श्रीविष्णुपुराणम्
एकादशोऽध्यायः
सगरः-
गृहस्थस्य सदाचारं श्रोतुमिच्छाम्यहं मुने। लोकादस्मात्परस्माच्च यमातिष्ठन्न हीयते ॥ १ ॥
और्वः —
श्रूयतां पृथिवीपाल सदाचारस्य लक्षणम् । सदाचारवता पुंसा जितौ लोकावुभावपि ॥ २ ॥
साधवः क्षीणदोषास्तु सच्छब्दः साधुवाचकः । तेषामाचरणं यत्तु सदाचारस्स उच्यते ॥ ३ ॥
सप्तर्षयोऽध मनवः प्रजानां पतयस्तथा । सदाचारस्य वक्तारः कर्तारश्च महीपते ॥ ४ ॥
॥१-४॥
ब्राझे मुहूर्ते चोत्थाय मनसा मतिमान्नृप । प्रबुद्धश्चिन्तयेद्धर्ममर्थं चाप्यविरोधिनम् ॥ ५ ॥
अपीडया तयोः काममुभयोरपि चिन्तयेत् । दृष्टादृष्टाविनाशाय त्रिवर्गे समदर्शनः ॥ ६ ॥
परित्यजेदर्थकामौ धर्मपीडाकरौ नृप । धर्ममप्यसुखोदर्कं लोकविद्विष्टमेव च ॥ ७॥
ब्राह्म इति ॥ ब्राह्मस्सूर्योदयात्प्राक् तृतीयो मुहूर्तः ॥ ५-७ ॥
ततः काल्यं समुत्थाय कुर्यान्मैत्रं नरेश्वर ॥ ८ ॥
तत्र इति ॥ मैत्रं-मित्रदैवत्यं पायुकृत्यं मलोत्सर्गादिकम् ॥ ८॥
नैर्ऋत्यामिषुविक्षेपमतीत्याभ्यधिकं भुवः । दूरादावसथान्मूत्रं पुरीपं च विसर्जयेत् ॥ ९ ॥
पादावनेजनोच्छिष्टे प्रक्षिपेन्न गृहांगणे ॥ १० ॥
नैर्ऋत्यामिति ॥ नैर्ऋत्यां दिशि ग्रामात् , तदसंभवे स्वासथात् दूरे ॥ ९,१० ॥
आत्मच्छायां तरुच्छायां गोसूर्याग्न्यनिलांस्तथा । गुरुद्विजादींस्तु बुधो नाधिमेहेत्कदाचन ॥११॥
न कष्टे सस्यमध्ये वा गोव्रजे जनसंसदि । न वर्त्मनि न नद्यादितीर्थेषु पुरुषर्षभ ॥ १२ ॥
नाप्सु नैवांभसस्तीरे श्मशाने न समाचरेत् । उत्सर्गं वै पुरीषस्य मूत्रस्य च विसर्जनम् ॥ १३ ॥
आत्मच्छायामिति ॥ आत्मच्छायामित्यादि प्रतीतिशेषः ॥ ११-१३ ॥
उदङ्मुखो दिवा मूत्रं विपरीतमुखो निशि । कुर्वीतानापदि प्राज्ञो मूत्रोत्सर्गं च पार्थिव ॥ १४ ॥
तृणैरास्तीर्य वसुधां वस्त्रप्रावृतमस्तकः । तिष्ठेन्नातिचिरं तत्र नैव किंञ्चिदुदीरयेत् ॥ १५ ॥
उदङ्मुख इति ॥ दिवेति संध्ययोरुपलक्षणम् – * दिवासंध्यासु कर्णस्थयज्ञसूत्र उदङ्मुखः * इति स्मृतेः ॥ १४, १५॥
वल्मीकमूषिकोत्खातां मृदं नान्तर्जलात्तथा । शौचावशिष्टां गेहाच्च नादद्याल्लेपसंभवाम् ॥ १६ ॥
अणुप्राप्युपपन्नां च हलोत्खातां च पार्थिव । परित्यजेन्मृदो ह्येतास्सकलाश्शौचकर्मणि ॥ १७ ॥
वल्मीकेति ॥ लेपसंभवां–मूत्रादिलेपगताम् ॥ १६,१७ ॥
एका लिङ्गे गुदे तिस्रो दश वामकरे नृप । हस्तद्वये च सप्त स्युर्मुदश्शौचोपपादिकाः ॥ १८ ॥
अच्छेनागंधफेनेन जलेनाबुद्बुदेन च । आचामेच्च मृदं भूयस्तथा दद्यात्समाहितः ॥ १९ ॥
निष्पादिताङ्घ्रिशौचस्तु पादावभ्युक्ष्य वै पुनः । त्रिःपिबेत्सलिलं तेन तथा द्विः परिमार्जयेत् ॥ २० ॥
