श्रीविष्णुपुराणम्
चतुर्थांशे एकादशोऽध्यायः
श्रीपराशर उवाच
अतः परं ययातेः प्रथमपुत्रस्य यदोर्वंशमहं कथयामि ॥ १ ॥
।। १ ॥
यत्राशेषलोकनिवासो मनुष्यसिद्धगन्धर्वयक्षराक्षसगुह्यककिंपुरुषाप्सरोरगविहगदैत्यदानवादित्यरुद्रवस्वश्विमरुद्देवर्षिभिर्मुमुक्षुभिर्धर्मार्थकाममोक्षार्थिभिश्च तत्तत्फललाभाय सदाभिष्टुतोऽपरिच्छेद्यमाहात्म्यांशेन भगवाननादिनिधनो विष्णुरवततार ॥ २ ॥
अत्र श्लोकः ॥ ३ ॥
यदोर्वंशं नरः श्रुत्वा सर्वपापैः प्रमुच्यते ।
यत्रावतीर्णं कृष्णाख्यं परं ब्रह्मनराकृति ॥ ४ ॥
सहस्रजित्क्रोष्टुनलनहुषसंज्ञाश्चात्वारो यदुपुत्रा बभुवुः ॥ ५ ॥
सहस्रजित्पुत्रश्शतजित् ॥ ६ ॥
तस्य हैहयहेहयवेणुहयास्त्रयः पुत्रा बभूवुः ॥ ७ ॥
हैहयपुत्रो धर्मः तस्यापि धर्मनेत्रः ततः कुन्तिः कुन्तेः सहजित् ॥ ८ ॥
तत्तनयो महिष्मान् योऽसौ माहिष्मतों पुरीं निर्वापयामास ॥ ९ ॥
तस्माद्भद्रश्रेण्यस्ततो दुर्दमस्तस्माद्धनकः धनकस्य कृतवीर्यकृताग्निकृतधर्मकृतौजसश्चत्वारः पुत्रा बभूवुः ॥ १० ॥
कृतवीर्यादर्जुनः सप्तद्वीपाधिपतिर्बाहुसहस्रो जज्ञे ॥ ११ ॥
योऽसौ भगवदंशमत्रिकुलप्रसूतं दत्तात्रेयाख्यमाराध्य बाहुसहस्रमधर्मसेवानिवारणं स्वधर्मसेवित्वं रणे पृथिवीजयं धर्मतश्चानुपालनमारातिभ्योऽपराजयमखिलजगत्प्रख्यातपुरुषाच्च मृत्युमित्येतान् वरानभिलषितवांन् लेभे च ॥ १२ ॥
तेनेयमशेषद्वीपवती पृथिवी सम्यक्परीपालिता ॥ १३ ॥
दशयज्ञसहस्राण्यसावयजत् ॥ १४ ॥
तस्य च श्लोकोऽद्यापि गीयते ॥ १५ ॥
न नूनं कार्तवीर्यस्य गतिं यास्यन्ति पार्थिवाः ।
यज्ञैर्दानैस्तपोभिर्वा प्रश्रयेण श्रुतेन च ॥ १६ ॥
यदुवंशस्य सर्वोत्कृष्ट्यमाह — यत्रेति ॥ त्र—यदोवंशे, मुमुक्षुभिः केवलमोक्षार्थिभिः, अंशेन-
लीलागृहीतपरिच्छिन्नमूर्तिव्यवहितत्वादंश इति व्यपदेश्येन स्वरूपेण । अत एव परं ब्रह्म नराकृतीवत्यभिहितम् ।। २-१६ ॥
अनष्टद्रव्यता च तस्य राज्येऽभवत् ॥ १७ ॥
एवं च पञ्चाशीतिवर्षसहस्रण्यव्याहतारोग्यश्रीबलपराक्रमो राज्यमकरोत् ॥ १८ ॥
माहिष्मत्यां दिग्विजयाभ्यागतो नर्मदाजलावगाहनक्रीडातिपानमदाकृलेनायत्नेन तेनाशेषदेवदैत्यगंधर्वेशजयोद् भूतमदावलेपोऽपि रावणः पशुरिव बद्ध्वा स्वनगरैकान्ते स्थापितः ॥ १९ ॥
यश्च पञ्चाशीतिवर्शसहस्रोपलक्षणकालावसाने भगवन्नारायणांशेन परशुरामेणोपसंहृतः ॥ २० ॥
तस्य च पुत्रशतप्रधानाः पञ्चपुत्रा बभूवुः शुरशूरसेनवृषसेनमधुजयध्वजसंज्ञाः ॥ २१ ॥
जयध्वजात्तालजङ्घः पुत्रोभवत् ॥ २२ ॥
तालजङ्घस्य तालजङ्घाख्यं पुत्रशतमासीत् ॥ २३ ॥
एषां ज्येष्ठे वीतिहोत्रस्तथान्यो भरतः ॥ २४ ॥
भरताद्वृषः ॥ २५ ॥
वृषस्य पुत्रो मधुरभवत् ॥ २६ ॥
तस्यापि वृष्णिप्रमुखं पुत्रशतमासीत् ॥ २७ ॥
यतो वृष्णिसंज्ञामेतद्गोत्रमवाप ॥ २८ ॥
मधुसंज्ञाहेतुश्च मधुरभवत् ॥ २९ ॥
यादवाश्च यदुनामोपलक्षणादिति ॥ ३० ॥
अनष्टेति ॥ अनष्टद्रव्यताऽभवदिति उपलक्षणम्, अद्यापि तन्नामोक्त्या नष्टलब्धेः । अनष्टद्रव्यता
चैव तव नामाभिकीर्तनात्, भविष्यति इति श्रीविष्णुधर्मे न तस्य द्रव्यनाशः स्यान्नष्टं प्रतिलमेत सः इति श्रीहरिवंशे च ॥ कार्तवीर्यार्जुनो नाम राजा बाहुसहस्रवान् । तस्य स्मरणतो विद्वानष्टद्रव्यं लमेत वै ।
इति मंत्रशास्त्रे च ॥ १७–३० ।।
इति श्रीविष्णुमहापुराणे चतुर्थांश एकादशोऽध्यायः ११
_____________________________________________________________
चतुर्थांशे द्वादशोऽध्यायः
श्रीपराशर उवाच
क्रोष्टोस्तु यदुपुत्रस्यात्मजो ध्वजिनीवान् ॥ १ ॥
।। १,२ ॥
ततश्च स्वातिः ततो रुशङ्कुः रुशङ्कोश्चित्ररथः ॥ २ ॥
तत्तनयः शशिबिन्दुः चतुर्दशमहारत्नेशश्चक्रवर्त्यभवत् ॥ ३ ॥
तस्य च शतसहस्रं पत्नी नामभवत् ॥ ४ ॥
दशलक्षसंख्याश्च पुत्राः ॥ ५ ॥
तेषां च पृथुश्रवाः पृथुकर्मा पृथुकीर्तिः पृथुयशाः पृथुजयः पृथुदानः षट्पुत्राः प्रधानाः ॥ ६ ॥
पृथुश्रवसश्च पुत्रः पृथुतमः ॥ ७ ॥
तस्मादुशनाः यो वाजिमेधानां शतमाजहार ॥ ८ ॥
तस्य च शितपुर्नाम पुत्रोऽभवत् ॥ ९ ॥
तस्यापि रुक्मकवचस्ततः परवृत् ॥ १० ॥
तस्य परावृतो रुक्मेषुपृथुरुक्मज्यामघवलितहरितसंज्ञाः पञ्चात्मजा बभूवुः ॥ ११ ॥
तस्मायमद्यापि ज्यामघस्य श्लोको गीयते ॥ १२ ॥
भार्यावश्यास्तु ये केचिद्भविष्यन्त्यथ वा मृताः ।
तेषां तु ज्यामघः श्रेष्ठः शैव्यापतिरभून्नृपः ॥ १३ ॥
अपुत्रा तस्य सा पत्नी शैव्या नाम तथाऽप्यसौ ।
अपत्यकामोऽपि भयान्नान्यां भार्यामविन्दत ॥ १४ ॥
स त्वेकदा प्रभूतरथतुरगगजसंमर्दातिदारुणे महाहवे युद्ध्यमानः सकलमेवारिचक्रमजयत् ॥ १५ ॥
तत्तनय इति ॥ चतुर्दशमहारत्नेश इत्यत्र चतुर्दशरत्नानि धर्मसंहितोकानि-वक्रं रथो मणिः
खड्गं चर्म रत्नं च पंचमम् । केतुर्निधिश्च सप्तैव प्राणहीनानि चक्षते ॥ भार्या पुरोहितश्चैत्व सेनानी रथकृच्च यः ।
पत्यश्वकलमाथेति प्राणिनः सप्त कीर्तिताः ॥ चतुर्दशेति रत्नानि सर्वेषां चक्रवर्तिनाम् ॥ इति । एतानि स्वजाति-
श्रेष्ठ्याद्रत्नसंज्ञानि ॥ ३-१५ ।।
तच्चारिचक्रमपास्तपुत्रकलत्रबन्धुबलकोशं स्वमधिष्ठानं परित्यज्य दिशः प्रति विद्रुतम् ॥ १६ ॥
तच्चेति ॥ अधिष्ठानम् – निवासम् ॥ १६ ॥
तस्मिंश्च विद्रुतेऽतित्रासलोलायतलोचनयुगलं त्राहित्राहि मां तातांब भ्रतरित्याकुलविलापविधुरं स राजकन्यारत्नमद्राक्षीत् ॥ १७ ॥
तद्दर्शनाच्च तस्यामनुरागानुगतान्तरात्मा स नृपोऽचिन्तयत् ॥ १८ ॥
साध्विदं ममापत्यरहितस्य वन्ध्याभर्तुः सांप्रतं विधिनाऽपत्यकारणं कन्यारत्नमुपपादितम् ॥ १९ ॥
तदेतत्समुद्वहामीति ॥ २० ॥
अथ चैनां स्यन्दनमारोप्य स्वमधिष्ठानं नयामि ॥ २१ ॥
तयैव देव्या शैव्ययाऽहमनुज्ञातःसमुद्वहामीति ॥ २२ ॥
अथैनां रथमारोप्य स्वनगरमगच्छत् ॥ २३ ॥
विजयिनं च राजानमशेषपौरभृत्वयरिजनामात्यसमेता शैव्या द्रष्टुमधिष्ठानद्वारमागता ॥ २४ ॥
सा चावलोक्य राज्ञः सव्यपार्श्ववर्त्तिनीं कन्यामीषदुद्भूतामर्षस्फुरदधरपल्लवा राजानमवोचत् ॥ २५ ॥
अतिचपलचित्तात्र स्यन्दने केयमारोपितेति ॥ २६ ॥
असावप्यनालोचितोत्तरवचनोऽतिभयात्तामाह स्नुषा ममेयमिति ॥ २७ ॥
अथैनं शैव्योवाच ॥ २८ ॥
तस्मिन्निति ॥ विधुरम् – आर्तम् ।। १७-२८ ।।
नाहं प्रसूता पुत्रेण नान्या पत्न्यभवत्तव ।
स्नुषासंबन्धता ह्येषा कतमेन सुतेन ते ॥ २९ ॥
श्रीपराशर उवाच
इत्यात्मेर्ष्याकोपकलुषितवचनमुषितविवेको भयाद्दुरुक्तपरिहारार्थमिदमवनीपतिराह ॥ ३० ॥
नेति ॥ पुत्रेणेति । उपलक्षितेनेति शेषः ॥ २९, ३० ॥
यस्ते जनिष्यत्यात्मजस्तस्येयमनागतस्यैव भार्या निरूपितेत्याकर्ण्योद्भूतमृदुहासा तथेत्याह ॥ ३१ ॥
प्रविवेश च राज्ञा सहाधिष्ठानम् ॥ ३२ ॥
य इति ॥ अनागतं पुत्रमुद्दिश्येति शेषः। ‘अनागतम्’ इति च पाठः ॥ ३१, ३२ ॥
अनन्तरं चातिशुद्धलग्नहोरांशकावयवोक्तकृतपुत्रजन्मालापगुणाद्वयसः परिणाममुपगताऽपि शैव्या स्वल्पैरेवाहोभिर्गर्भमवाप ॥ ३३ ॥
कालेन च कुमारमजीजनत् ॥ ३४ ॥
तस्य च विदर्भ इति पिता नाम चक्रे ॥ ३५ ॥
स च तां स्नुषामुपयेमे ॥ ३६ ॥
तस्यां चासौ क्रथकैशिकसंज्ञौ पुत्रावजनयत् ॥ ३७ ॥
पुनश्च तृतीयं रोमपादसंज्ञं पुत्रमजीजनद्यो नारदादवाप्तज्ञानवान् भविष्यतीति ॥ ३८ ॥
रोमपादाद्बभ्रुः बभ्रोर्धृतिर्धतेः कैशिकः कैशिकस्यापि चेदिः पुत्रोऽभवत्यस्य संततौ चैद्या भूपालाः ॥ ३९ ॥
क्रथस्य स्नषापुत्रस्य कुन्तिरभवत् ॥ ४० ॥
कुन्तेर्धृष्टिः धृष्टेर्निधृतिः निधृतेर्दशार्हस्ततश्च व्योमः तस्यापि जीमूतः ततश्च विकृतिः ततश्च भीभरथः तस्मान्नवरथः तस्यापि दशरथः ततश्च शकुनिः तत्तनयः करंभिः करंभेर्देवरातोऽभवत् ॥ ४१ ॥
तस्माद्देवक्षत्रः तस्यापि मधुः मधोः कुमारवंशः कुमारवंशादनुः अनोः पुरुमित्रः पृथिवीपतिरभवत् ।। ४२ ॥
ततश्चांशुस्तस्माच्च सत्वतः ॥ ४३ ॥
अनंतरमिति ॥ अतिशुद्धेति । शुभग्रहषड्वर्गशुभयुक्तेक्षितश्च, लग्नं राश्युदयकालः, तदर्धं- होरा,
राशेत्र्यंशो द्रेष्काणः, नवमो भागो नवांशकः, अवयवशब्दाद्राशेर्द्वादशांशस्त्रिंशांशश्च प्रायः । अत्राहुः –
द्रेष्काणदोशनवभागसंज्ञास्त्रिशांशका द्वादशसंज्ञिताश्च । क्षेत्रं च यत्रस्य स तस्य वर्गो होरेति लग्नं भवनस्य
चार्धम् इति । लग्नाद्यवयववति काले उक्तेन कृतो यः पुत्रजन्मविषयस्यालापस्य गुणः आलापगुण:- वाक्यगुणः
तस्मात् । पुत्रजन्मलाभगुणादिति च पाठः ॥ ३३-४३ ।।
सत्वतादेते सात्वताः ॥ ४४ ॥
इत्येतां ज्यामघस्य संततिं सम्यक्छ्रद्धासमन्वितः श्रुत्वा पुमान्मैत्रेय स्वपापैः प्रमुच्यते ॥ ४५ ॥
सत्वतादिति ॥ एते सात्वता वक्ष्यमाणाः ॥ ४४, ४५ ॥
इति श्रीविष्णुमाहापुराणे चतुर्थांशे द्वादशोऽध्यायः १२
चतुर्थांशे त्रयोदशोऽध्यायः
श्रीपराशर उवाच
भजनभजमानदिव्यान्धकदेवावृधमहाभोजवृष्णिसंज्ञाःसत्वतस्य पुत्रा बभूवुः ॥ १ ॥
॥ १ ॥
भजमानस्य निमिकृकणवृष्मयस्तथाऽन्ये तद्वैमात्राः शतजित्सहस्रजिदयुतजित्संज्ञास्त्रयः ॥ २ ॥
देवावृधस्यापि बभ्रुः पुत्रोऽभवत् ॥ ३ ॥
तयो श्चायं श्लोको गीयते ॥ ४ ॥
भजनस्येति । तद्दैमात्रः- निम्यादिसापत्न्याः ।। १-४ ।।
यथैव शृणुमो दूरात्संपश्यामस्तथान्तिकात् ।
बभ्रुः श्रोष्ठो मनुष्याणां देवैर्देवावृधःसमः ॥ ५ ॥
पुरुषाः षट्च षष्टिश्च सहस्राणि तथाऽष्ट ये ।
तेऽमृतत्वमनुप्राप्ता बभ्रोर्देवावृधादपि ॥ ६ ॥
पुरुषा इत्यादि || बभ्रोर्देवावृधादपीति हेतो पंचमी । ताभ्यामुपदिष्टमार्गेण ये अमृतत्वमनुप्राप्तास्ते
उक्तसंख्याः पुरुषाः। बभ्रुदेवावृधावपीति पाठोऽपि हेतौ प्रथमा, बभ्रोर्देवावृधादपीत्येव हरिवंशादिषु पाठात् ।। ६ ।।
महाभोजस्त्वतिधर्मात्मा तस्यान्वये भोजाः मृत्तिकावतपुरनिवासिनो मार्तिकावरा बभूवुः ॥ ७ ॥
वृष्णेः सुमित्रो युधाजिच्च पुत्रावभूताम् ॥ ८ ॥
ततश्चानमित्रः तथानमित्रान्निघ्नः ॥ ९ ॥
निघ्नस्य प्रसेन सत्राजितौ ॥ १० ॥
तस्य च सत्राजितो भगवानादित्यः सखाभवत् ॥ ११ ॥
एकदा त्वंभोनिधितीरसंश्रयः सूर्यं सत्राजित्तुष्टाव तन्मनस्कतया च भास्वानभिष्टूयमानोऽग्रतस्तस्थौ ॥ १२ ॥
