श्रीविष्णुपुराणम्
अथ द्वादशोऽध्यायः
और्व:-
देवगोब्राह्मणान्सिद्धान्वृद्धाचार्यांस्तथाऽर्चयेत् । द्विकालं च नमेत्सन्ध्यामग्नीनुपचरेत्तथा ॥१॥
सदाऽनुपहते वस्त्रे प्रशस्ताश्च महौषधीः । गारुडानि च रत्नानि बिभृयात्प्रयतो नरः ॥ २ ॥
सदेति ॥ ओषधी:-विष्णुक्रान्तादूर्वाद्याः । गारुडानि रत्नानि च-विषघ्नानि मरकतादीनि ॥ १,२ ॥
प्रस्निग्धामलकेशश्च सुगन्धश्चारुवेषधृक् । सितास्सुमनसो हृद्या विभृयाच्च नरस्सदा ॥३॥
प्रस्निग्धा इति । प्रस्निग्धाः-अलङ्कृताः अमला: केशा यस्य स ॥ ३॥
किञ्चित्परस्वं न हरेन्नाल्पमप्यप्रियं वदेत् । प्रियं च नानृतं ब्रूयान्नान्यदोषानुदीरयेत् ॥ ४ ॥
किञ्चिदिति ॥ किञ्चित्-किञ्चिदपि, न हरेत् ॥ ४ ॥
नान्यस्त्रियं तथा वैरं रोचयेत्पुरुषर्षभ । न दुष्टं यानमारोहेत्कूलच्छायां न संश्रयेत् ॥ ५ ॥
नेति ॥ कूलच्छाया-जलौघक्षतदेशच्छाया ॥ ५ ॥
विद्विष्टपतितोन्मत्तबहुवैरातिकीटकैः । वर्द्धकीबंधकीभर्तृक्षुद्रानृतकथैस्सह ॥ ६॥
तथाऽतिव्ययशीलैश्च परिवादरतैश्शठः । बुधो मैत्रीं न कुर्वीत नैकः पन्थानमाश्रयेत् ॥ ७ ॥
नावगाहेज्जलौघस्य वेगमग्रे नरेश्वर । प्रदीप्तं वेश्म न विशेन्नारोहेच्छिखरं तरोः ॥ ८ ॥
विद्विष्टेति ॥ विद्विष्टादिभिः मैत्रीं न कुर्यात् । कीटक:- कीटकवत्पीडकः दरिद्रः । बंधकी – असती ॥ ६-८ ॥
न कुर्याद्दन्तसंघर्षं कुष्णीयाच्च न नासिकाम् । नासंवृतमुखो जृंभेच्छ्वासकासौ विसर्जयेत् ॥ ९ ॥
नोच्चैर्हसेत्सशब्दं च न मुञ्चेत्पवनं बुधः । नखान्न खादयेच्छिन्द्यान्न तृणं न महीं लिखेत् ॥ १० ॥
न श्मश्रु भक्षयेल्लोष्टं न मृद्रीयाद्विचक्षणः । ज्योतींष्यमेध्यशस्तानि नाभिवीक्षेत च प्रभो ॥ ११ ॥
न कुर्यादिति ॥ न कुष्णीयात्-न निष्कर्षेत् । श्वासकासौ चासंवृतमुखो न विसर्जयेत् ॥९-११॥
नग्नां परस्त्रियं चैव सूर्यं चास्तमयोदये । न हुंकुर्याच्छवं गन्धं शवगन्धो हि सोमजः ॥ १२ ॥
नग्नामिति ॥ न हुंकुर्यादिति। शुक्लशोणितमयत्वेनाग्नीषोमीयस्य कायस्य अग्न्यंशे शुक्ले प्राणेन सह गते यस्सोमांशो रसः तद्दाहजः शवगन्धो हि सोमजः ; * अग्निरूष्मा रसस्सोमश्शीरं तन्मयं यतः * इति वचनात् ॥ १२ ॥
