकम् । अग्निदृष्टान्तो भक्तसंसर्गिणामापि परिहारार्थः ॥१८-२०॥
कलिकलुषमलेन यस्य नात्मा विमलमतेर्मलिनीकृतस्तमेनम् । मनसि कृतजनार्दनं मनुष्यं सततमवेहि हरेरतीव भक्तम् ॥ २१ ॥
कनकमपि रहस्यवेक्ष्य बुद्ध्या तृणमिव यस्समवैति वै परस्वम् । भवति च भगवत्यनन्यचेताः पुरुषवरं तमवेहि विष्णुभकम् ॥ २२ ॥
कलिकलुषेति ॥ कलिकलुषं-कलिकालुष्यं रागद्वेषादि, तदेव मलम् ॥ २१, २२ ॥
स्फटिकगिरिशिलामलः क्व विष्णुर्मनसि नृणां क्व च मत्सरादिदोषः । न हि तुहिनमयूखरश्मिपुञ्जे भवति हुताशनदीप्तिजः प्रतापः ॥ २३ ॥
स्फटिकेति ॥ सकलदोषप्रतिभटे कल्याणगुणात्मके भगवति मनसि स्थिते नृणां मत्सरादिदोषो न भवतीत्यर्थः । न हीत्यादि । वसतीति शेषः ॥ २३ ॥
विमलमतिरमत्सरः प्रशान्तश्शुचिचरितोऽखिलसत्त्वमित्रभूतः । प्रियहितवचनोऽस्तमानमायो वसति सदा हृदि तस्य वासुदेवः ॥ २४ ॥
विमलमतिरिति ॥ यस्य हदि वासुदेवः स निरस्तनिखिलदोष: कल्याणगुणयुक्तश्च भवतीत्यर्थः। मान:गर्वः, माया-शाठ्यम् ॥ २४ ॥
वसति हृदि सनातने च तस्मिन्भवति पुमाञ्जगतोऽयं सौम्यरूपः । क्षितिरसमतिरम्यमात्मनोऽन्तः कथयति चारुतयैव सालपोतः ॥ २५ ॥
यमनियमविधूतकल्मषाणामनुदिनमच्युतसक्तमानसानाम् । अपगतमदमानमत्सराणां व्रज भट दूरतरेण मानवानाम् ॥ २६ ॥
भगवध्यानपरो भक्तश्चाक्षुषेण सौम्यत्वादिगुणेन ज्ञातुं शक्यं इत्याह–वसतीति ॥ सौम्यरूपः—स्तब्धोऽस्युत तमादेशमप्राक्ष्यः, * ब्रह्मविद इव सौम्य ते मुखं भाति * इत्यादिवत् । बालसालतरुरात्मनश्चारुतयैव क्षितेरन्तस्थमतिरम्यं रसं सारं सूचयति ॥ २५, २६ ॥
हृदि यदि भगवाननादिरास्ते हरिरसिशङ्खगदाधरोऽव्ययात्मा ।
तदघमघविघातकर्तृभिन्नं भवति कथं सति चान्धकारमर्के ॥ २७ ॥
हृदीति ॥ तदघं–ध्यातुः पापम् अघविघातकर्त्रा भगवता भिन्नं–विदीर्णं भवति । अर्के सत्यपि कथमन्धकारम् ? ॥ २७ ॥
हरति परधनं निहन्ति जन्तून्वदति तथाऽनृतनिष्ठुराणि यश्च । अशुभजनितदुर्मदस्य पुंसः कलुषमतेर्हृदि तस्य नास्त्यनन्तः ॥ २८ ॥
परहिंसादिना दोषेणाभक्तस्य हृदि भगवदसन्निधिर्ज्ञातुं शक्यं इत्याह–हरतीत्यादिचतुर्भिः॥ हरतीति ॥ निष्ठुराणि-परुषाणि ॥२८॥
न सहति एरसंपदं विनिन्दां कलुषमतिः कुरुते सतामसाधुः। न यजति न ददाति यश्च सन्तं मनसि न तस्य जनार्दनोऽधमस्य ॥२९॥
नेति ॥ न यजति सन्तं–विष्णुं नार्चयति, न ददाति तद्भक्ताय ॥ २९॥
परमसुहृदि बान्धवे कलत्रे सुततनयापितृमातृभृत्यवर्गे । शठमतिरुपयाति योऽर्थतृष्णां तमधमचेष्टमवेहि नास्य भक्तम् ॥ ३० ॥
परमेति ॥ अवेहि नास्य भक्तमिति भक्तपदेन नञः संबन्धः । अभक्तमवेहीत्यर्थः ॥ ३० ॥
अशुभमतिरसत्प्रवृत्तिसक्तस्सततमनार्यकुशीलसङ्गमत्तः । अनुदिनकृतपापबंधयुक्तः पुरुषपशुर्न हि वासुदेवभक्तः ॥ ३१ ॥
अशुभमतिरिति । अनार्यम्–अमङ्गलं, कुशीलं–दुःशीलं, सङ्गो विषयसङ्गः ; तैर्मत्तः पुरुषपशु:–अविवेकी । अनार्यकुशीलसङ्गमत्त इति पाठः ॥ ३१॥
