श्रीविष्णुपुराणम्
त्रयोदशोऽध्यायः
और्वः –
सचेलस्य पितुः स्नानं जाते पुत्रे विधीयते । जातकर्म तथा कुर्याच्छ्राद्धमभ्युदयं च यत् ॥ १ ॥
युग्मान्देवांश्च पित्र्यांश्च सम्यक्सव्यक्रमाद्द्विजान् । पूजयेद्भोजयेच्चैव तन्मना नान्यमानसः ॥ २ ॥
युग्मानिति ॥ सव्यक्रमात्-प्रदक्षिणक्रमात् ॥ १,२ ॥
दध्यक्षतैस्सबदरैः प्राङ्मुखोदङ्मुखोऽपि वा । देवतीर्थेन वै पिण्डान्दद्यात्कायेन वा नृप ॥ ३ ॥
नान्दीमुखः पितृगणस्तेन श्राद्धेन पार्थिव । प्रीयते तत्तु कर्तव्यं पुरुषैस्सर्ववृद्धिषु ॥ ४ ॥
कन्यापुत्रविवाहेषु प्रवेशेषु च वेश्मनः । नामकर्मणि बालानां चूडाकर्मादिके तथा ॥ ५ ॥
सीमन्तोन्नयनं चैव पुत्रादिमुखदर्शने । नान्दीमुखं पितृगणं पूजयेत्प्रयतो गृही ॥ ६ ॥
दध्यक्षतैरिति ॥ कायेन-प्राजापत्येन ॥ ३-६ ॥
पितृपूजाक्रमः प्रोक्तो वृद्धावेष समासतः । श्रूयतामवनीपाल प्रेतकर्मक्रियाविधिः ॥ ७ ॥
पितृपूजेति ॥ वृद्धौ-अभ्युदयश्राद्धे । प्रेतकर्म-प्रेतदेहस्नापनदहनादि । क्रियाविधिः-पिण्डोदकदानादिः ॥ ७॥
प्रेतदेहं शुभैः स्नानैस्नापितं स्रग्विभूषितम् । दग्ध्वा ग्रामाद्बहिः स्नात्वा सचेलास्सलिलाशये ॥ ८॥
प्रेतदेहमिति ॥ स्नानैः स्नानसाधनकैः ॥ ८ ॥
यत्र तत्र स्थितायैतदमुकायेति वादिनः । दक्षिणाभिमुखा दद्युर्बान्धवास्सलिलाञ्जलिम् ॥ ९ ॥
यत्रेति ॥ अमुकशब्दस्तत्तद्गोत्रनामोपलक्षकः ॥ ९ ॥
प्रविष्टाश्च समं गोभिर्ग्रामं नक्षत्रदर्शने । कटकर्म ततः कुर्युर्भूमौ प्रस्तरशायिनः ॥ १० ॥
प्रविष्टा इति ॥ गोप्रवेशकाले वा नक्षत्रदर्शने वा प्रवेशः । कटकर्म-शवसंबन्धमाशौचकृत्यं, प्रस्तरस्तृणादिशय्या ॥ १० ॥
दातव्योऽनुदिनं पिण्डः प्रेताय भुवि पार्थिव । दिवा च भक्तं भोक्तव्यममांसं मनुजर्षभ ॥ ११ ॥
दिनानि तानि चेच्छातः कर्तव्यं विप्रभोजनम् । प्रेता यान्ति तथा तृप्तिं बन्धुवर्गेण भुञ्जता ॥ १२ ॥
प्रथमेऽह्नि तृतीये च सप्तमे नवमे तथा । वस्त्रत्यागबहिस्स्नाने कृत्वा दद्यात्तिलोदकम् ॥ १३ ॥
चतुर्थेऽह्नि च कर्तव्यं तस्यास्थिचयनं नृप । तदूर्ध्वमङ्गसंस्पर्शस्सपिण्डानामपीष्यते ॥ १४ ॥
दातव्य इति ॥ अनुदिनं–यावदाशौचम् ॥ ११-१४ ॥
योग्यस्सर्वक्रियाणां तु समानसलिलास्तथा । अनुलेपनपुष्पादिभोगादन्यत्र पार्थिव ॥ १५ ॥