शीर्षण्यानि ततः स्वानि मूर्धानं च समालभेत् । बाहू नाभिं च तोयेन हृदयं चापि संस्पृशेत् ॥ २१ ॥
स्वाचान्तश्च ततः कुर्यात्पुमान्केशप्रसाधनम् । आदर्शाञ्जनमाङ्गल्यं दुर्वाद्यालंभनानि च ॥ २२ ॥
ततस्स्ववर्णधर्मेण वृत्त्यर्थं च धनार्जनम् । कुर्वीत श्रुतिसंपन्नो यजेच्च पृथिवीपते ॥ २३ ॥
एकेति ॥ पूर्वं गंधलेपक्षयकरं शौचं कृत्वा अथैकादिसङ्ख्यं मृच्छौचम्, अथ पादशौचमथाचमनमथ संध्यावंदनादिकमिति क्रमः ॥ १८-२३ ॥
सोमसंस्था हविस्संस्थाः पाकसंस्थाश्च संस्थिताः । धने यतो मनुष्याणां यतेतातो धनार्जने ॥ २४ ॥
सोमसंस्था इति ॥ सोमसंस्थादयो गौतमोक्ताः औपासनाष्टकापार्वणश्राद्धश्रावण्याग्रहायणीचैत्र्याश्वयुजीति सप्त पाकयज्ञसंस्थाः । अग्नवाचेयमग्निहोत्रं दर्शपूर्णमासावाग्रहायणी चातुर्मास्यादिनिरूढपशुबंधस्सौत्रामणिरिति सप्त हविर्यज्ञसंस्थाः । अग्निष्टोमोऽत्यग्निष्टोम उक्थ्यः षोडशी बाजपेयोऽतिरात्र आप्तोर्याम इति सप्त सोमसंस्थाः इति । यतः एता: संस्थाः धने संस्थिता:-धनायत्ता इति, अतो धनार्जने यतेत ॥ २४ ॥
नदीनदतटाकेषु देवखातजलेषु च । नित्यक्रियार्थं स्नायीत गिरिप्रस्रवणेषु च ॥ २५ ॥
नदीति ॥ तटाको मनुष्यखात: ; मनुष्यैरखातो द्रोण्यादिर्देवखातः ॥ २५ ॥
कृपेषूद्धृततोयेन स्नानं कुर्वीत वा भुवि । गृहेषूद्धृततोयेन ह्यथवा भुव्यसंभवे ॥ २६ ॥
शुचिवस्त्रधरः स्नातो देवर्षिपितृतर्पणम् । तेषामेव हि तीर्थेन कुर्वीत सुसमाहितः ॥ २७ ॥
त्रिरपः प्रीणनार्थाय देवानामपवर्जयेत् । ऋषीणां च यथान्यायं सकृच्चापि प्रजापतेः ॥ २८ ॥
पितृणां प्रीणनार्थाय त्रिरपः पृथिवीपते। पितामहेभ्यश्च तथा प्रीणयेत्प्रपितामहान् ॥ २९ ॥
मातामहाय तत्पित्रे तत्पित्रे च समाहितः । दद्यात्पैत्रेण तीर्थेन काम्यं चान्यच्छृणुष्व मे ॥ ३० ॥
मात्रे प्रमात्रे तन्मात्रे गुरुपत्न्यै तथा नृप । गुरूणां मातुलानां च स्निग्धमित्राय भूभुजे ॥ ३१ ॥
इदं चापि जपेदम्बु दद्यादात्मेच्छया नृप। उपकाराय भूतानां कृतदेवादितर्पणम् ॥ ३२ ॥
देवासुरास्तथा यक्षा नागगन्धर्वराक्षसाः । पिशाचा गुह्यकास्सिद्धाः कूष्माण्डाः पशवः खगाः ॥३३॥
जलेचरा भूनिलया वाम्बाहाराश्च जन्तवः । तृप्तिमेतेन यान्त्वाशु मद्दत्तेनांबुनाऽखिलाः ॥ ३४ ॥
नरकेषु समस्तेषु यातनासु च ये स्थिताः । तेषामाप्यायनायैतद्दीयते सलिलं मया ॥ ३५ ॥
येऽबान्धवा बान्धवा ये येऽन्यजन्मनि बांधवाः। ते तृप्तिमखिला यान्तु ये चास्मत्तोऽम्बुकांक्षिणः॥३६॥
यत्रक्वचनसंस्थानां क्षुत्तृष्णोपहतात्मनाम् । इदमाप्यायनायास्तु मया दत्तं तिलोदकम् ॥ ३७ ॥
काम्योदकप्रदानं ते मयैतत्कथितं नृप । यद्दत्त्वा प्रीणयत्येतन्मनुष्यस्सकलं जगत् ।
जगदाप्यायनोद्भूतं पुण्यमाप्नोति चानघ ॥ ३८॥
