श्रीविष्णुपुराणम्
अथ दशमोऽध्यायः
सगरः –
कथितं चातुराश्रम्यं चातुर्वर्ण्यक्रियास्तथा । पुंसः क्रियामहं श्रोतमिच्छामि द्विजसत्तम ॥१॥
नित्यनैमित्तिकाः काम्याः क्रियाः पुंसामशेषतः । समाख्याहि भृगुश्रेष्ठ सर्वज्ञो ह्यसि मे मतः॥२॥
कथितमिति ॥ पुसः क्रियां— षोडशसंस्काररूपाम् । गर्भाधानपुंसवनसीमन्तोन्नयन– –विष्णुबलिजातकर्मनामकरणोपनिष्क्रमणान्नप्राशनचूडोपनयनवेदव्रतचतुष्टयसमावर्तनविवाहाः षोडशसंस्काराः ॥ १,२ ॥
और्वः —
यदेतदुक्तं भवता नित्यनैमित्तिकाश्रयम् । तदहं कथयिष्यामि शृणुष्वैकमना मम ॥३॥
यदेतदिति ॥ नित्यनैमित्तिकाश्रयमिति काम्यस्याप्युपलक्षणम् ॥ ३ ॥
जातस्य जातकर्मादिक्रियाकाण्डमशेषतः । पुत्रस्य कुर्वीत पिता श्राद्धं चाभ्युदयात्मकम् ॥ ४॥
युग्मांस्तु प्राङ्मुखान्विप्रान्मोजयेन्मनुजेश्वर ।यथा तृप्तिस्तथा कुर्याद्दैवं पित्र्यं द्विजन्मनाम् ॥५॥
जातस्येति ॥ जातकर्मग्रहणमाधानपुंसवनादीनामप्युपलक्षणम् ॥ ४, ५॥
दध्ना यवैस्सबदरैर्मिश्रान्पिण्डान्मुदा युतः। नांदीमुखेभ्यस्तीर्थेन दद्याद्दैवेन पार्थिव ॥६॥
दध्नेति ॥ नान्दी-उत्सवः, तत्प्रधानां नान्दीमुखाः । देवेन-कराग्रेण ॥ ६॥
प्राजापत्येन वा सर्वमुपचारं प्रदक्षिणम् । कुर्वीत तत्तथाऽशेषवृद्धिकालेषु भूपते ॥ ७॥
प्राजापत्येनेति ॥ प्राजापत्येन-कनिष्ठिकाया मूलेन। तदुक्तम् * निष्ठदेशिन्यंगुष्ठमूलान्यग्रं करस्य तु प्रजापतिपितृब्रह्मदैवतीर्थान्यनुक्रमात् ॥ इति मनुः। वृद्धिकाला:-कन्यापुत्रविवाहेत्यत्र वक्ष्यमाणाः ॥ ७ ॥
ततश्च नाम कुर्वीत पितैव दशमेऽहनि । देवपूर्व नराख्यं हि शर्मवर्मादिसंयुतम् ॥ ८॥
शर्मेति ब्राह्मणस्योक्तं वर्मेति क्षत्त्रसंश्रयम् । गुप्तदासात्मकं नाम प्रशस्तं वैश्यशूद्रयोः ॥९॥
तत इति ॥ दशमेऽहनीति स्मृत्युक्तकालोपलक्षणम् । *अहन्येकादशे नाम* नामधेयं दशम्यां च केचिदिच्छन्ति पार्थिव । द्वादश्यामथ वा राज्यां मासे पूर्णे तथाऽपरे ॥ इति च स्मृतेः। देवपूर्वं – *कुल देवतानामसंबद्धं नाम कुर्यात्* इति शंखोक्तेः । नराख्यं–पुंवाचि, शर्मवर्मादिसंयुतम्–शर्मवर्मगुप्तदासयुक्तं यन्नाम, यथा—विष्णुशर्मा इन्द्रवर्मा चन्द्रगुतः हरिदास इति । देवशब्दः ऋषिपित्रादिस्वपूज्यवाची वा ॥ ८,९ ॥
नार्थहीनं न चाशस्तं नापशब्दयुतं तथा । नामंगल्यं जुगुप्सावन्नाम कुर्यात्समाक्षरम् ॥ १० ॥
नार्थहीनमिति ॥ अशस्तम्-अश्लीलं, व्रीडाकरम् ॥१०॥
नातिदीर्घं नातिह्रस्वं नातिगुर्वक्षरान्वितम् । सुखोच्चार्यं तु तन्नाम कुर्याद्यत्प्रवणाक्षरम् ॥ ११ ॥
नेति ॥ नातिदीर्घं-द्व्यक्षरं चतुरक्षरं वा । प्रवणाक्षरं-सुसन्धिलघूत्तरम् ॥ ११ ॥
ततोऽनन्तरसंस्कारसंस्कृतो गुरुवेश्मनि । यथोक्तविधिमाश्रित्य कुर्याद्विद्यापरिग्रहम् ॥ १२ ॥
तत इति ॥ अनंतराः-उपनिष्क्रमणाद्युपनयनान्ताः ॥ १२ ॥
गृहीतविद्यो गुरवे दत्त्वा च गुरुदक्षिणाम् । गार्हस्थ्यमिच्छन्भूपाल कुर्याद्दारपरिग्रहम् ॥१३॥
गृहीतेति ॥ गुरुदक्षिणां-गुरुत्वनिमित्तां दक्षिणाम् । उपकुर्वाणस्तु गृहीतविद्यः समावृत्य गृही स्यात् , वैखानसो, यतिर्वा, स्यात् ॥ १३ ॥
