श्रीविष्णुपुराणम्
अथाष्टादशोऽध्यायः
श्रीपराशरः –
तपस्यभिरतान्सोऽथ मायामोहो महासुरान् । मैत्रेय ददृशे गत्वा नर्मदातीरसंश्रितान् ॥ १॥
ततो दिगंबरो मुण्डो बर्हिपिच्छधरो द्विज । मायामोहोऽसुरान् श्लक्ष्णमिदं वचनमब्रवीत् ॥ २॥
मायामोहः-
हे दैत्यपतयो ब्रूत यदर्थं तप्यते तपः । ऐहिकार्थं नु पारत्र्यं तपसः फलमिच्छथ ॥ ३ ॥
असुरा:–
पारत्र्यफललाभाय तपश्चर्या महामते । अस्माभिरियमारब्धा किं वा तेऽत्र विवक्षितम् ॥ ४ ॥
मायामोह उवाच –
कुरुध्वं मम वाक्यानि यदि मुक्तिमभीप्सथ । अर्हध्वमेनं धर्मं च मुक्तिद्वारमसंवृतम् ॥ ५ ॥
धर्मो विमुक्तेरर्होऽयं नैतस्मादपरो वरः । अत्रैव संस्थिताः स्वर्गं विमुक्तिं वा गमिष्यथ ॥ ६ ॥
अर्हध्वं धर्ममेतं च सर्वे यूयं महाबलाः ॥ ७ ॥
धर्म इति ॥ अत्रैव — धर्मे ॥ १–७ ॥
श्रीपराशरः-
एवंप्रकारैर्वहुभिर्युक्ति(चोदन) दर्शनचर्चितैः । मायामोहेन ते दैत्या वेदमार्गादपाकृताः ॥ ८ ॥
एवमिति । एवंप्रकारैः–नैतद्युक्तिसहमित्यादिना विवरिष्यमाणैः । युक्तिचोदनचर्चितैः-तर्कागमकृतविचारैः । युक्तिर्दशनतर्कितैरिति पाठे, युक्तिर्योग्यता, दर्शनं प्रत्यक्षं, तर्कितं तर्कः ॥ ८ ॥
धर्मायैतदधर्माय सदेतन्न सदित्यपि । विमुक्तये त्विदं नैतद्विमुक्तिं संप्रयच्छति ॥ ९ ॥
परमार्थोऽयमत्यर्थं परमार्थो न चाप्ययम् । कार्यमेतदकार्यं च नैतदेवं स्फुटं त्विदम् ॥ १० ॥
दिग्वाससामयं धर्मो धर्मोऽयं बहुवाससाम् ॥ ११ ॥
इत्यनेकान्तवादं च मायामोहेन नैकधा । तेन दर्शयता दैत्यास्स्वधर्मं त्याजिता द्विज ॥१२॥
अर्हतैतं महाधर्मं मायामोहेन ते यतः । प्रोक्तास्तमाश्रिता धर्ममर्ह(न्त)तास्तेन तेऽभवन् ॥१३॥
त्रयीधर्मसमुत्सर्गं मायामोहेन तेऽसुराः । कारितास्तन्मया ह्यासंस्ततोऽन्ये तत्प्रचोदिताः ॥ १४ ॥
तैरप्यन्ये परे तैश्च तैरप्यन्ये परे च तैः । अल्पैरहोभिस्संत्यक्ता तैर्दैत्यैः प्रायशस्त्रयी ॥ १५ ॥
धर्मायेति ॥ धर्मायेत्यादिनैकधेत्यन्तं विकल्पोदाहरणसप्तकम् । सप्तधा ह्यनेकान्तवादिनामार्हतानां । सप्तभङ्गी स्याद्वादः-स्यादस्ति, स्यान्नास्ति, स्यादस्ति च नास्ति च, स्यादनिर्वचनीयं, स्यादस्ति चानिर्वचनीयं, स्यान्नास्ति चानिर्वचनीय, स्यादस्ति च नास्ति चानिर्वचनीयमिति ॥ ९-१५ ॥