दत्त्वा काम्योदकं सम्यगेतेभ्यः श्रद्धयान्वितः। आचम्य च ततो दद्यात्सूर्याय सलिलाञ्जलिम् ॥ ३९ ॥
कूपेष्विति ॥ भुवि-कूपतटभूमौ, भुव्यसंभवे–तत्र तटभुवि स्नातुं शक्त्यसंभवे, तेनोद्धृततोयेन गृहे स्नायात् ॥ २६-३९॥
नमो विवस्वते ब्रह्मभास्वते विष्णुतेजसे। जगत्सवित्रे शुचये सवित्रे कर्मसाक्षिणे ॥ ४० ॥
नम इति ॥ ब्रह्मभास्वते–वेदैः: प्रकाशमानाय, सवित्रे–प्रेरकाय ॥ ४०॥
ततो गृहार्चनं कुर्यादभीष्टसुरपूजनम् । जलाभिषेकैः पुष्पैश्च धूपाद्यैश्च निवेदनैः ॥ ४१ ॥
तत इति । गुहार्चनम् -गृहस्यार्चनम् , अभीष्टसुरपूजनं कुर्यादित्येव । अपूर्वमित्यस्मात्प्राक् निर्वपेद्वैश्वदेवं चेत्यर्थं पठितव्यम् । तदर्थः–देवपूजनात्परं विश्वेभ्यो देवेभ्यो जुष्टं निर्वपामीति वैश्वदेवं हविर्निरुप्यते तेन देवयज्ञादिकर्म कुर्यात् ॥ ४१ ॥
अपूर्वमग्निहोत्रं च कुर्यात्प्राग्ब्रह्मणे नृप ॥ ४२ ॥
प्रजापतिं समुद्दिश्य दद्यादाहुतिमादरात् । गृहेभ्यः काश्यपायाथ ततोऽनुमतये क्रमात् ॥ ४३ ॥
तत्कथमित्यत्राह-–अपूर्वमिति । पूर्वमस्य प्रकृतिभूतं होमान्तरं नास्तीत्यपूर्वं, होमान्तरप्रकृतित्वाभावात् । अग्निहोत्रम्-अग्नौ दर्वीहोमं वैश्वदेवयज्ञाख्यं ब्रह्माहुत्यादिपञ्चाहुतिकम् । * अपूर्वो दर्विहोमो जुहोतिचोदनस्वाहाकारप्रधानः • इत्यापस्तंबः ॥ ४२, ४३ ॥
तच्छेषं मणिके पृथ्वीपर्जन्याभ्यां क्षिपेत्ततः । द्वारे धातुर्विधातुश्च मध्ये च ब्रह्मणः क्षिपेत् ॥ ४४ ॥
गृहस्य पुरुषव्याघ्र दिग्देवानपि मे शृणु ॥ ४५ ॥
इन्द्राय धर्मराजाय वरुणाय तथेन्दवे । प्राच्यादिषु बुधो दद्याद्धुतशेषात्मकं बलिम् ॥ ४६ ॥
प्रागुत्तरे च दिग्भागे धन्वन्तारिबलिं बुधः । निर्वपेद्वैश्वदेवं च कर्म कुर्यादतः परम् ॥ ४७ ॥
तदिति ॥ अथ भूतयज्ञः। तच्छेषमिति । पृथ्वीपर्जन्यादिबलिः । मणिके-उदधाने ॥४४-४७॥
वायव्यां वायवे दिक्षु समस्तासु यथादिशम् । ब्रह्मणे चान्तरिक्षाय भानवे च क्षिपेद्बलिम् ॥४८॥
विश्वेदेवान्विश्वभूतांस्तथा विश्वपति पितॄन् । यक्षाणां च समुद्दिश्य बलिं दद्यान्नरेश्वर ॥४९॥
ततोऽन्यदन्नमादाय भूमिभागे शुचौ बुधः । दद्यादशेषभूतेभ्यस्स्वेच्छया सुसमाहितः ॥ ५० ॥
देवा मनुष्याः पशवो वयांसि सिद्धास्सयक्षोरगदैत्यसंघाः ।
प्रेताःपिशाचास्तरवस्समस्ता ये चानमिच्छन्ति मयाsत्र दत्तम् ॥ ५१ ॥
पिपीलिकाः कीटपतंगकाद्या बुभुक्षिताः कर्मनिबन्धबद्धाः ।
प्रयान्तु ते तृप्तिमिदं मयाऽन्नं तेभ्यो निसृष्टं सुखिनो भवन्तु ॥ ५२ ॥