ततस्त्वस्पष्टमूर्तिधरं चैनमालोक्य सत्राजित्सूर्यमाह ॥ १३ ॥
यथैव व्योम्नि बह्निपिण्डोपमन्त्वामहमपश्यं तथैवाद्याग्रतो गतमप्यत्र भगवता किञ्चिन्न प्रसादीकृतं विशेषमुपलक्षयामीत्येवमुक्ते भगवता सूर्येण निजकण्ठादुन्मुच्य स्यमन्तकं नाम महामणिवरमवतार्यैकान्ते न्यस्तम् ॥ १४ ।।
ततस्तमाताम्रोज्ज्वलं ह्रस्ववपुषमीषदापिङ्गलनयनमादित्यमद्राक्षीत् ॥ १५ ॥
कृतप्रणिपातस्तवादिकं च सत्राजितमाह भगवानादित्यःसहस्रदीधितिः वरमस्मत्तोभिमतं वृणीष्वेति ॥ १६ ॥
स च तदेव मणिरत्नमयाचत ॥ १७ ॥
स चापि तस्मै तद्दत्त्वा दीधितिपतिर्वियति स्वधिष्ण्यमारुरोह ॥ १८ ॥
सत्राजितोऽप्यमलमणिरत्नसनाथकण्ठतया सूर्य इव तेजोभिरशेषदिगन्तराण्युद्भासयन् द्वारकां विवेश ॥ १९ ॥
द्वारकावासी जनस्तु तमायान्तमवेक्ष्य भगवन्तमादिपुरुषं पुरुषोत्तममवनिभारावतरणायांशेन मानुषरूपधारिणं प्रणिपत्याह ॥ २० ॥
भगवन् भवन्तं द्रष्ट्रं नूनमयमादित्य आयातीत्युक्तो भगवानुवाच ॥ २१ ॥
भगवान्नायमादित्यः सत्राजितोऽयमादित्यदत्तं स्यमन्तकाख्यं महामणिरत्नं बिभ्रदत्रोपयाति ॥ २२ ॥
तदेनं विस्त्रब्धाः पश्यतेत्युक्तास्ते तथैव ददृशुः ॥ २३ ॥
स च तं स्यमन्तकमणिमात्मनिवेशने चक्रे ॥ २४ ॥
महाभोज इति ॥ मार्त्तिकावता: – मृत्तिकावत्याख्यपुरस्थाः । मार्त्तिकावरा इति च पाठः ।।७-२४ ।।
प्रतिदिनं तन्मणिरत्नमष्टौ कनकभारान्स्त्रवति ॥ २५ ॥
प्रतिदिनमिति ॥ माषो दशार्द्धगुंज: पोडशमाषो निगद्यते कर्षः । कर्षेश्वड्भिः स्वर्णस्तैरेव पलं
चतुर्भिस्तु ॥ तुला पलशतं ज्ञेया भारस्स्याद्विंशतिस्तुलाः ॥ इत्युक्तत्वात् ॥ २५ ॥
तत्प्रभावाच्च सकलस्यैव राष्ट्रस्योपसर्गानावृष्टिव्यालाग्नितो यद्दुर्भिक्षादिभयं न भवति ॥ २६ ॥
अच्युतोऽपि तद्दिव्यं रत्नमुग्रसेनस्य भूपतेर्योग्यमेतदिति लिप्सां चक्रे ॥ २७ ॥
गोत्रभेदभयाच्छक्तोपि न जहार ॥ २८ ॥
सत्राजिदप्यच्युतो मामेतद्याचयिष्यतीत्यवगम्य रत्नलोभाद्भ्रात्रे प्रसेनाय तद्रत्नमदात् ॥ २९ ॥
तच्च शुचिना ध्रियमाणमशेषमेव सुवर्णस्त्रवादिकं गुणजातमुत्पादयति अन्यथा धारयन्तमेव हन्तीत्यजानन्नसावपि प्रसेनस्तेन कण्ठसक्तेन स्यमन्तकेनाश्वमारुह्याटव्यां मृगयामगच्छत् ॥ ३० ॥
तत्र च सिंहाद्वधमवाप ॥ ३१ ॥
साश्वं च तं निहत्य सिंहोप्यमलमणिरत्नमास्याग्रेणादाय गन्तुमभ्युद्यतः ऋक्षाधिपतिना जांबवता दृष्टो घातितश्च ॥ ३२ ॥
जांबवानप्यमलमणिरत्नमादाय स्वबिलं प्रविवेश ॥ ३३ ॥
सुकुमारसंज्ञाय बालकाय च क्रीडनकमकरोत् ॥ ३४ ॥
तदिति ॥ उपसर्गः —–—रोगादिः । व्याला: सर्पादयः ।। २६-३४ ।।
अनागच्छति तस्मिन्प्रसेने कृष्णो मणिरत्नमभिलषितवान्स च प्राप्तवान्नूनमेतदस्य कर्मेत्यखिल एव यदुलोकः परस्परं कर्माकर्ण्याऽकथयत् ॥ ३५ ॥
विदितलोकापवादवृत्तान्तश्च भगवान् सर्वयदुसैन्यपरिवारपरिवृतः प्रसेनाश्वपदवीमनुससार ॥ ३६ ॥
ददर्श चाश्वसमवेतं प्रसेनं सिंहेन विनिहतम् ॥ ३७ ॥
अखिलजनमध्ये सिंहपददर्शनकृतपरिशुद्धिः सिंहपदमनुससार ॥ ३८ ॥
ऋक्षपतिनिहतं च सिंहमप्यल्पे भूमिभागे दृष्ट्वा ततश्च तद्रत्नगौरवादृक्षस्यापि पदान्यनुययौ ॥ ३९ ॥
गिरितटे च सकलमेव तद्यदुसैन्यमवस्थाप्य तत्पदानुसारी ऋक्षबिलं प्रविवेश ॥ ४० ॥
अन्तः प्रविष्टश्च धात्र्याः सुकुमारकमुल्लालयन्त्या वाणीं शुश्राव ॥ ४१ ॥
सिंहः प्रसेनमवधीत्सिंहो जाम्बवता हतः ।
सुकुमारक मा रोदीस्तव ह्येष स्यमन्तकः ॥ ४२ ॥
इत्याकर्ण्योपलब्धस्यमन्तकोन्तःप्रविष्टः कुमारक्रीडनकीकृतं च धात्र्या हस्ते तेजोभिर्जाज्वचल्यमानं स्यमन्तकं ददर्श ॥ ४३ ॥
तं च स्यमन्तकाभिलषितचक्षुषमपूर्वपुरुषमागतं समवेक्ष्य धात्री त्राहित्राहीति व्याजहार ॥ ४४ ॥
तदार्तरवश्रवणानन्तरं चामर्षपूर्णहृदयः स जांबवानाजगाम ॥ ४५ ॥
तयोश्च परस्परमुद्धतामर्षयोर्युद्धमकविंशतिदिनान्यभवत् ॥ ४६ ॥
ते च यदुसैनिकास्तत्र सप्ताष्टदिनानि तन्निष्क्रान्तिमुदीक्षमाणास्तस्थुः ॥ ४७ ॥
अनिष्क्रमणे च मधुरिपुरसाववश्यमत्र बिलेऽत्यन्तं नाशमवाप्तो भविष्यति, अन्यथा तस्य जीवतः कथमेतावन्ति दिनानि शत्रुजये व्याक्षेपो भविष्यतीति कृताध्यवसाया द्वारकामागम्य हतः कृष्ण इति कथयामासुः ॥ ४८ ॥
तद्वान्धवाश्च तत्कालोचितमखिलमुत्तरक्रियाकलापं चक्रुः ॥ ४९ ॥
अनागच्छतीति ॥ कर्णाकर्णिकया–कर्णपरंपरया ॥ ३५-४९ ।।
ततश्चास्य युद्ध्यमानस्यातिश्रद्धादत्तविशिष्टोपपात्रयुक्तान्नतोयादिना श्रीकृष्णस्य बलप्राणपुष्टिरभूत् ॥ ५० ॥
इतरस्यानुदिनमतिगुरुपुरुषभेद्यमानस्य अतिनिष्ठुरप्रहारपातपीजिताखिलावयवस्य निराहारतया बलहानिरभूत् ॥ ५१ ॥
निर्जितश्च भगवता जांबवान्प्रणिपत्य व्याजहार ॥ ५२ ॥
तत इति ॥ बलप्राणपुष्टिरिति श्राद्धविध्यर्थवाद इति केचित् ॥ ५०-५२ ।।
सुरासुरगन्धर्वयक्षराक्षसादिभिरप्यखिलैर्भवान्न जेतुं शक्यः किमुतावनिगोचररैल्पवीर्यैर्नरैर्नरावयवभूतैश्च तिर्यग्योन्यनुसृतिभिः किं पुनरस्मद्विधैरवश्यं भवताऽस्मत्स्वामिना रामेणेन नारायणस्य सकलजगत्परायणस्यांशेन भगवता भवितव्यमित्युक्तस्तस्मै भगवानखिलावनिभारावतरणार्थमवतरणमाचचक्षे ॥ ५३ ॥
प्रीत्यभिव्यञ्जितकरतलस्पर्शनेन चैनमपगतयुद्धखेदं चकार ॥ ५४ ॥
स च प्रणिपत्य पुनरप्येनं प्रसाद्य जांबवतीं नाम कन्यां गृहागतायार्घ्यभूतां ग्राहयामास ॥ ५५ ॥
स्यमन्तकमणिरत्नमपि प्रणिपत्य तस्मै प्रददौ ॥ ५६ ॥
अच्युतोप्यतिप्रणतात्तस्मादग्राह्यमपि तन्मणिरत्नमात्मसंशोधनाय जग्राह ॥ ५७ ॥
सह जांबवत्या स द्वारकामाजगाम ॥ ५८ ॥
भगवदागमनोद्भूतहर्षोत्कर्षस्य द्वारकावासिजनस्य कृष्णवलोकनात्तत्क्षणमेवातिपरिणतवयसोऽपि नवयौवनमिवाभवत् ॥ ५९ ॥
दिष्ट्यादिष्ट्येति सकलयादवाः स्त्रियश्च सभाजयामासुः ॥ ६० ॥
भगवानपि यथानुभूतमशेषं यादवसमाजे यथावदाचचक्षे ॥ ६१ ॥
स्यमन्तकं च सत्राजिताय दत्त्वा मिथ्याभिशस्तिपरिशुद्धिमवाप ॥ ६२ ॥
जांबवतीं चान्तः पुरे निवेशयामास ॥ ६३ ॥
सत्राजितोपि मयास्याभूतमलिनमारोपितमिति जातसंत्रासात्स्वसुतां सत्यभामां भगवते भार्यार्थं ददौ ॥ ६४ ॥
तां चाक्रूरकृतवर्मशतधन्वप्रमुखा यादवाः प्राग्वरयाम्बभूवुः ॥ ६५ ॥
ततस्तत्प्रदानादवज्ञातमेवात्मानं मन्यमानाः सत्राजिते वैरानुबन्धं चक्रुः ॥ ६६ ॥
अक्रूरकृतवर्मप्रमुखाश्च शतधन्वानमूचुः ॥ ६७ ॥
अयमतीव दुरात्मा सत्राजितो योऽस्माभिर्भवता च प्रार्थितोऽप्यात्मजामस्मान् भवन्तं चाविगणय्य कृष्णाय दत्तवान् ॥ ६८ ॥
सुरेति ॥ नरावरभूतैः–नरेभ्यो निकृष्टैः । नरावयवैरिति पाठे नृतुल्यैः । नृतुल्यावयवा हि वानरऋक्षाद्याः ॥ ५३-६८ ।।
तदलमनेन जीवता, घातयित्वैनं तन्महारत्नं स्यमन्तकाख्यं त्वया किं न गृह्यते वयमभ्युपपत्स्यामो यद्यच्युतस्तवोपरि वैरानुबन्धं करिष्यतीत्येवमुक्तस्तथेत्यसावप्याह ॥ ६९ ॥
तदिति ॥ अभ्युपपत्स्यामः सहकरिष्यामः ॥ ६९ ॥
जतुगृहदग्धानां पाण्डुतनयानां विदितपरमार्थोऽपि भगवान् दुर्योधनप्रयत्नशौथिल्यकरणार्थं पार्थानुकूल्यकरणाय वारणावतं गतः ॥ ७० ॥
गते च तस्मिन् सुप्तमेव सत्राजितं शतधन्वा जघान मणिरत्नं चाददात् ॥ ७१ ॥
पितृवधामर्षपूर्णा च सत्यभामा शीघ्रं स्यन्दनमारूढा वारणावतं गत्वा भगवतेऽहं प्रतिपादितेत्यक्षान्तिमता शतधन्वनास्मत्पिता व्यापादितः तच्च स्यंमन्तकमणिरत्नमपहृतं यस्यावभासनेनापहृततिमिरं त्रैलोक्यं भविष्यति ॥ ७२ ॥
जतुगृहेति ॥ कृष्णः सर्वज्ञः सन्ननागतश्चेत् नूनं जीवन्ति पाण्डवा इति दुर्योधनः तदन्वेषणवधादौ
सप्रयत्नः स्यात्; अतस्तत्प्रयत्न शिथिलीकरणाय कुलोचितकृत्यकरणायै च तत्र गतः ॥ ७०-७२ ॥
तदीयं त्वदीयापहासना तदालोच्य यदत्र युक्तं तत्क्रियतामिति कृष्णमाह ॥ ७३ ॥
तदिति ॥ अपहासना–परिभवः ॥ ७३ ॥
तया चैवमुक्तः परीतुष्टान्तः करणोऽपि कृष्णः सत्यभामाममर्षताम्रनयनः प्राह ॥ ७४ ॥
सत्ये सत्यं ममैवैषापहासना, नाहमेतां तस्य दुरात्मनःसहिष्ये ॥ ७५ ॥
तयेति ॥ प्रसेनानन्तरमपुत्रस्य मिथ्याभिशंसिनो दुष्टस्य सत्राजितो विहतत्वात्तद्रत्नमस्मद्ग्राह्यमेव
स्यादिति पुरितुष्टान्तःकरणोऽपि श्रीकृष्णः अमर्षेण-क्रोधेन ताम्रे नयने यस्य तथाभूतस्सन् सत्यभामामाह ॥ ७४,७५ ॥
न ह्यनुल्लङ्घ्य वरपादपं तत्कृतनीडाश्रयिणो विहङ्गमा वध्यन्ते तदलममुनाऽस्मत्पुरतः शोकप्रेरितवाक्यपरिकरेणेत्युक्त्वा द्वारकामभ्येत्यैकान्ते बलदेवं वासुदेवः प्राह ॥ ७६ ॥
मृगयागतं प्रसेनमटव्यां मृगपतिर्जघान ॥ ७७ ॥
सत्राजितोऽप्यधुना शतधन्वना निधनं प्रापितः ॥ ७८ ॥
तदुभयविनाशात्तन्मणिरत्नमावाभ्यां सामान्यं भविष्यति ॥ ७९ ॥
तदुत्तिष्ठारुह्यतां रथः शतधन्वनिधनायोद्यमं कुर्वित्यभिहितस्तथेति समन्विच्छितवान् ॥ ८० ॥
न हीति || वाक्यपरिकर: वाक्यप्रपञ्चः ।। ७६-८० ।।
कृतोद्यमौ च तावुभावुपलभ्य शतधन्वा कृतवर्माणमुपेत्य पार्ष्णिपूरणकर्मनिमित्तमचोदयत् ॥ ८१ ॥
आह चैनं कृतवर्मा ॥ ८२ ॥
नाहं बलदेववासुदेवाभ्यां सह विरोधायालमित्युक्तश्चाक्रूरमचोदयत् ॥ ८३ ॥
असावप्याह ॥ ८४ ॥
कृतोद्यमाविति ।। पाणिपूरणं-पार्ष्णिग्राहकृत्येऽनुग्रहः ।। ८१-८४ ।।
न हि कश्चिद्भगवता पादप्रहारपरिकंपितजगत्त्रयेण सुररिपुवनितावैधव्यकारिणा प्रबलरिपुचक्राप्रतिहतचक्रेण चक्रिणा मदमुदितनयनावलोकनाखिलनिशातनेनातिगुरुवैरिवारणापकर्षणाविष्कृतमहिमोरुसीरेण सीरिणा च सह सकलजगद्वन्द्यानाममरवराणामपि योद्धुं समर्थः ॥ ८५ ॥
किमुताहं तदन्यः शरणमभिलष्यतामित्युक्तः शतधनुराह ॥ ८६ ॥
यद्यस्मत्परित्राणासमर्थं भवानात्मनवधिगच्छति तदयमस्मत्तस्तावन्मणिः संगृह्य रक्ष्यतामिति ॥ ८७ ॥
एकमुक्तः सोऽप्याह ॥ ८८ ॥
यद्यन्त्यायामप्यवस्थायां न कस्मैचिद्भवान् कथयिष्यति तदहमेतं ग्रहीष्यामीति ॥ ८९ ॥
तथेत्युक्ते चाक्रूरस्तन्मणिरत्नं जग्राह ॥ ९० ॥
शतधनुरप्यतुलवेगां शतयोजनवाहिनीं वडवामारुह्यापक्रान्तः ॥ ९१ ॥
शैव्यसुग्रीवमेघपुष्पबलाहकाश्वचतुष्टययुक्तरथस्थितौ बलदेववासुदेवौ तमनुप्रयातौ ॥ ९२ ॥
सा च वडवा शतयोजनप्रमाणमार्गमतीता पुनरपि वाह्यमाना मिथिलावनोद्देशे प्राणानुत्ससर्ज ॥ ९३ ॥