पुनश्च रक्ताम्बरधृङ् मायामोहो जितेन्द्रियः । अन्यानाहासुरान् गत्वा मृद्वल्पमधुराक्षरम् ॥ १६ ॥
स्वर्गार्थं यदि वो वाञ्छा निर्वाणार्थमथासुराः । तदलं पशुघातादिदुष्टधर्मैर्निबोधत ॥ १७ ॥
पुनरिति । पुनश्चेति बौद्धमतारम्भः ॥ १६, १७ ॥
विज्ञानमयमेवैतदशेषमवगच्छत । बुध्यध्वं मे वचः सम्यग्बुधैरेवमिहोदितम् ॥ १८ ॥
विज्ञानमयमिति ॥ तत्र विज्ञानमयमिति योगाचाराणामात्मख्यातिपक्षोक्तिः ॥ १८ ॥
जगदेतदनाधारं भ्रान्तिज्ञानार्थतत्परम् । रागादिदुष्टमत्यर्थं भ्राम्यते भवसङ्कटे ॥ १९ ॥
जगदिति ॥ जगदेतदनाधारमिति निरधिष्ठानौ भान्तिज्ञानतदर्थाविति माध्यमिकानां शून्यख्यातिपक्षोक्तिः ॥ १९ ॥
एवं बुध्यत बुध्यध्वं बुध्यतैवमितीरयन् । मायामोहः स दैतेयान्धर्ममत्याजयन्निजम् ॥ २० ॥
नानाप्रकारवचनं स तेषां युक्तियोजितम् । तथातथाऽवदद्धर्मं तत्यजुस्ते यथायथा ॥ २१ ॥
तेsप्यन्येषां तथैवोचुरन्यैरन्ये तथोदिताः । मैत्रेय तत्यजुर्धर्मं वेदस्मृत्युदितं परम् ॥ २२ ॥
अन्यानप्यन्यपाषण्डप्रकारैर्बहुभिर्द्विज । दैतेयान्मोहयामास मायामोहोऽतिमोहकृत् ॥ २३ ॥
स्वल्पेनैव हि कालेन मायामोहेन तेऽसुराः । मोहितास्तत्यजुस्सर्वां त्रयीमार्गाश्रितां कथाम् ॥ २४ ॥
केचिद्विनिन्दां वेदानां देवानामपरे द्विज । यज्ञकर्मकलापस्य तथाऽन्ये च द्विजन्मनाम् ॥ २५ ॥
एवमिति ॥ बुध्यतेरावृत्तिर्बौद्धत्वनिरुक्त्त्यर्था ॥ २०-२५ ॥
नैतद्युक्तिसहं वाक्यं हिंसा धर्माय चेष्यते । हवींष्यनलदग्धानि फलायेत्यर्भकोदितम् ॥ २६ ॥
नेति । अधर्ममयी-हिंसा धर्माय चेष्यत इति वाक्यं निर्युक्तिकम् । नेष्यत इति पाठे एतदग्नीषोमीयपशुहिंसाविधिवाक्यं न युक्तिसहम् । यतो * न हिंस्यात्सर्वा(णि) भूतानि * , इति श्रुत्यैव हिंसा धर्माय नेष्यते ॥ २६ ॥
यज्ञैरनेकैर्दैवत्वमवाप्येन्द्रेण भुज्यते । शम्यादि यदि चेत्काष्ठं तद्वरं पत्रभुक्पशुः ॥ २७ ॥
यज्ञैरिति ॥ शम्यादीति । तद्वरं स्वर्गं गत्वाऽपि सकंटकशम्यादिकाष्ठभक्षकात्तस्मादिन्द्रान्मृदु तत्पत्रमिहैवादञ्छागो वरम्–बुद्धिमान् । *दैवादृते वरश्श्रेष्ठे त्रिषु क्लीबं मनाक् प्रिये* इत्यमरः ॥ २७ ॥
निहतस्य पशोर्यज्ञे स्वर्गप्राप्तिर्यदीष्यते । स्वपिता यजमानेन किन्नु तस्मान्न हन्यते ॥ २८ ॥