वायव्यामिति ॥ वायव्यां वायव इति-वीप्सया प्रतिदिशं वायुवलिः । दिशां च बलिः प्राच्यै दिश इत्यादि ब्रह्मादिबलित्रयं मध्ये । तदुत्तरतो विश्वदेवादिबलिद्वयम् । परं विश्वपतिबलिः । दक्षिणत: पितृबलिः । वायव्ये यक्षबलिः । अयं क्रमः पारस्करगृह्ये द्रष्टव्यः। तथा च पारस्करगृह्यम्-काण्वानां वैश्वदेवादन्नात्पर्यश्य स्वाहाकारैर्जुहुयात्, ब्रह्मणे प्रजापतये गृह्ये(हे)भ्यः काश्यपायानुमतय इति भूतगृहेभ्यो मणिके त्रीन् पर्जन्यायाद्भ्यः पृथिव्यै धात्रे विधात्रे च द्वयितयोः प्रतिदिशं वायवे दिशां च मध्ये च त्रीन् ब्रह्मणेऽन्तरिक्षाय सूर्याय विश्वेभ्यो देवेभ्यो विश्वेभ्यश्च भूतेभ्यः तेषामुत्तरत उषसे भूतानां च पतये परं पितृभ्यस्स्वधा नम इति दक्षिणतः पात्रे निर्णिज्योत्तरपूर्वस्यां दिशि निनयेद्यक्षमैतत्त इत्युद्धृत्यान्नं ब्राह्मणायावनेज्य दद्याद्वाऽन्तत इति ॥ ४८-५२ ॥
येषां न माता न पिता न बन्धुर्नैवान्नसिद्धिर्न तथाऽन्यदस्ति ।
तत्तृप्तयेऽन्नं भुवि दत्तमेतत्ते यान्तु तृप्तिं मुदिता भवन्तु ॥ ५३ ॥
येषामिति ॥ सिद्धिः—सामग्री ॥ ५३॥
भूतानि सर्वाणि तथाऽन्नमेतदहं च विष्णुर्न यतोऽन्यदस्ति ।
तस्मादहं भूतनिकायभूतमन्नं प्रयच्छामि भवाय तेषाम् ॥ ५४ ॥
भूतानीति ॥ भूतनिकायभूतं–प्राणिनां शरीरभूतम् ॥ ५४॥
चतुर्दशो भूतगणो य एषस्तत्र स्थिता येऽखिलभूतसंघाः ॥
तृप्त्यर्थमन्नं हि मया निसृष्टं तेषामिदं ते मुदिता भवन्तु ॥ ५५ ॥
इत्युच्चार्य नरो दद्यादन्नं श्रद्धासमन्वितः । भुवि सर्वोपकाराय गृही सर्वाश्रयो यतः ॥ ५६ ॥
श्वचंडालविहंगानां भुवि दद्यात्ततो नरः । ये चान्ये पतिताः केचिदपुत्रास्सन्ति मानवाः ॥ ५७ ॥
चतुर्दश इति ॥ चतुर्दशो गणः *देवा मनुष्याः पितरः* इत्यादिना प्रागुक्तः ।
*अष्टविधं । देवाय तैर्यंग्योन्यं च पञ्चधा भवति । मानुष्यं चैकविधं समासतो भौतिकः सर्गः॥*
इति, •सिद्धगुह्यकगन्धर्वयक्षराक्षसपन्नगाः । विद्याधराः पिशाचाश्च निर्दिष्टा देवयोनयः* इति, *सरीसृपा वानराश्च पशवो मृगपक्षिणः । तिर्यञ्च इति कथ्यन्ते पञ्चैताः प्राणिजातयः ॥* इति,
मनुष्या एकजातिरिति ॥ ५५-५७ ॥
ततो गोदोहमात्रं वै कालं तिष्ठेद्गृहाङ्गणे । अतिथिग्रहणार्थाय तदूर्ध्वं तु यथेच्छया ॥ ५८ ॥
अतिथिं तत्र संप्राप्तं पूजयेत्स्वागतादिना । तथासनप्रदानेन पादप्रक्षालनेन च ॥ ५९ ॥
श्रद्धया चान्नदानेन प्रियप्रश्नोत्तरेण च । गच्छतश्चानुयानेन प्रीतिमुत्पादयेद्गृही ॥ ६० ॥
अज्ञातकुलनामानमन्यदेशादुपागतम् । पूजयेदतिथिं सम्यङ्नैकग्रामनिवासिनम् ॥ ६१ ॥
तत इति ॥ नाडिकायाश्चतुर्भागो गोदोहः ॥ ५८-६१ ॥
अकिञ्चनमसंबन्धमज्ञातकुलशीलिनम् । असंभोज्यातिथिं भुञ्जन् भोक्तुकामं व्रजत्यधः ॥ ६२ ॥
अकिञ्चनमिति ॥ असंभोज्यातिथिं भक्तं भोक्तुकामं व्रजत्यधः इति वा पाठः । भक्तमश्नन् भुञ्जन् इति वा पाठः ॥ ६२॥