शय्यासनोपभोगश्च सपिण्डानामपीष्यते । भस्मास्थिचयनादूर्ध्वं संयोगो न तु योषिताम् ॥ १६ ॥
योग्या इति ॥ सर्वक्रियाः-सन्ध्योपासनादिकाः ॥ १५, १६ ॥
बाले देशान्तरस्थे च पतिते च मुनौ मृते । सद्यश्शौचं तथेच्छातो जलाग्न्युद्बन्धनादिषु ॥ १७ ॥
बाल इति ॥ इच्छात इति विशेषणात् अकामतस्तु जलादिभिः मृतानां यथोक्तमाशौचादिकं कार्यमेव, *यदि कश्चित्प्रमादेन म्रियेताग्न्युदकादिभिः । तत्राशौचं विधातव्यं कर्तव्या चोदकक्रिया ॥* इति स्मृतेः॥१७॥
मृतबन्धोर्दशाहानि कुलस्यान्नं न भुज्यते । दानं प्रतिग्रहो होमः स्वाध्यायश्च निवर्तते ॥ १८ ॥
मृतबन्धोरिति ॥ मृतो बन्धुर्यत्र कुले तन्मृतबन्धु तस्य कुलस्य ॥ १८ ॥
विप्रस्यैतद्द्वादशाहं राजन्यस्याप्यशौचकम् । अर्द्धमासं तु वैश्यस्य मासं शूद्रस्य शुद्धये ॥ १९ ॥
विप्रस्येति ॥ एतत्-प्रागुक्तं दशाद्दाशौचम् ॥ १९ ॥
अयुजो भोजयेत्कामं द्विजानन्ते ततो दिने । दद्याद्दर्भेषु पिण्डं च प्रेतायोच्छिष्टसन्निधौ ॥ २० ॥
वार्यायुधप्रतोदास्तु दण्डश्च द्विजभोजनात् । स्प्रष्टव्योऽनन्तरं वर्णैः शुद्धेरन्ते ततः क्रमात् ॥ २१ ॥
ततस्सवर्णधर्मा ये विप्रादीनामुदाहृताः । तान्कुर्वीत पुमाञ्जीवेन्निजधर्मार्जनैस्तथा ॥ २२ ॥
अयुज इति ॥ अन्ये-आशौचानन्तरदिने, *आद्यमेकादशेऽहनि* – इति स्मृतेः ॥ २०-२२ ॥
मृताहनि च कर्तव्यमेकोद्दिष्टमतः परम् । आह्वानादिक्रियादैवनियोगरहितं हि तत् ॥ २३ ॥
एकोऽर्घ्यस्तत्र दातव्यस्तथैवैकपवित्रकम् । प्रेताय पिण्डो दातव्यो भुक्तवत्सु द्विजातिषु ॥ २४ ॥
मृताहनीति ॥ आह्वानादीत्यादिशब्दादग्नौकरणादि ग्राह्यम् दैवनियोगो वैश्वदेविकविप्रामन्त्रणम् ॥ २३,२४ ॥
प्रश्नश्च तत्राभिरतिर्यजमानद्विजन्मनाम् । अक्षय्यममुकस्येति वक्तव्यं विरतौ तथा ॥ २५ ॥
प्रश्नश्चति ॥ अभिरम्यतामिति यजमानेन प्रष्टव्यं, द्विजैश्चाभिरतास्स्म इति प्रतिवक्तव्यम् ॥२५॥
एकोद्दिष्टमयो धर्म इत्थमावत्सरात्स्मृतः । सपिण्डीकरणं तस्मिन्काले राजेन्द्र तच्छृणु ॥ २६ ॥
एकोद्दिष्टविधानेन कार्यं तदपि पार्थिव । संवत्सरेऽथ षष्ठे वा मासे वा द्वादशेऽह्नि तत् ॥ २७ ॥
तिलगन्धोदकैर्युक्तं तत्र पात्रचतुष्टयम् ॥ २८ ॥