निहतस्येति ॥ यज्ञे निहतस्य पशोरपि वर्गसिद्धेः तद्धिंसा न दोषाय चेत्तर्हि अन्यस्य पशोर्वधाद्वरं स्वपितुरेव यज्ञे वधः । यदीष्यत इति पाठे यस्मादेवं श्रुत्येष्यते तस्मात्तत्पिता किं न हन्यत इत्यन्वयः ॥ २८ ॥
तृप्तये जायते पुंसो भुक्तमन्येन चेत्ततः । दद्याच्छ्राद्धं श्रमायान्नं न बहेयु: प्रवासिनः ॥ २९ ॥
तृप्तय इति ॥ अन्यभुक्तमन्यस्य तृप्तेर्जायत इति कृत्वा श्राद्धं कुर्याच्चेत्पुत्रादिः तर्हि, प्रोषिताः श्रमावहमन्नं न वहेयुः, ग्रामस्थाने केनचिद्भुक्तेऽपि प्रोषितस्य तृप्तेः । दद्याच्छ्राद्धमिति सम्यक्पाठः ॥ २९ ॥
जनश्रद्धेयमित्येतदवगम्य ततोऽत्र वः। उपेक्षा श्रेयसे वाक्यं रोचतां यन्मयेरितम् ॥ ३० ॥
जनश्रद्धेयमिति । तस्मादेतद्यागादिकं युक्तिहीनं प्राकृतजनश्रद्धेयमित्यवगम्यात्रोपेक्षा श्रेयसे ॥३०॥
न ह्याप्तवादा नभसो निपतन्ति महीं सुराः । युक्तिमद्वचनं ग्राह्यं मयाऽन्यैश्च भवद्विधैः ॥ ३१ ॥
मायामोहेन ते दैत्याः प्रकारैर्बहुभिस्तथा । वृथापिता यथा नैषां त्रयीं कश्चिदरोचयत् ॥ ३२ ॥
इत्थमुन्मार्गयातेषु तेषु दैत्येषु तेऽमराः । उद्योगं परमं कृत्वा युद्धाय समुपस्थिताः ॥ ३३ ॥
ततो देवासुरं युद्धं पुनरेवाभवद्द्विज । हताश्च तेऽसुरा देवैः सन्मार्गपरिपंथिनः ॥ ३४ ॥
सद्धर्मकवचस्तेषामभूद्यः प्रथमं द्विज । तेन रक्षाऽभवत्पूर्वं नेशुर्नष्टे च तत्र ते ॥ ३५ ॥
ततो मैत्रेय तन्मार्गवर्तिनो येऽभवञ्जनाः । नग्नास्ते तैर्यतस्त्यक्तं त्रयी संवरणं यथा । कृताश्च तेऽसुरा देवैर्नाना वेदविनिन्दकाः ॥ ३६ ॥
नन्वपौरुषेयत्वाद्वेदवाक्यं प्रमाणम् ; अतस्तदुक्तं यज्ञाद्यनुष्ठेयं न तु त्वदुक्तमित्याशङ्क्य वेदस्यापौरुषेयत्वमेव नोपपन्नमित्याह-न हीति ॥ आप्तवादाः–प्रमाणवाक्यानि ॥ ३१-३६ ॥
ब्रह्मचारी गृहस्थश्च वानप्रस्थस्तथाश्रमी । परिव्राड् वा चतुर्थोऽत्र पञ्चमो नोपपद्यते ॥ ३७ ॥
यस्तु सन्त्यज्य गार्हस्थ्यं वानप्रस्थो न जायते । परिव्राट् वापि मैत्रेय स नग्नः पापकृन्नरः ॥ ३८ ॥
नित्यानां कर्मणां विप्र यस्य हानिरहर्निशम् । अकुर्वन्विहितं कर्म शक्तः पतति तद्दिने ॥ ३९ ॥
प्रायश्चित्तेन महता शुद्धिमाप्नोत्यनापदि । पक्षं नित्यक्रियाहानेः कर्ता मैत्रेय मानवः ॥ ४० ॥