स्वाध्यायगोत्रचरणमपृष्ट्वा च तथा कुलम् । हिरण्यगर्भबुद्ध्या तं मन्येताभ्यागतं गृही ॥ ६३ ॥
स्वाध्यायेति ॥ चरणं-वेदावान्तरशाखाः, पूर्वाचारो वा ॥ ६३ ॥
पित्रर्थं चापरं विप्रमेकमप्याशयेन्नृप । तद्देश्यं विदिताचारसंभूतिं पाञ्चयज्ञिकम् ॥ ६४ ॥
पित्रर्थमिति ॥ पित्रर्थम् –नित्यश्राद्धार्थम् । पाञ्चयज्ञिकं–पञ्चयज्ञकारिणम् ॥ ६४ ॥
अन्नाग्रं च समुद्धृत्य हन्तकारोपकल्पितम् । निर्वापभूतं भूपाल श्रोत्रियायोपपादयेत् ॥ ६५ ॥
दद्याच भिक्षात्रितयं परिव्राड्ब्रह्मचारिणाम् । इच्छया च बुधो दद्याद्विभवे सत्यवारितम् ॥ ६६ ॥
अन्नाग्रमिति | अग्रं-भोजनाद्यनुच्छिष्टम् , * ग्रासमात्रं भवेद्भिक्षा अग्रं ग्रासचतुष्टयम् । अग्राण्येव तु चत्वारि हंतकार प्रचक्षते ॥ इति । निर्वपामीति पाकात्सिद्धं निर्वापभूतं मनुष्येभ्यो हंतेतिमन्त्रेण श्रोत्रियाय देयमन्नं हंतकाराख्यम् ॥ ६५, ६६ ॥
इत्येतेऽतिथयः प्रोक्ताः प्रागुक्ता भिक्षवश्च ये । चतुरः पूजयित्वैतान्नृप पापात्प्रमुच्यते ॥ ६७॥
अतिथिर्यस्य भग्नाशो गृहात्प्रतिनिवर्तते । स तस्मै दुष्कृतं दत्त्वा पुण्यमादाय गच्छति ॥ ६८ ॥
धाता प्रजापतिः शक्रो वह्निर्वसुगणोsर्यया । प्रविश्यातिथिमते वै भुञ्जतेऽन्नं नरेश्वर ॥ ६९ ॥
तस्मादतिथिपूजायां यतेत सततं नरः। स केवलमघं भुङ्क्ते यो भुङ्क्ते ह्यतिथिं विना ॥ ७० ॥
इत्येत इति । एते अतिथयः *अज्ञातकुलनामानमित्युक्तश्च, श्रोत्रियश्च, परिव्राड्ब्रह्मचारिवर्गश्च,* वेदाहरणकार्येणेति पागुक्तश्चेत्येतांश्चतुरो वर्गान पूजयेत् ॥६७-७०॥
ततः स्ववासिनीं दुःखीं गुर्विणीं वृद्धबालकान् । भोजयेत्संस्कृतान्नेन प्रथमं चरमं गृही ॥ ७१ ॥
अभुक्तवत्सु चैतेषु भुञ्जन् भुङ्क्ते स दुष्कृतम् । मृतश्च गत्वा नरकं श्लेष्मभुग्जायते नरः ॥ ७२ ॥
तत इति ॥ परिणीता पितृगेहे स्थिता स्ववासिनी । चरमं—पश्चात् । गृही भुञ्जीतेति शेषः॥७१,७२॥
अस्नाताशी मलं भुङ्क्ते ह्यजपी पूयशोणितम् । असंस्कृतान्नभुङ्मूत्रं बालादेः प्रथमं शकृत् ॥ ७३ ॥
अहोमी च क्रिमीन्भुङ्क्ते अदत्वा विषमश्नुते ॥ ७४ ॥
तस्माच्छृणुष्व राजेन्द्र यथा भुञ्जीत वै गृही। भुञ्जतश्च यथा पुसः पापबन्धो न जायते ॥ ७५ ॥
इह चारोग्यमतुलं बलवृद्धिस्तथा नृप । भवत्यरिष्टशान्तिश्च वैरिपक्षाभिचारतः ॥ ७६ ॥
स्नातो यथावत्कृत्वा च देवर्षिपितृतर्पणम् । प्रशस्तरत्नपाणिस्तु भुञ्जीत प्रयतो गृही ॥ ७७ ॥
कृते जपे हुते वह्नौ शुद्धवस्त्रधरो नृप । दत्वाऽतिथिभ्यो विप्रेभ्यो गुरुभ्यस्संश्रिताय च ।
पुण्यगन्धधरश्शस्तमाल्यधारी नरेश्वर ॥ ७८ ॥
नैकवस्त्रधरोऽनार्द्रपाणिपादो महीपते । विशुद्धवदनः प्रीतो भुञ्जीत न विदिङ्मुखः ॥ ७९ ॥