शतधनुरपि तां परित्यज्य पदातिरेवाद्रवत् ॥ ९४ ॥
कृष्णोऽपि बलभद्रमाह ॥ ९५ ॥
तावदत्र स्यन्दने भवता स्थेयमहमेनमधमाचारं पदातिरेव पदातिमनुगम्य यावद्धातयामि अत्र हि भूभागे दृष्टदोषाःसभयाः अतो नैतेश्वा भवतेमं भूमिभागमुल्लङ्घनीयाः ॥ ९६ ॥
तथेत्युक्त्व बलदेवो रथ एव तस्थौ ॥ ९७ ॥
कृष्णोपि द्विक्रोशमात्रं भूमिभागमनुसृत्य दूरस्थितस्यैव चक्रं क्षिप्त्वा शतधनुषः शिरश्चिच्छेद ॥ ९८ ॥
तच्छरीरांबरादिषु च बहुप्रकारमन्विच्छन्नपि स्यमन्तकमणिं नावाप पदा तदोपगम्य बलभद्रमाह ॥ ९९ ॥
वृथैवास्माभिः शतधनुर्घातितः, न प्राप्तमखिलजगत्सारभूतं तन्महारत्नं स्यमन्तकाख्यमित्याकर्ण्योद्भूतकोपो बलदेवो वासुदेवमाह ॥ १०० ॥
धिक्त्वां यस्त्वमेवमर्थलिप्सुरेतच्च ते भ्रातृत्वान्मया क्षान्तं तदयं पन्थाःस्वेच्छया गम्यतां, न मे द्वारकया न त्वया न चाशेषबन्धुभिः कार्यमलमलमेभिर्ममाग्रतोऽलीकशपथैरित्याक्षिप्य तत्कथां कथञ्चित्प्रसाद्यमानोऽपि न तस्थौ ॥ १०१ ॥
स विदेहपुरीं प्रविवेश ॥ १०२ ॥
जनकराजश्चार्घ्यपूर्वकमेनं गृहं प्रवेशयामास ॥ १०३ ॥
स तत्रैव च तस्थौ ॥ १०४ ॥
वासुदेवोऽपि द्वारकामाजगाम ॥ १०५ ॥
यावच्च जनकराजगृहे बलभद्रोऽवतस्थे तावद्धार्तराष्ट्रो दुर्योधनस्तत्सकाशाद्गदाशिक्षामशिक्षयत् ॥ १०६ ॥
न हीति ॥ रिपुचक्रं – रिपुबलम् । अमरवराणामपि मध्ये न कश्चिद्योधुं समर्थ इत्यन्वयः ॥८५-१०६॥
वर्षत्रयान्ते च बभ्रूग्रसेनप्रभृतिभिर्यादवैर्न तद्रत्नं कृष्णेनापहृतमिति कृतावगतिभिर्विदेहनगरीं गत्वा बलदेवःसंप्रत्याय्य द्वारकामानीतः ॥ १०७ ॥
अक्रूरोऽप्युत्तममणिसमुद्भुतसुवर्णेन भगवद्ध्यानपरोऽनवरतं यज्ञानियाज ॥ १०८ ॥
वर्षेति ॥ संप्रत्याय्य–विश्वास्य ॥ १०७,१०८ ॥
सवनगतौ हि क्षत्रियवैश्यौ निघ्नन्ब्रह्याहाभवतीत्येवंप्रकारं दीक्षाकवचं प्रविष्ट एव तस्थौ ॥ १०९ ॥
सवनेति ॥ सवनं––यज्ञः । एवंप्रकारम् – अवध्यतापादकम् ।। १०९ ।।
द्विषष्टिवर्षाण्येव तन्मणिप्रभावात्तत्रोपसर्गदुर्भिक्षमारिकामरणादिकं नाभूत् ॥ ११० ॥
अथाक्रूरपक्षीयैर्भोजैः शत्रुघ्ने सत्वतस्य प्रपौत्रे व्यापादिते भोजैः सहाक्रूरो द्वारकामपहायापक्रान्तः ॥ १११ ॥
तदपक्रान्तिदिनादारभ्य तत्रोपसर्गदुर्भिक्षव्यालानावृष्टिमारिकाद्युपद्रवा बभूवुः ॥ ११२ ॥
अथ यादवा बलभद्रोग्रसेनसमवेता मन्त्रममन्त्रयन् ॥ ११३ ॥
द्विषष्टीति ॥ मारिका – जनमारिका ॥ ११०-११३ ॥
भगवानुरगारिकेतनः किमिदमेकदैव प्रचुरोपद्रवागमनमेतदालोच्यतामित्युक्तेऽन्धकनामा यदुवृद्धः प्राह ॥ ११४ ॥
अस्याक्रूरस्य पिता श्वफल्को यत्र यत्राभूत्तत्रतत्र दुर्भिक्षमारिकानावृष्ट्यादिकं नाभूत् ॥ ११५ ॥
काशीराजस्य विषये त्वनावृष्ट्या च श्वफल्को नीतः ततश्च तत्क्षणाद्देव देवो ववर्ष ॥ ११६ ॥
काशीराजपत्न्याश्च गर्भे कन्यारत्नं पूर्वमासीत् ॥ ११७ ॥
सा च कन्या पूर्णेपि प्रसूतिकाले नैव निश्चक्राम ॥ ११८ ॥
एवं च तस्य गर्भस्य द्वादशवर्षाण्यनिष्क्रामतो ययुः ॥ ११९ ॥
काशीराजश्च तामात्मजां गर्भस्थामाह ॥ १२० ॥
पुत्रि कस्मान्न जायसे निष्क्रम्य तामास्यं ते द्रष्टुमिच्छामि एतां च मातरं किमिति चिरं क्लेशयिष्यसीत्युक्ता गर्भस्थैव व्याजहार ॥ १२१ ॥
तात यद्येकैकां गां दिनेदिने ब्राह्मणाय प्रयच्छसि तदहमन्यैस्त्रिभिर्वर्षैरस्माद्गर्भात्ततोऽवश्यं निष्क्रमिष्यामीत्येद्वचनमाकर्ण्य राजा दिनेदिने ब्राह्मणाय गां प्रादात् ॥ १२२ ॥
सापि तावता कालेन जाता ॥ १२३ ॥
ततस्तस्याः पिता गान्दिनीति नाम चकार ॥ १२४ ॥
तां च गान्दिनीं कन्यां श्वफलकायोपकारिणे गृहमागतायार्घ्य भूतां प्रादात् ॥ १२५ ॥
तस्यामयमक्रूरः श्वफलकाज्जज्ञे ॥ १२६ ॥
तस्यैवङ्गुणमिथुनादुत्पत्तिः ॥ १२७ ॥
तत्कथमस्मिन्नपक्रान्ते अत्र दुर्भिक्षमारिकाद्युपद्रवा न भविष्यन्ति ॥ १२८ ॥
तदयमत्रानीयतामलमतिगुणवत्यपराधान्वेषणेनेति यदुवृद्धस्यान्धकस्यैतद्वचनमाकर्म्य केशवोग्रसेनबलभद्रपुरोगमैर्यदुभिः कृतापराधतितिक्षुभिरभयं दत्त्वा श्वफलकपुत्रःश्वपुरमानीतः ॥ १२९ ॥
भगवानिति ॥ एतत्किमित्यन्वयः ॥ ११४-१२९ ।।
तत्र चागतमात्र एव तस्य स्यमन्तकमणेः प्रभावादनावृष्टिमारिकादुर्भिक्षव्यालाद्युपद्रवोपशमा बभूवुः ॥ १३० ॥
कृष्णश्चिन्तयामास ॥ १३१ ॥
स्वल्पमेतत्कारणं यदयं गान्दिन्यां श्वफलकेनाक्रूरो जनितः ॥ १३२ ॥
सुमहांश्चायमनावृष्टिदुर्भिक्षमारिकाद्युपद्रवाप्रतिषेधकारी प्रभावः ॥ १३३ ॥
तन्नृनमस्य सराशे स महामणिः स्यमन्तकाख्यस्तिष्ठति ॥ १३४ ॥
तस्य ह्येवंविधाः प्रभावाः श्रुयन्ते ॥ १३५ ॥
तत्र चेति ॥ तत्र बभूवुरित्यन्वयः ॥ १३०-१३५॥
अयमपि च यज्ञादनन्तरमन्यत्क्रत्वन्तरं तस्यानन्तरमन्यद्यज्ञान्तरं चाजस्त्रमविच्छिन्नं यजतीति ॥ १३६ ॥
अयमिति ॥ क्रत्वंतरं – क्रतुभेदम् ॥ १३६ ॥
अनल्पोपादानं चास्यासंशयमत्राऽसौ मणिवरस्तिष्ठितीति कृताध्यवसायोऽन्यत्प्रयोजनमुद्दिश्य सकलयादवसमाजमात्मगृह एवाचीकरत् ॥ १३७ ॥
तत्र चोपविष्टेष्वखिलेषु यदुषु पूर्वं प्रयोजनमुपन्यस्य पर्यवसिते च तस्मिन् प्रसंगान्तरपरिहासकथामक्रूरेण कृत्वा जनार्दनस्तमक्रूरमाह ॥ १३८ ॥
दानपते जानीम एव वय यथा शतधन्वना तदिदमखिलजगत्सारभूतं स्यमन्तकं रत्नं भवतः समर्पितं तदशेषराष्ट्रोपकारकं भवत्सकाशे तिष्ठति, तिष्ठतु सर्व एव वयं तत्प्रभावफलभुजः किं त्वेष बलभद्रोऽस्मानाशङ्कितवान् तदस्मत्प्रीतये दर्शयस्वेत्यभिधाय जोषं स्थिते भगवति वासुदेवे सरत्नः सोऽचिन्तयत् ॥ १३९ ॥
किमत्रानुष्ठेयम् अन्यथा चेद्ब्रवीम्यहं तत्केवलांबरतिरोधानमन्विष्यन्तो रत्नमेते द्रक्ष्यन्ति अतिविरोधो न क्षम इति संचिन्त्य तमखिलजगत्कारणभूतं नारायणमाहक्रूरः ॥ १४० ॥
भगवन्ममैतत्स्यमन्तकरत्नं शतधनुषा समर्पितमपगते च तस्मिन्नद्य श्वः परश्वो वा भगवान् याचयिष्यतीति कृतमतिरतिकृच्छ्रेणैतावन्तं कालमधारयम् ॥ १४१ ॥
तस्य च धारणशेक्लेनाहमशेषोपभोगेष्वसंगिमानसो न वेद्मि स्वसुखकलामपि ॥ १४२ ॥
अनल्पेति ॥ उपादानं – जीविकाद्रव्यम् । अवीकरत्-कारितवान् ॥ १३७-१४२ ॥
एतावन्मात्रमप्यशेषराष्ट्रोपकारी धारयितुं न शक्नोतीति भवान्मन्यत इत्यात्मना न चोदितवान् ॥ १४३ ॥
तदिदं स्यमन्तकरत्नं गृह्यतामिच्छया यस्याभिमतं तस्य समर्प्यताम् ॥ १४४ ॥
एतावन्मात्रमिति ॥ एतावन्मात्रम्- अल्पपरिमाण, रत्नमिति शेषः । रत्नधारणमात्रेणाप्ययमशेषराष्ट्रोपकारं
न करोतीति कृष्णो मन्यत इत्यक्रूरोक्तिः स्वदोषापह्ववार्था ॥ १४३,१४४ ॥
ततः स्वोदरवस्त्रनिगोपितमतिलघुकनकसमुद्गकगतं प्रकटीकृतवान् ॥ १४५ ॥
ततश्च निष्क्राम्य स्यमन्तकमणिं तस्मिन्यदुकुलसमाजे मुमोच ॥ १४६ ॥
मुक्तमात्रे च तस्मिन्नतिकान्त्या तदखिलमास्थानमुद्योतितम् ॥ १४७ ॥
अथाहाक्रुरः स एष मणिः शतधन्वनाऽस्माकं समर्पितः यस्यायं स एनं गृह्णातु इति ॥ १४८ ॥
तमालोक्य सर्वयादवानां साधुसाध्विति विस्मितमनसां वाचोऽश्रूयन्त ॥ १४९ ॥
तमालोक्यातीव बलभद्रो ममायमच्युतेनैव सामान्यःसमन्विच्छित इति कृतस्पृहोऽभूत् ॥ १५० ॥
ममैवायं पितृधनमित्यतीव च सत्यभामापि स्पृहयाञ्चकार ॥ १५१ ॥
तत इति ॥ समुद्रः संपुटः ॥ १४५-१५१॥
बलसत्यावलोकनात्कृष्णोऽप्यात्मानं गोचक्रान्तरावस्थितमिव मेने ॥ १५२ ॥
सकलयादवसमक्षं चाक्रूरमाह ॥ १५३ ॥
एतद्धि मणिरत्नमात्मसंसोधनाय एतेषां यदूनां मया दर्शितमेतच्च मम बलभद्रस्य च सामान्यं पितृधनं चैतत्सत्यभामाया नान्यस्यैतत् ॥ १५४ ॥
एतच्च सर्वकालं शुचिना ब्रह्मचर्यादिगुणवता ध्रियमाणमशेषराष्ट्रस्योपकारकमशुचिना ध्रयमाणमाधारमेव हन्ति ॥ १५५ ॥
अतोऽहमस्य षोडशस्त्रीसहस्रपरिग्रहादसमर्थो धारणे कथमेतत्सत्यभामा स्वीकरोति ॥ १५६ ॥
आर्यलभद्रेणापि मदिरापानाद्यशेषोपभोगपरित्यागः कार्यः ॥ १५७ ॥
तदलं यदुलोकोऽयं बलभद्रः अहं च सत्या च त्वां दानपते प्रार्थयामः ॥ १५८ ॥
तद्भवानेव धारयितुं समर्थः ॥ १५९ ॥
त्वद्धृतं चास्य राष्ट्रस्योपकारकं तद्भवानशेषराष्ट्रनिमित्तमेतत्पूर्ववद्धारयत्वन्यन्न वक्तव्यमित्युक्तो दानपतिस्तथेत्याह जग्राह च तन्महारत्नम् ॥ १६० ॥
ततःप्रभृत्यक्रूरः प्रकटेनैव तेनातिजाज्ज्वल्यमानेनात्मकण्ठावसक्तेनादित्य इवांशुमाली चचार ॥ १६१ ॥
बलेति ॥ गोचक्रेति । शकटस्य हि चक्रानदुहोरंतराऽवस्थितः जंतुर्थयां क्लिश्यति तद्वदित्यर्थः ॥
१५२-१६१ ॥
इत्येतद्भगवतो मिथ्याभिशस्तिक्षालनं यः स्मरति न तस्य कदाचिदल्पापि मिथ्याभिशस्तिर्भवति अव्याहताखिलेन्द्रियश्चाखिलपापमोक्षमवाप्नोति ॥ १६२ ॥
इतीति ॥ मिथ्याभिशस्तिक्षालनाय स्यमन्तककथाश्रवणासक्तेन सिंह: प्रसेनमवधीदित्यादिश्लोकोऽनु-
सुंधेयः । तथा च ब्राह्मे वासुदेवाभिशस्तिस्तु निशाकरमरीचिषु । स्थिता चतुर्थ्यामद्यापि मनुष्यानापतेच्च सो अतश्चतुर्थ्यां चन्द्रं तु प्रमादाद्वीक्ष्य संयतः । पठेद्धात्रीयकं वाक्यं प्राङ्मुखो वाऽप्युदङ्मुखः ॥ इति ॥ १२ ॥
इति श्रीविष्णुमहापुराणे चतुर्थांशे त्रयोदशोऽध्यायः १३
चतुर्थांशे चतुर्दशोऽध्यायः
श्रीपराशर उवाच
अनमित्रस्य पुत्रः शिनिर्नामाऽभवत् ॥ १ ॥
तस्यापि सत्यकः सत्यकात्सात्यकिर्युयुधानापरनामा ॥ २ ॥
तस्मादपि संजयः तत्पुत्रश्च कुणिः कुणेर्युगन्धरः ॥ ३ ॥
इत्येते शैनेयाः ॥ ४ ॥
अनमित्रस्य पौत्रस्सत्राजित, तत्प्रसंगात्स्यमन्तकाख्यानमुक्तम । इदानीमनमित्रस्यैव संतानान्तरमुच्यते-
अनमित्रस्येति ॥ १-४॥
अनमित्रस्यान्वये वृष्णिः तस्मात् श्वफल्कः तत्प्रभावः कथिव एव ॥ ५ ॥
श्वफल्कस्यान्यः कनीयांश्चित्रको नाम भ्राता ॥ ६ ॥
श्वफल्कादक्रूरो गान्दिन्यामभवत् ॥ ७ ॥
सात्वतपुत्रस्य वृष्णेरेव संतानान्तरं वक्तुं प्रस्तुतेनानमित्रेण पितामहत्वसंबन्ध स्मारयति-अनमित्रस्यै-
वान्वये वृष्णिरिति ॥ ५-७ ॥
तथोपमद्गः ॥ ८ ॥
उपमद्गोर्मृदामृदविश्वारिमेजयगिरिक्षत्रोपक्षत्रशतघ्नारिमर्दनधर्मदृग्दृष्टधर्मगन्धमोजवाहप्रतिवाहाख्याः पुत्राःसुताराख्या कन्या च ॥ ९ ॥
देववानुपदेवश्चाक्रूरपुत्रौ ॥ १० ॥
पृथुविपृथुप्रमुखाश्चित्रकस्य पुत्रा बभूवुः ॥ ११ ॥