संवत्सरं क्रियाहानिर्यस्य पुंसोऽभिजायते । तस्यावलोकनात्सूर्यो निरीक्ष्यस्साधुभिस्सदा ॥ ४१ ॥
स्पृष्टे स्नानं सचेलं स्यात् शुद्धेर्हेतुर्महामते । पुंसो भवति तस्योक्ता न शुद्धिः पापकर्मणः ॥ ४२ ॥
देवर्षिपितृभूतानि यस्य विप्रस्य वेश्मनि । प्रयान्त्यनर्चितान्यत्र लोके तस्मान्न पापकृत् ॥ ४३ ॥
देवादिनिश्वासहतं शरीरं यस्य वेश्म च । न तेन संकरं कुर्याद्गृहासनपरिच्छदैः ॥ ४४ ॥
संभाषणानुप्रश्नादि सहास्यां चैव कुर्वतः । जायते तुल्यता तस्य तेनैव द्विज वत्सरात् ॥ ४५ ॥
अथ भुङ्क्ते गृहे तस्य करोत्यास्यां तथासने । शेते चाप्येकशयने स सद्यस्तत्समो भवेत् ॥ ४६ ॥
देवतापितृभूतानि तथाऽनभ्यर्च्य योऽतिथीन् । भुङ्क्ते स पातकं भुङ्क्ते निष्कृतिस्तस्य नेष्यते ॥४७॥
ब्राह्मणाद्यास्तु ये वर्णास्स्वधर्मादन्यतोमुखाः । यान्ति ते नग्नसंज्ञा तु हीनकर्मस्ववस्थिताः ॥ ४८ ॥
चतुर्णां यत्र वर्णानां मैत्रेयात्यन्तसंकरः । तत्रास्या साधुवृत्तीनामुपघाताय जायते ॥ ४९ ॥
अनभ्यर्च्य ऋषीन्देवान्पितृभूतातिथींस्तथा । यो भुङ्क्ते तस्य संल्लापात्पतन्ति नरके नराः ॥ ५० ॥
तस्मादेतान्नरो नग्नांस्त्रयीसन्त्यागदूषितान् । सर्वदा वर्जयेत्प्राज्ञ आलापस्पर्शनादिषु ॥ ५१ ॥
श्रद्धावद्भिः कृतं यत्नाद्देवान्पितृपितामहान् । न प्रीणयति तच्छ्राद्धं यदेभिरवलोकितम् ॥ ५२ ॥
श्रूयते च पुरा ख्यातो राजा शतधनुर्भुवि । पत्नी च शैब्या तस्याभूदतिधर्मपरायणा ॥ ५३ ॥
पतिव्रता महाभागा सत्यशौचदयान्विता । सर्वलक्षणसम्पन्ना विनयेन नयेन च ॥ ५४ ॥
स तु राजा तया सार्धं देवदेवं जनार्दनम् । आराधयामास विभुं परमेण समाधिना ॥ ५५ ॥
होमैर्जपैस्तथा दानैरुपवासैश्च भक्तितः । पूजाभिश्चानु दिवसं तन्मना नान्यमानसः ॥ ५६ ॥
एकदा तु समं स्नातौ तौ तु भार्यापती जले । भागीरथ्यास्समुत्तीर्णौ कार्त्तिक्यां समुपोषितौ । पाषण्डिनमपश्येतामायान्तं सम्मुखं द्विज ॥ ५७ ॥
चापाचार्यस्प तस्यासौ सखा राज्ञो महात्मनः । अतस्तद्गौरवात्तेन सहालापमथाकरोत् ॥ ५८ ॥
न तु सा वाग्यता देवी तस्य पत्नी पतिव्रता। उपोषिताऽस्मीति रविं तस्मिन्दृष्टे ददर्श ह ॥ ५९ ॥
समागम्य यथान्यायं दम्पती तौ यथाविधि । विष्णोः पूजादिकं सर्वं कृतवन्तौ द्विजोत्तम ॥ ६० ॥