प्राङ्मुखोदङ्मुखो वापि न चैवान्यमना नरः । अन्नं प्रशस्तं पथ्यं च प्रोक्षितं प्रोक्षणोदकैः ॥ ८०॥
अस्नातेति । असंस्कृतं-वैश्वदेवादिना ॥ ७३-८० ॥
न कुत्सिताहृतं नैव जुगुप्सावदसंस्कृतम् । दत्त्वा तु भुंक्ते शिष्टेभ्यः क्षुधितेभ्यस्तथा गृही ॥८१॥
प्रशस्तशुद्धपात्रे तु भुजीताकुपितो द्विजः ॥ ८२ ॥
नेति ॥ असंस्कृतं वैश्वदेवादिना ॥ ८१, ८२ ॥
नासन्दिसंस्थिते पात्रे नादेशे च नरेश्वर । नाकाशे नातिसंकीर्ण दवाऽग्रं च नरोऽग्नये ॥ ८३ ॥
मन्त्राभिमन्त्रितं शस्तं न च पर्युषितं नृप । अन्यत्र फलमूलेभ्यश्शुष्कशाखादिकात्तथा ॥ ८४ ॥
नासन्दीति | आसन्दी-वेत्रादिमयं चतुष्पादमासनं – नान्यमासनमारोपयेदिति विष्णुस्मृतेः। अदेशेकुत्सितस्थाने; आकाशे-आपुवृते । अकाले इति वा पाठः । अकाले-सन्ध्यादिसमये, ना नांतरा भोजनं कुर्यादिति । अग्नयेऽग्रमिति । परिविष्टस्यान्नस्याग्रं मन्त्रं विनाऽग्नौ पक्षिपेदिति विधिः ॥८३,८४||
तद्वद्धरीतकेभ्यध गुडभक्ष्येभ्य एव च । भुञ्जीतोद्धृतसाराणि न कदापि नरेश्वर ॥ ८५ ॥
हरीतकमपक्वलेह्यादिभेदः ॥ ८५ ॥
न शेषं पुरुषोऽश्नीयादन्यत्र जगतीपते । मध्वंबुदधिसर्पिभ्यस्सक्तुभ्यश्च विवेकवान् ॥ ८६ ॥
अश्नीयात्तन्मयो भूत्वा पूर्व तु मधुरं रसम् । लवणाम्लौ तथा मध्ये कटुतिक्तादिकांस्ततः ॥ ८७ ॥
प्राग्द्रवं पुरुषोऽश्नीयान्मध्ये कठिनभोजनः । अन्ते पुनर्द्रवाशी तु बलारोग्ये न मुञ्चति ॥ ८८ ॥
न शेषमिति ॥ शेषम्-स्वेनापि स्वादितशेषम् *खादितार्घं पुनः खादन्मोदकानि फलानि वा । दम्पत्योर्भुक्तशेषं वा भुक्त्वा चान्द्रायणं चरेत् * इति स्मृतेः । नाशेषमिति पाठे निश्शेषं नाश्नीयात् ॥ ८६-८८ ॥
अनिन्द्यं भक्षयेदित्थं वाग्यतोऽन्नमकुत्सयन् । पञ्चग्रासं महामौनं प्राणाद्याप्यायनं हि तत् ॥ ८९ ॥
भुक्त्वा सम्यगथाचम्य प्राङ्मुखोदङ्मुखोऽपि वा । यथावत्पुनराचामेत्पाणी प्रक्षाल्य मूलतः ॥ ९० ॥
स्वस्थः प्रशान्तचित्तस्तु कृतासनपरिग्रहः । अभीष्टदेवतानां तु कुर्वीत स्मरणं नरः ॥ ९१ ॥
अनिन्द्यमिति ॥ अनिन्द्यम् -अनिषिद्धं पञ्चग्रासं भक्षयेदिति शेषः। महामौनमिति क्रियाविशेषणम् ॥ ८९-९१ ॥
अग्निराप्याययेद्धातुं पार्थिव पवनेरितः । दत्तावकाशं नभसा जरयत्यस्तु मे सुखम् ॥ ९२ ॥
अन्नं बलाय मे भूमेरपामग्न्यनिलस्य च । भवत्वेतत्परिणतं ममास्त्वव्याहतं सुखम् ॥ ९३ ॥
प्राणापानसमानानामुदानव्यानयोस्तथा । अन्नं पुष्टिकरं चास्तु ममाप्यव्याहतं सुखम् ॥ ९४ ॥
अग्निरिति ॥ पार्थिवं धातुं-देहं अन्नरसेनाप्याययन्नन्नं जरयत्विति शेषः ॥ ९२-९४ ॥
अगस्तिरग्निर्वडवानलश्च भुक्तं मयाऽन्नं जरयत्वशेषम् ।
सुखं च मे तत्परिणामसंभवं यच्छत्वरोगं मम चास्तु देहे ॥ ९५ ॥