तथेति ॥ उपमद्ग्वाद्या अक्रूरसापत्न्याः ॥ ८-११ ।।
कुकुरभजमानशुचिकंबलबर्हिषाख्यास्तथाऽन्धकस्य चत्वारः पुत्राः ॥ १२ ॥
कुकुराद्धृष्टः तस्माच्च कपोतरोमा ततश्च विलोमा तस्मादपि तुंबुरसखोऽभवदनुसंज्ञश्च ॥ १३ ॥
अनोरानकदुन्दभिः ततश्चाभिजित् अभिजितः पुनर्वसुः ॥ १४ ॥
तस्याप्याहुकः पुत्रः आहुकी च कन्या ॥ १५ ॥
आहुकस्य देवकोग्रसेनौ द्वौ पुत्रौ ॥ १६ ॥
देववानुपदेवः सहदेवो देवरक्षिता च देवकस्य चत्वारः पुत्राः ॥ १७ ॥
तेषां वृकदेवोपदेवा देवरक्षिता श्रीदेवा शान्तिदेवा सहदेवा देवकी च सप्तभगिन्यः ॥ १८ ॥
ताश्च सर्वा वसुदेव उपयेमे ॥ १९ ॥
उग्रसेनस्यापि कंसन्यग्रोधसुनामानकाह्वशङ्कुसुभूमिराष्ट्रपालयुद्धतुष्टिसुतुष्टिमत्संज्ञाः पुत्रा बभूवुः ॥ २० ॥
कंसाकंसवतीसुतनूराष्ट्रपलिकाह्वाश्चोग्रसेनस्य तनूजाः कन्याः ॥ २१ ॥
अंधकस्य-सत्वतात्मजस्य ॥ १२ – २१ ॥
भजमानाच्च विदूरथः पुत्रोऽभवत् ॥ २२ ॥
भजमानादिति ॥ तदप्रजात् भजमानाद्वेशान्तरम् ॥ २२ ॥
विदूरथाच्छूरः शुराच्छमी शमिनः प्रतिक्षत्रः तस्मात्स्वयंभोजः ततश्च हृदिकः ॥ २३ ॥
तस्यापि कृतवर्मशतधनुर्दवार्हदेवगर्भाद्याः पुत्रा बभूवुः ॥ २४ ॥
देवगर्भस्यापि शुरः ॥ २५ ॥
शुरस्यापि मारीषा नाम पत्न्यभवत् ॥ २६ ॥
तस्यां चासौ दश पुत्रानजनयद्वसुदेवपूर्वान् ॥ २७ ॥
वसुदेवस्य जातमात्रस्यैव तद्गृहे भगवदंशावतारमव्याहतदृष्ट्या पश्यद्भिर्देवैर्दिव्यानकदुन्दुभयो वादिताः ॥ २८ ॥
ततश्चसावानकदुन्दुभिसंज्ञामवाप ॥ २९ ॥
तस्य च देवभागदेवश्रवाष्टकककुच्चक्रवत्सधारकसृजयश्यामशमिकगञ्डूषसंज्ञा नव भ्रातरोऽभवन् ॥ ३० ॥
पृथा श्रुतदेवा श्रुतकीर्तिः श्रुतश्रवा राजाधिदेवी च वसुदेदादीनां पञ्च भगिन्योऽभवन् ॥ ३१ ॥
शूरस्य कुन्तिर्नाम सखाभवत् ॥ ३२ ॥
तस्मै चापुत्राय पृथामात्मजां विधिना शुरो दत्तवान् ॥ ३३ ॥
तां च पाण्डुरुवाह ॥ ३४ ॥
तस्यां च धर्मानिलेन्द्रैर्युधिष्ठरभीमसेनार्जुनाख्यास्त्रयः पुत्राःसमुत्पादिताः ॥ ३५ ॥
पूर्वमेवानूढायाश्च भगवता भास्वता कानीनः कर्णो नाम पुत्रोऽजन्यत ॥ ३६ ॥
तस्याश्च सपत्नी माद्री नामाभूत् ॥ ३७ ॥
तस्यां च नासत्यदस्त्राभ्यां नकुलसहदेवौ पाण्डोः पुत्रौ जनितौ ॥ ३८ ॥
श्रुतदेवां तु वृद्धधर्मा नाम कारूश उपयेमे ॥ ३९ ॥
तस्याञ्च च दन्तवक्रो नाम महासुरो जज्ञे ॥ ४० ॥
श्रुतकीर्तिमपि केकयराजा उपयेमे ॥ ४१ ॥
तस्यां च संतर्दनादयः कैकेयाः पञ्च पुत्रा बभूवुः ॥ ४२ ॥
राजाधिदेव्यमावन्त्यौ विन्दानुविन्दौ जज्ञाते ॥ ४३ ॥
श्रुतश्रवसमपि चेदिराजो दमघोषनामोपयेमे ॥ ४४ ॥
तस्यां च शिशुपालमुत्पादयामास ॥ ४५ ॥
स वा पूर्वमप्युदारविक्रमो दैत्यानामादिपुरुषो हिरण्यकशिपुरभवत् ॥ ४६ ॥
यश्च भगवता सकललोकगुरुणा नारसिंहेन घातितः ॥ ४७ ॥
पुनरपि अक्षयवीर्यशौर्यसंपत्पराक्रमगुणःसमाक्रान्तसकलत्रैलोक्येश्वरप्रभावो दशाननो नामाभूत् ॥ ४८ ॥
बहुकालोपभुक्तभगवत्सकाशावाप्तशरीरपातोद्भवपुण्यफलो भगवता राघवरूपिणा सोऽपि निधनमुपपादितः ॥ ४९ ॥
पुनश्चेदिराजस्य दमघोषस्यात्मजः शिशुपालनामाऽभवत् ॥ ५० ॥
शिशुपालत्वेऽपि भगवतो भूभारावतारणायावतीर्णांशस्य पुण्डरीकनयनाख्यस्योपरि द्वेषानुबन्धमतितराञ्चकार ॥ ५१ ॥
भगवता च स निधनमुपानीतस्तत्रैव परमात्मभूते मनस एकाग्रतया सायुज्यमवाप ॥ ५२ ॥
विदूरथादिति ॥ शूरो देवमीढाख्यः ॥ २३-५२ ॥
भगवान् यदि प्रसन्नो यथा अभिलषितं ददाति, तथा अग्रसन्नोपि निघ्नन् दिव्यमनुपमं स्थानं प्रयच्छति ॥ ५३ ॥
भगवानिति ॥ अप्रसन्नोऽपीति वस्तुस्वभावोक्तिः ॥ ५३ ॥
इति श्रिविष्णुमहापुराणे चतुर्थांशे चतुर्दशोऽध्यायः १४
चतुर्थांशे पञ्चदशोऽध्यायः
मैत्रेय उवाच
हिरण्यकशिपुत्वे च रावणत्वे च विष्णुना ।
अवाप निहतो भोगानप्राप्यानमरैरपि ॥ १ ॥
न लयं तत्र तेनैव निहतः स कथं पुनः ।
संप्राप्तः शिशुपालत्वे सायुज्यं शाश्वते हरौ ॥ २ ॥
एतदिच्छाम्यहं श्रोतुं सर्वधर्मभृत्तां वर ।
कौतूहलपरेणैतत्पृष्टो मे वक्तुमर्हसि ॥ ३ ॥
श्रीपराशर उवाच
दैत्येश्वरस्य वधायाखिललोकोत्पत्तिस्थितिविनाशकारिणा पूर्वं तनुग्रहणं कुर्वता नृसिंह रूपमाविष्कृतम् ॥ ४ ॥
तत्र च हिरण्यकशिपोर्विष्णुरयमित्येतन्न मनस्यभूत् ॥ ५ ॥
निरतिशयपुण्यसमुद्भूतमेतत्सत्त्वजातमिति ॥ ६ ॥
रजोद्रेकप्रेरितैकाग्रमतिस्तद्भावनायोगात्ततोऽवाप्तवधहैतुकीं निरतिशयामेवाखिलत्रैलोक्याधिक्यकारीणीं दशाननत्वे भोगसंपदमवाप ॥ ७ ॥
न तु स तस्मिन्ननादिनिधने परब्रह्मभूते भगवत्यनालंबिनि कृते मनसस्तल्लयमवाप ॥ ८ ॥
एवं दशाननत्वेऽप्यनङ्गपराधीनतया जानकीसमासक्तचेतसा भगवता दाशरथिरूपधारिणा हतस्य तद्रूपदर्शनमेवासीत् नायमच्युत इत्यासक्तिर्विपद्यतोऽन्तःकरणे मानुषबुद्धिरेव केवलमस्याभूत् ॥ ९ ॥
पुनरप्यच्युतविनिपातमात्रफलमखिलभूमण्डलश्लाघ्यचेदिराजकुले जन्म अव्याहतैश्वर्यं शिशुपालत्वेऽप्यवाप ॥ १० ॥
॥ १-१०॥
तत्र त्वखिलानामेव स भगवन्नाम्नां त्वङ्कारकारणमभवत् ॥ ११ ॥
तत्र त्विति ॥ त्वंकाराणि करोतीति त्वंकारकं तस्य कारणं तत्प्रवृत्तिनिमित्तम् ॥ ११ ॥
ततश्च तत्कालकृतानां तेषामशेषणामेवाच्युतनाम्नामनवरतमनेकजन्मसु वर्धितविद्वेषानुबन्धिचित्तो विनिन्दनसंतर्जनादिषूच्चारणमकरोत् ॥ १२ ॥
ततश्चेति ॥ ऋषिप्रोक्तमामनिवेचनानादरेण निन्दनार्थमुपेक्षया च भगवन्नानामुञ्चारणमकरोदिति
संकीर्तनोक्तिः ॥ १२ ॥
तच्च रूपमुत्फुल्लपद्मदलामलाक्षमत्युज्ज्वलपीतवस्त्रधार्यमखिलकिरिटकेयूरहारकटकादिशोभितमुदारचतुर्बाहुशङ्खचक्रगदाधरमतिप्ररूढवैरानुभावादटनभोजनस्नानासनशयनादिष्वशेषावस्थान्तरेषु नान्यत्रोपययावस्य चेतसः ॥ १३ ॥
ततस्तमेवाक्रोशेषूच्चारयंस्तमेव हृदयेन धारयन्नात्मवधाय यावद्भगवद्धस्तचक्रांशुमालोज्ज्वालमक्षयतेजः स्वरूपं ब्रह्मभूतमपगतद्वेषादिदोषं भगवन्तमद्राक्षीत् ॥ १४ ॥
तच्चेति ॥ तच्चेति मूर्तिध्यानोक्तिः ॥ १३, १४ ।।
तावच्च भगवच्चक्रेणाशु व्यापादितस्तत्स्मरणदग्धाखिलाघसंचयो भगवताऽन्तमुपनीतस्तस्मिन्नेव लयमुपययौ ॥ १५ ॥
एतत्तवाखिलं मयानभिहितम् ॥ १६ ॥
अयं हि भगवान् कीर्तितश्च संस्मृतश्च द्वेषानुबन्धेनापि अखिलसुरासुरादिर्दुल्लभं फलं प्रयच्छति, किमुत सम्यग्भक्तिमतामिति ॥ १७ ॥
वसुदेवस्य त्वानकदुन्दुभेः पौरवीरोहिणीमदिराभद्रादेवकीप्रमुखा बह्व्यः पत्न्योऽभवन् ॥ १८ ॥
बलभद्रशठसारणदुर्मदादीन्पुत्रान्रोहिण्यानकदुन्दुभिरुत्पादयामास ॥ १९ ॥
बलदेवोऽपि रेवत्यां विशठोल्मुकौ पुत्रावजनयत् ॥ २० ॥
सार्ष्टिमार्ष्टिशिशुसत्यसत्यधृतिप्रमुखाः सारणात्मजाः ॥ २१ ॥
भद्राश्वभद्रबाहुदुर्दमभूताद्याः रोहिण्याः कुलजाः ॥ २२ ॥
नन्दोपनन्दकृतकाद्या मदिरायास्तनयाः ॥ २३ ॥
भद्रायाश्चोपनिधिगदाद्याः ॥ २४ ॥
वैशाल्यां च कौशिकमेकमेवाजनयत् ॥ २५ ॥
आनकदुन्दुभेर्दवक्यामपि कीर्तिमत्सुषेणोदायुभद्रसेनऋजदासभद्रदेवाख्याः षट्पुत्रा जज्ञिरे ॥ २६ ॥
तांश्च सर्वानेव कंसो घातितवान् ॥ २७ ॥
अनन्तरं च सप्तमं गर्भमर्धरात्रे भगवत्प्रहिता योगनिद्रा रोहिण्या जठरमाकृष्य नीतवती ॥ २८ ॥
कर्षणाच्चासावपि संकर्षणाख्यामगमत् ॥ २९ ॥
ततश्च सकलजगन्महातरुमूलभूतोभूतभविष्यदादिसकलसुरासुरमुनिजनमनसामप्यगोचरोऽब्जभवप्रमुखैरनलमुखैः प्रणम्यावनिभारहरणाय प्रसादितो भगवाननादिमध्यनिधनो देवकीगर्भमवततार वासुदेवः ॥ ३० ॥
तत्प्रसादविवर्द्धमानोरुमहिमा च योगनिद्रा नन्दगोपपत्न्या यशोदाया गर्भमधितिष्ठितवती ॥ ३१ ॥
सुप्रसन्नादित्यचन्द्रादिग्रहमव्यालादिभयं स्वस्थमानसमखिलमेवैतज्जगदपास्ताधर्ममभवत्त्स्मिश्च पुण्डरीकनयने जायमाने ॥ ३२ ॥
जातेन च तेनाखिलमेवैतत्सन्मार्गवर्ति जगदक्रियत ॥ ३३ ॥
भगवतोप्यत्र मर्त्यलोकेऽवतीर्णस्य षोडशसहस्राण्येकोत्तरशताधिकानि भार्याणामभवन् ॥ ३४ ॥
तासां च रुक्मिणी सत्यभामा जांबवती चारुहासिनीप्रमुखा ह्यष्टौ पत्न्यः प्रधाना बभूचवुः ॥ ३५ ॥
तासु चाष्टावयुतानि लक्षं च पुत्राणां भगवानखिलमूर्तिरनादिमानजनयत् ॥ ३६ ॥
तेषां च प्रद्युम्नचारुदेष्णसांबादयः त्रयोदश प्रधानाः ॥ ३७ ॥
प्रद्युम्नोपि रुक्मिणस्तनयां रुक्मवतीं नामोपयेमे ॥ ३८ ॥
तस्यामनिरुद्धो जज्ञे ॥ ३९ ॥
अनिरुद्धोऽपि रुक्मिणा एव पौत्रीं सुभद्रां नामोपयेमे ॥ ४० ॥
तस्यामस्य वज्रो जज्ञे ॥ ४१ ॥
वज्रस्य प्रतिबाहुः तस्यापि सुचारुः ॥ ४२ ॥
एवमनेकशतसहस्रपुरुषसंख्यस्य यदुकुलस्य पुत्रसंख्या वर्षशतैरपि वक्तुं न शक्यते ॥ ४३ ॥
यतो हि श्लोकाविमावत्र चरितार्थौ ॥ ४४ ॥
तिस्त्रः कोट्यःसहस्राणामष्टाशीति शतानि च ।
कुमाराणां कृहाचार्याश्चापयोगेषु ये रताः ॥ ४५ ॥
संख्यानं यादवानां कः करिष्यति महात्मनाम् ।
यत्रायुतानामयुतलक्षेणास्ते सदाहुकः ॥ ४६ ॥
तावदिति । लयं-सायुज्यं ।। १५-४६ ।।
देवासुरे हता ये तु दैतेयाःसुमहाबलाः ।
उत्पन्नास्ते मनुष्येषु जनोपद्रवकारिणः ।। ४७ ।।
तेषामुत्सादनार्थाय भुवि देवा यदोः कुले ।
अवतीर्णाः कुलशतं यत्रैकाभ्यधिकं द्विज ।। ४८ ।।
देवासुर इति । देवासुर युद्धे ।। ४७,४८ ।।
विष्णुस्तेषां प्रमाणे च प्रभुत्वे च व्यवस्थितः ।
निदेशस्थायिनस्तस्य ववृधुःसर्वयादवाः ॥ ४९ ॥
इति प्रसूतिं वृष्णीनां यश्र्शृणोति नरः सदा ।
स सर्वैः पातकैर्मुक्तो विष्णुलोकं प्रपद्यते ॥ ५० ॥
विष्णुरिति । प्रमाणे-प्रतिकार्यानिर्णये ।। ४९,० ।।
इति श्रीविष्णुमहापुराणे चतुर्थांशे पञ्चदशोऽध्यायः ।। १५ ।।
चुतुर्थांशे षोडशोऽध्यायः
श्रीपराशर उवाच
इत्येष समाप्ततस्ते यदोर्वंशः कथितः ॥ १ ॥
अथ दुर्वसोर्वशमवधारय ॥ २ ॥
दुर्वसोर्वह्निरात्मजः बह्नेर्भार्गः भार्गाद्भानुः ततश्च त्रयीसानुः तस्माच्च करन्दमः तस्यापि मरुत्तः ॥ ३ ॥
सोऽनपत्योऽभवत् ॥ ४ ॥
ततश्च पौरवं दुष्यन्तं पुत्रमकल्पयत् ॥ ५ ॥
एवं ययातिशापात्तद्वंशः पौरवमेव वंशं समाश्रितवान् ॥ ६ ॥
इतीति । एष यदोर्वंशस्ते समासतः कथितः ।।१-६ ।।
इति श्रीविष्णुमहापुरामे चुतुर्थांशे षोडशोऽध्यायः १६
_____________________________________________________________
चतुर्थांशे सप्तदशोऽध्यायः
श्रीपराशर उवाच
द्रुह्योस्तु तनयो बभ्रुः ॥ १ ॥