कालेन गच्छता राजा ममारासौ सपत्नजित् । अन्वारुरोह तं देवी चितास्थं भूपतिं पतिम् ॥ ६१ ॥
स तु तेनापचारेण श्वा जज्ञे वसुधाधिपः । उपोषितेन पापंडसल्लापो यत्कृतोऽभवत् ।।६२ ।।
सा तु जातिस्मरा जज्ञे काशीराजसुता शुभा । सर्वविज्ञानसंपूर्णा सर्वलक्षणपूजिता ॥ ६३ ॥
तां पिता दातुकामोऽभूद्वराय विनिवारितः । तयैव तन्व्या विरतो विवाहारंभतो नृपः ॥ ६४ ॥
ततस्सा दिव्यया दृष्ट्या दृष्ट्वा श्वानं निजं पतिम् । विदिशाख्यं पुरं गत्वा तवस्यं ददर्श तम्॥६५॥
तं दृष्ट्वैव महाभागं श्वभूतं तु पतिं तथा । ददौ तस्मै वराहारं सत्कारप्रवणं शुभा ॥ ६६ ॥
भुञ्जन्दत्तं तया सोऽन्नमतिमृष्टमभीप्सितम् । स्वजातिललितं कुर्वन्बहु चाटु चकार वै ॥ ३७ ॥
अतीव व्रीडिता बाला कुर्वता चाटु तेन सा । प्रणामपूर्वमाहेदं दयित तं कुयोनिजम् ॥ ६८ ॥
स्मर्यतां तन्महाराज दाक्षिण्याल्लपितं त्वया । येन श्वयोनिमापन्नो मम चाटुकरो भवान् ॥ ६९ ॥
ब्रह्मचारीति ॥ आश्रमी इति ब्रह्मचार्यादिमिः प्रत्येकं सम्बध्यते । आदिभरतस्तु नैष्ठिक इति तत्रैव दर्शितः ॥ ३७-६९ ॥
पाषण्डिनं समाभाष्य तीर्थस्नानादनन्तरम् । प्राप्तोऽसि कुत्सितां योनिं किन्न स्मरसि तत्प्रभो ॥ ७० ॥
श्रीपराशरः-
तयैवं स्मारिते तस्मिन्पूर्वजातिकृते तदा । दध्यौ चिरमथावाप निर्वेदमतिदुर्लभम् ॥ ७१ ॥
स्मर्यतामिति ॥ चाटु-प्रीतिचेष्टा, स्मर्यताम् ॥ ७०, ७१ ॥
निर्विण्णचित्तस्स ततो निर्गम्य नगराद्बहिः । मरुप्रपतनं कृत्वा सार्गालीं योनिमागतः ॥ ७२ ॥
सापि द्वितीये संप्राप्ते वीक्ष्य दिव्येन चक्षुषा । ज्ञात्वा सुगालं तं द्रष्टुं ययौ कोलाहलं गिरिम् ॥ ५३ ॥
तत्रापि दृष्ट्वा तं प्राह सार्गालीं योनिमागतम् । भर्तारमतिचार्वङ्गी तनया पृथिवीक्षितः ॥ ७४ ॥
अपि स्मरसि राजेन्द्र श्वयोनिस्थस्य यन्मया । प्रोक्तं ते पूर्वचरितं पाषण्डालापसंश्रयम् ॥ ७५ ॥
पुनस्तयोक्तं स ज्ञात्वा सत्यं सत्यवतां वरः । कानने स निराहारस्तत्याज स्वं कलेवरम् ॥७६ ॥
निर्विण्णचित्त इति ॥ मरुप्रपतनं–गिरितटात्पातः ॥ ७२-७६ ॥
भूयस्ततो वृको जज्ञे गत्वा तं निर्जने वने । स्मारयामास भर्तारं पूर्ववृत्तमनिन्दिता ॥ ७७ ॥