पात्रं प्रेतस्य तत्रैकं पैत्रं पात्रत्रयं तथा । सेचयेत्पितृपात्रेषु प्रेतपात्रं ततस्त्रिषु ॥ २९ ॥
एकोद्दिष्टमय इति ॥ तस्मिन् काले-संवत्सरेऽतीते ॥ २६-२९ ॥
ततः पितृत्वमापन्ने तस्मिन्प्रेते महीपते । श्राद्धधर्मैरशेषैस्तु तत्पूर्वानर्चयेत्पितृन् ॥ ३० ॥
पुत्रः पौत्रः प्रपौत्रो वा भ्राता वा भ्रातृसन्ततिः। सपिण्डसन्ततिर्वापि क्रियार्हो नृप जायते ॥ ३१ ॥
तेषामभावे सर्वेषां समानोदकसन्ततिः । मातृपक्षसपिण्डेन संबन्धा ये जलेन वा ॥ ३२ ॥
कुलद्वयेऽपि चोच्छिन्ने स्त्रीभिः कार्याः क्रिया नृप । पितृमातृसपिण्डैस्तु समानसलिलैस्तथा ॥३३॥
तत इति ॥ श्राद्धधर्मैः-पार्वणाद्यैः। तत्पूर्वान्-सः पूर्वो येषां तान् सपिण्डीकृतप्रमुखान् ॥३०-३३॥
(तत्संघातस्थितैर्वाऽपि) संघातान्तर्गतैर्वाऽपि कार्याः प्रेतस्य च क्रियाः । उत्सन्नबन्धो रिक्थाद्वा कारयेदवनीपतिः ॥ ३४ ॥
पूर्वाः क्रिया मध्यमाश्च तथा चैवोत्तराः क्रियाः । त्रिःप्रकाराः क्रियास्सर्वास्तासां भेदं शृणुष्व मे ॥ ३५ ॥
(आदाहवार्यायुधादि) आदाहाद्यादशाहाश्च स्पर्शाद्यन्तास्तु याः क्रियाः । ताः पूर्वा मध्यमा मासि मास्येकोद्दिष्टसंज्ञिताः ॥ ३६ ॥
प्रेते पितृत्वमापन्ने सपिण्डीकरणादनु । क्रियन्ते याः क्रियाः पित्र्या प्रोच्यन्ते ता नृपोत्तराः ॥३७॥
पितृमातृसपिण्डैस्तु समानसलिलैस्तथा । संघातान्तर्गतैर्वाऽपि राज्ञा वा धनहारिणा ॥ ३८ ॥
संघातेति ॥ तत्संघात:- तस्य मृतस्य सार्थः ॥ ३४-३८ ॥
पूर्वाः क्रियास्तु कर्तव्याः पुत्राद्यैरेव चोत्तराः । दौहित्रैर्वा नृपश्रेष्ठ कार्यास्तत्तनयैस्तथा ॥ ३९ ॥
मृताहनि च कर्तव्यास्त्रीणामप्युत्तराः क्रियाः। प्रतिसंवत्सरं राजन्नेकोद्दिष्टविधानतः ॥ ४० ॥
तस्मादुत्तरसंज्ञा याः क्रियास्ताः शृणु पार्थिव । यदायदा च कर्तव्या विधिना येन चानघ ॥ ४१ ॥
पूर्वा इति ॥ पूर्वाः क्रियास्वित्यत्र पूर्वशब्देन मध्यमानामपि ग्रहणम् ॥ ३९-४१॥
इति श्रीपराशरमुनिविरचिते श्रीविष्णुपरत्वनिर्णायके श्रीमति विष्णुमहापुराणे तृतीयेऽशे
त्रयोदशोऽध्यायः ॥ १३ ॥
इति श्रीभगवद्रामानुजपदान्तरंगश्रीविष्णुचित्तविरचिते
विष्णुपुराणव्याख्याने तृतीयेशे त्रयोदशोऽध्यायः ॥ १३ ॥