बभ्रोःसेतुः ॥ २ ॥
सेतुपुत्र आरब्धनामा ॥ ३ ॥
आरब्धस्यात्मजो गान्धारः गान्धारस्य धर्मः धर्मात्घृतः घृतात्दुर्दमः ततः प्रचेताः ॥ ४ ॥
।। १-४ ॥
प्रचेतसः पुत्रः शतधर्मः बहुलानां म्लेछानामुदीच्यानामाधिपत्यमकरोत् ॥ ५ ॥
प्रचेतसः इति । द्र्ह्यवंश्यः प्रचेतसः पुत्रः म्लेच्छानामाधिपत्यमकरोत् ॥ ५ ॥
इति विष्णुमहापुराणे चतुर्थांशे सप्तदशोऽध्यायः १७
चतुर्थांशेऽष्टादशोऽध्यायः
श्रीपराशर उवाच
ययातेश्चतुर्थपुत्रस्यानोःसभानलचक्षुः परमेषुसंज्ञास्त्रयः पुत्राः बभूवुः ॥ १ ॥
सभानलपुत्रः कालानलः ॥ २ ॥
कालानलात्सृंजयः ॥ ३ ॥
सृंजयात्पुरञ्जयः ॥ ४ ॥
पुरञ्जयाज्जनमेजयः ॥ ५ ॥
तस्मान्महाशालः ॥ ६ ॥
तस्माच्च महामनाः ॥ ७ ॥
तस्मादुशीनरतितीक्षू द्वौ पुत्रावुत्पन्नौ ॥ ८ ॥
उशीनरस्यापि शिबिनृगनवकृमिवर्माख्याः पञ्च पुत्रा बभूवुः ॥ ९ ॥
पृषदर्भसुवीरकेकयमद्रकाश्चत्वारः शिबिपुत्राः ॥ १० ॥
तितीक्षोरपि रुशद्रथः पुत्रोऽभूत् ॥ ११ ॥
तस्यापि हेमः हेमस्यापि सुतपाः सुतपसश्च बलिः ॥ १२ ॥
॥ १-१२ ॥
यस्य क्षेत्रे दीर्घतमसांगवङ्गकलिङ्गसुह्यपौण्ड्राख्यं बालेयं क्षत्रमजन्यत ॥ १३ ॥
तन्नामसंततिसंज्ञाश्च पञ्चविषयाः बभूवुः ॥ १४ ॥
अङ्गादनपानस्ततो दिविरथस्तस्माद्धर्मरथः ॥ १५ ॥
ततश्चित्ररथः रोमपादसंज्ञः ॥ १६ ॥
यस्य दशरथो मित्रं जज्ञे ॥ १७ ॥
यस्याजपुत्रो दशरथः शान्तां नाम कन्यामनपत्यस्य दुहितृत्वे युयोज ॥ १८ ॥
रोमपादाच्चतुरङ्गः तस्मात्पृथुलाक्षः ॥ १९ ॥
ततश्चंपः यश्चंपां निवेशायामास ॥ २० ॥
चंपस्य हर्यङ्गो नामात्मजोऽभूत् ॥ २१ ॥
हर्यङ्गाद्भद्ररथः भद्ररथाद्बृहद्रथः बृहद्रथाद्बृहत्कर्मा बृहत्कर्मणश्च वृहद्भानुस्तस्माच्च बृहन्मनाः बृहन्मनसो जयद्रथः ॥ २२ ॥
यस्येति । बालेयं , बलेः क्षेत्रजम् ॥ १३-२२ ।।
जयद्रथो ब्रह्मक्षत्रान्तरालसंभूत्यां पत्न्यां विजयं नाम पुत्रमजीजनत् ॥ २३ ॥
विजयश्च धृतिं पुत्रमवाप ॥ २४ ॥
तस्यापि धृतव्रतः पुत्रोऽभूत् ॥ २५ ॥
धृतव्रतात्सत्यकर्मा ॥ २६ ॥
सत्यकर्मणस्त्वतिरथः ॥ २७ ॥
जयद्रथ इति ॥ ब्रह्मक्षत्रांतरालसंभूत्यां-प्रातिलोम्येन ब्रह्मक्षत्रसंकरजातायां पत्न्यां बिजयाख्यं पुत्रमजीजनम् । अतो विजयायाः सूताः ॥ २३-२७ ।।
यो गङ्गाङ्गतो मञ्जूषागतं पृथापविद्धं कर्णं पुत्रमवाप ॥ २८ ॥
कर्णाद्वृषसेनः इत्येतदन्ता अङ्गवंश्याः ॥ २९ ॥
अतश्च पुरुवंशं श्रोतुमर्हसि ॥ ३० ॥
य इति ॥ पृथापविद्धं– पृथया- कुन्त्या, अपविद्धं – परित्यक्तम् । मातापितृभ्यामुत्सृष्टं तयोरन्यन्तरेण
वा । यं पुत्रं प्रतिगृह्णीयादपविद्धः स उच्यते ॥ इति स्मृतेः ॥ २८-३० ॥
इति श्रीविष्णुमहापुराणे चतुर्थांशेऽष्टादशोऽध्यायः १८
चतुर्थांश एकोनविंशोऽध्यायः
श्रीपराशर उवाच
पूरोर्जनमेजयस्तस्यापि प्रचिन्वान् प्रचिन्वतः प्रवीरः प्रवीरान्मनस्युर्मनस्योश्चाभयदः तस्यापि सुद्युःसुद्योर्बहुगतः तस्यापि संयातिःसंयातेरहंयातिः ततो रौद्राश्वः ॥ १ ॥
ऋतेषुकक्षेषुस्थण्डिलेषुकृतेषुजलेषुधर्मेधृतेषुस्थलेषुसन्नतेषुवनेषुनामानो रौद्राश्वस्य दश पुत्रा बभूवुः ॥ २ ॥
ऋतेषोरन्तिनारः पुत्रोऽभूत् ॥ ३ ॥
सुमतिमप्रतिरथं ध्रुवं चाप्यन्तिनारः पुत्रानवाप ॥ ४ ॥
अप्रतिरषस्य कण्वः पुत्रोऽभूत् ॥ ५ ॥
तस्यापि मेधातिथिः ॥ ६ ॥
यतः कण्वायना द्विजा बभूवुः ॥ ७ ॥
अप्रतिरथस्यापरः पुत्रोऽभूदैलीनः ॥ ८ ॥
ऐलीनस्य दुष्यन्ताद्याश्चत्वारः पुत्रा बभूवुः ॥ ९ ॥
दुष्यन्ताच्चक्रवर्ती भरतोऽभूत् ॥ १० ॥
यन्नामहेतुर्देवैः श्लेको गीयते ॥ ११ ॥
॥ १-११ ॥
माता भस्त्रा पितुः पुत्रो येन जातः स एव सः ।
भरस्व पुत्रं दुष्यन्त मावमंस्थाः शकुन्तलाम् ॥ १२ ॥
मातेत्यादि ॥ भस्त्रा – चर्मधृतिः, तत्स्थानीया माता । धृतौ निक्षिप्तं द्रव्यं न धृतेः,किंतु निक्षेप्तुरेव । एवं जनपितुरेव पुत्रः, न मातुः । स एष सः – तद्बीजोपादानरूपत्वादेहस्य | अतः स्वपुत्रं
भरेति भरतनामनिरुक्तिः ॥ १२ ॥
रेतोधाः पुत्रं नयति नरदेव यमक्षयात् ।
त्वं चास्य धाता गर्भस्य सत्यमाह शकुन्तला ॥ १३ ॥
भरतस्य पत्नित्रये नव पुत्रा बभूवुः ॥ १४ ॥
नैते ममानुरूपा इत्यभिहितास्तन्मातरः परित्यागभयात् तत्पुत्राञ्जघ्नुः ॥ १५ ॥
रेतोधा इति ॥ पुरा बीजक्षेत्रिणोः पुत्रविषये विवादे यमसभायां पुत्रं, रेतोधा: गर्भस्याधातैव,मयति स्म खीचके, न तु क्षेत्री । अस्म च गर्भस्य त्वमाधाता; अतस्तवायं पुत्र इति सत्यमाह शकुन्तला ॥ १३-१५ ॥
ततोस्य वितथे पुत्रजन्मनि पुत्रार्थिनो मरुत्सोमयाजिनो दीर्घतमसः पार्ष्ण्यपास्तबृहस्पतिवीर्यादुतथ्यपत्न्यां ममतायां समुत्पन्नो भरद्वाजाख्यः पुत्रो मरुद्भिर्दत्तः ॥ १६ ॥
तस्यापि नामनिर्वचनश्लोकः पठ्यते ॥ १७ ॥
मूढे भर द्वाजमिमं भरद्वाजं बृहस्पते । यातौ यदुक्त्वा पितरौ भरद्वाजस्ततस्त्वयम् ।। इति ॥ १७ ॥
भरद्वाजःस तस्य वितथे पुत्रजन्मनि मरुद्भिर्दत्तः ततो वितथसंज्ञामवाप ॥ १९ ॥
वितथस्यापि मन्युः पुत्रोऽभवत् ॥ २० ॥
बृहत्क्षत्रमहावीर्यनगरगर्गा अभवन्मन्युपुत्राः ॥ २१ ॥
नगरस्य संकृतिःसंकृतेर्गुरुप्रीतिरन्तिदेवौ ॥ २२ ॥
गर्गाच्छिनिः ततश्च गार्ग्याः शैन्याः क्षत्रोपेता द्विजातयो बभूवः ॥ २३ ॥
महावीर्याच्च दुरुक्षयो नाम पुत्रोऽभवत् ॥ २४ ॥
तस्य त्रय्यारुणिः पुष्करिणः कपिश्च पुत्रत्रयमभूत् ॥ २५ ॥
तच्च पुत्रत्रितयमपि पश्चाद्विप्रतामुपजगाम् ॥ २६ ॥
बृहत्क्षत्रस्य सुहोत्रः ॥ २७ ॥
तत इति ॥ दीर्घतमस इति । बृहस्पतेरप्रजस्योतथ्यस्य पत्न्याः ममतारूपाया गर्ने उतथ्यनिषिक्ते दीर्घतमस्संज्ञे मुनौ तिष्ठत्येव बृहस्पतिश्च कामाभिभूतश्चौर्येण स्ववीर्यं न्यभिश्चत् । तद्गर्भस्येमौतथ्येम स्वपादपश्चात् भागेन मातुर्योनेर्निष्कासितं भुवि पतितम् । ततः स तु गर्भस्थ ओतथ्यो बृहस्पतिनाऽन्धो भवेति शप्तो दीर्घतमा
ने तु भुवि पतितबृहस्पतिर्वीयजं बालं वीक्ष्य तौ पितरौ ममताबृहस्पती द्वाभ्यामावाभ्यां जनितत्वात्-
जमिमं स्वंभर-श्रिभृहीत्यन्योन्यमुक्त्वा तं पुत्रं त्यक्त्वा यद्गतौ, अतो भरद्वाजारूपः सः ॥ १६–२७ ॥
सुहोत्रद्धस्ती, य इदं हस्तिनपुरमावासयामास ॥ २८ ॥
अजमीढद्विजमीढपुरुमीढास्त्रयो हस्तिनस्तनयाः ॥ २९ ॥
अजमीढात्कण्वः ॥ ३० ॥
कण्वान्मेधातिथिः ॥ ३१ ॥
यतः कण्वायना द्विजाः ॥ ३२ ॥
अजमीढस्यान्यः पुत्रो बृहदिषुः ॥ ३३ ॥
बृहदिषोर्बृहद्धनुर्बृहद्धनुषश्च बृहत्कर्मा ततश्च जयद्रथस्तस्मादपि विश्वजित् ॥ ३४ ॥
ततश्च सेनजित् ॥ ३५ ॥
रुचिराश्वकाश्यदृढहनुवत्सनुसंज्ञाःसेनजितः पुत्राः ॥ ३६ ॥
रुचिराश्वपुत्रः पृथुसेनः पृथुसेनात्पारः ॥ ३७ ॥
पारान्नीलः ॥ ३८ ॥
तस्यैकशतं पुत्राणाम् ॥ ३९ ॥
तेषां प्रधानः कांपिल्याधिपतिःसमरः ॥ ४० ॥
समरस्यापि पारसुपारसदश्वास्त्रयः पुत्राः ॥ ४१ ॥
सुपारात्पृथुः पृथोःसुकृतेर्विभ्राजः ॥ ४२ ॥
तस्माच्चाणुहः ॥ ४३ ॥
सुद्दोत्रादिति ॥ य इदं इस्तिनपुरम्, य इदं धर्मक्षेत्रम्, योऽयं सांप्रतमिति च निर्देशलिङ्गैः
रीक्षिद्राव्यकाले हस्तिनपुरासन्नकुरुक्षेत्रे तेनेदं पुराणमुक्तमिति गम्यते ॥ २८-४३ ।।
यः शुकदुहितरङ्कीर्ति नामोपयेमे ॥ ४४ ॥
अणुहाद्ब्रह्यदत्तः ॥ ४५ ॥
ततश्च विष्वक्सेनस्तस्मादुदक्सेनः ॥ ४६ ॥
भल्लाभस्तस्य चात्मजः ॥ ४७ ॥
द्विजमीढस्य तु यवीनरसंज्ञः पुत्रः ॥ ४८ ॥
तस्यापि धृतिमांस्तस्माच्च सत्यधृतिस्ततश्च दृढनेमिस्तस्माच्च सुपार्श्वस्ततःसुमतिस्ततश्च सन्नतिमान् ॥ ४९ ॥
सन्नतिमतः कृतः पुत्रोऽभूत् ॥ ५० ॥
यं हिरण्यनाभो योगमध्यापयामास ॥ ५१ ॥
य इति ॥ शुकदुहितरं व्यासपुत्रदुहितरम् । यथा हरिवंशे वायव्ये च पराशरकुलोतत्पन्नः शुको
राम महायशाः । न्यासादरण्यां संभूतो विधूमोऽग्निरिव ज्वलन् ॥ स तस्यां पितृकन्यायां पीवर्यं जनयिष्यति ।
ष्णं गौरं प्रभुं शम्भुं तथा भूरिश्रुतं जयम् ॥ कन्यां कीर्तिमती षष्ठी योगिनीं योगमातरम् ॥ ब्रह्मदत्तस्य जननी
ऋषीमहस्य च ॥ इति ॥ ४४-५१ ॥
यश्चतुर्विंशति प्राच्यसामागानां संहिताश्चकार ॥ ५२ ॥
कृताच्चोग्रायुधः ॥ ५३ ॥
येन प्राचुर्येण नीपक्षयः कृतः ॥ ५४ ॥
उग्रायुघात्क्षेम्यः क्षेम्यात्सुधीरस्तस्माद्रिपुञ्जयः तस्माच्च बहुरथ इत्येते पौरवाः ॥ ५५ ॥
अजमीढस्य नलिनी नाम पत्नी तस्यां नीलसंज्ञः पुत्रोऽभवत् ॥ ५६ ॥
तस्मादपि शान्तिः शान्तेःसुशान्तिःसुशान्तेः पुरञ्जयः तस्माच्च ऋक्षः ॥ ५७ ॥
ततश्च हर्यश्वः ॥ ५८ ॥
तस्मान्मुद्गलसृंजयबृहदिषुयवीनरकांपिल्यसंज्ञाः पञ्चानामैव तेषां विषयाणां रक्षणायालमेते मत्पुत्रा इति पित्राभिहिताः पाञ्चालाः ॥ ५९ ॥
मुद्गलाच्च मौद्गल्याः क्षत्रोपेता द्विजातयो बभूवुः ॥ ६० ॥
मुद्गलाद्धर्यश्वः ॥ ६१ ॥
हर्यश्वाद्दिवोदासोऽहल्या च मिथुनमभूत् ॥ ६२ ॥
य इति ॥ प्राध्यसामगानां चतुर्विंशतिसंहिताः यश्चकार ।। ५२-६२ ।।
शरद्वतश्चाहल्यायां शतानन्दोऽभवत् ॥ ६३ ॥
शतानन्दात्सत्यधृतिर्धनुर्वेदान्तगो जज्ञे ॥ ६४ ॥
सत्यधृतेर्वराप्सरसमुर्वशीं दृष्ट्वा रेतस्कन्नं शरस्तंबे पपात ॥ ६५ ॥
तच्च द्विधागतमपत्यद्वयं कुमारः कन्या चाभवत् ॥ ६६ ॥
तौ च मृगयामुपयातः शन्तनुर्दृष्ट्वा कृपया जग्राह ॥ ६७ ॥
ततः कुमारः कृपःकन्या चाश्वत्थाम्नो जननी कृपी द्रोणाचार्यस्य पत्न्यभवत् ॥ ६८ ॥
दिवोदासस्य पुत्रो मित्रायुः ॥ ६९ ॥
मित्रायोश्च्यवनो नाम राजा ॥ ७० ॥
च्यवनात्सुदासः सुदासात्सौदासः सौदासात्सहदेवस्तस्यापि सोमकः ॥ ७१ ॥
सोमकाज्जन्तुः पुत्रशतज्येष्ठोऽभवत् ॥ ७२ ॥
तेषां यवीयान् पृषतः पृषताद्द्रुपदस्तस्माच्च धृष्टद्युम्नस्ततोधृष्टकेतुः ॥ ७३ ॥
जमीढस्यान्यो ऋक्षनामा पुत्रोऽभवत् ॥ ७४ ॥
तस्य संवरणः ॥ ७५ ॥
संवरणात्कुरुः ॥ ७६ ॥
य इदं धर्मक्षेत्रं कुरुक्षेत्रं चकार ॥ ७७ ॥
सुधनुर्जह्नुपरीक्षित्प्रमुखाः कुरोः पुत्राः बभूवुः ॥ ७८ ॥
सुधनुषः पुत्रःसुहोत्रस्तस्माच्च्यवनः च्यवनात्कृतकः ॥ ७९ ॥
ततश्चोपरिचरो वसुः ।। ८० ॥
बृहद्रथप्रत्यग्रकुशांबकुचेलमात्स्यप्रमुखाः वसोः पुत्राःसप्ताजायन्त ॥ ८१ ॥