चतुष्पथं चैत्यतरुं इमशानोपवनानि च । दुष्टस्त्रीसन्निकर्षं च वर्जयेन्निशि सर्वदा ॥ १३ ॥
पूज्यदेवद्विजज्योतिश्छायां नातिक्रमेद्बुधः । नैकश्शून्याटवीं गच्छेत्तथा शून्यगृहे वसेत् ॥ १४ ॥
केशास्थिकण्टकामेध्यबलिभस्मतुषांस्तथा । स्नानार्द्रधरणीं चैव दूरतः परिवर्जयेत् ॥ १५ ॥
नानार्यानाश्रयेत्कांश्चिन्न जिह्मं रोचयेद्बुधः । उपसर्पेन्न वै व्यालं चिरं तिष्ठेन्न वोत्थितः ॥ १६ ॥
अतीव जागरस्वप्नौ तद्वत्स्थानासने बुधः । न सेवेत तथा शय्यां व्यायामं च नरेश्वर ॥ १७ ॥
दंष्ट्रिणाशृङ्गिणश्चैव प्राज्ञो दूरेण वर्जयेत् । अवश्यायं च राजेन्द्र पुरोवातातपौ तथा ॥ १८ ॥
न स्नायान्न स्वपेन्नग्नो न चैवोपस्पृशेद्बुधः । मुक्त(कच्छश्च)केशश्च नाचामेद्देवाद्यर्चां च वर्जयेत् ॥१९॥
होमदेवार्चनाद्यासु क्रियास्वाचमने तथा । नैकवस्त्रः प्रवर्तेत द्विजपादावनेजने ॥ २० ॥
नासमञ्जसशीलैस्तु सहासीत कथञ्चन । सद्वृत्तसन्निकर्षो हि क्षणार्धमपि शस्यते ॥ २१ ॥
विरोध नोत्तमैर्गच्छेन्नाधमैश्च सदा बुधः। विवाहश्च विवादश्च तुल्यशीलैर्नृपेष्यते ॥ २२ ॥
नारभेत कलिं प्राज्ञश्शुष्कवैरं च वर्जयेत् । अप्यल्पहानिस्सोढव्या वैरेणार्थागमं त्यजेत् ॥ २३ ॥
स्नातो नाङ्गानि संमार्जेत्स्नानशाट्या न पाणिना । न च निर्धूतयेत्केशान्नाचामेचैव चो(च्छ्रितः)त्थितः॥२४॥
पादेन नाक्रमेत्पादं न पूज्याभिमुखं नयेत् । नोच्चासनं गुरोरग्रे भजेताविनयान्वितः ॥ २५ ॥
चतुष्पथमिति ।। सवेदिकः पूजितो वृक्षश्चैत्यतरुः ॥ १३-२५ ॥
अपसव्यं न गच्छेच्च देवागारचतुष्पथान् । मङ्गल्यपूज्यांश्च तथा विपरीतान्न दक्षिणम् ॥ २६ ॥
सोमार्काग्न्यंबुवायूनां पूज्यानां च न संमुखम् । कुर्यान्निष्ठीवविण्मूत्रसमुत्सर्गं च पण्डितः ॥ २७ ॥
तिष्ठन्न मूत्रयेत्तद्वत्पथिष्वपि न मूत्रयेत् । श्लेष्मविण्मूत्ररक्तानि सर्वदैव न लङ्घयेत् ॥ २८ ॥
अपसव्यमिति ॥ विपरीतान्-अमंगल्यानपूज्यान्न प्रदक्षिणयेत् ॥ २६-२८॥
श्लेष्मशिंघाणिकोत्सर्गो नान्नकाले प्रशस्यते । बलिमङ्गलजप्यादौ न होमे न महाजने ॥ २९ ॥
श्लेष्मेति ॥ शिंघाणो नासिकामलः ॥ २९ ॥
योषितो नावमन्येत न चासां विश्वसेद्बुधः । न चैवेर्ष्या भवेत्तासु (न धिक्कु) नाधिकुर्यात्कदाचन ॥३०॥