सकलमिदमहं च वासुदेवः परमपुमान्परमेश्वरस्स एकः । इति मतिरचला भवत्यनन्ते हृदयगते व्रज तान्विहाय दूरात् ॥ ३२॥
भक्तस्य लक्षणान्तरमाह-सकलमिति ॥ ३२ ॥
कमलनयन वासुदेव विष्णो धरणिधराच्युत शंखचक्रपाणे । भव शरणमितीरयन्ति ये वै त्यज भट दूरतरेण तानपापान् ॥ ३३॥
कमलनयनेति ॥ ईरयन्तीति वचनादर्थज्ञानमन्तरेणापि नामोच्चारणमात्रमेव पापहरमिति सूचितम् । ईरणं श्रवणादेरप्युपलक्षणम् ॥ ३३ ॥
वसति मनसि यस्य सोऽव्ययात्मा पुरुषवरस्य न तस्य दृष्टिपाते।
तव गतिरथ वा ममास्ति चक्रप्रतिहतवीर्यबलस्य सोsन्यलोक्यः ॥ ३४ ॥
वसतीति ॥ यस्य मनसि हरिर्वसति तस्य याबद्दृष्टिपातं चक्रं परिभ्रमति, अतस्तद्दृष्टिपाते तत्प्रतिहतवीर्यबलस्य तव मम वा गतिर्नास्ति । स त्वन्यलोक्यः–अन्यलोकार्हः, न त्वस्मल्लोकार्हः, * न खलु भागवता यमविषयं गच्छन्तीति वचनात् ॥ ३४॥
कालिङ्गः-
इति निजभटशासनाय देवो रवितनयस्स किलाह धर्मराजः ।
मम कथितमिदं च तेन तुभ्यं कुरुवर सम्यगिदं मयाऽपि चोक्तम् ॥ ३५ ॥
भीष्म:-
नकुलैतन्ममाख्यातं पूर्वं तेन द्विजन्मना । कलिङ्गदेशादभ्येत्य प्रीतेन सुमहात्मना ॥ ३६ ॥
मयाऽप्येतद्यथान्यायं सम्यग्वत्स तवोदितम् । यथा विष्णुमृते नान्यत्त्राण संसारसागरे ॥ ३७ ॥
इतीति ॥ तेन–यमभटेन ॥ ३५-३७ ॥
किङ्कराः पाशदण्डाश्च न यमो न च यातनाः । समर्थास्तस्य यस्यात्मा केशवालम्बनस्सदा ॥ ३८॥
श्रीपराशरः-
एतन्मुने समाख्यातं गीतं वैवस्वतेन यत् । त्वत्प्रश्नानुगतं सम्यक्किमन्यच्छ्रोतुमिच्छसि ॥ ३९ ॥
किङ्करा इति ॥ यस्यात्मा केशवालम्बन इत्यात्मनिवेदनोक्तिः। *श्रवण कीर्तनं विष्णोः स्मरणं पादसेवनम् । अर्चनं वन्दनं दास्यं सख्यमात्मनिवेदनम् ॥ इति भक्तेर्नवविधत्वोक्तेः । एवमुक्तश्रवणादिनवविधान्तरंगा वक्ष्यमाणसदाचारोपलक्षणा भगवदेकचित्ततास्वरूपलक्षणा भगवति निरूपाधिकप्रीतिरूपा भक्तिरेव यमवश्यत्वनिवारिकेत्याध्यायार्थः । अथवा अस्मिन् अध्याये जातिस्मरो नाम कश्चिन्मुनिः, तदुक्तिमूला कालिङ्गोक्ति: भीष्मेण नकुलायोच्यते । तत्रेयं योजना–पुरा ममेत्यादि मामुवाचेत्यन्तं भीष्मवचनम् । पृष्टो वै मयेत्यारभ्य अन्यथा हि मया क्वचिदित्यन्तं कालिङ्गवाक्यं, तत्र वत्सेति भीष्मस्य संबोधनम् । द्विजो जातिस्मरः । एकादा त्विति श्लोको भीष्मवाक्यम् । जातिस्मरेण कथित इत्यादि मयापि चोक्तमित्यन्तं कालिङ्गवाक्यम् । मम कथितमिदं च तेनेत्यत्र तच्छब्देन जातिस्मरस्य परामर्शः ॥ ३८, ३९ ॥
इति श्रीपराशरमुनिविरचिते श्रीविष्णुपरत्वनिर्णायके श्रीमति विष्णुमहापुराणे तृतीयांशे सप्तमोऽध्यायः ॥ ७॥
इति श्रीभगवद्रामानुजपदान्तरंगश्रीविष्णुचित्तविरचिते विष्णुपुराणव्याख्याने श्रीविष्णुचित्तीये तृतीयांशे सप्तमोऽध्यायः ॥ ७॥