वृहद्रथात्कुशाग्रः कुशाग्राद्वृषभः वृषभात्पुष्पवान् तस्मात्सत्यहितः तस्मात्सुधन्वा तस्य च जतुः ॥ ८२ ॥
शरद्वत इति ॥ शरद्वान् — गौतमः, तस्मात् ॥ ६३-८२ ।।
बृंहद्रथाच्चान्यः शकलद्वयजन्मा जरया संधितो जरासंधनामा ॥ ८३ ॥
तस्मात्सहदेवःसहदेवात्सोमपस्ततश्च श्रुतिश्रवाः ॥ ८४ ॥
इत्येते मया मागधा भूपालाः कथिताः ॥ ८५ ॥
बृहद्रथादिति । जरया-राक्षस्या ॥ ८३-८५ ॥
इति श्रीविष्णुमहापुराणे चतुर्थांश एकोनविंशोऽध्यायः १९
चतुर्थांशे विंशोऽध्यायः
श्रीपराशर उवाच
परीक्षितश्च जनमेजयश्रुतसेनोग्रसेनभीमसेनाश्चात्वारः पुत्राः ॥ १ ॥
जह्नोस्तु सुरथोनामात्मजो बभूव ॥ २ ॥
तस्यापि विदूरथः ॥ ३ ॥
तस्मात्सार्वभोमःसार्वभौमाज्जयत्सेनस्तस्मादाराधितस्ततश्चायुतायुरयुतायोरक्रोधनः ॥ ४ ॥
तस्माद्देवातिथिः ॥ ५ ॥
ततश्च ऋक्षोऽन्योभवत् ॥ ६ ॥
ऋक्षाद्भीमसेनस्ततश्च दिलीपः ॥ ७ ॥
दिलीपात्प्रतीपः ॥ ८ ॥
तस्यापि देवापिशन्तनुबाह्लीकसंज्ञास्त्रयः पुत्रा बभूवुः ॥ ९ ॥
देवापिर्बाल एवारण्यं विवेश ॥ १० ॥
शन्तनुस्तु महीपालोऽभूत् ॥ ११ ॥
अयं च तस्य श्लोकः पृथिव्यां गीयते ॥ १२ ॥
यंयं कराभ्यां स्पृशति वीर्णं यौवनमेति सः ।
शान्तिं चाप्नोति येनाग्र्यां कर्मणा तेन शन्तनुः ॥ १३ ॥
तस्य च शन्तनो राष्ट्रे द्वादशवर्षाणि देवो न ववर्ष ॥ १४ ॥
ततश्चाशेषराष्ट्रविनाशमवेक्ष्यासौ राजा ब्राह्मणानपृच्छत्कस्मादस्माकं राष्ट्रे देवो न वर्षति को ममापराध इति ॥ १५ ॥
ततश्च तमूचुर्ब्राह्मणाः ॥ १६ ॥
अग्रजस्य ते हीयमवनिस्त्वया संभुज्यते अतः परिवेत्ता त्वमित्युक्तःस राजा पुनस्तानपृच्छत् ॥ १७ ॥
किं मयात्र विधेयमिति ॥ १८ ॥
ततस्ते पुनरप्यूचुः ॥ १९ ॥
यावद्देवापिर्न पतनादिभिर्देषैरभिभूयते तावदेतत्तस्यार्हं राज्यम् ॥ २० ॥
तदलमेतेन तु तस्मै दीयतामित्युक्ते तस्यं मन्त्रिप्रवरेणाश्मराविणा तत्रारण्ये तपस्विनो वेदवादविरोधवक्तारः प्रयुक्ताः ॥ २१ ॥
तैरस्याप्यतिऋजुमतेर्महीपतिपुत्रस्य बुद्धिर्वेदवादविरोधमार्गानुसारिण्यक्रियत ॥ २२ ॥
राजा च शन्तनुर्द्विजवचनोत्पन्नपरिदेवनशोकस्तान् ब्राह्मणानग्रतः कृत्वाग्रजस्य प्रदानायारण्यं जगाम ॥ २३ ॥
तदाश्रममुपगताश्च तमवनतमवनीपतिपुत्रं देवापिमुपतस्थुः ॥ २४ ॥
ते ब्राह्मणा वेदवादानुबन्धीनि वचांसि राज्यमग्रजेन कर्तव्यमित्यर्थवन्ति तमूचुः ॥ २५ ॥
परीक्षित इति ॥ परीक्षितः कुरुपुत्रात् ॥ १-२५ ।।
असावपि देवापिर्वेदवादविरोधयुक्तिदूषितमनेकप्रकारं तानाह ॥ २६ ॥
ततस्ते ब्राह्मणाः शन्तनुमूचुः ॥ २७ ॥
आगच्छ हे राजन्नलमत्रातिनिर्बधेन । प्रशान्त एवासावनावृष्टिदोषः । पतितोऽयमनादिकालमभिहितवेदवचनदूषणोच्चरणात् ॥ २८ ॥
पतिते चाग्रजे नैव ते परिवेतृत्वं भवतीत्युक्तः शन्तनुःस्वपुरमागम्य राज्यमकरोत् ॥ २९ ॥
वेदवादविरोधवचनोच्चारणदूषिते च तस्मिन्देवापौ तिष्ठत्यपि ज्येष्ठभ्रातर्यखिलसस्यनिष्पत्तये ववर्ष भगवान्पर्जन्यः ॥ ३० ॥
बाह्लीकात्सोमदत्तः पुत्रोऽभूत् ॥ ३१ ॥
सोमदत्तस्यापि भूरिभूरिश्रवशल्यसंज्ञास्त्रयः पुत्रा बभूवुः ॥ ३२ ॥
शन्तनोरप्यमरनद्यां जाह्नव्यामुदारकीर्तिरशेषशास्त्रर्थविद्भीष्मः पुत्रोऽभूत् ॥ ३३ ॥
सत्यवत्यां च चित्राङ्गदविचित्रवीर्यौ द्वौ पुत्रावुत्पादयामास शन्तनुः ॥ ३४ ॥
चित्राङ्गदस्तु बाल एव चित्राङ्गदेनैव गन्धर्वोणहवे निहतः ॥ ३५ ॥
विचित्रवीर्योऽपि काशीराजतनये अंबांवालिके उपयेमे ॥ ३६ ॥
तदुपभोगातिखेदाच्च यक्ष्मणा गृहीतः स पञ्चत्वमगमत् ॥ ३७ ॥
असाविति ॥ वेदवादविरोधयुक्तिभिः तेषां वचो यथा दूषितं भवति तथाऽनेकप्रकार तानाह।
देवापेस्तत्कालमेव पातित्यं योगसिद्धया आगामिकृतयुगे क्षत्रवंशकृत्वेन वक्ष्यमाणत्वात् । यद्देवापिः शंतनवे पुरोहितमिति मंत्रप्रस्तुतं तत्कल्पांतरविषयं नेतन्यम् ॥ २६-३७ ।।
सत्यवतीनियोगाच्च मत्पुत्रः कृष्णद्वैपायनो मातुर्वचनमनतिक्रमणीयमिति कृत्वा विचित्रवीर्यक्षेत्रे धृतराष्ट्रपाण्डु तत्प्रहितभुजिष्यायां विदुरं चोत्पादयामास ॥ ३८ ॥
धतराष्ट्रोऽपि गान्धार्यां दुर्योधनदुः शासनप्रधानं पुत्रशतमुत्पादयामास ॥ ३९ ॥
सत्यवतीति ॥ मुजिष्या-दासी, तस्याम् ॥ ३८-३९ ।।
पाण्ढोरप्यरण्ये मृगयायामृषिशापोपहतप्रजाजननसामर्थ्यस्य धर्मवायुशक्रैर्युधिष्ठिरभीमसेनार्जुनाः कुन्त्यां नकुलसहदेवौ चाश्विभ्यां माद्रयां पञ्चपुत्राःसमुत्पादिताः ॥ ४० ॥
तेषां च द्रौपद्यां पञ्चैव पुत्रा बभूवुः ॥ ४१ ॥
युधिष्ठिरात्प्रतिविन्ध्यः भीमसेनाच्छुतसेनः श्रुतकीर्तिरर्जुनाच्छुतानीको नकुलाच्छुतकर्मा सहदेवात् ॥ ४२ ॥
अन्ये च पाण्डवानामात्मजास्तद्यथा ॥ ४३ ॥
यौधेयी युधिष्छिराद्देवकं पुत्रमवाप ।। ४४ ॥
हिडिंबा घटोत्कचं भीमसेनात्पुत्रं लेभे ॥ ४५ ॥
काशी च भीमसेनादेव सर्वगं सुतमवाप ॥ ४६ ॥
सहदेवाच्च विजयी कुहोत्रं पुत्रमवाप ॥ ४७ ॥
रेणुमत्यां च नकुलोऽपि निरमित्रमजीजनत् ॥ ४८ ॥
अर्जुनस्याप्युलूप्यां नागकन्यायामिरावान्नाम पुत्रोऽभवत् ॥ ४९ ॥
पांडोरिति ॥ पूर्वं यदुवंशशूरदुहितृकुंतीप्रसंगात् पांडवजन्मोक्तम् इदानीं पुरुवंश्यशंतनुपुत्रसंततिप्राप्तत्वात् पुनर्विस्तृत्त्योक्तम् । महत्वादर्जुनसंतानोंऽन्ते प्रोक्तः ॥ ४०–४९ ॥
मणीपुरपतिपुत्र्यां पुत्रिकाधर्मेण बभ्रुवाहनं नाम पुत्रमर्जुनोऽजनयत् ॥ ५० ॥
सुभद्रायां चार्भकत्वेऽपि योऽसावतिबलपराक्रमःसमस्तारातिरथजेता सोऽभिमन्युरजायत ॥ ५१ ॥
अभिमन्योरुत्तरायां परिक्षीणेषु कुरुष्वश्वत्थामप्रयुक्तब्रह्मस्त्रेण गर्भ एव भस्मीकृतो भगवतः सकलसुरासुरवन्दितचरणयुगलस्यात्मेच्छया कारणमानुषरूपधारीणोऽनुभावात्पुनर्जीवितमवाप्य परीक्षिज्जज्ञे ॥ ५२ ॥
मणिपुरपतीति ॥ पुत्रिकाधर्मेण अस्यां यो जायते पुत्रस्स मे पुत्रो भविष्यति इति परिभाषितदानेन ॥ ५०-५२ ॥
योऽयं सांप्रतमेतद्भूमण्डलमखण्डितायति धर्मेण पालयतीति ॥ ५३ ॥
य इति ॥ आयतिः – धनागमः ॥ ५३ ।।
इति श्रीविष्णुमहापुराणे चतुर्थांशे विंशोऽध्यायः २०
चतुर्थांश एवविंशोऽध्यायः
श्रीपराशर उवाच
अतः परं भविष्यानहं भूपालान्कीर्तयिष्यामि ॥ १ ॥
योऽयं सांप्रतमवनीपतिः परीक्षित्तस्यापि जनमेजयश्रुतसेनोग्रसेनभीमसेनाश्चत्वारः पुत्रा भविष्यन्ति ॥ २ ॥
जनमेजयस्यापि शतानीको भविष्यति ॥ ३ ॥
॥ १-३ ॥
योऽसौ याज्ञवल्क्याद्वेदमधीत्य कृपादस्त्राण्यवाप्य विषमविषयविरक्तचित्तवृत्तिश्च शौनकोपदेशादात्मज्ञानप्रवीणः परं निर्वाणमवाप्स्यति ॥ ४ ॥
शतानीकादश्वमेधदत्तो भविता ॥ ५ ॥
तस्मादप्यचधिसीमकृष्णः ॥ ६ ॥
अधिसीमकृष्णान्निचक्नुः ॥ ७ ॥
यो गङ्गयाऽपहृते हस्तिनपुरे कौशांब्यां निवत्स्यति ॥ ८ ॥
तस्याप्युष्णः पुत्रो भविता ॥ ९ ॥
उष्णाद्विचित्ररथः ॥ १० ॥
ततः शुचिरथः ॥ ११ ॥
तस्माद्वृष्णिमांस्ततःसुषेणस्तस्यापि सुनीथःसुनीथान्नृपचक्षुस्तस्मादपि सुखिबलस्तस्य च पारिप्लवस्ततश्च सुनयस्तस्यापि मेधावी ॥ १२ ॥
मेधाविनो रिपुञ्जयस्ततोर्वस्तस्माच्च तिग्मस्तस्माद्बृहद्रथः बृहद्रथाद्वसुदासः ॥ १३ ॥
ततोऽपरः शतनीकः ॥ १४ ॥
तस्माच्चोदयन उदयनाद्विहीनरस्ततश्च दण्डपाणिस्ततो निमित्तः ॥ १५ ॥
तस्माच्च क्षेमकः ॥ १६ ॥
अत्रायं श्लोकः ॥ १७ ॥
योऽसाविति ॥ शौनकोपदेशः –विष्णुधर्मोक्तभक्तिज्ञानयोगविधिः ॥ ४-१७ ॥
ब्रह्मक्षत्रस्य यो योनिर्वंशो देवर्षिसत्कृतः ।
क्षेमकं प्राप्य राजानं संस्थानं प्राप्यते कलौ ।। इति ॥ १८ ॥
ब्रह्मक्षत्रस्येति ॥ संस्थानं – समाप्तिम् ॥ १८ ॥
इति श्रीविष्णुमहापुराणे चतुर्थांश एकविंशोऽध्यायः २१
चतुर्थांशे द्वाविंशोऽध्यायः
श्रीपराशर उवाच
अतश्चेक्ष्वाकवो भविष्याः पार्थिवाः कथ्यन्ते ॥ १ ॥
॥ १ ॥
बृहद्बलस्य पुत्रो बृहत्क्षणः ॥ २ ॥
तस्मादुरुक्षयस्तस्माच्च वत्सव्यूहस्ततश्च प्रतिव्योमस्तस्मादपि दिवारकः ॥ ३ ॥
तस्मात्सहदेवः सहदेवाद्बृहदश्वस्तत्सूनुर्भानुरथस्तस्य चज प्रतीताश्वस्तस्यापि सुप्रतीकस्ततश्च मरुदेवस्ततः सुनक्षत्रस्तमात्किन्नरः ॥ ४ ॥
किन्नरादन्तरिक्षस्तस्मात्सुपर्णस्ततश्चामित्रजित् ॥ ५ ॥
ततश्च बृहद्भाजस्तस्यापि धर्मी धर्मीणः कृतञ्जयः ॥ ६ ॥
कृतञ्जयाद्रणञ्जयः ॥ ७ ॥
रणञ्जयात्संजयस्तस्माच्छाक्यश्छाक्याच्छुद्धोदनस्तस्माद्राहुलस्ततः प्रसेनजित् ॥ ८ ॥
ततश्च क्षुद्रकस्ततश्च कुण्डकस्तस्मादपि सुरथः ॥ ९ ॥
तत्पुत्रश्च सुमित्रः ॥ १० ॥
इत्येते चेक्ष्वाकवो बृहद्बलान्वयाः ॥ ११ ॥
अत्रानुवंशश्लोकः ॥ १२ ॥
इक्ष्वाकूणामयं वंशःसुमित्रान्तो भविष्यति ।
यतस्तं प्राप्य राजानं संस्थां प्राप्स्यति वै कलौ ॥ १३ ॥
बृहद्वलस्येति ॥ बृहद्वलोऽभिमन्युहत इति चतुर्थाध्यायान्त उक्तः ॥ २-१३ ॥
इति श्रीमहाविष्णुपुराणे चतुर्थांशे द्वाविंशोऽध्यायः २२
चतुर्थांशे त्रयोविंशोऽध्यायः
श्रीपराशर उवाच
मागधानां बार्हद्रथानां भाविनामनुक्रमं कथयिष्यामि ॥ १ ॥
अत्र हि वंशे महाबलपराक्रमा जरांसंधप्रधाना बभूवुः ॥ २ ॥
जरासंधस्य पुत्रः सहदेवः ॥ ३ ॥
सहदेवात्सोमापिस्तस्यानुश्रुतश्रवास्तस्याप्ययुतायुस्ततश्च निरमित्रस्तत्तनयःसुनेत्रस्तस्मादपि बृहत्कर्मा ॥ ४ ॥
ततश्च सेनजित्ततश्च श्रुतञ्जयस्ततो विप्रस्तस्य च पुत्रः शुचिनामा भविष्यति ॥ ५ ॥
तस्यापि क्षेम्यस्ततश्च सुव्रतःसुव्रताद्धर्मस्ततःसुश्रवा ॥ ६ ॥
ततो दृढसेनः ॥ ७ ॥
तस्मात्सुबलः ॥ ८ ॥
सुबलात्सुनीतो भविता ॥ ९ ॥
ततःसत्यजित् ॥ १० ॥
तस्माद्विश्वजित् ॥ ११ ॥
तस्यापि रिपुञ्जयः ॥ १२ ॥
॥ १-१२ ॥
इत्येते बार्हद्रथा भूपतयो वर्षसहस्रमेकं भविष्यन्ति ॥ १३ ॥
इतीति ॥ तेषां वर्षसंख्या तु कलौ स्वल्पायुष्यसूचनेन विरक्त्यर्था ॥ १३ ॥
इति श्रीविष्णुमहापुराणे चतुर्थांशे त्रयोविंशोऽध्यायः २३
चतुर्थांशे चतुर्विंशोध्यायः
श्रीपराशर उवाच
योऽयं रिपुञ्जयो नाम बार्हद्रथोऽन्त्यः तस्यामात्यो मुनिको नाम भविष्यति ॥ १ ॥
स चैनं स्वामिनं हत्वा स्वपुत्रं प्रद्योतनामानमभिषेक्ष्यति ॥ २ ॥
तस्यापि बलाकनामा पुत्रो भविता ॥ ३ ॥
ततश्च विशाखयूपः ॥ ४ ॥
तत्पुत्रो जनकः ॥ ५ ॥
तस्य च नन्दिवर्धनः ॥ ६ ॥
ततो नन्दी ॥ ७ ॥