न त्वं वृको महाभाग राजा शतधनुर्भवान् । श्वा भूत्वा त्वं सृगालोऽभूर्वृकत्वं साम्प्रतं गतः ॥ ७८ ॥
स्मारितेन यदा त्यक्तस्तेनात्मा गृध्रतां गतः । अपापा सा पुनश्चैनं बोधयामास भामिनी ॥ ७९ ॥
नरेन्द्र स्मर्यतामात्मा ह्यलं ते गृध्रचेष्टया । पाषण्डालापजातोऽयं दोषो यद्गृध्रतां गतः ॥ ८० ॥
ततः काकत्वमापन्नं समनन्तरजन्मनि । उवाच तन्वी भर्तारमुपलभ्यात्मयोगतः ॥ ८१ ॥
भूय इति ॥ वृकः वनश्वा ॥ ७७-८१ ॥
अशेषभूभृतः पूर्वं वश्या यस्मै बलिं ददुः । स त्वं काकत्वमापन्नो जातोऽद्य बलिभुक् प्रभो ॥ ८२ ॥
एवमेव बकत्वेऽपि स्मारितस्स पुरातनम् । तत्त्याज भूपतिः प्राणान्मयूरत्वमवाप च ॥ ८३ ॥
मयूरत्वे ततस्सा वै चकारानुगतिं शुभा । दत्तैः प्रतिक्षणं भोज्यैर्वाला तज्जातिभोजनैः ॥ ८४ ॥
ततस्तु जनको राजा वाजिमेधं महाक्रतुम् । चकार तस्यावभृथे स्नापयामास तं तदा ॥ ८५ ॥
सस्नौ स्वयं च तन्वङ्गी स्मारयामास चापि तम् । यथाऽसौ श्वसृगालादियोनिं जग्राह पार्थिवः ॥८६॥
स्मृतजन्मक्रमस्सोऽथ तत्त्याज स्वकलेवरम् । जज्ञे स जनकस्यैव पुत्रोऽसौ सुमहात्मनः ॥ ८७ ॥
ततस्सा पितरं तन्वी विवाहार्थमचोदयत् । स चापि कारयामास तस्या राजा स्वयंवरम् ॥ ८८ ॥
स्वयंवरे कृते सा तं संप्राप्तं पतिमात्मनः । वरयामास भूयोऽपि भर्तृभावेन भामिनी ॥ ८९ ॥
बुभुजे च तया सार्द्धं स भोगान्नृपनन्दनः । पितर्युपरते राज्यं विदेहेषु चकार सः ॥ ९० ॥
इयाज यज्ञान्सुवहून्ददी दानानि चार्थिनाम् । पुत्रानुत्पादयामास युयुधे च सहारिभिः ॥ ९१ ॥
राज्यं भुक्त्वा यथान्यायं पालयित्वा वसुन्धराम् । तत्त्याज स प्रियान्प्राणान्संग्रामे धर्मतो नृपः ॥१२॥
ततश्चितास्थं तं भूयो भर्तारं सा शुभेक्षणा । अन्वारुरोह विधिवद्यथापूर्वं मुदान्विता ॥ ९३ ॥
अशेषेति ॥ बलि:-उपहारः पिण्डश्च ॥ ८२-९३ ॥
ततोऽवाप तया सार्धं राजपुत्र्या स पार्थिवः । ऐन्द्रानतीत्य वै लोकॉल्लोकान्कामदुहोऽक्षयान् ॥ ९४ ॥
ऐन्द्रान् लोकानतीत्य कामदुहो लोकानवापेत्यन्वयः ॥ ९४ ॥
स्वर्गाक्षयत्वमतुलं दाम्पत्यमतिदुर्लभम् । प्राप्तं पुण्यफलं प्राप्य संशुद्धिं तां द्विजोत्तम ॥ ९५ ॥
एष पाषण्डसंभाषाद्दोषः प्रोक्तो मया द्विज । तथाऽश्वमेधावभृथस्नानमाहात्म्यमेव च ॥ ९६ ॥