ब्रह्मचर्येण वा कालं कुर्यात्संकल्पपूर्वकम् । गुरोश्शुश्रूषणं कुर्यात्तत्पुत्रादेरथापि वा ॥ १४ ॥
वैखानसो वाऽपि भवेत्परिव्राडथ वेच्छया। पूर्वसंकल्पितं यादृक् तादृक्कुर्यान्नराधिप ॥ १५ ॥
ब्रह्मचर्येणेति ॥ नैष्ठिकः सन् ब्रह्मचर्याश्रमेण वा यावदायुः कालं नयेत् ॥ किं च यावज्जीवमयमेव ममाश्रम इति पूर्वं संकल्पितं चेत्तत्रैव तिष्ठेत् । न त्वाश्रमान्तरं गच्छेत् । तत्रापि विरक्तौ सत्यां यतिः स्यादेव, न स्वाश्रमान्तरगामी, * यदहरेव विरज्येत्तदहरेव प्रवजेत् * इति श्रुतेः ॥ १४,१५॥
वर्षैरेकगुणां भार्यामुद्वहेत्त्रिगुणस्स्वयम् । नातिकेशामकेशां वा नातिकृष्णां न पिङ्गलाम् ॥ १६ ॥
निसर्गतोऽधिकाङ्गां वा न्यूनाङ्गामपि नोद्वहेत्। नाविशुद्धां सरोमां वाऽकुलजां वाऽपि रोगिणीम् ॥१७॥
वर्षैरिति ॥ एकगुणामिति यवीयसीत्वोपलक्षणम् । * अष्टवर्षा भवेत्कन्या नववर्षा तु रोहिणी । दशवर्षा भवेद्गौरी अत ऊर्ध्वं रजस्वला * इति कन्यायाः दशवर्षात्परमविवाह्यत्वस्मरणात् , * असपिण्डां यवीयसीम् इति स्मृतेश्च ॥ १६, १७ ॥
न दुष्टां दुष्टवाक्यां वा व्यङ्गिनीं पितृमातृतः । न श्मश्रुव्यञ्जनवतीं न चैव पुरुषाकृतिम् ॥१८॥
न घर्घरस्वरां क्षामां तथा काकस्वरां न च । नानिबंधेक्षणां तद्वद्वृत्ताक्षीं नोद्हहेद्बुधः ॥ १९ ॥
यस्वाश्च रोमशे जङ्घे गुल्फौ यस्यास्तथोन्नतौ। गण्डयोः कूपरौ यस्या हसन्त्यास्तां न चोद्वहेत् ॥२०॥
नातिरूक्षच्छविं पाण्डुकरजामरुणेक्षणाम् । आपीनहस्तपादां च न कन्यामुद्वहेद्बुधः ॥ २१ ॥
न दुष्टामिति ॥ व्यङ्गिनीमिति। व्यङ्गिनीं-निन्द्याम् । व्यङ्गमातापितृजां, व्यंगाख्यत्वग्दोषमातापितृजां वा । श्मश्रुरेव व्यञ्जनं पुंस्त्वचिह्नम् ॥ १८-२१ ॥
न वामनां नातिदीर्घां| नोद्वहेत्संहतभ्रुवम् । न चातिच्छिद्रदशनां न करालमुखीं नरः ॥ २२ ॥
न वामनामिति ॥ करालं–दन्तुरम् ॥ २२ ॥
पञ्चमीं मातृपक्षाच्च पितृपक्षाच्च सप्तमीम् । गृहस्थश्चोद्वहेत्कन्यां न्यायेन विधिना नृप ॥ २३ ॥
पञ्चमीमिति ॥ स्वमातुः प्रपितामहस्य कूटस्थस्य पञ्चमस्य सन्तानान्तरजा तावत्सङ्ख्य- –जनव्यवहिता कन्या मातृपक्षात्पञ्चमी। तथा वरप्रपितामहस्य कूटस्थस्य सप्तमस्य सन्तानान्तरजाता तावरसङ्ख्यजनव्यवहिता कन्या पितृपक्षात्सप्तमी । इदं च पञ्चमीसप्तमीभ्यामर्वाङ् निषेधपरम् । तयोर्न विवाहविधिपरम् । *पंचमात्सप्तमादूर्ध्वं मातृतः पितृतस्तथा* इति स्मृतेः ॥ २३॥
बाह्मो दैवस्तथैवार्षः प्राजापत्यस्तथासुरः । गान्धर्वराक्षसौ चान्यौ पैशाचश्चाष्टमो मतः ॥२४॥
एतेषां यस्य यो धर्मो वर्णस्योक्तो महर्षिभिः । कुर्वीत दारग्रहणं तेनान्यं परिवर्जयेत् ॥ २५ ॥
सधर्मचारिणीं प्राप्य गार्हस्थ्यं सहितस्तया । समुद्वहेद्ददात्येतत्सम्यगूढं महाफलम् ॥ २६ ॥
ब्राह्म इति॥ ब्राह्मादिविवाहानां स्वरूपं स्मृतिषु द्रष्टव्यम् ॥ २४-२६ ॥
इति श्रीपराशरमुनिविरचिते श्रीविष्णुपरत्वनिर्णायके श्रीमति विष्णुमहापुराणे तृतीयांशे दशमोऽध्यायः ॥ १०॥
इति श्रीभगवद्रामानुजपदान्तरंगश्रीविष्णुचित्तविरचिते श्रीविष्णुपुराणव्याख्याने इति श्रीविष्णुचित्तीये विष्णुपुराणव्याख्याने तृतीयांशे दशमोऽण्यायः
॥ १०॥