इत्येतेऽष्टित्रिंशदुत्तरमष्टशतं पञ्च प्रद्योताः पृथिवीं भोक्ष्यन्ति ।। ८ ॥
ततश्च शिशुनाभः ॥ ९ ॥
तत्पुत्रः काकवर्णो भविता ॥ १० ॥
तस्य च पुत्रः क्षेमधर्मा ॥ ११ ॥
तस्यापि क्षतौजाः ॥ १२ ॥
तत्पुत्रो विधिसारः ॥ १३ ॥
ततश्चाजातशत्रुः ॥ १४ ॥
तस्मादर्भकः ॥ १५ ॥
तस्माच्चोदयनः ॥ १६ ॥
तस्मादपिनन्दिवर्धनः ॥ १७ ॥
ततो महानन्दी ॥ १८ ॥
इत्येते शैशुनाभा भूपालास्त्रीणि वर्षशतानि द्विषष्ट्यधिकानि भविष्यन्ति ॥ १९ ॥
महानन्दिनस्ततः शूद्रगर्भोद्भवोऽतिलुब्धोऽतिबलो महापद्मनामा नन्दः परशुराम इवारपोऽखिलक्षत्रान्तकरी भविष्यति ॥ २० ॥
ततः प्रभृति शुद्रा भूपाला भविष्यन्ति ॥ २१ ॥
स चैकच्छत्रामनुल्लङ्घितशासनो महापद्मः पृथिवीं भोक्ष्यते ॥ २२ ॥
तस्याप्यष्टौ सुताःसुमाल्याद्य भवितारः ॥ २३ ।।
तस्य महापद्मस्यानु पृथिवीं भोक्ष्यन्ति ॥ २४ ॥
महापद्मपुत्राश्चकं वर्षशतमवनीपतयो भविष्यन्ति ॥ २५ ॥
॥ १-२५ ॥
ततश्च नव चैतान्नन्दान् कौटिल्यो ब्राह्मणःसमुद्धरिष्यति ॥ २६ ॥
तेषामभावे मौर्व्याः पृथिवीं भोक्ष्यन्ति ॥ २७ ॥
ततश्चति ॥ कौटिल्य: वात्स्यायनविष्णुमित्रगुप्तादिपर्यायश्चाणक्यः । समुद्ररिष्यति-उन्मूलयिष्यति ॥ २६,२७ ॥
कौटिल्य एव चन्द्रगुप्तमुत्पन्नं राज्येऽभिषेक्ष्यति ॥ २८ ॥
तस्यापि पुत्रो बिन्दुसारो भविष्यति ॥ २९ ॥
तस्याप्यशोकवर्धनस्ततःसुयशास्ततश्च दशरथस्ततश्च संयुतस्ततः शलिशूकस्तस्मात्सोमशर्मा तस्यापि सोमशर्मणः शतधन्वा ॥ ३० ॥
तस्यानुबृहद्रथनामा भविता ॥ ३१ ॥
एवमेते मौर्या दश भूप तयो भविष्यन्ति अब्दशतं सप्तत्रिंशदुत्तरम् ॥ ३२ ॥
तेषामन्ते पृथिवीं दश शुङ्गा भोक्ष्यन्ति ॥ ३३ ॥
पुष्यमित्रःसेनापतिःस्वामिनं हत्वा राज्यं करिष्यति तस्यात्मजोऽग्निमित्रः ॥ ३४ ॥
तस्मात्सुज्योष्ठस्ततो वसुमित्रस्तस्मादप्युदङ्कस्ततः पुलिन्दकस्ततो घोषवसुस्तस्मादपि बज्रमित्रस्ततो भागवतः ॥ ३५ ॥
तस्माद्देवभूतिः ॥ ३६ ॥
इत्येते शुङ्गा द्वादशोत्तरं वर्षशतं पृथिवीं भोक्ष्यन्ति ॥ ३७ ॥
ततः कण्वानेषाभूर्यास्यति ॥ ३८ ॥
देवभूतिं तु शुङ्गराजानं व्यसनिनं तस्यैवामात्यः कण्वो वसुदेवनामा तं निहत्य स्वयमवनीं भोक्ष्यति ॥ ३९ ॥
तस्य पुत्रो भूमित्रस्तस्यापि नारायणः ॥ ४० ॥
नारायणात्मजःसुशर्मा ॥ ४१ ॥
एते काण्वायनाश्चत्वारः पञ्चचत्वारिंशद्वर्षाणि भूपतयो भविष्यन्ति ॥ ४२ ॥
सुशर्माणं तु काण्वं तद्भूत्यो बलिपुच्छकनामा हत्वान्द्रजातीयो वसुधां भोक्ष्यति ॥ ४३ ॥
ततश्च कृष्णनामा तद्भ्राता पृथिवीपतिर्भविष्यति ॥ ४४ ॥
तस्यापि पुत्रः शान्तकर्णिस्तस्यापि पूर्णोत्संगस्तत्पुत्रः शतकर्णिस्तस्माच्च लम्बोदरस्तस्माच्च पिलकस्ततो मेघस्वातिस्ततः पटुमान् ॥ ४५ ॥
ततश्चारिष्टकर्मा ततो हालाहलः ॥ ४६ ॥
हालाहलात्पललकस्ततः पुलिन्दसेनस्ततः सुंदरस्ततःसातकर्णिस्ततः शिवस्वातिस्ततश्च गोमतिपुत्रस्तत्पुत्रोऽलिमान् ॥ ४७ ॥
तस्यापि शान्तकर्णिस्ततः शिविश्रितस्तश्च शिवस्कन्धस्तस्मादपि यज्ञश्रीस्ततो द्वियज्ञस्तस्माच्चन्द्रश्रीः ॥ ४८ ॥
तस्मात्पुलोमापिः ॥ ४९ ॥
कौटिल्य इति || चंद्रगुप्तं-नन्दस्यैत्र शूद्रायां मुरायां जातं मौर्याणां प्रथमम् ॥ २८-४९ ।।
एवमेवे त्रिंशच्चत्वार्यब्दशतानि षट्पञ्चाशदधिकानि पृथिवीं भोक्ष्यन्ति ॥ ५० ॥
आन्ध्रभृत्यास्तप्ताभीरप्रभृतयो दशगर्दभिनश्च भूभुजो भविष्यन्ति ॥ ५१ ॥
ततःषोडश भूपतयो भवितारः ॥ ५२ ॥
एवमिति ॥ एवमेते त्रिंशत्, आन्ध्रा इति शेषः ॥ ५०–५२ ॥
ततश्चाष्टौ यवनाश्चतुर्दश तुरुष्का मुण्डाश्च त्रयोदश एकादश मौना एते वै पृथुवीपतयः पृथिवीदशर्षशतानि नवत्यधिकानि भोक्ष्यन्ति ॥ ५३ ॥
ततश्च मौना एकादश भूपतयोऽब्दशतानि त्रीणि पृथिवीं भोभ्यन्ति ॥ ५४ ॥
ततश्चेति ॥ एते आभीराधा अष्टषष्टिर्नृपाः पृथिवी नवत्यधिकानि त्रयोदशवर्षशतानि भोक्ष्यन्ति ।। ५३ ५४ ॥
तेषूत्सन्नेषु कैंकिला यवना भूपतयो भविष्यन्त्यमूर्धाभिषिक्ताः ॥ ५५ ॥
तेष्विति ॥ भूपतयः – अमूर्द्धाभिषिक्ताः ॥ ५५ ॥
तेषामपत्यं विन्ध्यशक्तिस्ततः पुंरजयस्तस्माद्रामचन्द्रस्तस्मार्मवर्मा ततो वङ्गस्ततोभून्नन्दनस्ततःसुनन्दी तद्भ्राता नन्दीयशाः शुक्रः प्रवीर एते वर्षशतं षड्वर्षाणि भूपतयो विष्यन्ति ॥ ५६ ॥
ततस्तत्पुत्रास्त्रयोदशैते बाह्लिकाश्च त्रयः ॥ ५७ ॥
ततः पुष्पमित्राः पटुमित्रास्त्रयोदशैकलाश्च सप्तान्ध्राः ॥ ५८ ॥
तेषामिति ॥ तेषां वंश्यो विंध्यशक्तिः ॥ ५६-५८ ॥
ततश्च कोसलायां तु नव चैव भूपतयो भविष्यन्ति ॥ ५९ ॥
नैषधास्तु त एव ॥ ६० ॥
ततश्चेति ॥ कोसलायाम्-अयोध्यायाम् ॥ ५९, ६० ॥
मगधायां तु विश्वस्फटिक संज्ञोऽन्यान्वर्णान्करिष्यति ॥ ६१ ॥
कैवर्तबटुपुलिन्दब्राह्मणान्राज्ये स्थापयिष्यति ॥ ६२ ॥
उत्साद्याखिलक्षत्रजातिं नव नागाः पद्मवत्यां नाम पुर्यामनुगङ्गाप्रयागं गयाद्गुप्तांश्च मागधा भोक्ष्यन्ति ॥ ६३ ॥
कोशलान्ध्रपुण्ड्रताम्रलिप्तसमतटपुरीं च देवरक्षितो रक्षिता ॥ ६४ ॥
कलिङ्गमाहिषमहेन्द्रभौमान् गुहा भोक्ष्यन्ति ॥ ६५ ॥
नैषधनैमिषककालकोशकाञ्जनपदान्मणिधान्यकवंशा भोक्ष्यन्ति ॥ ६६ ॥
त्रैराज्यमुषिकजनपदान्कनकाह्वयो भोक्ष्यति ॥ ६७ ॥
सौराष्ट्रावन्त्यशुद्राभीरान्नर्मदामरुभूविषयांश्च व्रात्यद्विजाभीरशूद्राद्या भोक्ष्यन्ति ॥ ६८ ॥
मागधायामिति ॥ मागधायां पुर्यां विश्वस्फाटिकः क्षत्रमुन्मूल्य कैवर्तादीन् राज्ये स्थापयिष्यति ।। ६१-६८ ।।
सिंधुतटदाविकोर्वीचन्द्र भागाकाश्मीरविषयांश्च व्रात्यम्लेच्छशूद्रादयो भोक्ष्यन्ति ॥ ६९ ॥
एते च तुल्यकालाःसर्वे पृथिव्यां भूभुजो भविष्यन्ति ॥ ७० ॥
सिध्विति ॥ दाविको देविकातटभवो देशः ॥ ६९, ७० ॥
अल्पप्रसादा बृहत्कोपाःसार्वकाल मनृताधर्मरुचयः स्त्रीबालगोवधकर्तारः परस्वादानरुचयोऽल्पसारास्तमिस्त्रप्राया उदितास्तमितप्राया अल्पायुषो महेच्छा ह्यल्पधर्मा लुब्धाश्च भविष्यन्ति ॥ ७१ ॥
अल्पप्रसादा इति ॥ उदितास्तमितप्रायाः क्षणिककल्पाः ॥ ७१ ।।
तैश्च विमिश्रा नजपदास्तच्छीलानुवर्तिनो राजाश्रयशुष्मिणो म्लेच्छाचाराश्च विपर्ययेण वर्तमानाः प्रजाः क्षपयिष्यन्ति ॥ ७२ ॥
तैश्चेति ॥ राजाश्रयशुष्मिणः – राजाश्रयेणैव शुष्मिणः –बलिनः, न तु धर्मेण ॥ ७२ ॥
ततश्चानुदिनमल्पाल्पह्रासव्यवच्छेदाद्धर्मार्थयोर्जगतःसंक्षयो भविष्यति ॥ ७३ ॥
ततश्चार्थ एवाभिजनहेतुः ॥ ७४ ॥
बलमेवाशेषधर्महेतुः ॥ ७५ ॥
अभिरुचिरेव दांपत्यसंबन्धहेतुः ॥ ७६ ॥
स्त्रीत्वमेवोपभोगहेतुः ॥ ७७ ॥
अनृतमेव व्यवहारजयहेतुः ॥ ७८ ॥
तैश्चेति ॥ अल्पाल्पेत्यादि । धर्मार्थयोरल्पाल्पह्वासरूपेण क्षयाज्जगतो युगपन्नाशः ॥ ७३-७८ ।।
उन्नतांबुतैव पृथिवीहेतु ॥ ७९ ॥
ब्रह्मसूत्रमेव विप्रत्वहेतुः ॥ ८० ॥
रत्नधातुतैव श्लाघ्यताहेतुः ॥ ८१ ॥
लिङ्गधाराणमेवाश्रमहेतुः ॥ ८२ ॥
अन्याय एव वृत्तिहेतुः ॥ ८३ ॥
दौर्बल्यमेवावृत्तिहेतुः ॥ ८४ ॥
अभयप्रगल्भोच्चारणमेव पाण्डित्यहेतुः ॥ ८५ ॥
अनाढ्यतैव साधुत्वहेतुः ॥ ८६ ॥
स्त्रानमेव प्रसाधनहेतुः ॥ ८७ ॥
उन्नतांबुतेति ॥ उन्नतांबुता-उन्नतस्थले सुलभसुभगजलवत्वं, पृथ्वीहेतुः पृथ्वीस्वीकारे हेतुः न तु
पुण्यभूमित्वम् । उन्नताम्म्रतेतिपाठे प्रभूतचूतादिद्रुमवत्वम् ।। ७९-८७ ।।
दानमेव धर्महेतुः ॥ ८८ ॥
स्वीकरणमेव विवाहहेतुः ॥ ८९ ॥
सद्वेषधार्येव पात्रम् ॥ ९० ॥
दूरायतननोदकमेव तीर्थहेतुः ॥ ९१ ॥
कपटवेषधारणमेव महत्त्वहेतुः ॥ ९२ ॥
इत्येवमनेकदोषोत्तरे तु भूमण्डले सर्ववर्णेष्वेव योयो बलवान्स स भूपतिर्भविष्यति ॥ ९३ ॥
एवं चातिलुब्धकराजासहाः शोलानामन्तरद्रोणीः प्रजाःसंश्रयिष्यन्ति ॥ ९४ ॥
मधुशाकमूलफलपत्रपुष्पाद्याहाराश्च भविष्यन्ति ॥ ९५ ॥
तरुवल्कलपर्णचीरप्रावरणाश्चातिबहुप्रजाः शीतवातातपवर्षसहाश्च भविष्यन्ति ॥ ९६ ॥
न च कश्चित्त्रयोविंशतिवर्षाणि जीविष्यति । अनवरतं चात्र कलियुगे भयमायात्यखिल एवैष जनः ॥ ९७ ॥
दानमेवेति ॥ दानमेव धर्महेतुः, न तु यागादि: ।। ८८-९७ ।।
श्रौतस्मार्ते च धर्मे विप्लवमत्यन्तमुपगते क्षीणप्राये च कलावशेषजगत्स्त्रष्टुश्चराचरगुरोरादिमध्यान्तरहितस्य ब्रह्ममयस्यात्मरूपिणो भगवतो वासुदेवस्यांशः शंबलग्रामप्रधानब्राह्मणस्य विष्णुयशसो गहेऽष्टगुणर्धिसमन्वितः कल्किरूपी जगत्यत्रावतीर्य सकलम्लेच्छदस्युदुष्टाचरणचेतसामशेषाणामपरिच्छिन्नशक्तिमाहात्म्यः क्षयं करिष्यति, स्वधर्मेषु चा खिलमेव संस्थापयिष्यति ॥ ९८ ॥
अनन्तरं चाशेषकलेरवसाने निशावसाने विबुद्धानामिव तेषामेव जनपदानाममलस्फटिकदलशुद्धा मतयो भविष्यन्ति ॥ ९९ ॥
तेषां च बीजभूतानामशेषमनुष्याणां परिणतानामपि तत्कालकृतापत्यप्रसूतिर्भविष्यति ॥ १०० ॥
तानि च तदपत्यानि कृतयुगानुसारीण्येव भविष्यन्ति ॥ १०१ ॥
श्रौतस्मार्ते चेति ॥ अष्टगुणाः – अणिमाद्याः । अणिमा लघिमा प्राप्तिः प्राकाम्येशित्ववश्यताः । अत्रकामाबसायित्वं महिमेति गुणाष्टकम् ॥ ९८-१०१ ।।
अत्रोच्यते-
यथा चन्द्रश्च सूर्यश्च तथा तिष्ये बृहस्पतिः ।
एकराशौ समेष्यन्ति तदा भवति वै कृतम् ॥ १०२ ॥
यदा चन्द्रश्चेति ॥ चन्द्रादिग्रहणं सर्वग्रहोपलक्षणार्थम् । चतुर्युगान्ते सर्वेचा प्रहाणां मीनान्तस्थितेः ।
सर्वग्रहयोगे हि युगम् । यद्वा एषां ग्रहाणां चतुर्णामेव योगे कृतं तदर्थ खलु ग्रहबाहुल्यमित्यर्थः, चन्द्रार्कजीवज्ञ
सिताः कुजार्की च यथाक्रमम् । सत्वं रजस्तमोपि इति गोचारोक्तेः । तथा तिष्ये बृहस्पतिरिति पाठेऽप्यमिवार्थः । प्रतिद्वादशान्दं गुरो कर्कटस्थे कर्कटकमासे अमावास्यायां बहुवारं योगस्यास्य संभवात्, तथाऽप्येक राशौ समेष्यन्तीति सहप्रवेशोक्तेर्नातिप्रसङ्गदोषः ॥ १०२ ॥
अतीता वर्तमानाश्च तथैवानागताश्च ये ।
एते वंशेषु भूपालाः कथिता मुनिसत्तम ॥ १०३ ॥
राजवंशं निगमयति अतीता इति ॥ १०३ ॥
यावत्परीक्षितो जन्म यावन्नन्दाभिषेचनम् ।
एतद्वर्षसहस्रं तु ज्ञेयं पञ्चाशदुत्तरम् ॥ १०४ ॥
यावदिति ॥ पंचशतोत्तरं वर्षसहस्रम् । पाठान्तरे परीक्षि समकालं मागधं सोममारम्य रिपुंजयान्त
मागधानां सहस्राब्दत्वस्योक्तत्वात् अनन्तरं प्रयोतशिशुनागानां पंचशताब्दत्वस्योक्तत्वात् सार्द्धसाहस्रस्योक्तस्य