अगस्तिरिति ॥ तदन्नं परिणामसंभवम् अरोगं मम देहे यच्छतु मे सुखं चास्त्वित्यन्वयः ॥ ९५ ॥
विष्णुस्समस्तेन्द्रियदेहदेही प्रधानभूतो भगवान्यथैकः ।
सत्येन तेनात्तमशेषमन्नमारोग्यदं मे परिणाममेतु ॥ ९६ ॥
विष्णुरत्ता तथैवान्नं परिणामश्च वै तथा । सत्येन तेन मद्भुक्तं जीर्यत्वनमिदं तथा ॥ ९७ ॥
इत्युच्चार्य स्वहस्तेन परिमृज्य तथोदरम् । अनायासप्रदायीनि कुर्यात्कर्माण्यतन्द्रितः ॥ ९८ ॥
सच्छास्त्रादिविनोदेन सन्मार्गादविरोधिना । दिनं नयेत्ततस्सन्ध्यामुपतिष्ठेत्समाहितः ॥ ९९ ॥
दिनान्तसन्ध्यां पर्येण पूर्वामृक्षैर्युतां बुधः । उपतिष्ठेधथान्याय्यं सम्यगाचम्य पार्थिव ।। १०० ।।
विष्णुरिति ॥ अत्तम्-भुक्तम् ॥ ९६-१०० ॥
सर्वकालमुपस्थानं सन्ध्ययोः पार्थिवेष्यते । अन्यत्र सूतकाशौचविभ्रमातुरभीतितः ॥ १०१ ॥
सूर्येणाभ्युदितो यश्च त्यक्तः सूर्येण वा स्वपन् । अन्यत्रातुरभावात्तु प्रायश्चित्ती भवेन्नरः ॥ १०२ ॥
तस्मादनुदिते सूर्ये समुत्थाय महीपते । उपतिष्ठेन्नरस्सन्ध्यामस्वपंश्च दिनान्तजाम् ॥ १०३ ॥
उपतिष्ठन्ति वै सन्ध्यां ये न पूर्वं न पश्चिमाम् । व्रजन्ति ते दुरात्मानस्तामिस्रं नरकं नृप ॥ १०४ ॥
सर्वकालमिति ॥ विभ्रमः-उन्मादादिवैचित्र्यम् । आतुरेति । आतुरत्वं रोगभावः । आशौचभावः:आशौचसद्भावः ॥ १०१-१०४ ॥
पुनः पाकमुपादाय सायमप्यवनीपते । वैश्वदेवनिमित्तं वै पत्न्या सार्द्धं बलिं हरेत् ॥ १०५ ॥
तत्रापि श्वपचादिभ्यस्तथैवान्नविसर्जनम् ॥ १०६ ॥
पुनरिति । वैश्वदेवप्रत्याम्नायत्वेनामन्त्रकं पत्नी बलिं हरेत् ॥ १०५,१०६ ॥
अतिथिं चागतं तत्र स्वशक्त्या पूजयेद्बुधः । पादशौचासनप्रह्वस्वागतोक्त्या च पूजनम् ॥
ततश्चान्नप्रदानेन शयनेन च पार्थिव ॥ १०७ ॥
अतिथिमिति ॥ प्रह्वत्वं–नम्रभावः ॥ १०७ ॥
दिवाऽतिथौ तु विमुखे गते यत्पातकं नृप । तदेवाष्टगुणं पुंसस्सूर्योढे विमुखे गते ॥ १०८ ॥
तस्मात्स्वशक्त्या राजेन्द्र सूर्योढमतिथिं नरः । पूजयेत्पूजिते तस्मिन्यूजितास्सर्वदेवताः ॥ १०९ ॥
दिवेति ॥ * सूर्योढस्तु स संप्राप्तो यस्सूर्योऽस्तंगतेऽतिथिः ॥ १०८-१०९ ॥
अन्नशाकांबुदानेन स्वशक्त्या पूजयेत्पुमान् । शयनप्रस्तरमहीप्रदानैरथवाऽपि तम् ॥ ११० ॥
अन्नेति ॥ प्रस्तर:–तृणादिशयनम् ॥ ११० ॥
कृतपादादिशौचस्तु भुक्त्वा सायं ततो गृही। गच्छेच्छय्यामस्फुटितामपि दारुमयीं नृप ॥ १११ ॥
नाविशालां न वै भग्नां नासमां मलिनां न च । न च जन्तुमयीं शय्यामधितिष्ठेदनास्तृताम् ॥ ११२ ॥
प्राच्यां दिशि शिरश्शस्तं याम्यायामथ वा नृप । सदैव स्वपतः पुंसो विपरीतं तु रोगदम् ॥ ११३ ॥
कृतेति ॥ अपि दारुमयीम्–अनिषिद्धद्रुमकृताम् ॥ १११-११३ ॥