मङ्गल्यपुष्परत्नाज्यपूज्याननभिवाद्य च । न निष्क्रमेद्गृहात्प्राज्ञस्सदाचारपरो नरः ॥ ३१ ॥
चतुष्पथान्नमस्कुर्यात्काले होमपरो भवेत् । दीनानभ्युद्धरेत्साधूनुपासीत बहुश्रुतान् ॥ ३२ ॥
देवर्षिपूजकस्सम्यक्पितृपिण्डोदकप्रदः । सत्कर्ता चातिथीनां यः स लोकानुत्तमान्व्रजेत् ॥ ३३ ॥
हितं मितं प्रियं काले वश्यात्मा योऽभिभाषते । स याति लोकानाह्लादहेतुभूतान्नृपाक्षयान्॥३४॥
धीमान्ह्रीमान्क्षमायुक्तो ह्यास्तिको विनयान्वितः । विद्याभिजनवृद्धानां याति लोकाननुत्तमान् ॥३५॥
अकालगर्जितादौ च पर्वस्वाशौचकादिषु । अनध्यायं बुधः कुर्यादुपरागादिके तथा ॥ ३६ ॥
शमं नयति यः कृद्धान्सर्वबन्धुरमत्सरी । भीताश्वासनकृत्साधुस्स्वर्गस्तस्याल्पकं फलम् ॥ ३७ ॥
वर्षातपादिषुच्छत्री दण्डी रात्र्यटवीषु च । शरीरत्राणकामो वै सोपानत्कस्सदा व्रजेत् ॥ ३८ ॥
नोर्ध्वं न तिर्यग्दूरं वा न पश्यन्पर्यटेद्बुधः । युगमात्रं महीपृष्ठं नरो गच्छेद्विलोकयन् ॥ ३९ ॥
दोषहेतूनशेषांश्च वश्यात्मा यो निरस्यति । तस्य धर्मार्थकामानां हानिर्नाल्पाऽपि जायते ॥ ४० ॥
योषित इति ॥ नाधिकुर्यात्-योषिदधिकारं न कुर्यात् ॥ ३०-४० ॥
सदाचाररतः प्राज्ञो विद्याविनयशिक्षितः । पापेऽप्यपापः परुषे ह्यभिधत्ते प्रियाणि यः ।
मैत्रीद्रवान्तःकरणस्तस्य मुक्तिः करे स्थिता ॥ ४१॥
सदाचारेति ॥ पापे-पापकृत्येऽपि, अपापः-अद्रोग्धा परुषे-परुषवक्तर्यपि प्रियवादी ॥ ४१ ॥
ये कामक्रोधलोभानां वीतरागा न गोचराः । सदाचारस्थितास्तेषामनुभावैधृता मही ॥ ४२ ॥
तस्मात्सत्यं वदेत्याको यत्परप्रीतिकारणम् । सत्यं यत्परदुःखाय तदा मौनपरो भवेत् ।। ४३।।
प्रियमुक्तं हितं नैतदिति मत्वा न तद्वदेव । श्रेयस्तत्र हितं वाच्य यद्यप्यत्यन्तमप्रियम् ।। ४४ ॥
प्राणिनामुपकाराय यथैवेह परत्र च । कर्मणा मनसा वाचा तदेव मतिमान्वदेव ॥ ४५ ॥
य इति ॥ अनुभावैः–सव्यादिगुणैः, * सत्येनोत्तभिता भूमिः इति श्रुतेः ॥ ४२-४५ ॥
इति श्रीपराशरमुनिविरचिते श्रीविष्णुपरत्वनिर्णायके श्रीमति विष्णुमहापुराणे तृतीयेऽशे
द्वादशोऽध्यायः ॥ १२ ॥
इति श्रीभगवद्रामानुजपदान्तरंगश्रीविष्णुचित्तविरचिते
विष्णुपुराणब्याख्याने तृतीयेंऽशे द्वादशोऽध्यायः ॥ १२ ॥