तस्मात्पाषण्डिभिः पापैरालापस्पर्शनं त्यजेत् । विशेषतः क्रियाकाले यज्ञादौ चापि दीक्षितः ॥ ९७ ॥
क्रियाहानिर्गृहे यस्य मासमेकं प्रजायते । तस्यावलोकनात्सूर्यं प्रपश्येन्मतिमान्नरः ॥ ९८ ॥
स्वर्गेति ॥ दाम्पत्यं–मिथुनं, तां–पूर्वोक्तां संशुद्धिं प्राप्य पुण्यफलमतुलं स्वर्गाक्षयत्वं प्राप्तमित्यन्वयः ॥ ९५-९८ ॥
किं पुनर्यैस्तु सन्त्यक्ता त्रयी सर्वात्मना द्विज । पाषण्डभोजिभिः पापैर्वेदवादविरोधिभिः ॥ ९९ ॥
सहालापस्तु संसर्गः सहास्या चातिपापिनी । पाषण्डिभिर्दुराचारैस्तस्मात्तान् परिवर्जयेत् ॥ १०० ॥
किं पुनरीति | पाषण्डान् भोजयन्ति, तदन्नं भुञ्जत इति वा पाषण्डभोजिनः ॥ ९९, १०० ॥
पाषण्डिनो विकर्मस्थान्बैडालव्रतिकाञ्छठान् । हैतुकान्बकवृत्तींश्च वाङ्मात्रेणापि नार्चयेत् ॥ १०१ ॥
दूरतस्तैस्तु संपर्कस्त्याज्यश्चाप्यतिपापिभिः । पाषण्डिभिर्दुराचारैस्तस्मात्तान्परिवर्जयेत् ॥ १०२ ॥
एते नग्नास्तवाख्याता दृष्टाः श्राद्धोपघातकाः । येषां संभाषणात्पुंसां दिनपुण्यं प्रणश्यति ॥ १०३ ॥
एते पाषण्डिनः पापा न ह्येतानालपेद्बुधः । पुण्यं नश्यति संभाषादेतेषां तद्दिनोद्भवम् ॥ १०४ ॥
पाषण्डिन इति ॥ पाषण्डिलक्षणं तूक्तं यथा- * भ्रष्टः स्वधर्मात्पाषण्डो विकर्मस्थो निषिद्धकृत् । यश्च धर्मध्वजो नित्यं सुरध्वज इवोच्छ्रितः ॥ धर्मध्वजः-दण्डकमण्डल्यादिः धर्मचिन्हम् । *प्रच्छन्नानि च पापानि बैडालं नाम तद्व्रतम् तद्व्रतं-तस्य व्रतम् । * प्रियं वक्ति पुरोऽन्यत्र विप्रियं कुरुते भृशम् । व्यक्तापराधचेष्टश्च शठोऽयं कथितो बुधैः॥ संदेहकुद्धेतुभिर्यः सत्कर्मसु स हैतुकः । अर्वाग्दृष्टिर्नैकृतिकः स्वार्थसाधनतत्परः ॥ शठो मिथ्याविनीतश्च बकवृत्तिरुदाहृतः ॥ इति ॥ १०१-१०४॥
पुंसां जटाधरणमौण्ड्यवतां वृथैव मोघाशिनामखिलशौचनिराकृतानाम् । तोयप्रदानपितृपिण्डबहिष्कृतानां संभाषणादपि नरा नरकं प्रयान्ति ॥ १०५ ॥
पुंसामिति ॥ मोघाशिनां-देवातिथिपितृपूजानुपयुक्तान्नभोजिनाम् ॥ १०५ ॥
इति श्रीपराशरमुनिविरचिते श्रीविष्णुपरत्वनिर्णायके श्रीमति विष्णुमहापुराणे
तृतीयेंऽशेऽष्टादशोऽध्यायः ॥ १८ ॥
इति श्रीभगवद्रामानुजपदान्तरंगश्रीविष्णुचित्तविरचिते
विष्णुपुराणब्याख्याने तृतीयेंऽशेऽष्टादशोऽध्यायः॥ १८ ॥
॥ समाप्तश्च तृतीयोंऽशः॥