ऋतावुपगमश्शस्तस्स्वपत्न्यामवनीपते । पुन्नामर्क्षे शुमे काले ज्येष्ठायुग्मासु रात्रिषु ॥ ११४ ॥
नाद्यूनां तु स्त्रियं गच्छेन्नातुरां न रजस्वलाम्। नानिष्टां न प्रकुपितां न त्रस्तां न च गर्भिणीम् ॥११५॥
नादक्षिणां नान्यकामां नाकामां नान्ययोषितम् । क्षुत्क्षामां नातिभुक्तां वा स्वयं चैभिर्गुणैर्युतः ॥११६॥
ऋताविति ॥ पुन्नामर्क्षाणि दश बृहस्पत्युक्तानि- *सार्पाञ्चतुष्कं रौद्रं च याम्यं त्वाष्टूत्रिकं जलम्। वैश्वेन्द्रवासवं पौष्णं स्त्रीलिंगास्समुदाहृताः ॥ सौम्यवारुणमूलानि नपुंसकदिनानि तु । शेषाः पुंल्लिङ्गतां याताः* इति ॥ ज्येष्ठायुग्मासु–षष्ट्यादियुग्मासु रात्रिषु, तत्रापि ज्येष्ठासु यथोत्तरं शुभास्वित्यर्थः । चतुर्थीप्रभूत्याषोडशीमित्यादिना ॥ ११४-११६ ॥
स्नातस्स्रग्गन्धधृत् प्रीतो नाध्मातः क्षुधितोऽपि वा । सकामस्सानुरागश्च व्यवायं पुरुषो व्रजेत् ॥११७॥
चतुर्दश्यष्टमी चैव तथाऽमा चाथ पूर्णिमा । पर्वाण्येतानि राजेन्द्र रविसंक्रान्तिरेव च ॥ ११८ ॥
तैलस्त्रीमांससंभोगी सर्वेष्वेतेषु वै पुमान् । विण्मूत्रभोजनं नाम प्रयाति नरकं मृतः ॥ ११९ ॥
अशेषपर्वस्वेतेषु तस्मात्संयमिभिर्बुधैः । भाव्यं सच्छास्त्रदेवेज्याध्यानजप्यपरैर्नरैः ॥ १२० ॥
स्नात इति ॥ कामो रिरंसा। रागः प्रीतिः ॥ ११७-१२० ॥
नान्ययोनावयोनौ वा नोपयुक्तौपधस्तथा । द्विजदेवगुरूणां च व्यवायी नाश्रये भवेत् ॥ १२१ ॥
नान्ययोनाविति ॥ अन्ययोनौ-गवादियोनौ । औषधं रसायनादि । द्विजदेवादेराश्रये–तदालयस्थो व्यवायी न स्यात् ॥ १२१ ॥
चैत्यचत्वरतीर्थेषु नैव गोष्ठे चतुष्पथे। नैव श्मशानोपबने सलिलेषु महीपते ॥ १२२ ॥
प्रोक्तपर्वस्वशेषेषु नैव भूपाल सन्ध्ययोः । गच्छेद्व्यवायं मनसा न मूत्रोच्चारपीडितः ॥ १२३ ॥
पर्वस्वभिगमो निन्द्यो दिवा पापप्रदो नृप । भुवि रोगावहो नृणामप्रशस्तो जलाशये ॥ १२४ ॥
चैत्येति ॥ चत्वरादिष्वपि न व्यवायी स्यात् ॥ १२२-१२४ ॥
परदारान्न गच्छेत मनसाऽपि कथञ्चन । किमु वाचाऽस्थिबंधोऽपि नास्ति तेषु व्यवायिनाम् ॥१२५॥
मृतो नरकमभ्येति हीयतेऽत्रापि चायुषः । परदाररतिः पुंसामिह चामुत्र भीतिदा ॥ १२६ ॥
इति मत्वा स्वदारेषु ऋतुमत्सु बुधो व्रजेत् । यथोक्तदोषहीनेषु सकामेष्वनृतावपि ॥ १२७ ॥
परदारानिति ॥ तेषु-परदारेषु व्यवायिनामस्थिबंधो नास्ति । ते हि अनस्थिकृमिकीटादिजन्मानः स्युः ॥ १२५-१२७ ॥
इति श्रीपराशरमुनिविरचिते श्रीविष्णुपरत्वनिर्णायके श्रीमति विष्णुमहापुराणे तृतीयांशे एकादशोऽध्यायः ॥ ११ ॥
इति श्रीभगवद्रामानुजपदान्तरंगश्रीविष्णुचित्तविरचिते श्रीविष्णुपुराणव्याख्याने इति श्रीविष्णुचित्तीये विष्णुपुराणव्याख्याने तृतीयांशे एकादशोऽध्यायः
॥ ११ ॥