व्याख्यातं वायूक्तेऽपि परीक्षिन्नन्दान्तरं सार्धसहस्रमेवेत्युक्तम् । अत एव प्रयास्यन्ति यदेत्यादिश्लोकस्यायमर्थः
नन्दात्प्रभूत्येव प्रसरति कलौ काले, यदैते पूर्वाषाढां प्रयास्यन्ति तदा कले:-अधर्मस्य वृद्धिः पूर्वोक्तकृतशब्दस्य धर्मपरत्ववत् लक्षणया नन्दान्तं क्षत्रियकुलमिति वचनात् इहापि शूद्राद्याधिपत्योक्तेश्च । अतः पापस्यैत्र वृद्धिः न तु नियतमानस्य कलेः । अतः कलौ नन्दोत्तरकालीनेषु पूर्वापदापर्यायेषु स्थिता महर्षयः पापवृद्धये जगत इति नक्षत्रऋषिचारफलोक्तिरेषा, न तु कालावच्छेदोक्तिः ॥ १०४ ।।
सप्तर्षीणां तु यौ पूर्वौ दृश्येते ह्युदितौ दिवि ।
तयोस्तु मध्ये नक्षत्रं दृश्यते यत्समं निशि ॥ १०५ ॥
तेन सप्तर्षयो युक्तास्तिष्ठन्त्यब्दशतं नृणाम् ।
ते तु पारीक्षिते काले मघास्वासन्द्विजोत्तम ॥ १०६ ॥
तदा प्रवृत्तश्च कलिर्द्वादशाब्दशतात्मकः ॥ १०७ ॥
यदैव भगवान्विष्णोरंशो यातो दिवं द्विज ।
वसुदेवकुलोद्भूतस्तदैवात्रागतः कलिः ॥ १०८ ॥
यावत्सपादपद्माभ्यां पस्पर्शेमां वसुंधराम् ।
तावत्पुथ्वीपरिष्वङ्गे समर्थो नाभवत्कलिः ॥ १०९ ॥
गते सनातनस्यांशे विष्णोस्तत्र भुवो दिवम् ।
तत्याज सानुजो राज्यं धर्म पुत्रो युधिष्ठिरः ॥ ११० ॥
विपरीतानि दृष्ट्वा च निमित्तानि हि पाण्डवः ।
याते कृष्णे चकाराथ सोऽभिषेकं परीक्षितः ॥ १११ ॥
प्रयास्यन्ति यदा चैते पूर्वाषाढां महर्षयः ।
तदा नन्दात्प्रभृत्येष गतिवृद्धिं गमिष्यति ॥ ११२ ॥
सप्तर्षाणां त्विति ॥ शकटाकारतारासप्तकं मुनिमण्डलं प्रागग्रे तत्र मण्डले ईषास्थानीयः प्राच्यां मरीचिः, तत: पश्चान्नन्नस्रयुगंधराकारो वसिष्ठः सभार्यः, ततः पश्चादीषदुन्नत ईषामूच्स्थनीयोऽङ्गिराः, तदासन
पश्चिमचतुष्कस्य ऐशान्ये अत्रिः, अत्रेर्याम्य: पुलस्त्यः, पुलस्त्यात्पथिमः पुलस्त्य, तदुदीच्यचतुष्कवायव्ये क्रतुः,
वसिष्ठाद्याम्या सूक्ष्मतारा अरुंधती तत्र मण्डले; उक्तं च पूर्वभागे मरीचिर्भगवान् अपरभागे स्थितो बसिष्ठोऽस्मा-
त्परतोऽङ्गिराः ततोऽत्रिस्तस्यासन्नः पुलस्त्यः पुलहः ऋतुर्भागवानासन्नानुक्रमेण पूर्वाधास्तारा वसिष्ठमुनिवरमुपाश्रिता अरुंधती साध्वी स्थितेति । एवं स्थिते यौ पूर्वौ-उदये प्रथमं दृश्यौ पुलस्त्यक संज्ञौ मुनी शकटस्य पाश्चात्यौ तथाऽपि पूर्वमुदितो दृश्येते, मध्ये-गगनमध्ये, तयोः – ताभ्यां सम-समदक्षिणोत्तररेखायां, यदश्चिन्याद्यन्यतमं नक्षत्रमार्जवेनावतिष्ठते, तेन-नक्षत्रेण ते युक्ताः शताब्दं तिष्ठन्ति । तेशं प्रत्यक्षं शताब्दस्थित्युक्तिः कलिगताब्दज्ञानोद्देशार्था ॥ १०५-११२ ।।
यस्मिन् कृष्णो दिवं यातस्तस्मिन्नेव तदाऽहनि ।
प्रतिपन्नं कलियुगं तस्य संख्यां निबोध मे ॥ ११३ ॥
यस्मिन् कृष्ण इति ॥ यस्मिन् श्रीकृष्णः दिवं जगाम, तस्मिन्नहति-तत्क्षण एव कलियुगं प्रतिपन्नम् ॥११३||
त्रीणि लक्षाणि वर्षाणां द्विज मानुष्यसंख्यया ।
षष्टिश्चैव सहस्राणि भविष्यत्येष वै कलिः ॥ ११४ ॥
शतानि तानि दिव्यानां सप्त पञ्च च संख्यया ।
निःशेषेण गते तस्मिन्भविष्यति पुनः कृतम् ॥ ११५ ॥
ब्राह्मणाः क्षित्त्रिया वैश्याः शुद्राश्च द्विजसत्तम ।
युगेयुगे महात्मानः समतीताःसहस्रशः ॥ ११६ ॥
भगवद्ध्यानकालत्वेन कले: प्रस्तावात् तत्संख्या प्रथमांशोकाऽपीहानूयते त्रीणि लक्षाणीति ॥ अत्र
पादिविवर्जिता कलिसंख्योका परीक्षिकाले कलिसन्ध्यादित्वात् । शतानि तानीत्यत्र तु दिव्यद्वादशान्दशतमिति
पादिसहिता संख्योक्ता ॥ ११४-११६ ॥
बहुत्वान्नामधेयानां परिसंख्या कुलेकुले ।
पौनरुक्त्याद्धि साम्याच्च न मया परिकीर्तिता ॥ ११७ ॥
देवापिः पोरवो राजा पुरुश्चेक्ष्वाकुवंशजः ।
महायोगबलोपेतौ कलापग्रामसंश्रितौ ॥ ११८ ॥
कृते युगे त्विहागम्य क्षत्रप्रावर्तकौ हि तौ ।
भविष्यतो मनोर्वशबीजभूतौ व्यवस्थितौ ॥ ११९ ॥
बहुत्वादिति ॥ प्रतिकुलं नाम्नामानन्त्यपौनरुत्तक्ताभ्यां परिसंख्या – परितः संख्या नोक्ता ॥
११७-११९ ॥
एतेन क्रमयोगेन मनुपुत्रौर्वसुंधरा ।
कृतत्रेताद्वापराणि युगानि त्रीणि भुज्यते ॥ १२० ॥
कलौ ते बीजभूतास्तु केचित्तिष्ठन्ति वै मुने ।
यथैव देवापिपुरू सांप्रतं समधिष्ठितौ ॥ १२१ ॥
एष तूद्देशतो वंशस्तवोक्तो भूभुजां मया ।
निखिलो गदितुं शक्यो नैष वर्षशतैरपि ॥ १२२ ॥
एते चान्ये च भूपाला यैरत्र क्षितिमण्डले ।
कृतं ममत्वं मोहान्धैर्नित्यं हेयकलेवरे ॥ १२३ ॥
कथं ममेयमचला मत्पुत्रस्य कथं मही ।
मद्वंशस्येति चिन्तार्ता जग्मुरन्तमिमे नृपाः ॥ १२४ ॥
तेभ्यः पूर्वतराश्चान्ये तेभ्यस्तेभ्यस्तथा परे ।
भविष्याश्चैव यास्यन्ति तेषामन्ये च येऽप्यनु ॥ १२५ ॥
विलोक्यात्मजयोद्योगं यात्राव्यग्रान्नराधिपान् ।
पुष्पप्रहासैः शरदि हसंतीव वसुंधरा ॥ १२६ ॥
मैत्रेय पृथिवीगीताञ्छ्लोकांश्चात्र निबोध मे ।
यानाह धर्मध्वजिने नजकायासितो मुनिः ॥ १२७ ॥
पृथिव्युवाच
कथमेष नरेद्राणां मोहो बुद्धिमतामपि ।
येन केन सधर्माणोप्यतिविश्वस्तचेतसः ॥ १२८ ॥
पूर्वमात्मजयं कृत्वा जेतुमिच्छन्ति मन्त्रिणः ।
ततो भृत्यांश्च पौरांश्च जिगीषन्ते तथा रिपून् ॥ १२९ ॥
क्रमेणानेन जेष्यामो वयं पृथ्वीं ससागराम् ।
इत्यासक्तधियो मृत्युं न पश्यन्त्यविद्वरगम् ॥ १३० ॥
एतेनेति ॥ कृतत्रेताद्वापराणि इति युगत्रयं मुक्तिवचनं कलेरल्पक्षत्रवत् ॥ १२०-१३० ।।
समुद्रावरणं याति भूमण्डलमथो वशम् ।
कियदात्मजयस्यैतन्मुक्तिरात्मजयेफलम् ॥ १३१ ॥
राज्यमुक्त्योरिन्द्रियजयसाध्यत्वे किं मुक्तिं हित्वा अल्पेन राज्येनेत्याह-समुद्रेति ॥ १३१
उत्सृज्य पूर्वजा याता यां नादाय गतः पिता ।
तां मामतीव मूढत्वाज्जेतुमिच्छन्ति पार्थिवाः ॥ १३२ ॥
मत्कृते पितृ पुत्राणां भ्रातॄणां चापि विग्रहः ।
जायतेऽत्यन्तमोहेन ममत्वादृतचेतसाम् ॥ १३३ ॥
उत्सृज्येति ॥ यां भुवम् उत्सृज्य-नादायैव, पितामहाद्या याताः पिता च गतः ॥ १३२,१३३ ॥
पृथ्वी ममेयं सकला ममैषा मदन्वयस्यापि च शाश्वतीयम् ।
योयो मृतो ह्यत्र बभूव राजा कुबुद्धिरा सीदितितस्यतस्य ॥ १३४ ॥
पृथ्वीति ॥ पृथ्वी ममेयमिति भिन्नवक्तृवाक्यभङ्ग्यः । तत्र भूरेषा ममेत्येकः । इयं ममेव्यन्यः। अपरो
ममेयं शाश्वतीति वदन्नेव योयो राजा मृतो लोकान्तरे जातः, तस्य तस्यापि इह प्राङ्मरणादियं भूर्ममेति बुद्धि रासीत् । मृतेऽन्यत्रेति पाठे, अन्यत्र-प्राचीने राज्ञि मृते अथान्यो यो बभूव राजा तस्याप्येवं दुर्बुद्धिरासीत् ॥ १३४ ॥
दृष्ट्वा ममत्वादृतचित्तमेकं विहाय मां मृत्युवशं व्रजन्तम् ।
तस्यानु यस्तस्य कथं ममत्वं हृद्यास्पदं मत्प्रभवं करोति ॥ १३५ ॥
दृष्वेत्यादि ॥ तस्यानु य: पर: मां त्यक्त्वा मृतं दृट्टा यस्ततः परो नृपस्स्यात् तस्य हृदि मत्प्रभवं-
भूविषयं ममत्वं कथमास्पदं करोति ॥ १३५ ॥
पृथ्वी ममैषाऽशु परित्यजैनां वदन्ति ये दूतमुखैः स्वशत्रून् ।
नराधिपास्तेषु ममातिहासः पुनश्च मूढेषु दयाऽभ्युपैति ॥ १३६ ॥
श्रीपराशर उवाच
इत्येते धरणीगीतः श्लोका मैत्रेय यैःश्रुताः ।
ममत्वं विलयं याति तपत्यर्के यथा हिमम् ॥ १३७ ॥
इत्येष कथितः सम्यङ्मनोर्वशो मया तव ।
यत्र स्थितिप्रवृत्तस्य विष्णोरंशांशका नृपाः ॥ १३८ ॥
शृणोति य इमं भक्त्या मनोर्वशमनुक्रमात् ।
तस्य पापमशेषं वै प्रणश्यत्यमलात्मनः ॥ १३९ ॥
धनधान्यर्धिमतुलां प्राप्नोत्यव्याहतेन्द्रियः ।
श्रुत्वैवमखिलं वंशं प्रशस्तं शशीसूर्ययोः ॥ १४० ॥
पृथ्वीति । इत्येवं ममत्वकारिषु ममातिहासो भवति, दया चाभ्युपैति; मामिति शेष: । दयामुपैमीति
वा पाठः ।। १३६-१४० ॥
इक्ष्वाकुजह्नुमान्धातृसगराविक्षितान्रघून् ।
ययातिनहुषाद्यांश्च ज्ञात्वा निष्ठामुपागतान् ॥ १४१ ॥
महाबलान्महावीर्याननन्तधनसंचयान् ।
कृतान्कालेन बलिना कथाशेषान्नराधिपान् ॥ १४२ ॥
श्रुत्वा न पुत्रदारादौ गृहक्षेत्रादिके तथा ।
द्रव्यादौ वा कृतप्रज्ञो ममत्वं कुरुते नरः ॥ १४३ ॥
तप्तं तपो यैः पुरुषप्रवीरैरुद्वाहुभिर्वर्षगणाननेकान् ।
इष्ट्वा सुयज्ञैर्बलिनोऽतिवीर्याः कृता नु कालेन कथावशेषाः ॥ १४४ ॥
पृथुःसमस्तान्विचचार लोकानव्याहतो यो विजितारिचक्रः ।
स कालवाताभिहतः प्रणष्टः क्षिप्तं यथा शाल्मलितूलमग्नौ ॥ १४५ ॥
इक्ष्वाकिति ॥ निष्ठाम-नाशम् ॥ १४१–१४५ ॥
यः कार्तवीर्यो बुभुजे समस्तान्द्वीपान्समाक्रम्यहतारिचक्रः ।
कथाप्रसंगेष्वभिधीयमानःस एव संकल्पविकल्पहेतुः ॥ १४६ ॥
य इति ॥ संकल्पविकल्पहेतुः – संकल्पस्य-मनसः विकल्पः-संशयः, तस्य हेतुः, किमेवंविधः
कश्चिदासीन्न वेति संशयस्य निमित्तम् ॥ १४६ ॥
दशाननाविक्षतराघवाणामैश्वर्यमुद्भासितदिङ्मुखानाम् ।
भस्मापि शिष्टं न कथं क्षणेन भ्रूभङ्गपातेन धिगन्तकस्य ॥ १४७ ॥
दशाननेति ॥ भस्मापि कथं न जातं कथं न तिष्ठति । यद्वा तेषामैश्वर्य निश्शेषदग्धत्वात् मस्मास्थमपि न जातम् । इदं कथमित्याश्चर्ये ॥ १४७ ॥
कथाशरीरत्वमवाप यद्वै मान्धातृनामा भुवि चक्रवर्ती ।
श्रुत्वापि तत्कोहि करोति साधुर्ममत्वमान्मन्यपि मन्दचेताः ॥ १४८ ॥
भगीरथाद्याःसगरं ककुत्स्थो दशननो राघवलक्ष्मणौ च ।
युधिष्ठिराद्याश्च बभूवुरेते सत्यं न मिथ्या क्व नु ते न विद्मः ॥ १४९ ॥
कथाशरीरत्वमिति ॥ आत्मनि–अहंत्वाश्रये देहेऽपि, किमुत ममत्वास्पदे पुत्रकलत्रक्षेत्रादौ ।।
१४८-१४९ ॥
ये सांप्रतं ये च नृपा भविष्याः प्रोक्ता मया विप्रवरोग्रवीर्याः ।
एते तथान्ये च तथाभिधेयाः सर्वे भविष्यन्ति यथैव पूर्वे ॥ १५० ॥
पूर्वे अघिपा इव वर्त्तमाना भविष्याश्च नष्टा भविष्यन्ति इत्यभिवेयाः ॥ १५० ॥
एत द्विदित्वा न नरेण कार्यं ममत्वमात्मन्यपि पण्डितेन ।
तिष्ठन्तु तावत्तनयात्मजायाः क्षेत्रादयो ये च शरीरिणोऽन्ये ॥ १५१ ॥
उक्तमये संक्षिपन्नाह एतद्विदित्वेति ॥ १५१ ॥
इति श्रीविष्णुमाहपुराणे चतुर्थांशे चतुर्विंशोध्यायः २४
श्रीविष्णुमाहपुराणे चतुथांशः समाप्तः
इति श्रीविष्णुमहापुराणे विष्णुचित्त्यात्मप्रकाशाख्य श्रीधरीयव्याख्याद्वयोपेते चतुर्थोशः समाप्तः ।